१३

[त्रयोदशोऽध्यायः]

भागसूचना

वाराह-अवतारकी कथा

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप।
भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः॥

मूलम्

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप।
भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—राजन्! मुनिवर मैत्रेयजीके मुखसे यह परम पुण्यमयी कथा सुनकर श्रीविदुरजीने फिर पूछा; क्योंकि भगवान‍्की लीला-कथामें इनका अत्यन्त अनुराग हो गया था॥ १॥

वीरराघवः

एवम् अतीताध्यायान्ते सहजानेर् मनोर् जन्मनि तच्चरित्रं च संग्रहेणाभिहितं स्वायंभुवः स्वराट् महात्मन इति विशेषणसूचित-तच्चरितविस्तरविवित्सया विदुरः पृच्छतीत्य् आह शुकः । निशम्येति । वदतः गदतो मुनेर् मैत्रेयस्य पुण्यतमां वाचं निशम्य श्रुत्वा हे नृप ! राजन् ! कौरव्यो विदुरः वासुदेवकथायाम् आदृतः कर्त्तरि क्तः आदरेण युक्तः भूयः पुनः पप्रच्छ पृष्टवान्॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने॥

मूलम्

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने॥ २ ॥

मूलम् - कर्णावती

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः।
प्रतिलभ्यं प्रियां पत्नीं किं चकार ततो मुने॥ २ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—मुने! स्वयम्भू ब्रह्माजीके प्रिय पुत्र महाराज स्वायम्भुव मनुने अपनी प्रिय पत्नी शतरूपाको पाकर फिर क्या किया?॥ २॥

वीरराघवः

विदुर-प्रश्न-प्रकारम् एवाह । स वा इति त्रिभिः । स्वयंभुवः ब्रह्मणः प्रियः पुत्राणां मध्ये प्रियः निरतिशयप्रीतिविषय इति भावः, सम्राट् सार्वभौमः स स्वायम्भुवो मनुः प्रियां पत्नीं शतरूपां प्रतिलभ्य लब्ध्वा ततः किम् अकरोत् हे मुने मैत्रेय !॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

चरितं तस्य राजर्षेरादिराजस्य सत्तम।
ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ॥

मूलम्

चरितं तस्य राजर्षेरादिराजस्य सत्तम।
ब्रूहि मे श्रद्दधाना1य विष्वक्सेनाश्रयो ह्यसौ॥ ३ ॥

अनुवाद (हिन्दी)

आप साधुशिरोमणि हैं। आप मुझे आदिराज राजर्षि स्वायम्भुव मनुका पवित्र चरित्र सुनाइये। वे श्रीविष्णुभगवान‍्के शरणापन्न थे, इसलिये उनका चरित्र सुननेमें मेरी बहुत श्रद्धा है॥ ३॥

वीरराघवः

प्रकृतम् अनुसर्गं विहाय किम् इति मनुचरितं पृच्छसीत्य् आशङ्कां निराकुर्वन् । पृच्छति । चरितम् इति हे सत्तम ! अधिराजस्य तस्य राजर्षेर् मनोश् चरितं श्रद्दधानाय मह्यं ब्रूहि कथय हि यस्माद् असौ मनुः विष्वक्सेनाश्रयः विष्वक्सेनो हरिर् एवाश्रयो यस्य स तथोक्तः । भगवद्-भक्तत्वाच्चरित्रम् अवश्यं श्रोतव्यम् इति तच्-चरित्रं प्रष्टव्यम् एवेति भावः॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

श्रुतस्य पुंसां सुचिरश्रमस्य
नन्वञ्जसा सूरिभिरीडितोऽर्थः।
यत्तद‍्गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम्॥

मूलम्

श्रुतस्य पुंसां सुचिर2श्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः।
यत्तद‍्गुणानुश्रवणं मुकुन्दपादारविन्दं हृदयेषु येषाम्॥ ४ ॥

अनुवाद (हिन्दी)

जिनके हृदयमें श्रीमुकुन्दके चरणारविन्द विराजमान हैं, उन भक्तजनोंके गुणोंको श्रवण करना ही मनुष्योंके बहुत दिनोंतक किये हुए शास्त्राभ्यासके श्रमका मुख्य फल है, ऐसा विद्वानोंका श्रेष्ठ मत है॥ ४॥

वीरराघवः

नन्व् एवम् तर्हि साक्षाद्भगवच्चरित्रम् एव प्रष्टव्यं किं भगवतचरितानुप्रश्नेनेत्य् आशङ्क्याह । श्रुतस्येति । सुचिरश्रमस्य सुचिरं श्रमो यस्मिंस् तस्य चिरकाल-श्रमार्जितस्य पुंसां श्रुतस्याध्ययनस्यार्थः प्रयोजनं सूरभिर् विद्वद्भिर् अयमेवेतीडितः स्तुतः किं तत् यत् सूरिभिर् ईडितम् इत्य् अत्राह । येषां हृदयेषु मुकुन्दपादारविन्दम् उपास्यते तेषां भागवतानां गुणानां श्रवणम् इति यत् तद् इत्य् अर्थः । भगवद्-गुणवद्-भागवतगुणा अपि श्रोतव्या एवेत्य्-अभिप्रायः॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

इति ब्रुवाणं विदुरं विनीतं
सहस्रशीर्ष्णश्चरणोपधानम्।
प्रहृष्टरोमा भगवत्कथायां
प्रणीयमानो मुनिरभ्यचष्ट॥

मूलम्

इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम्।
प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट॥ ५ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! विदुरजी सहस्रशीर्षा भगवान् श्रीहरिके चरणाश्रित भक्त थे। उन्होंने जब विनयपूर्वक भगवान‍्की कथाके लिये प्रेरणा की, तब मुनिवर मैत्रेयका रोम-रोम खिल उठा। उन्होंने कहा॥ ५॥

वीरराघवः

एवं वैदुरिक प्रश्नम् आश्रुत्य मुनिर् अभ्यभाषतेत्य् आह शुकः । इतीति । उक्तप्रकारेण ब्रुवाणं पृच्छन्तं विनीतं विनयादि-संयुतं सहस्रशीर्ष्णः परमपुरुषस्य “सहस्रशीर्षा पुरुष” इति श्रुतेः चरणौ उपधीयेते ऽस्मिन्न् इति चरणोपधानं भगवत्-पादपीठं भगवत्-प्रियो ऽसौ विदुरः अतस् तस्य शिरस उपरि भगवान् स्वपादौ प्रसारयतीत्य् अर्थः । एवंभूतं विदुरं प्रति मुनिर् मैत्रेयो ऽभ्यचष्टाभ्यभाषत कथंभूतः भगवत्-कथायां प्रणीयमानः प्रवर्त्यमानः अत एव प्रहृष्टानि उद् अञ्जितानि रोमाणि यस्य स तथोक्तः॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

यदा स्वभार्यया साकं जातः स्वायम्भुवो मनुः।
प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत॥

मूलम्

यदा स्वभार्यया साकं जातः स्वायम्भुवो मनुः।
प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत॥ ६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी बोले—जब अपनी भार्या शतरूपाके साथ स्वायम्भुव मनुका जन्म हुआ, तब उन्होंने बड़ी नम्रतासे हाथ जोड़कर श्रीब्रह्माजीसे कहा—॥ ६॥

वीरराघवः

अभिभाषणप्रकारम् एवाह । यदेत्य् आदिना । यदा स्वभार्यया शतरूपया सहायं स्वायंभुवो मनुर् उत्पन्नः तदायं मनुः प्रणतः नम्रो भूत्वा साञ्जलिर् एनं वेदगर्भं ब्रह्माणं प्रत्य् अभाषत॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

त्वमेकः सर्वभूतानां जन्मकृद् वृत्तिदः पिता।
अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्॥

मूलम्

त्वमेकः सर्वभूतानां जन्मकृद् वृ3त्तिदः पिता।
अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्॥ ७ ॥

अनुवाद (हिन्दी)

‘भगवन्! एकमात्र आप ही समस्त जीवोंके जन्मदाता और जीविका प्रदान करनेवाले पिता हैं। तथापि हम आपकी सन्तान ऐसा कौन-सा कर्म करें, जिससे आपकी सेवा बन सके?॥ ७॥

वीरराघवः

त्वम् इति । सर्वेषां भूतानां त्वम् एक एव पिता जन्मकृद्-वृत्तिदः पोषकश् च अतो यद्यप्य् अन्यापेक्षा नास्ति तथाप्य् अस्माकं ते शुश्रूषा परिचर्या केन कर्मणा भवेत् तद् विधेहीत्य् उरेणान्वयः॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु।
यत्कृत्वेह यशो विष्वगमुत्र च भवेद‍्गतिः॥

मूलम्

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु।
यत्कृत्वेह यशो विष्वगमुत्र च भवेद‍्गतिः॥ ८ ॥

अनुवाद (हिन्दी)

पूज्यपाद! हम आपको नमस्कार करते हैं। आप हमसे हो सकने योग्य किसी ऐसे कार्यके लिये हमें आज्ञा दीजिये, जिससे इस लोकमें हमारी सर्वत्र कीर्ति हो और परलोकमें सद‍्गति प्राप्त हो सके’॥ ८॥

