०७

[सप्तमोऽध्यायः]

भागसूचना

विदुरजीके प्रश्न

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत॥

मूलम्

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—मैत्रेयजीका यह भाषण सुनकर बुद्धिमान् व्यासनन्दन विदुरजीने उन्हें अपनी वाणीसे प्रसन्न करते हुए कहा॥ १॥

वीरराघवः

एवं प्रकृति-पुरुष-काल-नियन्तृ-परमेश्वराधिष्ठितात् प्रधानान् महद्-आदि-पृथिव्य्-अन्त-तत्त्वेषु सृष्टेषु तेषु स्वानुप्रवेशाहित-सृष्टि-सामर्थ्येषु चाण्ड-चतुर्मुख-शरीरारम्भ-द्वारा समष्ट्य्-अवस्थयावस्थितेषु कथितेषु पुनस् तेभ्य एव व्यष्टि-शरीरेन्द्रियादि-विभागे परमात्मात्मक-चतुर्मुख-कर्तृके ऽभिहिते पुनः क्षत्ता कांश्चित् प्रक्ष्यमाणः प्रथमं भगवतो जगद्-उपादानत्व-प्रयुक्त-दोष-सम्पर्क-शङ्का-परिहार-बुभुत्सया पप्रच्छेत्य् आह शुकः । एवम्-इति । द्वैपायन-सुतः श्री-व्यास-सुतः बुधस् तत्त्व-दर्शी विदुरः भारत्या स्व-गिरा प्रीणयन्न् इव प्रीतिं जनयन्न् इवैवम् उक्त-प्रकारेण ब्रुवन्तं कथयन्तं मैत्रेयं प्रत्यभाषत ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः।
लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः॥

मूलम्

ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः।
लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः॥ २ ॥

अनुवाद (हिन्दी)

विदुरजीने पूछा—ब्रह्मन्! भगवान् तो शुद्ध बोधस्वरूप, निर्विकार और निर्गुण हैं; उनके साथ लीलासे भी गुण और क्रियाका सम्बन्ध कैसे हो सकता है॥ २॥

वीरराघवः

प्रथमं भगवतः स्रष्टृत्वम् उपादानत्वं चाक्षिपति ब्रह्मन्निति द्वाभ्याम् — हे ब्रह्मन् मैत्रेय ! भगवतः पूर्ण-षाङ्गुण्यस्य चिन्मात्रस्य ज्ञानैकरसस्य मात्रया क्वापि जडत्व-व्यावृत्तिः अतएवाविकारिणः अपरिणामिनः अत एव निर्गुणस्य सत्त्वादि-गुण-रहितस्य गुणाः गुण-कार्य-भूताः क्लेशादयः क्रिया-परिणामादयश् च लीलया वापि कथं युज्येरन्न् इत्य् अन्वयः । अयम् अभिप्रायः भगवतः सृष्ट्य्-आदि-कर्तृत्वं जगद्-आकारेण परिणामश् च लीलयैवेति वक्तव्यं न तु कर्मणा अपहत-पाप्मेत्य्-आदि-श्रुतेः । एतद् एव हि न प्रयोजनवत्त्वाधिकरणे “लोकवत् तु लीला-कैवल्यम्” इत्य् अनेन सूत्रेण सिद्धान्तितम् । एवं च एकस्यैव कर्तृत्वोपादानत्वयोर् लीलैक-प्रयोजनयोर् अभ्युपगम्यमानयोर् निर्विकारिणो निर्गुणस्य परिणामादयः क्रिया गुण-कार्य-गर्भ-जन्म-जरा-मरण-क्लेशादयश् च दुर्वारा आपतिष्यन्त्यतः कथं जगत्-कारणत्वम् इति अनेन प्रयोजनवत्त्वाधिकरण-सिद्धान्ते दूषणम् उक्तं भवति तत्र हि सप्त-द्वीपवतीं मेदिनीम् अधितिष्ठतो महाराजस्य कन्दुकाद्य्-आरम्भ-वत् पूर्ण-षाङ्गुण्य-मूर्तेर् अवाप्त-समस्त-कामस्य स्व-पर-प्रयोजन-रहितस्यापि भगवतः केवल-लीलैक-प्रयोजनो जगद्-व्यापार उपपन्न इति स्थापितम् तत्र विषमो ऽयं दृष्टान्तः महाराजस्य षाड्गुण्यापूर्णत्वेना ऽनवाप्त-समस्त-कामत्वात् सत्त्वादि-गुण-वश्यत्वाद् विकारित्वाद्, ब्रह्मणस् तद्-विपरीतत्वाद् उक्त-दोषापातश् चेति ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः।
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः॥

मूलम्

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः।
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः॥ ३ ॥

अनुवाद (हिन्दी)

बालकमें तो कामना और दूसरोंके साथ खेलनेकी इच्छा रहती है, इसीसे वह खेलनेके लिये प्रयत्न करता है; किन्तु भगवान् तो स्वतः नित्यतृप्त—पूर्णकाम और सर्वदा असंग हैं, वे क्रीडाके लिये भी क्यों संकल्प करेंगे॥ ३॥

वीरराघवः

एवं दृष्टान्तान्तरम् अपि नोपपन्नम् इत्य् आह क्रीडायाम्-इति । अर्भस्य बालकस्य क्रीडायाम् उद्यमः प्रयत्नः तद्-धेतू-भूतः कामः अन्यतः क्रीडोपकरणैः बालान्तर-प्रवर्तनेन वा चिक्रीडिषा क्रीडेच्छा च स्यात्-ईश्वरस्य तु स्वतस्-तृप्तस्य स्वानुभवेनैव तृप्तस्य कथं कामः? सदा ऽन्यतः स्व-व्यतिरिक्त-स्वतन्त्र-क्रीडोपकरण-क्रीडा-प्रवर्तक-पुरुषान्तरैश् च निवृत्तस्य विरहितस्य चिक्रोडिषा च कथं स्यात्? अतो ऽर्भक-दृष्टान्तो ऽनुपपन्न इति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

अस्राक्षीद‍्भगवान् विश्वं गुणमय्याऽऽत्ममायया।
तया संस्थापयत्येतद‍्भूयः प्रत्यपिधास्यति॥

मूलम्

अस्राक्षीद‍्भगवान् विश्वं गुणमय्याऽऽत्ममायया।
तया संस्थापयत्ये1तद‍्भूयः प्रत्यपि2धास्यति॥ ४ ॥

अनुवाद (हिन्दी)

भगवान‍्ने अपनी गुणमयी मायासे जगत‍्की रचना की है, उसीसे वे इसका पालन करते हैं और फिर उसीसे संहार भी करेंगे॥ ४॥

वीरराघवः

नन्व् इदं दोषापदनम् अयुक्तं यद् उपादानत्व-परिणामित्व-क्लेशाद्य्-आश्रयत्वम् इति यः प्रकृति-पुरुष-शरीरकस्य कारणत्वाभ्युपगमेन गुण-क्रियाणां स्व-शरीर-भूत-प्रकृति-पुरुष-गतत्वाद् इतीमां शङ्कां भगवान् क एवैष इति पूर्वार्द्धेन जानानः अमुष्य दुर्भगत्वम् इत्य् उत्तरार्धेन देशतः कालत इति श्लोके च दोषान्तरापदनेन परिहरति अस्राक्षीद् इत्य् आदिना । गुण-मय्या सत्त्वादि-गुण-प्रचुरया आत्म-सम्बन्धिन्या मायया भगवान् विश्वम् अस्राक्षीत् तया माययोपलक्षितः एतद् विश्वं संस्थापयति सम्यक् स्थापयति प्रतिष्ठापयति पालयतीति यावत् पुनर् भूर्यः प्रत्यभिधास्यति प्रातिलोम्यनापि धास्यति अपिधास्यति तिरोहितं करिष्यति अपि-पूर्वो धा-धातुस् तिरोधाने वर्तते स्वाधिष्ठेयां गुण-मयीं मायां महद्-आदि-रूपेण परिणमय्य स्वयं गुण-त्रय-युक्त-त्रि-मूर्ति-रूपेण सृष्ट्य्-आदीन् करोति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः।
अविलुप्तावबोधात्मा स युज्येताजया कथम्॥

