[अष्टमोऽध्यायः]
भागसूचना
ब्रह्माजीकी उत्पत्ति
श्लोक-१
मूलम् (वचनम्)
मैत्रेय उवाच
विश्वास-प्रस्तुतिः
सत्सेवनीयो बत पूरुवंशो
यल्लोकपालो भगवत्प्रधानः।
बभूविथेहाजितकीर्तिमालां
पदे पदे नूतनयस्यभीक्ष्णम्॥
मूलम्
सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः।
बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम्॥ १ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजीने कहा—विदुरजी! आप भगवद्भक्तोंमें प्रधान लोकपाल यमराज ही हैं; आपके पूरुवंशमें जन्म लेनेके कारण वह वंश साधु-पुरुषोंके लिये भी सेव्य हो गया है। धन्य हैं! आप निरन्तर पद-पदपर श्रीहरिकी कीर्तिमयी मालाको नित्य नूतन बना रहे हैं॥ १॥
वीरराघवः
एवं भगवत्-कथायां क्षत्रा प्रवर्त्तितो मैत्रेयः तत्-कृत-प्रश्नानाम् उत्तराण्य् अभिधास्यमानः प्रथमं भगवन्-नाभेर् ब्रह्मण उत्पत्तिं भगवन्तम् अजानतस् तस्यैव जले बिभ्यतस् तपसा भगवत्-तोषणं चाष्टमेनाध्यायेनाह । तत्र भगवत्-कथायां प्रवर्त्तयितारं श्रोतारं क्षत्तारम् अभिनन्दति सत्-सेवनीय इति । वताहो पूरुष-वंशः सत्-सेवनीयः सद्भिः सम्माननीयः यद् यस्माद् भगवत्-प्रधानः भगवान् एव प्राप्यतयोपायतया च प्रधानो यस्य सः लोकपालः धर्म्म-राजांश-भूतत्वाद् विदुरो लोकपाल इत्य् उच्यते एवम्भूतस् त्वम् इह पुरु-वंशे बभूविथ उत्पन्नो ऽभूः अतः सत्-सेवनीय इत्य् अर्थः । भगवत्-प्राधान्यम् एव विशदयति अजितः परम-पुरुषः तस्य कीर्तीनां यशसां या माला पंक्तिस् तां पदे पुनः पुनर् अभीक्ष्णं भृशं नूतनयसि नवां करोषि ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
सोऽहं नृणां क्षुल्लसुखाय दुःखं
महद्गतानां विरमाय तस्य।
प्रवर्तये भागवतं पुराणं
यदाह साक्षाद्भगवानृषिभ्यः॥
मूलम्
सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय 1तस्य।
प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः॥ २ ॥
अनुवाद (हिन्दी)
अब मैं, क्षुद्र विषय-सुखकी कामनासे महान् दुःखको मोल लेनेवाले पुरुषोंकी दुःखनिवृत्तिके लिये, श्रीमद्भागवतपुराण प्रारम्भ करता हूँ—जिसे स्वयं श्रीसंकर्षणभगवान्ने सनकादि ऋषियोंको सुनाया था॥ २॥
वीरराघवः
एवम् अभिनन्द्य त्वत्-कृत-प्रश्नान् न केवलम् अस्मद्-बुद्धि-गोचरैर् एवोत्तरयाम्य् अपि तु सत्-सम्प्रदायाद् आगत-श्री-भागवताख्यानेनैवेत्य् आह सो ऽहम् इति । स भवता पृष्टः अहं सदाचार्य-श्री-पाराशर-कृपया परावर-तत्त्व-दर्शी भगवत्-कृत-प्रश्नोत्तर-विवक्षया भागवताख्यं पुराणं प्रवर्त्तये प्रवर्त्तना-फलम् आह । क्षुल्ल-सुखायाल्प-सुख-सम्पादनार्थं महद् अधिकं दुःखं गतानां प्राप्तानां लोकानां तस्य महतो दुःखस्य विरमाय नाशाय अनेन लोकोज्जिजीविषयैवायम् संवादः प्रवृत्त इत्य् उपगम्यते उभयोर् अपि बहु-ज्ञत्वेन प्रष्टव्य-वक्तव्यान्तराभावात् कथंभूतं पुराणं यद् भागवतं पुराणं भगवान् सङ्कर्षणः ऋषिभ्यः सनकादिभ्यः साक्षाद् आह तथाभूतम् इत्य् अर्थः । द्वेधा हि भागवत-सम्प्रदायः एकं हि भागवतं भगवन्तम् आरभ्य चतुर्मुख-नारद-कृष्ण-द्वैपायन-पर्यन्तं चतुःश्लोकी-रूपेण प्रवृत्तं तद् एव व्यासेन विवृतं दश-लक्षणं श्री-शुकेनाधीतं राज्ञे उपदिष्टम् अष्टादश-सहस्रात्मकम् । अपरं तु भागवतं सङ्कर्षणम् आरभ्य सनत्कुमार-साङ्ख्यायन-पराशर-मैत्रेय-पर्यन्त-परम्परया चतुःश्लोकी-रूपेणैव प्रवृत्तं मैत्रेयेण विवृतं विदुरायोपदिष्टं च तद् एव द्वैपायनः स्कन्ध-द्वयात्मना विस्तरिष्यमाणे ऽन्तर्भाव्य द्वादश-स्कन्धात्मकं पुराणं चक्र इति बोध्यम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
आसीनमुर्व्यां भगवन्तमाद्यं
सङ्कर्षणं देवमकुण्ठसत्त्वम्।
विवित्सवस्तत्त्वमतः परस्य
कुमारमुख्या मुनयोऽन्वपृच्छन्॥
मूलम्
आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम्।
विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्॥ ३ ॥
अनुवाद (हिन्दी)
अखण्ड ज्ञानसम्पन्न आदिदेव भगवान् संकर्षण पाताललोकमें विराजमान थे। सनत्कुमार आदि ऋषियोंने परम पुरुषोत्तम ब्रह्मका तत्त्व जाननेके लिये उनसे प्रश्न किया॥ ३॥
वीरराघवः
अस्य साङ्कर्षण-भागवतस्य सङ्कर्षण-प्रभृति-स्व-पर्यन्त-सत्-सम्प्रदाय-प्रवृत्तिम् अभिधास्यमानः सनकादीनां विधिवत्-सङ्कर्षणोपसत्तिम् आह चतुर्भिः । आसीनम् इति । उर्व्यां पाताल-बिले आसीनम् उपविष्टं भगवन्तम् आद्यम् अकुण्ठ-सत्त्वं, रजस्-तमोभ्याम् अप्रतिहतं सत्त्वं यस्य तं शुद्ध-सत्त्वमयं दिव्य-मङ्गल-विग्रह-विशिष्टम् इत्य् अर्थः । एवम्भूतं सङ्कर्षणं देवं कुमार-मुख्याः सनत्कुमार-प्रभृतयश् चत्वारो मुनयः अन्वपृच्छन् विधिवद् उपसङ्गम्यान् अनुपृष्टवन्तः कथंभूता मुनयः अतः चेतनाचेतनात्मक-जगतः परस्य विलक्षणस्य परमात्मनस् तत्त्वं याथात्म्यं विवित्सवः, वेत्तुम् इच्छवः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स्वमेव धिष्ण्यं बहु मानयन्तं
यं वासुदेवाभिधमामनन्ति।
प्रत्यग्धृताक्षाम्बुजकोशमीष-
दुन्मीलयन्तं विबुधोदयाय॥
मूलम्
स्वमेव धिष्ण्यं बहु मानयन्तं यं वासुदेवाभिधमामनन्ति।
प्रत्यग्धृताक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधोदयाय॥ ४ ॥
अनुवाद (हिन्दी)
उस समय शेषजी अपने आश्रय-स्वरूप उन परमात्माकी मानसिक पूजा कर रहे थे, जिनका वेद वासुदेवके नामसे निरूपण करते हैं। उनके कमलकोशसरीखे नेत्र बंद थे। प्रश्न करनेपर सनत्कुमारादि ज्ञानीजनोंके आनन्दके लिये उन्होंने अधखुले नेत्रोंसे देखा॥ ४॥