वीरराघवः

तद् इति । हे ईड्य ! स्तुत्य ! आत्म-शक्तिषु मच्-छक्ति-विषयेषु कर्मसु मध्ये केन कर्मणा ते परिचर्या भवेद् इत्य् अनुषङ्गः इदं कर्त्तव्यम् इति कथयेति भावः । यत् कर्म कृत्वा इहास्मिन् लोके विष्वक् सर्वतः यशो भवेद् अत्रामुत्र परलोके गतिश् च भवेद् इति॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर।
यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्॥

मूलम्

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर।
यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्॥

अनुवाद (हिन्दी)

श्रीब्रह्माजीने कहा—तात! पृथ्वीपते! तुम दोनोंका कल्याण हो। मैं तुमसे बहुत प्रसन्न हूँ; क्योंकि तुमने निष्कपटभावसे ‘मुझे आज्ञा दीजिये’ यों कहकर मुझे आत्मसमर्पण किया है॥ ९॥

श्लोक-१०

विश्वास-प्रस्तुतिः

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ।
शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः॥

मूलम्

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ।
शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः॥

अनुवाद (हिन्दी)

वीर! पुत्रोंको अपने पिताकी इसी रूपमें पूजा करनी चाहिये। उन्हें उचित है कि दूसरोंके प्रति ईर्ष्याका भाव न रखकर जहाँतक बने, उनकी आज्ञाका आदरपूर्वक सावधानीसे पालन करें॥ १०॥

श्लोक-११

विश्वास-प्रस्तुतिः

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः।
उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज॥

मूलम्

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः।
उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज॥

अनुवाद (हिन्दी)

तुम अपनी इस भार्यासे अपने ही समान गुणवती सन्तति उत्पन्न करके धर्मपूर्वक पृथ्वीका पालन करो और यज्ञोंद्वारा श्रीहरिकी आराधना करो॥ ११॥

श्लोक-१२

विश्वास-प्रस्तुतिः

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप।
भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति॥

मूलम्

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप।
भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति॥

श्लोक-१३

विश्वास-प्रस्तुतिः

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः।
तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्॥

मूलम्

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः।
तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्॥ १३ ॥

अनुवाद (हिन्दी)

राजन्! प्रजापालनसे मेरी बड़ी सेवा होगी और तुम्हें प्रजाका पालन करते देखकर भगवान् श्रीहरि भी तुमसे प्रसन्न होंगे। जिनपर यज्ञमूर्ति जनार्दन भगवान् प्रसन्न नहीं होते, उनका सारा श्रम व्यर्थ ही होता है; क्योंकि वे तो एक प्रकारसे अपने आत्माका ही अनादर करते हैं॥ १२-१३॥

वीरराघवः

किं भगवत्-सन्तोषेणेत्य् अत्राह । येषाम् इति । यज्ञलिङ्गो यज्ञमूर्तिः सनातनो भगवान् येषां न तुष्टः तेषां श्रमः अपार्थाय निष्प्रयोजनाय भवतीत्य् अर्थः । यद्य् अतः आत्मा भगवान् स्वयं नादृतः उपेक्षित इति यावत्॥ १३ ॥

श्लोक-१४

मूलम् (वचनम्)

मनुरुवाच

विश्वास-प्रस्तुतिः

आदेशेऽहं भगवतो वर्तेयामीवसूदन।
स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो॥

मूलम्

आदेशेऽहं भगवतो व4र्तेयामीवसूदन।
स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो॥ १४ ॥

अनुवाद (हिन्दी)

मनुजीने कहा—पापका नाश करनेवाले पिताजी! मैं आपकी आज्ञाका पालन अवश्य करूँगा; किन्तु आप इस जगत‍्में मेरे और मेरी भावी प्रजाके रहनेके लिये स्थान बतलाइये॥ १४॥

वीरराघवः

एवम् उक्तो मनुः किम् उवाचेत्य् अत्राह । आदेश इति । अमीवसूदन ! पापनाशन ! भगवतस् तवादेशे आज्ञायां वर्तेय किन्तु हे प्रभो ! प्रजानां मम च इहास्मिन् लोके स्थानं निवासस्थानम् अनुजानीह्य् अनुज्ञापय प्रदर्शयेत्य् अर्थः॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम्॥

मूलम्

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम्॥ १५ ॥

अनुवाद (हिन्दी)

देव! सब जीवोंका निवासस्थान पृथ्वी इस समय प्रलयके जलमें डूबी हुई है। आप इस देवीके उद्धारका प्रयत्न कीजिये॥ १५॥

वीरराघवः

ननु मही एव सर्वभूतानां स्थानं कथम् उच्यते स्थानम् अनुजानीहीति तत्राह । यद् इति । सर्वसत्त्वानां सर्वभूतानां यद् ओकः स्थानं स्थानभूता मही भूमिः महाम्भसि महति जले मग्ना अन्तर्गता आसीद् इति तस्या देव्या भूमेर् उद्धरणे यत्नः हे देव ! विधीयतां क्रियताम्॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्।
कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्॥

मूलम्

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्।
कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्॥ १६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—पृथ्वीको इस प्रकार अथाह जलमें डूबी देखकर ब्रह्माजी बहुत देरतक मनमें यह सोचते रहे कि ‘इसे कैसे निकालूँ॥ १६॥

वीरराघवः

एवमुक्तो ब्रह्मा किम् अकरोद् इत्य् अत्राह । परमेष्ठी ब्रह्मा तदापाम् मध्ये आसन्नां निमग्नां गाम् अवेक्ष्य ज्ञात्वा एनां भूमिम् अहं कथं समुन्नेष्ये उद्धरिष्यामीति धिया चिरन् दध्यौ चिन्तयामास॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता।
अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः।
यस्याहं हृदयादासं स ईशो विदधातु मे॥

मूलम्

सृज5तो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता।
अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः।
यस्याहं हृदयादासं स ईशो विदधातु मे॥ १७ ॥

अनुवाद (हिन्दी)

जिस समय मैं लोकरचनामें लगा हुआ था, उस समय पृथ्वी जलमें डूब जानेसे रसातलको चली गयी। हमलोग सृष्टिकार्यमें नियुक्त हैं, अतः इसके लिये हमें क्या करना चाहिये? अब तो, जिनके संकल्पमात्रसे मेरा जन्म हुआ है, वे सर्वशक्तिमान् श्रीहरि ही मेरा यह काम पूरा करें’॥ १७॥

श्लोक-१८

विश्वास-प्रस्तुतिः

इत्यभिध्यायतो नासाविवरात्सहसानघ।
वराहतोको निरगादङ्‍गुष्ठपरिमाणकः॥

मूलम्

इत्यभिध्यायतो नासाविवरात्सहसानघ।
वराहतोको निरगादङ्‍गुष्ठपरिमाणकः॥ १८ ॥

अनुवाद (हिन्दी)

निष्पाप विदुरजी! ब्रह्माजी इस प्रकार विचार कर ही रहे थे कि उनके नासाछिद्रसे अकस्मात् अँगूठेके बराबर आकारका एक वराह-शिशु निकला॥ १८॥

वीरराघवः

चिन्ताम् एव प्रपञ्चयति । पीतम् इति । सर्वं कृत्स्नं जलं प्रालयिकं जलं मया पीतं ततः पृथिवी च निवेशिता स्थापिता देवासुरादीन् प्रजाः मे मम सृजतः सतः वार्भिः जलैः प्लाव्यमाना मज्जमाना रसा रसातलं गता प्राप्ता । अथानन्तरं सर्गे योजितैः प्रयुक्तैर् अस्माभिः किम् अनुष्ठेयं किं विधेयं यस्य भगवतो हृदयात् सङ्कल्पाद् अहम् आसमुद्भूवं स ईशो मे भगवान् विदधातु अनुष्ठेयं सम्पादयतु चिन्तां निगमयन् वराहावतारं प्रस्तौति । इतीति । इत्य् उक्तरीत्याभिध्यायतः चिन्तयतो ब्रह्मणो नासाविवरान् नासिकाविवराद् वराहतोकः वराहपोतः ऽङ्गुष्ठपरिमाणतः । प्रातिपदिकार्थे तसिः । निरगान् निर्गतो ऽभूत् । हे ऽनघ ! विदुर ! न चानेन चतुर्मुख एव वराहरूपो ऽभवद् इति शङ्क्यं ‘तर्कयामास चित्रधा’ किम् एतत् सौकरव्याजं सत्त्वं दिव्यम् इति चतुर्मुखेनाप्य्-अज्ञायमानतया विचारितत्वोक्तेः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तस्याभिपश्यतः खस्थः क्षणेन किल भारत।
गजमात्रः प्रववृधे तदद‍्भुतमभून्महत्॥

मूलम्

तस्याभिपश्यतः खस्थः क्षणेन किल भारत।
गजमात्रः प्रववृधे तदद‍्भुतमभून्महत्॥ १९ ॥

अनुवाद (हिन्दी)

भारत! बड़े आश्चर्यकी बात तो यही हुई कि आकाशमें खड़ा हुआ वह वराह-शिशु ब्रह्माजीके देखते-ही-देखते बड़ा होकर क्षणभरमें हाथीके बराबर हो गया॥ १९॥

वीरराघवः

तस्य ब्रह्मणः अभिपश्यतः सतः सूक्ष्मो वराहः खस्थ आकाशे स्थितः सन् क्षणेन गजमात्रः गजपरिमाणः प्रववृधे तद् उत्पत्तिर् आकाशारोहणे वृद्धिश् चेति एतत् पश्यताम् आश्चर्यम् इवाभूत् इव-शब्देन पश्यताम् एवाश्चर्यं न तु भगवतो वराहस्येति सूचितम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह।
दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा॥

