[द्वादशोऽध्यायः]
भागसूचना
सृष्टिका विस्तार
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे॥
मूलम्
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! यहाँतक मैंने आपको भगवान्की कालरूप महिमा सुनायी। अब जिस प्रकार ब्रह्माजीने जगत्की रचना की, वह सुनिये॥ १॥
वीरराघवः
एवं काल-सर्गं सप्रपञ्चम् अभिधाय प्रकृतम् अनुसर्गम् एव विशेषेण प्रतिपिपादयिषुस् तम् एवानुसर्ग-कथनं वृत्त-कथन-पूर्वकं प्रतिजानीते । इतीति । हे क्षत्तः ! परमात्मनः कालाख्यो महिमा ते तुभ्यम् इत्य्-उक्त-प्रकारेण वर्णितः अथानन्तरं वेद-गर्भः ब्रह्मा यथाऽस्राक्षीत् तत्-प्रकारं वर्ण्यमानं मे मत्तः निबोध शृणु ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत्।
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः।
मूलम्
ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत्।
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः॥ २ ॥
अनुवाद (हिन्दी)
सबसे पहले उन्होंने अज्ञानकी पाँच वृत्तियाँ—तम (अविद्या), मोह (अस्मिता), महामोह (राग), तामिस्र (द्वेष) और अन्धतामिस्र (अभिनिवेश) रचीं॥ २॥
वीरराघवः
प्रथमम्-अज्ञान-पञ्च-पर्व-सृष्टिम्-आह । ससर्जेति । अग्रे व्यष्टि-सृष्ट्य् आदाव् आदिकृद् ब्रह्मा ऽन्ध-तामिस्रादीनि ससर्ज एता अज्ञान-वृत्तयः इह वृक्ष-गुल्म-लता-वीरुत्-तृण-गत-पञ्च-पर्वा ज्ञान-वृत्तयः । तमो-मोहादय इति केचित् जाग्रत्-स्वप्न-सुषुप्ति-मूर्च्छा-मरणेष्व् अज्ञान-वृत्तय इत्य् अपरे पातञ्जलोक्ता अविद्यास्मिता-राग-द्वेषाभिनिवेशा इत्य् अन्ये तथैवोक्तं वैष्णवे तमो ऽविवेको मोहः स्याद् अन्तः-करण-विभ्रमः । महा-मोहस् तु विज्ञेयो ग्राम्य-भोग-सुखैषणा । मरणं ह्य् अन्ध-तामिस्रस् तामिस्रः क्रोधः उच्यते । अविद्या पञ्च-पर्वेषा प्रादुर्भूता महात्मनः ॥ इति । तमः स्वरूपाप्रकाशकः (१) मोहो देहादिष्व् अहं-बुद्धिः (२) महा-मोहो विषय-भोगेच्छा (३) तामिस्रस् तत्-प्रतिरोधे क्रोधः (४) अन्ध-तामिस्रस् तन्-नाशे ऽहम् एव विनष्टो ऽस्मीति बुद्धिः उत्पथ-ग्राहिणश् चेत्य्-अज्ञाने ज्ञान-मानिनः अहं-कृताः अहं-माना अवेदिनः इति विशेषेण उक्त-ज्ञान-वृत्तय इति केचित् अवेदिनः स्वरूपानभिज्ञाः अहं-कृता देहे ऽहं-बुद्धिमन्तः अहं-मानाः स्वतत्राभिमानवन्तः अन्यत् स्फुटम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत।
भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्॥
मूलम्
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत।
भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्॥ ३ ॥
अनुवाद (हिन्दी)
किन्तु इस अत्यन्त पापमयी सृष्टिको देखकर उन्हें प्रसन्नता नहीं हुई। तब उन्होंने अपने मनको भगवान्के ध्यानसे पवित्र कर उससे दूसरी सृष्टि रची॥ ३॥
वीरराघवः
पापीयसीनाम् अज्ञान-वृत्तीनां निरय-साधनत्वेन पापीयस्त्वात् तत्-सृष्टेः पापीयस्त्वं सृष्टिं दृष्ट्वा आत्मानं पापीयः स्रष्टारं स्वात्मानं न बह्नमन्यत न समीचीनम् अमन्यतेत्य् अर्थः । तत आत्मनो ऽबहु-मानानन्तरं भगवतो ध्यानेन पूतं यन् मनस् तेनान्यन् असृजत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
सनकं च सनन्दं च सनातनमथात्मभूः।
सनत्कुमारं च मुनीन् निष्क्रियानूर्ध्वरेतसः॥
मूलम्
सनकं च सनन्दं च सनातनमथात्मभूः।
सनत्कुमारं च मुनीन् निष्क्रियानूर्ध्वरेतसः॥ ४ ॥
मूलम् - कर्णावती
सनकं च सनन्दं च सनातनमथात्मभूः।
सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः॥ ४ ॥
अनुवाद (हिन्दी)
इस बार ब्रह्माजीने सनक, सनन्दन, सनातन और सनत्कुमार—ये चार निवृत्तिपरायण ऊर्ध्वरेता मुनि उत्पन्न किये॥ ४॥
वीरराघवः
तान् आह । सनकं च इति । आत्म-भूर् ब्रह्मा सनकादीन् मुनीन् शुभाश्रय-संशीलन-परान् निष्क्रियान् निवृत्तिर्-धर्म-परायणान् ऊर्ध्व-रेतसः जितेन्द्रियान् असृजत् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः।
तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः॥
मूलम्
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः।
तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः॥ ५ ॥
अनुवाद (हिन्दी)
अपने इन पुत्रोंसे ब्रह्माजीने कहा, ‘पुत्रो! तुमलोग सृष्टि उत्पन्न करो।’ किंतु वे जन्मसे ही मोक्षमार्ग-(निवृत्तिमार्ग-) का अनुसरण करनेवाले और भगवान्के ध्यानमें तत्पर थे, इसलिये उन्होंने ऐसा करना नहीं चाहा॥ ५॥
वीरराघवः
स्वभूर् ब्रह्मा तान् सनकादीन् पुत्रान् बभाषे । भाषणम् एवाह हे पुत्रकाः प्रजाः सृजत इति । ते सनकादयः मोक्षधर्माणः निवृत्तिधर्मनिष्ठाः वासुदेवः परमयनं प्राप्यं प्रापकम् आधारश् च येषां ते तथोक्ताः सन्तो नैच्छन् पित्रानुज्ञातां सृष्टिं कर्तुं नैच्छन्न् इत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे॥
मूलम्
सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे॥ ६ ॥
अनुवाद (हिन्दी)
जब ब्रह्माजीने देखा कि मेरी आज्ञा न मानकर ये मेरे पुत्र मेरा तिरस्कार कर रहे हैं, तब उन्हें असह्य क्रोध हुआ। उन्होंने उसे रोकनेका प्रयत्न किया॥ ६॥
वीरराघवः
स ब्रह्मा प्रत्याख्यातम् अनङ्गीकृतम् अनुशासनम् आज्ञा यैस् तैः सुतैर् एवम् अवध्यातः अवज्ञातः दुर्विषहं दुस्सहं जातम् उत्पन्नं क्रोधं नियन्तुम् उपचक्रमे उपक्रान्तवान् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः।
सद्योऽजायत तन्मन्युः कुमारो नीललोहितः॥
मूलम्
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः।
सद्योऽजायत तन्मन्युः1 कुमारो नीललोहितः॥ ७ ॥
अनुवाद (हिन्दी)
किंतु बुद्धि-द्वारा उनके बहुत रोकनेपर भी वह क्रोध तत्काल प्रजापतिकी भौंहोंके बीचमेंसे एक नीललोहित (नीले और लाल रंगके) बालकके रूपमें प्रकट हो गया॥ ७॥
वीरराघवः
धिया बुद्ध्या निगृह्यमाणो ऽपि विष्टभ्यमानो ऽपि तन्मन्युः स चासौ मन्युः क्रोधः प्रजापतेर् ब्रह्मणः भ्रुवोर् मध्यान्नील-लोहितः कुमारः अजायत निगृह्यमाणो ऽप्य् अनिगृहीतः भ्रूमध्यम् आगत्य तस्मान्-नील-लोहित-कुमार-रूपेणाजायतेत्य् अर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स वै रुरोद देवानां पूर्वजो भगवान् भवः।