वीरराघवः
तं एव सङ्कर्षणं विशिनष्टि स्वम् इति । यं वासुदेवाभिधं वासुदेव-शब्द-वाच्यम् आमनन्ति तं स्व-धिष्ण्यं स्वावास-भूतं स्व-कारणं भगवन्तम् इत्य् अर्थः । बहुमानयन्तं सर्वोत्कर्षेण पूजयन्तं प्रत्यग्-धृताक्षाम्बुज-कोशं प्रत्यग्-आत्मन्य् अभिमुखेन निमित्तेन धृतं मुकुलितं यन् नेत्राम्बुज-कोशं तद् विबुधोदयाय विदुषाम् अभ्युदयायेषद् अल्पम् उन्मीलयन्तम् अन्वपृच्छन्न् इति पूर्वेणान्वयः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
स्वर्धुन्युदार्द्रैः स्वजटाकलापै-
रुपस्पृशन्तश्चरणोपधानम्।
पद्मं यदर्चन्त्यहिराजकन्याः
सप्रेमनानाबलिभिर्वरार्थाः॥
मूलम्
स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृशन्तश्चरणोपधानम्।
पद्मं यदर्चन्त्यहिराजकन्याः सप्रेमनानाबलिभिर्वरार्थाः॥ ५ ॥
अनुवाद (हिन्दी)
सनत्कुमार आदि ऋषियोंने मन्दाकिनीके जलसे भीगे अपने जटासमूहसे उनके चरणोंकी चौकीके रूपमें स्थित कमलका स्पर्श किया, जिसकी नागराजकुमारियाँ अभिलषित वरकी प्राप्तिके लिये प्रेमपूर्वक अनेकों उपहार-सामग्रियोंसे पूजा करती हैं॥ ५॥
वीरराघवः
मुनीन् विशिनष्टि सार्धेन स्वर्धुनीति । स्वर्धुन्या गङ्गाया उदकेनार्द्रैः स्व-जटा-कलापैः श्री-भागवत-श्रवणार्थं सत्य-लोकात् पातालम् अवतरन्तो निरन्तरं गङ्गा-मध्यत एवावतीर्णा इति तत्-स्नानेनार्द्रा जटा-कलापा इति भावः एवम्भूतैर् जटा-कलापैश् चरणोपधानं चरणाव् उपधीयेते ऽस्मिन् पद्म इति तत्-चरणोपधानं पाद-पीठम् उपस्पृशन्तः नमस्कुर्वन्तः सन्तः कथंभूतं चरणोपधानं यत्-पद्मम् अहि-राज-कन्या अहि-राजस्य सङ्कर्षणस्य कन्याः वरार्थाः पति-कामाः स-प्रेम प्रेम-सहितं यथा भवति तथा नाना-बलिभिर् नानोपहारैर् अर्चन्ति तथाभूतम् इत्य् अर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
मुहुर्गृणन्तो वचसानुराग-
स्खलत्पदेनास्य कृतानि तज्ज्ञाः।
किरीटसाहस्रमणिप्रवेक-
प्रद्योतितोद्दामफणासहस्रम्॥
मूलम्
मुहुर्गृणन्तो वचसानुरागस्खलत्पदेनास्य कृतानि तज्ज्ञः।
किरीटसाहस्रमणिप्रवेकप्रद्योतितोद्दामफणासहस्रम्॥ ६ ॥
अनुवाद (हिन्दी)
सनत्कुमारादि उनकी लीलाके मर्मज्ञ हैं। उन्होंने बार-बार प्रेम-गद्गद वाणीसे उनकी लीलाका गान किया। उस समय शेषभगवान्के उठे हुए सहस्रों फण किरीटोंकी सहस्र-सहस्र श्रेष्ठ मणियोंकी छिटकती हुई रश्मियोंसे जगमगा रहे थे॥ ६॥
वीरराघवः
अस्य भगवतः कृतानि कर्माणि तज्ज्ञाः तानि जानन्तीति तद्-विचेष्टिताभिज्ञाः अनुरागेण प्रेमातिशयेन स्खलन्ति पदानि यस्मिंस् तेन वचसा मुहुर् गृणन्तः गायन्तः मुनयः किरीटानां मुकुटानां सहस्रम् एव साहस्रं तस्मिन् मणि-प्रवेकाः मण्युत्तमाः तैः प्रद्योतितम् उद्दाम-फणानाम् उदार-फणानां सहस्रं यस्य तं संकर्षणम् अन्वपृच्छन्न् इति पूर्वेणान्वयः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
प्रोक्तं किलैतद्भगवत्तमेन
निवृत्तिधर्माभिरताय तेन।
सनत्कुमाराय स चाह पृष्टः
सांख्यायनायाङ्ग धृतव्रताय॥
मूलम्
प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन।
सनत्कुमाराय स चाह पृष्टः सांख्यायनायाङ्ग धृतव्रताय॥ ७ ॥
अनुवाद (हिन्दी)
भगवान् संकर्षणने निवृत्तिपरायण सनत्कुमारजीको यह भागवत सुनाया था—ऐसा प्रसिद्ध है। सनत्कुमारजीने फिर इसे परम व्रतशील सांख्यायन मुनिको, उनके प्रश्न करनेपर सुनाया॥ ७॥
वीरराघवः
एवं विधिवद् आचार्य्योपसत्तिम् अभिधायोपसन्नेभ्यस् तेभ्यः श्रीभागवतम् उपदिदेशेति वदंस् तद्-अर्वाचीनाम् अप्य् आचार्य-पारम्परीम् आह प्रोक्तम् इति । निवृत्ति-धर्माभिरताय मोक्ष-धर्मेष्व् आसक्ताय सनत्-कुमाराय भगवत्तमेन तेन संकर्षणेन तद्-भागवतं प्रोक्तं किल सनत्-कुमारायेत्य् एकत्वं संघाभिप्रायकम्, स च सनत्कुमारः पृष्टः विधिवद्-उपसत्त्या पृष्टः सांख्यायनेनेति शेषः । धृत-व्रताय धृतानि व्रतानि शिष्य-धर्मा येन तस्मै ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
सांख्यायनः पारमहंस्यमुख्यो
विवक्षमाणो भगवद्विभूतीः।
जगाद सोऽस्मद्गुरवेऽन्विताय
पराशरायाथ बृहस्पतेश्च॥
मूलम्
सांख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः।
जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च॥ ८ ॥
अनुवाद (हिन्दी)
परमहंसोंमें प्रधान श्रीसांख्यायनजीको जब भगवान्की विभूतियोंका वर्णन करनेकी इच्छा हुई, तब उन्होंने इसे अपने अनुगत शिष्य, हमारे गुरु श्रीपराशरजीको और बृहस्पतिजीको सुनाया॥ ८॥
वीरराघवः
पारमहंस्ये धर्मे मुख्यः प्रधानः सांख्यायनः भगवद्-विभूतीर् विवक्षमाणः वक्तुम् इच्छुः, ब्रुञादेशस्य वचेर् उभयपदित्वाद् विवक्षमाण इत्य् आत्मनेपदम्, अन्वितायानुगतायानुवर्त्तमानायेति यावद् अस्मद्-गुरवे पराशराया ऽथ बृहस्पतेश् च उवाच ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
प्रोवाच मह्यं स दयालुरुक्तो
मुनिः पुलस्त्येन पुराणमाद्यम्।
सोऽहं तवैतत्कथयामि वत्स
श्रद्धालवे नित्यमनुव्रताय॥
मूलम्
प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम्।
सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय॥ ९ ॥
अनुवाद (हिन्दी)
इसके पश्चात् परम दयालु पराशरजीने पुलस्त्य मुनिके कहनेसे वह आदिपुराण मुझसे कहा। वत्स! श्रद्धालु और सदा अनुगत देखकर अब वही पुराण मैं तुम्हें सुनाता हूँ॥ ९॥
वीरराघवः