मूलम्

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः।
अविलुप्तावबोधात्मा स युज्येताजया कथम्॥ ५ ॥

अनुवाद (हिन्दी)

जिनके ज्ञानका देश, काल अथवा अवस्थासे, अपने-आप या किसी दूसरे निमित्तसे भी कभी लोप नहीं होता, उनका मायाके साथ किस प्रकार संयोग हो सकता है॥ ५॥

वीरराघवः

अतः परिणामादयः स्वाधिष्ठेय-माया-गता न स्व-गता इति चेत् तत्राह देशत इति । यो ऽसौ परमात्मा दीप-प्रभाया इव देशतः विद्युत इव कालतः स्मृतिर् इवावस्थातः स्वप्न-वत् स्वतः जीव-वद् अन्यतः कृत्यादिभिर् अविलुप्तावबोधात्मा विशेषेण लुप्त-ज्ञान-रूपो न भवति सर्व-गतत्वान् नित्यत्वाद् अविक्रियत्वाद् अनितरानुभाव्यत्वात् काल-मात्रावसायित्वाभावात् कर्म-वश्यत्वाभावाद् अत ईदृशः स परमात्मा ऽजया मायया कथं युज्यते? यदि येन केनापि देशादिना लुप्तावबोधो भवेत् तर्ह्य् अविद्या-सम्बन्धः समभविष्यत् अतस् तद्-अभावात् कथम् अजया युज्येतेति शङ्काभिप्रायः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः॥

मूलम्

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः॥ ६ ॥

अनुवाद (हिन्दी)

एकमात्र ये भगवान् ही समस्त क्षेत्रोंमें उनके साक्षीरूपसे स्थित हैं, फिर इन्हें दुर्भाग्य या किसी प्रकारके कर्मजनित क्लेशकी प्राप्ति कैसे हो सकती है॥ ६॥

श्लोक-७

विश्वास-प्रस्तुतिः

एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे।
तन्नः पराणुद विभो कश्मलं मानसं महत्॥

मूलम्

एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे।
तन्नः पराणुद विभो कश्मलं मानसं महत्॥ ७ ॥

अनुवाद (हिन्दी)

भगवन्! इस अज्ञानसंकटमें पड़कर मेरा मन बड़ा खिन्न हो रहा है, आप मेरे मनके इस महान् मोहको कृपा करके दूर कीजिये॥ ७॥

वीरराघवः

एवं जीव-शरीरकत्वे तद्-गत-क्लेशाद्य्-अनाश्रयत्वम् अर्धेनाशङ्क्य परिहरति भगवान्-इति । एष भगवान् एकः सर्व-क्षेत्रेषु समस्त-शरीरेष्व् अवस्थितः जीवान्तरात्मतया ऽवस्थितः अन्तः प्रविष्टः शास्ता जनानाम् ‘य आत्मनि तिष्ठन्न् आत्मनो ऽन्तरः’ इत्य्-आदि-श्रुतिः अतो ऽदुःखी तं संसारित्वादयो गुण-कार्य-भूताः न परमात्मानं स्पृशन्तीति चेत् तत्राह अमुष्येति । भगवतः दुर्भगत्वं कर्मभिः क्लेशो वा कुतः स्याद् इत्य् अर्थः । अयम् अभिप्रायः यदि परमात्मनः सर्वत्र व्याप्तिर् उच्यते तर्हि जागरण-स्वप्न-सुषुप्ति-मूर्च्छोत्क्रान्तिषु जीवस्य तत्तत्-स्थान-प्रयुक्ता ये दोषास् ते तद्-अन्तर्यामिणः परस्य ब्रह्मणो ऽपि सम्भवन्ति, न च परमात्मनो ऽकर्म-वश्यत्वेन दोषाभाव इति वाच्यम्, कर्मणां देह-सम्बन्धापादन-द्वारा क्लेशाद्य्-अपुरुषार्थ-जनकत्वेन देह-सम्बन्धस्याप्य् अपुरुषार्थत्वाद् अन्यथा कर्मणाम् एवं दुःखादि-जनकत्वेन देह-सम्बन्धस्य प्रयोजन-शून्यत्वापत्तिश् च परमात्मनः कर्म-वश्यत्वाभावे ऽपि सर्व-क्षेत्रेष्व् अवस्थितः इति देह-सम्बन्धाभ्युपगमान् नानाविधाशुचि-देह-सम्बन्धस्यैवापुरुषार्थत्वात् अत एव तन्-नियमनार्थं स्वेच्छया तत्-प्रवेशो ऽप्य् अपुरुषार्थ-सम्बन्धो ऽप्य् अवर्जनीयः पूय-शोणितादि-मज्जनं हि स्वेच्छा-कारितम् अप्य् अपुरुषार्थ एवेति । अतो यद्यपि जगद्-एक-कारणं सर्वज्ञत्वादि-कल्याण-गुणाकरं च ब्रह्म तथापि यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन्यो रेतसि तिष्ठन् इत्य्-आदि-वचनात् तत्र तत्रावस्थितस्य तत्-सम्बन्ध-रूपा ऽपुरुषार्थाः सन्तीति प्रश्नम् उपसंहरति एतस्मिन्निति । हे विद्वन् मैत्रेय ! एतस्मिन्न् अज्ञान-सङ्कटे इति पद-च्छेदः, अज्ञान-रूप-सङ्कटे मे मनः खिद्यते तस्माद् धे विभो मैत्रेय ! नो ऽस्माकं मानसं मनः-सम्बन्धि महत् कश्मलं खेदं पराणुदापाकुरु ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः।
प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः॥

मूलम्

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः।
प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः॥ ८ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—तत्त्वजिज्ञासु विदुरजीकी यह प्रेरणा प्राप्तकर अहंकारहीन श्रीमैत्रेयजीने भगवान‍्का स्मरण करते हुए मुसकराते हुए कहा॥ ८॥

वीरराघवः

एवम् आपृष्टो मैत्रेय आहेत्य् आह शुकः स इति । तत्त्व-जिज्ञासुना क्षत्रा इत्थम् उक्त-रीत्या चोदित आपृष्टो मुनिर् मैत्रेयः भगवच्-चित्तः भगवत्य् एव चित्तं यस्य सः गत-स्मयः तत्त्व-दर्शित्वेन विगत-स्मयः स्मयन्न् इव प्रश्नस्य सुपरिहरत्वाद् इति भावः । प्रत्याह प्रत्यभाषत ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

सेयं भगवतो माया यन्नयेन विरुध्यते।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥

मूलम्

सेयं भगवतो माया यन्नयेन विरुध्यते।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥ ९ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजीने कहा—जो आत्मा सबका स्वामी और सर्वथा मुक्तस्वरूप है, वही दीनता और बन्धनको प्राप्त हो—यह बात युक्तिविरुद्ध अवश्य है; किन्तु वस्तुतः यही तो भगवान‍्की माया है॥ ९॥

