०९

[नवमोऽध्यायः]

भागसूचना

ब्रह्माजीद्वारा भगवान‍्की स्तुति

मूलम् (वचनम्)

ब्रह्मोवाच

श्लोक-१

विश्वास-प्रस्तुतिः

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम्।
नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि॥

मूलम्

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम्।
नान्यत्त्वदस्ति भगवन्नपि त1न्न शुद्धं मायागुणव्यतिकराद्यदुरुर्विभासि॥ १ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा—प्रभो! आज बहुत समयके बाद मैं आपको जान सका हूँ। अहो! कैसे दुर्भाग्यकी बात है कि देहधारी जीव आपके स्वरूपको नहीं जान पाते। भगवन्! आपके सिवा और कोई वस्तु नहीं है। जो वस्तु प्रतीत होती है, वह भी स्वरूपतः सत्य नहीं है, क्योंकि मायाके गुणोंके क्षुभित होनेके कारण केवल आप ही अनेकों रूपोंमें प्रतीत हो रहे हैं॥ १॥

वीरराघवः

अथ स्तुतिप्रकारं तथा प्रसन्नस्य भगवतो ऽनुग्रहविशेषं चाह नवमेन । तत्र कृत्स्नस्य चिद्-अचिदात्मकस्य प्रपञ्चस्य च भगवच्-छरीरत्वेन ज्ञातवतः स्वस्य कृतार्थताम् आविष्कुर्वन्न् ईदृशज्ञानविधुरान् निन्दन्न् अब्रह्मात्मकवस्त्व् अन्तराभावम् उपपादयति ज्ञातो ऽसीति । ननु हे भगवन् ! सुचिराद् बहुकालोपार्जितात् तपस इति शेषः । मे मया ऽद्याधुना ज्ञातो ऽसि यथा ऽवस्थितत्वेन दृष्टो ऽसि कार्यावस्थ-कारणावस्थ-कृत्स्न-चिद्-अचिद्-अन्तर्यामित्व स्वेच्छोपात्ताप्राकृत-पञ्चोपनिषन्मय-दिव्यमङ्गलविग्रहविशिष्टत्व सर्वज्ञत्व-सर्वशक्तित्व सत्य-सङ्कल्पत्वाश्रित-वात्सल्यैकजलधित्वाद्याकारविशिष्टत्वेन सत्य-ज्ञानानन्द-स्वरूपत्वम् अत्र विवक्षितं तस्मै नमो भगवते भुवन-द्रुमाय तिर्यङ्-मनुष्य-विबुधादिषु नातः परं परमेत्य् आदिना ह्य् एतद् एव प्रपञ्चयिष्यति ईदृशज्ञानविधुरान् निन्दति । भगवतः षाड्गुण्यपूर्णस्य तव गतिः स्वरूपं न ज्ञायते इति यद् एतद् एव देहभाजां कर्मायत्त-प्रकृति-परिणामरूप-शरीरभाजां क्षेत्रज्ञानाम् अवद्यं दोषः अब्-भक्षो वायु-भक्ष इत्यादिवद् भगवत एवेत्य् अवधारणं विवक्षितम् आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञातं भवति येनाश्रुतं श्रुतं भवति स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् इति च भगवद्-भानेनैव कृत्स्नस्य ज्ञातत्वश्रवणाद् अब्रह्मात्मकस्य स्वतन्त्रवस्तुनो ऽभावात् तमेव विदित्वातिमृत्युम् एतीति ब्रह्मज्ञानस्यैव मृत्युतरणोपायत्वश्रवणाच् च भगवानेव ज्ञातव्य इति तज्-ज्ञानविधुरा दुष्टा इत्य्-अभिप्रायः । एतद् एवोपपादयति नान्यद् इति । हे भगवन् ! पूर्णषाड्गुण्यमूर्त्ते त्वत्-त्वत्तः अन्यद् अत्वदात्मकं नास्ति सर्वस्य त्वदात्मकत्वात् त्वज्-ज्ञानेनैव सर्वस्य ज्ञातत्वात् ज्ञातव्यान्तराभावात् त्वम् एव ज्ञातव्य इत्य् अभिप्रायः । ननु स्वतन्त्रत्वेनैव देवमनुष्यत्व्-आदिवस्तुप्रतीतेस् त्वद्-अन्यन् नास्तीति कथम् उच्यते ऽत आह - अपि स्वतन्त्रत्वेन प्रतीतम् अपि तद्-देवादि वस्तु न शुद्धं नाबाधितम् अत्राब्रह्मात्मक-स्वतन्त्रबुद्धिर्भ्रान्त्यैवेत्य् अर्थः । कुत एतद् इत्य् अत आह मायेति । यत् यतः मायायाः प्रकृतेर् गुणानां व्यतिकराद् वैषम्यात् परिणामाद् इत्य् अर्थः । त्वम् एव उरुर् बहुधा विभासि प्रकाशसे एकः सन् बहुधा विभासि बहु स्यां प्रजायेय तत् सृष्ट्वा तद् एवानुप्राविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवत् इति प्रक्रम्य सत्यं चानृतं च सत्यम् अभवद् इति श्रुत्य्-उक्त-रीत्या स्वयम् अपरिच्छिन्न-ज्ञानानन्द-स्वभावो ऽत्यन्तसूक्ष्मतया सङ्कल्प्य स्वलीलोपकरण-चिद्-अचिद्-वस्तुशरीरतया तन्-मयः परमात्मा विचित्रानन्तक्रीडनकोपादित्सया स्व-शरीर-भूत-प्रकृति-पुरुष-समष्टि-परम्परया महा-भूत-पर्यन्तम् आत्मानं तत्तच्-छरीरकं परिणमय्य तन्-मयः पुनः सत्त्यच्छब्दवाच्य-विचित्र-चिद्-अचिन्-मिश्र-देवादि-स्थावरान्त-जगद्-रूपो भवसीत्य् अर्थः । ब्रह्मणि जगद्-रूपतया विक्रियमाणे ऽपि तत्-प्रकार-भूताश्-चिदंश-गताः सर्वे विकाराः तत्-प्रकार-भूत-क्षेत्रज्ञ-गताश् चापुरुषार्थाः ब्रह्म तु निरस्त-निखिल-दोष-गन्धम् अपरिच्छिन्नज्ञानानन्दम् एकस्वरूपम् एवाभवद् इति विवेकः । एवं कृत्स्न-चिद्-अचिद्-अन्तरात्मनो भगवत एव ज्ञानस्य मुक्तिसाधनत्वं “तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ सम्पत्स्य” इति श्रुतं तस्य सर्वं ब्रह्मात्मकत्वेनोपासीनस्येत्य् अर्थः । तथा च श्रुत्यन्तरम् “सर्वं खल्विदं ब्रह्म तज्-जलान् इति शान्त उपासीते"ति ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमसः सदनुग्रहाय।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम्॥

मूलम्

रूपं यदेतदवबोधरसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय।
आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमाविरासम्॥ २ ॥

अनुवाद (हिन्दी)

देव! आपकी चित् शक्तिके प्रकाशित रहनेके कारण अज्ञान आपसे सदा ही दूर रहता है। आपका यह रूप, जिसके नाभिकमलसे मैं प्रकट हुआ हूँ, सैकड़ों अवतारोंका मूल कारण है। इसे आपने सत्पुरुषोंपर कृपा करनेके लिये ही पहले-पहल प्रकट किया है॥ २॥

वीरराघवः

अथ “जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन” इति भगवद्-अवतार-रहस्य-ज्ञानस्यापि मोक्ष-साधनत्व-स्मरणात् अवतारयाथात्म्यम् अपि शोधयति रूपम् इति । अवबोध-रसोदयस्यावबोध-रूपस्य रसस्योदयः स्वाभाविकाविर्भावो यस्येति बहुव्रीहिः । निरुपाधिकनित्याविर्भूता-ऽपरिच्छिन्नानन्द-रूप-ज्ञानवत इत्य् अर्थः । अत एव शश्वन्-निवृत्ततमसः शश्वत् सदा निवृत्ततमो ऽज्ञानं यस्मात् तस्य अनेन विशेषणद्वयेन त्रिविध-चेतनाचेतन-व्यावृत्तिः आद्येनाचेतन-व्यावृत्तिर् द्वितीयेन चेतन-व्यावृत्तिः । बद्धानाम् अनिवृत्ततमत्वान् मुक्तानाम् अपि संसारदशायां तमः सम्बन्धाच् छश्वन्-निवृत्ततमस्त्वाभावात् नित्यानां तथात्वस्य परसङ्कल्पायत्तत्वेन सोपाधिकत्वात् एवं-भूत-स्वरूपं तव यद् रूपं विग्रहः कथं-भूतम् अवतार-शतैक-बीजम् अवतार-शतानाम् एक-बीजं मूलं तद् एव प्रदर्शयति यस्य परिगृहीतैवं-विध-रूपस्य तव नाभि-पद्मम् एव भवनं गृहं तस्माद् अहं तवावेशावतार-रूपो ऽहं “सृष्टिं ततः करिष्यामि त्वाम् आविश्य प्रजापते” इति चतुर्मुखस्य भगवद्-आवेशावतार-रूपत्व-प्रसिद्धेः एतद् रूपम् आदौ सर्गादौ सद्-अनुग्रहाय सत्स्व् अनुग्रहाय साधूनां परित्राणायेत्य् अर्थः । गृहीतम् आविष्कृतं न तु जीववत् कर्मयत्त-सुख-दुःखोपभोगाय गृहीतम् इत्य् अर्थः । तथा च श्रुतिस्मृती “अजायमानो बहुधा विजायते । अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन्न्” इत्य्-आदिके ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

नातः परं परम यद‍्भवतः स्वरूप-
मानन्दमात्रमविकल्पमविद्धवर्चः।
पश्यामि विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि॥

मूलम्

नातः परं परम यद‍्भवतः स्वरूपमानन्दमात्रमविकल्पमविद्धवर्चः।
पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त2 उपाश्रितोऽस्मि॥ ३ ॥

अनुवाद (हिन्दी)

परमात्मन्! आपका जो आनन्दमात्र, भेदरहित, अखण्ड तेजोमय स्वरूप है, उसे मैं इससे भिन्न नहीं समझता। इसलिये मैंने विश्वकी रचना करनेवाले होनेपर भी विश्वातीत आपके इस अद्वितीय रूपकी ही शरण ली है। यही सम्पूर्ण भूत और इन्द्रियोंका भी अधिष्ठान है॥ ३॥

वीरराघवः

एवं चिद्-अचिद्-विलक्षणत्वेन शोधित-स्वरूपस्य जीव-शरीर-विलक्षणत्वेन शोधित-रूपस्य चोभयोर् एवोपास्यत्वं वदन् पुनर् अन्यैर् अपि धर्मैः स्वरूप-रूपे विशिनष्टि नात इति । हे परम ! परो मा न विद्यते यस्मात् स परमः तस्य सम्बुद्धिः भवतः तव यत् स्वरूपं कथंभूतम् आनन्दमात्रं मात्रचा दुःख-सम्भेद-निरासः अविकल्पं जाति-गुणादि-रहितम् आभ्यां चिद्-अचिद्-व्यावृत्तिः अविद्ध-वर्चः अविद्धम् अप्रतिहतं वर्चः सङ्कल्परूपं ज्ञानं यस्य तद् एवं भूतं स्वरूपं यच् चाविश्वं विश्व-विलक्षणं विश्व-सृजं विश्वस्य कारणं भूतेन्द्रियात्मकं पञ्चोपनिषन्मन्त्र-प्रतिपाद्याप्राकृत-भूतेन्द्रियात्मकं रूपं चेति यद् अतः अस्मात् परं विलक्षणं स्वरूपं रूपं च न पश्यामि । अतः अदः एतद् उभयम् एव आत्मन् हे परमात्मन् ! उपाश्रितो ऽस्मि सम्यग् अनुवृत्त्या शरणं गतो ऽस्मि ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तद्वा इदं भुवनमङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम्।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः॥

