११

[एकादशोऽध्यायः]

भागसूचना

मन्वन्तरादि कालविभागका वर्णन

श्लोक-१

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

चरमः सद्विशेषाणामनेकोऽसंयुतः सदा।
परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः॥

मूलम्

चरमः सद्विशेषाणामनेकोऽसंयुतः सदा।
परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! पृथ्वी आदि कार्यवर्गका जो सूक्ष्मतम अंश है—जिसका और विभाग नहीं हो सकता तथा जो कार्यरूपको प्राप्त नहीं हुआ है और जिसका अन्य परमाणुओंके साथ संयोग भी नहीं हुआ है उसे परमाणु कहते हैं। इन अनेक परमाणुओंके परस्पर मिलनेसे ही मनुष्योंको भ्रमवश उनके समुदायरूप एक अवयवीकी प्रतीति होती है॥ १॥

वीरराघवः

एवं काल-कल्प-सृष्टिम् उक्त्वा काल-स्वरूपं स्थौल्य-सौक्ष्म्य-रूपं प्रकर्षापकर्ष-काष्ठे निरूपयति । चरम इति श्लोकद्वयेन । ननु काल-परिच्छेद्य-वस्तुनः प्रकर्षापकर्ष-निरूपणं किम्-अर्थम् अप्रकृतत्वाद् इति चेन् न, कालो ह्य् अत्र परमाण्व्-आदि-सम्वत्सरान्तः स्थूल-सूक्ष्म-रूपः सूर्य-गत्या लक्ष्यते । यत्र सूर्यो यावत् परमाणुम् अतिक्रामति तावत् परमाणुः, यावता च द्वादश-राश्य्-आत्मकं भुवन-कोशम् अतिक्रामति स परम-महान् सम्वत्सरात्मकः । एवं च सूर्य-गति-विषय-देश-प्रकर्षापकर्ष-निरूपणम् अन्तरेण सूर्य-गमन-काल-प्रकर्षापकर्ष-निरूपणायोगात् युक्तं तावत् काल-काल्यस्य वस्तुनः निरतिशय-स्थौल्य-सौक्ष्म्य-निरूपणम्, तत्र प्रथमं काल-परिच्छेद्यस्य निरतिशय-सौक्ष्म्य-रूपापकर्ष-काष्ठाम् आह चरम इत्य् एकेन । केचिद् इमं श्लोकं वैशेषिकोक्त-परमाणु-सद्भाव-परम् आहुः । तद्-अयुक्तम् । वेदोपबृंहण-परे प्रबन्धे परमाणु-सद्भावाभ्युपगमासंभवात् परमाण्व्-आदि-सम्वत्सरावसानेनेति वक्ष्यमाणत्वाच् च सद्-विशेषाणां सतः कार्यस्य विशेषाणाम् अंशानां यश् चरमोऽन्त्योऽंशः, अत्यल्पः, यस्य पुनर् अंशो नास्ति स इत्य् अर्थः । तम् एव विशिनष्टि— अनेकः कार्यावस्थां अप्राप्तः, असंयुतः समुदायावस्थां चाप्राप्तः, अत एव कार्य-समुदायावस्थयोर् अपगमेऽप्य् अस्ति स परमाणुर् विज्ञेयः । नृणां यतः कालापकर्षाद् ऐक्य-भ्रमः, ईदृशं सूक्ष्मं विभागम् अज्ञात्वाऽनेकेषु कालांशेष्व् एकः काल इति भ्रमन्तीत्य् अर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

सत एव पदार्थस्य स्वरूपावस्थितस्य यत्।
कैवल्यं परममहानविशेषो निरन्तरः॥

मूलम्

सत एव पदार्थस्य स्वरूपावस्थितस्य यत्।
कैवल्यं परममहानविशेषो निरन्तरः॥ २ ॥

अनुवाद (हिन्दी)

यह परमाणु जिसका सूक्ष्मतम अंश है, अपने सामान्य स्वरूपमें स्थित उस पृथ्वी आदि कार्योंकी एकता (समुदाय अथवा समग्ररूप)- का नाम परम महान् है। इस समय उसमें न तो प्रलयादि अवस्थाभेदकी स्फूर्ति होती है, न नवीन-प्राचीन आदि कालभेदका भान होता है और न घट-पटादि वस्तुभेदकी ही कल्पना होती है॥ २॥

वीरराघवः

एवम् अपकर्ष-काष्ठा अभिहिता, अथ प्रकर्ष-काष्ठाम् आह । सत इति । यस्य कार्यस्य चरमोऽंशः परमाणुस् तस्यैव सतः कार्यावस्थायावस्थितस्य स्वरूपावस्थितस्य विकारान्तर-रहितस्य पदार्थस्य यत् कैवल्यं केवलं स्वरूपं, स एव परम-महान् निरतिशय-प्रकर्षः । तम् एव विशिनष्टि । अविशेषः, पुनः प्रकर्षान्तर-रहितः, स्व-समवेतागृहीत-भेदावयवः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम।
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः॥

मूलम्

एवं कालोऽप्यनुमितः सौक्ष्म्ये1 स्थौल्ये च सत्तम।
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः॥ ३ ॥

अनुवाद (हिन्दी)

साधुश्रेष्ठ! इस प्रकार यह वस्तुके सूक्ष्मतम और महत्तम स्वरूपका विचार हुआ। इसीके सादृश्यसे परमाणु आदि अवस्थाओंमें व्याप्त होकर व्यक्त पदार्थोंको भोगनेवाले सृष्टि आदिमें समर्थ, अव्यक्तस्वरूप भगवान् कालकी भी सूक्ष्मता और स्थूलताका अनुमान किया जा सकता है॥ ३॥

वीरराघवः

काल-परिच्छेद्ये स्व-पदार्थे उपपादिते प्रकर्षापकर्ष-काष्ठे अप्य् अतिदिशति एवम् इति द्वाभ्याम् । एवं परिच्छेद्य-प्रकर्षापकर्ष-काष्ठवत् कालो ऽपि सौक्ष्म्ये परमाण्व्-आदि-रूप-प्रकर्षे च संस्थान-भुक्त्य्-अवच्छेद्यार्थ-गतावस्था-विशेष-संयोग-लक्षणया, यद्वा स्वावच्छेदकाणुत्वाद्य्-अवस्था-रूप-संस्थान-विशेष-संयोग-लक्षणया भुक्त्य्-अनुमितः । कथम्-भूतः? भगवान्, भगवदात्मकः, स्वयम् अव्यक्तः, व्यक्तभुग् विभुः, व्यक्त-वस्तु-परिणाम-हेतुः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