मूलम्

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह।
दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा॥ २० ॥

अनुवाद (हिन्दी)

उस विशाल वराह-मूर्तिको देखकर मरीचि आदि मुनिजन, सनकादि और स्वायम्भुव मनुके सहित श्रीब्रह्माजी तरह-तरहके विचार करने लगे—॥ २०॥

वीरराघवः

ततो मरीचि-प्रभृतिभिः पुत्रैः कुमारैः सनकादिभिः मनुना सह तत् सौकरं वाराहं रूपं दृष्ट्वा ब्रह्मा चित्रधा तर्कयामास ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम्।
अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्॥

मूलम्

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम्।
अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्॥ २१ ॥

अनुवाद (हिन्दी)

अहो! सूकरके रूपमें आज यह कौन दिव्य प्राणी यहाँ प्रकट हुआ है? कैसा आश्चर्य है! यह अभी-अभी मेरी नाकसे निकला था॥ २१॥

वीरराघवः

तर्कम् एव प्रपञ्चयति । किम् इति द्वाभ्याम् । दिवि भवं दिव्यं परम-व्योम-निलयं शुद्ध-सत्त्व-मयं पर-ब्रह्म-सत्त्वं सूकरः व्याजं सूकरः व्याजः छद्म-वेषो यस्य स तद् एवम् अवस्थितं किंशब्दो विचार-द्योतकः मे मम नासाया इदं वराह-रूपं विनिःसृतं विनिर्गतम् अहो बताश्चर्ये ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद‍्गण्डशिलासमः।
अपि स्विद‍्भगवानेष यज्ञो मे खेदयन्मनः॥

मूलम्

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद‍्गण्डशिलासमः।
अपि स्विद‍्भगवानेष यज्ञो मे खेदयन्मनः॥ २२ ॥

अनुवाद (हिन्दी)

पहले तो यह अँगूठेके पोरुएके बराबर दिखायी देता था, किन्तु एक क्षणमें ही बड़ी भारी शिलाके समान हो गया। अवश्य ही यज्ञमूर्ति भगवान् हमलोगोंके मनको मोहित कर रहे हैं॥ २२॥

वीरराघवः

अङ्गुष्ठस्य शिरः ऊर्ध्वं पर्व तद् एव मात्रा-प्रमाणं यस्य सः प्रथमं दृष्टः पश्चात् क्षणेन गण्ड-शिला-समः स्थूल-पाषाण-मात्रो दृष्टः यज्ञो विष्णुः यज्ञो वै विष्णुर् इति श्रुतेः मे मनः खेदयति निज-रूप-तिरोधानेन मोहयन्न् एष भगवान् अपि स्विदेष वराह-मूर्तिर् भगवान् अपिस्वित् अपिस्विच्-छब्दः सम्भावनायां भगवान् स्याद् इत्य् अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः।
भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः॥

मूलम्

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः।
भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः॥ २३ ॥

अनुवाद (हिन्दी)

ब्रह्माजी और उनके पुत्र इस प्रकार सोच ही रहे थे कि भगवान् यज्ञपुरुष पर्वताकार होकर गरजने लगे॥ २३॥

वीरराघवः

तर्कम् उपसंहरन् वाराह-तनोर् भगवतश् चरितं संग्रहेणाह इतीत्य् आदिना यावद्-अध्याय-समाप्ति । इत्य् उक्त-रीत्या सूनुभिर्-मन्वादिभिः सह तस्य ब्रह्मणः मीमांसतः तर्कयतः सतः अगेन्द्र-सन्निभः गिरीन्द्र-सदृशो भगवान् यज्ञ-पुरुषः जगर्जागर्जत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्।
स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः॥

मूलम्

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्।
स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः॥ २४ ॥

अनुवाद (हिन्दी)

सर्वशक्तिमान् श्रीहरिने अपनी गर्जनासे दिशाओंको प्रतिध्वनित करके ब्रह्मा और श्रेष्ठ ब्राह्मणोंको हर्षसे भर दिया॥ २४॥

वीरराघवः

ब्रह्माणम् इति । विभुर् हरिर् वराहः ककुभः दिशः प्रतिस्वनयता प्रतिध्वनि-युक्ताः कुर्वता स्व-गर्जितेन ब्रह्माणं तांश् च द्विजोत्तमान् मरीच्यादीन् हर्षयामास ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

निशम्य ते घर्घरितं स्वखेद-
क्षयिष्णु मायामयसूकरस्य।
जनस्तपःसत्यनिवासिनस्ते
त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म॥

मूलम्

निशम्य ते घर्घरितं स्वखेदक्षयिष्णु मायामयसूकरस्य।
जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म॥ २५ ॥

अनुवाद (हिन्दी)

अपना खेद दूर करनेवाली मायामय वराहभगवान‍्की घुरघुराहटको सुनकर वे जनलोक, तपलोक और सत्यलोकनिवासी मुनिगण तीनों वेदोंके परम पवित्र मन्त्रोंसे उनकी स्तुति करने लगे॥ २५॥

वीरराघवः

निशम्येति । मायामय-सूकरस्याश्चर्य-प्रचुर सूकर-तनोर् घर्घरितं तज्-जातीयानुकार-रूप-घर्घरित-ध्वनिं निशम्य ते जनस्-तपः-सत्यलोक-निवासिनः जनस्-तप इत्य् अत्र सुड्-आगम आर्षः मुनयः कथंभूतं घुर्घुरितं स्व-खेद-क्षयिष्णु स्वेषां सम्बन्धिनां यः खेदः तं क्षपयति तत्-शीलं आत्मीय-दुःख-निरसन-स्वभावं ते मुनयः पवित्रैस् त्रिभिः ऋग्-यजुः-साम-सूक्तैर् अगृणन् स्मास्तुवन् खलु ते इति पुनर्-उक्तिः प्रसिद्धि-ख्यापनाय ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तेषां सतां वेदवितानमूर्ति-
र्ब्रह्मावधार्यात्मगुणानुवादम्।
विनद्य भूयो विबुधोदयाय
गजेन्द्रलीलो जलमाविवेश॥

मूलम्

तेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्।
विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश॥ २६ ॥

अनुवाद (हिन्दी)

भगवान‍्के स्वरूपका वेदोंमें विस्तारसे वर्णन किया गया है; अतः उन मुनीश्वरोंने जो स्तुति की, उसे वेदरूप मानकर भगवान् बड़े प्रसन्न हुए और एक बार फिर गरजकर देवताओंके हितके लिये गजराजकी-सी लीला करते हुए जलमें घुस गये॥ २६॥

वीरराघवः

तेषाम् इति । वेद-वितान-मूर्तिः वेदैर् वितन्यत इति वेद-वितानः यज्ञः स एव मूर्तिर् यस्य स भगवान् तेषां सतां मरीच्यादीनाम् आत्मनो ये गुणाः कल्याण-गुणाः तान् अनुवदतीति तद् ब्रह्म वेदम् अवधार्य श्रुत्वा भूयः पुनः विनद्य घर्घरितं कृत्वा विबुधानां ब्रह्मादीनाम् उदयाय श्रेयसे जलम् आविवेश कथंभूतः गजेन्द्रस्येव लीला यस्य सः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

उत्क्षिप्तवालः खचरः कठोरः
सटा विधुन्वन् खररोमशत्वक्।
खुराहताभ्रः सितदंष्ट्र ईक्षा-
ज्योतिर्बभासे भगवान्महीध्रः॥

मूलम्

उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन् खररोमशत्वक्।
खुराहताभ्रः सित6दंष्ट्र ईक्षाज्योतिर्बभासे भगवान्महीध्रः॥ २७ ॥

अनुवाद (हिन्दी)

पहले वे सूकररूप भगवान् पूँछ उठाकर बड़े वेगसे आकाशमें उछले और अपनी गर्दनके बालोंको फटकारकर खुरोंके आघातसे बादलोंको छितराने लगे। उनका शरीर बड़ा कठोर था, त्वचापर कड़े-कड़े बाल थे, दाढ़ें सफेद थीं और नेत्रोंसे तेज निकल रहा था, उस समय उनकी बड़ी शोभा हो रही थी॥ २७॥

वीरराघवः

पुनः कथंभूतो विवेशेत्य् अपेक्षायाम् आह । उत्क्षिप्त इति द्वाभ्याम् । वराहं विशिनष्टि । उत्क्षिप्तः वालः पुच्छं येन सहः खचरः आकाश-चारी कठोरः कठिनः सटाः कन्धरा-स्थाः केसरास् तान् विधुन्वन् खराणि रोमाणि यस्यां सा त्वग् यस्य सः खुरैर् आहतान्य् अभ्राणि येन सः सिते दंष्ट्रे यस्य सः ईक्षा निरीक्षणम् एव ज्योतिर् आलोको यस्य सः प्रकाशमान-नेत्र इत्य् अर्थः । महीध्रः मह्या उद्धर्ता भगवान् बभासे ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्
क्रोडापदेशः स्वयमध्वराङ्गः।
करालदंष्ट्रोऽप्यकरालदृग्भ्या-
मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम्॥

मूलम्

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयमध्वराङ्गः।
करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम्॥ २८ ॥

अनुवाद (हिन्दी)

