१४

[चतुर्दशोऽध्यायः]

भागसूचना

दितिका गर्भधारण

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

निशम्य कौषारविणोपवर्णितां
हरेः कथां कारणसूकरात्मनः।
पुनः स पप्रच्छ तमुद्यताञ्जलि-
र्न चातितृप्तो विदुरो धृतव्रतः॥

मूलम्

निशम्य कौषारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः।
पुनः स पप्रच्छ तमुद्यताञ्जलिर्न चातितृप्तो विदुरो धृतव्रतः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! प्रयोजनवश सूकर बने श्रीहरिकी कथाको मैत्रेयजीके मुखसे सुनकर भी भक्तिव्रतधारी विदुरजीकी पूर्ण तृप्ति न हुई; अतः उन्होंने हाथ जोड़कर फिर पूछा॥ १॥

वीरराघवः

एवं सङ्ग्रहेण श्रुत-वराह-चरितो विदुरः पुनस् तच्-चरित्रान्तर्-भूत-हिरण्याक्ष-वध-वृत्तान्तं विस्तर-बुभुत्सया पृच्छतीत्य् आह भगवान् शुकः । निशम्येति । कौषारविणा मैत्रेयेण उपवर्णितां कारण-सूकरात्मनो हरेः कथां निशम्य श्रुत्वा धृतं व्रतं भगवत्-कथा-शुश्रूषा-रूपं येन स अत एव न चातितृप्तः संक्षेपतः तत्-कथा-श्रवणेन तृप्तिम् अलभमानः समुद्धृतः हस्त-द्वयम् एकी-कृत्य उद्धृतः अञ्जलिः “अञ्जलिः परमा मुद्रा क्षिप्रं देव-प्रसादिनी” इत्य्-उक्त-विधो येन सः विदुरः पप्रच्छ पृष्टवान् ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना।
आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम॥

मूलम्

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना।
आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम॥ २ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—मुनिवर! हमने यह बात आपके मुखसे अभी सुनी है कि आदिदैत्य हिरण्याक्षको भगवान् यज्ञमूर्तिने ही मारा था॥ २ ॥

वीरराघवः

प्रश्न-प्रकारम् एवाह । द्वाभ्याम् तेनेति । श्रुतोपजीवनेन प्रश्नावतार-द्योतनाय उक्तम् अनुवदन् पृच्छति विदुरः तेनेति । हे मुनि-श्रेष्ठ ! मैत्रेय येन भूमिर् उद्धृता तेनैव यज्ञ-शरीरेण हरिणा आदि-वराहेण आदि-दैत्यो दैत्यानां प्रथमः वराह-कल्पस्थापेक्षया प्राथम्यम् अत्र विवक्षितं हिरण्याक्षः हतः आदि-वराहेण निहत इत्य् अनुशुश्रुम श्रुतवन्तो वयम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया।
दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृधः॥

मूलम्

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया।
दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृधः॥ ३ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! जिस समय भगवान् लीलासे ही अपनी दाढ़ोंपर रखकर पृथ्वीको जलमेंसे निकाल रहे थे, उस समय उनसे दैत्यराज हिरण्याक्षकी मुठभेड़ किस कारण हुई?॥ ३॥

वीरराघवः

प्रष्टव्यं पृच्छति । तस्येति । स्व-दंष्ट्राग्रेण क्षोणीं भूमिं लीलया उद्धरतस् तस्यादि-वराहस्य हिरण्याक्षस्य च मृधः युद्धं कस्माद् धेतोर् अभूत् तद्-युद्ध-निमित्तम् इत्य् अर्थः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

साधु वीर त्वया पृष्टमवतारकथां हरेः।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्॥

मूलम्

साधु वीर त्वया पृष्टमवतारकथां हरेः।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्॥ ४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! तुम्हारा प्रश्न बड़ा ही सुन्दर है; क्योंकि तुम श्रीहरिकी अवतारकथाके विषयमें ही पूछ रहे हो, जो मनुष्योंके मृत्युपाशका छेदन करनेवाली है॥ ४॥

वीरराघवः

एवम् आपृष्टो मैत्रेयः सविस्तरं तत्-कथां प्रास्तोष्यन् तावत् प्रश्नम् अभिनन्दति । साध्व् इति द्वाभ्याम् । हे वीर ! त्वया साधु पृष्टं तत् कुतः मर्त्त्यानां मरण-शीलानां मृत्यु-पाशं विशातयतीति मृत्यु-पाश-विशातनी तां हरेर् अवतार-कथां त्वं पृच्छसि ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः।
मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम्॥

मूलम्

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः।
मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम्॥ ५ ॥

अनुवाद (हिन्दी)

देखो, उत्तानपादका पुत्र ध्रुव बालकपनमें श्रीनारदजीकी सुनायी हुई हरिकथाके प्रभावसे ही मृत्युके सिरपर पैर रखकर भगवान‍्के परमपदपर आरूढ़ हो गया था॥ ५॥

वीरराघवः

अथ मुनिना नारदेन यया भगवत्-कथया उत्तान-पदः पुत्रो ऽर्भकः ध्रुवः मृत्योर् मूर्ध्नि अङ्घ्रिं कृत्वा पादं विन्यस्य हरेः पदं स्थानं प्रति ध्रुव-गतिम् आरुरोहारूढवान् । ईदृश-भगवत्-कथा-प्रश्नः साधिष्ठ इत्य्-अभिप्रायः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा।
ब्रह्मणा देवदेवेन देवानामनुपृच्छताम्॥

मूलम्

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा।
ब्रह्मणा देवदेवेन देवानामनुपृच्छताम्॥ ६ ॥

अनुवाद (हिन्दी)

पूर्वकालमें एक बार इसी वाराहभगवान् और हिरण्याक्षके युद्धके विषयमें देवताओंके प्रश्न करनेपर देवदेव श्रीब्रह्माजीने उन्हें यह इतिहास सुनाया था और उसीके परम्परासे मैंने सुना है॥ ६॥

वीरराघवः

एवं प्रश्नम् अभिनन्द्य हिरण्याक्षस्य वृत्तान्तं वक्ष्यन् वृत्तान्तस्य साम्प्रदायिकत्वम् आह । अथ ननु हे विदुर ! अत्रापि त्वया पृष्टे ऽर्थे ऽपि अयम् इतिहासः मे मया श्रुतः कुत इत्य् अपेक्षायाम् आह । देवानाम् अपि देवेन ब्रह्मणा चतुर्मुखेनानुपृच्छतां देवानां पुरा पूर्व-काले वर्णितः । स एव परम्परया मया श्रुत इत्य् अर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम्।
अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता॥

मूलम्

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम्।
अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता॥ ७ ॥

अनुवाद (हिन्दी)

विदुरजी! एक बार दक्षकी पुत्री दितिने पुत्रप्राप्तिकी इच्छासे कामातुर होकर सायंकालके समय ही अपने पति मरीचिनन्दन कश्यपजीसे प्रार्थना की॥ ७॥

वीरराघवः

तम् एव इतिहासं प्रस्तोष्यन् तद्-उपोद्घात-रूपम् इतिहासं प्रस्तौति दितिर् इत्य् आदिना । दक्षस्यापत्यं स्त्री दाक्षायणी दितिः दिति-नाम्ना हे क्षत्तः! मारीचं मरीचेः पुत्रं कश्यपं पतिम् भर्तारं स्वयम् अपत्यं कामयमाना हृच्छयः कामः तेन पीडिता अत एव सन्ध्यायां चकमे कामितवतीत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम्।
निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम्॥

मूलम्

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम्।
निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम्॥ ८ ॥

अनुवाद (हिन्दी)

उस समय कश्यपजी खीरकी आहुतियोंद्वारा अग्निजिह्व भगवान् यज्ञपतिकी आराधना कर सूर्यास्तका समय जान अग्निशालामें ध्यानस्थ होकर बैठे थे॥ ८॥