स कालः परमाणुर्वै यो भुङ्‍क्ते परमाणुताम्।
सतोऽविशेषभुग्यस्तु स कालः परमो महान्॥

मूलम्

स कालः परमाणुर्वै यो भुङ्‍क्ते परमाणुताम्।
सतोऽविशेषभुग्यस्तु स2 कालः परमो महान्॥ ४ ॥

अनुवाद (हिन्दी)

जो काल प्रपंचकी परमाणु-जैसी सूक्ष्म अवस्थामें व्याप्त रहता है, वह अत्यन्त सूक्ष्म है और जो सृष्टिसे लेकर प्रलयपर्यन्त उसकी सभी अवस्थाओंका भोग करता है, वह परम महान् है॥ ४॥

वीरराघवः

अतिदिष्टाम् एवापकर्ष-काष्ठाम् उपपादयति स इत्य्-अर्धेन । परमाणुताम् अत्य्-अल्पतां यः कालः भुङ्क्ते अनुभवति, स कालः परमाणुर् ज्ञेयः । प्रकर्ष-काष्ठाम् आह सत इत्य्-अर्धेन । सतः, निरतिशय-सूक्ष्मावस्थयावस्थितस्य स्वस्य यो विशेषः, निरतिशय-स्थूल-संवत्सरात्मकत्वं विशेषणं, तं भजतीति विशेष-भुग् यः, स परम-महान् निरतिशय-प्रकर्ष इत्य् अर्थः । संवत्सरात्मकत्वम् एव हि काल-स्थौल्यम्, द्वि-परार्धत्वं तस्यैव संवत्सरस्य युग-मन्व्-अन्तरानुक्रमेण भवतीति न तस्य स्थौल्यम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः।
जालार्करश्म्यवगतः खमेवानुपतन्नगात्॥

मूलम्

3अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः।
4जालार्करश्म्यवगतः खमेवानुपतन्न5गात्॥ ५ ॥

अनुवाद (हिन्दी)

दो परमाणु मिलकर एक ‘अणु’ होता है और तीन अणुओंके मिलनेसे एक ‘त्रसरेणु’ होता है, जो झरोखेमेंसे होकर आयी हुई सूर्यकी किरणोंके प्रकाशमें आकाशमें उड़ता देखा जाता है॥ ५॥

वीरराघवः

एवम् अपकर्ष-प्रकर्षौ उपपाद्य अवान्तर-काल-विशेषावच्छेदकावस्थाः प्रतिपादयति । अणुर् द्वाव् इत्यादिना । द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवीत्य् अन्तेन अणुर् इत्यादिना न वैशेषिक-प्रक्रियोक्तिः, किं तु तैस् तथाभ्युपगत-वस्तु-परिभाषितानां शब्दानां कालावयवेषु प्रयोगस् तं परमाण्व्-आदिना संवत्सरावसानेनेति वेति वक्ष्यति द्वाभ्यां परमाणुभ्याम् अणुर् इत्य् एकः कालः स्याद् इत्य् अर्थः । त्रिभिर् अणुभिस् त्रसरेणुर् इत्य् एकः कालः स्यात्, त्रसरेणु-संज्ञकात् कालात् पूर्वोक्तानां कालानाम् अत्यन्त-सूक्ष्म-तद्-अवच्छेदक-कथनस्याशक्यत्वात् त्रसरेणु-संज्ञक-कालस्यावच्छेदकम् आह । जालार्केति । जालार्क-रन्ध्र-निष्कान्तादित्य-रश्मिषु दृष्टः खम् आकाशम् एवानुपतन् नगाद् गतः, न भूमिम् अनुपतन् पांसुर्यः, स त्रसरेणुः काल इत्य् अन्वयः । अवच्छेद्यस्य कालस्यावच्छेद्य-पांसु-पदार्थस्य चोपचारात् सामानाधिकरण्यं जालार्क-रश्म्य्-अवगत-पांसोर् ईषत्-स्पन्दनावच्छिन्नः कालः त्रसरेणु-संज्ञ इत्य् अर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

त्रसरेणुत्रिकं भुङ्‍क्ते यः कालः स त्रुटिः स्मृतः।
शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः॥

मूलम्

त्रसरेणुत्रिकं भुङ्‍क्ते यः कालः स त्रुटिः स्मृतः।
शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः॥ ६ ॥

अनुवाद (हिन्दी)

ऐसे तीन त्रसरेणुओंको पार करनेमें सूर्यको जितना समय लगता है, उसे ‘त्रुटि’ कहते हैं। इससे सौगुना काल ‘वेध’ कहलाता है और तीन वेधका एक ‘लव’ होता है॥ ६॥

वीरराघवः

त्रसरेणु-संज्ञक-कालांश-त्रिकं भुङ्क्ते प्राप्नोति यः कालः स त्रुटिर् इत्य् अर्थः । त्रसरेणु-काल-त्रयं त्रुटिर् इत्य् उक्तं भवति, सा त्रुटिः वेधाख्यस्य शत-भागः, शत-गुणः कालः एक-पत्र-वेधावच्छिन्नः, त्रिभिस् तैर् वेधैर् लव एकः कालः स्मृतः इत्य् अर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः।
क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च॥

मूलम्

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः।
क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च॥ ७ ॥

अनुवाद (हिन्दी)

तीन लवको एक ‘निमेष’ और तीन निमेषको एक ‘क्षण’ कहते हैं। पाँच क्षणकी एक ‘काष्ठा’ होती है और पन्द्रह काष्ठाका एक ‘लघु’॥ ७॥