भगवान् स्वयं यज्ञपुरुष हैं तथापि सूकररूप धारण करनेके कारण अपनी नाकसे सूँघ-सूँघकर पृथ्वीका पता लगा रहे थे। उनकी दाढ़ें बड़ी कठोर थीं। इस प्रकार यद्यपि वे बड़े क्रूर जान पड़ते थे, तथापि अपनी स्तुति करनेवाले मरीचि आदि मुनियोंकी ओर बड़ी सौम्य दृष्टिसे निहारते हुए उन्होंने जलमें प्रवेश किया॥ २८॥

वीरराघवः

किञ्च घ्राणेनेति । क्रोडापदेशः वराह-छद्मा ऽतः स्वयम् अध्वराङ्गो ऽपि पशुर् इवाघ्राणेन पृथ्व्याः पदवीं विजिघ्रन् त्वेषयन् निवेत्य् अर्थः । कराले पङ्किले दंष्ट्रे यस्य तथाभूतो ऽप्य् अकराल-दृग्भ्यां सौम्यदृष्टिभ्यां गृणतः । स्तोतॄन् विप्रान् उद्वीक्ष्य ऊर्ध्वं वीक्ष्य कं समुद्र-जलम् अविशत् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

स वज्रकूटाङ्गनिपातवेग-
विशीर्णकुक्षिः स्तनयन्नुदन्वान्।
उत्सृष्टदीर्घोर्मिभुजैरिवार्त-
श्चुक्रोश यज्ञेश्वर पाहि मेति॥

मूलम्

स वज्रकूटाङ्गनिपातवेगविशीर्णकुक्षिः स्तनयन्नुदन्वान्।
उत्सृष्टदीर्घोर्मिभु7जैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति॥ २९ ॥

अनुवाद (हिन्दी)

जिस समय उनका वज्रमयपर्वतके समान कठोर कलेवर जलमें गिरा, तब उसके वेगसे मानो समुद्रका पेट फट गया और उसमें बादलोंकी गड़गड़ाहटके समान बड़ा भीषण शब्द हुआ। उस समय ऐसा जान पड़ता था मानो अपनी उत्ताल तरंगरूप भुजाओंको उठाकर वह बड़े आर्तस्वरसे ‘हे यज्ञेश्वर! मेरी रक्षा करो।’ इस प्रकार पुकार रहा है॥ २९॥

वीरराघवः

तदानींतनं समुद्रध्वनिम् उत्प्रेक्षेत स इति । स उदन्वान् समुद्रः वज्र-पर्वतः तद्वद् अङ्गं यस्य भगवतस् तस्य निपात-वेगेन विशीर्णो विलुण्ठिता कुक्षिर् यस्य सः अत एवार्त इव स्तनयन् शब्दं कुर्वन् भो यज्ञेश्वर ! मां पाहि मा भिन्धीत्य् एवं चुक्रोश आर्त-सादृश्यम् आह । उत्सृष्टाः प्रसारिताः दीर्घा ऊर्मय एव भुजास् तैर् विशिष्टः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

खुरैः क्षुरप्रैर्दरयंस्तदाऽप
उत्पारपारं त्रिपरू रसायाम्।
ददर्श गां तत्र सुषुप्सुरग्रे
यां जीवधानीं स्वयमभ्यधत्त॥

मूलम्

खुरैः क्षुरप्रैर्दरयंस्तदाऽऽप उत्पारपारं त्रिप8रू रसायाम्।
ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त॥ ३० ॥

अनुवाद (हिन्दी)

तब भगवान् यज्ञमूर्ति अपने बाणके समान पैने खुरोंसे जलको चीरते हुए उस अपार जलराशिके उस पार पहुँचे। वहाँ रसातलमें उन्होंने समस्त जीवोंकी आश्रयभूता पृथ्वीको देखा, जिसे कल्पान्तमें शयन करनेके लिये उद्यत श्रीहरिने स्वयं अपने ही उदरमें लीन कर लिया था॥ ३०॥

वीरराघवः

जल-प्रविष्टो भगवान् किम् अकरोद् इत्य् अत्राह । खुरैर् इति । त्रि-परुः त्रीणि परूंषि सवनात्मकानि पर्वाणि यस्य सः । यद्वा त्रीणि परूंषि रेखा ककुत्-स्थले यस्य सः उत्पार-पार उत्पारश् चासौ पारश् च उत्पारः उद्वेल इव पारम् अतिक्रान्तः पारः संसारात् पारयिता चेत्य् अर्थः । उत्पार-पारम् इति द्वितीयान्तो ऽपि पाठः तदा उत्पार-पारं दरयन्न् इति क्रिया-विशेषणत्वेन योज्यम् । उत्पाराणां पार-शून्यानाम् अपां पारम् अवसानं यथा भवति तथाऽपः जलानि खुरैस् तदा दरयन् विदलयन् विलोडयन् कथंभूतैः खुरैः क्षुर-प्रायैः रसायां रसातले गां भूमिं ददर्श कथं भूतानाम् अग्रे प्रलय-समये तत्र तास्व् अप्सु सुषुप्सुः शिशयिषुः सन् जीव-धानीं जीवा धीयन्ते ऽस्यां तां प्राण्य्-आश्रय-भूतां यां गां स्वयम् अभ्यधत्ताभिमुख्येन दधार जठरे धृदवांस् ताम् इत्य् अर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

स्वदंष्ट्रयोद्‍धृत्य महीं निमग्नां
स उत्थितः संरुरुचे रसायाः।
तत्रापि दैत्यं गदयाऽऽपतन्तं
सुनाभसन्दीपिततीव्रमन्युः॥

मूलम्

स्वदंष्ट्रयोद्‍धृत्य महीं निर्म9ग्नां स उत्थितः संरुरुचे रसायाः।
तत्रापि दैत्यं गदयाऽऽपतन्तं सु10नाभसन्दीपिततीव्रमन्युः॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

जघान रुन्धानमसह्यविक्रमं
स लीलयेभं मृगराडिवाम्भसि।
तद्रक्तपङ्काङ्कितगण्डतुण्डो
यथा गजेन्द्रो जगतीं विभिन्दन्॥

मूलम्

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि।
तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्॥ ३२ ॥

अनुवाद (हिन्दी)

फिर वे जलमें डूबी हुई पृथ्वीको अपनी दाढ़ोंपर लेकर रसातलसे ऊपर आये। उस समय उनकी बड़ी शोभा हो रही थी। जलसे बाहर आते समय उनके मार्गमें विघ्न डालनेके लिये महापराक्रमी हिरण्याक्षने जलके भीतर ही उनपर गदासे आक्रमण किया। इससे उनका क्रोध चक्रके समान तीक्ष्ण हो गया और उन्होंने उसे लीलासे ही इस प्रकार मार डाला, जैसे सिंह हाथीको मार डालता है। उस समय उसके रक्तसे थूथनी तथा कनपटी सन जानेके कारण वे ऐसे जान पड़ते थे मानो कोई गजराज लाल मिट्टीके टीलेमें टक्‍कर मारकर आया हो॥ ३१-३२॥

वीरराघवः

येन स्व-दंष्ट्रया विलग्ना मही उद्धृता स भगवान् रसायाः सकाशाद् उत्थितः संरुरुचे तत्राप्य् अम्भसि गदया आपतन्तं गदाम् उद्यम्यागच्छन्तं रुन्धानं प्रतिघ्नन्तम् असह्यः विक्रमो यस्य तम् आदि-दैत्यं हिरण्याक्षं सुनाभेन सन्दीपिताः उज्ज्वलः स चासौ तीव्र-मन्युश् च भगवान् मृग-राट् सिंह इभम् इव गजम् इव लीलया जघान हतवान् यथा गजेन्द्रः जगतीं व प्रविभिन्दन्न् अरुण-गण्ड-तुण्डो भवति तद्वत् तस्य रक्तम् एव पङ्कस् तेनाङ्कितौ गण्डौ तुडञ् च यस्य स जघानेति पूर्वेणान्वयः॥ ३१-३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तमालनीलं सितदन्तकोट्या
क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग।
प्रज्ञाय बद्धाञ्जलयोऽनुवाकै-
र्विरिञ्चिमुख्या उपतस्थुरीशम्॥

मूलम्

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग।
प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम्॥ ३३ ॥

अनुवाद (हिन्दी)

तात! जैसे गजराज अपने दाँतोंपर कमल-पुष्प धारण कर ले, उसी प्रकार अपने सफेद दाँतोंकी नोकपर पृथ्वीको धारण कर जलसे बाहर निकले हुए , तमालके समान नीलवर्ण वराहभगवान‍्को देखकर ब्रह्मा, मरीचि आदिको निश्चय हो गया कि ये भगवान् ही हैं। तब वे हाथ जोड़कर वेदवाक्योंसे उनकी स्तुति करने लगे॥ ३३॥

वीरराघवः

तमालवन्-नीलं सित-दन्त-कोट्या दंष्ट्राग्रेण क्ष्मां महीम् अजस्येव लीलयोत्क्षिपन्तम् ईशं भगवन्तं प्रज्ञायालक्ष्याङ्ग हे विदुर ! विरञ्चि-प्रभृतयो बद्धाञ्जलयः सन्तः अनुवाको वेद-सूक्तं तत्-सदृशैर् वाक्यैर् उपतस्थुः समीपे स्थित्वाभिदधुस् तुष्टुवुर् इत्य् अर्थः ॥ ३३ ॥

श्लोक-३४

मूलम् (वचनम्)

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

जितं जितं तेऽजित यज्ञभावन
त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोमगर्तेषु निलिल्युरध्वरा-
स्तस्मै नमः कारणसूकराय ते॥

