१०

[दशमोऽध्यायः]

भागसूचना

दस प्रकारकी सृष्टिका वर्णन

श्लोक-१

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः।
प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः॥

मूलम्

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः।
प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः॥ १ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—मुनिवर! भगवान् नारायणके अन्तर्धान हो जानेपर सम्पूर्ण लोकोंके पितामह ब्रह्माजीने अपने देह और मनसे कितने प्रकारकी सृष्टि उत्पन्न की?॥ १॥

वीरराघवः

एवं भगवन्-नाभि-कमल-समुद्भूत-चतुर्मुख-कृत-स्तुति-प्रकारे स्तुति-प्रीत-भगवद्-अनुग्रहे च चतुर्मुख-विषये ऽभिहिते “यत्र विश्व इमे लोकाः सविकाशं समासत” इत्यादिना कृत-प्रश्नोत्तरयोः क्रमस् त्व् अविवक्षितः । भगवति षाड्गुण्य-पूर्णे ब्रह्माणम् अनुगृह्यान्तर्धानं गते सति लोकानां पितामहः ब्रह्मा चतुर्मुखः प्रभुर् वशीकृतेन्द्रियः व्यष्टीनां प्रभुः स्वामीति वा दैहिकीर् देह-जाः मानसीः सङ्कल्प-जाश् च प्रजाः कतिधा ससर्ज सृष्टवान् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम।
तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान्॥

मूलम्

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम।
तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान्॥ २ ॥

अनुवाद (हिन्दी)

भगवन्! इनके सिवा मैंने आपसे और जो-जो बातें पूछी हैं, उन सबका भी क्रमशः वर्णन कीजिये और मेरे सब संशयोंको दूर कीजिये; क्योंकि आप सभी बहुज्ञोंमें श्रेष्ठ हैं॥ २॥

वीरराघवः

ये चेति हे भगवन् मैत्रेय ! मे मया ये चान्ये पृष्टाः तान् संशय-विषयान् पृष्टान् प्रश्नान् आनुपूर्व्येणैकैकशः न तु प्रश्न-क्रमानुसारेण उत्तरेषु तस्यादर्शनात् अद्धा तत्त्वेन वदस्व उत्तरय कथयेति वा हे ब्रह्मविद्-अग्रेसर ! नो ऽस्माकं सर्व-संशयान् छिन्धि “छिद्यन्ते सर्व-संशया” इति श्रुतत्वात्, स्व-पर-संशयच्-छेदनं ब्रह्म-विदस् तव युक्तम् इत्य् अभिप्रायेण ब्रह्म-वित्तमेत्य् उक्तम् ॥ २ ॥

श्लोक-३

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः।
प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव॥

मूलम्

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः।
प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव॥ ३ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकजी! विदुरजीके इस प्रकार पूछनेपर मुनिवर मैत्रेयजी बड़े प्रसन्न हुए और अपने हृदयमें स्थित उन प्रश्नोंका इस प्रकार उत्तर देने लगे॥ ३॥

वीरराघवः

एवम्-उक्त-प्रकारेण तेन क्षत्त्रा विदुरेण संचोदितः उत्तर-दाने प्रवर्तितः कौषारवः मैत्रेयः मुनिः प्रीतः निरतिशय-प्रीति-रूप-भगवद्-भक्ति-जनक-प्रश्न-विशेषेण स्वयं निरतिशय-प्रीति-युक्तः है भारत राजन् ! हृदिस्थान् तान् प्रश्नान् प्रत्याह प्रत्यभाषत उत्तरयाम्-आसेत्य् अर्थः । हृदिस्थान् इत्य् अनेन भूत-प्रश्नास् तेनाविस्मृता इत्य्-अभिप्रायः ॥ ३ ॥

श्लोक-४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः।
आत्मन्यात्मानमावेश्य यदाह भगवानजः॥

मूलम्

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः।
आत्मन्यात्मानमावेश्य यदाह भगवानजः॥ ४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—अजन्मा भगवान् श्रीहरिने जैसा कहा था, ब्रह्माजीने भी उसी प्रकार चित्तको अपने आत्मा श्रीनारायणमें लगाकर सौ दिव्य वर्षोंतक तप किया॥ ४॥

वीरराघवः

एवम् आपृष्टो मैत्रेयः स्तुति-प्रीत-भगवद्-अनुगृहीत-चतुर्मुखस्य नाभिकञ्जस्थस्य तादात्विकं कर्म संग्रहेणाह विरञ्चो ऽपीत्य्-आदि-षड्भिः । भगवान् षाड्गुण्य-पूर्णः अजः जन्म-क्षयादि-विकार-शून्यः यदाह तथा विरञ्चो ऽपि ब्रह्माप्य् आत्मनि परमात्मन्य् आत्मानं मनः आवेश्य स्थिरीकृत्य दिव्यं देवमानमितं वर्ष-शतं वत्सर-शतं तपश् चक्रे चकार ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम्॥

मूलम्

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम्॥ ५ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने देखा कि प्रलयकालीन प्रबल वायुके झकोरोंसे, जिससे वे उत्पन्न हुए हैं तथा जिसपर वे बैठे हुए हैं वह कमल तथा जल काँप रहे हैं॥ ५॥

श्लोक-६

विश्वास-प्रस्तुतिः

तपसा ह्येधमानेन विद्यया चात्मसंस्थया।
विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा॥

मूलम्

तपसा ह्येधमानेन विद्यया चात्मसंस्थया।
विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा॥ ६ ॥

मूलम् - कर्णावती

तपसा ह्येधमानेन विद्यया चात्मसंस्थया।
निवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा॥ ६ ॥

अनुवाद (हिन्दी)

प्रबल तपस्या एवं हृदयमें स्थित आत्मज्ञानसे उनका विज्ञानबल बढ़ गया और उन्होंने जलके साथ वायुको पी लिया॥ ६॥