वीरराघवः

यद् उक्तं चेतनाचेतन-नियमनार्थं तद्-अन्तरात्मतया स्वेच्छयाप्य् अवस्थितस्य तत्-सम्बन्ध-प्रयुक्त-परिणामित्व-दुःखित्वाद्य्-अपुरुषार्थ-सम्बन्धो ऽवर्जनीय इति नैतद् युक्तम् हि अचिद्-वस्त्व् अपि स्वभावतो ऽपुरुषार्थ-स्वरूपं कर्म-वश्यानां तु कर्म-स्वभावानुगुण्येन परम-पुरुष-सङ्कल्पाद् एकम् एव वस्तु काल-भेदेन पुरुष-भेदेन च सुखाय दुःखाय च भवति । वस्तु-स्वरूप-प्रयुक्तत्वे तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखाय दुःखायैव वा स्यान् न चैवं दृश्यते, तथा चोक्तम् “नरक-स्वर्ग-संज्ञे वै पाप-पुण्ये द्विजोत्तम । वस्त्व् एकम् एव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस् तस्माद् वस्तु वस्त्वात्मकं कुतः । तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते । तद् एव कोपाय यतः प्रसादाय च जायते । तस्माद् दुःखात्मकं नास्ति न च किञ्चित् सुखात्मकम्” इति अतो जीवस्य कर्म-वश्यत्वात् तत्तत्-कर्मानुगुण्येन तत्तद्-वस्तु-सम्बन्ध एवापुरुषार्थः स्यात्, परस्य तु ब्रह्मणो निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणाकरस्य स्वाधीनस्य विविध-विचित्र-स्वाभाविक-शक्ति-मतः अपुरुषार्थाश्रय-चेतनाचेतन-सम्बन्धस् तद्-विचित्र-नियमन-रूप-लीलारसायैव स्याज् जीवस्य त्व् अविद्या-सम्बन्धो ऽपुरुषार्थ-जनाय स्याद् इत्य् आह सेयमिति त्रिभिः । ईश्वरस्य कृपणत्वं मुक्तस्य बन्धनं च येन हेतुना न विरुध्यते सेयं भगवतो माया आश्चर्य-शक्तिः जीवत्व-व्यापिनो भगवतो व्याप्य-कृपण-बद्ध-जीव-गत-दोषास्पर्श-हेतु-भूताश्चर्य-शक्ति-योगाद् व्याप्य-वस्तु-गत-दोषास्पर्श-कारि-हेतोर् न विरोध इत्य् अर्थः । “परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया चे"ति श्रुतेः विविध-विचित्रानन्त-शक्ति-योगात् तत्तद्-वस्त्व्-अवस्थान-प्रयुक्त-तद्-गत-दोषास्पर्श उक्तः । अनेन ब्रह्मन्कथं भगवत इति कारणत्वाक्षेपो ऽपि परिहृतः गुण-क्रियाणां चेतनाचेतन-द्वारकत्वेन ब्रह्मणस् तत्-संस्पर्शाभावात्, प्रकृति-पुरुष-विशिष्टस्य कारणत्वाभ्युपगमेन प्रकृति-पुरुषागत-विकाराणां शुक्ल-कृष्ण-रक्त-तन्त्व्-आरब्ध-पटे शौक्ल्य-कार्ष्ण्यादीनां तत्तच्-छुक्लादि-तन्तु-संयुक्त-प्रदेशैकान्त-स्थितिवत् शरीर-गत-बाल्य-यौवनादीनाम् आत्मन्य् अस्पर्शवच् च परमात्मनि प्रसक्तत्वाभावात् सर्व-क्षेत्रेष्व् अवस्थितस्यापि तस्यात्मनो न क्षेत्र-गत-दोष-संस्पर्शः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः।
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः॥

मूलम्

3यदर्थेन विनामुष्य पुंस आत्मविपर्ययः।
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः॥ १० ॥

अनुवाद (हिन्दी)

जिस प्रकार स्वप्न देखनेवाले पुरुषको अपना सिर कटना आदि व्यापार न होनेपर भी अज्ञानके कारण सत्यवत् भासते हैं, उसी प्रकार इस जीवको बन्धनादि न होते हुए भी अज्ञानवश भास रहे हैं॥ १०॥

वीरराघवः

जीवस्य तु स्वतोपहत-पाप्मत्वादि-विशिष्टत्वे ऽपि तत्-स्वरूपस्याविद्या-कर्म-वासना-रुचि-प्रकृति-सम्बन्धादिभिस् तिरोहितत्वेन तत्तद्-देवादि-देहात्माभिमानेनापुरुषार्थ-सम्बन्धो ऽवर्जनीय इति स-दृष्टान्तम् आह यदर्थेनेति । यद् यतः अमुष्य कर्म-वश्यस्य पुंसो जीवस्यार्थेन पुरुषार्थ-भूतेनात्म-स्वरूपेण विना आत्म-विपर्ययः देव-मनुष्यत्वादि-भावः तत्-प्रयुक्तः स्व-शिरश्-छेदनादिकः स्व-शरीर-भूत-देव-मनुष्यादि-शिरश् छिन्ने ममेदं शिरश् छिन्नम् इति शोकश् च उपद्रष्टुः देह आत्म-तादात्म्येनानुसन्धानः प्रतीयते ऽनुभूयते सेयम् अपि भगवतो माया इत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः।
दृश्यतेऽसन्नपि द्रष्टुरात्मनो नात्मनो गुणः॥

मूलम्

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः।
दृश्यतेऽसन्नपि द्रष्टुरात्मनो नात्मनो गुणः॥ ११ ॥

अनुवाद (हिन्दी)

यदि यह कहा जाय कि फिर ईश्वरमें इनकी प्रतीति क्यों नहीं होती, तो इसका उत्तर यह है कि जिस प्रकार जलमें होनेवाली कम्प आदि क्रिया जलमें दीखनेवाले चन्द्रमाके प्रतिबिम्बमें न होनेपर भी भासती है, आकाशस्थ चन्द्रमामें नहीं, उसी प्रकार देहाभिमानी जीवमें ही देहके मिथ्या धर्मोंकी प्रतीति होती है, परमात्मामें नहीं॥ ११॥

वीरराघवः

एतदेव दृष्टान्तेनोपपादयति यथेति । यथा जले चन्द्रमसः स्वतश्चन्द्रस्य असन्न् अपि कृतः जलाद्य्-उपाधि-कृतः कम्पादिश् चलनादि-रूपो गुणः दृश्यते एवम् आत्मनो ऽसन्न् अप्य् अविद्यमानो ऽपि अनात्मनो देहस्य गुणः उपद्रष्टुर् देहस्य् आत्म-तादात्म्यम् अभिमन्यमान-स्वदृश्य-कर्म-वश्यस्य जीवस्यानाद्यविद्या-सम्बन्धेन स्वरूपाप्रतीतिर् देहात्म-भ्रान्तिस् तया च शोक-मोहादयः परमार्थतस् तु न देह-गतैर् धर्मैः स्पृश्यते इत्य् अभिप्रायः । परमात्मनस् त्व् अविद्यया-ऽतिरोहित-स्वरूपस्य प्रकृति-पुरुषयोर् नियन्तुः नाविद्या-तत्-कार्य-प्रसङ्ग इत्य् अर्थः । एतदेव “भुक्तभोगा-परित्यक्ता दृष्टदोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य चे"त्य् उक्तं जीवेशयोर् उभयोर् अपि प्रकृति-सम्बन्धो ऽविशिष्टः । इयां स्तु विशेषः प्रकृतिर् एकस्य स्व-वश्यस्याशुभं धत्ते अन्यस्य तु स्व-नियन्तुर् लीलोपकरणाय भवति तथा च श्रुतिः “अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम्” इति माया प्रकृतिः मायीश्वरः । अत्र यथार्थेन विना ऽमुष्येत्य् अपि पाठः तत्रायम् अर्थः परमात्मनः व्याप्य चिद्-अचिद्-गत-दोषास्पर्शे दृष्टान्तम् आह यथेति । यथा ऽमुष्य जीवस्या ऽर्थेन विना पुरुषार्थ-भूत-स्व-स्वरूपेण विना आत्म-स्वरूपाप्रतीति-दशायाम् इत्य् अर्थः । आत्म-विपर्ययः आत्मनः जीवस्य विपर्ययः देहाकारः प्रतीयते उपद्रष्टुस् तस्यैव देह-तादात्म्यम् अभिमन्यमानस्य शिरश्-छेदादिको ऽपुरुषार्थश् च प्रतीयते पुरुषार्थ-भूत-स्वात्म-प्रतीति-दशायां तु न विपर्ययः शिरश्-छेदादिको वा प्रतीयते तस्य देह-विलक्षणत्वात् तस्य देहात्म-बुद्धेर् भ्रान्तित्वात् देहातिरिक्तत्व-सिद्धिः । एवं जीवस्य् अपि परमात्म-शरीरत्वात् तस्य न तद्-रत-दोष-स्पर्श इत्य् अर्थः । दृष्टान्तान्तरम् आह यथेति । यथा चन्द्रमसो जलाद्य्-उपाधि-वशात् प्रतीयमानः कम्पादिर् न परमार्थतो ऽस्ति किं तु भ्रान्त्या तथा द्रष्टुः सर्वज्ञस्यात्मनः परमात्मनः अनात्मनः अपरमात्मनः गुणः अपरमात्म-भूत-चेतनाचेतन-गतो धर्मः असन्न् अपि भ्रान्त्या प्रतीयते परमात्मनः चेतनाचेतन-गत-दोष-संस्पर्शका मूलभूता बुद्धि-भ्रान्तिस् तथेत्य् अर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया।
भगवद‍्भक्तियोगेन तिरोधत्ते शनैरिह॥