दयालुः स मुनिः पराशरः पुलस्त्येनोक्तः, त्वं परदेवता-परमार्थ्य-ज्ञानवान् पुराण-कर्ता च भवेति दत्त-वरः एवं ह्य् आख्यायिका पितरं राक्षस-भक्षितं श्रुत्वा पराशरो राक्षस-सत्रे प्रवृत्तः, वसिष्ठ-वचनान् निवृत्तः, ततः पुलस्त्येन स्व-संतति-रक्षणात् तुष्टेन वरो दत्तः “पुराण-संहिता-कर्ता भवान् वत्स ! भविष्यति । देवता-पारमार्थ्यं च यथावद् वेत्स्यते भवान् इति एवं-भूतः दयालुः पराशरः मह्यं पुराणं प्रोवाच सो ऽहं श्री-पराशरेणोपदिष्ट-श्रीभागवत-पुराणो ऽहं हे वत्स ! विदुर ! श्रद्धालवे नित्यम् अनुव्रताय च तव तुभ्यं नित्यम् इति पूर्व-परान्वयि, तवेति विभक्ति-व्यत्यय आर्षः, एतच्-श्रीभागवतं कथयामि ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
उदाप्लुतं विश्वमिदं तदाऽऽसीद्
यन्निद्रयामीलितदृङ् न्यमीलयत्।
अहीन्द्रतल्पेऽधिशयान एकः
कृतक्षणः स्वात्मरतौ निरीहः॥
मूलम्
उ2दाप्लुतं विश्वमिदं तदाऽऽसीद् यन्निद्रया मीलितदृङ् न्यमीलयत्।
अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्म3रतौ निरीहः॥ १० ॥
अनुवाद (हिन्दी)
सृष्टिके पूर्व यह सम्पूर्ण विश्व जलमें डूबा हुआ था। उस समय एकमात्र श्रीनारायणदेव शेषशय्यापर पौढ़े हुए थे। वे अपनी ज्ञानशक्तिको अक्षुण्ण रखते हुए ही, योगनिद्राका आश्रय ले, अपने नेत्र मूँदे हुए थे। सृष्टिकर्मसे अवकाश लेकर आत्मानन्दमें मग्न थे। उनमें किसी भी क्रियाका उन्मेष नहीं था॥ १०॥
वीरराघवः
एवं संकर्षणात् संप्रदाय-प्रवृत्तिं प्रदर्श्य प्रस्तुत-प्रश्नानाम् उत्तराणि विवक्षुः पूर्वोक्ताम् एव महद्-आदि-पृथिव्यन्त-तत्त्व-सृष्टिम् उपजीव्य ब्रह्माण्ड-रूप-पद्मोत्पत्तिं वक्ष्यन्न् अन्तरा जगद्-व्यापाराधिकृतानिरुद्ध-रूपि-भगवद्-अवस्थिति-प्रकारम् आह उदाप्लुतम् इति द्वाभ्याम् । यद् यदा ऽहीन्द्र-तल्पे शेषय्यायामधिशयाम् अधिशयान एकः असहायः कृत-क्षणः तत्-कालिक-जगद्-व्यापाराद् उपर तत्वेन लब्ध-योग-निद्रावसरः स्वात्म-रतौ स्वात्मानुभव-सुखे ऽहीनः, पूर्णः अनीह इत्य् अपि पाठः, तदा स्वात्म-रतौ कृत-क्षणः अनीहः निष्क्रियः निद्रया स्वात्मानुभव-रूप-योग-निद्रया न्यमीलयत् लोचन इति शेषः । तदेदं विश्वं चेतनाचेतनात्मकं जगद् उदाचरणोदकेनाप्लुतं व्याप्तम् इत्य् अर्थः । अन्यथा ब्रह्माण्ड-रूप-पद्मोत्पत्तेर् वक्ष्यमाणत्वायोगात्, इदम् उदाप्लुतम् इति नैतत्-कालिकावस्थयावस्थितस्योदाप्लुतत्वम् उच्यते, तत्-कारण-भूत-जातस्यावरण-जल-सृष्टि-द्वारा स्व-कार्योदक-व्याप्तिर् उच्यते, आवरण-जल-पर्यन्तं सृष्ट्वा तस्मिन्न् आवरण-जले शयितवान् इत्य् उक्तं भवति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः
कालात्मिकां शक्तिमुदीरयाणः।
उवास तस्मिन् सलिले पदे स्वे
यथानलो दारुणि रुद्धवीर्यः॥
मूलम्
सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः।
उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः॥ ११ ॥
अनुवाद (हिन्दी)
जिस प्रकार अग्नि अपनी दाहिका आदि शक्तियोंको छिपाये हुए काष्ठमें व्याप्त रहता है, उसी प्रकार श्रीभगवान्ने सम्पूर्ण प्राणियोंके सूक्ष्म शरीरोंको अपने शरीरमें लीन करके अपने आधारभूत उस जलमें शयन किया, उन्हें सृष्टिकाल आनेपर पुनः जगानेके लिये केवल कालशक्तिको जाग्रत् रखा॥ ११॥
वीरराघवः
पुनस् तम् एव विशिनष्टि स इति । अन्तः-शरीरे शरीरान्तर्-अर्पित-भूत-सूक्ष्मः, अर्पितानि निहितानि भूत-सूक्ष्माणि येन सः, दिव्य-विग्रहस्य भोक्तृ-करण-विषय-निरूपक-शक्ति-त्रयाश्रयत्वात् कारणत्वानां तद्-अन्तर्गतत्वं युक्तं; कालात्मिकां शक्तिं स्व-पृथक्-सिद्ध-विशेषण-भूतं कालं उदीरयाणः प्रेरयन् काल-शक्ति-प्रेरणं पुनः सृष्ट्यवसरे प्रबोधनार्थं, स्वे स्वकीये पदे स्थाने सलिले विष्णोर् आयतनं हि स्मर्यते उवास उषितवान् बहिर्-व्यापाराभावे दृष्टान्तः यथानल इति । दारुणि काष्ठे ऽनलो ऽग्निः रुद्ध-वीर्यः निरुद्ध-प्रकाशत्व-पिङ्गलत्व-दाहकत्वादि-स्वभावो ऽवतिष्ठते एवं सो ऽपि स्वेच्छयैवानाविष्कृत-स्रष्टृत्वादि-सामर्थ्य आस्त इत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
चतुर्युगानां च सहस्रमप्सु
स्वपन् स्वयोदीरितया स्वशक्त्या।
कालाख्ययाऽऽसादितकर्मतन्त्रो
लोकानपीतान्ददृशे स्वदेहे॥
मूलम्
चतुर्युगानां च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या।
का4लाख्ययाऽऽसादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे॥ १२ ॥
अनुवाद (हिन्दी)
इस प्रकार अपनी स्वरूपभूता चिच्छक्तिके साथ एक सहस्र चतुर्युगपर्यन्त जलमें शयन करनेके अनन्तर जब उन्हींके द्वारा नियुक्त उनकी कालशक्तिने उन्हें जीवोंके कर्मोंकी प्रवृत्तिके लिये प्रेरित किया, तब उन्होंने अपने शरीरमें लीन हुए अनन्त लोक देखे॥ १२॥
वीरराघवः
एवम् अन्तरावस्थितिम् अभिधाय तस्य ब्रह्माण्ड-सृष्ट्यौन्मुख्यम् आह चतुर् इति । सहस्र-शब्दो ऽनन्त-वाची, अनेक-कालम् इत्य् अर्थः । चतुर्युगानां कृतादीनां सहस्रम् अप्सु स्वपन्न् अत एवासादित-लोके तन्त्रः, असंपादित-लोक-रचनः, स्व-योगेनेरितया स्व-सङ्कल्पप्रेरितया स्व-शक्त्या स्वापृथक्-सिद्ध-विशेषण-भूतया कालरूप-शक्त्या हेतु-भूतया तयोपलक्षित इति वानिपीतान् अर्पितान् लोकान् स्व-देहे ददृशे लोक-कारण-भूतान् भूत-सूक्ष्म-रूपान् अर्थान् दृष्टवान् इत्य् अर्थः । स्व-देह इत्यस्य दिव्य-विग्रहाश्रये न त्व् अधिष्ठिते प्रधाने इत्यर्थः “श्रीवत्स-संस्थान-धर्मम् अनेन च सूत्रितं प्रधानम्” इति हि पराशर-वचनं देह-शब्दस्य दिव्य-मङ्गल-विग्रह-परत्वम् अपि तत्त्वं सद्वारकं देह-शब्दः प्रधान-परो वा, “यस्याव्यक्तं शरीरम्” इति हि श्रुतिः अत्र चतुर्युगानां सहस्रं स्वपत इत्य् उक्त्या नाभि-देशात् स पद्म-कोशः सहसोदतिष्ठद् इत्य्-अभिधानेन “क्रमेण त्व् अविवृद्धं तज्-जलबुद्बुदवत्-सम्” इति वचनार्थः स्मारितो भवति अण्ड-सृष्टौ प्रारब्धायां गृह-गोपुरादि-निर्माणेष्व् इव विलम्बो नेति हि तस्यार्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-