वीरराघवः

कथम्-भूतं चकमे इत्य् अत्राह । हुत्वेति । यजुषां यज्ञानां पतिं पुरुषं परम-पुरुषम् अग्नि-जिह्वम् अग्नि-शरीरकं हुत्वा ऽर्के सूर्ये निम्लोचति सत्य् अस्तं गच्छति सति अग्न्यागारे ऽग्नि-होत्र-शालायाम् आसीनम् उपविष्टं समाहित-चित्ते च ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

दितिरु1वाच

विश्वास-प्रस्तुतिः

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः।
दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः॥

मूलम्

एष मां त्वत्कृते विद्व2न् काम आत्तशरासनः।
दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः॥ ९ ॥

अनुवाद (हिन्दी)

दितिने कहा—विद्वन्! मतवाला हाथी जैसे केलेके वृक्षको मसल डालता है, उसी प्रकार यह प्रसिद्ध धनुर्धर कामदेव मुझ अबलापर जोर जताकर आपके लिये मुझे बेचैन कर रहा है॥ ९॥

वीरराघवः

तद्-उक्तिम् एवाह । एष इत्यादिना ऽथ मे कुर्व् इत्य् अन्तेन । हे विद्वन् ! कश्यप ! आत्तम् उपात्तं शरासनं धनुर् येन स एषः कामः त्वत्-कृते त्वद्-अर्थं त्वया सह सङ्गत्य्-अर्थं दीनां कृपणां मा विक्रम्य दुनोति परितापयति पीडयति वा । अत्र दृष्टान्तः रम्भां कदलीं मतङ्गजो गज इवेति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तद‍्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः।
प्रजावतीनां भद्रं ते मय्यायुङ्‍क्तामनुग्रहम्॥

मूलम्

तद‍्भवान्दह्यमानायां सपत्नीनां समृद्धिभिः।
प्रजावतीनां भद्रं ते मय्यायुङ्‍क्तामनुग्रहम्॥ १० ॥

अनुवाद (हिन्दी)

अपनी पुत्रवती सौतोंकी सुख-समृद्धिको देखकर मैं ईर्ष्याकी आगसे जली जाती हूँ। अतः आप मुझपर कृपा कीजिये, आपका कल्याण हो॥ १०॥

वीरराघवः

तत् तस्मात् प्रजावतीनां सपत्नीनां समृद्धिभिः दह्यमानायां मयि भवान् अनुग्रहम् आयुङ्क्तां कुर्यात् ते तुभ्यं भद्रं मङ्गलम् अस्तु ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

भर्तर्याप्तोरुमानानां लोकानाविशते यशः।
पतिर्भवद्विधो यासां प्रजया ननु जायते॥

मूलम्

भर्तर्याप्तोरुमानानां लोकानाविशते यशः।
पतिर्भवद्विधो यासां प्रजया ननु जायते॥ ११ ॥

अनुवाद (हिन्दी)

जिनके गर्भसे आप-जैसा पति पुत्ररूपसे उत्पन्न होता है, वे ही स्त्रियाँ अपने पतियोंसे सम्मानिता समझी जाती हैं। उनका सुयश संसारमें सर्वत्र फैल जाता है॥ ११॥

वीरराघवः

भर्तरि भर्तुः सकाशाद् विभक्ति-व्यत्यय आर्षः आप्तोरुमानानां प्राप्त-बहु-मानानां स्त्रीणां यशः लोकान् प्रत्याविशते लोकेषु विस्तृतं भवति इत्य् अर्थः । कीदृशं तद् उरुमानम् इत्य् अपेक्षायां तद् विशदयति । भवद्-विधः भवादृशः पतिर् भर्ता यासां मादृश-स्त्रीणां प्रजया प्रजा-रूपेणानुजायते हि-शब्दः “तज्-जाया जाया भवति यद् अस्यां जायते पुनः” इति श्रुति-प्रसिद्धिं द्योतयति । इदम् एव तद्-बहुमानं यत् स्व-भार्यायां पतिः प्रजा-रूपेण जायते इति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

पुरा पिता नो भगवान‍् दक्षो दुहितृवत्सलः।
कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्॥

मूलम्

पुरा पिता नो भगवान‍् दक्षो दुहितृवत्सलः।
कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक्॥ १२ ॥

अनुवाद (हिन्दी)

हमारे पिता प्रजापति दक्षका अपनी पुत्रियोंपर बड़ा स्नेह था। एक बार उन्होंने हम सबको अलग-अलग बुलाकर पूछा कि ‘तुम किसे अपना पति बनाना चाहती हो?’॥ १२॥

वीरराघवः

किञ् च पुरा पूर्व-काले नो ऽस्माकं पिता दुहितृ-वत्सलः पुत्रीषु वात्सल्यवान् दक्षः अस्मान् प्रति पृथक् प्रत्येकं हे वत्से ! कं वरं वृणीतेत्य् अपृच्छत् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

स विदित्वाऽऽत्मजानां नो भावं सन्तानभावनः।
त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः॥

मूलम्

स विदित्वाऽऽत्मजानां नो भावं सन्तानभावनः।
त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः॥ १३ ॥

अनुवाद (हिन्दी)

वे अपनी सन्तानकी सब प्रकारकी चिन्ता रखते थे। अतः हमारा भाव जानकर उन्होंने उनमेंसे हम तेरह पुत्रियोंको, जो आपके गुण-स्वभावके अनुरूप थीं, आपके साथ ब्याह दिया॥ १३॥

वीरराघवः

स सन्तानं भावयति वर्द्धयतीति । सन्तान-भावनो दक्षः आत्मजानां दुहितॄणां नः भावं साभिप्रायं विदित्वा ज्ञात्वा तासाम् आत्मजानां मध्ये यास् ते तव शीलं स्वभावम् अनुव्रताः ता अस्मान् त्रयोदश अददात् । त्रयोदशानाम् अप्य् अस्माकं त्वयि भाव-साम्ये सति वैषम्याचरणम् अनुचितम् इत्य्-अभिप्रायः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अथ मे कुरु कल्याण कामं कञ्जविलोचन।
आर्तोपसर्पणं भूमन्नमोघं हि महीयसि॥

मूलम्

अथ मे कुरु कल्याण कामं कञ्जविलोचन।
आर्तोपसर्पणं भूमन्नमोघं हि3 महीयसि॥ १४ ॥

अनुवाद (हिन्दी)

अतः मंगलमूर्ते! कमलनयन! आप मेरी इच्छा पूर्ण कीजिये; क्योंकि हे महत्तम! आप-जैसे महापुरुषोंके पास दीनजनोंका आना निष्फल नहीं होता॥ १४॥

वीरराघवः

अथ ततः हे कश्यप ! हे कल्याण ! मङ्गल-रूप ! मे मम कामम् अभिलषितं कुरु हे कञ्ज-विलोचन ! हे भूमन् महत्तम महीयसि महत्तरे पुरुषे आर्तानाम् उपसर्पणम् अनुच्छन्दनं मोघं न भवति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

इति तां वीर मारीचः कृपणां बहुभाषिणीम्।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम्॥

मूलम्

इति तां वीर मारीचः कृपणां बहुभाषिणीम्।
प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम्॥ १५ ॥

अनुवाद (हिन्दी)

विदुरजी! दिति कामदेवके वेगसे अत्यन्त बेचैन और बेबस हो रही थी। उसने इसी प्रकार बहुत-सी बातें बनाते हुए दीन होकर कश्यपजीसे प्रार्थना की, तब उन्होंने उसे सुमधुर वाणीसे समझाते हुए कहा॥ १५॥

वीरराघवः

एवम् उक्तः कश्यपः किम् आहेत्य् अत्राह । इतीति । इत्य्-उक्त-रीत्या बहु-भाषिणीं कृपणां दितिं प्रति वीर-मारीचः जितेन्द्रियः कश्यपः प्रवृद्धो ऽनङ्गः कामस् तेन कश्मलो यस्यास् तां वाचा ऽनुनयन् सान्त्वयन् प्रत्याह प्रत्युवाच ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि।
तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः॥

मूलम्

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि।
तस्याः4 कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः॥ १६ ॥

अनुवाद (हिन्दी)