वीरराघवः

तद्-इत्यादि-श्लोक-द्वयम् एकान्वयम् । अब्ज-संभूतो ब्रह्मा यद् अधिष्ठितः यत्-पद्मम् अधिष्ठाय स्थितः कर्त्तरि क्तः तत्-पद्मम् अम्भश् च विलोक्य कथंभूतं पद्मम् अम्भश् च तत्-काल-कृत-वीर्येण तेन प्रलय-कालेन कृत-वीर्येण उत्पन्न-व्यापारेण वायुना कम्पितं तत्-पद्मम् अम्भश् च एधमानेन उत्तरोत्तर-प्रवृद्धेन तपसा कर्म-योगेन । विलोक्यात्म-संस्थया परमात्म-विषयया विद्ययोपासनया च प्रवृद्धं विज्ञानं विविध-सृष्टि-विषय-ज्ञानम् एव बलं यस्य तथा-भूतः अम्भसा सह वायुं न्यपात् पीतवान् इत्य् अर्थः ॥ ५-६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

तद्विलोक्य वियद्‍व्यापि पुष्करं यदधिष्ठितम्।
अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत्॥

मूलम्

तद्विलोक्य वियद्‍व्यापि पुष्करं यदधिष्ठितम्।
अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत्॥ ७ ॥

अनुवाद (हिन्दी)

फिर जिसपर स्वयं बैठे हुए थे, उस आकाशव्यापी कमलको देखकर उन्होंने विचार किया कि ‘पूर्वकल्पमें लीन हुए लोकोंको मैं इसीसे रचूँगा’॥ ७॥

वीरराघवः

स-वाय्व्-अम्भसः पानान्तरं कर्माह । तद् इति । यद् अधिष्ठितः यत्-पद्मम् अधिष्ठाय स्थितः तद् वियद् व्याप्य अन्तरिक्षं व्याप्य अत्य्-उन्नतम् इत्य् अभिप्रायः । पुष्करं पद्मं विलोक्यानेन पुष्करेण प्राग्लीनान् पूर्व-कल्पान्ते लीनाल् लोकान् कल्पितास्मिन् स्रक्ष्यामीत्य् अचिन्तयच् चिन्तितवान् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

पद्मकोशं तदाऽऽविश्य भगवत्कर्मचोदितः।
एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा॥

मूलम्

पद्मकोशं तदाऽऽविश्य भगवत्कर्मचोदितः।
एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा॥ ८ ॥

अनुवाद (हिन्दी)

तब भगवान‍्के द्वारा सृष्टिकार्यमें नियुक्त ब्रह्माजीने उस कमलकोशमें प्रवेश किया और उस एकके ही भूः, भुवः, स्वः—ये तीन भाग किये, यद्यपि वह कमल इतना बड़ा था कि उसके चौदह भुवन या इससे भी अधिक लोकोंके रूपमें विभाग किये जा सकते थे॥ ८॥

वीरराघवः

पद्म-कोशम् इति । भगवत्-कर्म-चोदितः भगवता स्वयं करणीये कर्मणि चोदितो नियुक्तः सन् तत्-पद्म-कोशम् आविश्याधिष्ठाय तम् एवैकं पद्म-कोशं व्यभांक्षीद् विबभाज उरुधा बहुधा विभागम् एव विवृणवन् नेकेन कमल-मुकुलेन कथं त्रि-लोकी-सृष्टिर् इत्य् असम्भावनां निवारयितुं तस्य विशालताम् आह, भाव्यं चतुर्दश-लोकात्मना भवितुं योग्यम् अतो ऽनेन त्रि-लोकी-करणं न चित्रम् इत्य् अर्थः । त्रिधा देवादि-भोक्तृ-रूपेण शब्दादि-भोग्य-रूपेण ज्ञान-कर्मेन्द्रियात्मक-करण-रूपेणेत्य् एवं त्रिधा व्यभांक्षीद् इत्य् अर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः।
धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ॥

मूलम्

एतावाञ्जीवलोकस्य संस्थाभेदः समाहृ1तः।
धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ॥ ९ ॥

अनुवाद (हिन्दी)

जीवोंके भोगस्थानके रूपमें इन्हीं तीन लोकोंका शास्त्रोंमें वर्णन हुआ है; जो निष्काम कर्म करनेवाले हैं, उन्हें महः, तपः, जनः और सत्यलोकरूप ब्रह्मलोककी प्राप्ति होती है॥ ९॥

वीरराघवः

कृत्स्नं जगद् एतत्-कालान्तर्भूतम् इत्य् आह । एतावान् इति । जीव-लोकस्य कार्य-वर्गस्य संस्था-भेदः संनिवेश-विशेषः एतावान् विभक्त-भोक्तृ-भोगोपकरण-भोग-स्थानान्तर्गत-प्रपञ्चात्मकः पद्म-कोशः उक्त इत्य् अर्थः । ननु परमेष्ठिनः तत्-स्थानस्य च कार्य-वर्गान्तर्गतत्वात् प्रत्यहं सृष्टिः त्रि-लोकीवत् किं न स्याद् इत्य्-आशङ्कां निरस्यति । अनिमित्तस्य निष्कामस्य धर्मस्यासौ परमेष्ठी विपाकः फल-भूतः परमेष्ठीति परमेष्ठि-लोको ऽप्य् उच्यते, तेन तस्याधिष्ठितत्वात् । यद् वा भाव-प्रधानो निर्देशः परमेष्ठित्वम् इत्य् अर्थः । नन्व् अनिमित्त-धर्मस्य मुक्तिर् एव फलं न तु परमेष्ठित्वं तल्-लोक-प्राप्तिर् वा तम् एवं “ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे” इति ब्रह्मणस् तत्रत्यानां च द्वि-परार्द्धावसाने प्रायशो मुक्त्य्-अभिधानात् ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

यदात्थ बहुरूपस्य हरेरद‍्भुतकर्मणः।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो॥

मूलम्

यदात्थ बहुरूपस्य हरेरद‍्भुतकर्मणः।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो॥ १० ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—ब्रह्मन्! आपने अद‍्भुतकर्मा विश्वरूप श्रीहरिकी जिस काल नामक शक्तिकी बात कही थी, प्रभो! उसका कृपया विस्तारपूर्वक वर्णन कीजिये॥ १०॥