मूलम्

तद्वा इदं भुवनमङ्गल मङ्गलाय ध्याने स्म नो दर्शितं त उपासकानाम्।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः॥ ४ ॥

अनुवाद (हिन्दी)

हे विश्वकल्याणमय! मैं आपका उपासक हूँ, आपने मेरे हितके लिये ही मुझे ध्यानमें अपना यह रूप दिखलाया है। जो पापात्मा विषयासक्त जीव हैं, वे ही इसका अनादर करते हैं। मैं तो आपको इसी रूपमें बार-बार नमस्कार करता हूँ॥ ४॥

वीरराघवः

पुनर् उक्ताकारविशिष्टस्य भगवतो भक्त्य्-एकलभ्यत्वं वदंस् तम् एव नमस्करोति तद् वेति । हे भुवन-मङ्गल ! विश्वस्य मङ्गल-रूप ! यतस् त्वया उपासकानां नो ऽस्माकं ध्यानेन मङ्गलायास्मदभ्युदयाय यद् वा वेदान्तेषु प्रसिद्धम् इदं रूपं दर्शितं तस्मै ईदृशस्वरूप-रूप-गुण-विभूतिमते भगवते पूर्णषाड्गुण्यमूर्तये तुभ्यं नमो ऽनुविधेम नमस्कुर्महे यस् त्वम् असत्-प्रसङ्गैर् असत्सु शब्दादिषु प्रकृष्टः सङ्गो येषां तैर् अत एव नरकभाग्भिर् देहिभिर् नादृतः नाभाजीति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम्।
भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम्॥

मूलम्

ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम्।
भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम्॥ ५ ॥

अनुवाद (हिन्दी)

मेरे स्वामी! जो लोग वेदरूप वायुसे लायी हुई आपके चरणरूप कमलकोशकी गन्धको अपने कर्णपुटोंसे ग्रहण करते हैं, उन अपने भक्तजनोंके हृदय-कमलसे आप कभी दूर नहीं होते; क्योंकि वे पराभक्तिरूप डोरीसे आपके पादपद्मोंको बाँध लेते हैं॥ ५॥

वीरराघवः

आदरेण त्वाम् अभजन्तो नरकभाजस् त्वाम् आदरेण भजन्तस् तु कृतार्था इत्याह ये त्व् इति । श्रुतिः श्रवणं तद् एव वातः पवनः तेन नीतं प्रापितं त्वदीय-चरणाम्बुज-कोशस्य गन्धं कर्णविवरैर् ये जिघ्रन्ति येषां च परया-ऽव्यभिचारिण्या भक्त्या गृहीतौ चरणौ यस्य स तथाभूतो भवान् भवति तेषां स्वपुंसां स्वभक्तानां हृदयाम्बुरुहाद् धृदयकमलात् हे नाथ ! नापैषि नापसरसि ये त्वत्कथाश्रवणम् अत्य् आदरेण कुर्वन्ति त एकान्तभक्त्या त्वां प्रपन्नास् तेषां हृदि भवान् नित्यं संनिहितो भवतीत्य् अर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

तावद‍्भयं द्रविणगेहसुहृन्निमित्तं
शोकः स्पृहा परिभवो विपुलश्च लोभः।
तावन्ममेत्यसदवग्रह आर्तिमूलं
यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः॥

मूलम्

तावद‍्भयं द्रविणगेह3सुहृन्निमित्तं शोकः स्पृहा परिभवो विपुलश्च लोभः।
तावन्ममेत्यसदवग्रह आर्तिमूलं यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः॥ ६ ॥

अनुवाद (हिन्दी)

जबतक पुरुष आपके अभयप्रद चरणारविन्दोंका आश्रय नहीं लेता, तभीतक उसे धन, घर और बन्धुजनोंके कारण प्राप्त होनेवाले भय, शोक, लालसा, दीनता और अत्यन्त लोभ आदि सताते हैं और तभीतक उसे मैं-मेरेपनका दुराग्रह रहता है, जो दुःखका एकमात्र कारण है॥ ६॥

वीरराघवः

भवतु मत्-सान्निध्यम् एतावता कथं तेषां कृतार्थतेत्य् अत आह तावद् इति । ते तवाभयं न विद्यते भयं यस्मात् तद् भयं संसृति-निवर्तकम् अङ्घ्रिं लोको यावन् न प्रवृणीत निरतिशय-प्रियत्वेन नोपासीत तावद् एव भयादय इत्य् अन्वयः । आगामि-दुःख-दर्शनजं ज्ञानं भयं तच् च द्रविण-गेह-सुहृन्-निमित्तं द्रविणं धनं सुहृन् मित्रं भावि-द्रविणादि-विपत्ति-निमित्त-दुःख-विषयं ज्ञानं भयम् इत्य् अर्थः । शोकः अतीत-पुत्रमरणादि-स्मरण-विषयं ज्ञानं शोकस् तादात्विक-प्रतिकूल-विषयं वा ज्ञानं स्पृहा-ऽनुकूल-विषयेष्व् इच्छा परिभवस् तिरस्कारः विपुलः विस्तृतः लोभः तृष्णा असदवग्रहः अनात्मभूते शरीरे ऽवग्रह आत्मत्वाभिमानः अयं चोक्तानां भयादि-रूपाणाम् आर्तीनां मूलं कारणम् एते सर्वे तावत् कार्त्स्न्येन तावद् भवच्-चरणारविन्द-प्रवणावधि अनुवर्तन्त इत्य् अर्थः । त्वच्-चरण-वरणेन तु सांसारिक-भयादि-निवृत्त्या-ऽऽविर्भूतापहतपाप्मत्वादि-गुणाष्टक-विशिष्टः कृतार्थो भवति इत्य् अभिप्रायः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

दैवेन ते हतधियो भवतः प्रसङ्गात्-
सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये।
कुर्वन्ति कामसुखलेशलवाय दीना
लोभाभिभूतमनसोऽकुशलानि शश्वत्॥

मूलम्

दैवेन ते हतधियो भवतः प्रसङ्गात्सर्वाशुभो4पशमनाद्विमुखेन्द्रिया ये।
कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभूतमनसोऽकुशलानि शश्वत्॥ ७ ॥

अनुवाद (हिन्दी)

जो लोग सब प्रकारके अमंगलोंको नष्ट करनेवाले आपके श्रवण-कीर्तनादि प्रसंगोंसे इन्द्रियोंको हटाकर लेशमात्र विषय-सुखके लिये दीन और मन-ही-मन लालायित होकर निरन्तर दुष्कर्मोंमें लगे रहते हैं, उन बेचारोंकी बुद्धि दैवने हर ली है॥ ७॥

वीरराघवः

एवं भगवतो भक्त्य्-एकलभ्यत्वम् अभिधाय यो ऽनादृतो नरकभाग्भिर् असत्-प्रसङ्गैर् इति प्रस्तुतान् विषय-लालसान् निन्दंस् तान् एव शोचति दैवेनेति द्वाभ्याम् । सर्वाशुभोपशमनात् सर्वाण्य्-अशुभानि भय-शोकादीनि उपशाम्यन्ते ऽनेनेति तथाभूताद् भगवतस् तव प्रसङ्गाद् दर्शन-श्रवणादि-रूपाद् विमुखानीन्द्रियाणि चक्षुःश्रोत्रादीनि येषां ते अकुशलान्य् अक्षेमकराणि कर्माणि शश्वन्-निरन्तरं कामसुखानि शब्दादि-विषय-सुखानि तेषां लवाय लोभेन तृष्णातिशयेनाभिभूतं मनो येषां ते । अत एव दीनाः क्षुद्राः कुर्वन्ति ते दैवेन हताः प्रतिहता धियो येषां ते तथोक्ताः मन्दभाग्या इत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः
शीतोष्णवातवर्षैरितरेतराच्च।
कामाग्निनाच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मन उरुक्रम सीदते मे॥

मूलम्

क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः शीतोष्णवातवर्षैरितरेतराच्च।
कामाग्निनाच्युत रुषा च सुदुर्भरेण सम्पश्यतो मन उरुक्रम सीदते मे॥ ८ ॥

अनुवाद (हिन्दी)

अच्युत! उरुक्रम! इस प्रजाको भूख-प्यास, वात, पित्त, कफ, सर्दी, गरमी, हवा और वर्षासे, परस्पर एक-दूसरेसे तथा कामाग्नि और दुःसह क्रोधसे बार-बार कष्ट उठाते देखकर मेरा मन बड़ा खिन्न होता है॥ ८॥

वीरराघवः

क्षुत्तृड्-इत्यादि । क्षुद् अशनाया तृट् पिपासा इमे शोक-मोह-जरा-मृत्यूनाम् अप्य् उपलक्षणं क्षुधादि-षड्-ऊर्मिभिस् त्रि-धातवः वात-पित्त-श्लेष्माणः तैश् च तथा शीतादिभिः इतरेतरैः परस्परैश् च कामाग्निना काम एवाग्निस् तेन कथंभूतेन सुदुर्भरणाच्युतरूपा चाविच्युतक्रोधेन अच्युतेति सम्बोधनं वा । एतैर् मुहुः पुनः पुनरर्द्यमानाः प्रजाः सम्पश्यतो मे मनः हे उरुक्रम ! सीदते क्लिश्यति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-
मायाबलं भगवतो जन ईश पश्येत्।
तावन्न संसृतिरसौ प्रतिसंक्रमेत
व्यर्थापि दुःखनिवहं वहती क्रियार्था॥

मूलम्

यावत्पृथ5क्त्वमिदमात्मन इन्द्रियार्थ मायाबलं भगवतो जन ईश पश्येत्।
तावन्न संसृतिरसौ प्रतिसंक्रमेत व्यर्थापि6 दुःखनिवहं वहती क्रियार्था॥ ९ ॥

अनुवाद (हिन्दी)

स्वामिन्! जबतक मनुष्य इन्द्रिय और विषयरूपी मायाके प्रभावसे आपसे अपनेको भिन्न देखता है, तबतक उसके लिये इस संसारचक्रकी निवृत्ति नहीं होती। यद्यपि यह मिथ्या है, तथापि कर्मफल भोगका क्षेत्र होनेके कारण उसे नाना प्रकारके दुःखोंमें डालता रहता है॥ ९॥