मूलम्

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया।
भगवद‍्भक्तियोगेन तिरोधत्ते शनैरिह॥ १२ ॥

अनुवाद (हिन्दी)

निष्कामभावसे धर्मोंका आचरण करनेपर भगवत्कृपासे प्राप्त हुए भक्तियोगके द्वारा यह प्रतीति धीरे-धीरे निवृत्त हो जाती है॥ १२॥

वीरराघवः

न केवलं भगवतस् तद्-धेयाकर-जीवान्तर्-आत्मतया ऽवस्थितस्य दोष-स्पर्शाभाव-रूपः कल्याण-गुण एव प्रतिपादितः, किन्तु तस्य जीव-गत-हेय-निवर्तकत्वं चेत्य् आह स वा इति स । वै हेय-गुणः कर्म-योगानुगृहीत-भगवद्भक्ति-जन्य-भगवत्-कृपया तिरोधत्ते इत्य् अर्थः । यद्-भक्त्या हेय-निवृत्तिस् तस्य हेय-प्रत्यनीकत्वम् अर्थसिद्धम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ।
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः॥

मूलम्

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ।
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः॥ १३ ॥

अनुवाद (हिन्दी)

जिस समय समस्त इन्द्रियाँ विषयोंसे हटकर साक्षी परमात्मा श्रीहरिमें निश्चलभावसे स्थित हो जाती हैं, उस समय गाढ़ निद्रामें सोये हुए मनुष्यके समान जीवके राग-द्वेषादि सारे क्लेश सर्वथा नष्ट हो जाते हैं॥ १३॥

वीरराघवः

कियत्-पर्यन्त-भक्त्या हेय-निवृत्तिर् इत्य् अत आह यदेति । यदा अर्थान् शब्दादीन् प्रति इन्द्रियोपरतिर् इन्द्रिय-निवृत्तिः तदा परे प्रकृति-पुरुष-विलक्षणे हराव् आश्रित-बन्ध-हारिणि आत्मनि परमात्मनि पूर्वोक्त-भक्त्या दृष्टे साक्षात्कृते सति दृष्टे आत्मनीति पद-च्छेदः अयादेशे लोपे चार्षो गुणः कृत्स्नशः क्लेशाः विलीयन्त इत्य् अर्थः । “तस्मिन् दृष्टे परावरे” इति श्रुतिः तेषाम् अस्थिरत्वे दृष्टान्तम् आह संसुप्तस्येवेति । न हि संसुप्तस्य कार्त्स्न्येन दुःख-निवृत्तिः तस्यैव जाग्रतः पुनः क्लेशाश्रयत्वात् । दृष्ट्वात्मनीत्य् अपि पाठः तदा अर्थान् दृष्ट्वा इन्द्रियोपरतिः इन्द्रियाणाम् अविकृतिर् यथा तथा पर-हराव् आत्मनि जीवे स्थिते सति क्लेश-विलय इत्य् अर्थः । अथ द्रष्टर्-आत्मनीत्य् अपि पाठः तदा सर्वज्ञे आत्मनि हरौ इन्द्रियाणाम् उपरामो नैश्चल्यं यदा अथानन्तरं प्रत्यक्षतापन्नात्मिका ध्रुवानुस्मृतिर् भवति तदा कार्त्स्न्येन क्लेश-विलय इत्य् अर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अशेषसंक्लेशशमं विधत्ते
गुणानुवादश्रवणं मुरारेः।
कुतः पुनस्तच्चरणारविन्द-
परागसेवारतिरात्मलब्धा॥

मूलम्

अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः।
4कुतः पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा॥ १४ ॥

अनुवाद (हिन्दी)

श्रीकृष्णके गुणोंका वर्णन एवं श्रवण अशेष दुःखराशिको शान्त कर देता है; फिर यदि हमारे हृदयमें उनके चरणकमलकी रजके सेवनका प्रेम जग पड़े, तब तो कहना ही क्या है?॥ १४॥

वीरराघवः

साक्षात्कार-पर्यन्तं भगवद्भक्तेः कैमुत्य-न्यायेन क्लेश-निवर्तकत्वम् आह अशेषेति । हरेर् गुणानुवाद-श्रवणम् अनुवादः अनुवर्णनं श्रवणं चेत्य् एतद् उभयम् एव ऽशेष-क्लेश-शमं विधत्ते करोति किं वा पुनः किं पुनः आत्मलब्धा मनसा लब्धा तस्य भगवतः चरणारविन्दयोर् यः परागः तस्य सेवा-रतिः तैल-धारा-वद् अविच्छिन्न-स्मृति-सन्ततिर् इति यावत्, अशेष-क्लेश-शमं विधत्त इति वक्तव्यम् इत्य् अर्थः ॥ १४ ॥

श्लोक-१५

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

संछिन्नः संशयो मह्यं तव सूक्तासिना विभो।
उभयत्रापि भगवन्मनो मे सम्प्रधावति॥

मूलम्

संछिन्नः संशयो मह्यं तव सूक्तासिना विभो।
उभयत्रापि भगवन्मनो मे सम्प्रधावति॥ १५ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—भगवन्! आपके युक्तियुक्त वचनोंकी तलवारसे मेरे सन्देह छिन्न-भिन्न हो गये हैं। अब मेरा चित्त भगवान‍्की स्वतन्त्रता और जीवकी परतन्त्रता—दोनों ही विषयोंमें खूब प्रवेश कर रहा है॥ १५॥

वीरराघवः

स्वाभिप्रेतम् आविष्कुर्वन्न् उत्तरम् अभिनन्दति विदुरः सञ्छिन्न इति । संशयः ईश्वरस्य कारणत्व-विषयकः संशयः हे विभो ! मैत्रेय ! मह्यं तव त्वदीयेन सूक्तासिना सूक्तं सोपपत्तिकं वाक्यं तद् एवासिः खड्गः तेन मद्-उपदेश्येन त्वयाभिहित-वाक्य-खड्गेन सञ्छिन्नः अपि तु उभयत्र गुणानुवाद-श्रवणे चरणारविन्द-पराग-सेवायां च मे मनः सम्प्रधावति प्रवणं भवति । अनेन स्वाभिप्रेतम् आविष्कृतम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

साध्वेतद् व्याहृतं विद्वन‍्नात्ममायायनं हरेः।
आभात्यपार्थं निर्मूलं विश्वमूलं न यद‍्बहिः॥

मूलम्

साध्वेतद् व्याहृतं विद्वन्नात्ममायायनं हरेः।
आभात्यपार्थं निर्मूलं विश्वमूलं न 5यद‍्बहिः॥ १६ ॥

अनुवाद (हिन्दी)

विद्वन्! आपने यह बात बहुत ठीक कही कि जीवको जो क्लेशादिकी प्रतीति हो रही है, उसका आधार केवल भगवान‍्की माया ही है। वह क्लेश मिथ्या एवं निर्मूल ही है; क्योंकि इस विश्वका मूल कारण ही मायाके अतिरिक्त और कुछ नहीं है॥ १६॥

वीरराघवः

उत्तरम् एव प्रपञ्चयन्न् अभिनन्दति साध्व् इति । आत्मा जीवः माया प्रकृतिः उभयम् एवायनं हरेस् तस्य वास-स्थानम् इत्य् एतत् साधु त्वया व्याहृतम् इत्य् अर्थः । पूर्वं हि शरीर-गतच्-छेदनादेर् आत्मन्य् अस्पर्शं दृष्टान्तीकृत्य हि शरीर-भूत-चिद्-अचिद्-गत-दोषाभावः परमात्मनि च तत् सुष्ठूक्तः अतस् तस्य भगवतः चिद्-अचिद्-व्याप्तिः पूर्वार्द्धेनानूरीकृता कथं चेतनाचेतनं तस्यायतनम्? न हि इदं जगत् तदात्मकत्वेन प्रतीयते इत्य् अत्राह यद् भातीति । विश्व-मूलं विश्व-कारणं यद्-दर्शनं तद् बहिर् यस्य जगतः बहिर् न अन्तः प्रविष्टं, तद् इदं जगन् निर्मूलं मूल-भूत-पर-ब्रह्म-रहितम् अतदात्मकं भातीति तत् तद् इदम् अपार्थम् अर्थ-शून्यं निर्विषयं भ्रान्ति-रूपम् इति यावत् । अनेनाब्रह्मात्मकत्व-प्रतिभासो मिथ्या-रूप इत्य् उक्तम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः॥