वीरराघवः

एवं जगन्-निर्माण-प्रकारे संग्रहेणाभिहिते विदुरस् तत्-काल-कृत-वीर्येण कम्पितम् इति प्रलये ऽपि काल-सद्भावाभिधानेन नित्यत्वापात-प्रतीतेस् तन्-नित्यत्व-जिज्ञासया तत्-स्वरूपं पृच्छति । यद् इति । चित्-अचिद्-आत्मक-प्रपञ्च-रूपस्याद्भुत-कर्मणः अचिन्त्य-व्यापारस्य हरेः संबन्धि यत्-कालाख्यं लक्षणं रूपम् आत्थ उक्तवान् तत्-काल-कृत-वीर्येण कम्पितम् इत्य्-अनादित्वेन कथितवांस् तत्-कालाख्यं भगवच्-छरीरं हे ब्रह्मन् नो ऽस्मभ्यं यथावद् वर्णय । हे प्रभो ! वर्णयितुं त्वं समर्थ इत्य्-अभिप्रायः । किं कालः कल्प्य उताकल्प्यः किं वा तस्य स्थूलं सूक्ष्मं च रूपम् इत्य्-आदि यथावद् वर्णयेत्य्-अभिप्रायः ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः।
पुरुषस्तदुपादानमात्मानं लीलयासृजत्॥

मूलम्

गुणव्यतिकराकारो निर्विशेषोऽप्र2तिष्ठितः।
पुरुषस्तदुपादानमात्मानं लीलयासृजत्॥ ११ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—विषयोंका रूपान्तर (बदलना) ही कालका आकार है। स्वयं तो वह निर्विशेष, अनादि और अनन्त है। उसीको निमित्त बनाकर भगवान् खेल-खेलमें अपने-आपको ही सृष्टिके रूपमें प्रकट कर देते हैं॥ ११॥

वीरराघवः

एवम् आपृष्टो मुनिः काल-स्वरूपं वक्तुं तावत्-काल-काल्य-वस्तु सृष्टिम् अनुवदति । गुणेत्य्-आदिना यावद्-अध्याय-समाप्ति । तत्र प्रथमं परमात्मन एव कर्तृत्वं कारणत्वं कार्यतां चाह । गुण-व्यतिकर इति गुणैर् व्यतिकरः परिणामो यस्य तद्-गुण-व्यतिकरं प्रधानं तद्-आकारो रूपं शरीरं यस्य स तथोक्तः निर्विशेषः पृथिव्यादि-रहितः अप्रतिष्ठितः कारणान्तर-रहित इत्य् अर्थः । कार्याणां हि कारणे प्रतिष्ठा प्रलयस् तद्-अभावात् कारणान्तर-राहित्यं फलितम् एवं-विध-परम-पुरुषः तद्-उपादानम् उपादान-भूतं यस्येति बहुव्रीहिः उपादान-भूतेन तेन प्रधानेन विशिष्टम् आत्मानं जगद्-रूपेणासृजद् इत्य् अर्थः । अत्र गुण-व्यतिकराकारः निमित्तत्त्वं तद्-उपादानम् आत्मानम् इत्य्-अनेन प्रकृति-पुरुष-काल-विशिष्टत्वाकारेणोपादानत्वं चोक्तं भवति तथा च श्रूयते तद् आत्मानं स्वयम् अकुरुतेति सूत्रितं च “साक्षाच् चोभयाम्नानात् ॥ १।४।२५ ॥” इति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना॥

मूलम्

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना॥ १२ ॥

अनुवाद (हिन्दी)

पहले यह सारा विश्व भगवान‍्की मायासे लीन होकर ब्रह्मरूपसे स्थित था। उसीको अव्यक्तमूर्ति कालके द्वारा भगवान‍्ने पुनः पृथक् रूपसे प्रकट किया है॥ १२॥

वीरराघवः

एकस्यैव ब्रह्मणश् चिद्-अचिद्-विशिष्टस्यावस्था-भेदेन कार्य-कारण-भावं प्रतिपादयन् सृष्टेः प्राग्-अवस्थानाम् आह । विश्वम् इति । विश्वं ब्रह्मेत्य्-अनेन “सर्वं खलु इदं ब्रह्मे"ति श्रुतिः स्मारिता । अत्र च सामानाधिकरण्येन निर्देशः कार्य-कारण-भाव-निबन्धन इति भाष्ये प्रपञ्चितः । एवं च विश्वं विश्वाकारं ब्रह्म तन्-मात्रं प्रकृत्य्-अवस्था-मात्र-विशिष्टं संस्थितं संहृतं न तु महद्-आद्य्-अवस्था-विशिष्टं विष्णु-मायया भगवत्-सङ्कल्पेन यत्-कार्यावस्थायां स्थूल-चिद्-अचिद्-विशिष्टं ब्रह्म विश्वाकारं तत्-संहार-विषय-स्वकीय-सङ्कल्पेन प्रकृतित्वावस्था-मात्रावशेषितत्वेनोपसंहृतम् इत्य् अर्थः । एकस्यैव मृद्-द्रव्यस्य काल-भेदेन पिण्डत्व-घटत्वाद्य्-अवस्था-द्वय-योगेन कार्य-कारण-भाववद् एकस्यैव ब्रह्मणश् चिद्-अचिद्-विशिष्टस्य स्थौल्य-सौक्ष्म्यावस्थाभ्यां कार्य-कारण-भाव उपपन्नः तन्-निबन्धन एव मृद् अयं घट इत्य्-आदिवत्-सामानाधिकरण्य-निर्देश इत्य्-अभिप्रायः । प्रलये ऽपि काल-साचिव्यम् आह । ईश्वरेणेति । कालेन विना सृष्ट्याद्ययोगात् तस्येश्वरत्वम् ईश्वर-शरीरत्वाद् वा तस्येश्वरत्व-व्यपदेशः कालस्येश्वर-शरीरत्व “एतस्याक्षरस्य प्रशासने गार्गि मुहूर्तान्य् अर्ध-मासा मासा ऋतवः संवत्सरा विधृतास् तिष्ठन्ती"त्य्-आदि-श्रवणात् यावत्-सत्त्वं स्व-शक्य-नियन्तव्य-स्वभावत्वम् एव हि शरीरत्वम्, अत एव शरीर-शरीरि-स्वभावेन सामानाधिकरण्य-निर्देशा उपपन्नाः । अव्यक्त-मूर्तिना प्रत्यक्षेण न व्यज्यत इत्य्-अव्यक्तं मूर्तिः रूपं यस्य तेनानुमेयेन कालेन परिच्छिन्नं प्रलय-दशायां सूक्ष्म-चिद्-अचिद्-विशिष्टं काल-परिच्छिन्नं सद् एव स्थितम् इत्य् अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्।
सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः॥