वीरराघवः

लव-त्रय-निमेष इत्याह । निमेष इति । शत-भागस् तु वेध इति श्रुत-शत-शब्दो ऽनेक-वाची, तथा सति “निमेष-शत-भागस्य सहस्रांशः क्षणी नृप ! तस्याप्य्-अयुत-भागांशैर् भवत्य्-उपचयो नृणाम्” इति शौनक-वचनैकार्थ्यं स्यात् । ईदृश-काल-विभागः कथम् अवगम्यत इति चेत्, एक-क्षणे विद्युद्-आदि-लोकादयो ऽनेक-योजनं व्याप्नुवन्ति । एक-क्षणे आदित्य-रथस्यानेक-योजन-यतिश् च स्मर्यते, तत्रैक-योजनेऽपि प्रदेशे समुदिताः केशाः सर्षपाश् च न शक्याः संख्यातुम् । ततश् च केशादि-वत्-परिमित-देश-व्याप्त्य्-अवच्छिन्नाः कालावयवा एक-क्षण-वत्-प्रतिपन्ना अथ संख्येयाः सन्तीत्य्-उपपन्नम् एव । ते त्रयो निमेषाः एकः क्षणः स्यात् । पञ्च-क्षणान् काष्ठां विदुः, काष्ठाः पञ्चदश एका लघुता, लघुताख्य एक-कालः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

लघूनि वै समाम्नाता दश पञ्च च नाडिका।
ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्॥

मूलम्

लघूनि वै समाम्नाता दश पञ्च च नाडिका।
ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्॥ ८ ॥

अनुवाद (हिन्दी)

पन्द्रह लघुकी एक ‘नाडिका’ (दण्ड) कही जाती है, दो नाडिकाका एक ‘मुहूर्त’ होता है और दिनके घटने-बढ़नेके अनुसार (दिन एवं रात्रिकी दोनों सन्धियोंके दो मुहूर्तोंको छोड़कर) छः या सात नाडिकाका एक ‘प्रहर’ होता है। यह ‘याम’ कहलाता है, जो मनुष्यके दिन या रातका चौथा भाग होता है॥ ८॥

वीरराघवः

पञ्चदश-लघूनि एका नाडिका समाम्नाता, द्वे ते नाडिके एको मुहूर्तह्, षट् नाडिकाः सप्त वा प्रहरः, स एव यामो दिनस्य रात्रेश् च चतुर्थो भागः । ह्रासे षट् वृद्धौ सन्ध्या मुहूर्त-द्वयं विनेति ज्ञातव्यम्, तत्राप्य्-अनियमार्थो वा-शब्दः । नृणाम् इत्य् अनेन मनुष्य-मानम् उक्तम् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः।
स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्॥

मूलम्

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गु6लैः।
स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्॥ ९ ॥

अनुवाद (हिन्दी)

छः पल ताँबेका एक ऐसा बरतन बनाया जाय जिसमें एक प्रस्थ जल आ सके और चार माशे सोनेकी चार अंगुल लंबी सलाई बनवाकर उसके द्वारा उस बरतनके पेंदेमें छेद करके उसे जलमें छोड़ दिया जाय। जितने समयमें एक प्रस्थ जल उस बरतनमें भर जाय, वह बरतन जलमें डूब जाय, उतने समयको एक ‘नाडिका’ कहते हैं॥ ९॥

वीरराघवः

प्रत्यहं तद्-भेदानां गणयितुम्-अशक्यत्वान् नाडिका-मानं ज्ञापयितुं प्रस्थ-लक्षणम् आह । द्वादशार्धेति । द्वादशार्ध-पलोन्मानम् उन्मीयतेऽनेन इत्य् उन्मानं पात्रं, तच् च द्वादश-पलं द्वादश-पल-परिमित-ताम्र-रचितं, षट्-पल-ताम्र-रचितम् इत्य् एके, पञ्च-गुञ्जो माषः, तैश् चतुरङ्गुलायाम-शलाका-रूपेण रचितैः कृत-मूल-छिद्रं, तेन छिद्रेण प्रस्थ-परिच्छिन्न-जल-भरेण योग्यत्वात् प्रस्थ-शब्द-वाच्यं पात्रं जले प्लुतं स्थापितं यावता कालेन निमज्जति सा नाडिकेत्य् अर्थः । माष-चतुष्टय-मित-स्वर्ण-कृत-चतुरङ्गुल-सूच्या कृत-छिद्रम् अर्धाधिक-द्वादश-पल-परिमितं प्रस्थ-परिमित-जल-भरेणैव निमज्जत्-पात्र-प्रस्थं, तन्-निमज्जनावच्छिन्नः कालः नाडिकेति समुदायार्थः । अत्र पल-छिद्रयोर् आधिक्ये शीघ्रं निमज्जेद् अल्पत्वे च विलम्बेनेति पल-शलाकयोर् नियमः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे।
पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद॥

मूलम्

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे।
पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद॥ १० ॥

अनुवाद (हिन्दी)

विदुरजी! चार-चार पहरके मनुष्यके ‘दिन’ और ‘रात’ होते हैं और पन्द्रह दिन-रातका एक ‘पक्ष’ होता है, जो शुक्ल और कृष्ण भेदसे दो प्रकारका माना गया है॥ १०॥

वीरराघवः

चत्वारश् चत्वारः अष्टाव् इत्य् अर्थः, अष्टौ यामाः मर्त्यानाम् उभे अहन्य् अहोरात्रः, पञ्चदशाहान्य् अहोरात्रात्मकान्य् अहानि शुक्लः कृष्णश् च पक्षः, पुनः पञ्चदशाहानि कृष्णः पक्ष इत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तयोः समुच्चयो मासः पितॄणां तदहर्निशम्।
द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि॥

मूलम्

तयोः समुच्चयो मासः पितॄणां तदहर्निशम्।
द्वौ ता7वृतुः षडयनं दक्षिणं चोत्तरं दिवि॥ ११ ॥

अनुवाद (हिन्दी)

इन दोनों पक्षोंको मिलाकर एक ‘मास’ होता है, जो पितरोंका एक दिन-रात है। दो मासका एक ‘ऋतु’ और छः मासका एक ‘अयन’ होता है। अयन ‘दक्षिणायन’ और ‘उत्तरायण’ भेदसे दो प्रकारका है॥ ११॥

वीरराघवः

हे मानद ! विदुर, अनयोः शुक्ल-कृष्णयोः पक्षयोः समुच्चयः समुदाय एको मासः, नृणाम् इत्य् अनुषङ्गः, पितॄणां विशेषम् आह । पितॄणाम् इति । स पूर्वोक्तो मासः पितॄणाम् अहर्-निशम् अहोरात्रः, यत्-तदोर् अनियमेनोद्देश्य-विधेयान्यतर-लिङ्गत्वात् तद् इति नपुंसक-निर्देशः । तौ पूर्वोक्तौ मासौ नृणाम् ऋतुः, षण्-मासास् त्व् अयनम् इत्य् उच्यते, तच् चायनं दक्षिणोत्तर-भेदेन द्विविधं, षण्-मासा दक्षिणायनम्, पुनः षण्-मासा उत्तरायणम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः।
संवत्सरशतं नॄणां परमायुर्निरूपितम्॥