‘भीरु! तुम्हारी इच्छाके अनुसार मैं अभी-अभी तुम्हारा प्रिय अवश्य करूँगा। भला, जिसके द्वारा अर्थ, धर्म और काम—तीनोंकी सिद्धि होती है, अपनी ऐसी पत्नीकी कामना कौन पूर्ण नहीं करेगा?॥ १६॥

वीरराघवः

उक्तिम् एवाह एष ते इत्यादिना ब्रह्मादयो यत्-कृत-सेतुपाला इत्य्-अन्तेन । अत्र सन्ध्या-कालापेक्षाया भार्यां प्रशंसति । एष त इति पञ्चभिः । हे भीरु ! यद् इच्छसि तत् प्रियं प्रीतिविषयं ते तुभ्यम् अहं विधास्यामि करिष्यामि तस्याः तादृशाया भार्यायाः कामम् अभिलषितं को न कुर्यात् सर्वो ऽपि कुर्याद् एवेत्य् अर्थः । कीदृशी चासौ यस्याः कामं सर्वः कुर्याद् इत्य् अत्राह । सिद्धिर् इति । यतः यस्याः पत्न्याः सकाशात् त्रैवर्गिकी धर्मार्थ-काम-रूपा सिद्धिः फलं भवेद् इत्य् अर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्।
व्यसनार्णवमत्येति जलयानैर्यथार्णवम्॥

मूलम्

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्।
व्यसनार्णवमत्येति जलयानैर्यथार्णवम्॥ १७ ॥

अनुवाद (हिन्दी)

जिस प्रकार जहाजपर चढ़कर मनुष्य महासागरको पार कर लेता है, उसी प्रकार गृहस्थाश्रमी दूसरे आश्रमोंको आश्रय देता हुआ अपने आश्रमद्वारा स्वयं भी दुःखसमुद्रके पार हो जाता है॥ १७॥

वीरराघवः

परंपरया तुरीय-पुरुषार्थो ऽपि भार्यातः सिद्ध्यतीत्य् आह । कलत्रवान् भार्यावान् पुरुषः स्वाश्रमेण सर्वाश्रमान् इतरान् त्रीन् आश्रमान् उपादायोपकृत्य सर्वाश्रमोपकारको गृहस्थाश्रम इति भावः । व्यसनम् इन्द्रियाणां विषय-प्रावण्य-रूपं दुःखम् एवार्णवस् तम् अत्येति तरति । तत्र दृष्टान्तः जल-यानैर् नौभिर् अर्णवं समुद्रं यथेति इन्द्रिय-जयादि-द्वारा तुरीय-पुरुषार्थ-साधन-भूता तरीर् इत्य् अर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि।
यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः॥

मूलम्

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि।
यस्यां स्वधुरमध्य5स्य पुमांश्चरति विज्वरः॥ १८ ॥

अनुवाद (हिन्दी)

मानिनि! स्त्रीको तो त्रिविध पुरुषार्थकी कामनावाले पुरुषका आधा अंग कहा गया है। उसपर अपनी गृहस्थीका भार डालकर पुरुष निश्चिन्त होकर विचरता है॥ १८॥

वीरराघवः

याम् इति । श्रेयस्-कामस्य स्वर्गापवर्गाख्य-श्रेयस्-कामस्यात्मनो ऽर्धम् इत्य् अनेन स्वर्गापवर्ग-साधनेषु द्वयोः सहाधिकारित्वं सूच्यते यच्-शब्दानां तां त्वाम् इति तृतीय-श्लोक-स्थ-तच्-शब्देनान्वयः । यस्यां पत्न्यां स्वस्य धुरं दृष्टादृष्ट-कर्म-भरम् अध्यस्य निक्षिप्य विज्वरः निश्चिन्तः पुमान् चरति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः।
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा॥

मूलम्

यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमैः।
वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा॥ १९ ॥

अनुवाद (हिन्दी)

इन्द्रियरूप शत्रु अन्य आश्रमवालोंके लिये अत्यन्त दुर्जय हैं; किन्तु जिस प्रकार किलेका स्वामी सुगमतासे ही लूटनेवाले शत्रुओंको अपने अधीन कर लेता है, उसी प्रकार हम अपनी विवाहिता पत्नीका आश्रय लेकर इन इन्द्रियरूप शत्रुओंको सहजमें ही जीत लेते हैं॥ १९॥

वीरराघवः

यां पत्नीम् आश्रित्येतराश्रमैर् ब्रह्मचर्याद्याश्रमैर् दुर्जयान् जेतुम् अशक्यान् इन्द्रियाण्य् एवारातयः शत्रवस् तान् हेलाभिर् लीलाभिर् वयं जयेम तत्र दृष्टान्तः दुर्ग-पतिर् दस्यून् दुष्ट-जीवान् चोरादीन् यथेति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि।
अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः॥

मूलम्

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि।
अप्यायुषा वा6 कार्त्स्न्येन ये चान्ये गुण7गृध्नवः॥ २० ॥

अनुवाद (हिन्दी)

गृहेश्वरि! तुम-जैसी भार्याके उपकारोंका बदला तो हम अथवा और कोई भी गुणग्राही पुरुष अपनी सारी उम्रमें अथवा जन्मान्तरमें भी पूर्णरूपसे नहीं चुका सकते॥ २०॥

वीरराघवः

ताम् उक्त-विधोपकर्त्रीं त्वां कार्त्स्न्येनानुकर्तुं प्रत्युपकर्तुं हे गृहेश्वरि ! पुरुषायुषापि वयं न प्रभवः न समर्थाः एवम् अन्ये ऽपि गुण-गृध्नवः गुण-काङ्क्षिणः गुण-दर्शिन इति यावत् ते ऽपि पूर्णेनाप्य् आयुषा वा-शब्दाज् जन्मान्तरैर् अपि न प्रभव इत्य् उक्तम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अथापि काममेतं ते प्रजात्यै करवाण्यलम्।
यथा मां नातिवोचन्ति मुहूर्तं प्रतिपालय॥

मूलम्

अथापि काम8मेतं ते प्रजात्यै करवाण्यलम्।
यथा मां9 नातिवोचन्ति मुहूर्तं प्रतिपालय॥ २१ ॥

अनुवाद (हिन्दी)

तो भी तुम्हारी इस सन्तान-प्राप्तिकी इच्छाको मैं यथाशक्ति अवश्य पूर्ण करूँगा। परन्तु अभी तुम एक मुहूर्त ठहरो, जिससे लोग मेरी निन्दा न करें॥ २१॥

वीरराघवः

अथापि त्वद्-उपासनानुरूपेण उपकर्तुम्-अशक्यत्वे ऽपि ते प्रजात्यै प्रजनाय पुत्रोत्पत्तये इति यावत् यः कामः तम् एतं कामम् अलं पर्याप्तं करवाणि । यथा कृते मां प्रति त्वं नातिशोचन्ती भवसि तथा करवाण्य् एव । किंतु मुहूर्तं मुहुर्तं कालं प्रतिपालय प्रतीक्षस्व ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

एषा घोरतमा वेला घोराणां घोरदर्शना।
चरन्ति यस्यां भूतानि भूतेशानुचराणि ह॥

मूलम्

एषा घोरतमा वेला घोराणां घोरदर्शना।
चरन्ति यस्यां भूतानि भूतेशानुचराणि हि॥ २२ ॥

अनुवाद (हिन्दी)

यह अत्यन्त घोर समय राक्षसादि घोर जीवोंका है और देखनेमें भी बड़ा भयानक है। इसमें भगवान् भूतनाथके गण भूत-प्रेतादि घूमा करते हैं॥ २२॥

वीरराघवः

किम् अर्थं मुहूर्तं प्रतीक्षणम् इत्य् आशङ्कायां तस्य मुहूर्तस्य रत्य्-अनुपयुक्ततां कथयति । एषेति । एषा वेला घोरतमा उग्रतमा घोराणाम् अपि घोर-दर्शना घोरं दृश्यत इति तथा यस्यां सन्ध्या-वेलायां भूतेशो रुद्रस् तस्या ऽनुचराणि भूतानि प्रमथाख्य-भूतानि चरन्ति सञ्चरन्त्य् अतो ऽपि नायम् अवसर इति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः।
परीतो भूतपर्षद‍्भिर्वृषेणाटति भूतराट्॥