मूलम्

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्।
सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः॥ १३ ॥

अनुवाद (हिन्दी)

यह जगत् जैसा अब है वैसा ही पहले था और भविष्यमें भी वैसा ही रहेगा। इसकी सृष्टि नौ प्रकारकी होती है तथा प्राकृत-वैकृत-भेदसे एक दसवीं सृष्टि और भी है॥ १३॥

वीरराघवः

सृष्टि-संहार-दशासु सर्वत्र कालस्यानुगतिम् आहार्धेन यथेति । इदानीं सृष्टि-दशायां यथा सर्वं काल-परिच्छिन्नं तथाग्रे सृष्टेः । प्राक्-प्रलये पश्चाद् अपि भावि-प्रलय-सृष्ट्योर् अपि एतत् जगद् ईदृशं काल-परिच्छिन्नम् एवेत्य् अर्थः । न च काल-परिच्छिन्नत्वेनानित्यत्वं शङ्क्यम् अवस्थानां काल-परिच्छिन्नत्वे ऽप्य् अवस्थावतो द्रव्यस्य नित्यत्वात् तथा च वैष्णवं वचः “तद् एतद् अक्षयं नित्यं जगन् मुनि-वराखिलम् । आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवद्” इति । एवं सर्वस्यापि परिच्छेदकः काल इति सामान्यतः काल-रूपम् अप्य् उक्तं भवति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः।
आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः॥

मूलम्

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः।
आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः॥ १४ ॥

अनुवाद (हिन्दी)

और इसका प्रलय काल, द्रव्य तथा गुणोंके द्वारा तीन प्रकारसे होता है। (अब पहले मैं दस प्रकारकी सृष्टिका वर्णन करता हूँ) पहली सृष्टि महत्तत्त्वकी है। भगवान‍्की प्रेरणासे सत्त्वादि गुणोंमें विषमता होना ही इसका स्वरूप है॥ १४॥

वीरराघवः

एवं काल-काल्य-वस्तु-सृष्टिम् अनूद्य अथ तत्-सर्ग-भेदान् प्रलय-भेदांश् च कालादीन् अनुवदति । सर्ग इत्यादिना दशैते विदुरेत्य् अन्तेन । तस्य काल-काल्यस्य वस्तुनः प्राकृतो वैकृतश् च यः उभयात्मकः सर्गः स नव-विधः । आद्यो महत्-सर्गः द्वितीयस् त्व् अहंकार-सर्गः भूतवर्गस् तृतीयः इन्द्रिय-सर्गश् चतुर्थः मनः-सर्गः पञ्चमः अण्ड-सर्गः षष्ठः एते षट्-सर्गाः प्राकृताः । तस्थुषां सर्गः सप्तमः तिरश्चाम् अष्टमः सर्गः नृणां सर्गो नवमः । एते त्रयो वैकृताः मिलित्वा नव-विध इत्य् अर्थः । अथ प्रलयान् विभजति कालेत्य् अर्धेन । अस्य काल-काल्यस्य प्रतिसंक्रमः प्रलयः काल-द्रव्य-गुणैस् त्रि-विधः कालेनास्मिन् काले ऽस्य मृतिर् इति नियतेन कालेन प्रलयो नित्य-प्रलयाख्यः कालिक एकः द्रव्येण सङ्कर्षण-मुखाग्न्यादिना प्रलयो नैमित्तिक-प्रलयाख्यः द्रव्य-प्रलयो द्वितीयः गुणैः सत्त्वादिभिः साम्यावस्थैर् जातः प्राकृत-प्रलयाख्यस् तृतीयः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः।
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्॥

मूलम्

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः।
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्॥ १५ ॥

अनुवाद (हिन्दी)

दूसरी सृष्टि अहंकारकी है, जिससे पृथ्वी आदि पंचभूत एवं ज्ञानेन्द्रिय और कर्मेन्द्रियोंकी उत्पत्ति होती है। तीसरी सृष्टि भूतसर्ग है, जिसमें पंचमहाभूतोंको उत्पन्न करनेवाला तन्मात्रवर्ग रहता है॥ १५॥

वीरराघवः

नव-विधान् एव सर्गान् प्रपञ्चयति । आद्य इत्यादिना अर्वाक्-स्रोतस् तु नवम इत्य् अन्तेन । आत्मनः कार्योन्मुख-प्रकृति-पुरुष-शरीरकात् परमात्मनः सकाशाद् गुण-वैषम्य-कृतो महत्-तत्त्वस्य सर्गः स आद्यः वैषम्यापन्न-गुण-त्रयात्मक-प्रकृति-विकार-विशेषो महत्-सर्गः प्रथम इत्य् अर्थः । अहमः अहंकारस्य द्रव्य-ज्ञान-क्रियादयः द्रव्यं भूत-पञ्चकं ज्ञान-क्रिया-शब्दाभ्यां ज्ञान-कर्मेन्द्रियोक्तिः आदि-शब्दात् मनस्-तन्-मात्राणि चोक्तानि । एते यत्र यस्माद् अहमः उत्पन्नास् तस्याहमः सर्गो द्वितीय इत्य् अर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः।
वैकारिको देवसर्गः पञ्चमो यन्मयं मनः॥

मूलम्

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः।
वैकारिको देवसर्गः पञ्चमो यन्म3यं मनः॥ १६ ॥

अनुवाद (हिन्दी)

चौथी सृष्टि इन्द्रियोंकी है, यह ज्ञान और क्रियाशक्तिसे सम्पन्न होती है। पाँचवीं सृष्टि सात्त्विक अहंकारसे उत्पन्न हुए इन्द्रियाधिष्ठाता देवताओंकी है, मन भी इसी सृष्टिके अन्तर्गत है॥ १६॥