रन्तर्गतोऽर्थो रजसा तनीयान्।
गुणेन कालानुगतेन विद्धः
सूष्यंस्तदाभिद्यत नाभिदेशात्॥
मूलम्
तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान्।
गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात्॥ १३ ॥
अनुवाद (हिन्दी)
जिस समय भगवान्की दृष्टि अपनेमें निहित लिंगशरीरादि सूक्ष्मतत्त्वपर पड़ी, तब वह कालाश्रित रजोगुणसे क्षुभित होकर सृष्टिरचनाके निमित्त उनके नाभिदेशसे बाहर निकला॥ १३॥
वीरराघवः
अथ ब्रह्माण्डोत्पत्तिम् आह द्वाभ्यां तस्येति । अर्थ-सूक्ष्माभिनिविष्ट-दृष्टे भूत-सूक्ष्मेषु प्रवर्तक-सङ्कल्प-रूप-ज्ञानस्य तस्य भगवतो ऽन्तर्गतः देहान्तर्गतः तनीयान् सूक्ष्मतरः अर्थः भूत-सूक्ष्म-वर्ग-कालानुगतेन काल-वशाद् उन्मिषितेन रजसा गुणेन विद्धः स्पृष्टः सूत्यन् प्रसोष्यन्न् उद्भविष्यन् नाभि-देशान् निरभिद्यत, उदभूद् इत्य् अर्थः । रजसा, उद्भृत-रजसा भूत-सूक्ष्म-जातं जगत्-पद्म-रूपेण परिणतम् इत्य् अर्थः । रजः-शब्देन पद्म-राग-समाधिश् च सूच्यते ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
स पद्मकोशः सहसोदतिष्ठत्
कालेन कर्मप्रतिबोधनेन।
स्वरोचिषा तत्सलिलं विशालं
विद्योतयन्नर्क इवात्मयोनिः॥
मूलम्
स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधनेन।
स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः॥ १४ ॥
अनुवाद (हिन्दी)
कर्मशक्तिको जाग्रत् करनेवाले कालके द्वारा विष्णुभगवान्की नाभिसे प्रकट हुआ वह सूक्ष्मतत्त्व कमलकोशके रूपमें सहसा ऊपर उठा और उसने सूर्यके समान अपने तेजसे उस अपार जलराशिको देदीप्यमान कर दिया॥ १४॥
वीरराघवः
कथं-भूतो निरभिद्यत इत्य् अत आह सः तनीयान्न् अर्थः आत्म-योनिः आत्मा योनिः कारणं यस्य स आत्म-योनिः परमात्म-सृष्टः पद्म-कोशः लोकात्मक-पद्म-रूपः कर्म जीवादृष्टं तत् प्रतिबोध्यते ऽनेनेति तथा कालेन सहसा न क्रमेणेत्यर्थः । उदतिष्ठत् कथंभूतः पद्म-कोशः स्वरोचिषा विशालं तत् सलिलम् आवर्ण-जलं सूर्य इव विद्योतयन् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तल्लोकपद्मं स उ एव विष्णुः
प्रावीविशत्सर्वगुणावभासम्।
तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत्॥
मूलम्
तल्लोकपद्मं स5 उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम्।
तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत्॥ १५ ॥
अनुवाद (हिन्दी)
सम्पूर्ण गुणोंको प्रकाशित करनेवाले उस सर्वलोकमय कमलमें वे विष्णुभगवान् ही अन्तर्यामीरूपसे प्रविष्ट हो गये। तब उसमेंसे बिना पढ़ाये ही स्वयं सम्पूर्ण वेदोंको जाननेवाले साक्षात् वेदमूर्ति श्रीब्रह्माजी प्रकट हुए , जिन्हें लोग स्वयम्भू कहते हैं॥ १५॥
वीरराघवः
अथ भगवन्-नाभि-देशाद् उत्पन्न-ब्रह्माण्ड-रूप-पद्म-कोशे चतुर्मुखोत्पत्तिम् उत्पन्नस्य तस्य व्यापारं च वक्ष्यंस् तस्य तद्-अधिष्ठित-पद्मस्य च भगवद्-आत्मकत्वम् आह अर्द्धेन तद् इति । उ इति संबोधने विस्मये वा सर्व-गुणावभासं जीवोपभोग्यान् अर्थान् अवभासयतीति तथा तल् लोक-पद्मं स एव यस्माज् जातं स एव विष्णुः प्रावीविशद् अन्तर्यामितया प्रविष्टो ऽभूत् । निवृत्त-प्रेरणाद् विशेर् णिच् धिष्ण्यम् इति पाठान्तरम् तदा सर्वे गुणाः स्रष्टृत्वौपायिका गुणाः तैर् अवभास्यते इति तथाभूतं स्वात्मकं जीव-विशेषं लोक-पद्म-रूपं धिष्ण्यं प्रावीविशत् प्रविष्टम् अकरोन् नाभि-सरसिजे स्थापयामासेत्य् अर्थः । को ऽसौ स्वात्मको जीव-विशेष इत्यपेक्षायां तद् विशदयन् तस्य तत्रोत्पत्तिम् आह तस्मिन्न् इति । यं स्वयंभुवं प्रवदन्ति स वेद-मयो वेदप्रचुरः विधाता स्रष्टा तस्मिन् पद्मे ऽभूद् उत्पन्नः उदाप्लुतम् इत्यादयः श्लोका अवान्तर-प्रलय-परा वा वर्णनीयाः तदानीम् अर्थः सुगमः तथाहि पूर्वं “सर्गांश् चैवानुसर्गांश् च” इति चतुर्मुखात् पूर्वोत्तर-सृष्ट्याः “पृष्टत्वात् तत्र भगवान् एक आसेदम् अग्रे आत्मात्मनां विभुर्” इत्यादी महा-प्रलय-कथन-पूर्वकं चतुर्मुखात् प्राक्तन-सर्गस्य कथितत्वात् तपजीव्येदानीम् अवान्तर-प्रलय-कथन-पूर्वकम् अवान्तर-सर्गः चतुर्मुख-पाश्चात्यः दैनन्दिनः कथ्यते तत्र दैनन्दिन-सर्गाणां तत्-प्रलयानां च बहुत्वात् तत्-कथनस्य तच्-छ्रवणस्य चाशक्यत्वात् पूर्व-परार्धान्तिमं पाद्माख्यं कल्पम् एतत्-कल्पापेक्षया सन्निहितत्वात् कथयितुं प्रलय-पूर्वकत्वात् सृष्टेः सृष्टि-प्रकरणेषु ‘सद् एव सौम्येदम् अग्रे आसीद्” इत्यादि-प्रलय-कथन-पूर्वकम् एव सृष्टि-कथनाच् च प्रथमं पाद्म-कल्पात् प्राक्तनं प्रलयम् आह उदाप्लुतम् इति । ‘निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम्” इत्यारभ्य “प्लावयन्त्युत्कटाटोप-चण्ड-वातेरितोर्मयः’ इत्यन्तं वक्ष्यमाण-रीत्या विश्वं त्रिलोकात्मकं जगद् उदाप्लुतम् आसीद् इत्य् अर्थः । अन्यत् पूर्ववत् एवं प्रलयम् अभिधाय सर्गं वक्तुम् आरभते तस्येत्यादिना । प्राक्-कल्पान्ते धाता भगवतो योग-निद्रायां त्रिलोक्या सह भगवति तिरोहितः, तस्मिंश् च प्रबुद्धे तत एव पाद्मे कल्पे पद्म-द्वारेणाभिव्यक्तिं प्राप्त इति कथयितुं पद्मोद्भवम् आह तयेति द्वाभ्याम् । धिष्ण्यं प्रावीविशत् स्व-स्थानं न प्रविष्टम् अकरोन् नाभि-सरसि स्थापयामासेत्य् अर्थः । अन्यत् पूर्ववत् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तस्यां स चाम्भोरुहकर्णिकाया-