मूलम्

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः।
यद्रोम11गर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते12॥ ३४ ॥

अनुवाद (हिन्दी)

ऋषियोंने कहा—भगवान् अजित्! आपकी जय हो, जय हो। यज्ञपते! आप अपने वेदत्रयीरूप विग्रहको फटकार रहे हैं; आपको नमस्कार है। आपके रोम-कूपोंमें सम्पूर्ण यज्ञ लीन हैं। आपने पृथ्वीका उद्धार करनेके लिये ही यह सूकररूप धारण किया है; आपको नमस्कार है॥ ३४॥

वीरराघवः

उपस्थान-प्रकारम् एवाह । जितम् इत्य् आदिना । हे ऽजित ! ते त्वया जितं सर्वोत्कर्षेण वर्तितं जितं जितम् इति संभ्रमाद् वीप्सा हे यज्ञ-भावन ! यज्ञैर् भाव्यते संभाव्यते सैव भा इति तत्-सम्बुद्धिः यज्ञाराध्येत्य् अर्थः । यद्वा यज्ञान् भावयति वर्तयतीति तथा यज्ञाधिपते इत्य् अर्थः । यद्वा यज्ञैर् विभाव्यते ऽवयवत्वेनोपास्यत इति तथेति यावत् अत एव ह्य् उत्तरत्र यज्ञावयवान् छन्द-आदीन् अवयवत्वेन कल्पयित्वा स्तुतिर् व्यज्यते त्रयीं वेद-त्रयी-विहित-यज्ञ-मयत्वेनोपासनात्-तद्-आराध्यत्वाद् वा त्रयी-मयत्वं तन्वां ज्ञेयम्, स्वां स्वकीयां तनुं परिधुन्वते परितः सर्वतः कम्पते तुभ्यं नमः । बहुषु कल्याण-गुणेषु सत्सु किं विशेषेण तनु-परिधूननम् एव प्रथमं स्तूयत इत्य् अत्राह । यद्-रोमेति । यत् यस्यां तन्वां रोमाणि तेषां गर्तेषु रन्ध्रेष्व् अब्धयः समुद्रा निलिल्युर् लीना बभूवुर् अत इदम् अत्य्-आश्चर्यम् इति तद् एव प्रथमं स्तूयत इति भावः । अत एव कारण-सूकराय जगत्-कारण-भूतायाप्राकृत-सूकर-रूपिणे यद्वा कारणात् क्षित्य्-उद्धारण-निमित्तात् सूकर-रूप-धारिण इत्य् अर्थः । न हि प्राकृत-सूकरस्येत्थं सामर्थ्यं दृष्टम् इत्य् अभिप्रायः । एवं-भूताय तस्मै नमः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

रूपं तवैतन्ननु दुष्कृतात्मनां
दुर्दर्शनं देव यदध्वरात्मकम्।
छन्दांसि यस्य त्वचि बर्हिरोम-
स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्॥

मूलम्

रूपं तवैतन्ननु दुष्कृतात्मनां 13दुर्दर्शनं देव यदध्वरात्मकम्।
छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्॥ ३५ ॥

अनुवाद (हिन्दी)

देव! दुराचारियोंको आपके इस शरीरका दर्शन होना अत्यन्त कठिन है; क्योंकि यह यज्ञरूप है। इसकी त्वचामें गायत्री आदि छन्द, रोमावलीमें कुश, नेत्रोंमें घृत तथा चारों चरणोंमें होता, अध्वर्यु, उद‍्गाता और ब्रह्मा—इन चारों ऋत्विजोंके कर्म हैं॥ ३५॥

वीरराघवः

रूपस्याप्राकृतत्वं तद्-अनुक्त-यज्ञ-भावनत्वम् एव प्रपञ्चयति । रूपम् इति चतुर्भिः । हे देव ! यद्-अध्वरात्मकं तव रूपं तद्-दुष्कृतात्मनां दुष्कृतम् अघं तेन मलिन आत्मा मनो येषाम् अयोगिनां दुर्द्दर्शनं दर्शनाविषयं प्राकृते हि रूपं प्राकृत-मनो-ग्राह्यम् इदं तु रूपं “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इत्यादि श्रुत्य्-उक्त-विधया योग-शुद्ध-मनो-ग्राह्यत्वाद् अप्राकृतम् इत्य् अर्थः । नन्व् अयोगिभिर् अपि तादात्विकैर् भगवतो विभव-रूपे दृश्यत एव कथम् एतद् उच्यते । दुष्कृतात्मना दुर्द्दर्शम् इति उच्यते । न ह्य् अयोगिनो भगवतो विभव-रूपम् अप्राकृतं पञ्चोपनिषन्-मयं स्वेच्छयैवोपात्तम् इति यथावज् जानन्ति किन्तु तिर्यग्-आदि-सजातीयं प्राकृतम् इत्य् एव जानन्ति । अतो न विरोधः अत्र यज्ञाङ्गानां छन्दादीनां भगवद्-अवयवत्वेनानुसन्धान-रूप-दृष्ट्या उपासन-विधानार्थं पूर्वोक्त-यज्ञ-भावनत्वं यद्-अध्वरात्मकत्वम् इत्य् अनूद्यते इदं छन्दादीनां भगवत्-त्वग्-आदि-त्व-रूपणं दृष्ट्य्-उपासनं नाम-ब्रह्ममनो ब्रह्मेत्य् आदिवत् न हि काल-त्रय-वर्तिनो छन्दादीनां यज्ञानां संघातस्य तात्कालिक-भगवद्-वराह-तनुत्व-संभवः सर्व-शरीरकत्वात् । यज्ञावयवानाम् अपि तद्-अङ्गत्व-कथनं सम्भवति तथापि प्राकृतानां यज्ञावयवानां तच्-छरीरकत्वे ऽपि प्रत्येकम् एव यज्ञावयवानां तच्-छरीरत्वात् तेषान् तच्-छरीरावयवत्व-कीर्तनम् अनुपपन्नम् एव तस्माद् दृष्ट्युपासना-विधानम् एवेति मन्तव्य-भूतश् छन्दांसि त्वचि बर्हि-रोमसु इत्यादि, क्वचिद् व्यतिरेक-निर्देशः क्वचिद् अग्निहोत्रं चर्वणम् उपसदः शिरोधर इत्य् अभेद-निर्देशश् चोपपन्नः यस्य तव त्वचि छन्दांसि गायत्री-त्रिष्टुब्-आदीनि यज्ञाङ्गानि छन्दांस्य् आसन्न् इत्य् अपकृष्ट-क्रिया-पद-विपरिणामेनान्वयः । रोमसु बर्हि कुशः बर्हि रोमस्व् इत्य् अत्रार्षत्वात् ढ्रलोपे इति दीर्घाभावः दृशि दृष्टौ आज्यम् अङ्घ्रिषुः, चतुर्-होत्रं चातुर्-होतृ-शब्द-वाच्य-मन्त्र-भेद्यं कर्म ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

स्रुक्तुण्ड आसीत्स्रुव ईश नासयो-
रिडोदरे चमसाः कर्णरन्ध्रे।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणं ते भगवन्नग्निहोत्रम्॥

मूलम्

स्रुक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे।
प्रा14शित्रमास्वे ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्॥ ३६ ॥

अनुवाद (हिन्दी)

ईश! आपकी थूथनी (मुखके अग्रभाग)-में स्रुक् है, नासिका-छिद्रोंमें स्रुवा है, उदरमें इडा (यज्ञीय भक्षणपात्र) है, कानोंमें चमस है, मुखमें प्राशित्र (ब्रह्मभागपात्र) है और कण्ठछिद्रमें ग्रह (सोमपात्र) है। भगवन्! आपका जो चबाना है, वही अग्निहोत्र है॥ ३६॥

वीरराघवः

स्रुक् जुहूः तुण्डे मुखाग्रे आसीत् स्रुच इतरंदर्वीनासिकयोर् आसीद् इत्य् अनुषङ्गः एवम् उत्तरत्रापि इडा हविर्-भक्षण-पात्रम् उदरे चमसाः सोम-पात्राणि च तत्र चमसाः कर्ण-रन्ध्रे आसन् प्राशित्रं ब्रह्म-भाग-पात्रम् आस्ये मुखे आसीत् ग्रहः ग्रसने ग्रस्यते ऽनेनेति ग्रसनं मुखान्त-वर्ति-च्छिद्रं तस्मिन्न् आसन् हे भगवन् ! यद् अग्निहोत्रम् अग्निहोत्र-नामकं कर्म तत् ते तव चर्वणं भक्षणम् आसीत् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

दीक्षानुजन्मोपसदः शिरोधरं
त्वं प्रायणीयोदयनीयदंष्ट्रः।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
सभ्यावसथ्यं चितयोऽसवो हि ते॥

मूलम्

दीक्षानु15जन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः।
जिह्वा प्रव16र्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽस17वो हि ते॥ ३७ ॥

अनुवाद (हिन्दी)

बार-बार अवतार लेना यज्ञस्वरूप आपकी दीक्षणीय इष्टि है, गरदन उपसद (तीन इष्टियाँ) हैं; दोनों दाढ़ें प्रायणीय (दीक्षाके बादकी इष्टि) और उदयनीय (यज्ञसमाप्तिकी इष्टि) हैं; जिह्वा प्रवर्ग्य (प्रत्येक उपसदके पूर्व किया जानेवाला महावीर नामक कर्म) है, सिर सभ्य (होमरहित अग्नि) और आवसथ्य (औपासनाग्नि) हैं तथा प्राण चिति (इष्टका चयन) हैं॥ ३७॥