वीरराघवः

भूत-सर्गस् तृतीयस् तद् एवोपपादयति । तन्-मात्र-द्रव्य-शक्तिमान् इति । तन्-मात्राणि शब्दादीनि पञ्च-द्रव्याणि आकाशादीनि पञ्च एतान्य् एव शक्तयो ऽस्य सन्तीति तद्-वान् तन्-मात्र-द्रव्याणां भगवच्-छरीरत्वाच् छक्ति-शब्देनोक्तिः । यथा “परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् । यस्य पृथिवी शरीरम्” इत्य्-आदि-वत्, तन्व्-अंश-शक्त्य्-आदि-शब्दाः पर्याया इति पुरस्ताद् एवोक्तम् अत्र मतुप्-प्रत्ययेनावगत-संबन्ध-सामान्यं विषय-विषयि-भाव-रूप-संबन्ध-विशेषे पर्यवसन्नं यथा गाम् आनयेत्य् उक्ते गो-शब्दस्य विवक्षित-प्रकृत-गो-व्यक्ति-विशेष-पर्यवसानम्, तथा चायम् अर्थः भगवच्-छरीर-भूत-तन्-मात्र-द्रव्य-विषयकः सर्गस् तृतीय इति । तन्-मात्रो द्रव्य-शक्तिमान् इति पाठे तु तृतीयो भूत-सर्गो द्वि-विधः तन्-मात्रः शब्दादि-तन्-मात्र-सर्गः द्रव्य-शक्तिमान् द्रव्य-शक्ति-विषयश् चेति समास-व्यास-रूपेण व्याख्येयं ज्ञान-कर्म-क्रियात्मकः ज्ञान-कर्मेन्द्रिय-विषयः यस् त्व् इन्द्रिय-सर्गः स चतुर्थ इत्य् अर्थः । वैकारिकः सत्त्वोद्रिक्तः दैव-सर्गः इन्द्रियाभिमानि-दिग्-वातादि-दैव-सर्गो यः स पञ्चमः; यन्-मयं मनः यद्-वैकारिकाहंकार-कार्यं मनः तद्-वैकारिकाहंकारोद्रिक्तो दैव-सर्गः पञ्चम इत्य् अर्थः । यद्यपीन्द्रियाभिमानि-देवतानां सर्गस्याण्ड-सृष्ट्य्-अनन्तरं चतुर्मुख-कर्तृकत्वेन न वैकारिकाहंकार-सर्गान्तर्भावः, अत एव वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम ।” इति देव-सर्गस्य वैकृतत्वं वक्ष्यते तथापीन्द्रिय-प्रसङ्गाद् वाद्धस्थतया तेषां कथनं न तु वैकारिकत्व-विवक्षया । सर्वेषाम् इन्द्रियाणां वैकारिकाहंकाराद् एवोत्पत्तेर् दिग्-आदि-देवताधिष्ठेय-श्रोत्रादीन्द्रियोत्पत्त्य्-अभिप्रायेण वा देव-सर्ग इत्य् उक्तम्, ननु सर्वेन्द्रियाणां वैकारिकत्वे कथं चतुर्थस् त्वैन्द्रिय-सर्गः, यस्तु ज्ञान-क्रियात्मकः” इति पञ्चम-सर्गानन्तर्भावेन चतुर्थ-सर्गत्व-कथनम् इति चेन् न अन्तर्-इन्द्रियत्व-बाह्य्-इन्द्रियत्व-रूप-वैधर्म्येण मनः सर्वेन्द्रिय-वर्ग-सर्गयोः पृथग्-गणनात् । न चैतावतेन्द्रियाणाम् अवैकारिकत्व-शङ्का कार्या, तैजसस्य वैकारिक-भूतादेर् अनुग्राहकत्वेन स्वत इन्द्रियोत्पादकत्वस्य द्वितीये निरस्तत्वात् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो।
षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु॥

मूलम्

षष्ठस्तु 4तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो।
षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु॥ १७ ॥

अनुवाद (हिन्दी)

छठी सृष्टि अविद्याकी है। इसमें तामिस्र, अन्धतामिस्र, तम, मोह और महामोह—ये पाँच गाँठें हैं। यह जीवोंकी बुद्धिका आवरण और विक्षेप करनेवाली है। ये छः प्राकृत सृष्टियाँ हैं, अब वैकृत सृष्टियोंका भी विवरण सुनो॥ १७॥

वीरराघवः

षष्ठस् त्व् इति । तामसः, तमः-शब्देन प्रकृति-मण्डलात्मकम् अण्डम् उच्यते “आदित्य-वर्णं तमसः परस्ताद्” इत्य्-आदौ तमः-शब्देन प्रकृति-मण्डलाभिधानात् तद्-विषयः सर्गस् तामसः षष्ठः । तम् एव विशिनष्टि अबुद्धि-कृतः प्रभोर् इति । प्रभोश् चतुर्मुखस्याबुद्धि-कृतः तद्-अन्तर्यामि-परमात्म-सङ्कल्प-कृत इत्य् अर्थः । तामसस्याबुद्धि-कृतत्व-कथनं पूर्वेषाम् अप्य् उपलक्षणम् । षण्णाम् अपि चतुर्मुख-सृष्टेः प्राक्तनत्वेन चतुर्मुख-बुद्धि-पूर्वकत्वाभावात् । षष्ठस् तु तमसः सर्गः इति पठित्वा, बुद्धिर् जीवानाम् आवरणं विक्षेपश् च तां करोतीत्य् अबुद्धि-कृत् तस्य तमसः पञ्च-पर्वणो यः सर्गः षष्ठ इत्य् अर्थ-वर्णनं त्व् अयुक्तम्, विष्णु-पुराणे स्थावरादि-सृष्टेः चतुर्मुखाबुद्धि-कृतत्व-दर्शनेन इहापि तदैकार्थ्यस्य न्याय्यत्वाच् चतुर्मुखाबुद्धि-कृतत्वम् एवेष्टव्यम् । ननु स्थावरादि-व्यष्टेर् अबुद्धि-पूर्वकत्वम् उक्तं श्री-विष्णु-पुराणे, इह प्राकृतानां षण्णाम् एव अबुद्धि-कृतत्वं कथम् उक्तम् इति चेद् उच्यते साधका मनुष्या इति । तद्-व्यतिरिक्तानां सृष्टिर् अबुद्धि-पूर्विकेति भगवत्-पराशरस्याभिप्रायः । स्थावर-तिरश्चां यज्ञोपकरणत्वाद् देवानां कर्माराध्यत्वाच् च मनुष्यवद् यज्ञौपयिकत्वम् अस्तीति स्थावरादि-सृष्टिर् अपि बुद्धि-पूर्विकेति भगवतो द्वैपायनस्याभिप्रायः, अतो न विरोधः । ननु चतुर्मुख-सृष्टेष्व् एव स्थावरेषु तद्-बुद्धि-कृतत्वं च परस्पर-विरुद्धम् उभयं कथम् उपपद्यत इति चेद् यज्ञानुपयुक्त-स्थावराभिप्रायकत्वात् पाराशर्योक्तेः प्राकृत-यज्ञानुपयुक्तैः चतुर्मुखस्य सिसृक्षाया अभावे ऽपि तद्-अन्तर्यामि-परमात्म-सङ्कल्पाद् एव तत्-सृष्ट्य्-उपपत्तेः । प्राकृत-सर्गान् निगमयन् वैकृत-सर्ग-विभागम् अवतारयति । इमे षट् प्रकृताः सर्गाः अनुक्रमिता इति शेषः मे मत्तः वैकृतान् अपि सर्गान् अनुक्रमिष्यमाणान् शृणु ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