मूलम्

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः॥ १७ ॥

अनुवाद (हिन्दी)

इस संसारमें दो ही प्रकारके लोग सुखी हैं—या तो जो अत्यन्त मूढ़ (अज्ञानग्रस्त) हैं या जो बुद्धि आदिसे अतीत श्रीभगवान‍्को प्राप्त कर चुके हैं। बीचकी श्रेणीके संशयापन्न लोग तो दुःख ही भोगते रहते हैं॥ १७॥

वीरराघवः

एवं देहात्म-प्रतीति-भ्रान्ति-रूपेति वक्ष्यन् न ब्रह्मात्मक-स्वतन्त्रात्म-भ्रम-देहात्म-भ्रमवतां क्लेशित्वम् आह य इति । यश् च लोके मूढतमः यश् च बुद्धेः परं विलक्षणं ब्रह्मात्मक-स्वात्मानं गतः कर्तरि क्तः अवगतवान् ताव् उभौ मूढतम्-आत्म-स्वरूपाभिज्ञौ सुखम् एव वर्द्धेते मूढतमस्यापि मौढ्यम् एव किञ्चित्-सुख-जनकम् इत्य् अभिप्रायः । इदं चान्तरितस्य सर्वथा क्लेशित्वाभिप्रायकम् अन्तरितः न मूढतमः नापि बुद्धेः पर-गतः किन्तु संशयात्मा जनः क्लिश्यति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः।
तां चापि युष्मच्चरणसेवयाहं पराणुदे॥

मूलम्

अर्थाभावं विनिश्चित्य प्रतीत6स्यापि नात्मनः।
तां चापि युष्मच्चरणसेवयाहं पराणुदे॥ १८ ॥

अनुवाद (हिन्दी)

भगवन्! आपकी कृपासे मुझे यह निश्चय हो गया कि ये अनात्म पदार्थ वस्तुतः हैं नहीं, केवल प्रतीत ही होते हैं। अब मैं आपके चरणोंकी सेवाके प्रभावसे उस प्रतीतिको भी हटा दूँगा॥ १८॥

वीरराघवः

देहात्म-प्रतीतेर् भ्रान्तित्वं वदन्स् तन्-निवर्तने मूल-कारणम् आह अर्थाभावम् इति । प्रतीतस्यापि आत्म-तादात्म्यं न प्रतीयमानस्यापि नात्मनः अनात्मनः देहस्य निषेधार्थको न-शब्दः अर्थाभावम् आत्मत्वाभावं विनिश्चित्य ताम् अपि देहात्म-प्रतीतिम् अपि युष्मच्-चरण-सेवया सत्-सेवा-प्रणाड्येत्य् अर्थः । अहं पराणुदे ऽपाकरोमीत्य् अर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः।
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः॥

मूलम्

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः।
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः॥ १९ ॥

अनुवाद (हिन्दी)

इन श्रीचरणोंकी सेवासे नित्यसिद्ध भगवान् श्रीमधुसूदनके चरणकमलोंमें उत्कट प्रेम और आनन्दकी वृद्धि होती है, जो आवागमनकी यन्त्रणाका नाश कर देती है॥ १९॥

वीरराघवः

सत्सेवाया एव प्रथम-कारणत्वम् आह यत्-सेवयेति । यत्-सेवया येषां सतां सेवया कूटस्थस्य निर्विकारस्य मधुद्विषः भगवतः पादयोस् तीव्रः विघ्नानुपहतः व्यसनार्दन-ताप-त्रय-निवर्तकः रति-रासः रतेर् उल्लासः अनुरागोल्लासः भवेत् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु।
यत्रोपगीयते नित्यं देवदेवो जनार्दनः॥

मूलम्

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु।
यत्रोपगीयते नित्यं देवदेवो जनार्दनः॥ २० ॥

अनुवाद (हिन्दी)

महात्मालोग भगवत्प्राप्तिके साक्षात् मार्ग ही होते हैं, उनके यहाँ सर्वदा देवदेव श्रीहरिके गुणोंका गान होता रहता है; अल्पपुण्य पुरुषको उनकी सेवाका अवसर मिलना अत्यन्त कठिन है॥ २०॥

वीरराघवः

सत्-सेवाापि बहु-तपसोपलभ्येति व्यतिरेक-मुखेनाह दुरापेति । अल्प-तपसः तपो-हीनस्य वैकुण्ठ-वर्त्मसु वैकुण्ठ-प्रापकेषु भागवतेषु सेवा दुरापा हि दुर्लभा हीत्य् अर्थः । कथम्-भूतेषु? यत्र वैकुण्ठ-वर्त्मसु देव-देवः ब्रह्मादीनाम् अपि देवः जनार्दन उपगीयते अनेन सत्-सेवायाः श्रवणादि-प्रणाड्यैव भक्त्य्-उत्पादकत्वम् इति सूचितम् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्।
तेभ्यो विराजमुद‍्धृत्य तमनु प्राविशद्विभुः॥

मूलम्

सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्।
तेभ्यो विराजमुद‍्धृत्य तमनु प्राविशद्विभुः॥ २१ ॥

अनुवाद (हिन्दी)

भगवन्! आपने कहा कि सृष्टिके प्रारम्भमें भगवान‍्ने क्रमशः महदादि तत्त्व और उनके विकारोंको रचकर फिर उनके अंशोंसे विराट्को उत्पन्न किया और इसके पश्चात् वे स्वयं उसमें प्रविष्ट हो गये॥ २१॥

वीरराघवः

अर्थान्तरान् प्रष्टुकामस् तद् उक्तम् अनुवदति सृष्ट्वेति । विकारैर् इन्द्रियादिभिः सहितानि सविकाराणि महदादीन्य् अग्रे व्यष्टि-सृष्टेः पूर्वं सृष्ट्वा तेभ्यो महदादिभ्यः विराजं व्यष्टि-रूपैर् विविधं राजतीति विराट् ब्रह्मा तम् उद्धृत्य अण्ड-सृष्टि-द्वारोत्पाद्य विभुर् भगवान् तं विराजम् अनुप्राविशत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यमाहुराद्यं पुरुषं सहस्राङ्‍घ्र्यूरुबाहुकम्।
यत्र विश्व इमे लोकाः सविकाशं समासते॥

मूलम्

यमाहुराद्यं पुरुषं सहस्राङ्‍घ्र्यूरुबाहुकम्।
यत्र विश्व इमे लोकाः सविकाशं समासते॥ २२ ॥

मूलम् - कर्णावती

यमाहुराद्यं पुरुषं सहस्राङ्‍घ्र्यूरुबाहुकम्।
यत्र विश्व इमे लोकाः सविकासं समासते॥ २२ ॥

अनुवाद (हिन्दी)

उन विराट्के हजारों पैर, जाँघें और बाँहें हैं; उन्हींको वेद आदिपुरुष कहते हैं; उन्हींमें ये सब लोक विस्तृतरूपसे स्थित हैं॥ २२॥

वीरराघवः

कथंभूतो विभुः? यं पुरुष-शब्द-वाच्यम् आद्यं सर्व-कारण-कारणं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् आहुः, “सहस्रशीर्षा पुरुषः” इत्य्-आद्याः श्रुतयः, सो ऽनुप्राविशद् इत्य् अन्वयः । यद् वा, तद्-विभूतीर् वदस्व न इत्य् अनेनान्वयः तम् एव विशिनष्टि यत्रेति । यत्र चतुर्मुख-शरीरके विश्वे इमे सर्व-लोका व्यष्टि-लोकाः सविकाशम् असङ्कोचेन समासते तिष्ठन्ति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत्।
त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः॥