वीरराघवः

दीक्षा दीक्षणीयेष्टिः तवानुजन्म वारं वारम् अभिव्यक्तिः उपसदः उपसद्-आख्याः इष्टयः तव शिरोधरं ग्रीवा प्रायणीय आरम्भेष्टिः उदयनीयः अवसानेष्टिः प्रायणीयोदयनीये दंष्ट्रे यस्य स वीरः प्रवर्ग्यः महावीरः जिह्वा आसीत् सभ्यो होमरहितो ऽग्निः आवसथ्य औपासनाग्निः तयोर् द्वन्द्वैक्यं ते क्रतोः क्रतु-रूपस्य तव शीर्षकं शिरः चितय इष्टका-बन्धन-विशेषाः ते तवासवः प्राणाः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

सोमस्तु रेतः सवनान्यवस्थितिः
संस्थाविभेदास्तव देव धातवः।
सत्राणि सर्वाणि शरीरसन्धि-
स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः॥

मूलम्

सोम18स्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः।
सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः॥ ३८ ॥

अनुवाद (हिन्दी)

देव! आपका वीर्य सोम है; आसन (बैठना) प्रातःसवनादि तीन सवन हैं; सातों धातु अग्निष्टोम, अत्यग्निष्टोम, उक्थ, षोडशी, वाजपेय, अतिरात्र और आप्तोर्याम नामकी सात संस्थाएँ हैं तथा शरीरकी सन्धियाँ (जोड़) सम्पूर्ण सत्र हैं। इस प्रकार आप सम्पूर्ण यज्ञ (सोमरहित याग) और क्रतु (सोमसहित याग) रूप हैं। यज्ञानुष्ठानरूप इष्टियाँ आपके अंगोंको मिलाये रखनेवाली मांसपेशियाँ हैं॥ ३८॥

वीरराघवः

सोमस् तव रेतः सवनानि प्रातः-सवनादीनि तवावस्थितिर् अवस्थानं बाल्याद्यवस्था वा संस्था-विभेदाः अग्निष्टोमो ऽत्यग्निष्टोम उक्थः षोडशी वाजपेयातिरात्रौ आप्तोर्याम् इति सप्त तव देह-धातवः त्वड्यासादिसप्त धातवः सत्राणि बहु-यजमानकानि कर्माणि सर्वाणि ते तव शरीर-सन्धयः त्वं सर्व-यज्ञ-क्रतुर्-असोमा यज्ञः समोसाः क्रतवः तद्-रूपस् त्वम् इत्य् अर्थः यद्वा । यज्ञ-रूपः क्रतुः क्रतु-शब्दो यज्ञ-मात्र-परः उपासनेष्व् अपि क्रतु-शब्द-प्रयोगः ततश् च यज्ञ-रूपः क्रतुर् अनुष्ठेयं कर्म यस्याराधनं स सर्व-यज्ञ-क्रतुस् त्वम् इत्य् अर्थः । इष्टिर् याजमानम् अनुष्ठानं तद् एव बन्धनं मध्य-काय-प्रदेशो यस्य स त्वम् इत्य् अर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

नमो नमस्तेऽखिलमन्त्रदेवता-
द्रव्याय सर्वक्रतवे क्रियात्मने।
वैराग्यभक्त्यात्मजयानुभावित-
ज्ञानाय विद्यागुरवे नमो नमः॥

मूलम्

नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्वक्रतवे क्रियात्मने।
वैराग्यभक्त्यात्मजयानुभावितज्ञानाय विद्यागुरवे नमो नमः॥ ३९ ॥

अनुवाद (हिन्दी)

समस्त मन्त्र, देवता, द्रव्य, यज्ञ और कर्म आपके ही स्वरूप हैं; आपको नमस्कार है। वैराग्य, भक्ति और मनकी एकाग्रतासे जिस ज्ञानका अनुभव होता है, वह आपका स्वरूप ही है तथा आप ही सबके विद्यागुरु हैं; आपको पुनः-पुनः प्रणाम है॥ ३९॥

वीरराघवः

एवं भाग-द्वयात्मक-वेद-पूर्वभाग-विहित-यज्ञ-तदङ्गानि स्तुत्यत्वेन प्रकृत-भगवद्-वराह-तन्व्-अवयवत्वेन रूपयित्वाद्य भगवतो भाग-द्वयात्मक-वेद-तद्-उपबृंहण-रूप-स्मृति-वेद्यता-प्रतिपिपादयिषया पूर्वभागोदित-यज्ञ-तदवयवानां भगवच्-छरीरतां तदाराधन-रूपताम् उत्तरभागोदित-न्यासोपासनानां च तत्-प्रसाद-हेतुत्वेन तस्यापि भागस्य भगवत्-परतां च वदन्तो नमस् कुर्वन्ति । नमो नम इति । ते तुभ्यं नमो नमः आदराद् द्विरुक्तिः । यद्वा पूर्वभाग-वेद्यत्व-तद्-उपबृंहण-वेद्यत्व-रूप-गुणम् एव विशिष्टाकार-भेदात् तद्-अपेक्षया नमसो द्विर् उक्तिः । कथंभूताय ते क्रियात्मने क्रिया आत्मा शरीरं यस्य तस्मै यद्वा क्रियाया आत्मा तस्मै इत्य् अर्थः । अनेन स्मार्त-दानादीनां क्रियात्मत्वम् उक्तं सर्व-क्रतवे सर्व-क्रतु-शरीरायेत्य् अर्थः । अनेन श्रौत-यज्ञात्मत्वम् उक्तम् । यश-साधनानाम् अपि तदात्मकत्वम् उच्यते । अखिल-मन्त्र-देवता-द्रव्यायेति । मन्त्रा द्रव्य-देवता-प्रकाशकानि वेद-वाक्यानि देवता उद्देश्य-विशेषा इन्द्रादयो द्रव्याणि आज्य-दधि-पयः-सोमादीनि अखिलानि मन्त्र-देवता-द्रव्याणि यस्य तस्मै अखिल-मन्त्रादि-शरीरायेत्य् अर्थः । तत् तन्-मन्त्र-प्रकाशित-तद्-द्रव्य-देवता-निष्पाद्य-याग-होमादि-क्रिया-बोधक-पूर्वभाग-शरीर-वाचक-शब्दस्य शरीरि-पर्यन्तत्व-न्यायेन भगवत्-परत्वम् उक्तं भवति । यज्ञानां भगवच्-छरीरत्वं बृहदारण्यके माध्यन्दिन-पाठे “यस्यात्मा शरीरम्” इत्य् आरभ्य “यस्य यज्ञाः शरीरम्” इति श्रुतं गुण-क्रियाणाम् अपि शरीरत्वम् आश्रय-द्वारोपपन्नम् इत्य् अन्यद् एतत् । एवं पूर्व-भागस्य भगवत्-परत्वम् उक्तम् अथोत्तर-भागस्य तत्-परत्वं वक्तुं तं विशिनष्टि । वैराग्येति । वैराग्यं शब्दादि-विषयेष्व् अनासक्तिः भक्तिः श्रवण-कीर्तन-स्मरणार्चन-वन्दनादि-रूपा साधन-भक्तिः आत्मजयो ऽन्तःकरण-जयः एतैर् अनुभावितं निष्पादितं ज्ञानं ध्रुवानुस्मृति-रूपं ज्ञानं यस्य तस्मै अन्य-पदार्थ-प्रधान-बहुव्रीहि-बल-लभ्य-सम्बन्ध-सामान्यस्य प्रसादयितृत्व-प्रासादनीयत्व-रूप-विशेषे पर्यवसानं ततश् च वैराग्यादि-निष्पाद्य-ध्रुवानुस्मृत्यात्मकं ज्ञानं यत्-प्रसाद-हेतुस् तस्मै इत्य् अर्थः । अत्र वैराग्य-शब्देन विवेकादि-साधन-सप्तकान्तर्भूत-विमोक उच्यते भक्ति-शब्देन क्रिया आत्म-जय-शब्देनानुद्धर्षः । इयं च केषाञ्चिद् उक्तिर् अन्येषाम् अप्य् उपलक्षणार्था । एवं चानेन विवेकादि-साधन-सप्तकान् निष्पाद्य भगवत्-प्रसाद-हेतु-भूत-ध्रुवानुस्मृति-बोधकस्योत्तर-भागस्य भगवत्-परत्व-सिद्धिः । विद्या-गुरव इत्य् अनेन न्यास-विद्या-प्रतिपादकोत्तर-भागैकदेश-तद्-उपबृंहणानाम् अपि तत्-परत्वम् उक्तम् । विद्या-गुरवे न्यास-विद्या-प्रवर्तिन इत्य् अर्थः । न्यासे विद्या-प्रवर्तितत्वं भगवद्-वराहाद्यवताराणां राम-कृष्ण-वराहाणां वाराह-पुराण-श्रीरामायण-श्रीभगवद्-गीतादिषु प्रसिद्धम् । अत्रापि गुण-भेद-विशिष्टाकार-भेदान् नमसो द्विर्-उक्तिः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
विराजते भूधर भूः सभूधरा।
यथा वनान्निःसरतो दता धृता
मतङ्गजेन्द्रस्य सपत्रपद्मिनी॥