मूलम्

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः।
परीतो भूतपर्षद‍्भिर्वृषेणाटति भूतराट्॥ २३ ॥

अनुवाद (हिन्दी)

साध्वि! इस सन्ध्याकालमें भूतभावन भूतपति भगवान् शंकर अपने गण भूत-प्रेतादिको साथ लिये बैलपर चढ़कर विचरा करते हैं॥ २३॥

वीरराघवः

चरन्ति चेद् भूतानि तर्हि तत्-संचार-विषय-प्रदेशो वर्जनीय इत्य् अत्राह । एतस्याम् इति । हे साध्वि ! एतस्यां संध्यायां भूत-भावनो भूतानां सर्व-जीवानां भावयति सुखम् इति तथा भगवान् भूत-राट् रुद्रः भूत-परिषद्भिः प्रमथ-गणैः परीतः परिवेष्टितः वृषेण स्व-वाहन-भूतेन वृषभेण नन्दिकेश्वरेण सहाटति चरति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

श्मशानचक्रानिलधूलिधूम्र-
विकीर्णविद्योतजटाकलापः।
भस्मावगुण्ठामलरुक्मदेहो
देवस्त्रिभिः पश्यति देवरस्ते॥

मूलम्

श्मशानचक्रानिलधूलिधूम्रविकीर्णविद्योतजटाकलापः।
भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते॥ २४ ॥

अनुवाद (हिन्दी)

जिनका जटाजूट श्मशानभूमिसे उठे हुए बवंडरकी धूलिसे धूसरित होकर देदीप्यमान हो रहा है तथा जिनके सुवर्ण-कान्तिमय गौर शरीरमें भस्म लगी हुई है, वे तुम्हारे देवर (श्वशुर) महादेवजी अपने सूर्य, चन्द्रमा और अग्निरूप तीन नेत्रोंसे सभीको देखते रहते हैं॥ २४॥

वीरराघवः

किञ् च श्मशानेषु यश् चक्रानिलः वात्या तेन यो धूलिस् तेन धूम्रा विशीर्णा विक्षिप्ता विद्योता विद्योतमानाश् च या जटाः तासां कलापः समूहो यस्य सः भस्मनावगुण्ठः अवलिप्तः अमलः रुक्मवद्-देहो यस्य सः देवः रुद्रः त्रिभिर् नयनैर् इति शेषः पश्यति सर्वं साक्षात्करोत्य् अतस् तद्-दर्शन-अविषय-प्रदेशो नास्तीति भावः । पश्यतु देवस् तथापि तम् अनादृत्य प्रवर्ते इत्य् अत्राह स तु रुद्रस् ते देवरः त्वद्-भगिन्या उमायाः पतिर् इत्य् अर्थः । न तु पति-भ्रातृत्वे तद्-असम्भवात् कश्यपो हि मरीचि-पुत्रः न तु ब्रह्म-पुत्रः स्व-जनत्वाद् आदरणीय इति भावः । यद् वा एकस्य जामातरः परस्परं भ्रातर इति व्यवहारः तेन कृत्वा देवर इत्य्-उक्तम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

न यस्य लोके स्वजनः परो वा
नात्यादृतो नोत कश्चिद्विगर्ह्यः।
वयं व्रतैर्यच्चरणापविद्धा-
माशास्महेऽजां बत भुक्तभोगाम्॥

मूलम्

न यस्य10 लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः।
वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत भुक्तभोगाम्॥ २५ ॥

अनुवाद (हिन्दी)

संसारमें उनका कोई अपना या पराया नहीं है। न कोई अधिक आदरणीय और न निन्दनीय ही है। हमलोग तो अनेक प्रकारके व्रतोंका पालन करके उनकी मायाको ही ग्रहण करना चाहते हैं, जिसे उन्होंने भोगकर लात मार दी है॥ २५॥

वीरराघवः

यर्हि स्व-जनत्वाद् आदरणीयस् तर्हि तत एव स्व-जनानाम् अस्माकं सर्वं क्षमेतैव रुद्र इत्य् अत्राह । नेति । यस्य रुद्रस्य स्व-जनः परः अ-स्वजनो वा लोके नास्ति नाप्य् अतीवादरण-विषयः कश्चिद् विगर्ह्यः निन्द्यो ऽपि न उत नास्त्य् एव प्राकृतस्य हि विषम-दृष्टेः स्वार्थापेक्षिणः स्व-जनादि-विभागः अस्य तु सम-दृष्टेर् उपेक्षित-सांसारिक-लोक-तद्-विभूतेर् न स्व-जनादि-विभागो ऽस्तीति भावः । एतद् एवाह । वयम् इति । सांसारिकाभिप्रायेण वयम् इत्य् उक्तं तत्त्व-दर्शिनो ऽपि स्वस्य तन्-मण्डल-स्थत्वाद् वयं संसारिणः लोकाः यस्य रुद्रस्य चरणाभ्याम् अपविद्धां निर्माल्यवद् दूरतः परित्यक्तां तेन भुक्त-भोगाम् अजां मायां तन्-मयीं विभूतिं व्रतैर् नाना-विधैश्वर्य-साधनैर् आशास्महे प्रार्थयामहे ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

यस्यानवद्याचरितं मनीषिणो
गृणन्त्यविद्यापटलं बिभित्सवः।
निरस्तसाम्यातिशयोऽपि यत्स्वयं
पिशाचचर्यामचरद‍्गतिः सताम्॥

मूलम्

यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः।
निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद‍्गतिः सताम्॥ २६ ॥

अनुवाद (हिन्दी)

विवेकी पुरुष अविद्याके आवरणको हटानेकी इच्छासे उनके निर्मल चरित्रका गान किया करते हैं; उनसे बढ़कर तो क्या, उनके समान भी कोई नहीं है और उनतक केवल सत्पुरुषोंकी ही पहुँच है। यह सब होनेपर भी वे स्वयं पिशाचोंका-सा आचरण करते हैं॥ २६॥

वीरराघवः

ननु श्मशानेषु पिशाचवच्-चरतो ऽशुचेर् अस्मात् किम् आशङ्कसे इत्य् अत्राह । यस्येति । यस्य रुद्रस्यानवद्यं निर्दुष्टम् आचरितं चरित्रं मनीषिणः बुद्धिमन्तः अविद्यायाः पटलम् आवरणं विभित्सवः भेत्तुम् इच्छवः ज्ञानार्थिन इत्य्-अर्थः । गृणन्ति कीर्तयन्ति “आरोग्यं भास्कराद् इच्छेच् श्रेय इच्छेद् धुताशनात् । शङ्कराज् ज्ञानम् अन्विच्छेन् मोक्षम् इच्छेज् जनार्दनात्” इत्य्-उक्त-रीत्या फल-विशेषार्थिभिर् उपास्यत्वात् । कैश्चिज् ज्ञानार्थिभिस् तच्-चरितम् उपादेयम् इति न पिशाचवच् चरतीति स निन्दनीय इति भावः । तर्हि किम्-अर्थं स पिशाचवच् चरति तत्राह । स्वयं निरस्त-साम्यातिशयो ऽपि । निरस्तं साम्यम् अतिशयश् च यस्मात् तथा-भूतो ऽपि सतां गतिः ज्ञानोपायः सन् पिशाच-चर्यां चरति स्वोपासकैर् अपि जिज्ञासुभिर् एवं वर्तितव्यम् इति तच्-शिक्षार्थं पिशाच-चर्यां चरतीति भावः । तथा च श्रुतिः “यथा-क्रतुर् अस्मिल् लोके पुरुषो भवति” इति निरस्त-साम्यातिशयत्वं च ज्ञान-प्रदत्वे वेदितव्यं प्रकरणत्वात् यद् वैतत् सर्वं रुद्र-शरीरक-परमात्म-दृष्ट्योक्तम् इति वेदितव्यम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