वीरराघवः

असदवग्रह आर्तिमूलम् इति देहात्मभ्रमस्यार्तिमूलत्वम् उक्तम् उपपादयति यावद् इति द्वाभ्यां भगवतस् तव मायायाः बलं बलकारितम् इन्द्रियार्थे बाह्येन्द्रियविषयभूते पृथक्त्वं देवमनुष्यादिदेहगतपृथक्त्वम् आत्मनः आत्मसम्बन्धितया जनः यावत् पश्येत् हे ईश तावद्-असौ संसृतिः न प्रतिसंक्रमेत न निवर्तेत । न केवलम् अनिवृत्तिर् एव किन्तु क्रियार्था क्रिया ऽर्थः प्रयोजनं यस्याः सा क्रियार्था संसृतिः व्यर्था परम-पुरुषार्थ-शून्यापि दुःख-निवहं दुःख-समूहं वहति प्रापयति अहङ्कार-मूला संसृतिर् उत्तरोत्तर-कर्मान्तर-हेतुस् तस्मान् मोक्ष-विरोधिनी दुःखवहा चेत्य् अर्थः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अह्‍न्यापृतार्तकरणा निशि निःशयाना
नानामनोरथधिया क्षणभग्ननिद्राः।
दैवाहतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति॥

मूलम्

अह्‍न्यापृतार्तकरणा निशि निःशयाना नानामनोरथधिया क्षणभग्ननिद्राः।
दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति॥ १० ॥

अनुवाद (हिन्दी)

देव! औरोंकी तो बात ही क्या—जो साक्षात् मुनि हैं, वे भी यदि आपके कथाप्रसंगसे विमुख रहते हैं तो उन्हें संसारमें फँसना पड़ता है। वे दिनमें अनेक प्रकारके व्यापारोंके कारण विक्षिप्तचित्त रहते हैं, रात्रिमें निद्रामें अचेत पड़े रहते हैं; उस समय भी तरह-तरहके मनोरथोंके कारण क्षण-क्षणमें उनकी नींद टूटती रहती है तथा दैववश उनकी अर्थसिद्धिके सब उद्योग भी विफल होते रहते हैं॥ १०॥

वीरराघवः

अह्नीति । अह्न्यापृतार्थकरणा अहनि व्यापृतान्यर्थकरणानि शब्दादिविषयेन्द्रियाणि येषान् ते आर्तेति पाठे व्यापृतान्य् आर्त्तानि दुःखितानि करणानि येषां ते इत्य् अर्थः । निशि रात्रौ निःशयानाः नितरां शयाना निवृत्त-बाह्येन्द्रिय-व्यापाराः विषय-सुखलवो ऽपि नास्तीत्य् अभिप्रायः, नाना-भूतेषु मनोरथेषु धिया स्वप्न-दर्शनेनेत्य् अर्थः । क्षणे क्षणे भग्ना निद्रा येषां ते दैवाहतार्थरचनाः दैवेन-आहता वितथीकृताः अर्थरचनाः प्रयोजन-विषय-व्यापारा येषां ते ऋषयो ऽपि त्वद्-भक्ति-रहिताश् चेद् एवंविधा भूत्वा संसरन्तीत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

त्वं भावयोगपरिभावितहृत्सरोज
आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम्।
यद्यद्धिया त उरुगाय विभावयन्ति
तत्तद्वपुः प्रणयसे सदनुग्रहाय॥

मूलम्

त्वं भावयोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम्।
यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे स7दनुग्रहाय॥ ११ ॥

अनुवाद (हिन्दी)

नाथ! आपका मार्ग केवल गुणश्रवणसे ही जाना जाता है। आप निश्चय ही मनुष्योंके भक्तियोगके द्वारा परिशुद्ध हुए हृदयकमलमें निवास करते हैं। पुण्यश्लोक प्रभो! आपके भक्तजन जिस-जिस भावनासे आपका चिन्तन करते हैं, उन साधु पुरुषोंपर अनुग्रह करनेके लिये आप वही-वही रूप धारण कर लेते हैं॥ ११॥

वीरराघवः

एवं देहात्ममानिनां भगवद्-भक्ति-विधुराणां संसृत्य् अनिवृत्त्य्-अभिधाने भक्त्येकलभ्यत्वम् एव सुदृढय्य निष्कामेषु उपासकेषु भगवत्-सौलभ्यम् आह त्वम् इति द्वाभ्याम् । हे नाथ ! पुंसां स्वभक्तानां भावयोगो भक्तियोगः तेन परिभाविते शोधिते हृत्सरोजे हृदय-कमले श्रुतेक्षितपथः श्रुतं शास्त्रजन्यं ज्ञानम् ईक्षितं विवेकादिजन्यम् उपासनात्मकम् ईक्षितम् इति भावे क्तः श्रुतेक्षिते पन्थाः उपायो यस्य प्राप्तो स श्रुतेक्षितपथः शास्त्रदर्शितमार्गः एवंभूतस् त्वम् आस्से तिष्ठसि । हे उरुगाय ! ते स्वपुमांसः धिया तव ते यद् यद् वपुर् ध्यायन्ति तद्-वपुः सत्स्व् अनुग्रहाय प्रणयसे प्रकटयसे यादृश-विग्रह-विशिष्टं त्वां विशेषतो भावयन्ति तादृश-विग्रह-विशिष्टो भवतीत्य् अर्थः । अनेन सौलभ्यम् उक्तम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

नातिप्रसीदति तथोपचितोपचारै-
राराधितः सुरगणैर्हृदि बद्धकामैः।
यत्सर्वभूतदययासदलभ्ययैको
नानाजनेष्ववहितः सुहृदन्तरात्मा॥

मूलम्

नातिप्रसीदति तथोपचितोपचारैराराधितः सुरगणैर्हृदि बद्धकामैः।
यत्सर्वभूतदययासदलभ्ययैको नानाजनेष्ववहितः सुहृदन्तरात्मा॥ १२ ॥

अनुवाद (हिन्दी)

भगवन्! आप एक हैं तथा सम्पूर्ण प्राणियोंके अन्तःकरणोंमें स्थित उनके परम हितकारी अन्तरात्मा हैं। इसलिये यदि देवतालोग भी हृदयमें तरह-तरहकी कामनाएँ रखकर भाँति-भाँतिकी विपुल सामग्रियोंसे आपका पूजन करते हैं, तो उससे आप उतने प्रसन्न नहीं होते जितने सब प्राणियोंपर दया करनेसे होते हैं। किन्तु वह सर्वभूतदया असत् पुरुषोंको अत्यन्त दुर्लभ है॥ १२॥

वीरराघवः

निष्कामानाम् एव भवान् सुलभ इत्य्-आह नेति । सुरगणैर् अनुकूलजनैः “विष्णुभक्तिपरो देवो विपरीतस् तथासुर” इति वचनात् कथंभूतैः हृदि बद्धकामैः प्रसक्तकामैः सकामा ऽपि भगवद्भक्तिर् आसुरप्रकृतीनां न सम्भवतीत्य् अभिप्रायः । एवंभूतैः सुरगणैः कर्त्तृभिः उपचितोपचारैः पुष्कलोपचारैर् आराधितो भवान् नातिप्रसीदति नात्यन्तं प्रसन्नो भवसि निरतिशय-मोक्ष-सुखप्रदो न भवसीत्य् अर्थः । कुत इत्य् अत आह । यद् यस्माद् असद्लभ्यया असद्भिर् देहम् आत्मतया-ऽनुसन्दधद्भिर् लब्धुम् अशक्यया सर्वभूतदयया सर्वेषु भूतेष्व् आत्मतया-ऽस्थिते सति त्वयि कस्मिन्न् अपि भूते कृतो द्रोहस् त्वय्य् एव कृतो भवतीति बुद्ध्या सर्वेषु भूतेषु क्रियमाणया स्वार्थनिरपेक्ष-परदुःख-निराचिकीर्षा-परपर्यायया दयया भवान् प्रसीदति सर्वभूतानाम् ईश्वरशरीरत्वानुसंधानपराणाम् एव सुलभ इति भावः । शरीरात्मभावम् एवोपपादयति नानाजनेषु समस्तजनेषु अवहितः स्थितः कथम् अवस्थितः अन्तरात्मा जीवान्तःप्रवेशने ऽपि तद्-गतदोषैर् अस्पृष्टः प्रशासितृत्वेन धारकत्वेन च स्थितः । अत एव सुहृत् कामनपूर्वक-यज्ञादिकर्मणा ऽपि सर्वभूतदया त्वत्-प्रसादहेतुर् इत्य् अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

पुंसामतो विविधकर्मभिरध्वराद्यै-
र्दानेन चोग्रतपसा व्रतचर्यया च।
आराधनं भगवतस्तव सत्क्रियार्थो
धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र॥

मूलम्

पुंसामतो विविधकर्मभिरध्वराद्यैर्दानेन चोग्रतपसा व्रतचर्यया च।
आराधनं भगवतस्तव सत्क्रियार्थो धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र॥ १३ ॥

अनुवाद (हिन्दी)

जो कर्म आपको अर्पण कर दिया जाता है, उसका कभी नाश नहीं होता—वह अक्षय हो जाता है। अतः नाना प्रकारके कर्म—यज्ञ, दान, कठिन तपस्या और व्रतादिके द्वारा आपकी प्रसन्नता प्राप्त करना ही मनुष्यका सबसे बड़ा कर्मफल है, क्योंकि आपकी प्रसन्नता होनेपर ऐसा कौन फल है जो सुलभ नहीं हो जाता॥ १३॥

वीरराघवः

यतो ऽभिसंहितफलैर् उपचारैर् नातिप्रसन्नः अत एव सत्-कर्मणाम् ईश्वराराधनवेषेणानुष्ठानं कार्यम् इत्य् आह पुंसाम् इति । अतो ऽभिसंहितफलानां कर्मणाम् ईश्वराप्रसत्तिहेतुत्वात् सर्वात्मक-ब्रह्मोपासनस्यैव तत्-प्रसादहेतुत्वाच् च हेतोः पुंसां भगवन्तम् आराधयितॄणां सम्बन्धिभिर्-अध्वराद्यैर् यज्ञादिभिः नानाविध-श्रौत-स्मार्त्त-कर्मभिर् दानादयः प्रदर्शनार्थाः तपः-कृच्छ्र-चान्द्रायणादि-व्रतचर्या-व्रतानुष्ठानम् एभिर् भगवतस् तव यद् आराधनं तत्-सत्-क्रियार्थः सत्-क्रियाणां सत्-कर्मणाम् अर्थः प्रयोजनं त्वद्-आराधनैक-प्रयोजनवेषेण सर्वाणि कर्माण्य् अनुष्ठेयानीत्य् अर्थः । एवं-विध-कर्मानुष्ठानस्याक्षयिष्णु-फल-साधनत्वम् आह । धर्मः यज्ञादि-रूपः यत्र यस्मिंस् त्वय्य् अर्पितः त्वत्-सत्कारैक-प्रयोजनः न तु स्वर्गादिफलद इति बुद्ध्या त्वय्य् अर्पितः कहिर्चित् कदाचित् कथञ्चिद् अपि न म्रियते न विनश्यति भगवद्-उपासनद्वारा नित्यपुरुषार्थहेतुर् भवतीत्य् अर्थः । तथा च गीतं भगवता “नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात्” इति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

शश्वत्स्वरूपमहसैव निपीतभेद-
मोहाय बोधधिषणाय नमः परस्मै।
विश्वोद‍्भवस्थितिलयेषु निमित्तलीला-
रासाय ते नम इदं चकृमेश्वराय॥