रजोभाजो भगवतो लीलेयं हरिमेधसः।
सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः॥

मूलम्

रजोभाजो भगवतो 5लीलेयं हरिमेधसः।
सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां चयः॥ १८ ॥

अनुवाद (हिन्दी)

जो भगवान् अपना चिन्तन करनेवालोंके समस्त दुःखोंको हर लेते हैं, यह सारी लीला उन्हीं श्रीहरिकी है। वे ही ब्रह्माके रूपमें रजोगुणको स्वीकार करके जगत‍्की रचना करते हैं। छः प्रकारकी प्राकृत सृष्टियोंके बाद सातवीं प्रधान वैकृत सृष्टि इन छः प्रकारके स्थावर वृक्षोंकी होती है॥ १८॥

वीरराघवः

नन्व् अचिन्त्य-विविध-चित्र-रचनया ब्रह्मणः श्रमः स्याद् इत्य्-आशङ्क्य मुनिर् आह । रजो-भाज इति । चतुर्मुख-शरीरकत्वाद् रजो-भाजः रज उद्रिक्तस्य भगवतो हरि-मेधसः मेधया बुद्ध्या हरति सांसारिक-क्लेशम् इति हरि-मेधाः यद्-विषयक बुद्धिः संसार-क्लेशान् हरति स हरि-मेधा इत्य् उच्यते । तस्य हरेर् इयं सृष्टि-लीला न तु तस्यां क्लेश इत्य् अर्थः । वैकृत-सर्गान् अनुक्रमिष्यन् तेषां स्थावर-सर्गस्य पूर्वानुक्रान्त-प्राकृत-सर्गापेक्षया सप्तमत्वम् आह । सप्तम इति । तस्थुषां स्थावराणां यो मुख्यः सर्गः सप्तमः स च पुनः षड्-विध इत्य् अर्थः । तस्य मुख्यत्वं मुखम् इव प्रथमं कृतत्वाद् अवगन्तव्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमाः।
उत्स्रोतसस्तमः प्राया अन्तःस्पर्शा विशेषिणः॥

मूलम्

वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमाः।
उत्स्रोतसस्तमः प्राया अन्तःस्पर्शा विशेषिणः॥ १९ ॥

अनुवाद (हिन्दी)

वनस्पति१, ओषधि,२ लता,३ त्वक्सार,४ वीरुध५ और द्रुम६ इनका संचार नीचे (जड़)-से ऊपरकी ओर होता है, इनमें प्रायः ज्ञानशक्ति प्रकट नहीं रहती, ये भीतर-ही-भीतर केवल स्पर्शका अनुभव करते हैं तथा इनमेंसे प्रत्येकमें कोई विशेष गुण रहता है॥ १९॥

पादटिप्पनी

१. जो बिना मौर आये ही फलते हैं, जैसे गूलर, बड़, पीपल आदि। २. जो फलोंके पक जानेपर नष्ट हो जाते हैं, जैसे धान, गेहूँ, चना आदि। ३. जो किसीका आश्रय लेकर बढ़ते हैं, जैसे ब्राह्मी, गिलोय आदि। ४. जिनकी छाल बहुत कठोर होती है, जैसे बाँस आदि। ५. जो लता पृथ्वीपर ही फैलती है, किन्तु कठोर होनेसे ऊपरकी ओर नहीं चढ़ती—जैसे खरबूजा, तरबूजा आदि। ६. जिनमें पहले फूल आकर फिर उन फूलोंके स्थानमें ही फल लगते हैं, जैसे आम, जामुन आदि।

वीरराघवः

स्थावराणां षड्-विधत्वम् एवाह वनस्पतीत्य्-आदि । अपुष्पाः फलिनो वनस्पतयः, ओषधयः फल-पाकान्ताः, लता आरोहणापेक्षाः, त्वक्-साराः कदली-वेण्व्-आदयः, वीरुधः गुल्म-रूपाः, द्रुमाः पुष्प-फलाः तेषां साधारणं लक्षणम् आह । उत्-स्रोतस इति । उत्क्रान्ताः स्रोतसः गतेर् आहाराद् वा, गति-शून्या आहार-शून्या वा तमः-प्रायाः अव्यक्त-चैतन्याः अन्तः-स्पर्शाविशेषिण इत्य् एकं पदम् अन्तः-स्पर्शाः शीतोष्णादि-सुख-दुःख-दाः स्पर्शा येषां ते ऽविशेषिणश् च बाह्य-विशेषानभिज्ञाश् च । अन्तर्-गतान् एव स्पर्शान् जानन्ति न तु बाह्यान् इत्य् अर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः।
अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः॥

मूलम्

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः।
अविदो भूरितमसो घ्राणज्ञा हृद्य6वेदिनः॥ २० ॥

अनुवाद (हिन्दी)

आठवीं सृष्टि तिर्यग्योनियों (पशु-पक्षियों)-की है। वह अट्ठाईस प्रकारकी मानी जाती है। इन्हें कालका ज्ञान नहीं होता, तमोगुणकी अधिकताके कारण ये केवल खाना-पीना, मैथुन करना, सोना आदि ही जानते हैं, इन्हें सूँघनेमात्रसे वस्तुओंका ज्ञान हो जाता है। इनके हृदयमें विचारशक्ति या दूरदर्शिता नहीं होती॥ २०॥