हसन्ति यस्याचरितं हि दुर्भगाः
स्वात्मन् रतस्याविदुषः समीहितम्।
यैर्वस्त्रमाल्याभरणानुलेपनैः
श्वभोजनं स्वात्मतयोपलालितम्॥

मूलम्

हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन् रतस्याविदुषः समीहितम्।
यैर्वस्त्रमाल्याभरणानुलेपनैः श्वभोजनं स्वात्मतयोपलालितम्॥ २७ ॥

अनुवाद (हिन्दी)

यह नरशरीर कुत्तोंका भोजन है; जो अविवेकी पुरुष आत्मा मानकर वस्त्र, आभूषण, माला और चन्दनादिसे इसीको सजाते-सँवारते रहते हैं—वे अभागे ही आत्माराम भगवान् शंकरके आचरणपर हँसते हैं॥ २७॥

वीरराघवः

एवम् अन्वय-मुखेन तच्-चरित्रस्यानिन्द्यत्वम् उक्त्वा व्यतिरेक-मुखेनाप्य् आह । हसन्तीति । स्वात्मनि रतस्य स्वात्मानुभवैक-निष्ठस्य समीहितं चेष्टितम् अविदुषः आर्षत्वाद् व्यत्ययेन द्वितीया अविद्वांसः यस्य रुद्रस्याचरितं हसन्ति निन्दन्ति ते दुर्भगाः के ते ऽविद्वांसः ये तस्याचरितं हसन्तीत्य् अत्राह । यैः कर्तृभिः वस्त्रादिभिः करणैः श्व-भोजनं शुनो भोज्यं स्व-शरीरं स्वात्मतया स्वात्म-भिन्नत्वेन उपलालितम् अयं देह एवात्मेति बुद्ध्या देहो यैर् वस्त्रादिभिर् उपस्क्रियते ते ऽविदुष इत्य् अर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ब्रह्मादयो यत्कृतसेतुपाला
यत्कारणं विश्वमिदं च माया।
आज्ञाकरी तस्य पिशाचचर्या
अहो विभूम्नश्चरितं विडम्बनम्॥

मूलम्

ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया।
आज्ञाकरी तस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम्॥ २८ ॥

अनुवाद (हिन्दी)

हमलोग तो क्या, ब्रह्मादि लोकपाल भी उन्हींकी बाँधी हुई धर्म-मर्यादाका पालन करते हैं; वे ही इस विश्वके अधिष्ठान हैं तथा यह माया भी उन्हींकी आज्ञाका अनुसरण करनेवाली है। ऐसे होकर भी वे प्रेतोंका-सा आचरण करते हैं। अहो! उन जगद्‍व्यापक प्रभुकी यह अद‍्भुत लीला कुछ समझमें नहीं आती’॥ २८॥

वीरराघवः

एवम् अन्वय-व्यतिरेकाभ्यां तच्-चरित्रम् अनिन्द्यम् इत्य् उक्त्वा तस्य पिशाच-चर्या विडम्बन-मात्रम् एवेत्य् आह । ब्रह्मादयो यत्-कृत-सेतु-पाला इत्य्-आद्युक्तिः रुद्र-प्रशंसा-द्योतिनी ब्रह्मादय इति अ-तद्-गुण-संविज्ञानो बहु-व्रीहिः चित्रगुम् आनयेतिवत् ब्रह्मणो ऽर्वाचीना इत्य् अर्थः । अन्यथा पूर्वापर-विरोधात् ब्रह्मणः स्रष्टृत्वं तद्-दत्त-नाम-धेयत्वं च प्राग् उक्तं तेन ब्रह्मणो नमस्-कार्यत्वं च वक्ष्यते ऽतो यथोक्त एवार्थः । यद् वा ब्रह्मादयः पुलस्त्य-पुलहादयः न च ब्रह्माण इत्य् एते पुराणे निश्चयं गताः इति तेषां ब्रह्म-शब्द-वाच्यत्वावगमात् यद् वा रुद्र-शरीरक-परमात्म-दृष्ट्येदम् उक्तम् इत्य् अवगन्तव्यं ब्रह्मादयो येन रुद्रेण कृताः सेतवः मर्यादास् तान् पालयन्तीति तथा इदं विश्वं यत्-कारणं यो रुद्रः कारणं यस्य तद् इति बहु-व्रीहिः विश्वं यत्-कारणम् इत्य् अर्थः । रुद्रस्य विश्व-संहर्तृत्वात् तद्-अभिप्रायेण विश्वं यत्-कारणम् इत्य् उक्तं माया च यस्याज्ञा-करी मायाहंकृतिस्-तत्-कार्यत्वाद् यस्याज्ञा-करी अधिष्ठातृत्वात् तस्य विभूम्नो महीयसो रुद्रस्य पिशाच-चर्या-रूपं चरितं विडम्बनम् अनुकरण-मात्रम् एव अहो इत्य् आश्चर्ये । स्वत एवं-विधस्य महीयसः पिशाच-चर्यानुकरणम् आश्चर्यम् इत्य् अर्थः ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

मैत्रेय11 उवाच

विश्वास-प्रस्तुतिः

सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया।
जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा॥

मूलम्

सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया।
जग्राह वासो 12ब्रह्मर्षेर्वृषलीव गतत्रपा॥ २९ ॥

अनुवाद (हिन्दी)

मैत्रेयजी कहते हैं—पतिके इस प्रकार समझानेपर भी कामातुरा दितिने वेश्याके समान निर्लज्ज होकर ब्रह्मर्षि कश्यपजीका वस्त्र पकड़ लिया॥ २९॥

वीरराघवः

एवम् उक्ता दितिस् ततः किम् अकरोद् इत्य् अत्राह । सेति । भर्ता कश्यपेनैवम् उक्त-प्रकारेण सम्वेदिते ज्ञापिते सति मन्मथेन उन्मथितानीन्द्रियाणि यस्याः सा ऽत एव वृषलीव वेश्येव गत-त्रपा निर्लज्जा सती विप्रर्षेः कश्यपस्य वासो वस्त्रं जग्राह वासो गृहीत्वा विचकर्ष इत्य् अर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि।
नत्वा दिष्टाय रहसि तयाथोपविवेश ह॥

मूलम्

स विदित्वाथ13 भार्यायास्तं निर्बन्धं विकर्मणि।
नत्वा दिष्टाय रहसि तयाथोपविवेश ह॥ ३० ॥

अनुवाद (हिन्दी)

तब कश्यपजीने उस निन्दित कर्ममें अपनी भार्याका बहुत आग्रह देख दैवको नमस्कार किया और एकान्तमें उसके साथ समागम किया॥ ३०॥

वीरराघवः

स कश्यपः भार्यायाः दितेः वि-कर्मणि सन्ध्यायां प्रतिषिद्धे रति-कर्मणि तं निर्बन्धं वासो-ग्रहण-रूपं विदित्वा दृष्ट्वा दिष्टाय दैव-रूप-ईश्वराय नत्वा तया भार्यया सह रहस्येकान्ते उपविवेश । उपविवेशेत्य् अनेन मैथुनं लक्ष्यते ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः।
ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम्॥

मूलम्

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः।
ध्यायञ्जजाप विरजं ब्रह्म ज्योतिः सनातनम्॥ ३१ ॥

अनुवाद (हिन्दी)

फिर जलमें स्नानकर प्राण और वाणीका संयम करके विशुद्ध ज्योतिर्मय सनातन ब्रह्मका ध्यान करते हुए उसीका जप करने लगे॥ ३१॥

वीरराघवः

अथोपवेशानन्तरं सलिलम् उपस्पृश्य सलिले स्नात्वेत्य् अर्थः । प्राणान् आयम्य नियम्य वाग्-यतः धृत-मौनः विरजं निर्विकारं ज्योतिः ज्ञान-स्वरूपं सनातनं नित्यं ब्रह्म ध्यायन् अत्र विरज-शब्देन सत्य-पदार्थः ज्योतिः-शब्देन ज्ञान-पदार्थः सनातन-शब्देनानन्त-पदस्यार्थः स्फोरितः । विरज-शब्देन रजः-कार्य-विकार-राहित्यस्य ज्योतिः-शब्देन प्रकाश-रूपत्वस्य सनातन-शब्देन काल-परिच्छेद-राहित्यस्य चोक्तत्वात् जजापेति एवं-विध-ब्रह्म-प्रतिपादकं प्रणवं जजापेत्य् अर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत।
उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत॥