मूलम्

अयने चा8हनी प्राहुर्वत्सरो द्वादश स्मृतः।
संवत्सरशतं नॄणां परमायुर्निरूपितम्॥ १२ ॥

अनुवाद (हिन्दी)

ये दोनों अयन मिलकर देवताओंके एक दिन-रात होते हैं तथा मनुष्यलोकमें ये ‘वर्ष’ या बारह मास कहे जाते हैं। ऐसे सौ वर्षकी मनुष्यकी परम आयु बतायी गयी है॥ १२॥

वीरराघवः

देवानां विशेषम् आह । अयने दक्षिणोत्तरायणे दिवि स्वर्गे ऽहनी प्राहुः, देवानाम् अहर्-निशम् इत्य् अर्थः । द्वादश पूर्वोक्ताः नृणां मासाः, द्वादशवत्सरः स्मृतः । प्रसङ्गात् नृणाम् आयुः-परिमाणम् अप्य् आह, संवत्सर-शतम् इति । स्पष्टो ऽर्थः । नृणाम् इत्य् उपलक्षणम् अन्येषाम् अपि स्व-स्व-मानेन शत-संवत्सरम् आयुर् भवतीत्य् अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत्।
संवत्सरावसानेन पर्येत्यनिमिषो विभुः॥

मूलम्

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत्।
संवत्सरावसानेन पर्येत्यनिमिषो विभुः॥ १३ ॥

अनुवाद (हिन्दी)

चन्द्रमा आदि ग्रह, अश्विनी आदि नक्षत्र और समस्त तारा-मण्डलके अधिष्ठाता कालस्वरूप भगवान् सूर्य परमाणुसे लेकर संवत्सरपर्यन्त कालमें द्वादश राशिरूप सम्पूर्ण भुवनकोशकी निरन्तर परिक्रमा किया करते हैं॥ १३॥

वीरराघवः

अनेन क्रमेण सूर्यो नित्यम् आयुः क्षिपतीत्य् आह । ग्रहर्क्षेति । अनिमिषः, नित्य-जागरूकः, विभुः सूर्यः, ग्रहर्क्ष-तारा-चक्र-स्थः ग्रहाश् चन्द्रादयः, ऋक्षाण्य् अश्विन्यादीनि, तारा अन्यानि नक्षत्राणि, तद्-उपलक्षितं यत् काल-चक्रं, तत्-स्थितः, जगद् द्वादश-राश्य्-आत्मकं भुवन-कोशं परमाण्व्-आदिना संवत्सरान्तेन कालेन पर्येति, पर्यटति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

संवत्सरः परिवत्सर इडावत्सर एव च।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते॥

मूलम्

संवत्सरः परिवत्सर इडावत्सर एव च।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते॥ १४ ॥

अनुवाद (हिन्दी)

सूर्य, बृहस्पति, सवन, चन्द्रमा और नक्षत्रसम्बन्धी महीनोंके भेदसे यह वर्ष ही संवत्सर, परिवत्सर, इडावत्सर, अनुवत्सर और वत्सर कहा जाता है॥ १४॥

वीरराघवः

उक्तस्यैतत्-सर्वात्मक-काल-चक्रस्य सूर्यादि-गति-भेदेन नाम-भेदम् आह । संवत्सर इत्य् एकेन । आदित्य-गत्या संवत्सरः, त्रिंशद्-दिवसैर् मासैर् आदित्य-गति-विशेषाद् इडावत्सरः । चान्द्र-नक्षत्र-गतिभ्याम् अनुवत्सर-वत्सराव् इत्य् एवं प्रभाष्यते, कथ्यते ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या
पुंसोऽभ्रमाय दिवि धावति भूतभेदः।
कालाख्यया गुणमयं क्रतुभिर्वितन्वं-
स्तस्मै बलिं हरत वत्सरपञ्चकाय॥

मूलम्

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भूतभेदः।
कालाख्यया गुणमयं क्रतुभिर्वितन्वंस्तस्मै बलिं हरत वत्सरपञ्चकाय॥ १५ ॥

अनुवाद (हिन्दी)

विदुरजी! इन पाँच प्रकारके वर्षोंकी प्रवृत्ति करनेवाले भगवान् सूर्यकी तुम उपहारादि समर्पित करके पूजा करो। ये सूर्यदेव पंचभूतोंमेंसे तेजःस्वरूप हैं और अपनी कालशक्तिसे बीजादि पदार्थोंकी अंकुर उत्पन्न करनेकी शक्तिको अनेक प्रकारसे कार्योन्मुख करते हैं। ये पुरुषोंकी मोहनिवृत्तिके लिये उनकी आयुका क्षय करते हुए आकाशमें विचरते रहते हैं तथा ये ही सकाम-पुरुषोंको यज्ञादि कर्मोंसे प्राप्त होनेवाले स्वर्गादि मंगलमय फलोंका विस्तार करते हैं॥ १५॥

वीरराघवः

एवं सूक्ष्मत्वेन स्थूलत्वेन च सर्वस्यावच्छेदकत्वेन च स्वरूपं निरूप्य, उक्त-विध-काल-शरीरकस्याकाल्यस्य सूर्यात्मनः परमात्मनः उपासनं काल्यत्वम् इच्छद्भिः कर्तव्यम् इत्य् आह । य इति । भूतानि भिनत्तीति भूत-भेदः, भूत-विकार-कृत् परमात्मा कालाख्यया स्व-तन्वा सृज्यानां कर्म-शक्तीः परिणमयन् पुंसो जीवस्य अभ्रमाय, भ्रमो मोहस्, तन्-निवृत्तये, तत्-तत्-कालानुष्ठेय-धर्म-विषयं मोहं निवर्तयितुम् इत्य् अर्थः, क्रतुभिः साध्यं यद्-गुणमयं सत्त्वादि-गुण-भेदेन त्रि-गुणात्मकं फलं विचिन्वन् विस्तारयन् दिव्य् अन्तरिक्षे धावति, सूर्यान्तर्वर्त्ती भूत्वा पर्यटति, तस्मै सूर्य-शरीरकाय वत्सर-पञ्चकात्मने बलिं हरत, पूजां कुरुत ॥ १५ ॥