मूलम्

शश्वत्स्वरूपमहसैव निपीतभेदमोहाय बोधधिष8णाय नमः परस्मै।
विश्वोद‍्भवस्थितिलयेषु निमित्तलीलारासाय ते नम इदं चकृमेश्वराय॥ १४ ॥

अनुवाद (हिन्दी)

आप सर्वदा अपने स्वरूपके प्रकाशसे ही प्राणियोंके भेद-भ्रमरूप अन्धकारका नाश करते रहते हैं तथा ज्ञानके अधिष्ठान साक्षात् परमपुरुष हैं; मैं आपको नमस्कार करता हूँ। संसारकी उत्पत्ति, स्थिति और संहारके निमित्तसे जो मायाकी लीला होती है, वह आपका ही खेल है; अतः आप परमेश्वरको मैं बार-बार नमस्कार करता हूँ॥ १४॥

वीरराघवः

एवम् अनभिसंहित-फल-कर्म-योगस्य भगवद्-आराधन-रूपस्याक्षय-फल-साधनत्वम् अभिधाय तस्यैव प्रकृति-विविक्तात्म-याथात्म्य-ज्ञान-पूर्वकानुष्ठेयत्वम् उभयोर् अपि भगवद्-उपासनाङ्गत्वम् उपासनस्य कारण-विषयत्वं चाभिप्रयन् नमस्करोति शश्वद् इति । शश्वत् सदा स्वरूपमहसैव प्रकृति-विविक्तात्म-स्वरूप-याथात्म्य-ज्ञानेनैव भेदः देव-मनुष्यादि-भेदः मोहः देहात्म-भ्रमादि-निमित्तम् अज्ञानम्, आदि-शब्देन तत्-प्रयुक्त-शोकादयो विवक्षिताः, निरस्ता भेदादयो येषां योगिनां तेषु यो ऽवबोधः स्व-स्वरूप-विषयकं ज्ञानं धिषणा भगवद्-उपासनात्मिका बुद्धिः, एते स्वप्राप्त्युपायभूते यस्य तस्मै प्रकृति-विविक्तात्म-स्वरूप-याथात्म्य-ज्ञान-निरस्त-भेद-मोह-प्रभृति-सांसारिक-धर्म-योग्युपहृत-ज्ञानयोग-कर्मयोगाङ्गकोपासनाविषय-भूतायेत्य् अर्थः । यद् वा चतुर्थ्यन्तपाठे स्वरूपाविर्भावेन स्वस्मिन्न् असंस्पृष्ट-देव-मनुष्यादि-भेद-रूप-मोहाय अन्तरात्मतयावस्थितस्याप्य् अनात्मगतदोषास्पृष्टायेत्य् अर्थः । अत एव परस्मै प्रकृति-पुरुष-विलक्षणाय तत्र हेतुः विश्वस्य जगतः स्थितिलयेषु निमित्तभूता या लीला क्रीडा तस्या रागो रसो यस्य तस्मै ईश्वराय नियन्त्रे प्रकृतिपुरुषयोर् असम्भावित-स्वलीलैक-प्रयोजन-जगद्-व्यापारायेत्य् अर्थः । अनेन प्रकृति-पुरुष-विलक्षण-तन्-नियन्तृ-जगत्कारण-विषयक-उपासनम् एव मुक्ति-साधनम् इत्य् अभिप्रेतम् । एवंभूताय ते तुभ्यं नमश्चकुर्महे नमः करवाम ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति।
ते नैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतमृतं तमजं प्रपद्ये॥

मूलम्

यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति।
ते नैकजन्मशम9लं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये॥ १५ ॥

अनुवाद (हिन्दी)

जो लोग प्राणत्याग करते समय आपके अवतार, गुण और कर्मोंको सूचित करनेवाले देवकीनन्दन, जनार्दन, कंसनिकन्दन आदि नामोंका विवश होकर भी उच्चारण करते हैं, वे अनेकों जन्मोंके पापोंसे तत्काल छूटकर मायादि आवरणोंसे रहित ब्रह्मपद प्राप्त करते हैं। आप नित्य अजन्मा हैं, मैं आपकी शरण लेता हूँ॥ १५॥

वीरराघवः

ननु परिपूर्णस्यावाप्तसमस्तकामस्य लीलार्थम् अपि जगद्-व्यापारो नोपपद्यत इत्य् आशङ्क्य भवभयाभितप्त-सांसारिक-जीवानुजिघृक्षया सङ्घटते इत्य् अभिप्रयंस् तद्-अवतारगुणकर्मणाम् अनुवचनस्य तत्-प्राप्त्युपायताम् आविष्कुर्वञ्च् छरणं व्रजति यस्येति । यस्य तवावतार-गुण-कर्मणां विडम्बनान्य् अनुकरणानि देवकीनन्दन दाशरथे सर्वज्ञ भक्तवत्सल गोवर्द्धनधर कंसारे रावणान्तक इत्य् आदीन्य् असुविगमे प्राणोत्क्रमणकाले विवशाः परवशाः अपि ये गृणन्त्य् उच्चारयन्ति ते ऽनेकजन्मार्जितं शमलं पुण्य-पापरूपं सहसा अचिरेण हित्वा विधूयापावृतं निरस्तावरणम् ऋतं ब्रह्म संयान्ति प्राप्नुवन्ति तम् अजं कर्मायत्तोत्पत्त्यादिरहितं त्वां शरणम् उपायं प्रपद्ये ऽध्यवस्यामि । अनेन भक्त्या-ऽसुविगमानुस्मरणादीनां तत्-प्रसत्तिमात्रहेतुत्वम् उपायत्वं तु भगवत एवेत्य् अभिप्रेतम् । तथा च श्रूयते “अमृतस्यैष सेतुर्” इति सेतुः प्रापकः स्वकीयावतार-गुण-कर्म-प्रतिपादक-नामाद्यनुस्मरणादिना निस्तरेयुर् इत्य् अनुजिघृक्षयैव भगवतो जगद्-व्यापार इति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यो वा अहं च गिरिशश्च विभुः स्वयं च
स्थित्युद‍्भवप्रलयहेतव आत्ममूलम्।
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोह-
स्तस्मै नमो भगवते भुवनद्रुमाय॥

मूलम्

यो वा अहं च गिरिशश्च विभुः स्वयं च स्थित्युद‍्भवप्रलयहेतव आत्ममूलम्।
भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस्तस्मै नमो भगवते भुवनद्रुमाय॥ १६ ॥

अनुवाद (हिन्दी)

भगवन्! इस विश्ववृक्षके रूपमें आप ही विराजमान हैं। आप ही अपनी मूलप्रकृतिको स्वीकार करके जगत‍्की उत्पत्ति, स्थिति और प्रलयके लिये मेरे, अपने और महादेवजीके रूपमें तीन प्रधान शाखाओंमें विभक्त हुए हैं और फिर प्रजापति एवं मनु आदि शाखा-प्रशाखाओंके रूपमें फैलकर बहुत विस्तृत हो गये हैं। मैं आपको नमस्कार करता हूँ॥ १६॥

वीरराघवः

भवतु भगवद्-गुणकीर्तनादेस् तत्-प्राप्त्युपायत्वम् अथापि सृष्ट्यादिव्यापाराणां चतुर्मुखादिकर्तृकत्वश्रवणात् कथं विश्वोद्भव-स्थिति-लयेषु निमित्तलीलारासायेत्य् उक्तम् अत आह य इति । प्रथमम् एकः अविभक्त-नामरूपः स्थित्य्-उद्भव-प्रलयानां हेतवः कर्तारः स्वयं विभुर् भगवान् अहं ब्रह्मा गिरीशो रुद्रश् च यो वै भगवान् एवेत्य् अर्थः हिरण्यगर्भरुद्र-तन्-मध्यवर्त्य्-अवताररूपवान् इत्य् अर्थः । स्वयम् इत्य् अनेन स्थितिं स्वावतार-रूपेण सृष्टि-संहारौ ब्रह्मरूद्राख्यजीवान्तःप्रवेशेन करोतीति द्योतितं सृष्टिं ततः करिष्यामीति स्मरणात् । स्थित्य्-उद्भव-प्रलयहेतवे इति चतुर्थ्यन्तं वा भावप्रधानो निर्देशः स्थित्यादिकर्तृत्वाय हिरण्यगर्भ-रुद्र-स्वावतारतया भूत्वेत्य् अर्थः आत्ममूलम् आत्मैव मूलं यस्य तद् आत्ममूलम् अकार्यम् इत्य् अर्थः एवंभूतां हि त्रिपाद्-विभूतिं हित्वा-ऽतीत्य भित्त्वेत्य् अपि पाठे ऽयम् एवार्थः । यद् वा स्थित्यादिहेतुभूत-स्वावतारादिरूपेण त्रि-स्कन्धः आत्ममूलं प्रधानं भित्त्वा महदादिसमष्टिप्रभृति-व्यष्टिपर्यन्तं परिणमय्य उरुप्ररोहः देव-तिर्यङ्-मनुष्य-स्थावरादिरूपाः शाखोपशाखाः पत्र-पुष्प-फलादयो यस्य स एवंभूतो यः प्रववृधे तस्मै भुवन-द्रुमाय भुवनाकार-द्रुमाय भगवते नमः । हिरण्य-गर्भादि-रूपेण सृष्ट्यादिव्यापारस् त्वयैव क्रियत इत्य् अभिप्रायः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

लोको विकर्मनिरतः कुशले प्रमत्तः
कर्मण्ययं त्वदुदिते भवदर्चने स्वे।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै॥

मूलम्

लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्य10यं त्वदुदिते भवदर्चने स्वे।
यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै॥ १७ ॥

अनुवाद (हिन्दी)

भगवन्! आपने अपनी आराधनाको ही लोकोंके लिये कल्याणकारी स्वधर्म बताया है, किन्तु वे इस ओरसे उदासीन रहकर सर्वदा विपरीत (निषिद्ध) कर्मोंमें लगे रहते हैं। ऐसी प्रमादकी अवस्थामें पड़े हुए इन जीवोंकी जीवन-आशाको जो सदा सावधान रहकर बड़ी शीघ्रतासे काटता रहता है, वह बलवान् काल भी आपका ही रूप है; मैं उसे नमस्कार करता हूँ॥ १७॥

वीरराघवः

एवं “मूर्ध्वमूलम् अधःशाखम्” इत्य्-आदिना निरूपितवृक्षं भगवन्तम् आकारान्तरेण वृक्षरूपं नमस्कृत्य तस्य भक्तानुग्राहकत्वम् एवाह लोक इति । यो भगवान् त्वद्-उदिते वेदात्मिकया वाचा त्वया गदिते भगवद्-आराधनरूपे स्वे स्ववर्णाश्रमोचिते कुशले क्षेमकरे कर्मणि यो ऽयं लोकः अप्रमत्तः प्रमादरहितः अविकर्मनिरतः विकर्म असत् कर्म अतन्निरतश् च भवति तस्य लोकस्य जीविताशां संसारश्रद्धां सद्यः अचिरेण छिनत्ति । कुतः बलवान् सर्वशक्तित्वाद् इत्य् अर्थः, तस्मै सर्वशक्तये अनिमिषाय वैराग्योत्पादनावसरापेक्षाय भगवते तुभ्यं नमो ऽस्तु स्तात् । अनभिसंहितफल-स्ववर्णाश्रमोचित-धर्मैर् आराधयतां सांसारिकधर्मश्रद्धां विधुन्वन् वैराग्योत्पादनेनानुगृह्णाति इत्य् अर्थः । यद् वा विकर्मनिरतः प्रमत्त इत्य् एव च्छेदः अत्र व्यतिरेकमुखेन भक्तानुग्राहकत्वम् आह विकर्मसु स्वरूपाननुबन्धिषु अहं-ममाभिमानगर्भेषु वैषयिकसुखसाधनेषु त्वद्-आराधनरूपे तु कर्मणि यो लोकः प्रमत्तः तस्याभक्तलोकस्य जीविताशां जीवनेच्छां कालशरीरको यो भगवान् छिनत्ति तस्मै अनिमिषाय कालरूपिणे नमः । अनेन भक्तानुग्राहकत्वम् अर्थसिद्धं स्वानुरूप-भगवद्-आराधनरूप-कर्मभिर् आराधितो भगवान् उपासकानां निवृत्तये निरतिशय-मोक्षाख्य-फलं प्रयच्छतीत्य् उक्तम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