नामानि कुरु मे धातः स्थानानि च जगद्गुरो॥
मूलम्
स वै रुरोद देवानां पूर्वजो भगवान् भवः।
नामानि कुरु मे धातः स्थानानि च जगद्गुरो॥ ८ ॥
अनुवाद (हिन्दी)
वे देवताओंके पूर्वज भगवान् भव (रुद्र) रो-रोकर कहने लगे—‘जगत्पिता! विधाता! मेरे नाम और रहनेके स्थान बतलाइये’॥ ८॥
वीरराघवः
को ऽसौ नील-लोहितः कुमारो यो जातः भ्रुवोर् मध्याज्जातश् च किम् अकरोत् इत्य् अत आह । स वा इत्यादिना । एवम् आत्मभुवा आदिष्टः परिक्रम्य गिरां पतिम् इत्य् अन्तेन देवानां पूर्वजो भगवान् भवः सदाशिवः स च जातो रुरोद रोदन-प्रकारम् एवाह । नामानीति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
इति तस्य वचः पाद्मो भगवान् परिपालयन्।
अभ्यधाद् भद्रया वाचा मा रोदीस्तत्करोमि ते।
मूलम्
इति तस्य वचः पाद्मो भगवान् परिपालयन्।
अभ्यधाद् भद्रया वाचा मा रोदीस्तत्करोमि ते॥ ९ ॥
अनुवाद (हिन्दी)
तब कमलयोनि भगवान् ब्रह्माने उस बालककी प्रार्थना पूर्ण करनेके लिये मधुर वाणीमें कहा, ‘रोओ मत, मैं अभी तुम्हारी इच्छा पूरी करता हूँ॥ ९॥
वीरराघवः
मा रोदीः रोदनं मा कुरु ते तव त्वद् उक्तं करोमीति ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः॥
मूलम्
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः॥ १० ॥
अनुवाद (हिन्दी)
देवश्रेष्ठ! तुम जन्म लेते ही बालकके समान फूट-फूटकर रोने लगे, इसलिये प्रजा तुम्हें ‘रुद्र’ नामसे पुकारेगी॥ १०॥
वीरराघवः
नामकरणम् एवाह । यद् इति । हे सुरश्रेष्ठ ! सोद्वेगः भयसहितो बालक इव यद् यस्मात् त्वम् अरोदीः रोदनम् अकार्षीः ततः रोदनान् निमित्ताद् रुद्र इति नाम्ना प्रजाः त्वाम् अभिधास्यन्त्य् अभिवक्ष्यन्तीत्य् अर्थः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही।
सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे॥
मूलम्
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही।
सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे2॥ ११ ॥
अनुवाद (हिन्दी)
तुम्हारे रहनेके लिये मैंने पहलेसे ही हृदय, इन्द्रिय, प्राण, आकाश, वायु, अग्नि, जल, पृथ्वी, सूर्य, चन्द्रमा और तप—ये स्थान रच दिये हैं॥ ११॥
वीरराघवः
स्थानकरणम् आह । हृदीत्य् आदिना अहंकाराधिदेवतात्वेन रुद्रस्य हृत्स्थत्वं न त्व् अन्तरात्मतया । असुः प्राणः रुद्रादीनि स्थानान्यग्रे पूर्वम् एव मे ते तवार्थे मया कृतानि ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः।
उग्ररेता भवः कालो वामदेवो धृतव्रतः॥
अनुवाद (हिन्दी)
तुम्हारे नाम मन्यु, मनु, महिनस, महान्, शिव, ऋतध्वज, उग्ररेता, भव, काल, वामदेव और धृतव्रत होंगे॥ १२॥
वीरराघवः
एकादश-स्थानस्थस्य पुनः स्थान-भेदान् आह । मन्युर् इति ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
धीर्वृत्तिरुशनोमा च नियुत्सर्पिरिलाम्बिका।
इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः॥
मूलम्
5धीर्वृत्तिरुशनोमा च नियुत्सर्पिरिलाम्बिका।
इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः॥ १३ ॥
अनुवाद (हिन्दी)
तथा धी, वृत्ति, उशना, उमा, नियुत्, सर्पि, इला, अम्बिका, इरावती, सुधा और दीक्षा—ये ग्यारह रुद्राणियाँ तुम्हारी पत्नियाँ होंगी॥ १३॥
वीरराघवः
घीः प्रभूतयः रुद्राण्यः ता एकादश हे रुद्र ते स्त्रियः पत्न्यः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
गृहाणैतानि नामानि स्थानानि च सयोषणः।
एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः॥
मूलम्
गृहाणैतानि नामानि स्थानानि च सयोषणः।
एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः॥ १४ ॥
अनुवाद (हिन्दी)
तुम उपर्युक्त नाम, स्थान और स्त्रियोंको स्वीकार करो और इनके द्वारा बहुत-सी प्रजा उत्पन्न करो; क्योंकि तुम प्रजापति हो’॥ १४॥
वीरराघवः
सयोषणः सस्रीक एतानि नामानि स्थानानि च गृहाण एभिः स्थानैर् नामभिश् च युक्तः त्वम् आभिः स्त्रीभिः सह बह्वीः प्रजा सृज यत्प्रजासर्गात् त्वम् अपि प्रजानाम् पतिर् असि भवसि ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
इत्यादिष्टः स गुरुणा भगवान् नीललोहितः।
सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः॥
मूलम्
इत्यादिष्टः स गुरुणा भगवान् नीललोहितः।
सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः॥ १५ ॥
अनुवाद (हिन्दी)
लोकपिता ब्रह्माजीसे ऐसी आज्ञा पाकर भगवान् नीललोहित बल, आकार और स्वभावमें अपने ही जैसी प्रजा उत्पन्न करने लगे॥ १५॥
वीरराघवः
गुरुणा पित्रा भगवान् उत्पत्ति-प्रलयादि-ज्ञानवान् नील-लोहितः कुमार इति उक्तप्रकारेणादिष्ट आज्ञापितः सत्त्वा-कृति-स्वभावेव सत्त्वम् आकृतिर् यस्य तेन सात्त्विकेन स्वभावेनात्मना प्रजाः ससर्ज ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत्।
निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत॥
मूलम्
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत्।
निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत॥ १६ ॥
अनुवाद (हिन्दी)
भगवान् रुद्रके द्वारा उत्पन्न हुए उन रुद्रोंको असंख्य यूथ बनाकर सारे संसारको भक्षण करते देख ब्रह्माजीको बड़ी शंका हुई॥ १६॥
वीरराघवः
रुद्रेण नील-लोहित-कुमारेण सृष्टानां रुद्राणां कथं-भूतानां जगद् विश्वं समन्ताद् ग्रसतां यूथान् संघान् असंख्यशः निशाम्य दृष्ट्वा प्रजापतिर् अशङ्कत शशङ्कतत्य् अभिप्रायः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम।
मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः॥
मूलम्
अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम।
मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः॥ १७ ॥
अनुवाद (हिन्दी)
तब उन्होंने रुद्रसे कहा—‘सुरश्रेष्ठ! तुम्हारी प्रजा तो अपनी भयंकर दृष्टिसे मुझे और सारी दिशाओंको भस्म किये डालती है; अतः ऐसी सृष्टि और न रचो॥ १७॥
वीरराघवः