मवस्थितो लोकमपश्यमानः।
परिक्रमन् व्योम्नि विवृत्तनेत्र-
श्चत्वारि लेभेऽनुदिशं मुखानि॥
मूलम्
तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः।
परिक्रमन् व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि॥ १६ ॥
अनुवाद (हिन्दी)
उस कमलकी कर्णिका (गद्दी)-में बैठे हुए ब्रह्माजीको जब कोई लोक दिखायी नहीं दिया, तब वे आँखें फाड़कर आकाशमें चारों ओर गर्दन घुमाकर देखने लगे, इससे उनके चारों दिशाओंमें चार मुख हो गये॥ १६॥
वीरराघवः
अस्य चतुर्मुखाख्य-जीव-विशेषस्य कर्मणा संकुचित-ज्ञानस्य भगवद्-उपासनयैवाविर्भूत-ज्ञान-क्रिया-शक्तेर् लोक-कर्तृत्वं न स्वत इति वक्तुं तस्य प्रथमं मोहनम् आह तस्याम् इत्यादिना द्वाभ्याम् । स च स्वयंभूः । तस्यां जगत्-पद्म-कर्णिकायाम् अवस्थितस् तिष्ठन् लोकं प्रपञ्चम् अपश्यमानः तद्-दर्शनार्थं व्योम्नि विवृत्ते नेत्रे यस्य सः परिक्रमन् कमल-मध्ये चतुर्दिक्षु परिभ्रमन् चत्वारि मुखानि लेभे प्राप्तवान् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्माद्युगान्तश्वसनावघूर्ण-
जलोर्मिचक्रात्सलिलाद्विरूढम्।
उपाश्रितः कञ्जमु लोकतत्त्वं
नात्मानमद्धाविददादिदेवः॥
मूलम्
तस्माद्युगान्तश्वसनावघूर्णजलोर्मिचक्रात्सलिलाद्विरूढम्।
उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः॥ १७ ॥
अनुवाद (हिन्दी)
उस समय प्रलयकालीन पवनके थपेड़ोंसे उछलती हुई जलकी तरंगमालाओंके कारण उस जलराशिसे ऊपर उठे हुए कमलपर विराजमान आदिदेव ब्रह्माजीको अपना तथा उस लोकतत्त्वरूप कमलका कुछ भी रहस्य न जान पड़ा॥ १७॥
वीरराघवः
तस्मात् ततः युगान्ते प्रलयान्ते यः श्वसनः पवनस् तेनावघूर्णं भ्रमत् यन् महोर्मीणाम् अत्युच्च-तरङ्गाणां चक्रं तद् यस्य तस्मात् सलिलाद् विरूढं कञ्जं जगत्-पद्मम् उपाश्रितः अधिष्ठितः आदि-देवश् चतुर्मुखः लोक-तत्त्वं लोकात्मक-पद्म-तत्त्वम् आत्मानं चाद्धा तत्त्वेन न वेद ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
क एष योऽसावहमब्जपृष्ठ
एतत्कुतो वाब्जमनन्यदप्सु।
अस्ति ह्यधस्तादिह किञ्चनैत-
दधिष्ठितं यत्र सता नु भाव्यम्॥
मूलम्
क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु।
अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम्॥ १८ ॥
अनुवाद (हिन्दी)
वे सोचने लगे, ‘इस कमलकी कर्णिकापर बैठा हुआ मैं कौन हूँ? यह कमल भी बिना किसी अन्य आधारके जलमें कहाँसे उत्पन्न हो गया? इसके नीचे अवश्य कोई ऐसी वस्तु होनी चाहिये, जिसके आधारपर यह स्थित है’॥ १८॥
वीरराघवः
अवेदनम् एव प्रपञ्चयति क इति । अब्ज-पृष्ठे कमल-कर्णिकायां स्थितो योसाव् अहम् इत्य् एष कः अनन्यद् अद्वितीयम् । एतद् अब्जम् अप्सु कुतो वा जातम् एवम् अब्जस्य तस्य तर्कम् आह अस्तीति । अत्राधिष्ठाने एतत् पद्मम् अधिष्ठितं तद्-अधिष्ठान-भूतं किञ्चन वस्तु अधस्ताद् अस्ति हि यस्मात् सतैवानुभाव्यं विद्यमानाधिष्ठानेनैवाधिष्ठेयेन पद्मेन भवितव्यम् । अधिष्ठानाभावे ऽधिष्ठेयस्य पद्मस्यासंभवाद् इत्य् अर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
स इत्थमुद्वीक्ष्य तदब्जनाल-
नाडीभिरन्तर्जलमाविवेश।
नार्वाग्गतस्तत्खरनालनाल-
नाभिं विचिन्वंस्तदविन्दताजः॥
मूलम्
स इत्थमुद्वीक्ष्य तदब्जनालना5डीभिरन्तर्जलमाविवेश।
नार्वाग्गतस्तत्खरनालनाल6नाभिं विचिन्वंस्तदविन्दताजः॥ १९ ॥
अनुवाद (हिन्दी)
ऐसा सोचकर वे उस कमलकी नालके सूक्ष्म छिद्रोंमें होकर उस जलमें घुसे। किन्तु उस नालके आधारको खोजते-खोजते नाभिदेशके समीप पहुँच जानेपर भी वे उसे पा न सके॥ १९॥
वीरराघवः
स इति । स ब्रह्मा इत्थम् उक्त-प्रकारेणोद् वीक्ष्य प्रतर्क्य तद्-अब्ज-नाल-नाडीभिस् तल्-लोक-पद्म-नाल-छिद्रैर् अन्तर्-जलं जलस्यान्तः प्रविवेश प्रविष्टश् च अजः ब्रह्मा खरं कठिनं नालं यस्य तस्य पद्मस्य नाभिम् अधिष्ठानं विचिन्वन्न् अन्वेष्यन्न् अर्वाग्गतो ऽपि तदा तद्-अधिष्ठानं नाविन्दत न लेभे ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तमस्यपारे विदुरात्मसर्गं
विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः।
यो देहभाजां भयमीरयाणः
परिक्षिणोत्यायुरजस्य हेतिः॥
मूलम्
तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः।
यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः॥ २० ॥
अनुवाद (हिन्दी)
विदुरजी! उस अपार अन्धकारमें अपने उत्पत्ति-स्थानको खोजते-खोजते ब्रह्माजीको बहुत काल बीत गया। यह काल ही भगवान्का चक्र है, जो प्राणियोंको भयभीत (करता हुआ उनकी आयुको क्षीण) करता रहता है॥ २०॥
वीरराघवः
तमसीति । हे विदुर ! अपारे तमसि तमोवद् रूप-दर्शन-प्रतिबन्धके जलं आत्म-सर्गम् सृज्यते ऽनेनेति कर्तुर् एव करणत्व-विवक्षायां वा अधिकरणे वा घञ् आत्म-कारणम् इत्य् अर्थः । विचिन्वतः सतः त्रिणेमिः न्यूनाधिक-सम-दिवस-रूप-नेमि-त्रय-युक्तः महान् दीर्घः स कालः आत्म-भू-संवत्सर-शतम् अतिक्रान्तम् इत्य् अर्थः । कथंभूतो ऽसौ त्रिणेमिः यः अजस्य भगवतः हेतिः काल-चक्रं सुदर्शन-रूपं शस्त्रं देह-भाजां देह-धारिणां भयम् ईरयन्न् उत्पादयन्न् आयुः परिक्षिणोति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