श्लोक-१६

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

पितृदेवमनुष्याणामायुः परमिदं स्मृतम्।
परेषां गतिमाचक्ष्व ये स्युः कल्पाद् बहिर्विदः॥

मूलम्

पितृदेवमनुष्याणामायुः परमिदं स्मृतम्9
परेषां गतिमाचक्ष्व ये स्युः कल्पाद् बहिर्विदः॥ १६ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—मुनिवर! आपने देवता, पितर और मनुष्योंकी परमायुका वर्णन तो किया। अब जो सनकादि ज्ञानी मुनिजन त्रिलोकीसे बाहर कल्पसे भी अधिक कालतक रहनेवाले हैं, उनकी भी आयुका वर्णन कीजिये॥ १६॥

वीरराघवः

एवं काल-स्वरूपे, आयुः-परिमाणे, कालस्य नियन्तुः सूर्यान्तरस्योपासने च कर्तव्ये ऽभिहिते ऽपि, नृणान् तदहर्-निशं दिवि अयने ऽहनी प्राहुः । ‘संवत्सर-शतं नृणां परमायुर् निरूपितम्’ इति । त्रैलोक्यान्तर्-वर्तिनाम् एव पितृ-देव-मनुष्याणाम् आयुः-परिमाणं कथितम्, त्रैलोक्याद् बहिः स्थितानां तु कियदायुः-परिमाणम् इति बुभुत्सुः कथां पृच्छति, विदुरः— पितृ-देव-मनुष्याणां परमायुर् इदं स्व-स्व-मानेन वर्ष-शतं स्मृतम्, परेषां गतिम् आयुर्-मानम् आचक्ष्व । ते के? इत्यत आह । कल्पात्, कल्पावस्था-त्रैलोक्याद् बहिर् ये स्युः सन्तीति विदुः, तेषाम् इत्य् अर्थः । विद् इति पाठान्तरम् । तत्र कल्पाद् बहिर्-भूता ये ज्ञानिनस् तेषाम् इत्य् अर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

भगवान् वेद कालस्य गतिं भगवतो ननु।
विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा॥

मूलम्

भगवान् वेद कालस्य गतिं भगवतो ननु।
विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा॥ १७ ॥

अनुवाद (हिन्दी)

आप भगवान् कालकी गति भलीभाँति जानते हैं; क्योंकि ज्ञानीलोग अपनी योगसिद्ध दिव्य दृष्टिसे सारे संसारको देख लेते हैं॥ १७॥

वीरराघवः

अहं न जानामीति मा वोच इत्य् आह । भगवान् इति । भगवद्-आत्मकस्य गतिं भाविनीम् अपि गतिं वेद जानाति, ननु हे मैत्रेय ! निश्चये वा कथम् अहं जानीयाम् इत्य् अत आह । धीरा भवादृशा ज्ञानिनः योग-राद्धेन योग-सिद्धेन चक्षुषा विश्वं जगद् विचक्षते पश्यन्ति, योगि-प्रत्यक्षाविषयं न किंचिद् अस्तीत्य् अर्थः ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्।
दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्॥

मूलम्

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्।
दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्॥ १८ ॥

अनुवाद (हिन्दी)

मैत्रेयजीने कहा—विदुरजी! सत्ययुग, त्रेता, द्वापर और कलि—ये चार युग अपनी सन्ध्या और सन्ध्यांशोंके सहित देवताओंके बारह सहस्र वर्षतक रहते हैं, ऐसा बतलाया गया है॥ १८॥

वीरराघवः

एवम् आपृष्टो मुनिस् त्रैलोक्याद् बहिर् अवस्थितानाम् आ-चतुर्मुखात् सर्वेषु युग-साहस्रं दिन-परिमाणम्, एवं-विध-षष्ट्य्-उत्तर-त्रिशत-दिनात्मक-वर्ष-शतम् आयुः परिमाणम् इति कथयितुं, तावद् युग-परिमाणं, युगांश-सन्ध्या-परिमाणं, युग-स्वरूपं, युगेषु धर्मानुवृत्ति-तारतम्यं च आह चतुर्भिः । तत्र द्वाभ्यां युग-परिमाणम् आह । कृतम् इति । कृतादि-चतुर्-युगं सावधानम् अवधीयत इत्य् अवधानं, सन्ध्या-चांशश्-च तत्-सहितं चतुर्-युगं दिव्यैर् देव-मानम् इति द्वादश-सहस्रैर् वर्षैर् निरूपितम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्।
संख्यातानि सहस्राणि द्विगुणानि शतानि च॥

मूलम्

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्।
संख्यातानि सहस्राणि द्विगुणानि शतानि च॥ १९ ॥

अनुवाद (हिन्दी)

इन सत्यादि चारों युगोंमें क्रमशः चार, तीन, दो और एक सहस्र दिव्य वर्ष होते हैं और प्रत्येकमें जितने सहस्र वर्ष होते हैं उससे दुगुने सौ वर्ष उनकी सन्ध्या और सन्ध्यांशोंमें होते हैं*॥ १९॥

पादटिप्पनी
  • अर्थात् सत्ययुगमें ४००० दिव्य वर्ष युगके और ८०० सन्ध्या एवं सन्ध्यांशके—इस प्रकार ४८०० वर्ष होते हैं। इसी प्रकार त्रेतामें ३६००, द्वापरमें २४०० और कलियुगमें १२०० दिव्य वर्ष होते हैं। मनुष्योंका एक वर्ष देवताओंका एक दिन होता है, अतः देवताओंका एक वर्ष मनुष्योंके ३६० वर्षके बराबर हुआ। इस प्रकार मानवीय मानसे कलियुगमें ४३२००० वर्ष हुए तथा इससे दुगुने द्वापरमें, तिगुने त्रेतामें और चौगुने सत्ययुगमें होते हैं।
वीरराघवः

अपि च कृतादिषु यथा-क्रमं चत्वारि, त्रीणि, द्वे च इति सहस्राणि संख्यातानि, एतानि तु द्वि-गुणानि संख्यातानीत्य् अर्थः । अयम् अर्थः— तावत् कृत-युगस्य देव-मानेन चत्वारि सहस्राणि, सन्ध्या-सन्ध्यांशयोश् च चत्वारि चत्वारि शतानि, इत्य् अष्टौ शतानि, अष्ट-शतोत्तर-चतुः-सहस्र-वत्सराः । स-सन्ध्यांशस्य कृत-युगस्य परिमाणं त्रेतायाः । षट्-शतोत्तर-साहस्र-वर्ष-परिमितिः द्वापरस्य तु सन्ध्यांशस्य चतुः-शतोत्तर-द्वि-सहस्र-वर्षाणि । कलेस् तु स-सन्ध्यांशस्य द्वि-शतोत्तरैक-सहस्र-वर्ष-परिमितिः, युगस्यादौ सन्ध्या, युगान्ते सन्ध्यांशः, सहस्राणाम् उपरि उक्तानि शतानि क्रमेण तत्-सन्ध्यांशयोः परिमाणम् इत्य् अवगन्तव्यम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