मूलम्

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत।
उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत॥ ३२ ॥

अनुवाद (हिन्दी)

विदुरजी! दितिको भी उस निन्दित कर्मके कारण बड़ी लज्जा आयी और वह ब्रह्मर्षिके पास जा, सिर नीचा करके इस प्रकार कहने लगी॥ ३२॥

वीरराघवः

अथाध्याय-शेषो दिति-कश्यपयोर् उत्तर-रूपेण प्रवृत्तस् तत्र तावद् दितिर् उवाचेत्य् आह — दितिर् इति । तेन कर्मावद्येन कर्म-दोषेण व्रीडिता लज्जिता दितिः हे भारत ! विदुर उपसङ्गम्य समीपे आगत्याधो-मुखी सती विप्रर्षिं कश्यपं प्रत्यभाषत उक्तवती ॥ ३२ ॥

श्लोक-३३

मूलम् (वचनम्)

दि14तिरुवाच

विश्वास-प्रस्तुतिः

मा मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत्।
रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्॥

मूलम्

मा मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत्।
रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्॥ ३३ ॥

मूलम् - कर्णावती

मा मे गर्भमिमं ब्रह्मन् भूतानामृषभो वधीत्।
रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम्॥ ३३ ॥

अनुवाद (हिन्दी)

दिति बोलीं—ब्रह्मन्! भगवान् रुद्र भूतोंके स्वामी हैं, मैंने उनका अपराध किया है; किन्तु वे भूतश्रेष्ठ मेरे इस गर्भको नष्ट न करें॥ ३३॥

वीरराघवः

भाषणम् एवाह । मेति । हे ब्रह्मन् कश्यप ! भूतानाम् ऋषभः पतिः रुद्रः मे ममेमं गर्भं मा अवधीन् मा हन्याद् धि यस्माद् भूतानां रुद्रः पतिः यतः यस्य रुद्रस्यांहम् अपराधम् अकरवं कृतवत्य् अतो मावधीद् इत्य् अर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

नमो रुद्राय महते देवायोग्राय मीढुषे।
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे॥

मूलम्

नमो रुद्राय महते देवायोग्राय मीढुषे।
शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे॥ ३४ ॥

अनुवाद (हिन्दी)

मैं भक्तवाञ्छाकल्पतरु, उग्र एवं रुद्ररूप महादेवको नमस्कार करती हूँ। वे सत्पुरुषोंके लिये कल्याणकारी एवं दण्ड देनेके भावसे रहित हैं, किन्तु दुष्टोंके लिये क्रोधमूर्ति दण्डपाणि हैं॥ ३४॥

वीरराघवः

एवं स्वाभिप्रेतम् आवेद्य नमस्कुर्वन्ती रुद्रं प्रसादयति नम इति द्वाभ्याम् । रुद्राय नमः कथम्-भूताय महते देवाय महा-देवायेत्य् अर्थः । विश्व-संहर्तृत्वम् इन्द्राद्य्-अपेक्षया महत्त्वं विवक्षितम् उग्राय उग्र-रूपिणे मीढुषे सकामेषु फल-सेचन-कर्त्रे यद् वा रेतः-सेक-क्षमाय निष्कामेषु शिवाय वस्तुतो न्यस्त-दण्डाय संहारे मन्यवे ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः।
व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः॥

मूलम्

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः।
व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः॥ ३५ ॥

अनुवाद (हिन्दी)

हम स्त्रियोंपर तो व्याध भी दया करते हैं, फिर वे सतीपति तो मेरे बहनोई और परम कृपालु हैं; अतः वे मुझपर प्रसन्न हों॥ ३५॥

वीरराघवः

स इति । भामो भगिनी-भर्ता उरुर् अनुग्रहो यस्य स उमायाः पतिर् भगवान् देवो रुद्रः व्याधस्याप्य् अनुकम्प्यानां दयनीयानां स्त्रीणां नो ऽस्माकं प्रसीदतां प्रसन्नो भूयात् ॥ ३५ ॥

श्लोक-३६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम्।
निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः॥

मूलम्

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम्।
निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः॥ ३६ ॥

मूलम् - कर्णावती

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम्।
विवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः॥ ३६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विदुरजी! प्रजापति कश्यपने सायंकालीन सन्ध्या-वन्दनादि कर्मसे निवृत्त होनेपर देखा कि दिति थर-थर काँपती हुई अपनी सन्तानकी लौकिक और पारलौकिक उन्नतिके लिये प्रार्थना कर रही है। तब उन्होंने उससे कहा॥ ३६॥

वीरराघवः

एवम् आभाषन्तीं कश्यपः प्रत्याहेत्य् आह मैत्रेयः । स्व-गर्भस्य लोक्यां लोकनीयाम् आशिषं शुभम् आशासानां प्रार्थयन्तीं प्रवेपन्तीं परिकम्पन्तीं भार्यां निवृत्तः सन्ध्यायां यो नियमः स यस्य सः प्रजापतिः कश्यपः आह उवाच ॥ ३६ ॥

श्लोक-३७

मूलम् (वचनम्)

कश्यप उवाच

विश्वास-प्रस्तुतिः

अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत।
मन्निदेशातिचारेण देवानां चातिहेलनात्॥

मूलम्

अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत।
मन्निदेशातिचारेण देवानां 15चातिहेलनात्॥ ३७ ॥

अनुवाद (हिन्दी)

कश्यपजीने कहा—तुम्हारा चित्त कामवासनासे मलिन था, वह समय भी ठीक नहीं था और तुमने मेरी बात भी नहीं मानी तथा देवताओंकी भी अवहेलना की॥ ३७॥

वीरराघवः

तद् उक्तम् एवाह चतुर्भिः अप्रायत्याद् इति । ते आत्मनः चित्तस्याप्रायत्याद् अशुद्धि-भावान् मौहूर्तिकात् सन्ध्या-मुहूर्त-काल-सम्बन्धिनो दोषात् उतापि मम यो नियोगः आज्ञा तस्य यो ऽतिचारो ऽतिक्रमः - तेन देवानां रुद्रादीनां हेलनाद् अपचाराद् अपि च ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ।
लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः॥

मूलम्

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ।
लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः॥ ३८ ॥

अनुवाद (हिन्दी)

अमंगलमयी चण्डी! तुम्हारी कोखसे दो बड़े ही अमंगलमय और अधम पुत्र उत्पन्न होंगे। वे बार-बार सम्पूर्ण लोक और लोकपालोंको अपने अत्याचारोंसे रुलायेंगे॥ ३८॥

वीरराघवः

अभद्रौ लोकामङ्गल-कराव् अत एव जाठराधमौ हे अभद्रे ! तव भविष्यतः । जाठरयोर् अभद्रत्वम् एव विशदयति लोकान् इत्य्-अर्द्धेन चण्डौ क्रुद्धौ सपालान् लोक-पालैः सहितान् त्रीन् लोकान् मुहुः पुनः पुनः आक्रन्दयिष्यतः रोदयिष्यत इत्य् अर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

प्राणिनां हन्यमानानां दीनानामकृतागसाम्।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु॥

मूलम्

प्राणिनां हन्यमानानां दीनानामकृतागसाम्।
स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु॥ ३९ ॥

वीरराघवः

प्राणिनां मन्यमानानां सतां कथम्-भूतानां दीनानां कृपणानाम् अकृतम् आगः अपराधो यैस् तेषां स्त्रीणाञ् च निगृह्यमाणानां सतीनां महात्मसु कुपितेषु सत्सु ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

तदाविश्वेश्वरः क्रुद्धो भगवाल्ँलोकभावनः।
हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक्॥