ततो निवृत्तोऽप्रतिलब्धकामः
स्वधिष्ण्यमासाद्य पुनः स देवः।
शनैर्जितश्वासनिवृत्तचित्तो
न्यषीददारूढसमाधियोगः॥
मूलम्
ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः।
शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः॥ २१ ॥
अनुवाद (हिन्दी)
अन्तमें विफल मनोरथ हो वे वहाँसे लौट आये और पुनः अपने आधारभूत कमलपर बैठकर धीरे-धीरे प्राणवायुको जीतकर चित्तको निःसंकल्प किया और समाधिमें स्थित हो गये॥ २१॥
वीरराघवः
एवं लोक-पद्माधिष्ठान-भूतः परमात्मा नान्वेषणाद् अवगतः किं तूपानसयैवेत्य् आह तत इति द्वाभ्याम् । स देवः ब्रह्मा ऽप्रतिलब्ध-कामः न प्रतिलब्धः कामः अधिष्ठान-दर्शन-रूप-मनोरथः येन सः ततो ऽन्वेषणात् प्रतिनिवृत्य पुनः स्व-धिष्ण्यं कमल-कर्णिकाम् आसाद्य शनैर् जिताः श्वासाः प्राणा निवृत्तं विषय-विमुखं कृतं चित्तञ् च येन सः अत एव आरूढ-समाधि-योगः आरूढ आश्रितः समाधिर् एव योगो येन तथाभूतः सन् न्यषीदत् उपविष्टवान् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
कालेन सोऽजः पुरुषायुषाभि-
प्रवृत्तयोगेन विरूढबोधः।
स्वयं तदन्तर्हृदयेऽवभात-
मपश्यतापश्यत यन्न पूर्वम्॥
मूलम्
कालेन सोऽजः पुरुषायुषाभिप्रवृत्तयोगेन विरूढबोधः।
स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम्॥ २२ ॥
अनुवाद (हिन्दी)
इस प्रकार पुरुषकी पूर्ण आयुके बराबर कालतक (अर्थात् दिव्य सौ वर्षतक) अच्छी तरह योगाभ्यास करनेपर ब्रह्माजीको ज्ञान प्राप्त हुआ; तब उन्होंने अपने उस अधिष्ठानको, जिसे वे पहले खोजनेपर भी नहीं देख पाये थे, अपने ही अन्तःकरणमें प्रकाशित होते देखा॥ २२॥
वीरराघवः
कालेनेति । सो ऽजः ब्रह्मा पुरुषायुषा कालेन शत-संवत्सर-पर्यन्त-कालेनाभिप्रवृत्तो यो योगः समाधि-योगस् तेन विरूढ उत्पन्नो बोधो यस्य सः यत् पूर्वं विचिन्वन् जलेनापश्यत् तत् स्वयम् एवान्तर्-हृदये ऽवभातम् अपश्यत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
मृणालगौरायतशेषभोग-
पर्यंक एकं पुरुषं शयानम्।
फणातपत्रायुतमूर्धरत्न-
द्युभिर्हतध्वान्तयुगान्ततोये॥
मूलम्
मृणालगौरायतशेषभोगपर्यङ्क एकं पुरुषं शयानम्।
फणातपत्रायुतमूर्धरत्नद्युभिर्हतध्वान्तयुगान्ततोये॥ २३ ॥
अनुवाद (हिन्दी)
उन्होंने देखा कि उस प्रलयकालीन जलमें शेषजीके कमलनालसदृश गौर और विशाल विग्रहकी शय्यापर पुरुषोत्तमभगवान् अकेले ही लेटे हुए हैं। शेषजीके दस हजार फण छत्रके समान फैले हुए हैं। उनके मस्तकोंपर किरीट शोभायमान हैं, उनमें जो मणियाँ जड़ी हुई हैं, उनकी कान्तिसे चारों ओरका अन्धकार दूर हो गया है॥ २३॥
वीरराघवः
तद् वर्णयति मृणालेत्य्-आदि-नवभिः । नवस्व् अप्य् अस्तौद् इत्यस्यैवानुषङ्गः । मृणालवत् पद्म-तन्तुवद् गौरश् चासाव् आयतश् च यः शेषस्य भोगः स एव पर्यङ्कः तस्मिन् शयानम् एकं पुरुषम् अपश्यत् । कुत्र स्थिते पर्यङ्के फणा एवातपत्राणि तैर् आयताः सर्वतो युक्ता ये मूर्द्धानः तेषां रत्नानि किरीट-स्थानि तेषां द्युतिभिः प्रभाभिः हतं निरस्तं ध्वान्तम् अन्धकारं यस्मिंस् तस्मिन् युगान्त-तोये स्थित इत्य् अर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः
सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः।
रत्नोदधारौषधिसौमनस्य-
वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः॥
मूलम्
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः।
रत्नोदधारौषधिसौमनस्यवनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः॥ २४ ॥
अनुवाद (हिन्दी)
वे अपने श्याम शरीरकी आभासे मरकतमणिके पर्वतकी शोभाको लज्जित कर रहे हैं। उनकी कमरका पीतपट पर्वतके प्रान्त देशमें छाये हुए सायंकालके पीले-पीले चमकीले मेघोंकी आभाको मलिन कर रहा है, सिरपर सुशोभित सुवर्णमुकुट सुवर्णमय शिखरोंका मान मर्दन कर रहा है। उनकी वनमाला पर्वतके रत्न, जलप्रपात, ओषधि और पुष्पोंकी शोभाको परास्त कर रही है तथा उनके भुजदण्ड वेणुदण्डका और चरण वृक्षोंका तिरस्कार करते हैं॥ २४॥
वीरराघवः
कथंभूतं पुरुषं हरितोपलाद्रेर् मरकत-शिलामय-पर्वतस्य प्रेक्षां शोभां क्षिपन्तं स्व-लावण्यातिशयेन तिरस्कुर्वन्तं कथं-भूतस्य हरितोपलाद्रेः सन्ध्याभ्रम् एव नीविः परिधानं यस्य तस्य सन्ध्याभ्रस्य शोभां पीताम्बरेण क्षिपन्तम् इत्य् अर्थः । उरु-रुक्म-मूर्ध्नः भूयिष्ठ-कनक-शृङ्गस्य किरीटैः कनक-शृङ्ग-शोभां क्षिपन्तम् इत्य् अर्थः । रत्नानि च उदक-धाराश् च ओषधयः पुष्प-ज्योतींषि च सौमनस्यानि पुष्पाणि सुमनसां समूहा एव वा तेषां वन-स्रजो वन-मालाश् च यस्य तस्य वेणव एव भुजा अङ्घ्रिपा वृक्षा एवाङ्घ्रयः पादा यस्य तस्य स्वीय-रत्न-तुलसी-मुक्ता पुष्प-दामभिः भुजैर् अङ्घ्रिभिश् च हरितोपलाद्रेः रत्नादीन् अङ्घ्रिपान् तान् क्षिपन्तम् इवेत्य् अर्थः । यदि मरकताद्रेः रत्नादयो वन-माला इव वेणवो भुजा इव वृक्षाश् च पादा इव वर्तेरंस् तर्हि तस्य शोभां स्वीय-रत्नादिभिः क्षिपन्तम् इवेत्य् अय भूतोपमेयम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
आयामतो विस्तरतः स्वमान-
देहेन लोकत्रयसंग्रहेण।
विचित्रदिव्याभरणांशुकानां