संध्यांशयोरन्तरेण यः कालः शतसंख्ययोः।
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते॥

मूलम्

संध्यांशयोरन्तरेण यः कालः शतसंख्ययोः।
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते॥ २० ॥

अनुवाद (हिन्दी)

युगकी आदिमें सन्ध्या होती है और अन्तमें सन्ध्यांश। इनकी वर्ष-गणना सैकड़ोंकी संख्यामें बतलायी गयी है। इनके बीचका जो काल होता है, उसीको कालवेत्ताओंने युग कहा है। प्रत्येक युगमें एक-एक विशेष धर्मका विधान पाया जाता है॥ २०॥

वीरराघवः

ननु स-सन्ध्यांशस्य एव युगत्वम् उत ताभ्याम् अन्तरेण मध्यस्य एव इति संशयं निराकुर्वन् चतुर्-युगेषु तत्तद्-वर्णाश्रम-धर्माणाम् अवश्य-कर्तव्यत्वम् आह । सन्ध्यांशयोर् इति । शत-संख्ययोः, शतानि संख्या ययोः, सन्ध्या-सन्ध्यांशयोर् अन्तरेण मध्ये यः कालः, तम् एव कालं युगम् इति युग-ज्ञाः आहुर् इत्य् अर्थः । यत्र युगे धर्मः, नित्य-नैमित्तिक-काम्य-कर्म-भेदेन त्रिविधोऽपि धर्मो विधीयते, कर्तव्यत्वेन बोध्यते इत्य् अर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते।
स एवान्येष्वधर्मेण व्येति पादेन वर्धता॥

मूलम्

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते।
स एवान्येष्वधर्मेण व्येति पादेन वर्धता॥ २१ ॥

अनुवाद (हिन्दी)

सत्ययुगके मनुष्योंमें धर्म अपने चारों चरणोंसे रहता है; फिर अन्य युगोंमें अधर्मकी वृद्धि होनेसे उसका एक-एक चरण क्षीण होता जाता है॥ २१॥

वीरराघवः

कृते चतुष्पदो धर्मस्य अनुवृत्तिं त्रेतादिषु तत्-संकोचं च आह । धर्म इति । कृते युगे मनुष्यान् चतुष्पात् धर्मो ऽनुवर्तते ऽन्येषु त्रेतादिषु एकेन पादेन वर्धताधर्मेण हेतुना धर्मः व्येत्य्-अपगच्छतीत्य् अर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम्।
तावत्येव निशा तात यन्निमीलति विश्वसृक्॥

मूलम्

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम्।
तावत्येव निशा तात यन्निमीलति विश्व10सृक्॥ २२ ॥

अनुवाद (हिन्दी)

प्यारे विदुरजी! त्रिलोकीसे बाहर महर्लोकसे ब्रह्मलोकपर्यन्त यहाँकी एक सहस्र चतुर्युगीका एक दिन होता है और इतनी ही बड़ी रात्रि होती है, जिसमें जगत्कर्ता ब्रह्माजी शयन करते हैं॥ २२॥

वीरराघवः

अथ त्रैलोक्याद् बहिः-ष्ठानां दिन-परिमाणम् आह । त्रैलोक्याद् बहिः-स्थितानाम् आ-ब्रह्मणः ब्रह्म-पर्यन्तानां सर्वेषां युग-साहस्रं दिनम् अहर् इत्य् अर्थः । हे तात विदुर ! तावती रात्रिः दिन-परिमित-युग-सहस्र-मिता रात्रिः यद् यस्यां रात्रौ विश्वसृग् ब्रह्मा निमीलति स्वपिति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

निशावसान आरब्धो लोककल्पोऽनुवर्तते।
यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश॥

मूलम्

निशावसान आरब्धो लोककल्पोऽनुवर्तते।
यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश॥ २३ ॥

अनुवाद (हिन्दी)

उस रात्रिका अन्त होनेपर इस लोकका कल्प आरम्भ होता है; उसका क्रम जबतक ब्रह्माजीका दिन रहता है तबतक चलता रहता है। उस एक कल्पमें चौदह मनु हो जाते हैं॥ २३॥

वीरराघवः

बहिः-ष्ठानाम् अहोरात्र-गतानां स्थितिम् आह । निशावसान इत्य् आदिना । अन्तः सलिल एतस्मिन्न् इत्य् अन्तेन । निशाया रात्रेर् अवसाने ऽत्यये निशायाम् अपगतायाम् इत्य् अर्थः, आरब्धो यो लोक-कल्पः कल्पाद् अभिन्नो लोक, यद् वा कल्पनं कल्पः सर्ग इत्य् अर्थः । लोक-सर्गः चतुर्दशमनून् भुञ्जन् परिच्छिन्दन् भगवतो ब्रह्मणो यावद्-दिनम् अनुवर्तत इत्य् अर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स्वं स्वं कालं मनुर्भुङ्‍क्ते साधिकां ह्येकसप्ततिम्।
मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः।
भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान्॥

मूलम्

स्वं स्वं कालं मनुर्भुङ्‍क्ते साधिकां ह्येकसप्ततिम्।
मन्वन्तरेषु मनवस्तद्वंश्याऋषयः सुराः।
भवन्ति चै11व युगपत्सुरेशाश्चानु ये च तान्॥ २४ ॥

अनुवाद (हिन्दी)

प्रत्येक मनु इकहत्तर चतुर्युगीसे कुछ अधिक काल(७१ चतुर्युगी) तक अपना अधिकार भोगता है। प्रत्येक मन्वन्तरमें भिन्न-भिन्न मनुवंशी राजालोग, सप्तर्षि, देवगण, इन्द्र और उनके अनुयायी गन्धर्वादि साथ-साथ ही अपना अधिकार भोगते हैं॥ २४॥