तद् एवाह । अलम् इति त्रिभिः । हे सुरोत्तम रुद्र ! ईदृशीभिः स्व-तुल्याभिः सृष्टाभिः उल्बणैश् चक्षुभिर् मया सह दिशो दहन्तीभिः प्रजाभिर् अलं मा सृज त्यजेत्य् अर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम्।
तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान्॥
मूलम्
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम्।
तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान्॥ १८ ॥
अनुवाद (हिन्दी)
तुम्हारा कल्याण हो, अब तुम समस्त प्राणियोंको सुख देनेके लिये तप करो। फिर उस तपके प्रभावसे ही तुम पूर्ववत् इस संसारकी रचना करना॥ १८॥
वीरराघवः
अतस् तप आतिष्ठ चर ते भद्रम् अस्तु तपः कथंभूतं सर्वेषां भूतानां सुखम् आवहतीति तथोक्तं तपः प्रशंसति तपसेति सार्धेन । भवान् त्वं विश्वं यथापूर्वं तपसैव स्रष्टा स्रक्ष्यसीत्य् अर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तपसैव परं ज्योतिर्भगवन्तमधोक्षजम्।
सर्वभूतगुहावासमञ्जसा विन्दते पुमान्॥
मूलम्
तपसैव परं ज्योतिर्भगवन्तमधोक्षजम्।
सर्वभूतगुहावासमञ्जसा विन्दते पुमान्॥ १९ ॥
अनुवाद (हिन्दी)
पुरुष तपके द्वारा ही इन्द्रियातीत, सर्वान्तर्यामी, ज्योतिःस्वरूप श्रीहरिको सुगमतासे प्राप्त कर सकता है’॥ १९॥
वीरराघवः
तपसैव पुमान् अञ्जसा सुखेन भगवन्तं विन्दते प्राप्नोति कथंभूतम् अधोक्षजम् अधः कृतेन्द्रिय-व्यापारं निरस्त-प्राकृतेन्द्रिय-व्यापारम् इत्य् अर्थः । सर्व-भूत-गुणावासं सर्वेषां भूतानां गुणानां कल्याण-गुणानां वासम् आश्रयम् अत्राधोक्षज-शब्देनाप्राकृतेन्द्रियादि-तद्-व्यापार-तद्-विषय-संपत्तिः सूच्यते । तथाहि श्रूयते “सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः” इत्य् अनेन भोग्यतातिशयः सूच्यते । गुणशब्देन प्राप्यत्वौपयिकाः ज्ञान-शक्त्यादयः कल्याण-गुणा विवक्षिताः । भगवच्-छब्देन प्राप्य-विशेष-निर्देशः । भूतावास-शब्देन तद्-उपासनस्य स्वरूपानुगुणत्वं व्यज्यते ॥ १९ ॥
श्लोक-२०
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम्।
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्॥
मूलम्
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम्।
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्॥ २० ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी कहते हैं—जब ब्रह्माजीने ऐसी आज्ञा दी, तब रुद्रने ‘बहुत अच्छा’ कहकर उसे शिरोधार्य किया और फिर उनकी अनुमति लेकर तथा उनकी परिक्रमा करके वे तपस्या करनेके लिये वनको चले गये॥ २०॥
वीरराघवः
एवम् आदिष्टो रुद्रः किम् अकरोद् इत्य् अत्राह । एवम् इति । आत्मभुवा ब्रह्मणा एवम् उक्तप्रकारेणादिष्टः गिरां पतिं ब्रह्माणं परिक्रम्य प्रदक्षिणीकृत्य अमुं गिरां पतिं बाढम् ओम् इत्य् आमन्त्र्य “भगवद्-आज्ञाम् अङ्गीकरोमी"त्य् उक्त्वा इत्य् अर्थः, तपसे तपश्चर्तुं वनम् अरण्यं विवेश प्रविष्टवान् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे।
भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः॥
मूलम्
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे।
भ6गवच्छक्तियुक्तस्य लोकसन्तानहेतवः॥ २१ ॥
अनुवाद (हिन्दी)
इसके पश्चात् जब भगवान्की शक्तिसे सम्पन्न ब्रह्माजीने सृष्टिके लिये संकल्प किया, तब उनके दस पुत्र और उत्पन्न हुए। उनसे लोककी बहुत वृद्धि हुई॥ २१॥
वीरराघवः
अथ रुद्राज्ञापनानन्तरं पुनः सर्गं ध्यायतश् चिन्तयतः पुत्रा दश प्रजज्ञिरे जाताः । ध्यायतः कथंभूतस्य भगवच्-छक्ति-युक्तस्य भगवतो या शक्तिर् लोक-रचना-सामर्थ्यं तेन युक्तस्य । पुत्रान् विशिनष्टि लोक-सन्तान-हेतवः लोक-सन्तति-वृद्धिकराः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः॥
मूलम्
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः॥ २२ ॥
अनुवाद (हिन्दी)
उनके नाम मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु, भृगु, वसिष्ठ, दक्ष और दसवें नारद थे॥ २२॥
वीरराघवः
के ते दश पुत्राः क कस्माज् जाताः इत्य् अत्राह । मरीचिर् इत्य्-आदि-त्रिभिः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः।
प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः॥
मूलम्
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः।
प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः॥ २३ ॥
वीरराघवः
भृगुस् त्वचि त्वचश् चर्मणो भृगुर् जात इत्य् अर्थः । कराद् धस्तात् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्॥
मूलम्
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्॥ २४ ॥
अनुवाद (हिन्दी)
इनमें नारदजी प्रजापति ब्रह्माजीकी गोदसे, दक्ष अँगूठेसे, वसिष्ठ प्राणसे, भृगु त्वचासे, क्रतु हाथसे, पुलह नाभिसे, पुलस्त्य ऋषि कानोंसे, अंगिरा मुखसे, अत्रि नेत्रोंसे और मरीचि मनसे उत्पन्न हुए॥ २३-२४॥
वीरराघवः
नाभितः नाभेः कर्णयोः कर्णाभ्यां पुलस्त्य ऋषिर् जातः मुखतः मुखाद् अक्ष्णः नेत्राद् अत्रिर् जातः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम्।
अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः॥
मूलम्
धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम्।
अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः॥ २५ ॥
अनुवाद (हिन्दी)
फिर उनके दायें स्तनसे धर्म उत्पन्न हुआ, जिसकी पत्नी मूर्तिसे स्वयं नारायण अवतीर्ण हुए तथा उनकी पीठसे अधर्मका जन्म हुआ और उससे संसारको भयभीत करनेवाला मृत्यु उत्पन्न हुआ॥ २५॥
वीरराघवः
धर्म इति । पुनः सर्गं ध्यायत इत्य् अनुषङ्गः दक्षिण-नस्तनात् धर्मो जातः कथम्भूतः यत्र धर्मे नारायणः स्वयं स्थितः तद्-अधितिष्ठता इत्य् अर्थः । धर्मस्य प्रभुर् अच्युत इति वचनात् पृष्ठतः जज्ञे कथम्भूतः यस्माद् यत्राधर्मे लोक-भयंकरो मृत्युस् तिष्ठति मृत्युर् अधर्म-देवतेत्य् अर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात्।
आस्याद्वाक्सिन्धवो मेढ्रान्निर्ऋतिः पायोरघाश्रयः॥
मूलम्
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात्।
आस्याद्वाक्सिन्धवो मेढ्रान्निर्ऋतिः पायोरघाश्रयः॥ २६ ॥
अनुवाद (हिन्दी)