मूलम्

तदा विश्वेश्वरः क्रुद्धो भगवाॅंल्लोकभावनः16
हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक्॥ ४० ॥

अनुवाद (हिन्दी)

जब उनके हाथसे बहुत-से निरपराध और दीन प्राणी मारे जाने लगेंगे, स्त्रियोंपर अत्याचार होने लगेंगे और महात्माओंको क्षुब्ध किया जाने लगेगा, उस समय सम्पूर्ण लोकोंकी रक्षा करनेवाले श्रीजगदीश्वर कुपित होकर अवतार लेंगे और इन्द्र जैसे पर्वतोंका दमन करता है, उसी प्रकार उनका वध करेंगे॥ ३९-४०॥

वीरराघवः

तदा क्रुद्धो रोषितः विश्वेश्वरः लोकम् भावयति सुखयतीति लोक-भावनो ऽसौ भगवान् अवतीर्य वराह-नर-सिंहाभ्याम् आविर्भूय हनिष्यति । तत्र दृष्टान्तः अद्रीन् पर्वतान् वज्रायुध-धरः इन्द्रो यथेति ॥ ४० ॥

श्लोक-४१

मूलम् (वचनम्)

दितिरुवाच

विश्वास-प्रस्तुतिः

वधं भगवता साक्षात्सुनाभोदारबाहुना।
आशासे पुत्रयोर्मह्यं मा क्रुद्धाद‍्ब्राह्मणाद्विभो॥

मूलम्

वधं भगवता साक्षात्सुनाभोदारबाहुना।
आशासे पुत्रयोर्मह्यं मा क्रुद्धाद‍्ब्राह्मणाद्विभो17॥ ४१ ॥

अनुवाद (हिन्दी)

दितिने कहा—प्रभो! यही मैं भी चाहती हूँ कि यदि मेरे पुत्रोंका वध हो तो वह साक्षात् भगवान् चक्रपाणिके हाथसे ही हो, कुपित ब्राह्मणोंके शापादिसे न हो॥ ४१॥

वीरराघवः

एवम् उक्ते पुनर् अपि दितिर् आह द्वाभ्याम् । सुनाभञ्-चक्रन्तेनोदारः सुन्दरो बाहुर् यस्य तेन भगवता साक्षान् मह्यं मम पुत्रयोर् वधम् आशासे ऽनुमन्ये । किन्तु हे प्रभो! क्रुद्धाद् ब्राह्मणान् न अनुमन्ये कोपितेषु महत्सु चेत्य्-उक्तत्वात् कोपिताद् ब्रह्मणाद् वधम् आशङ्कमानाम् एवं प्रार्थयते क्रुद्धान् मा भूद् इति ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च।
नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः॥

मूलम्

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च।
नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः॥ ४२ ॥

अनुवाद (हिन्दी)

जो जीव ब्राह्मणोंके शापसे दग्ध अथवा प्राणियोंको भय देनेवाला होता है, वह किसी भी योनिमें जाय—उसपर नारकी जीव भी दया नहीं करते॥ ४२॥

वीरराघवः

नन्व् अस्तु ब्रह्मणाद् अन्यतो वा कुतश्चित् तद्-वधस् तत्र को विशेष इत्य् अत्राह नेति । ब्रह्म-दण्ड-दग्धस्य ब्राह्मण-शाप-हतस्य भूतानां भय-सम्पादकस्य च नारकाः अपि नरक-वासिनो ऽपि नानुगृहन्त्य् अनुग्रहं न कुर्वन्ति । नरक-वासिनो हि सर्वस्मै लोकाय दुःखं मा भूद् इति मन्यन्ते ते ऽप्य् एतयोः कृपां नो कुर्वन्ति । इत्य् अतो ऽति-पापिनौ ब्रह्म-दण्ड-दग्ध-भूत-भयदौ इत्य् अर्थः । किञ्च यां योनिम् असौ ब्रह्म-दण्ड-दग्धो लोक-भयदश् च गतः प्राप्तो भवति तत्र-स्था अपि नानुगृह्णन्तीत्य् अर्थः ॥ ४२ ॥

श्लोक-४३

मूलम् (वचनम्)

कश्यप उवाच

विश्वास-प्रस्तुतिः

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात्।
भगवत्युरुमानाच्च भवे मय्यपि चादरात्॥

मूलम्

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात्।
भगवत्युरुमानाच्च भवे म18य्यपि चादरात्॥ ४३ ॥

वीरराघवः

एवम् उक्तो मुनिर् आह । कृतेत्य्-आदि-सप्तभिः । कृतो यो ऽपराधः तेन शोकः तस्माद् यो ऽनुतापः प्रत्यवमर्शनाद् युक्तायुक्त-विचाराद् भगवति परे परम-पुरुषे उरुमानाच् च भवे रुद्रे मय्य् अप्य् आदराच् च हेतोः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

पुत्रस्यैव तु पुत्राणां भवितैकः सतां मतः।
गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्॥

मूलम्

पुत्रस्यैव तु19 पुत्राणां भवितैकः सतां मतः।
गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम्॥ ४४ ॥

अनुवाद (हिन्दी)

कश्यपजीने कहा—देवि! तुमने अपने कियेपर शोक और पश्चात्ताप प्रकट किया है, तुम्हें शीघ्र ही उचित-अनुचितका विचार भी हो गया तथा भगवान् विष्णु, शिव और मेरे प्रति भी तुम्हारा बहुत आदर जान पड़ता है; इसलिये तुम्हारे एक पुत्रके चार पुत्रोंमेंसे एक ऐसा होगा, जिसका सत्पुरुष भी मान करेंगे और जिसके पवित्र यशको भक्तजन भगवान‍्के गुणोंके साथ गायेंगे॥ ४३-४४॥

श्लोक-४५

विश्वास-प्रस्तुतिः

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः।
निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्॥

मूलम्

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः।
निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम्॥ ४५ ॥

अनुवाद (हिन्दी)

जिस प्रकार खोटे सोनेको बार-बार तपाकर शुद्ध किया जाता है, उसी प्रकार साधुजन उसके स्वभावका अनुकरण करनेके लिये निर्वैरता आदि उपायोंसे अपने अन्तःकरणको शुद्ध करेंगे॥ ४५॥

वीरराघवः

पुत्राणाम् आर्षत्वाद् बहु-वचनं पुत्रयोर् मध्ये एकस्य पुत्रस्य हिरण्यकशिपोः एकः पुत्रः सतान् मतः प्रह्लादः पुत्रः भविता भविष्यति तम् एव वर्णयति । गास्यन्तीति सार्द्धैः पञ्चभिः । यस्य तव पौत्रस्य यशः भगवद्-यशसा समं सह सदृशं वा गास्यन्ति यच्-छब्दस्य स वा इत्य् उत्तरत्रान्वयः । किञ्च यस्य त्वत्-पौत्रस्य शीलम् अनुवर्तितुं निर्वैर्-आदिभिर् गुणैर् आत्मानम् अन्तः-करणं साधवो भावयिष्यन्ति शोधयिष्यन्ते, तत्र दृष्टान्तः योगैः क्षारादि-संयोगैः दुर्वर्णं हेम सुवर्णम् इव ॥ ४४-४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम्।
स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा॥

मूलम्

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम्।
स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा॥ ४६ ॥

अनुवाद (हिन्दी)

जिनकी कृपासे उन्हींका स्वरूपभूत यह जगत् आनन्दित होता है, वे स्वयंप्रकाश भगवान् भी उसकी अनन्यभक्तिसे सन्तुष्ट हो जायँगे॥ ४६॥

वीरराघवः

किञ्च यत्-प्रसादाद् भगवतः प्रसादाद् अनुग्रहाद् इदं विश्वं प्रसीदति भगवद्-अनुग्रह-विषये कृत्स्नं विश्वम् अपि प्रसादम् एव कुर्याद् इत्य् अर्थः । यद्-आत्मकं भगवान् एवात्मा यस्य तद् विश्वं यद्-भगवद्-आत्मकं स स्व-दृक् करण-निरपेक्षं सर्वं साक्षात्-कुर्वाण इत्य् अर्थः, भगवान् यस्य त्वत्-पौत्रस्यानन्यया ऽव्यभिचारिण्या दृशा भक्त्या तोष्यते सन्तोषं प्राप्नोति ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