यस्माद‍्बिभेम्यहमपि द्विपरार्धधिष्ण्य-
मध्यासितः सकललोकनमस्कृतं यत्।
तेपे तपो बहुसवोऽवरुरुत्समान-
स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम्॥

मूलम्

यस्माद‍्बिभेम्यहमपि द्विपरार्धधिष्ण्यमध्यासितः सकललोकनमस्कृतं यत्।
तेपे तपो बहुसवो11ऽवरुरुत्समानस्तस्मै नमो भगवतेऽधिमखाय तुभ्यम्॥ १८ ॥

अनुवाद (हिन्दी)

यद्यपि मैं सत्यलोकका अधिष्ठाता हूँ, जो दो परार्द्धपर्यन्त रहनेवाला और समस्त लोकोंका वन्दनीय है, तो भी आपके उस कालरूपसे डरता रहता हूँ। उससे बचने और आपको प्राप्त करनेके लिये ही मैंने बहुत समयतक तपस्या की है। आप ही अधियज्ञरूपसे मेरी इस तपस्याके साक्षी हैं, मैं आपको नमस्कार करता हूँ॥ १८॥

वीरराघवः

इमम् एवार्थं स्वदृष्टान्तेन द्रढयन् नमस्करोति यस्माद् इति । यद् द्विपरार्धधिष्ण्यं द्विपरार्धकालस्थायिस्थानं सत्याख्यलोकं कथंभूतं सकललोकनमस्कृतं सकलैर् अर्वाचीनलोकैर् नमस्कृतं सम्मानितम् अध्यासित आरूढो ऽप्य् अहं यस्मात् कालशरीरकात् त्वत्तः बिभेमि “भीषास्माद् वातः पवत” इत्य् उक्त-रीत्या त्वद्-अधीनः स्वाधिकारे ऽप्रमत्तो ऽहम् अपीदम् अपि धिष्ण्यं द्विपरार्धावसाने विनङ्क्ष्यतीति बिभेमि भीतः सन् यं त्वाम् एवावरुरुत्समानः अवरोद्धुम् इच्छन् प्रेप्सुर् इत्य् अर्थः बहुसवः बहवः सवास् त्वद्-आराधनरूपा यागा यस्य सः एवंभूतस् तपस् तेपे करोमि, पाकं पचतीतिवन् निर्देशः तस्मै भगवते ऽधिमखाय मखाराध्याय मखफलप्रदात्रे च नमः “अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।” इति गीतत्वात् । विसखायेति पाठान्तरं तदा त्व् असहायायेत्य् अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तिर्यङ्‍मनुष्यविबुधादिषु जीवयोनि-
ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः।
रेमे निरस्तरतिरप्यवरुद्धदेह-
स्तस्मै नमो भगवते पुरुषोत्तमाय॥

मूलम्

तिर्यङ्‍मनुष्यविबुधादिषु जीवयोनिष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः।
रेमे निरस्तरतिरप्यवरुद्धदेहस्तस्मै नमो भगवते पुरुषोत्तमाय॥ १९ ॥

अनुवाद (हिन्दी)

आप पूर्णकाम हैं, आपको किसी विषयसुखकी इच्छा नहीं है, तो भी आपने अपनी बनायी हुई धर्ममर्यादाकी रक्षाके लिये पशु-पक्षी, मनुष्य और देवता आदि जीवयोनियोंमें अपनी ही इच्छासे शरीर धारण कर अनेकों लीलाएँ की हैं। ऐसे आप पुरुषोत्तमभगवान‍्को मेरा नमस्कार है॥ १९॥

वीरराघवः

एवं नमः परस्मा इत्यादिना परत्वभक्तानुग्राहकत्वादिविशिष्टं भगवन्तं नमस्कृत्य परत्वप्रयुक्तोपास्यत्वनिर्वाहक-सौशील्य-सौलभ्य-गुणविशिष्टं नमस्करोति तिर्यग्-इत्यादिना । सौशील्यं हि महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभाववत्त्वं सौलभ्यं नाम स्वतो वाङ्-मनसागोचरस्य सकलमनुजनयनविषयतां गतत्वम्, एतद् द्वयं सुपास्यत्वापादकम् अवतारकथनेनोपपादयति तिर्यग्-आदिषु जीवयोनिष्व् आत्मेच्छया आत्मीयसङ्कल्पेनैव न तु कर्मणेत्य् अर्थः । अवरुद्धदेहः स्वीकृतमूर्तिः रेमे किम् अर्थम् आत्मकृत-सेतुपरिप्लवाय स्वकृतमर्यादानां परिप्लवाय उन्मज्जनाय रक्षणायेत्य् अर्थः । परीप्सयेति पाठे अध्ययनेन वसतीतिवद् धेत्वर्थे तृतीया, परीप्सा रिरक्षा तद्-अर्थम् इत्य् अर्थः । स्वयं कथंभूतो ऽपि निरस्तरतिर् अपि निरतिशयानन्द-स्वस्वरूपानुभवेनैव कदाचिद् अप्य् अस्पृष्टवैषयिकसुखो ऽपि रेमे तिर्यग्-आदिसजातीयचेष्टितानि कुर्वन् रेमे, तिर्यक्ष्व् अवतारा मत्स्य-कूर्म-वराह-हंसादयः मनुष्येषु राम-कृष्णादयः विबुधेषु वामनादयः एवं स्वसङ्कल्पेनैव स्वस्वभावम् अजहद् एव तत्तद्योनिष्व् अवतीर्य तत्-सजातीय-दिव्यचेष्टितानि कुर्वन् नरोद्धवमालाकार-गुह-शबरी-प्रमुखान् अनवधिकदया-सौहार्दगर्भानुराग-भावावलोकनामृतदानेनाप्याययन् सकलमनुष्यनयनविषयतां प्राप्नोषीत्य् अभिप्रायः । एवंभूताय भगवते पुरुषोत्तमाय त्रिविध-चेतनाचेतनविलक्षणाय ते नमः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या
निद्रामुवाह जठरीकृतलोकयात्रः।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन्॥

मूलम्

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या निद्रामुवाह जठरीकृतलोकयात्रः।
अन्तर्जलेऽहिकशिपुस्पर्शानु12कूलां भीमोर्मिमालिनि जनस्य सुखं विवृण्वन्॥ २० ॥

अनुवाद (हिन्दी)

प्रभो! आप अविद्या, अस्मिता, राग, द्वेष और अभिनिवेश—पाँचोंमेंसे किसीके भी अधीन नहीं हैं; तथापि इस समय जो सारे संसारको अपने उदरमें लीनकर भयंकर तरंगमालाओंसे विक्षुब्ध प्रलयकालीन जलमें अनन्तविग्रहकी कोमल शय्यापर शयन कर रहे हैं, वह पूर्वकल्पकी कर्मपरम्परासे श्रमित हुए जीवोंको विश्राम देनेके लिये ही है॥ २०॥

वीरराघवः

एवं स्वरूप-गुण-विभूति-विशिष्टं भगवन्तं नमस्कृत्याथ स्वमनीषितं विजिज्ञापयिषुस् तात्कालिकं परिदृश्यमानम् अनिरुद्धरूपं प्रस्तुवन् नमस्करोति द्वाभ्यां यो ऽविद्ययेति । दशार्धाः पञ्चवृत्तयो यस्यास् तया तामिस्रान्धतामिस्र-मोह-महामोहतमोरूपाः पचाविद्यावृत्तयः, वृक्ष-गुल्म-लता-वीरुत्-तृणगताः पञ्चपर्वा-ज्ञानवृत्तयः तमोमोहादय इति केचित्, जाग्रत्-स्वप्न-सुषुप्ति-मूर्च्छा-मरणेष्व् अज्ञानवृत्तय इति केचित्, एवंभूतया-ऽविद्यया निद्राहेतुभूतया-ऽनुपहतो ऽप्य् अनभिभूतो ऽपि योगनिद्राम् उवाह प्राप्तवान् तस्मै नम इत्य् उत्तरेणान्वयः । कथंभूत उवाह जठरीकृतलोकयात्रः उदरनिवेशितजगद्-वृत्तान्तः, अहिर् अनन्त एव कशिपुः शय्या तया स्पर्शो ऽनुकूलो यस्यास् तां निद्रां भीमानाम् ऊर्मीणां माला विद्यन्ते यस्मिन्न् अन्तर्जले निद्राणस्य जनस्याविवेकिनो जनस्य निद्रासुखम् ईदृग् इति विवृण्वन् प्रदर्शयन्न् इवेत्य् अर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यन्नाभिपद्मभवनादहमासमीड्य
लोकत्रयोपकरणो यदनुग्रहेण।
तस्मै नमस्त उदरस्थभवाय योग-
निद्रावसानविकसन्नलिनेक्षणाय॥

मूलम्

यन्नाभिपद्मभवनादहमासमीड्य लोकत्रयोपकरणो यदनुग्रहेण।
तस्मै नमस्त उदरस्थभवाय योगनिद्रावसानविकसन्नलिनेक्षणाय॥ २१ ॥

अनुवाद (हिन्दी)

आपके नाभिकमलरूप भवनसे मेरा जन्म हुआ है। यह सम्पूर्ण विश्व आपके उदरमें समाया हुआ है। आपकी कृपासे ही मैं त्रिलोकीकी रचनारूप उपकारमें प्रवृत्त हुआ हूँ । इस समय योगनिद्राका अन्त हो जानेके कारण आपके नेत्रकमल विकसित हो रहे हैं, आपको मेरा नमस्कार है॥ २१॥

वीरराघवः

किं च यस्य नाभि-पद्मम् एव भवनं तस्माल् लोकत्रयोपकरणः लोकत्रयम् उपकरणं यस्य स लोकत्रयोपकरणः त्रैलोक्यपतिर् इत्य् अर्थः । एवंभूतो ऽहं यद्-अनुग्रहेण यस्य भगवतो ऽनुग्रहेण आसम् आविर्-अभवं तस्मै उदरस्थ-भवाय उदरस्थः भवः कार्य-वर्गो यस्य तस्मै योगनिद्रावसाने विकसन्-नलिनवद्-ईक्षणं यस्य तस्मै नम इत्य् अर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

सोऽयं समस्तजगतां सुहृदेक आत्मा
सत्त्वेन यन्मृडयते भगवान् भगेन।
तेनैव मे दृशमनुस्पृशताद्यथाहं
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ॥