इसी प्रकार ब्रह्माजीके हृदयसे काम, भौंहोंसे क्रोध, नीचेके होठसे लोभ, मुखसे वाणीकी अधिष्ठात्री देवी सरस्वती, लिंगसे समुद्र, गुदासे पापका निवासस्थान (राक्षसोंका अधिपति) निर्ऋति॥ २६॥
वीरराघवः
हृदि हृदयात् कामः भ्रुवो भ्रू-मध्यात् क्रोधः अधर-दच्छदाद् अधरोष्ठाल् लोभः आस्यान् मुखतः वाक् वाग्-अधिष्ठात्री देवता मेढ्रात् सिन्धवः पायोर् गुदात् अघाश्रयः पापाश्रयः पापाधिष्ठाता निरृतिः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः।
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्॥
मूलम्
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः।
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्॥ २७॥
अनुवाद (हिन्दी)
छायासे देवहूतिके पति भगवान् कर्दमजी उत्पन्न हुए। इस तरह यह सारा जगत् जगत्कर्ता ब्रह्माजीके शरीर और मनसे उत्पन्न हुआ॥ २७॥
वीरराघवः
छायायाः देहच्-छायायाः कर्दमः कथम्भूतः देवहूत्याः स्वायंभुव-मनु-कन्यायाः पतिः प्रभुः जितेन्द्रियः अवान्तर-कथां प्रस्तोतुम् उपसंहरति । मनस इति । मनसो देहतश् च एवम्-उक्त-रित्या विश्व-कृतः ब्रह्मणः सकाशाज् जगज् जज्ञे ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः।
अकामां चकमे क्षत्तः सकाम इति नः श्रुतम्॥
मूलम्
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः।
अकामां चकमे क्षत्तः सकाम इति नः श्रुतम्॥ २८ ॥
अनुवाद (हिन्दी)
विदुरजी! भगवान् ब्रह्माकी कन्या सरस्वती बड़ी ही सुकुमारी और मनोहर थी। हमने सुना है—एक बार उसे देखकर ब्रह्माजी काममोहित हो गये थे, यद्यपि वह स्वयं वासनाहीन थी॥ २८॥
वीरराघवः
वाक्-प्रसङ्गाद् अवान्तर-कथां प्रस्तौति । वाचम् इत्य्-आदिना । ता दिशो जगृहुर् इत्य् अन्तेन ग्रन्थेन स्वयम्भुर् ब्रह्मा स्व-दुहितरं तन्वं स्त्री-रूपां मनश् चित्तं हरन्तीं स्वयम् अकामयमानां वाचं वाग्-अधिष्ठायिनीं देवतां स्वयं सकामः चक्रमे ऐच्छद् इति नो ऽस्माभिः श्रुतम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
तमधर्मे कृतमतिं विलोक्य पितरं सुताः।
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्॥
मूलम्
तमधर्मे कृतमतिं विलोक्य पितरं सुताः।
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्॥ २९ ॥
अनुवाद (हिन्दी)
उन्हें ऐसा अधर्ममय संकल्प करते देख, उनके पुत्र मरीचि आदि ऋषियोंने उन्हें विश्वासपूर्वक समझाया—॥ २९॥
वीरराघवः
अधर्मे दुहितृ-कामना-रूपे प्रत्यवायात्मके कर्मणि कृतोत्पन्ना मतिर् यस्य तं पितरं ब्रह्माणं विलोक्य मरीचि-प्रभृतयः पुत्राः मुनयः विस्रम्भात् पितरि विश्वासाधिक्यात् पितरं प्रत्यबोधयन् ज्ञापितवन्तः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे।
यत्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः॥
मूलम्
नैतत्पूर्वैः कृतं त्वद्य न करिष्यन्ति 7चापरे।
यत्त्वं दुहितरं गच्छेरनिगृह्या8ङ्गजं प्रभुः॥ ३० ॥
अनुवाद (हिन्दी)
‘पिताजी! आप समर्थ हैं, फिर भी अपने मनमें उत्पन्न हुए कामके वेगको न रोककर पुत्रीगमन-जैसा दुस्तर पाप करनेका संकल्प कर रहे हैं! ऐसा तो आपसे पूर्ववर्ती किसी भी ब्रह्माने नहीं किया और न आगे ही कोई करेगा॥ ३०॥
वीरराघवः
अवबोधनप्रकारम् एवाह । नैतद् इति । पूर्वैर् एतन् न कृतम् अद्य तु न कुर्वन्ति अपरे भाविनो लोकाः न करिष्यन्ति किन् तद् इत्य् अत आह । स्वयं-प्रभुः धर्म-मर्यादा-पालन-समर्थस् त्वम् अङ्गजं कामम् अनिगृह्य स्वां दुहितरं गच्छेर् इति यत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो।
यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते॥
मूलम्
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो।
यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते॥ ३१ ॥
अनुवाद (हिन्दी)
जगद्गुरो! आप-जैसे तेजस्वी पुरुषोंको भी ऐसा काम शोभा नहीं देता; क्योंकि आपलोगोंके आचरणोंका अनुसरण करनेसे ही तो संसारका कल्याण होता है॥ ३१॥
वीरराघवः
तेजीयसाम् अस्माकम् एतन् न प्रत्यवायकरम् अत आह । तेजीयसाम् इति। हे जगद्-गुरो ! जगन्-मर्यादा-पालक ! तेजीयसां तेजिष्ठानाम् अप्य् एतन् न सुश्लोक्यं न श्लाघ्यं कुतः हि यस्मात् तेषां श्रेष्ठानाम् आचरितं वृत्तम् अनुतिष्ठन् लोकः जनः क्षेमाय कुशलाय कल्पते तथा च गीयते ।
यद् यद् आचरति श्रेष्ठस् तत्तद् एवेतरो जनः । स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तस्मै नमो भगवते य इदं स्वेन रोचिषा।
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति॥
मूलम्
तस्मै नमो भगवते य इदं स्वेन रोचिषा।
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति॥ ३२ ॥
अनुवाद (हिन्दी)
जिन श्रीभगवान्ने अपने स्वरूपमें स्थित इस जगत्को अपने ही तेजसे प्रकट किया है, उन्हें नमस्कार है। इस समय वे ही धर्मकी रक्षा कर सकते हैं’॥ ३२॥
वीरराघवः
एवं पितरं प्रबोध्य तम् एतस्माद् अधर्मान् निवर्तयितुं भगवान् एव समर्थः नान्य उपायो ऽस्त्य् इति तस्मै नमस् कुर्वन्तस् तस्मै विज्ञापयामासुर् इत्य् आह । तस्मा इति । तस्मै भगवते नमः यो भगवान् आत्मस्थम् आत्म-नाम-रूप-विभागानर्ह-सूक्ष्म-दशापत्त्या स्थितं चेतनाचेतनात्मकम् इदं जगत् स्वेन रोचिषा संकल्प-रूप-ज्ञानेन व्यञ्जयामास विभक्त-नाम-रूपापन्नत्वेन व्यक्तम् अकरोत् । स कृज्-जगत्-कारण-भूतः परमात्मा अधर्मान् निवृत्ति-रूपं धर्मं पातुं रक्षितुम् अर्हति ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन्।
प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा।
तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः॥
मूलम्
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन्।
प्रजापतिपतिस्त9न्वं तत्याज व्रीडितस्तदा।
तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः॥ ३३ ॥
अनुवाद (हिन्दी)
अपने पुत्र मरीचि आदि प्रजापतियोंको अपने सामने इस प्रकार कहते देख प्रजापतियोंके पति ब्रह्माजी बड़े लज्जित हुए और उन्होंने उस शरीरको उसी समय छोड़ दिया। तब उस घोर शरीरको दिशाओंने ले लिया। वही कुहरा हुआ, जिसे अन्धकार भी कहते हैं॥ ३३॥