वीरराघवः

मन्व्-आयुः-परिमाणम् आह । स्वं स्वम् इति । साधिकां किंचिद् अधिकां युगानाम् एक-सप्ततिं स्वं स्वं कालं मनुर् भुङ्क्ते ऽनुभवतीत्य् अर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः।
तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः॥

मूलम्

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः।
तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः॥ २५ ॥

अनुवाद (हिन्दी)

यह ब्रह्माजीकी प्रतिदिनकी सृष्टि है, जिसमें तीनों लोकोंकी रचना होती है। उसमें अपने-अपने कर्मानुसार पशु-पक्षी, मनुष्य, पितर और देवताओंकी उत्पत्ति होती है॥ २५॥

वीरराघवः

मन्वन्तरेषु स्थितिम् आह । मन्वन्तरेष्व् इति । मनूनाम् अन्तराणि मन्वन्तराणि, पूर्व-पूर्व-मनुम् आरभ्य उत्तरोत्तर-मनु-पर्यन्ता मध्य-कालास् तेषु मनवः, मनु-वंश्याः, पृथिवी-पालका राजानः, ऋषयः, सुराश् च, सुरेशाः इन्द्रादयः, तान् अनुवर्तन्ते ये ते सर्वे युगपत् प्रभवन्ति, त्रिलोकीं परिपालयन्तीत्य् अर्थः । अथैवं त्रैलोक्य-बहिष्ठ-मान-मितिं तद्-दिन-कालावधिं स्व-सर्गस्य दैनन्दिन-सर्गत्वं वदन् मन्वादिभिर् द्वार-भूतैर् भगवान् एव विश्वम् अवति, न तु मन्वादयः स्वयम् अवितार इत्य् आह । एष इति । ब्राह्मश् चतुर्मुख-कर्तृकः एष दैनन्दिनः, दिनं दिनं क्रियमाणो यः सर्गः, स एष दैनन्दिन-सर्गः, कथम्-भूतः? त्रैलोक्य-वर्तनः (वर्ध-न इति पाठान्तरं, तत्र त्रैलोक्यं वर्धयति) तथा तत्र यस्मिन् दैनन्दिने सर्गे तिरश्चां, नृणां, पितॄणां, देवानां कर्मभिः पुण्य-पाप-रूपैः संभवः उत्पत्तिर् भवति ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः।
मन्वादिभिरिदं विश्वमवत्युदितपौरुषः॥

मूलम्

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः।
मन्वादिभिरिदं विश्वमवत्युदितपौरुषः॥ २६ ॥

अनुवाद (हिन्दी)

इन मन्वन्तरोंमें भगवान् सत्त्वगुणका आश्रय ले, अपनी मनु आदि मूर्तियोंके द्वारा पौरुष प्रकट करते हुए इस विश्वका पालन करते हैं॥ २६॥

वीरराघवः

मन्वन्तरेषु भगवान् स्व-मूर्तिभिः सत्त्वं, शुद्धं सत्त्वं विशुद्ध-सत्त्व-मय-मूर्तिं बिभ्राण इत्य् अर्थः । उदित-पौरुषः आविष्कृत-पुरुष-कारः सन् मन्वादिभिर् द्वार-भूतैर् इदं विश्वम् अवति । अतो न भगवतो रक्षकत्व-विहतिर् इत्य् अभिप्रायः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः।
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये॥

मूलम्

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः।
कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये॥ २७ ॥

अनुवाद (हिन्दी)

कालक्रमसे जब ब्रह्माजीका दिन बीत जाता है, तब वे तमोगुणके सम्पर्कको स्वीकार कर अपने सृष्टिरचनारूप पौरुषको स्थगित करके निश्चेष्टभावसे स्थित हो जाते हैं॥ २७॥

वीरराघवः

एवं दिन-गतां स्थितिम् अभिधायाथ रात्रि-गतां स्थितिम् आख्यातुम् उपक्रमते । तमो-मात्राम् इति । तमो-मात्राम् लेशम् उपादाय स्वीकृतोद्रिक्त-तमस्क इत्य् अर्थः । प्रतिसंरुद्धः, निवृत्तः क्रमो व्यापारो यस्य सः, कालेनानुगतम् अनुप्रविष्टम् अशेषं यस्य सः, कालो ऽप्य् एनम् अनुसरतीत्य् अर्थः । ब्रह्म-दिनात्यये दिनान्ते तूष्णीम् आस्ते, उपविशति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तमेवान्वपिधीयन्ते लोका भूरादयस्त्रयः।
निशायामनुवृत्तायां निर्मुक्तशशिभास्करम्॥

मूलम्

तमेवान्वपिधीयन्ते लोका भूरादयस्त्रयः।
निशायामनु12वृत्तायां निर्मुक्तशशिभास्करम्॥ २८ ॥

अनुवाद (हिन्दी)

उस समय सारा विश्व उन्हींमें लीन हो जाता है। जब सूर्य और चन्द्रमादिसे रहित वह प्रलयरात्रि आती है, तब वे भूः, भुवः, स्वः—तीनों लोक उन्हीं ब्रह्माजीके शरीरमें छिप जाते हैं॥ २८॥

वीरराघवः

अनुगताशेषत्वम् एव विशदयति । तम् एव् इति । तम् एवानुगतं कालम् एवानुपश्चाद् भूर्-आदयः त्रयो लोका अपिधीयन्ते, तिरोहिता भवन्तीत्य् अर्थः । कथम् अपिधीयन्ते? इत्य् अत आह । निशायाम् अनुवृत्तायां प्रवर्तमानायां सत्यां निर्मुक्तः शशी चन्द्रः भास्करश् च यथा भवति तथा तौ विनैव पिधीयन्ते, नश्यन्तीत्य् अर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना।
यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः॥

मूलम्

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना।
यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः॥

अनुवाद (हिन्दी)

उस अवसरपर तीनों लोक शेषजीके मुखसे निकली हुई अग्निरूप भगवान‍्की शक्तिसे जलने लगते हैं। इसलिये उसके तापसे व्याकुल होकर भृगु आदि मुनीश्वरगण महर्लोकसे जनलोकको चले जाते हैं॥ २९॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः॥

मूलम्

तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः॥

अनुवाद (हिन्दी)

इतनेमें ही सातों समुद्र प्रलयकालके प्रचण्ड पवनसे उमड़कर अपनी उछलती हुई उत्ताल तरंगोंसे त्रिलोकीको डुबो देते हैं॥ ३०॥