कृतश्रियापाश्रितवेषदेहम्॥
मूलम्
आयामतो विस्तरतः स्वमानदेहेन लोकत्रयसंग्रहेण।
विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रित7वेषदेहम्॥ २५ ॥
अनुवाद (हिन्दी)
उनका वह श्रीविग्रह अपने परिमाणसे लंबाई-चौड़ाईमें त्रिलोकीका संग्रह किये हुए है। वह अपनी शोभासे विचित्र एवं दिव्य वस्त्राभूषणोंकी शोभाको सुशोभित करनेवाला होनेपर भी पीताम्बर आदि अपनी वेशभूषासे सुसज्जित है॥ २५॥
वीरराघवः
किञ्चाऽऽयामतः दैर्घ्येण विस्तरतः विस्तरेण च स्व-मान-देहेन स्वानुरूप-प्रमाण-देहेनात एव लोक-त्रय-संग्रहेण लोक-त्रयं संगृह्यते ऽनेनास्मिन्न् इति वा लोक-त्रय-संग्रहस् तेन चित्राण्य् अद्भुतानि दिव्यान्य् अमानुषाण्य् आभरणान्य् अंशुकानि च येषां तेषां तृतीयार्थे षष्ठी, तैः कृता संपादिता श्रीः शोभा यस्य तेनेति देह-विशेषणं यद् वा आभरणांशुकैः कृता या श्रीः तया लोक-त्रय-संग्राहक-स्वमान-देहेन चोपाश्रितः वेष-देहः उपाश्रितः स्फीतः वेषो यस्य स उपाश्रित-वेषः एवं-भूतो देहो यस्य तम् इति बहुव्रीहि-गर्भो बहुव्रीहिः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
पुंसां स्वकामाय विविक्तमार्गै-
रभ्यर्चतां कामदुघाङ्घ्रिपद्मम्।
प्रदर्शयन्तं कृपया नखेन्दु-
मयूखभिन्नाङ्गुलिचारुपत्रम्॥
मूलम्
पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम्।
प्रदर्शयन्तं कृपया नखेन्दुमयूखभिन्नाङ्गुलिचारुपत्रम्॥ २६ ॥
अनुवाद (हिन्दी)
अपनी-अपनी अभिलाषाकी पूर्तिके लिये भिन्न-भिन्न मार्गोंसे पूजा करनेवाले भक्तजनोंको कृपापूर्वक अपने भक्तवाञ्छाकल्पतरु चरणकमलोंका दर्शन दे रहे हैं, जिनके सुन्दर अंगुलिदल नखचन्द्रकी चन्द्रिकासे अलग-अलग स्पष्ट चमकते रहते हैं॥ २६॥
वीरराघवः
पुंसाम् इति । स्व-कामाय स्वाभिलषित-फलाय विविक्त-मार्गैर् असङ्कीर्णैर् वर्णाश्रमादि-धर्मैर् अभ्यर्चताम् आराधयतां पुंसां कामान् समीहित-फलानि दोग्धीति काम-दुघं यद् अङ्घ्रि-पद्मं तत् कृपया प्रदर्शयन्तं पुरुषम् अपश्यत् । कथंभूतम् अङ्घ्रि-पद्मं नखा एवेन्दवः तेषां मयूखैः किरणैः भिन्नाः संभिन्ना व्याप्ता इत्य् अर्थः । ते चाङ्गुलय एव चारूणि सुन्दराणि पत्राणि यस्य तत् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
मुखेन लोकार्तिहरस्मितेन
परिस्फुरत्कुण्डलमण्डितेन।
शोणायितेनाधरबिम्बभासा
प्रत्यर्हयन्तं सुनसेन सुभ्र्वा॥
मूलम्
मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन।
शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्व्रा॥ २७ ॥
अनुवाद (हिन्दी)
सुन्दर नासिका, अनुग्रहवर्षी भौंहें, कानोंमें झिलमिलाते हुए कुण्डलोंकी शोभा, बिम्बाफलके समान लाल-लाल अधरोंकी कान्ति एवं लोकार्तिहारी मुसकानसे युक्त मुखारविन्दके द्वारा वे अपने उपासकोंका सम्मान—अभिनन्दन कर रहे हैं॥ २७॥
वीरराघवः
मुखेनेति । लोकानाम् उपासकानाम् आर्त्ति-हरं दुःख-हरं स्मितं यस्मिंस् तेन परिस्फुरद्भ्यां कुण्डलाभ्यां मण्डितेनाधर-बिम्ब-दीप्त्या शोणायितेन शोणवद् आचरितेन सु-नसा शोभन-नासिकायुक्तेन सु-भ्व्रा सु-भ्रुवा चाननेन प्रत्यर्हयन्तम् उपासकान् संमानयन्तम् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
कदम्बकिञ्जल्कपिशङ्गवाससा
स्वलंकृतं मेखलया नितम्बे।
हारेण चानन्तधनेन वत्स
श्रीवत्सवक्षःस्थलवल्लभेन॥
मूलम्
कदम्बकिञ्जल्कपि8शङ्गवाससा स्वलंकृतं मेखलया नितम्बे।
हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन॥ २८ ॥
अनुवाद (हिन्दी)
वत्स! उनके नितम्बदेशमें कदम्बकुसुमकी केसरके समान पीतवस्त्र और सुवर्णमयी मेखला सुशोभित है तथा वक्षःस्थलमें अमूल्य हार और सुनहरी रेखावाले श्रीवत्सचिह्नकी अपूर्व शोभा हो रही है॥ २८॥
वीरराघवः
किञ्च कदम्ब-किञ्जल्कवत्-पिशङ्ग-वर्णेन वाससा मेखलया च नितम्बेष्व् अलङ्कृतं हे वत्स ! हे विदुर ! अनन्त-धनेन बहु-मूल्येन श्रीवत्स-युक्तं यद् वक्षः-स्थलं तस्य वल्लभेन सुन्दरतर-भूषण-भूषितेन हारेण च स्वलङ्कृतम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
परार्घ्यकेयूरमणिप्रवेक-
पर्यस्तदोर्दण्डसहस्रशाखम्।
अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र-
महीन्द्रभोगैरधिवीतवल्शम्॥
मूलम्
परार्घ्यकेयूरमणिप्रवेकपर्यस्तदोर्दण्डसहस्रशाखम्।
अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्रभोगैरधिवीतवल्शम्॥ २९ ॥
अनुवाद (हिन्दी)
वे अव्यक्तमूल चन्दनवृक्षके समान हैं। महामूल्य केयूर और उत्तम-उत्तम मणियोंसे सुशोभित उनके विशाल भुजदण्ड ही मानो उसकी सहस्रों शाखाएँ हैं और चन्दनके वृक्षोंमें जैसे बड़े-बड़े साँप लिपटे रहते हैं, उसी प्रकार उनके कंधोंको शेषजीके फणोंने लपेट रखा है॥ २९॥
वीरराघवः
पुनश् चन्दन-वृक्ष-रूपेण निरूपयितुं तं विशिनष्टि । परार्ध्यानि केयूराण्य् अङ्गदानि मणि-प्रवेकाः मण्युत्तमास् तैः पर्यस्ता व्याप्ता ये दोर्-दण्डा भुज-दण्डा एव सहस्रम् अनन्ताः शाखा तस्य तं वृक्षो ऽपि केयूरादि-तुल्यैः फल-पुष्पादिभिर् व्याप्त-शाखो भवति । अव्यक्तं ब्रह्म-मूलं यस्य तं ब्रह्माभिव्यक्ति-रूपत्वात् वृक्षस्यापि मूलम् अव्यक्तं भुवनाङ्घ्रिपेन्द्रं भुवन-कारणम् अङ्घ्रिपेन्द्रं वृक्ष-श्रेष्ठम् अहीन्द्रस्यानन्तस्य भोगैः फणैर् देहावयवैर् वा अभिवीताः संवेष्टिताः वल्शाः स्कन्धा यस्य तम् । वृक्षो ऽपि हि सर्प-वेष्टितो भवति ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