वीरराघवः

तिर्यक्-सर्गस्याष्टमत्वं कथयन् पुनस् तस्याष्टाविंशद्-विधत्वम् आह । तिरश्चाम् इति । तिरश्चां तिर्यग्-गच्छतां यः सो ऽष्टमः स च पुनर् अष्टाविंशद्-विधो मतः ज्ञातः । तेषां साधारणं लक्षणम् आह । अविद इति । ह्यस्तनाद्यतन-श्वस्तनानादि-ज्ञान-शून्याः भूरि-तमसः केवलाहार-निद्रा-मैथुन-भय-मात्र-निष्ठाः घ्राण-ज्ञाः घ्राणेनैवेष्टम् अर्थं जानन्तीति घ्राण-ज्ञाः । गन्धेन गावः पश्यन्तीतिवत् हृद्य् अवेदिनः हृद्-गत-सुखाद्य्-अनभिज्ञाः दीर्घानुसन्धान-रहिता इति भावः । तथा च श्रुतिः अथापरेषां पशूनाम् अशनाया-पिपासे एव जानन्ति वदन्ति न विज्ञानं पश्यन्ति न विदुः श्वस्तनं लोकालोकाव् इति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम॥

मूलम्

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम॥ २१ ॥

अनुवाद (हिन्दी)

साधुश्रेष्ठ! इन तिर्यकोंमें गौ, बकरा, भैंसा, कृष्ण-मृग, सूअर, नीलगाय, रुरु नामका मृग, भेड़ और ऊँट—ये द्विशफ (दोखुरोंवाले) पशु कहलाते हैं॥ २१॥

वीरराघवः

अष्टाविंशति-भेदान् आह । गौर् इति । गवादय उष्ट्रान्ताः द्वि-शफाः द्वि-नखाः नवैव सन्तीत्य् अर्थः । हे सत्तम विदुर ! ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा।
एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्॥

मूलम्

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा।
एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्॥ २२ ॥

अनुवाद (हिन्दी)

गधा, घोड़ा, खच्चर, गौरमृग, शरफ और चमरी—ये एकशफ (एक खुरवाले) हैं। अब पाँच नखवाले पशु-पक्षियोंके नाम सुनो॥ २२॥

वीरराघवः

खरादयश् चमर्यन्ता एक-शफाः षट् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ।
सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः॥

मूलम्

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ।
सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः॥ २३ ॥

मूलम् - कर्णावती

श्वा शृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ।
सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः॥ २३ ॥

अनुवाद (हिन्दी)

कुत्ता, गीदड़, भेड़िया, बाघ, बिलाव, खरगोश, साही, सिंह, बंदर, हाथी, कछुआ, गोह और मगर आदि (पशु) हैं॥ २३॥

वीरराघवः

श्वादयो गोधान्ताः पञ्च-नखाः द्वादश मिलिता भू-चराः सप्तविंशतिः, मकरादयो जल-चराः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

कङ्कगृध्रवटश्येनभासभल्लूकबर्हिणः।
हंससारसचक्राह्वकाकोलूकादयः खगाः॥

मूलम्

कङ्कगृध्र7वटश्येनभासभल्लूकबर्हिणः।
हंससारसचक्राह्वकाकोलूकादयः खगाः॥ २४ ॥

अनुवाद (हिन्दी)

कंक (बगुला), गिद्ध, बटेर, बाज, भास, भल्लूक, मोर, हंस, सारस, चकवा, कौआ और उल्लू आदि उड़नेवाले जीव पक्षी कहलाते हैं॥ २४॥

वीरराघवः

कङ्कादयः खगाः भू-चर-भेदेनैकीकृत्य गृहीताः एवम् अष्टाविंशति-भेदाः मकरादिषु स्व-जाति-विशेष-भिन्नेष्व् अप्य् अभूचरत्वेनैकाकारत्वं बोध्यं गवादिषु पठितौ रुरु-गौरौ मृग-विशेषौ छत्रि-न्यायेन पशवश् चैते इति निर्देशः । एवम् अन्यत्रापि द्रष्टव्यम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्।
रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः॥

मूलम्

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्।
रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः॥ २५ ॥

अनुवाद (हिन्दी)

विदुरजी! नवीं सृष्टि मनुष्योंकी है। यह एक ही प्रकारकी है। इसके आहारका प्रवाह ऊपर (मुँह)-से नीचेकी ओर होता है। मनुष्य रजोगुणप्रधान, कर्मपरायण और दुःखरूप विषयोंमें ही सुख माननेवाले होते हैं॥ २५॥

वीरराघवः

अथ नवमं सर्गम् आह । अर्वाग् इति । अर्वाक्-स्रोतः गतिर् आहारो वा यस्य सः अर्वाक्-स्रोतः ह्रस्वत्वम् आर्षं हे क्षत्तः ! नृणाम् अर्वाक्-स्रोतो यः सर्गः स एक-विधः, न तु खरादीनाम् इव नाना-विधः, स नवमः सर्गः अर्वाक्-स्रोत इति क्रिया-विशेषणं वा ऽर्वाक्-स्रोतो यथा भवति तथा यो नृणां सर्ग इति नृणां साधारणं लक्षणम् आह । रजो-ऽधिका इति । रजः-प्रचुराः अत एव कर्म-पराः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम।
वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः॥

मूलम्

वैकृतास्त्रय 8एवैते देवसर्गश्च सत्तम।
वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः॥ २६ ॥

अनुवाद (हिन्दी)

स्थावर, पशु-पक्षी और मनुष्य—ये तीनों प्रकारकी सृष्टियाँ तथा आगे कहा जानेवाला देवसर्ग वैकृत सृष्टि हैं तथा जो महत्तत्त्वादिरूप वैकारिक देवसर्ग है, उसकी गणना पहले प्राकृत सृष्टिमें की जा चुकी है। इनके अतिरिक्त सनत्कुमार आदि ऋषियोंका जो कौमारसर्ग है, वह प्राकृत-वैकृत दोनों प्रकारका है॥ २६॥