श्लोक-३१

विश्वास-प्रस्तुतिः

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः।
योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः॥

मूलम्

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः।
योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः॥

अनुवाद (हिन्दी)

तब उस जलके भीतर भगवान् शेषशायी योगनिद्रासे नेत्र मूँदकर शयन करते हैं। उस समय जनलोकनिवासी मुनिगण उनकी स्तुति किया करते हैं॥ ३१॥

श्लोक-३२

विश्वास-प्रस्तुतिः

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः।
अपक्षितमिवास्यापि परमायुर्वयः शतम्॥

मूलम्

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः।
अपक्षितमिवास्यापि परमायुर्वयः शतम्॥

अनुवाद (हिन्दी)

इस प्रकार कालकी गतिसे एक-एक सहस्र चतुर्युगके रूपमें प्रतीत होनेवाले दिन-रातके हेर-फेरसे ब्रह्माजीकी सौ वर्षकी परमायु भी बीती हुई-सी दिखायी देती है॥ ३२॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यदर्धमायुषस्तस्य परार्धमभिधीयते।
पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते॥

मूलम्

यदर्धमायुषस्तस्य परार्धमभिधीयते।
पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते॥

अनुवाद (हिन्दी)

ब्रह्माजीकी आयुके आधे भागको परार्ध कहते हैं। अबतक पहला परार्ध तो बीत चुका है, दूसरा चल रहा है॥ ३३॥

श्लोक-३४

विश्वास-प्रस्तुतिः

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद‍्ब्रह्मा शब्दब्रह्मेति यं विदुः॥

मूलम्

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।
कल्पो यत्राभवद‍्ब्रह्मा शब्दब्रह्मेति यं विदुः॥

अनुवाद (हिन्दी)

पूर्व परार्धके आरम्भमें ब्राह्म नामक महान् कल्प हुआ था। उसीमें ब्रह्माजीकी उत्पत्ति हुई थी। पण्डितजन इन्हें शब्दब्रह्म कहते हैं॥ ३४॥

श्लोक-३५

विश्वास-प्रस्तुतिः

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम्॥

मूलम्

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम्॥

अनुवाद (हिन्दी)

उसी परार्धके अन्तमें जो कल्प हुआ था, उसे पाद्मकल्प कहते हैं। इसमें भगवान‍्के नाभिसरोवरसे सर्वलोकमय कमल प्रकट हुआ था॥ ३५॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अयं तु कथितः कल्पो द्वितीयस्यापि भारत।
वाराह इति विख्यातो यत्रासीत्सूकरो हरिः॥

मूलम्

अयं तु कथितः कल्पो द्वितीयस्यापि भारत।
वाराह इति विख्यातो यत्रासीत्सूकरो हरिः॥

अनुवाद (हिन्दी)

विदुरजी! इस समय जो कल्प चल रहा है, वह दूसरे परार्धका आरम्भक बतलाया जाता है। यह वाराहकल्प-नामसे विख्यात है, इसमें भगवान‍्ने सूकररूप धारण किया था॥ ३६॥

श्लोक-३७

विश्वास-प्रस्तुतिः

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते।
अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः॥

मूलम्

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते।
अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः॥

अनुवाद (हिन्दी)

यह दो परार्धका काल अव्यक्त, अनन्त, अनादि, विश्वात्मा श्रीहरिका एक निमेष माना जाता है॥ ३७॥

श्लोक-३८

विश्वास-प्रस्तुतिः

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः।
नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्॥

मूलम्

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः।
नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्॥

अनुवाद (हिन्दी)

यह परमाणुसे लेकर द्विपरार्धपर्यन्त फैला हुआ काल सर्वसमर्थ होनेपर भी सर्वात्मा श्रीहरिपर किसी प्रकारकी प्रभुता नहीं रखता। यह तो देहादिमें अभिमान रखनेवाले जीवोंका ही शासन करनेमें समर्थ है॥ ३८॥

श्लोक-३९

विश्वास-प्रस्तुतिः

विकारैः सहितो युक्तैर्विशेषादिभिरावृतः।
आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः॥

मूलम्

विकारैः सहितो युक्तैर्विशेषादिभिरावृतः।
आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः॥

श्लोक-४०

विश्वास-प्रस्तुतिः

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः॥

मूलम्

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।
लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः॥

श्लोक-४१

विश्वास-प्रस्तुतिः

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम्।
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः॥

मूलम्

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम्।
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः॥

अनुवाद (हिन्दी)

प्रकृति, महत्तत्त्व, अहंकार और पंचतन्मात्र—इन आठ प्रकृतियोंके सहित दस इन्द्रियाँ, मन और पंचभूत—इन सोलह विकारोंसे मिलकर बना हुआ यह ब्रह्माण्डकोश भीतरसे पचास करोड़ योजन विस्तारवाला है तथा इसके बाहर चारों ओर उत्तरोत्तर दस-दस गुने सात आवरण हैं। उन सबके सहित यह जिसमें परमाणुके समान पड़ा हुआ दीखता है और जिसमें ऐसी करोड़ों ब्रह्माण्डराशियाँ हैं, वह इन प्रधानादि समस्त कारणोंका कारण अक्षर ब्रह्म कहलाता है और यही पुराणपुरुष परमात्मा श्रीविष्णुभगवान‍्का श्रेष्ठ धाम (स्वरूप) है॥ ३९—४१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः॥ ११॥


  1. प्रा. पा. - सूक्ष्मे स्थूले च । ↩︎

  2. प्रा. पा. - कालः सः । ↩︎

  3. प्रा. पा. - अणू द्वौ द्व्यणुकः प्रोक्तः त्र । ↩︎

  4. प्रा. पा. - जालाक्षार्करश्मिगतः । ↩︎

  5. प्रा. पा. - पतन्न गाम् । श्रीधरस्वामिभिरुल्लेखितमिदम् । ↩︎

  6. प्रा. पा. - चतुरङ्गुलम् । ↩︎

  7. प्रा. पा. - तौ ऋतुः । ↩︎

  8. प्रा. पा. - अयने अहनी । ↩︎

  9. प्रा. पा. - श्रुतम् । ↩︎

  10. प्रा. पा - दृक् । ↩︎

  11. प्रा. पा - चैके । ↩︎

  12. प्रा. पा. - मथ वृत्ता । ↩︎