मूलम्

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत्।
त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः॥ २३ ॥

वीरराघवः

यस्मिन्न् इति दश-विधः प्राणापानादयः पञ्च-नाग-कूर्म-कृकल-देवदत्त-धनञ्जयाः, पञ्चापि प्राणा, इन्द्रियार्थाः शब्दादयः, इन्द्रियाणि ज्ञान-कर्मोभयात्मकानि तत्-सहितो यस् त्रिवृत् त्रि-गुणात्मकः प्राणः यस्मिन् वैराजे समस्ते यतश् च वैराजात् त्वयेरितास् त्वद्-उक्ताः वर्णा ब्राह्मणादयो ऽभूवन्, तद्-विभूतीस् तस्य वैराजस्य विभूतीः प्राधान्येन नियाम्य-वर्गान् नो ऽस्मभ्यं वदस्व वर्णय ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम्॥

मूलम्

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम्॥ २४ ॥

अनुवाद (हिन्दी)

उन्हींमें इन्द्रिय, विषय और इन्द्रियाभिमानी देवताओंके सहित दस प्रकारके प्राणोंका—जो इन्द्रियबल, मनोबल और शारीरिक बलरूपसे तीन प्रकारके हैं—आपने वर्णन किया है और उन्हींसे ब्राह्मणादि वर्ण भी उत्पन्न हुए हैं। अब आप मुझे उनकी ब्रह्मादि विभूतियोंका वर्णन सुनाइये—जिनसे पुत्र, पौत्र, नाती और कुटुम्बियोंके सहित तरह-तरहकी प्रजा उत्पन्न हुई और उससे यह सारा ब्रह्माण्ड भर गया॥ २३-२४॥

वीरराघवः

द्वितीये ऽष्टमे ऽध्याये यद् अधातु-मतो ब्रह्मन्न् इत्यादिना राज-कृत-प्रश्नानां केषाञ्चिद् उत्तराण्य् अभिधायावशिष्टानाम् उत्तराण्य् अभिधातुं विदुर-मैत्रेय-संवादः प्रस्तावितः एवम् एतत् पुरा पृष्ठ इत्यादिना । इदानीं तेषाम् एव प्रश्नानाम् उत्तर-विवक्षया अत एव विदुर-कृत-प्रश्ना इत्य् आह यावद् अध्याय-समाप्ति यत्रेति । यत्र ब्रह्माण्डे पुत्रादिभिः सह प्रजाः विचित्राकृतयः नाना-विध-देहाः आसन्, याभिर् इदं ब्रह्माण्डं ततं व्याप्तम् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन्।
सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्॥

मूलम्

प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन्।
सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्॥ २५ ॥

अनुवाद (हिन्दी)

वह विराट् ब्रह्मादि प्रजापतियोंका भी प्रभु है। उसने किन-किन प्रजापतियोंको उत्पन्न किया तथा सर्ग, अनुसर्ग और मन्वन्तरोंके अधिपति मनुओंकी भी किस क्रमसे रचना की?॥ २५॥

वीरराघवः

प्रजापतीनां मरीच्यादीनां पतिः स ब्रह्मा कान् प्रजापतीञ् च क्लृपे सृष्टवान्? तद् एतत् सर्वं वर्णयेत्य् उपरितानेनान्वयः । समष्टि-पुरुषो नव-प्रजापति-सृष्टि-द्वारा तत्-पुत्रादिभिर् इदं ब्रह्माण्डम् आपूरितं यथाकरोत् तत्-प्रकारं वर्णयेत्य् अर्थः, तथा सर्गान् वक्ष्यमाणान्, नव-विध-प्राकृत-सर्गान् अनुसर्गांश् च, चतुर्मुख-सर्गात् पाश्चात्य-सर्गान्, मनून् स्वायम्भुवादींश् च चतुर्दश मनून्, मन्वन्तरेषु ये ऽधिपास् तान् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एतेषामपि वंशांश्च वंशानुचरितानि च।
उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते॥

मूलम्

एतेषामपि वंशांश्च वंशानुचरितानि च।
उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते॥ २६ ॥

वीरराघवः

एतेषां मन्वन्तराधिपानां ये वंशास् तान्, वंश्यानां वंश-जानाम् अनुचरितानि हे मित्रात्मज मैत्रेय ! भूमेर् उपर्य् उपरिष्टाद् अधो ऽधस्ताच् च ये लोका आसते, तांश् च, तेषां लोकानां संस्थाम् अवयव-विन्यासं प्रमाणं परिमाणं च वर्णय, कथयेत्य् अर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय।
तिर्यङ्‍मानुषदेवानां सरीसृपपतत्त्रिणाम्।
वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद‍्भिदाम्॥

मूलम्

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय।
तिर्यङ्‍मानुषदेवानां सरीसृपपतत्त्रिणाम्।
वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद‍्भिदाम्॥ २७ ॥

अनुवाद (हिन्दी)

मैत्रेयजी! उन मनुओंके वंश और वंशधर राजाओंके चरित्रोंका, पृथ्वीके ऊपर और नीचेके लोकों तथा भूर्लोकके विस्तार और स्थितिका भी वर्णन कीजिये तथा यह भी बताइये कि तिर्यक्, मनुष्य, देवता, सरीसृप (सर्पादि रेंगनेवाले जन्तु) और पक्षी तथा जरायुज, स्वेदज, अण्डज और उद‍्भिज्ज—ये चार प्रकारके प्राणी किस प्रकार उत्पन्न हुए॥ २६-२७॥

वीरराघवः

तिर्यग् इति तिरश्चां पक्ष्यादीनां मानुषाणां देवानां सरीसृपाणां सर्पादीनां पतत्रिणां च, गार्भाणां जरायुजानां स्वेदानां स्वेद-जानाम् अण्ड-जानाम् उद्भिजां च सर्ग-संव्यूहं सर्ग-विकल्पनं नो ऽस्मभ्यं वद कथय ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम्।
सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम्॥

मूलम्

गुणावतारैर्विश्वस्य सर्गस्थित्य7प्ययाश्रयम्।
सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम्॥ २८ ॥

अनुवाद (हिन्दी)

श्रीहरिने सृष्टि करते समय जगत‍्की उत्पत्ति, स्थिति और संहारके लिये अपने गुणावतार ब्रह्मा, विष्णु और महादेवरूपसे जो कल्याणकारी लीलाएँ कीं, उनका भी वर्णन कीजिये॥ २८॥

वीरराघवः

गुणावतारैः, रज्व्-आदि-गुण-प्रधानैर् आवेशावतारैर् ब्रह्मादिभिः सृजतो जगद्-व्यापारं कुर्वतः श्रीनिवासस्योदारविक्रमम् उदार-व्यापारम् आचक्ष्व । कथंभूतम् उदार-विक्रमं? विश्वस्य सर्ग-स्थित्य्-अप्य्-अयाश्रयं सर्ग-स्थिति-संहाराणाम् आश्रयं हेतु-भूतं सर्गादयः आश्रयो विषयो यस्य तम् इति वा ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः।
ऋषीणां जन्मकर्मादि वेदस्य च विकर्षणम्॥

मूलम्

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः।
ऋषीणां जन्मकर्मादि8 वेदस्य च विकर्षणम्॥ २९ ॥

वीरराघवः

तथा रूप-शील-स्वभावतः रूपं लिङ्गं, शीलम् आचारः, स्वभावः शमादिः, तृतीयार्थे तसिः । रूपादिभिः सह वर्णाश्रम-विभागांश् च, वर्णादीनां परस्पर-विविक्त-स्वरूपं चाख्याहीत्य् उत्तरेणान्वयः । एवम् अग्रे ऽपि । द्वितीयान्तानां तेनैवान्वयः वेदस्य विकर्षणं व्यासं विभागम् इति यावत् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

यज्ञस्य च वितानानि योगस्य च पथः प्रभो।
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम्॥

मूलम्

यज्ञस्य च वितानानि योगस्य च पथः प्रभो।
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम्॥ ३० ॥