मूलम्

सोऽयं समस्तजगतां सुहृदेक आत्मा सत्त्वेन यन्मृडयते भगवान् भगेन।
तेनैव मे दृशमनुस्पृशताद्यथाहं स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ13॥ २२ ॥

अनुवाद (हिन्दी)

आप सम्पूर्ण जगत‍्के एकमात्र सुहृद् और आत्मा हैं तथा शरणागतोंपर कृपा करनेवाले हैं। अतः अपने जिस ज्ञान और ऐश्वर्यसे आप विश्वको आनन्दित करते हैं, उसीसे मेरी बुद्धिको भी युक्त करें—जिससे मैं पूर्वकल्पके समान इस समय भी जगत‍्की रचना कर सकूँ॥ २२॥

वीरराघवः

एवं स्तुत्वा मनीषितानि प्रार्थयते सो ऽयम् इत्य्-आदिभिश्चतुर्भिः । समस्तजगतां चेतनाचेतनानाम् आत्मा अत एव सुहृत् सो ऽयं भगवान् येन सत्त्वेन ज्ञानेन शुद्धसत्त्वमयविग्रहेण वा भगेनैश्वर्येण च विश्वं मृडयते सुखयति तेनैवैश्वर्येण मे दृशं प्रज्ञाम् अनुस्पृशतात् योजयतात् दत्ताद् इति यावत्, यथा इदं विश्वं पूर्वकल्पवत् स्रक्ष्यामि सृष्टिक्षमौपयिकीं प्रज्ञाम् अनुस्पृशताद् इत्य् अर्थः । प्रार्थनाया नैष्फल्य-शङ्कां वारयति असौ समस्त-सुहृत् सर्वान्तर्यामी भगवान् प्रणतेषु प्रियः निरतिशय-प्रीतियुक्तः । “प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रिय” इति गीतत्वात् प्रणत-प्रियत्वात् प्रणतार्थितार्थ-परिदान-दीक्षित इत्य् अभिप्रायः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या
यद्यत्करिष्यति गृहीतगुणावतारः।
तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम्॥

मूलम्

एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या यद्यत्करिष्यति गृ14हीतगुणावतारः।
तस्मिन् स्वविक्रममि15दं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम्॥ २३ ॥

अनुवाद (हिन्दी)

आप भक्तवांछाकल्पतरु हैं। अपनी शक्ति लक्ष्मीजीके सहित अनेकों गुणावतार लेकर आप जो-जो अद‍्भुत कर्म करेंगे, मेरा यह जगत‍्की रचना करनेका उद्यम भी उन्हींमेंसे एक है। अतः इसे रचते समय आप मेरे चित्तको प्रेरित करें—शक्ति प्रदान करें, जिससे मैं सृष्टिरचनाविषयक अभिमानरूप मलसे दूर रह सकूँ॥ २३॥

वीरराघवः

ननु विश्वसृष्ट्यर्थम् एव सृष्टस् त्वं स्वबन्धकरीं विश्वसृष्ट्य्-उपयुक्तां प्रज्ञां प्रार्थयितुं नार्हसीत्य्-आशङ्कां निराकुर्वन्न् अन्यद् अपि प्रार्थयते एष इति । एष भगवान् प्रपन्न-वरदः आत्म-शक्त्या आत्मनः स्वस्यापृथक्सिद्ध-विशेषणभूतया लक्ष्म्या साकं गृहीता अपरित्यक्ताः गुणाः स्वाभाविक-सर्वज्ञत्वापहतपाप्मत्वादयः ज्ञानशक्त्यादयश् च गुणा येषु तथाभूता अवतारा यस्य सः यद्-यत् करिष्यति यद्-यद् देव-मनुष्य-तिर्यग्-आदिसजातीय-चेष्टितं करोति तस्मिन् कर्मणि मे चेतः चित्तं युञ्जीत, तत्तद्-अवतार-गुण-कर्मानुभव-युक्तं स्यात् । कथंभूतस्यापि मे स्वविक्रमं स्वस्य तव विक्रमः प्रभावो यस्मिंस् तद् इदं विश्वं सृजतो ऽपि तवाज्ञया त्वद्-विभूतिभूतम् इदं विश्वं सृजतो ऽपि मे चेतः त्वद्-गुण-कर्मानुभव-युक्तं यथा भवेत् तथानुगृह्णात्व् इत्य् अर्थः । किं गुण-कर्मानुभवासक्तिप्रार्थनेनेति शङ्कानिरासायाह यथा च दुरित-निवर्त्तक-गुण-कर्मानुभवासक्त्या कर्म-शमलं संसृति-हेतुभूतम् अनादि-पुण्य-पापरूपं मालिन्यं विजह्यां त्यजेयं भवद्-अनुग्रहेण त्वद्-अवतार-गुण-कर्माण्य् अनुभवंस् त्वद्-विभूतिभूतं जगत् त्वत्-कैङ्कर्य-वेषेण सृजतो मे त्वत्-कैङ्कर्य-प्रार्थना युक्तैवेति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो
विज्ञानशक्तिरहमासमनन्तशक्तेः।
रूपं विचित्रमिदमस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्गः॥

मूलम्

नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः।
रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः॥ २४ ॥

अनुवाद (हिन्दी)

प्रभो! इस प्रलयकालीन जलमें शयन करते हुए आप अनन्तशक्ति परमपुरुषके नाभिकमलसे मेरा प्रादुर्भाव हुआ है और मैं हूँ भी आपकी ही विज्ञानशक्ति; अतः इस जगत‍्के विचित्र रूपका विस्तार करते समय आपकी कृपासे मेरी वेदरूप वाणीका उच्चारण लुप्त न हो॥ २४॥

वीरराघवः

एवं सृष्ट्यौपयिकीं प्रज्ञां मनसस् तद्-अवतार-गुण-कर्मासक्तिं च सम्प्रार्थ्याथ तत्-स्वरूप-रूप-गुण-विभूति-प्रतिपादक-वेदराश्य्-अविस्मरणं प्रार्थयते नाभि-हृदाद् इति । इहाम्भसि अस्मिन्न् उदके सतः शयानस्य यस्यानन्तशक्तेर् अपरिच्छिन्न-ज्ञान-बल-क्रिया-शक्तेः पुंसस् तव नाभि-हृदाद् विज्ञान-शक्तिर् विज्ञानं शक्तिर् अपृथक्सिद्ध-विशेषणं यस्य सः ज्ञान-गुणको ऽहम् आसं जातः । अस्य भगवतस् तव विचित्रम् अद्भुतं रूपं शरीरम् इदं चिद्-अचिदात्मकं जगद्-विस्तारयतो निगमस्य वेदस्य गिरां वेदावयवभूतानां वाचां विसर्गः प्रसरः उच्चारणम् इति यावत् मा रीरिषीष्ट मा क्षीणः स्यात् तथानुगृह्णात्व् इत्य् अर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन्।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात्पुरुषः पुराणः॥

मूलम्

सोऽसावदभ्रकरुणो भगवान् वि16वृद्धप्रेमस्मितेन नयनाम्बुरुहं विजृम्भन्।
उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात्पुरुषः पुराणः॥ २५ ॥

अनुवाद (हिन्दी)

आप अपार करुणामय पुराणपुरुष हैं। आप परम प्रेममयी मुसकानके सहित अपने नेत्रकमल खोलिये और शेषशय्यासे उठकर विश्वके उद‍्भवके लिये अपनी सुमधुर वाणीसे मेरा विषाद दूर कीजिये॥ २५॥

वीरराघवः

अथाभिमुख्येन तत्-संभाषणं प्रार्थितस्य सर्वस्य निदानभूतं प्रार्थयते स इति । अदभ्र-करुणः अनल्पकृपः पुराणः पुरुषः सो ऽसौ भगवान् विवृद्ध-प्रेम-स्मितेन विवृद्धः प्रेमा यस्मिन् तथाभूतेन स्मितेन नयनाम्बुरुहं विजृम्भन्न् उल्लासयन् विकाशयन्न् इति यावत्, विश्वस्य विजयाय उद्भवाय चकाराद् अस्मद्-अनुग्रहाय चोत्थाय माध्व्या मधुरया गिरा नः विषादं खेदम् अपनयतान् निराकुर्यात् ॥ २५ ॥

श्लोक-२६

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः।
यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत्॥

मूलम्

स्वसम्भवं नि17शाम्यैवं तपोविद्यासमाधिभिः।
यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत्॥ २६ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—विदुरजी! इस प्रकार तप, विद्या और समाधिके द्वारा अपने उत्पत्तिस्थान श्रीभगवान‍्को देखकर तथा अपने मन और वाणीकी शक्तिके अनुसार उनकी स्तुति कर ब्रह्माजी थके-से होकर मौन हो गये॥ २६॥

वीरराघवः

स्तुतिम् उपसंहरति स्व-सम्भवम् इति । स्वस्य संभवो यस्मात् तं भगवन्तं तपो-विद्या-समाधिभिः कर्म-ज्ञान-भक्तिभिर् निशाम्य दृष्ट्वा एवम्-उक्त-प्रकारेण यथा-शक्ति स्तुत्वा न तु साकल्येनेत्य् अर्थः । “इषुक्षयान् निवर्तन्ते नान्तरिक्ष-क्षितिक्षयात् । मतिक्षयान् निवर्तन्ते न गोविन्द-गुणक्षयात् ॥” इति वचनात् खिन्नवच् छ्रान्तवद् विरराम ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः।
विषण्णचेतसं तेन कल्पव्यतिकराम्भसा॥

मूलम्

अथाभिप्रेत18मन्वीक्ष्य ब्रह्मणो मधुसूदनः।
विषण्णचेतसं तेन कल्पव्यतिकराम्भसा॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः।
तमाहागाधया वाचा कश्मलं शमयन्निव॥

मूलम्

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः।
तमाहागाधया वाचा कश्मलं शमयन्निव॥ २८ ॥

अनुवाद (हिन्दी)

श्रीमधुसूदनभगवान‍्ने देखा कि ब्रह्माजी इस प्रलयजलराशिसे बहुत घबराये हुए हैं तथा लोकरचनाके विषयमें कोई निश्चित विचार न होनेके कारण उनका चित्त बहुत खिन्न है। तब उनके अभिप्रायको जानकर वे अपनी गम्भीर वाणीसे उनका खेद शान्त करते हुए कहने लगे ॥ २७-२८॥

वीरराघवः

आत्मनः स्वस्य लोक-संस्थान-विषये परिखिद्यतः कल्प-व्यतिकराम्भसा विषण्ण-चेतसः ब्रह्मणो हिरण्यगर्भस्याभिप्रेतम् अन्वीक्ष्य मधुसूदनस् तं ब्रह्माणम् अगाधया गम्भीरया वाचा कश्मलं मोहं शमयन्न् इवाह उवाचेति द्वयोर् अन्वयः ॥ २७-२८ ॥

मूलम् (वचनम्)

श्रीभगवानुवाच

श्लोक-२९

विश्वास-प्रस्तुतिः

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह।
तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान्॥

मूलम्

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह।
तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान्॥ २९ ॥

अनुवाद (हिन्दी)