वीरराघवः
एवम् उक्तवत्सु पुत्रेषु पिता किम् अकरोद् इत्य् अत आह स इति । इत्थम् उक्त-रीत्या पुरः अग्रे गृणतो भाषमाणान् प्रजापतीन् पुत्रान् दृष्ट्वा प्रजापतीनां मरीच्यादीनां पतिः ब्रह्मा व्रीडितः लज्जितः तदा तन्वं तनुं तत्याज त्यक्तवान् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात्।
कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा॥
मूलम्
कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात्।
कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा॥ ३४ ॥
अनुवाद (हिन्दी)
एक बार ब्रह्माजी यह सोच रहे थे कि ‘मैं पहलेकी तरह सुव्यवस्थित रूपसे सब लोकोंकी रचना किस प्रकार करूँ?’ इसी समय उनके चार मुखोंसे चार वेद प्रकट हुए॥ ३४॥
वीरराघवः
तां त्यक्तां घोरां तनुं दिशः जगृहुः गृहीतवत्यः । कुत एतद् ज्ञायते इत्य् अत्राह । यत् त्यक्तां तनुम् एव तमो नीहारं विदुः जानीयुः । अत्र तनुस्यगो नाम कामुकत्व-भाव-त्याग एव । तद्-ग्रहणं नाम तद्-भाव-ग्रहणम् एव । तनु-शब्देन निर्देशस् तु तनुवद्-विशेषणतया वेदितव्यम् । तनु-त्यागानन्तरं ब्रह्मा किम् अकरोद् इत्य् अत्राह कदाचिद् इति । समवेतान् संगतात् लोकान् यथा पुरा पूर्व-कल्पवत् कथम् अहं स्रक्ष्यामीति कदाचिद् ध्यायतः स्रष्टुः चतुर्मुखाच् चतुर्मुखेभ्यः वेदा ऋगादय आसन्न् आविर्भूताः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह।
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः॥
मूलम्
चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह।
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः॥ ३५ ॥
अनुवाद (हिन्दी)
इनके सिवा उपवेद, न्यायशास्त्र, होता, उद्गाता, अध्वर्यु और ब्रह्मा—इन चार ऋत्विजोंके कर्म, यज्ञोंका विस्तार, धर्मके चार चरण और चारों आश्रम तथा उनकी वृत्तियाँ—ये सब भी ब्रह्माजीके मुखोंसे ही उत्पन्न हुए॥ ३५॥
वीरराघवः
चातुर्होत्रं चतुर्णां होतॄणां कर्म-तन्त्रं यज्ञ-विस्तारः उपवेदा आयुर्वेदादयः ते च न्यायाश् च तैः सह धर्मस्य चत्वारः पादाः तपः सत्यं दया शौचम् इति प्रथम-स्कन्धोक्ताः पादाः आश्रमास् तद् वृत्तयश् चासन्न् इति पूर्वेणान्वयः ॥ ३५ ॥
श्लोक-३६
मूलम् (वचनम्)
विदुर उवाच
विश्वास-प्रस्तुतिः
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत्।
यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन॥
मूलम्
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत्।
यद् यद् येनासृजद् 10देवस्तन्मे ब्रूहि तपोधन॥ ३६ ॥
अनुवाद (हिन्दी)
विदुरजीने पूछा—तपोधन! विश्व रचयिताओंके स्वामी श्रीब्रह्माजीने जब अपने मुखोंसे इन वेदादिको रचा, तो उन्होंने अपने किस मुखसे कौन वस्तु उत्पन्न की—यह आप कृपा करके मुझे बतलाइये॥ ३६॥
वीरराघवः
एवं सामान्येन वेदादीनां सर्गे ऽभिहिते तेषां मध्ये कस्य कस्मान् मुखाद् उत्पत्तिर् इति विवित्सया पृच्छति विदुरः । स वा इति । विश्व-सृजां प्रजापतीनां पतिः स ब्रह्मा वेदादीन् असृजद् इति ज्ञातम् अस्माभिः इदं तु न ज्ञायते देवः ब्रह्मा येन यद् यद् असृजद् इति हे तपोधन मैत्रेय ! तत् सत्यं ब्रूहि वद ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः।
शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्॥
मूलम्
ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः।
शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्॥ ३७ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! ब्रह्माने अपने पूर्व, दक्षिण, पश्चिम और उत्तरके मुखसे क्रमशः ऋक्, यजुः, साम और अथर्ववेदोंको रचा तथा इसी क्रमसे शस्त्र (होता का कर्म), इज्या (अध्वर्युका कर्म), स्तुतिस्तोम (उद्गाताका कर्म) और प्रायश्चित्त (ब्रह्माका कर्म)—इन चारोंकी रचना की॥ ३७॥
वीरराघवः
एवम् आपृष्टो मुनिः क्रमेण पूर्वादिभ्यो मुखेभ्यः ऋग्-आदीन् असृजद् इत्य् आह । ऋग्-इत्य्-आदि । पूर्वादिभ्यो मुखेभ्यः चातुर्होत्र-क्रमम् आह । शस्त्रम् इति शस्त्रम् अप्रगीत-मन्त्र-स्तोत्रं तत् होत्रा कर्तृव्यत्वेन होत्रम् इत्य् उच्यते आध्वर्यवं स्तुतिः स्तोम-स्तुतिः संगीतरूपं स्तोमं तद्-अर्थम् ऋक् समुदायं “त्रिवृत्-स्तोमो भवतीत्य् आदि-विहितं तद्-उद्गात्र-प्रयोज्यत्वेनौद्गात्रम् इत्य् उच्यते स्तुतये स्तोमम् इति चतुर्थी-समासः प्रायश्चित्तं ब्रह्मणा प्रयोज्यम् । एतानि चत्वारि क्रमाद् इति पूर्वादि-मुखेभ्यो व्यधाद् असृजत् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः।
स्थापत्यं चासृजद् वेदं क्रमात्पूर्वादिभिर्मुखैः॥
मूलम्
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः।
स्थापत्यं चासृजद् वेदं क्रमात्पूर्वादिभिर्मुखैः॥ ३८ ॥
अनुवाद (हिन्दी)
इसी प्रकार आयुर्वेद (चिकित्साशास्त्र), धनुर्वेद (शस्त्रविद्या), गान्धर्ववेद (संगीतशास्त्र) और स्थापत्यवेद (शिल्पविद्या)—इन चार उपवेदोंको भी क्रमशः उन पूर्वादि मुखोंसे ही उत्पन्न किया॥ ३८॥
वीरराघवः
उपवेद-क्रमम् आह । आयुर्वेदम् इति स्थापत्यं शिल्पि-कर्म ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
इतिहासपुराणानि पञ्चमं वेदमीश्वरः।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः॥
मूलम्
इतिहासपुराणानि पञ्चमं वेदमीश्वरः।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः॥ ३९ ॥
अनुवाद (हिन्दी)
फिर सर्वदर्शी भगवान् ब्रह्माने अपने चारों मुखोंसे इतिहास-पुराणरूप पाँचवाँ वेद बनाया॥ ३९॥
वीरराघवः
इतिहासाश् च पुराणादि च तेषां समाहारः पञ्चमं वेदाख्यम् इतिहास-पुराणानि सर्व-दर्शनः सर्वज्ञः ईश्वरो ब्रह्मा सर्वेभ्यो मुखेभ्यः ससृजे ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्॥
मूलम्
षोड11श्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्॥ ४० ॥
अनुवाद (हिन्दी)
इसी क्रमसे षोडशी और उक्थ, चयन और अग्निष्टोम, आप्तोर्याम और अतिरात्र तथा वाजपेय और गोसव—ये दो-दो याग भी उनके पूर्वादि मुखोंसे ही उत्पन्न हुए॥ ४०॥
वीरराघवः