वीरराघवः

यज्ञस्य वितानानि विस्तरांश् च योगस्यानभिसंहित-कर्म-योगस्य पथः मार्गान् नैष्कर्म्यस्य प्रवृत्ति-धर्म-त्यागस्य साङ्ख्यस्य ज्ञान-योगस्य च वितानानि वेदेति वा । यद् वा, ज्ञान-योगादीनां प्रतिपादकं यद् भगवता स्मृतं तन्त्रं, सात्त्वतं तन्त्रम् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

पाखण्डपथवैषम्यं प्रतिलोमनिवेशनम्।
जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः॥
वेष, आचरण और स्वभावके अनुसार वर्णाश्रमका विभाग, ऋषियोंके जन्म-कर्मादि, वेदोंका विभाग, यज्ञोंका विस्तार, योगका मार्ग, ज्ञानमार्ग और उसका साधन सांख्यमार्ग तथा भगवान‍्के कहे हुए नारदपांचरात्र आदि तन्त्रशास्त्र, विभिन्न पाखण्डमार्गोंके प्रचारसे होनेवाली विषमता, नीचवर्णके पुरुषसे उच्चवर्णकी स्त्रीमें होनेवाली सन्तानोंके प्रकार तथा भिन्न-भिन्न गुण और कर्मोंके कारण जीवकी जैसी और जितनी गतियाँ होती हैं, वे सब हमें सुनाइये॥ २९—३१॥

मूलम्

पाखण्डपथवैषम्यं प्रतिलोमनिवेशनम्।
जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः॥ ३१ ॥

अनुवाद (हिन्दी)

वेष, आचरण और स्वभावके अनुसार वर्णाश्रमका विभाग, ऋषियोंके जन्म-कर्मादि, वेदोंका विभाग, यज्ञोंका विस्तार, योगका मार्ग, ज्ञानमार्ग और उसका साधन सांख्यमार्ग तथा भगवान‍्के कहे हुए नारदपांचरात्र आदि तन्त्रशास्त्र, विभिन्न पाखण्डमार्गोंके प्रचारसे होनेवाली विषमता, नीचवर्णके पुरुषसे उच्चवर्णकी स्त्रीमें होनेवाली सन्तानोंके प्रकार तथा भिन्न-भिन्न गुण और कर्मोंके कारण जीवकी जैसी और जितनी गतियाँ होती हैं, वे सब हमें सुनाइये॥ २९—३१॥

वीरराघवः

पाषण्डानां वैदिक-बहिः-कृतानां पन्थाः प्रवृत्तिः, तस्या वैषम्यं प्रतिलोम-निवेशनं, वर्ण-प्रतिलोम-जानां प्रतिकल्पनं, जीवस्य सत्त्वादि-गुण-कर्म-जा या गतयः फलानि ताश् च ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः।
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक्॥

मूलम्

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः।
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक्॥ ३२ ॥

वीरराघवः

धर्मादीनाम् अविरोधतः परस्पराविरोधेन निमित्तान्य् उपायान्, वार्त्तायाः कृष्य्-आदि-व्यापारस्य, दण्ड-नीतेश् च, दण्ड उपकारि-लोक-शिक्षा तद्-विषयाया नीतेः न्यायस्य, श्रुतस्य श्रुति-विहितस्य सन्ध्योपासनादेश् च पृथक् प्रविभक्तं विधिम् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च।
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम्॥

मूलम्

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च।
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम्॥ ३३ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! धर्म, अर्थ, काम और मोक्षकी प्राप्तिके परस्पर अविरोधी साधनोंका, वाणिज्य, दण्डनीति और शास्त्रश्रवणकी विधियोंका, श्राद्धकी विधिका, पितृगणोंकी सृष्टिका तथा कालचक्रमें ग्रह, नक्षत्र और तारागणकी स्थितिका भी अलग-अलग वर्णन कीजिये॥ ३२-३३॥

वीरराघवः

हे ब्रह्मन् मैत्रेय ! पितॄणाम् अर्यम्-आदिनां सर्गं, ग्रहाः सूर्यादयो नव-ग्रहाः, नक्षत्राण्य् अश्विन्यादीनि, तारास् तद्-इतर-ताराः, तेषां कालावयव-संस्थितिं कालावयवतावच्छेदकतया स्थितिम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम्।
प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि॥

मूलम्

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम्।
प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि॥ ३४ ॥

अनुवाद (हिन्दी)

दान, तप तथा इष्ट और पूर्त कर्मोंका क्या फल है? प्रवास और आपत्तिके समय मनुष्यका क्या धर्म होता है?॥ ३४॥

वीरराघवः

दानस्य तपसः कृच्छ्र-चान्द्रायणादेः इष्टापूर्तयोः श्रौत-स्मार्त-कर्मणोश् च यत्-फलं तद् अपि, प्रवास-स्थस्य देशान्तर-गतस्य यो ऽनुष्ठेयो धर्मः तम् उतापि च पुंसः आपदि विपदि यश् चानुष्ठेयो धर्मस् तं च ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः।
सम्प्रसीदति वा येषामेतदाख्याहि चानघ॥

मूलम्

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः।
सम्प्रसीदति वा येषामेतदाख्याहि चानघ॥ ३५ ॥

अनुवाद (हिन्दी)

निष्पाप मैत्रेयजी! धर्मके मूल कारण श्रीजनार्दनभगवान् किस आचरणसे सन्तुष्ट होते हैं और किनपर अनुग्रह करते हैं, यह वर्णन कीजिये॥ ३५॥

वीरराघवः

धर्म-प्रवर्तको जनार्दनः जनानाम् अन्तरात्मा भगवान् येन मार्गेण तुष्येत् येषां यादृशानां सम्प्रसीदति, तद् एतत् सर्वं मे मह्यम् आख्याहि कथय, हे अनघ मैत्रेय ! ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम।
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः॥

मूलम्

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम।
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः॥ ३६ ॥

अनुवाद (हिन्दी)

द्विजवर! दीनवत्सल गुरुजन अपने अनुगत शिष्यों और पुत्रोंको बिना पूछे भी उनके हितकी बात बतला दिया करते हैं॥ ३६॥

वीरराघवः

तस्यान्तरा पृष्ट-प्रतिवचनौत्सुक्यम् आपादयन्न् अन्यद् अपि पृच्छति । अनुव्रतानाम् इत्यादिना हे द्विजोत्तम ! मैत्रेय ! अनुव्रतानां सेवमानानां शिष्याणां पुत्राणां चा ऽनापृष्टम् अपि ब्रूयुः । चो हेतौ, यतो गुरवो दीन-वत्सला, दीन-जनेषु वात्सल्यवन्तः पुत्राणाम् इति दृष्टान्तार्थं यथा पुत्रेभ्यो ऽपृष्टम् अपि ब्रूयुस् तथा शिष्येभ्यो ऽपीत्य् अर्थः । अपृष्टो ऽपि रहस्यार्थः कश्चिद् अस्ति चेत् सो ऽपि वक्तव्य इत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रमः।
तत्रेमं क उपासीरन् क उ स्विदनुशेरते॥

मूलम्

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रमः।
तत्रेमं क उपासीरन् क उ स्विदनुशेरते॥ ३७ ॥

अनुवाद (हिन्दी)

भगवन्! उन महदादि तत्त्वोंका प्रलय कितने प्रकारका है? तथा जब भगवान् योगनिद्रामें शयन करते हैं, तब उनमेंसे कौन-कौन तत्त्व उनकी सेवा करते हैं और कौन उनमें लीन हो जाते हैं?॥ ३७॥

वीरराघवः

हे भगवन्-मैत्रेय ! तत्त्वानां पृथिव्यादीनां प्रतिसंक्रमः प्रलयः कतिधा कति-प्रकारः? किं पृथिव्यादीनि सर्वाणि संहत्य स्व-परम-कारणे लीयन्ते, उतोत्तरोत्तरेषां पूर्व-पूर्वस्मिन् लयः, उतोभय-विधो ऽपीत्य्-आदि-संशयानां प्रवृत्तेः कतिधेत्य् उक्तिः तत्र प्रलये इमं परमात्मानं के उपासीरन्न् अनुपसंहृताः सेवन्ते, मुक्ता इत्य् अर्थः । कु उस्वित् के वा ऽनुशेरते, उपसंह्रियन्ते इत्य् अर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च।
ज्ञानं च नैगमं यत्तद‍्गुरुशिष्यप्रयोजनम्॥