श्रीभगवान‍्ने कहा—वेदगर्भ! तुम विषादके वशीभूत हो आलस्य न करो, सृष्टिरचनाके उद्यममें तत्पर हो जाओ। तुम मुझसे जो कुछ चाहते हो, उसे तो मैं पहले ही कर चुका हूँ॥ २९॥

वीरराघवः

वचनम् एवाह मेति । हे वेदगर्भ ब्रह्मन् ! तन्द्रीं विषादकृतपारवश्यं मा गाः मा प्राप्नुहि, किं तु सर्गे सृष्टौ उद्यमं प्रयत्नम् आवह कुरु । भवान् यत् तेनैव मे दृशम् अनुस्पृशताद् इत्य्-आदिना प्रार्थयते तद् अग्रे पूर्वम् एव मया आपादितं संपादितम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम्।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान्द्रक्ष्यस्यपावृतान्॥

मूलम्

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम्।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान्द्रक्ष्यस्यपावृतान्॥ ३० ॥

अनुवाद (हिन्दी)

तुम एक बार फिर तप करो और भागवत-ज्ञानका अनुष्ठान करो। उनके द्वारा तुम सब लोकोंको स्पष्टतया अपने अन्तःकरणमें देखोगे॥ ३०॥

वीरराघवः

तर्हि कथम् अहं सृष्टेः प्रकारं न जानामीत्य् अत आह । भूय इति । भूयः पुनः तपः कर्मयोगं मदाश्रयां मद्-विषयां च विद्याम् उपासनां तन्त्रेण ज्ञानयोगो ऽपि विद्याशब्देन विवक्षितः आतिष्ठ कुरुताभ्यां तपो-विद्याभ्याम् अन्तर्हृदि हृदयकमलमध्ये हे ब्रह्मन् ! अपावृतान् लोकान् यथावद् द्रक्ष्यसि ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तत आत्मनि लोके च भक्तियुक्तः समाहितः।
द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः॥

मूलम्

तत आत्मनि लोके च भक्तियुक्तः समाहितः।
द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः॥ ३१ ॥

अनुवाद (हिन्दी)

फिर भक्तियुक्त और समाहितचित्त होकर तुम सम्पूर्ण लोक और अपनेमें मुझको व्याप्त देखोगे तथा मुझमें सम्पूर्ण लोक और अपने-आपको देखोगे॥ ३१॥

वीरराघवः

ततः यथावल् लोकदर्शनानन्तरं मद्भक्तियुक्तः समाहितचित्तस् त्वम् आत्मनि स्वस्मिन् लोके च सर्वस्मिंश् चेतनाचेतनात्मके जगति च ततं व्याप्तं मां मय्य् आत्मनीति सामानाधिकरण्यम् आत्मन इति पाठे आत्मनो जीवान् इत्य् अर्थः । यद् वा आत्मनो मम लोकान् शरीरभूताल् लोकान् । यद् वा आत्मनः मत्तः प्रसूतान् लोकान् मयि यथा द्रक्ष्यसि द्रष्टुम् अर्हसीत्य् अर्थः । सर्व-चेतनाचेतनान्तर्यामिणं धारकं मां मद्-व्याप्यान् धार्यान् लोकांश् च परं पश्यसीत्य् अर्थः । सर्वात्मक-ब्रह्म-साक्षात्कारेण मोहो निवर्तत इत्य्-अभिप्रायः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम्।
प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम्॥

मूलम्

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम्।
19प्रतिचक्षीत मां लोको ज20ह्यात्तर्ह्येव कश्मलम्॥ ३२ ॥

अनुवाद (हिन्दी)

जिस समय जीव काष्ठमें व्याप्त अग्निके समान समस्त भूतोंमें मुझे ही स्थित देखता है, उसी समय वह अपने अज्ञानरूप मलसे मुक्त हो जाता है॥ ३२॥

वीरराघवः

इदम् एव कृत्स्न-चिद्-अचिद्-विलक्षणत्वेन तद्-अन्तर्यामितया चोपासनं कर्मशमलं च यथा विजह्याम् इत्य्-अर्थितम् उक्त्य्-उपायो ऽपीत्य् आह । यदात्व् इति । दारुष्व् अग्निम् इव सर्वभूतेषु स्थितं मां लोकः यदा तु प्रतिचक्षीत पश्येत् दारुष्व् अग्निम् इवेति दृष्टान्त-सामर्थ्याद् विलक्षणाकार-योगो ऽभिप्रेतः कौटिल्य-दैर्घ्यादि-धर्मो हि दारुगतो न त्व् अग्नि-गतः एवं कृत्स्न-चिद्-अन्तरात्मतयावस्थिते परमात्मनि चेतनाचेतनगत-कर्मवश्यत्व-सृज्यत्व-पात्यत्व-नियाम्यत्व-शेषत्व-शरीरत्व्-आदयो न सङ्गच्छन्त इत्य् अभिप्रायः । तर्ह्य् एव प्रकृति-पुरुष-विलक्षणतया तद्-अन्तरात्मतया च दर्शनानन्तरम् एव कश्मलं दुःखं मोहं वा जह्यात् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति॥

मूलम्

यदा रहितमात्मानं भूतेन्द्रियगुणाश21यैः।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति॥ ३३ ॥

अनुवाद (हिन्दी)

जब वह अपनेको भूत, इन्द्रिय, गुण और अन्तःकरणसे रहित तथा स्वरूपतः मुझसे अभिन्न देखता है, तब मोक्षपद प्राप्त कर लेता है॥ ३३॥

वीरराघवः

एवं सर्वात्मक-ब्रह्मोपासनस्य मुक्ति-साधनत्वम् अभिधाय ब्रह्म-शरीरतया प्रकृति-विलक्षणतया च स्वात्मोपासनम् अपि तत्-साधनम् इत्य् आह यदेति । भूतानि पृथिव्यादीनि इन्द्रियाणि ज्ञान-कर्मोभयेन्द्रियाणि आशयो वासना-ऽन्तःकरणं वा एतैर् विरहितं तत्-सम्बन्धे सति तद्-अभाव-सम्भवांशेभ्यो विलक्षणम् इत्य् अर्थः । स्वरूपेण सत्यं ज्ञानम् अनन्तम्, इति श्रुत्युक्तः स्वरूपेण मया आत्मना धारकेण उपेतं व्याप्तम् आत्मीयं धार्यम् आत्मानं जीवात्मनः पश्यन्न् उदासीनः स्वाराज्य-कर्मवश्यत्वम् ऋच्छति प्राप्नोतीत्य् अर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः।
नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः॥

मूलम्

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः।
नात्मावसीदत्यस्मिंस्ते22 वर्षीयान्मदनुग्रहः॥ ३४ ॥

अनुवाद (हिन्दी)

ब्रह्माजी! नाना प्रकारके कर्मसंस्कारोंके अनुसार अनेक प्रकारकी जीवसृष्टिको रचनेकी इच्छा होनेपर भी तुम्हारा चित्त मोहित नहीं होता, यह मेरी अतिशय कृपाका ही फल है॥ ३४॥

वीरराघवः

नन्व् अस्तु सर्वात्मक-ब्रह्मोपासन-ब्रह्म-शरीरभूत-स्वात्मोपासनयोर् मुक्ति-साधनत्वम् एवम् अपि कथं सृष्टि-रूप-व्यापारान्तरासक्तस्य सर्वात्मक-ब्रह्मानुसंधानं स्याद् इति शोचन्तम् अनुगृह्णाति नानेत्यादिना । नानाकर्मणां जीवसम्बन्ध्य्-अनादि-पुण्य-पापरूप-कर्मणां वितानेन विस्तारेणानादि-तत्-कर्म-वासनानुसारेण बह्वीर् बहुविधा विचित्रा इत्य् अर्थः, प्रजाः देव-तिर्यङ्-मनुष्य-स्थावरादि-रूपाः सिसृक्षतः ते तवात्मा चित्तं नावसीदति न मोहं प्राप्नोति, किंतु मत्-स्वरूप-रूप-गुण-विभूत्य्-अनुसंधानासक्तम् एव भवति कुत एतद् अत आह । मद्-अनुग्रहः वर्षीयान् बलवत्तर इत्य् अर्थः । व्यासंगान्तरासक्तस्यापि त्वच्-चेतो मत्-स्वरूप-गुण-विभूत्य्-अनुसंधानासक्तम् एव स्याद् इत्य् अनुगृह्णामीत्य् अर्थः । अनेन तस्मिन् स्वविक्रममिदं सृजतो ऽपि चेतो युञ्जीतेति तेनैव विज्ञापितम् अनुगृहीतं भवति ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः।
यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते॥

मूलम्

ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः।
यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते॥ ३५ ॥

अनुवाद (हिन्दी)

तुम सबसे पहले मन्त्रद्रष्टा हो। प्रजा उत्पन्न करते समय भी तुम्हारा मन मुझमें ही लगा रहता है, इसीसे पापमय रजोगुण तुमको बाँध नहीं पाता॥ ३५॥

वीरराघवः

अनुग्रहस्य वर्षीयस्त्वम् एव दर्शयति । ऋषिम् इति । आद्यम् आदौ भवम् आद्यम् ऋषिं मत्-स्वरूप-रूप-गुण-विभूति-प्रतिपादक-कृत्स्न-वेद-राशि-द्रष्टारं त्वां पापीयान् बन्धकः रजोगुणः न बध्नाति न संसारयति । कुतः यस्मान् मद्-अनुग्रहात् प्रजाः संसृजतो ऽपि ते मनो मयि निर्बद्धं नितराम् आसक्तम् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्।
यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः॥

मूलम्

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्।
यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः॥ ३६ ॥

मूलम् - कर्णावती

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्।
यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः॥ ३६ ॥

अनुवाद (हिन्दी)

तुम मुझे भूत, इन्द्रिय, गुण और अन्तःकरणसे रहित समझते हो; इससे जान पड़ता है कि यद्यपि देहधारी जीवोंको मेरा ज्ञान होना बहुत कठिन है, तथापि तुमने मुझे जान लिया है॥ ३६॥

वीरराघवः

एवम् अनुग्रहस्य वर्षीयस्त्वं प्रदर्श्य मत्-स्वरूपादि-विषयकं ज्ञानं मद्-विषयकस्तवनं चेत्य् एतत् सर्वं मद्-अनुग्रहाद् एव सम्पन्नम् इत्य् आह । ज्ञातो ऽहम् इति देहासक्तानाम् अभक्तानाम् इत्य् अर्थः । दुर्विज्ञेयो ऽपि दुःखेनापि ज्ञातुम् अशक्यो ऽप्य् अहम् अद्याधुना भवता ज्ञातः यथावत् स्वरूप-रूप-गुण-विभूतिविशिष्टत्वेन ज्ञातः । मया ज्ञात इति कथं ज्ञायत इत्य् अत आह । यद् यस्मात् त्वं भूतेन्द्रिय-गुणात्मभिः भूतानि पृथिव्यादीनि गुणाः सत्त्वादयः आत्मा मनः प्राकृतैर् भूतादिभिर् अयुक्तं मां मन्यसे सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरस इत्यादि । श्रुत्य्-उक्त-रीत्या-ऽप्राकृत-शुद्धसत्त्व-पञ्चोपनिषन्मय-भूतेन्द्रियादियुक्तं मन्यस इत्य् अर्थः । रूपं यद् एतद् अवबोधरसोदयेनेत्य्-आदिना तथैव प्रतिपादनात् । यद् वा युक्तम् इत्य् एव छेदः, आत्मानो जीवा भूतादिभिर् अचेतनैर् आत्मभिश् चेतनैश् च विशिष्टं मां मन्यसे मच्-छेषतया मच्-छरीरतया मत्-सृज्य-पाल्य-संहार्यतया च चेतनाचेतन-विशिष्टं मां सर्वज्ञत्व-सत्य-सङ्कल्पत्व-सत्य-कामत्व-प्रकृति-पुरुष-विलक्षणत्वाद्य्-अनन्ताकार-विशिष्टं मन्यस इत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः॥