चराचरौको भगवन्महीध्र-
महीन्द्रबन्धुं सलिलोपगूढम्।
किरीटसाहस्रहिरण्यशृङ्ग-
माविर्भवत्कौस्तुभरत्नगर्भम्॥
मूलम्
चराचरौको भगवन्महीध्रमहीन्द्रबन्धुं सलिलोपगूढम्।
किरीटसाहस्रहिरण्यशृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम्॥ ३० ॥
अनुवाद (हिन्दी)
वे नागराज अनन्तके बन्धु श्रीनारायण ऐसे जान पड़ते हैं, मानो कोई जलसे घिरे हुए पर्वतराज ही हों। पर्वतपर जैसे अनेकों जीव रहते हैं, उसी प्रकार वे सम्पूर्ण चराचरके आश्रय हैं; शेषजीके फणोंपर जो सहस्रों मुकुट हैं वे ही मानो उस पर्वतके सुवर्णमण्डित शिखर हैं तथा वक्षःस्थलमें विराजमान कौस्तुभमणि उसके गर्भसे प्रकट हुआ रत्न है॥ ३०॥
वीरराघवः
प्रेक्षां क्षिपन्तम् इत्यत्रैव पर्वत-रूपेण रूपितम् अपि विशेषणान्तरैः पुना रूपयति चराचरेत्यादिना । भगवान् एव महीध्रः पर्वतस् तं कथंभूतं चराचराणामोकः स्थानं पर्वतो ऽपि तथा अहीन्द्रस्य शेषस्य बन्धुं पर्वतो ऽप्य् अहीन्द्राणां बन्धुः सलिलोपगूढं जलेनावृतं पर्वतो ऽपि मैनाकादिस् तथा । किरीटानां साहस्रम् एव हिरण्य-शृङ्गाणि यस्य तं मेर्वादिस् तथा । आविर्भवत् स्पष्टं दृश्यमानं कौस्तुभ-रत्नं गर्भे मूर्ति-मध्ये यस्य तम् । पर्वतस्यापि हि गर्भे क्वचिद् रत्नम् आविर्भवति ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
निवीतमाम्नायमधुव्रतश्रिया
स्वकीर्तिमय्या वनमालया हरिम्।
सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः
परिक्रमत्प्राधनिकैर्दुरासदम्॥
मूलम्
निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम्।
सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम्॥ ३१ ॥
अनुवाद (हिन्दी)
प्रभुके गलेमें वेदरूप भौंरोंसे गुंजायमान अपनी कीर्तिमयी वनमाला विराज रही है; सूर्य, चन्द्र, वायु और अग्नि आदि देवताओंकी भी आपतक पहुँच नहीं है तथा त्रिभुवनमें बेरोक-टोक विचरण करनेवाले सुदर्शनचक्रादि आयुध भी प्रभुके आस-पास ही घूमते रहते हैं, उनके लिये भी आप अत्यन्त दुर्लभ हैं॥ ३१॥
वीरराघवः
किञ्च वन-मालया निवीतं कण्ठ-बिम्ब-व्याप्तं कथंभूतया वन-मालया आम्नाय-मधु-व्रत-श्रिया आम्नाया वेदास् त एव मधु-व्रता भ्रमरास् तैः श्रीर् यस्यास् तया स्व-कीर्ति-मय्या स्व-कीर्ति-प्रचुरया स्व-कीर्तिङ्गायद्भिर् वेद-रूपैर् भ्रमरैर् आहित-शोभयेत्य् अर्थः । सूर्येन्दु-वाय्व्-अग्न्य्-अगमं सूर्यादिभिर् अगमम् अगम्यं स्व-व्यापारैर् आकालयितुम् अशक्यम् इत्य् अर्थः । सूर्येन्दु-ताराग्न्यगमम् इत्य् अपि पाठः तदा सूर्यादिभिर् अप्रकाश्यम् इत्यर्थः, तथा च श्रुतिः “न तत्र सूर्यो भाति न चन्द्र-तारकम्” इत्यादिका । त्रि-धामभिः त्रिषु लोकेषु धाम स्फूर्तिर् येषां तैः रक्षणार्थं परिक्रमद्भिः प्राधनिकैः प्रधनकः संग्रामस् तत्-प्रयोजनकैः सुदर्शनादि-हेतिभिर् दुरासदं दुष्प्रापम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तर्ह्येव तन्नाभिसरःसरोज-
मात्मानमम्भः श्वसनं वियच्च।
ददर्श देवो जगतो विधाता
नातः परं लोकविसर्गदृष्टिः॥
मूलम्
तर्ह्येव तन्नाभिसरःस9रोजमात्मानमम्भः श्वसनं वियच्च।
ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः॥ ३२ ॥
अनुवाद (हिन्दी)
तब विश्वरचनाकी इच्छावाले लोकविधाता ब्रह्माजीने भगवान्के नाभिसरोवरसे प्रकट हुआ वह कमल, जल, आकाश, वायु और अपना शरीर—केवल ये पाँच ही पदार्थ देखे, इनके सिवा और कुछ उन्हें दिखायी न दिया॥ ३२॥
वीरराघवः
तर्हीति । यद् एव हरिम् अपश्यत् तर्ह्येव तदेव लोक-विसर्ग-दृष्टिः लोक-सृष्ट्यर्थं ज्ञानं यस्य सः जगतां व्यष्टीनां कर्त्ता स्रष्टा देवः ब्रह्मा तस्य भगवतः नाभि-सरसि सरोजं श्वसनं प्रलय-काल-वायुं तात्कालिकम् अम्भ आत्मानं स्वात्मानं च ददर्श । ततः सरोजादिभ्यः परम् अन्यत् सृष्टि-प्रकारादिकं न ददर्शेत्यर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
स कर्मबीजं रजसोपरक्तः
प्रजाः सिसृक्षन्नियदेव दृष्ट्वा।
अस्तौद्विसर्गाभिमुखस्तमीड्य-
मव्यक्तवर्त्मन्यभिवेशितात्मा॥
मूलम्
स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा।
अस्तौद्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा॥ ३३ ॥
अनुवाद (हिन्दी)
रजोगुणसे व्याप्त ब्रह्माजी प्रजाकी रचना करना चाहते थे। जब उन्होंने सृष्टिके कारणरूप केवल ये पाँच ही पदार्थ देखे, तब लोकरचनाके लिये उत्सुक होनेके कारण वे अचिन्त्यगति श्रीहरिमें चित्त लगाकर उन परमपूजनीय प्रभुकी स्तुति करने लगे॥ ३३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धेऽष्टमोऽध्यायः॥ ८ ॥
वीरराघवः
अथालब्ध-जगत्-सृष्टि-ज्ञानस् तल्-लब्धये भगवन्तं तुष्टावेत्य् आह स इति । स ब्रह्मा रजसा रजो-गुणेन उपरक्तः युक्तः अत एव प्रजाः सिसृक्षन् स्रष्टुम् इच्छन् इयद् एव नाभि-सरोजादि-पञ्चकम् एव विसर्गाभिमुखः विसर्गे अभिमुख उन्मुखः सिसृक्षन् विसर्गाभिमुख इत्याभ्याम् इच्छा-प्रयत्नाव् उक्ताव् इति न पौनरुक्त्यम् । अव्यक्त-वर्त्मन्य् अनभिव्यक्त-गतौ पुरुषोत्तमे ऽधिवेशितः आत्मा चित्तं यस्य स ईड्यं स्तुत्यं कर्म-बीजं क्रियते इति कर्म जगत्, “यस्य चैतत् कर्मेति” श्रुतेः तस्य बीजं कारणं भगवन्तम् अस्तौत् स्तुतवान् ॥ ३३ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे श्रीमद्-वीरराघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां अष्टमो ऽध्यायः ॥ ८ ॥