स वै महाभागवतो महात्मा
महानुभावो महतां महिष्ठः।
प्रवृद्धभक्त्या ह्यनुभाविताशये
निवेश्य वैकुण्ठमिमं विहास्यति॥

मूलम्

स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः।
प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति॥ ४७ ॥

अनुवाद (हिन्दी)

दिति! वह बालक बड़ा ही भगवद‍्भक्त, उदारहृदय, प्रभावशाली और महान् पुरुषोंका भी पूज्य होगा तथा प्रौढ़ भक्तिभावसे विशुद्ध और भावान्वित हुए अन्तःकरणमें श्रीभगवान‍्को स्थापित करके देहाभिमानको त्याग देगा॥ ४७॥

वीरराघवः

स वै त्वत्-पौत्रः महा-भागवतः निरतिशय-भगवद्-भक्तः महानुभावः महात्मा निर्मलान्तःकरणः महतां माहात्म्यवताम् अपि मध्ये महिष्ठः निरतिशय-माहात्म्यवान् प्रवृद्धया भक्त्यानुभाविते संशोधिते आशये चित्ते वैकुण्ठं भगवन्तं निवेश्यावस्थाप्य तद्भगवद्व्यतिरिक्तम् ऐश्वर्यादिकं विहास्यति त्यक्ष्यति ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अलम्पटः शीलधरो गुणाकरो
हृष्टः परर्द्ध्या व्यथितो दुःखितेषु।
अभूतशत्रुर्जगतः शोकहर्ता
नैदाघिकं तापमिवोडुराजः॥

मूलम्

अलम्पटः शीलधरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु।
अभूतशत्रुर्जगतः शोकह20र्ता नैदाधिकं तापमिवोडुराजः॥ ४८ ॥

अनुवाद (हिन्दी)

वह विषयोंमें अनासक्त, शीलवान्, गुणोंका भंडार तथा दूसरोंकी समृद्धिमें सुख और दुःखमें दुःख माननेवाला होगा। उसका कोई शत्रु न होगा तथा चन्द्रमा जैसे ग्रीष्म ऋतुके तापको हर लेता है, वैसे ही वह संसारके शोकको शान्त करनेवाला होगा॥ ४८॥

वीरराघवः

किञ्चालम्पटः अलोलुपः, शील-धरः, सु-स्वभावः, गुणानाम् आकरः, परर्द्ध्या परेषाम् ऋद्धिः समृद्धिस् तया हृष्टः परेषु दुःखितेषु सत्सु स्वयम् अपि व्यथितः दुःखितः न भूतो न जातः शत्रुर् यस्य सो ऽभूत-शत्रुः जगतः शोकं हरतीति तथा तत्र दृष्टान्तः नैदाघिकं निदाघो ग्रीष्म-कालः, तत्र भवं तापम् उडु-राजश् चन्द्रो यथा हरतीति ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

अन्तर्बहिश्चामलमब्जनेत्रं
स्वपूरुषेच्छानुगृहीतरूपम्।
पौत्रस्तव श्रीललनाललामं
द्रष्टा स्फुरत्कुण्डलमण्डिताननम्॥

मूलम्

अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम्।
पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम्॥ ४९ ॥

अनुवाद (हिन्दी)

जो इस संसारके बाहर-भीतर सब ओर विराजमान हैं, अपने भक्तोंके इच्छानुसार समय-समयपर मंगलविग्रह प्रकट करते हैं और लक्ष्मीरूप लावण्यमूर्ति ललनाकी भी शोभा बढ़ानेवाले हैं तथा जिनका मुखमण्डल झिलमिलाते हुए कुण्डलोंसे सुशोभित है—उन परम पवित्र कमलनयन श्रीहरिका तुम्हारे पौत्रको प्रत्यक्ष दर्शन होगा॥ ४९॥

वीरराघवः

किञ्च तव पौत्रः श्री-ललना-ललामं श्रीः लक्ष्मीर् एव ललना तस्या ललामं भूषणं, “भर्तानाम परं नार्या भूषणाद् अपि भूषणम्” इत्य् उक्त-रीत्या भूषण-भूतं श्रियः पतिं स्व-हृदय-कमल-मध्ये बहिश् च द्रष्टा द्रक्ष्यते कथं-भूतं श्री-ललना-ललामं स्फुरती ये कुण्डले ताभ्यां मण्डितं भूषितम् आननं मुखं यस्य तं कुण्डलयोः श्रोत्रालंकारत्वे ऽपि गण्ड-स्थलादिषु तत्-प्रतिफलन-वशान् मुखस्यापि शोभातिरिच्यते । स्व-पुरुषाः स्व-भक्तास् तेषाम् इच्छानुरूपं गृहीतम् अप्राकृत-दिव्य-शरीरं येन तम्, अब्ज-नेत्रं, कमल-नेत्रम्, अमलं, निरस्त-हेय-गुणम् ॥ ४९ ॥

श्लोक-५०

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम्।
पुत्रयोश्च वधं कृष्णाद्विदित्वाऽऽसीन्महामनाः॥

मूलम्

श्रुत्वा भागवतं पौत्र21ममोदत दितिर्भृशम्।
पुत्रयोश्च वधं कृष्णाद्विदित्वाऽऽसीन्महामनाः॥ ५० ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! दितिने जब सुना कि मेरा पौत्र भगवान‍्का भक्त होगा, तब उसे बड़ा आनन्द हुआ तथा यह जानकर कि मेरे पुत्र साक्षात् श्रीहरिके हाथसे मारे जायँगे, उसे और भी अधिक उत्साह हुआ॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः॥ १४ ॥

वीरराघवः

दिति-कश्यपयोः प्रश्नोत्तरे निगमयति । श्रुत्वेति । दितिः भागवतं पौत्रं जनिष्यमाणं श्रुत्वा भृशम् अमोदत जहर्ष कृष्णाद् भगवतः पुत्रयोर् वधं भाविनं विदित्वा ज्ञात्वा महामनाः हरिणा सह युद्धेन पुत्रयोर् मरणे कीर्तिः सद्गतिश् च भवेद् इति महोत्सव-चित्ता आसीत् ॥ ५० ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीरराघवाचार्य-कृत-भागवत-चन्द्रचन्द्रिका-टीकायां चतुर्दशो ऽध्यायः ॥ १४ ॥


  1. प्राचीने पाठे ‘दितिरुवाच’ अयमंशो मूले न, टीप्पण्यां वर्तते । ↩︎

  2. प्रा. पा. - ब्रह्मन् । ↩︎

  3. प्रा. पा. - कर्तुमर्हसि । ↩︎

  4. प्रा. पा. - तस्या । ↩︎

  5. प्रा. पा. - मध्यास्य । ↩︎

  6. प्रा. पा. - च । ↩︎

  7. प्रा. पा. - कामगृध्नवः । ↩︎

  8. प्रा. पा. - मेतत्ते प्रजायै । ↩︎

  9. प्रा. पा. - यथा मानिनि बोधन्ति मुहु । ↩︎

  10. प्रा. पा. - यस्य । ↩︎

  11. प्राचीने पाठे ‘मैत्रेय उवाच’ अयमंशो न । ↩︎

  12. प्रा. पा. - विप्रर्षे । ↩︎

  13. प्रा. पा. - विदित्वा स्वभार्या । ↩︎

  14. प्राचीने पाठे ‘दितिरुवाच’ अयमंशो न । ↩︎

  15. प्रा. पा. - चैव हेल । ↩︎

  16. प्रा. पा. - भावितः । ↩︎

  17. प्रा. पा. - णात्प्रभो । ↩︎

  18. प्रा. पा. - भवे वाप्यधिकादरात् । ↩︎

  19. प्रा. पा. - च । ↩︎

  20. प्रा. पा. - शोकहन्ता । ↩︎

  21. प्रा. पा. - पौत्रं मुमोद च दिति । ↩︎