मूलम्

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा।
यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी॥ ४० ॥

अनुवाद (हिन्दी)

पृथ्वीको धारण करनेवाले भगवन्! आपकी दाढ़ोंकी नोकपर रखी हुई यह पर्वतादि-मण्डित पृथ्वी ऐसी सुशोभित हो रही है, जैसे वनमेंसे निकलकर बाहर आये हुए किसी गजराजके दाँतोंपर पत्रयुक्त कमलिनी रखी हो॥ ४०॥

वीरराघवः

एवं भाग-द्वयात्मक-वेद-वेद्यं भगवन्तं नमस्कृत्य अथ स्वाभीष्टं विज्ञापयिष्यन्तः प्रकृत-वराहावतार-चरित्रं तद्-अवतार-सौष्ठवञ् च विज्ञापयन्ति द्वाभ्याम् । दंष्ट्राग्रेति । हे भगवन् ! त्वया कर्त्रा दंष्ट्राग्रकोट्या करणेन सभूधरा सपर्वता भूर्मही धृता सती विराजते भूधर भूधर्तः तत्र दृष्टान्तः यथा वनाज् जलान् निःसरतः निर्गच्छतः मतङ्ग-गजेन्द्रस्य गज-श्रेष्ठस्य दता दन्तेन धृता पङ्क-युक्त-पद्मिनी विराजते तथेत्य् अर्थः । अभूतोपमेयं न हि क्वचिद् अपि पद्मिनी गजदन्तेनोद्धृता दृष्टा ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

त्रयीमयं रूपमिदं च सौकरं
भूमण्डलेनाथ दता धृतेन ते।
चकास्ति शृङ्गोढघनेन भूयसा
कुलाचलेन्द्रस्य यथैव विभ्रमः॥

मूलम्

त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते।
चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः॥ ४१ ॥

अनुवाद (हिन्दी)

आपके दाँतोंपर रखे हुए भूमण्डलके सहित आपका यह वेदमय वराहविग्रह ऐसा सुशोभित हो रहा है, जैसे शिखरोंपर छायी हुई मेघमालासे कुलपर्वतकी शोभा होती है॥ ४१॥

वीरराघवः

त्रयीमयम् इति । हे नाथ ! दता दन्तेन धृतेन भू-मण्डलेन ते तवेदं त्रयीमयम् अवयवत्वेन रूपित-वेद-विहित-कर्म-प्रचुरम् एवेदं सूकर-रूपं चकास्ति शोभते । अत्र दृष्टान्तः भूयसा विपुलेन शृङ्गोढ-घनेन शृङ्गोणोढो यो घनो मेघस् तेन कुलाचलेन्द्रस्य कुलाचल-पर्वत-श्रेष्ठस्य विभ्रमो विलासो यथा तद्वद् इत्य् अर्थः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

संस्थापयैनां जगतां सतस्थुषां
लोकाय पत्नीमसि मातरं पिता।
विधेम चास्यै नमसा सह त्वया
यस्यां स्वतेजोऽग्निमिवारणावधाः॥

मूलम्

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता।
विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्नि19मिवारणावधाः॥ ४२ ॥

अनुवाद (हिन्दी)

नाथ! चराचर जीवोंके सुखपूर्वक रहनेके लिये आप अपनी पत्नी इन जगन्माता पृथ्वीको जलपर स्थापित कीजिये। आप जगत‍्के पिता हैं और अरणिमें अग्निस्थापनके समान आपने इसमें धारण शक्तिरूप अपना तेज स्थापित किया है। हम आपको और इस पृथ्वीमाताको प्रणाम करते हैं॥ ४२॥

वीरराघवः

स्वाभिप्रेतं विज्ञापयन्तो नमस् कुर्वन्ति सतस्थुषां सस्थावराणां जगतां जङ्गमानां लोकाय स्थापनार्थं तव पत्नीं जगतां मातरम् एनां भूमिं संस्थापय प्रतिष्ठापय । एवं यतस् त्वं जगतां पितासि पालको जनकश् चासि । एवं सति तत्र स्थिताः सन्तो वयं त्वया पित्रा सहास्यै मात्रे नमसा विधेम नमस् करिष्यामः नमस्कारेण परिचरेमेति । स्व-तेजो-धारण-शक्तिं याज्ञिका मन्त्रतो ऽग्निम् अरणाव् इव मन्थन-काष्ठे इव यस्यां भूमाव् अधाः निहितवान् असि ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

कः श्रद्दधीतान्यतमस्तव प्रभो
रसां गताया भुव उद्विबर्हणम्।
न विस्मयोऽसौ त्वयि विश्वविस्मये
यो माययेदं ससृजेऽतिविस्मयम्॥

मूलम्

कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम्।
न विस्मयोऽसौ त्वयि विश्वविस्मये यो मायवेदं ससृजेऽतिविस्मयम्॥ ४३ ॥

अनुवाद (हिन्दी)

प्रभो! रसातलमें डूबी हुई इस पृथ्वीको निकालनेका साहस आपके सिवा और कौन कर सकता था। किंतु आप तो सम्पूर्ण आश्चर्योंके आश्रय हैं, आपके लिये यह कोई आश्चर्यकी बात नहीं है। आपने ही तो अपनी मायासे इस अत्याश्चर्यमय विश्वकी रचना की है॥ ४३॥

वीरराघवः

एवं स्वाभिप्रेतं विज्ञाप्य स्व-कृतार्थताम् आविष्करिष्यन्तः तस्य भगवतो ऽनन्ताचिन्त्य-विचित्र-शक्तेस् तव कर्मेतरैर् अचिन्त्यम् इत्य् आहुः । क इति । हे प्रभो ! अन्यतम इतरः प्राकृतः कः पुरुषस् तव रसातलं प्रतिगताया भुव उद्विबर्हणम् उद्धरणं श्रद्दधीत इदम् इति चिन्तयितुम् उत्सहेत आश्चर्यत्वेन न को ऽपि निर्वक्तुं प्रभवेद् इत्य् अर्थः । त्वयि पुनर् असौ विस्मयो न भवति यतो विश्व-विस्मयः विश्वे सर्वे विस्मया यस्मिन् विश्वस्य विस्मयो वा यस्मिन् स विश्व-विस्मयः एवं भूतो यो भगवान् स्वस्य मायया आश्चर्य-शक्त्यातिविस्मयम् अत्य्-आश्चर्यम् इदं जगत् ससृजे सृष्टवान् । अचिन्त्य-विविध-विचित्र-संनिवेशं जगत् सृजतस् तवेदं भुव उद्विबर्हणं किं तद् आश्चर्यकरम् इति भावः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

विधुन्वता वेदमयं निजं वपु-
र्जनस्तपःसत्यनिवासिनो वयम्।
सटाशिखोद्‍धूतशिवाम्बुबिन्दुभि-
र्विमृज्यमाना भृशमीश पाविताः॥

मूलम्

विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम्।
सटाशिखोद्‍धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः॥ ४४ ॥

अनुवाद (हिन्दी)

जब आप अपने वेदमय विग्रहको हिलाते हैं, तब हमारे ऊपर आपकी गरदनके बालोंसे झरती हुई शीतल जलकी बूँदें गिरती हैं। ईश! उनसे भीगकर हम जनलोक, तपलोक और सत्यलोकमें रहनेवाले मुनिजन सर्वथा पवित्र हो जाते हैं॥ ४४॥

वीरराघवः

स्व-कृतार्थताम् आविष्कुर्वन्ति । विधुन्वतेति । हे ईश ! वेद-मयं निजं वपुः शरीरं विधुन्वता कम्पयता त्वया कर्त्रा सटानां शिखाभिर् अग्रैर् उद्धृता उच्चलिताः ते च ते शिवाम्बु-बिन्दवः तैः करणैर् विमृज्यमाना । जनस् तपः सत्य-निवासिनो वयं पाविताः पवित्रीकृताः कृतार्था अभूमेति भावः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

स वै बत भ्रष्टमतिस्तवैष ते
यः कर्मणां पारमपारकर्मणः।
यद्योगमायागुणयोगमोहितं
विश्वं समस्तं भगवन् विधेहि शम्॥

मूलम्

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः।
यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन् विधेहि शम्॥ ४५ ॥

अनुवाद (हिन्दी)

जो पुरुष आपके कर्मोंका पार पाना चाहता है, अवश्य ही उसकी बुद्धि नष्ट हो गयी है; क्योंकि आपके कर्मोंका कोई पार ही नहीं है। आपकी ही योगमायाके सत्त्वादि गुणोंसे यह सारा जगत् मोहित हो रहा है। भगवन्! आप इसका कल्याण कीजिये॥ ४५॥

वीरराघवः

एवं कृतार्थतां विज्ञाप्याथ प्रकृतं भगवत्-कर्मणो ऽचिन्त्यत्वं व्यतिरेक-मुखेन वदन्तः तस्य भगवतो ऽनुग्रहं प्रार्थयन्ते । स वा इति । अपार-कर्मणः जगत्-सृष्ट्य्-आद्य्-अनन्त-व्यापारस्य तव कर्मणां पारम् अवधिं य ईषते काङ्क्षति ज्ञातुम् इच्छतीत्य् अर्थः । स वै भ्रष्ट-मतिः अपाराणां कर्मणां पारं जिज्ञासुः बुद्धि-हीन इत्य् अर्थः । हे भगवन् ! यस्य तव योग-मायाः त्वत्-सम्बन्धिनी विचित्र-सर्ग-कारिणी शक्तिस् तस्य ये गुणाः सत्त्वादयस् तेषां योगेन सम्बन्धेन मोहितं समस्तं विश्वं शं सुखं विशिष्टं सुखं यथा भवति तथेति क्रिया-विशेषणं वा विधेहि कुरु ॥ ४५ ॥