मूलम्

तुभ्यं मद्विचिकित्सायामात्मा मे23 दर्शितोऽबहिः।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः॥ ३७ ॥

अनुवाद (हिन्दी)

‘मेरा आश्रय कोई है या नहीं’ इस सन्देहसे तुम कमलनालके द्वारा जलमें उसका मूल खोज रहे थे, सो मैंने तुम्हें अपना यह स्वरूप अन्तःकरणमें ही दिखलाया है॥ ३७॥

वीरराघवः

किं च मद्-विचिकित्सायाम् अस्ति ह्य् अधस्ताद् इह किं च नैतद् अधिष्ठितं यत्र सतानुभाव्यम् इत्य् एवंरूपायां मद्-विषयायां विचारणायां निमित्तभूतायां सलिले पुष्करस्य मूलम् अधिष्ठानं नालेन मार्गेण विचिन्वते ऽन्वेषते तुभ्यं मे मया आत्मा विग्रहः बहिर्दर्शितः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम्।
यद्वा तपसि ते निष्ठा स एष मदनुग्रहः॥

मूलम्

यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम्।
यद्वा तपसि ते निष्ठा स एष मदनुग्रहः॥ ३८ ॥

अनुवाद (हिन्दी)

प्यारे ब्रह्माजी! तुमने जो मेरी कथाओंके वैभवसे युक्त मेरी स्तुति की है और तपस्यामें जो तुम्हारी निष्ठा है, वह भी मेरी ही कृपाका फल है॥ ३८॥

वीरराघवः

किं च अङ्ग हे ब्रह्मन् ! मत्-कथाभ्युदयाङ्कितं मत्कथैवाभ्युदयः तेनाङ्कितं मत्-स्तोत्रं मद्-विषयकं स्तोत्रं चकर्थं कृतवानसीति यत्, यद् वा यच् च ते तव तपसि निष्ठा चेति यद् एतत् सर्वं स एष मद्-अनुग्रहः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया।
यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन्॥

मूलम्

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया।
यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन्॥ ३९ ॥

अनुवाद (हिन्दी)

लोक-रचनाकी इच्छासे तुमने सगुण प्रतीत होनेपर भी जो निर्गुणरूपसे मेरा वर्णन करते हुए स्तुति की है, उससे मैं बहुत प्रसन्न हूँ; तुम्हारा कल्याण हो॥ ३९॥

वीरराघवः

सर्वस्य मद्-अनुग्रह-कारितत्वात् तुभ्यम् अहं प्रसन्न इत्य् आह । प्रीतो ऽहम् इति । यद्-गुणमयं कल्याण-गुण-प्रचुरं निर्गुणं हेय-गुण-रहितं मा माम् अनुवर्णयन् त्वं लोकानां विजयेच्छया सर्गेच्छया ऽस्तौषीः स्तुतवान् अतो ऽहं प्रीतो ऽस्मि निरतिशय-प्रीति-युक्तो ऽस्मि ते तुभ्यं भद्रम् अस्त्व् इत्य् अर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत्।
तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः॥

मूलम्

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत्।
तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः॥ ४० ॥

अनुवाद (हिन्दी)

मैं समस्त कामनाओं और मनोरथोंको पूर्ण करनेमें समर्थ हूँ। जो पुरुष नित्यप्रति इस स्तोत्रद्वारा स्तुति करके मेरा भजन करेगा, उसपर मैं शीघ्र ही प्रसन्न हो जाऊँगा॥ ४०॥

वीरराघवः

तव प्रीत इति किं वक्तव्यम् इत्य् आह । य इति । एतेन भवत्-कृतेन स्तोत्रेण पुमान् नरः नित्यं स्तुत्वा मां भजेत् तस्य पुंसो ऽप्य् आशु अहं सर्वेषां काम्यमानानां वराणाम् ईश्वरः दाता सम्प्रसीदेयं प्रसन्नो भवामि । तव प्रसन्न इति किम् उ वक्तव्यम् इत्य् आशयः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना।
राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम्॥

मूलम्

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना।
राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्म24तम्॥ ४१ ॥

अनुवाद (हिन्दी)

तत्त्ववेत्ताओंका मत है कि पूर्त, तप, यज्ञ, दान, योग और समाधि आदि साधनोंसे प्राप्त होनेवाला जो परम कल्याणमय फल है, वह मेरी प्रसन्नता ही है॥ ४१॥

वीरराघवः

मत्-प्रीतेर् अधिकम् अन्यच्-छ्रेयो नास्तीत्य् आह । पूर्त्तेति । पूर्तं स्मार्त्तं पूर्त्तादिभिः राद्धं सिद्धं निःश्रेयस-फलं राज्यम् इति पाठे राज्यानि निःश्रेयसं च मत्-प्रीतिः यज्ञादि-जन्य-मत्-प्रीति-निबन्धनौ भोग-मोक्षाव् इत्य् अर्थः, इति तत्त्व-विदां मतं भवति ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः॥

मूलम्

अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः॥ ४२ ॥

अनुवाद (हिन्दी)

विधाता! मैं आत्माओंका भी आत्मा और स्त्री-पुत्रादि प्रियोंका भी प्रिय हूँ। देहादि भी मेरे ही लिये प्रिय हैं। अतः मुझसे ही प्रेम करना चाहिये॥ ४२॥

वीरराघवः

एतद् एव सहेतुकम् उपपादयति । अहम् इति ! हे धातः ब्रह्मन् ! आत्मनां जीवानाम् अहम् आत्मा अन्तः प्रविश्य प्रशासनेन धारकः । अत एव प्रेयसाम् अपि प्रीतिविषयाणाम् अपि मध्ये प्रेष्ठः निरतिशय-प्रीति-विषयः सन् स्थितः यत्-सम्बन्ध-सम्बन्धात् सर्वं प्रियवद् आभाति तस्य प्रियतमत्वं कैमुत्य-न्याय-सिद्धम्, अतः आत्मत्वात्-प्रेष्ठत्वाच् च मय्य् एव रतिं भक्तिं कुर्यात् । प्रियः प्रियत्वेन परिगृहीतो देहादिर् अपि यत्-कृते यद्-अर्थर् अत्य्-अर्थं प्रियः भवति मद्-भक्तिर् एव जन्मनो लाभ इत्य् अर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना।
प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते॥

मूलम्

सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना।
प्रजाः सृज यथापूर्वं याश्च 25मय्यनुशेरते॥ ४३ ॥

अनुवाद (हिन्दी)

ब्रह्माजी! त्रिलोकीको तथा जो प्रजा इस समय मुझमें लीन है, उसे तुम पूर्वकल्पके समान मुझसे उत्पन्न हुए अपने सर्ववेदमय स्वरूपसे स्वयं ही रचो॥ ४३॥

वीरराघवः

मद्-अनुग्रह-विषयतया कृतार्थस् त्वं मद्-आज्ञा-रूप-जगत्-सर्गं कुर्व्-इत्य् आह । सर्व-वेदमयेनेति । आत्मात्म-योनिना आत्मनां जीवानाम् आत्मा परमात्मा यस्य योनिः कारणं तेन मद्-दत्तेनेत्य् अर्थः, सर्ववेदमयेन मद्-उपदिष्ट-सर्व-वेद-प्रचुरेण आत्मना ज्ञानेन आत्म-शब्दो हि मति-वाची महत्-ज्ञानेनेत्य् अर्थः, इदं जगत् तद्-अन्तर्गताः प्रजाः देवादीन् यथा-पूर्वं पूर्वकल्पवत् सृज, कथम् अवस्थिताः प्रजाः याश्च या हि प्रजाः मय्य् अनुशेरते उपसंहृतास् तिष्ठन्ति ताः सृजेत्य् अर्थः ॥ ४३ ॥

श्लोक-४४

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे॥

मूलम्

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे॥ ४४ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी कहते हैं—प्रकृति और पुरुषके स्वामी कमलनाभ भगवान् सृष्टिकर्ता ब्रह्माजीको इस प्रकार जगत‍्की अभिव्यक्ति करवाकर अपने उस नारायणरूपसे अदृश्य हो गये॥ ४४॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे नवमोऽध्यायः॥ ९ ॥

वीरराघवः

भगवद्-ब्रह्म-संवादम् उपसंहरति । तस्मै इति । प्रधान-पुरुषेश्वरः प्रकृति-पुरुषयोर् नियन्ता कञ्ज-नाभः जगद्-आत्मकं पद्मं नाभौ यस्य स एवं-भूतो भगवान् तस्मै जगत्-स्रष्ट्रे ब्रह्मणे इदं जगन्-निर्माण-प्रकारादिकं व्यज्य ज्ञापयित्वा स्वेन रूपेण तिरोदधे स्वकीय-दिव्य-मङ्गल-विग्रहं तिरोहितम् अकरोद्-इत्य् अर्थः ॥ ४४ ॥

इति श्रीमद्-भागवत-महापुराणे तृतीय-स्कंधे श्रीमद्-वीर-राघवाचार्य्य-कृत-भागवत-चन्द्र-चन्द्रिकायां नवमो ऽध्यायः ॥ ९ ॥


  1. प्रा. पा. - तत्त्वशुद्धं । ↩︎

  2. प्रा. पा. - स्तमुपा । ↩︎

  3. प्रा. पा. - द्रविणदेह । ↩︎

  4. प्रा. पा. - सर्वासुखो प । ↩︎

  5. प्रा. पा. - पृथस्थितमिदं मन इन्द्रियार्थे मा । ↩︎

  6. प्रा. पा. - व्यर्थातिदुःख । ↩︎

  7. प्रा. पा. - तदनुग्रहाय । ↩︎

  8. बोधविषयाय । ↩︎

  9. प्रा. पा. - जन्मजमलं । ↩︎

  10. प्रा. पा. - ण्यपि । ↩︎

  11. प्रा. पा. - सवो विरु । ↩︎

  12. प्रा. पा. - नुयोगाद् । ↩︎

  13. प्रा. पा. - प्रियोऽस्मि । ↩︎

  14. प्रा. पा. - गुणेषु गुणा । ↩︎

  15. प्रा. पा. - मिमं । ↩︎

  16. प्रा. पा. - वान् प्रवृ । ↩︎

  17. प्रा. पा. - निश । ↩︎

  18. प्रा. पा. - प्रेत्य । ↩︎

  19. प्रा. पा. - प्रवि । ↩︎

  20. प्रा. पा. - जह्यां त । ↩︎

  21. प्रा. पा. – गुणाश्रयैः । ↩︎

  22. प्रा. पा. - वरीयान् । ↩︎

  23. प्रा. पा. - संदर्शि । ↩︎

  24. प्रा. पा. - मता । ↩︎

  25. प्रा. पा. - मामनु । ↩︎