वीरराघवः

त्रय एते वैकृता एव न तु कौमारवद् उभयात्मका इत्य् अर्थः । देव-सर्ग इत्य्-आदि प्रोक्त इत्य्-अन्तम् एकान्वयम् प्राकृतेषु यो देव-सर्ग-प्रसङ्गाद् वैकारिको ऽभिहितः स च वैकृतान्तर्भूत एवेत्य् अर्थः । हे सत्तम विदुर ! विकृत-देव-सर्गान्तर्-भूत-कौमार-सर्गस्योभयात्मकत्वम् आह । कौमारस् त्व् इति । वैकृत-सर्गान्तर्भूत-कौमार-सर्गस्य प्राकृतत्वं कथम् इति चेत्, कुमाराणाम् आदाव् एव ब्रह्मणा सृष्टत्वात् प्राकृतान्तर्भावः कुमारेष्व् अन्तर्भूतो नील-लोहितस् तु सनकादिभिः सह सृष्टो ऽपि प्रति-कल्पं सृज्यते ततस् तस्य वैकृतत्वम् इत्य् उभयात्मक इत्य् अभिप्रयात् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः।
गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः॥

मूलम्

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः।
गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः॥ २७ ॥

वीरराघवः

देव-सर्गस्याष्ट-विधत्वं प्रतिजानन् तद्-भेदान् आह । देव-सर्ग इति सार्द्धेन । विबुधाः पितरश् च एक-कोटिकम् आराध्यत्वात् असुरा एक-कोटिः गन्धर्वाश् चैक-कोटिः सिद्धाः एकः यक्ष-रक्षांस्य् एकः चारणा एकः भूत-प्रेत-पिशाचा एकः किन्नरादय इत्य् आदि-शब्देनाश्व-मुख-किम्-पुरुषादयश् च किन्नरा आदयो येषां ते विद्याधराः एक-कोटिः एवम् अष्ट-विधत्वम् इत्य् अर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः।
दशैते विदुराख्याताः सर्गास्ते विश्वसृक्‍कृताः॥

मूलम्

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः।
दशैते विदुराख्याताः सर्गास्ते विश्वसृक्‍कृताः॥ २८ ॥

अनुवाद (हिन्दी)

देवता, पितर, असुर, गन्धर्व-अप्सरा, यक्ष-राक्षस, सिद्ध-चारण-विद्याधर, भूत-प्रेत-पिशाच और किन्नर-किम्पुरुष-अश्वमुख आदि भेदसे देवसृष्टि आठ प्रकारकी है। विदुरजी! इस प्रकार जगत्कर्ता श्रीब्रह्माजीकी रची हुई यह दस प्रकारकी सृष्टि मैंने तुमसे कही॥ २७-२८॥

वीरराघवः

अनुक्रान्तान् सर्गान् निगमयति । दशेति । सर्गो नव-विध इत्य् उपक्रमे कथितम् अवान्तर-विधाभिप्रायेण दशेत्य् उपसंहार इत्य् अविरोधः । हे विदुर ! विश्व-सृजा चतुर्मुख-रूपेण केवलेन स्वात्मना च कृता एते दश-सर्गास् ते तुभ्यम् आख्याताः कथिताः ‘सर्गाश् चैवानुसर्गांश् च मनून् मन्वन्तराणि चे’ति चतुर्मुख-सृष्टेः पूर्वापरेषु पृष्ठेषु सर्गेषु कथितेष्व् अनन्तर-सृष्टेषु मनुन्-मन्वन्तराणि चेति चतुर्मुख-सृष्ट-पूर्वापरेषु पृष्टेषु सर्गेषु कथितेष्व् अनन्तर-सृष्टेषु मनु-मन्वन्तरेषूत्तर-श्रवणे त्वरा न कार्या, सङ्गति-विशेषेण तान्य् अपि कथयिष्यामीत्य् आह । अतः परम् इति । अतः सर्व-वस्तु-परिच्छेदक-काल-रूप-कथनान्तरं मनून् मन्वन्तराणि च प्रवक्ष्यामि ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च।
एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः।
सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना॥

मूलम्

अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च।
एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः।
सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना॥ २९ ॥

मूलम् - कर्णावती

अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च।
एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः।
सजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना॥ २९ ॥

अनुवाद (हिन्दी)

अब आगे मैं वंश और मन्वन्तरादिका वर्णन करूँगा। इस प्रकार सृष्टि करनेवाले सत्यसंकल्प भगवान् हरि ही ब्रह्माके रूपसे प्रत्येक कल्पके आदिमें रजोगुणसे व्याप्त होकर स्वयं ही जगत‍्के रूपमें अपनी ही रचना करते हैं॥ २९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे दशमोऽध्यायः॥ १० ॥

वीरराघवः

पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजद् इत्य् उपक्रान्तम् एकस्यैव ब्रह्मणः उपादानत्वं निमित्तत्वं चोपसंहरति । एवम् इति । कल्पादिषु स्रष्टा आत्म-भूर् हरिश् चतुर्मुख-शरीरको हरिः रजो-वृतश् चतुर्मुख-द्वारा रजोद्रेकः] अमोघ-सङ्कल्पः सत्य-सङ्कल्पः इदं सार्वज्ञत्व-सर्व-शक्तित्वादेर् उपलक्षणम् आत्मात्मनैव सृजति अमोघ-सङ्कल्प इत्य्-अनेन लोक-परिदृष्ट-निमित्तोपादान-मृत्-कुलाल-भेद-न्यायस्यात्रानवकाश उक्तः कुलालस्यासर्व-शक्तित्वान् नोपादानत्वं मृदस् त्व् अज्ञत्वान् न निमित्तत्वम् । इह त्व् अस्मिन्न् एवोभयोः प्रतिपन्नत्वान् न कर्त्र्-अन्तर-कर्मान्तर-करणानाम् अपेक्षेति भावः ॥ २९ ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्ध-टीकायां श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां दशमो ऽध्यायः ॥ १० ॥


  1. प्रा. पा. - हितः । ↩︎

  2. प्रा. पा. - अप्रमाणतः । ↩︎

  3. प्रा. पा. - यन्मनोमयः । ↩︎

  4. प्रा. पा. - तामसः । ↩︎

  5. प्रा. पा. - सीमेयं । ↩︎

  6. प्रा. पा. वकश्ये । ↩︎

  7. प्रा. पा. - वकश्ये । ↩︎

  8. प्रा. पा. - एते वै । ↩︎