मूलम्

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च।
ज्ञानं च नैगमं यत्तद‍्गुरुशिष्यप्रयोजनम्॥ ३८ ॥

अनुवाद (हिन्दी)

जीवका तत्त्व, परमेश्वरका स्वरूप, उपनिषत्-प्रतिपादित ज्ञान तथा गुरु और शिष्यका पारस्परिक प्रयोजन क्या है?॥ ३८॥

वीरराघवः

पुरुषस्य जीवस्य संस्थानं स्वासाधारण-प्रकारं स्वरूपं, धर्म्मि-स्वरूपं च तथा परस्य परमात्मनः संस्थानं स्व-रूपं ज्ञानं च नैगमं शास्त्र-जन्यं च कथंभूतं? यद् गुरु-शिष्ययोः प्रयोजनं प्रयोजन-भूतं ज्ञानम् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

निमित्तानि च तस्येह प्रोक्तान्यनघ सूरिभिः।
स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा॥

मूलम्

निमित्तानि च तस्येह प्रोक्तान्यनघ सूरिभिः।
स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा॥ ३९ ॥

अनुवाद (हिन्दी)

पवित्रात्मन् विद्वानोंने उस ज्ञानकी प्राप्तिके क्या-क्या उपाय बतलाये हैं? क्योंकि मनुष्योंको ज्ञान, भक्ति अथवा वैराग्यकी प्राप्ति अपने-आप तो हो नहीं सकती॥ ३९॥

वीरराघवः

तस्य ज्ञानस्य निमित्तानि साधनानि यानि सूरिभिः प्रोक्तानि तानि च हे अनघ ! ब्रूहीत्य् अर्थः । गुरूपदेशम् अन्तरेण सर्वम् एतन् न सम्पत्स्यत इत्य् आह । स्वतः इति स्वतो गुरूपदेशम् अन्तरा पुंसां ज्ञानं शास्त्र-जन्यं ज्ञानं ततो भक्तिः वैराग्यञ् च कुतः स्यात् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया।
ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः॥

मूलम्

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया।
ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः॥ ४० ॥

अनुवाद (हिन्दी)

ब्रह्मन्! माया-मोहके कारण मेरी विचार-दृष्टि नष्ट हो गयी है। मैं अज्ञ हूँ, आप मेरे परम सुहृद् हैं; अतः श्रीहरिलीलाका ज्ञान प्राप्त करनेकी इच्छासे मैंने जो प्रश्न किये हैं, उनका उत्तर मुझे दीजिये॥ ४०॥

वीरराघवः

ज्ञान-भक्ति-वैराग्यादेर् गुरूपदेशम् अन्तरेणासम्पत्तेर् हरेः कर्म-विवित्सया भगवद्-विचेष्टित-बुभुत्सयैतान् प्रश्नात् प्रश्न-विषयान् अर्थान् पृच्छतः अजया प्रकृत्या नष्ट-चक्षुषः हृत-ज्ञानस्यात एवान्धस्य मे मह्यं ब्रूहीत्य् अन्वय-भेदान् न मे-पदस्य पौनरुक्त्यम् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ।
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि॥

मूलम्

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ।
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि॥ ४१ ॥

अनुवाद (हिन्दी)

पुण्यमय मैत्रेयजी! भगवत्तत्त्वके उपदेशद्वारा जीवको जन्म-मृत्युसे छुड़ाकर उसे अभय कर देनेमें जो पुण्य होता है, समस्त वेदोंके अध्ययन, यज्ञ, तपस्या और दानादिसे होनेवाला पुण्य उस पुण्यके सोलहवें अंशके बराबर भी नहीं हो सकता॥ ४१॥

वीरराघवः

भव-भय-भीतस्य तत्त्वोपदेशेनाभय-प्रदानान् नोत्तमो धर्मोस्तीत्य् आह सर्व इति । वेदाः वेदाध्ययनाध्यापनार्थ-ज्ञानानि वेद-शब्देन विवक्षितानि । यज्ञादयो वेदार्थानुष्ठान-रूपाः यज्ञाः पञ्च-महा-यज्ञादयः तपो ऽनशनादि ज्ञानम् उपासनम्, एतानि सर्वाणि जीवाभय-प्रदानस्य जीवस्य संसार-निवृत्त्य्-उपायोपदेश-रूपाभय-प्रदान-धर्मस्य कलाम् अपि मात्राम् अपि न कुर्वीरन् ॥ ४१ ॥

श्लोक-४२

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

स इत्थमापृष्टपुराणकल्पः
कुरुप्रधानेन मुनिप्रधानः।
प्रवृद्धहर्षो भगवत्कथायां
सञ्चोदितस्तं प्रहसन्निवाह॥

मूलम्

स इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः।
प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह॥ ४२ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—राजन्! जब कुरुश्रेष्ठ विदुरजीने मुनिवर मैत्रेयजीसे इस प्रकार पुराणविषयक प्रश्न किये, तब भगवच्चर्चाके लिये प्रेरित किये जानेके कारण वे बड़े प्रसन्न हुए और मुसकराकर उनसे कहने लगे॥ ४२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः॥ ७॥

वीरराघवः

विदुर-कृत-प्रश्नान् उपसंहरंस् तेषाम् उत्तर-प्रदानाय मैत्रेयः प्रारभते इत्य् आह श्री-शुकः स इति । इत्थं पूर्वोक्त-प्रकारेण आपृष्टः पुराण-कल्पः कल्प्यत इति कल्पः पुराणार्थः मन्त्र-कल्प इति-वद् रहस्य-प्रकाशकतया कल्प इत्य् उक्तं आपृष्टः आसमन्तात् पृष्टः पुराण-कल्पो यस्य सः मुनि-प्रधानः मुनि-श्रेष्ठो मैत्रेयः कुरु-प्रधानेन विदुरेण भगवत्-कथायां सञ्चोदितः अत एव प्रवृद्ध-हर्षः उत्कट-हर्षः प्रहसन्न् इव प्रश्नानां सुन्दरत्वात् सुखेनोत्तरयितुं शक्यत्वाच् च हसन्न् इव तं प्रत्य् आहेत्य् अर्थः । अत्रेदं ज्ञेयं, तावद् राज-प्रश्नानां विदुर-प्रश्नानां चैकरूप्यं प्रतीयते, उभयत्रोभयेषां प्रत्यभिज्ञानात् अप्रत्याभिज्ञातास् तूपलक्षणतया युक्ताः । अत्रैषां केषाञ्चित् प्रश्नानां मैत्रेयोक्तान्य् एवोत्तराणि तृतीय-तुरीयाभ्यां स्कन्धाभ्याम् आह वैयासकिः अन्येषान् तु स्वयम् एव तत्तद्-आख्यान-प्रवर्तनेनोपरितनैः स्कन्धैर् आचचक्षे मैत्रेयस्य कार्त्स्न्येन प्रश्नानाम् उत्तरान्-अभिधानं तु विदुरस्य महात्मनो भगवद्-धर्म-प्रवर्तकस्योत्तरित-प्रश्नैर् एव बुभुत्सायाः शान्तत्वाद् उपपद्यत इति अलम् अति-विस्तरेण ॥ ४२ ॥

इति श्रीमद्-भागवत-महापुराणे तृतीय-स्कन्धे श्रीमद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां सप्तमो ऽध्यायः ॥ ७ ॥


  1. प्रा. पा. - त्येष भू । ↩︎

  2. प्रा. पा. - प्रत्यभिः । एतद्व्याख्यानं भावार्थदीपिकानुसारि । ↩︎

  3. प्रा. पा. - यदर्थमात्मनाम् । ↩︎

  4. प्रा. पा. - किं वा । ↩︎

  5. प्रा. पा. - त । ↩︎

  6. प्रा. पा. - तश्चा । ↩︎

  7. प्रा. पा. - स्थित्युद्भवा । ↩︎

  8. प्रा. पा. - कर्माणि देवस्य । ↩︎