श्लोक-४६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवादिभिः।
सलिले स्वखुराक्रान्त उपाधत्तावितावनिम्॥

मूलम्

इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवादिभिः।
सलिले स्वखुराक्रान्त उपाधत्तावितावनिम्॥ ४६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! उन ब्रह्मवादी मुनियोंके इस प्रकार स्तुति करनेपर सबकी रक्षा करनेवाले वराहभगवान‍्ने अपने खुरोंसे जलको स्तम्भित कर उसपर पृथ्वीको स्थापित कर दिया॥ ४६॥

वीरराघवः

एवं स्तुतः प्रार्थितो भगवान् किन् ततो ऽकरोत् इत्य् अत्राह । इतीति । तैर् ब्रह्म-वादिभिः वेद-तुल्य-वाक्यानि भाषयद्भिर् मुनिभिर् मरीच्यादिभिर् इत्य्-उक्त-प्रकारेण उपस्थीयमानः समीपस्थैः स्तूयमानः अविता रक्षिता भगवान् स्व-खुराक्रान्ते सलिले ऽवनिं भूमिम् उपाधत्तोपस्थापयामासेत्य् अर्थः । स्व-खुराक्रान्त इत्य् अनेन विग्रहस्यात्युन्नतत्वं सूच्यते ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः।
रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः॥

मूलम्

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः।
रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः॥ ४७ ॥

अनुवाद (हिन्दी)

इस प्रकार रसातलसे लीलापूर्वक लायी हुई पृथ्वीको जलपर रखकर वे विष्वक्सेन प्रजापति भगवान् श्रीहरि अन्तर्धान हो गये॥ ४७॥

वीरराघवः

वराहावतार-काण्डम् उपसंहरति । स इति । प्रजापतिः प्रजानां संरक्षकः भगवान् पूर्ण-षाड्गुण्यः विष्वक्सेनः स वराहः हरि-लींलया क्रीडया रसायाः सकाशाद् उद्धृताम् आनीताम् मुर्वीं भूमिम् अप्सु न्यस्य प्रतिष्ठाप्य ययावन्तर्द्दध इत्य् अर्थः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

य एवमेतां हरिमेधसो हरेः
कथां सुभद्रां कथनीयमायिनः।
शृण्वीत भक्त्या श्रवयेत वोशतीं
जनार्दनोऽस्याशु हृदि प्रसीदति॥

मूलम्

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः।
शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽ20स्याशु हृदि प्रसीदति॥ ४८ ॥

अनुवाद (हिन्दी)

विदुरजी! भगवान‍्के लीलामय चरित्र अत्यन्त कीर्तनीय हैं और उनमें लगी हुई बुद्धि सब प्रकारके पाप-तापोंको दूर कर देती है। जो पुरुष उनकी इस मंगलमयी मंजुल कथाको भक्तिभावसे सुनता या सुनाता है, उसके प्रति भक्तवत्सल भगवान् अन्तस्तलसे बहुत शीघ्र प्रसन्न हो जाते हैं॥ ४८॥

वीरराघवः

एतत्-कथा-श्रवण-फलम् आह । य इति । वर्णनीयाश्चर्य-शक्तिमतः हरि-मेधसः यद्-विषया मेधा हरति संसारं तस्य हरेः भगवतो वराहस्य सुभद्रां सु-मङ्गलाम् उशतीं कमनीयां पवित्रां कथाम् एवम् उक्त-प्रकारेण यः पुरुषः शृण्वीत शृणुयाच् श्रवयेत वा तस्य हृदि जनार्द्दनः आशु प्रसीदति ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ
किं दुर्लभं ताभिरलं लवात्मभिः।
अनन्यदृष्ट्या भजतां गुहाशयः
स्वयं विधत्ते स्वगतिं परः पराम्॥

मूलम्

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः।
अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम्॥ ४९ ॥

अनुवाद (हिन्दी)

भगवान् तो सभी कामनाओंको पूर्ण करनेमें समर्थ हैं, उनके प्रसन्न होनेपर संसारमें क्या दुर्लभ है। किन्तु उन तुच्छ कामनाओंकी आवश्यकता ही क्या है? जो लोग उनका अनन्यभावसे भजन करते हैं, उन्हें तो वे अन्तर्यामी परमात्मा स्वयं अपना परम पद ही दे देते हैं॥ ४९॥

वीरराघवः

किं तत्-प्रसादेन इत्य् अत आह । तस्मिन्न् इति । सकलाशिषां सर्व-पुरुषार्थानां प्रभौ दातरि तस्मिन् भगवति प्रसन्ने सति दुर्लभं दुर्लभ्यं किम् अस्ति किम् अपि नास्तीत्य् अर्थः । अतः लवात्मभिः तुच्छाभिः ताभिर् आशीर्भिर् अलं यद्यपि सुलभास् तथापि न प्रार्थनीया इति भावः । न चैतावता तत्-त्व-भजनस्य विफलत्वं शङ्कनीयम् इत्य् आह । अनन्य-दृष्ट्या एकान्त-भक्त्या स्वात्म-शरीरक-बुद्ध्येत्य् अर्थः । भजतां नितरां गुहाशयः हृदय-कुहरे निविष्टः परः परम-पुरुषः स्वयं परां निरतिशयां स्व-गतिं स्वं प्राप्तिं विधत्ते सम्पादयति ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

को नाम लोके पुरुषार्थसारवित्
पुराकथानां भगवत्कथासुधाम्।
आपीय कर्णाञ्जलिभिर्भवापहा-
महो विरज्येत विना नरेतरम्॥

मूलम्

को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम्।
आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम्॥ ५० ॥

अनुवाद (हिन्दी)

अरे! संसारमें पशुओंको छोड़कर अपने पुरुषार्थका सार जाननेवाला ऐसा कौन पुरुष होगा, जो आवागमनसे छुड़ा देनेवाली भगवान‍्की प्राचीन कथाओंमेंसे किसी भी अमृतमयी कथाका अपने कर्णपुटोंसे एक बार पान करके फिर उनकी ओरसे मन हटा लेगा॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे व21राहप्रादुर्भावानुवर्णने त्रयोदशोऽध्यायः॥ १३ ॥

वीरराघवः

अतो निरतिशय-पुरुषार्थ-साधन-भूतां कर्ण-रसायनां पवित्रां कथां शृण्वन् नरेतरं विना को नाम तृप्येद् इत्य् आह । क इति पुरुषार्थानां धर्मादीनां सारं वेत्तीति तथा धर्मस्य ह्य् आपवर्ग्यस्य नार्थो ऽर्थायोपकल्पत इति । प्रथम-स्कन्धोक्त-रीत्या पुरुषार्थ-साराभिज्ञः को नाम पुरा-कथानां पूर्व-वृत्तान्तानां मध्ये भगवत्-कथैव सुधा तां कर्णाव् एवाञ्जलयः तैर् आपीय समन्तात् पीत्वा किम्-भूतां भगवत्-कथा-सुधाम् भवापहां संसार-निवर्तिनीं नरेतरं पशुं विना कः विरज्येत न को ऽपि विरक्तो भवेद् इत्य् अर्थः । अहो इति । भगवच्-चरित्रस्यात्य्-आश्चर्य-द्योतकम् अव्ययम् ॥ ५० ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्ध-टीकायां श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां त्रयोदशो ऽध्यायः ॥ १३ ॥


  1. प्रा. पा. - श्रद्दधानस्य । ↩︎

  2. प्रा. पा. - चिरं श्र । ↩︎

  3. प्रा. पा. - वृद्धिदः । ↩︎

  4. प्रा. पा. - वर्तेयमरिसूदन । ↩︎

  5. प्राचीने पाठे ‘सृजतो में’ अतः श्लोकात्पूर्वं - पीतं मया जलं सर्वं पृथिवी चापि वेशिता । प्रजा देवासुरपितृृन् मनुष्यपशुपक्षिणः ॥ सरीसृपा नगा नागा भूतान्युच्चावचानि च - अयं सार्धैकश्लोकोऽधिकः । ↩︎

  6. प्रा. पा. - सितशृङ्ग । ↩︎

  7. प्रा. पा. - मिकरै । ↩︎

  8. प्रा. पा. - नृपते । ↩︎

  9. प्रा. पा. - विमग्नां । ↩︎

  10. प्रा. पा. - सन्नादसंदी । ↩︎

  11. प्रा. पा. - मकूपेषु । ↩︎

  12. प्राचीने पाठे ‘ते’ नास्ति । ↩︎

  13. प्रा. पा. - न रोचते देव । ↩︎

  14. प्रा. पा. - पोशित्र । ↩︎

  15. प्रा. पा. - भुजज्योप । ↩︎

  16. प्रा. पा. - प्रवस्यास्तव । ↩︎

  17. प्रा. पा. - अवरं ते । ↩︎

  18. प्रा. पा. – सोमश्च । ↩︎

  19. प्रा. पा. - ग्निरिवा । ↩︎

  20. प्रा. पा. - र्दनस्तस्य हृदि । ↩︎

  21. प्रा. पा. - प्राचीने पाठे । वराहप्रादुर्भावानुवर्णने । ↩︎