कर्म-तन्त्र-क्रमम् आह । षोडश्युक्थौ इति । षोडश्युक्थ-शब्दौ षोडश्युक्थ-नामक-संस्थान-विशिष्ट-कर्म-परौ पुरीषी-चयनः अग्निष्टुद्-अग्निष्टोमः आप्तोर्यामश् चातिरात्रश् च तौ कर्म-विशेषौ गोसवेन सहितं सगोसवं वाजपेयं षोडश्युक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुतौ दक्षिण-मुखाद् आप्तोर्यामातिरात्रौ पश्चिम-मुखाद् गोसव-वाजपेयौ उत्तरतः असृजद् इत्य् अर्थः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
विद्या दानं तपः सत्यं धर्मस्येति पदानि च।
आश्रमांश्च यथासंख्यमसृजत्सह वृत्तिभिः॥
मूलम्
विद्या दानं तपः सत्यं धर्मस्येति पदानि च।
आश्रमांश्च यथासंख्यमसृजत्सह वृत्तिभिः॥ ४१ ॥
अनुवाद (हिन्दी)
विद्या, दान, तप और सत्य—ये धर्मके चार पाद और वृत्तियोंके सहित चार आश्रम भी इसी क्रमसे प्रकट हुए॥ ४१॥
वीरराघवः
धर्मस्य पादानाम् आश्रमाणां च क्रमम् आह । विद्येति । विद्या-दानादीनि धर्मस्य चत्वारि पदानि ब्रह्मचर्यादयः चत्वारः आश्रमाश् च यथा-संख्यं वृत्तिभिः सह पूर्वादिभ्यो मुखेभ्यः असृजत् । ननु तपः सत्यं दया शौचम् इति प्रथम-स्कन्धे दया-शौचयोः पादत्वं कीर्तितम् । अत्र तु विद्या-दानयोर् इति विरोधः । मैवम् । दया-शौचयोर् विद्या-दान-कार्यत्वात् कारण-शब्दः कार्ये उपचर्य तथोक्तम् इत्य् अविरोधात् । शौचं ह्य् अवर-ज्ञान-कार्यम्” क्षेत्रज्ञेस्येश्वर-ज्ञानाद् विशुद्धिः परमा मता” इति स्मृतेः एवं “भूताभय-प्रदानस्य कलां नार्हन्ति षोडशीम्” इति पूर्वोक्त-रीत्या दययैव भूताभय-प्रदानम् अतो न विरोधः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा।
वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे॥
मूलम्
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा।
वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे॥ ४२ ॥
अनुवाद (हिन्दी)
सावित्र*, प्राजापत्य१, ब्राह्म२ और बृहत्३—ये चार वृत्तियाँ ब्रह्मचारीकी हैं तथा वार्ता४, संचय५, शालीन६ और शिलोञ्छ७—ये चार वृत्तियाँ गृहस्थकी हैं॥ ४२॥
पादटिप्पनी
- उपनयन-संस्कारके पश्चात् गायत्रीका अध्ययन करनेके लिये धारण किया जानेवाला तीन दिनका ब्रह्मचर्यव्रत।
१. एक वर्षका ब्रह्मचर्यव्रत। २. वेदाध्ययनकी समाप्तितक रहनेवाला ब्रह्मचर्यव्रत। ३. आयुपर्यन्त रहनेवाला ब्रह्मचर्यव्रत। ४. कृषि आदि शास्त्रविहित वृत्तियाँ। ५. यागादि कराना। ६. अयाचितवृत्ति। ७. खेत कट जानेपर पृथ्वीपर पड़े हुए तथा अनाजकी मंडीमें गिरे हुए दानोंको बीनकर निर्वाह करना।
वीरराघवः
कास् ता वृत्तयो या आश्रमैः सह जाता इत्य् अपेक्षायां वृत्तीर् वदंस् तासाम् अवान्तर-भेदांश् च आह द्वाभ्याम् । सावित्रं ब्रह्मचर्यं स्त्री-संग-विरहादि-रूपम् । उपनयनाद् आरभ्य गायत्रीम् अधियानस्य त्रि-रात्रं प्राज्ञाय संव्रतान्य् आचरतः संवत्सरान्तं ब्राह्मं वेदैर् गृहीते बृहन्-नैष्ठिकम् । एता ब्रह्मचर्याश्रम-वृत्तयः वार्ता अनिषिद्ध-कृष्यादि-वृत्तिः संचयो यावज्-जीवनं वृत्तिः शालीनम् अयाचित्त-वृत्तिः शिलं कणिकाद्य्-अर्जनम्, उञ्छः कणश आदानम् । उभयम् एका वृत्तिः एकवचनम् आर्षं समाहार-द्वन्द्वे तु पुंस्त्वम् आर्षं वेदितव्यम् । एता गृहे ग्रहाश्रमे वृत्तय इत्य् अर्थः ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
वैखानसा वालखिल्यौदुम्बराः फेनपा वने।
न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ॥
मूलम्
वैखानसा वालखिल्यौदुम्बराः फेनपा वने।
न्या12से कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ॥ ४३ ॥
अनुवाद (हिन्दी)
इसी प्रकार वृत्तिभेदसे वैखानस८, वालखिल्य९, औदुम्बर१० और फेनप११—ये चार भेद वानप्रस्थोंके तथा कुटीचक१२, बहूदक१३, हंस१४ और निष्क्रिय (परमहंस१५)—ये चार भेद संन्यासियोंके हैं॥ ४३॥
पादटिप्पनी
८. बिना जोती-बोयी भूमिसे उत्पन्न हुए पदार्थोंसे निर्वाह करनेवाले। ९. नवीन अन्न मिलनेपर पहला संचय करके रखा हुआ अन्न दान कर देनेवाले। १०. प्रातःकाल उठनेपर जिस दिशाकी ओर मुख हो उसी ओरसे फलादि लाकर निर्वाह करनेवाले। ११. अपने-आप झड़े हुए फलादि खाकर रहनेवाले। १२. कुटी बनाकर एक जगह रहने और आश्रमके धर्मोंका पूरा पालन करनेवाले। १३. कर्मकी ओर गौणदृष्टि रखकर ज्ञानको ही प्रधान माननेवाले। १४. ज्ञानाभ्यासी। १५. ज्ञानी जीवन्मुक्त।
वीरराघवः
चतुर्विधा वनस्था इत्य् आह । वैखानसा अकृष्ट-पच्याशिनः । वालखिल्या लब्धे नवान्ने पुराण-त्यागिनः । उदुंबराः प्रातर् उत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिः जीवन्तः । फेनपाः स्वयं जीर्णाशिनः वने वन-वासिन इत्य् अर्थः । तुर्याश्रमाणाम् अपि चातुर्विध्यम् आह । न्यास इति कुटीचकः स्वाश्रम-धर्म-प्रधानः बह्वोदः कर्मोपसर्जनी-कृत्य ज्ञान-प्रधानः । हंसो ज्ञानाभ्यास-निष्ठः निष्क्रियः । परमहंसः प्राप्त-तत्त्वः प्रवृत्ति-धर्म-हानत्वान् निष्क्रिय इत्य् उक्तं न तु निवृत्ति-धर्म-निवृत्तिर् अप्य् अनेनोच्यते विद्याङ्गत्वेन तस्यावश्यम् अनुवर्तनीयत्वात् । न्यासे एते संन्यासाश्रमे स्थिताः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च।
एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः॥
मूलम्
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च।
एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्र13तः॥ ४४ ॥
अनुवाद (हिन्दी)
इसी क्रमसे आन्वीक्षिकी१, त्रयी२, वार्ता३ और दण्डनीति४—ये चार विद्याएँ तथा चार व्याहृतियाँ५ भी ब्रह्माजीके चार मुखोंसे उत्पन्न हुईं तथा उनके हृदयाकाशसे ॐकार प्रकट हुआ॥ ४४॥
पादटिप्पनी
१. मोक्ष प्राप्त करनेवाली आत्मविद्या। २. स्वर्गादि फल देनेवाली कर्मविद्या। ३. खेती-व्यापारादि-सम्बन्धी विद्या। ४. राजनीति।
५. भूः, भुवः, स्वः—ये तीन और चौथी महःको मिलाकर, इस प्रकार चार व्याहृतियाँ आश्वलायनने अपने गृह्यसूत्रोंमें बतलायी हैं—‘एवं व्याहृतयः प्रोक्ता व्यस्ताः समस्ताः।’ अथवा भूः, भुवः, स्वः और महः—ये चार व्याहृतियाँ, जैसा कि श्रुति कहती है—‘भूर्भुवः सुवरिति वा एता स्तिस्रो व्याहृतयस्तासामु ह स्मैतां चतुर्थीमाह। वाचमस्य प्रवेदयते महः इत्यादि।
वीरराघवः
नयादीनां पूर्वोत्पत्ति-क्रमेणोत्पत्तिम् आह । आन्वीक्षिकी आत्मानात्म-विवेक-विद्या मोक्ष-फला त्रयी कर्म-विद्या स्वर्गादि-फला वार्ता कृष्यादि-रूपा जीवन-फला दण्ड-नीतिर् अर्थ-परा । अथ व्याहृतीनां क्रमम् आह एवम् इति एवं पूर्वादि-मुख-क्रमेणैव व्याहृतयश् चासन्न् इत्य् अर्थः । भूर् भुवः सुवर् इति व्यस्तास् तिस्रो व्याहृतयः समस्ता चतुर्थी व्याहृतिः तथा हाश्वलायनः । “एवं व्याहृतयः प्रोक्ता व्यस्ताः समस्ताः” इति यद् वा मह इति चतुर्थी व्याहृतिः तथा च श्रुतिः “भूर् भुवः सुवर् इत्य् एतास् तिस्रो व्याहृतयस्, तासाम् उ ह स्मै तां चतुर्थीम् आचमस्यः प्रवेदयते मह इति” श्रुतेश् चतुर्थी मह इति व्याहृतिः । एवं मुखोत्पन्नानां पूर्वादि-मुख-क्रमम् अभिधायान्येभ्यो ऽप्य् अङ्गेभ्यः अन्येषाम् उत्पत्तिम् आह प्रणव इत्यादिना । हृद्गतः हृदयाकाशात् प्रणव आस ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः।
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः॥
मूलम्
तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः।
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः॥ ४५ ॥
वीरराघवः
ब्रह्मणः लोमभ्यः उष्णिग्-आख्यं छन्द आसीत् अक्षराणां नियमादिः विभोर् ब्रह्मणः त्वचः गायत्री-छन्दः मांसात् त्रिष्टुप्-छन्दः स्नुतः स्नायोर् अनुष्टुप्-छन्दः प्रजापतेर् ब्रह्मणः अस्थ्नः जगती-छन्द आसीत् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्।
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः॥
मूलम्
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्।
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः॥ ४६ ॥
अनुवाद (हिन्दी)
उनके रोमोंसे उष्णिक्, त्वचासे गायत्री, मांससे त्रिष्टुप्, स्नायुसे अनुष्टुप्, अस्थियोंसे जगती, मज्जासे पंक्ति और प्राणोंसे बृहती छन्द उत्पन्न हुआ। ऐसे ही उनका जीव स्पर्शवर्ण (कवर्गादि पंचवर्ग) और देह स्वरवर्ण (अकारादि) कहलाया॥ ४५-४६॥
श्लोक-४७
विश्वास-प्रस्तुतिः
ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः।
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः॥
मूलम्
ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः।
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः॥ ४७ ॥
अनुवाद (हिन्दी)
उनकी इन्द्रियोंको ऊष्मवर्ण (श ष स ह) और बलको अन्तःस्थ (य र ल व) कहते हैं, तथा उनकी क्रीडासे निषाद, ऋषभ, गान्धार, षड्ज, मध्यम, धैवत और पंचम—ये सात स्वर हुए॥ ४७॥
वीरराघवः
मज्जायाः पङ्क्तिर् उत्पन्ना प्राणतः बृहती-छन्दो ऽभवत् ब्रह्मणः जीवः स्पर्शः कारणे कार्योपचारः एवम् अग्रे ऽपि देहः स्वरः देहात् स्वर उत्पन्नः इन्द्रियाणीन्द्रियेभ्य ऊष्माणः आत्मनो ब्रह्मणः बलम् अन्तःस्थाः तस्मात् ते उत्पन्ना इत्य् अर्थः । कादयो मावसानाः स्पर्शाः स्वराः श-ष-स-हा ऊष्माणः, य-र-ल-वा अन्तस्था इति वैयाकरणोक्त-रीत्या स्पर्शादयः शब्दाः प्रयुक्ताः प्रजापतेर् विहारेण क्रीडया सप्त-स्वराः षड्जर्षभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादा भवन्ति स्माभवन्न् इत्य् अर्थः ॥ ४६-४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः।
ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः॥
मूलम्
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः।
ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः॥ ४८ ॥
अनुवाद (हिन्दी)
हे तात! ब्रह्माजी शब्दब्रह्मस्वरूप हैं। वे वैखरीरूपसे व्यक्त और ओंकाररूपसे अव्यक्त हैं तथा उनसे परे जो सर्वत्र परिपूर्ण परब्रह्म है, वही अनेकों प्रकारकी शक्तियोंसे विकसित होकर इन्द्रादि रूपोंमें भास रहा है॥ ४८॥
वीरराघवः
एवं वर्णानाम् उत्पत्तिम् अभिधायाथ तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायत इति श्रुत्य्-उक्त-रीत्या शब्दार्थ-रूप-प्रपञ्चात्मके ब्रह्मणि अर्थ-रूपस्य ब्रह्मणो वेदादि-रूपेण यथा विततत्वम् एवं ब्रह्मण उत्पन्नाकारादि-वर्ण-संघातात्मक-शब्द-ब्रह्मणो ऽपि विततत्वम् अस्तीत्य् आह शब्देत्यादिना । शब्दात्मकं ब्रह्म आत्मा शरीरं यस्य तस्माच् छब्द-ब्रह्माभिव्यक्ति-स्थानस्य तच्-छरीरत्वाच् छब्द-ब्रह्मापि तच्-छरीरम् एवेत्य् अभिप्रायेण शब्द-ब्रह्मात्मनः इति शब्दात्मकं ब्रह्म-शरीरं यस्य तस्माच् छब्दस्याभिव्यक्तिर् इत्य् उक्तं व्यक्ताव्यक्तात्मनः चतुर्मुख-शरीरे ऽपि चतुर्विंशति-तत्त्व-सम्भवाद् व्यक्ताव्यक्तत्वम् । एवम्भूताच् चतुर्मुखात् हे तात ! परः अर्थात्मकाद् अन्यः ब्रह्मा शब्दात्मकः ब्रह्मा ऽपि विततः श्रुति-स्मृतीतिहासादि-रूपेण प्रकृति-प्रत्यय-पद-वाक्यादि-रूपेण षड्-भाषा-रूपेण च विस्तृतः नाना-शक्त्य्-उपबृंहितः । अत्र शक्ति-शब्देनार्थोपमान-सामर्थ्य-रूपाभिधा-लक्षणा-गौण्यादि-रूपा वृत्तय उच्यन्ते । नाना-शक्तिभिर् अभिधादिभिर् उपबृंहितः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
ततोऽपरामुपादाय स सर्गाय मनो दधे।
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम्॥
मूलम्
ततोऽपरामुपादाय स सर्गाय मनो दधे।
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम्॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव।
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा॥
मूलम्
ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव।
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा॥ ५० ॥
वीरराघवः
ततः वर्णस्वर-सर्गानन्तरं किम् अकरोद् इत्य्-अत्राह तत इत्य्-अर्धेन । ततः शब्द-ब्रह्मात्मक-तन्वाः अपरां तनुम् उपादाय स्वीकृत्य सृष्ट्य्-अर्थं मनो दधे मनसा चिन्तयद् इत्य् अर्थः । केयम् अपरा तनुः कीदृशी वा चिन्तेत्य् अपेक्षायाम् आह । ऋषीणाम् इत्य्-आदिना । स्त्री यासीद् इत्य् अन्तेन । प्रपञ्चयति । तावच् चिन्ता-प्रकारम् आह । ऋषीणाम् इति । भूरि-वीर्यं प्रजनन-सामर्थ्यं येषां तेषाम् ऋषीणाम् अपि सर्ग-विस्तृतं ज्ञात्वा दृष्ट्वा तद्-वृद्धये सर्ग-वृद्धये भूयश् चिन्तयामास ॥ ४९-५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्।
एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा॥
मूलम्
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्।
एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते।
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत॥
मूलम्
कस्य रूपमभूद् द्वेधा यत्कायमभिचक्षते।
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत॥ ५२ ॥
अनुवाद (हिन्दी)
विदुरजी! ब्रह्माजीने पहला कामासक्त शरीर जिससे कुहरा बना था—छोड़नेके बाद दूसरा शरीर धारण करके विश्वविस्तारका विचार किया; वे देख चुके थे कि मरीचि आदि महान् शक्तिशाली ऋषियोंसे भी सृष्टिका विस्तार अधिक नहीं हुआ, अतः वे मन-ही-मन पुनः चिन्ता करने लगे—‘अहो! बड़ा आश्चर्य है, मेरे निरन्तर प्रयत्न करनेपर भी प्रजाकी वृद्धि नहीं हो रही है। मालूम होता है इसमें दैव ही कुछ विघ्न डाल रहा है। ‘जिस समय यथोचित क्रिया करनेवाले श्रीब्रह्माजी इस प्रकार दैवके विषयमें विचार कर रहे थे उसी समय अकस्मात् उनके शरीरके दो भाग हो गये। ‘क’ ब्रह्माजीका नाम है, उन्हींसे विभक्त होनेके कारण शरीरको ‘काय’ कहते हैं। उन दोनों विभागोंसे एक स्त्री-पुरुषका जोड़ा प्रकट हुआ॥ ४९—५२॥
वीरराघवः
किम् इत्य् अत आह । न हीति । नित्यदा सर्वदा व्यापृतस्यापि प्रजा-सर्गे व्यापारं कुर्वतो ऽपि मे मम सकाशात् प्रजा न ह्येधन्ते न वर्धन्ते एतद् अद्भुतम् अहो आश्चर्यं खलु अत्र प्रजा-वृद्धौ दैवं विघातकं प्रतिबन्धकं नूनं निश्चयः एवं युक्त-कृतः उचित-चिन्तन-रूपं युक्तं कुर्वतः दैवं देवानुकूल्यं चापेक्षतः अपेक्षमाणस्य कस्य ब्रह्मणो रूपं द्विधा ऽभूत् प्राक्तने रूपे सत्य् एव द्वितीयं रूपम् अभूत् प्राक्तनेन सह द्वे रूपे भवत इत्य् अभिप्रेत्य । द्विधाभूद् इत्य् उक्तम् । इदं रूपस्य द्विधा-भवनं न देवासुरादि-सृष्टौ प्रभावत्व-लोलुपत्वादि-भाव-ग्रहणवद्-भाव-ग्रहणं किन्तु तस्य शरीरम् एव द्विधाभूतम् इत्य् आवेदयितुं रूपं विशिनष्टि । यत् कायम् इति । यद् रूपं कार्यं शरीरम् अभिचक्षते व्याहरन्ति ताभ्यां रूपस्य विभागाभ्यां विभक्ताभ्यां रूपाभ्याम् इत्य् अर्थः मिथुनं स्त्री-पुंसात्मकं द्वन्द्वम् अभूद् इत्य् अर्थः । तत्र मिथुने यः पुमान् स मनुः स्वायंभुवः स्वायंभुव-मन्वाख्यः स्वराट् सार्वभौमो ऽभूत् ॥ ५१-५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट्।
स्त्री याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः॥
मूलम्
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट्।
स्त्रीया14ऽऽसीच्छतरूपाख्या महिष्यस्य15महात्मनः॥ ५३ ॥
अनुवाद (हिन्दी)
उनमें जो पुरुष था वह सार्वभौम सम्राट् स्वायम्भुव मनु हुए और जो स्त्री थी, वह उनकी महारानी शतरूपा हुईं॥ ५३॥
वीरराघवः
या स्त्री सा ऽस्य महात्मनो महा-बुद्धेः स्वायंभुव-मनोः महिषी भार्या शतरूपाख्या ऽभूत् ततः प्रभृति किम् आसीज् जातश् च मनुः किम् अकरोद् इत्य् अत्राह । तदेत्यादि । यावद्-अध्याय-परिसमाप्ति तदा मनु-शतरूपा-प्रादुर्भाव-प्रभृति-काले मैथुन-धर्मेण प्रजा एधाम्बभूविरे अवर्द्धन्तेत्य् अर्थः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे।
स चापि शतरूपायां पञ्चापत्यान्यजीजनत्॥
मूलम्
तदा मिथुनधर्मेण प्रजा ह्ये15धाम्बभूविरे।
स चापि शतरूपायां पञ्चापत्यान्यजीजनत्॥ ५४ ॥
अनुवाद (हिन्दी)
तबसे मिथुनधर्म (स्त्री-पुरुष-सम्भोग)-से प्रजाकी वृद्धि होने लगी। महाराज स्वायम्भुव मनुने शतरूपासे पाँच सन्तानें उत्पन्न कीं॥ ५४॥
श्लोक-५५
विश्वास-प्रस्तुतिः
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम॥
मूलम्
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत।
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम॥ ५५ ॥
अनुवाद (हिन्दी)
साधुशिरोमणि विदुरजी! उनमें प्रियव्रत और उत्तानपाद दो पुत्र थे तथा आकूति, देवहूति और प्रसूति—तीन कन्याएँ थीं॥ ५५॥
वीरराघवः
स चापि स्वायंभुवो मनुर् अपि शतरूपायां स्व-भार्यायाम् अपत्यानि पञ्चाजीजनज् जनयामास अपत्य-शब्दस्य साधारणत्वात् तत्र स्त्री-पुं-विभागम् आह । प्रियव्रतेति । प्रियव्रतोत्तानपादौ पुत्रौ आकूतिर् देवहूतिः प्रसूत्य्-आख्यास् तिस्रः कन्याश् चाजीजनद् इति पूर्वेणान्वयः ॥ ५४-५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्।
दक्षायादात्प्रसूतिं च यत आपूरितं जगत्॥
मूलम्
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्।
दक्षायादात्प्रसूतिं च यत आपूरितं जगत्॥ ५६ ॥
अनुवाद (हिन्दी)
मनुजीने आकूतिका विवाह रुचि प्रजापतिसे किया, मझली कन्या देवहूति कर्दमजीको दी और प्रसूति दक्ष प्रजापतिको। इन तीनों कन्याओंकी सन्ततिसे सारा संसार भर गया॥ ५६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः॥ १२ ॥
वीरराघवः
रुचये रुच्य्-आख्याय मुनये प्रथमाम् आकूतिं कर्दमाय मध्यमां देवहूतिं दक्षाय प्रसूतिम् अदाद् दत्तवान् यतः याभ्यः आकूत्य्-आदिभ्यः उत्पन्नाभिः प्रजाभिः कृत्स्नं जगद् आपूरितं बहु-सन्तान-कराः कन्या इत्य् अर्थः ॥ ५६ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कंधे श्रीमद्-वीरराघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिका-टीकायां द्वादशो ऽध्यायः ॥ १२ ॥
-
प्रा. पा. - तन्मन्योः । ↩︎
-
प्रा. पा. - ते । ↩︎
-
प्रा. पा. - मनुर्महान्सोमो महान् । ↩︎
-
प्रा. पा. - ऊर्ध्वरेता । ↩︎
-
प्रा. पा. - धीवृत्तिरसरोमा च निजसर्पि । ↩︎
-
प्राचीन प्रतिमे २१ वें श्लोकके उत्तरार्ध ‘भगवच्छक्तियुक्तस्य..’ से लेकर २४ वें श्लोकके उत्तरार्धमें ‘अङ्गिरामुख’ तकका अंश नहीं है । इसके अतिरिक्त २५ वें श्लोकका ‘दक्षिणतो’ शब्द और २६ वें श्लोकका ‘भ्रुवः’ शब्द नहीं हैं । जान पड़ता है, खण्डित हो गये हैं, या लिखने में छूट गये हैं । ↩︎
-
प्रा. पा. - ये परे । ↩︎
-
प्रा. पा. - ह्यात्मजां प्रभो । ↩︎
-
प्रा. पा. - तन्वीं । ↩︎
-
प्रा. पा. - दिष्टया तन्मे । ↩︎
-
प्रा. पा. - षोडशोक्षः पूर्व । ↩︎
-
प्रा. पा. - न्यासौ । ↩︎
-
प्रा. पा. - दक्षतः । ↩︎
-
प्रा. पा. - वासी । ↩︎