०६

[षष्ठोऽध्यायः]

भागसूचना

विराट् शरीरकी उत्पत्ति

मूलम् (वचनम्)

ऋषिरुवाच

श्लोक-१

विश्वास-प्रस्तुतिः

इति तासां स्वशक्तीनां सतीनामसमेत्य सः।
प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः॥

मूलम्

इति तासां स्वशक्तीनां सतीनामसमेत्य सः।
प्रसुप्त1लोकतन्त्राणां निशा2म्य गतिमीश्वरः॥ १ ॥

वीरराघवः

एवं निवेदित-हार्द्-दर्शनां तत्त्वानाम् अतः प्रवेशेनाहित-सृष्टि-सामर्थ्यानां ब्रह्माण्ड-सृष्टिः तत्र समष्टि-पुरुष-चतुर्मुखोत्पत्तिस् तत्-समष्टीन्द्रियादिभ्यो व्यष्टीन्द्रियोत्पत्तिश् च कथ्यते षष्ठेनाध्यायेन । तत्र तावद् असंहतानां परमात्मानुप्रवेशेन सृष्टि-सामर्थ्यम् आह इतीति त्रिभिः । ईश्वरो भगवान्, इति उक्त-रीत्या समेत्य मिलित्वा सतीनां वर्तमानानां स्व-शक्तीनां यस्य पृथिवी शरीरं यस्यात्मा शरीरं यस्य चक्षुः शरीरम् इत्यादि-प्रकारेण शरीर-भूतानां प्रसुप्तम् अनुद्बुद्धं लोक-तन्त्रं लोक-रचना-सामर्थ्यं यासां तासां समष्टि-चेतन-प्रमुख-महद्-आदि-तत्त्वानां गतिं स्थितिं निशाम्य दृष्ट्वा गणम् आविशद् इत्य् उत्तरेणान्वयः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत्॥

मूलम्

कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत्॥ २ ॥

अनुवाद (हिन्दी)

मैत्रेय ऋषिने कहा—सर्वशक्तिमान् भगवान‍्ने जब देखा कि आपसमें संगठित न होनेके कारण ये मेरी महत्तत्त्व आदि शक्तियाँ विश्वरचनाके कार्यमें असमर्थ हो रही हैं, तब वे कालशक्तिको स्वीकार करके एक साथ ही महत्तत्त्व, अहंकार, पंचभूत, पंचतन्मात्रा और मनसहित ग्यारह इन्द्रियाँ—इन तेईस तत्त्वोंके समुदायमें प्रविष्ट हो गये॥ १-२॥

वीरराघवः

काल-संज्ञाम् इति । ततो निशामनानन्तरं काल-संज्ञां कालाख्यां देवीं देवस्य स्वस्य सम्बन्धिनीं शक्तिम् अपृथक्-सिद्ध-विशेषण-भूतां रूपान्तरम् इत्य् अर्थः । बिभ्रद् अन्तः प्रविश्य प्रशासनेन धारयन्, त्रयोविंशति-तत्त्वानां महद्-अहङ्कार-पञ्च-भूत-पञ्च-तन्मात्रैकादशेन्द्रिय-रूपाणां तत्त्वानां गणं समूहम् उरुक्रमो विस्तृत-पाद-न्यासः त्रिविक्रमो भगवान् युगपद् एकदा आवशिद् अनुप्रविष्टो ऽभूत् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्॥

मूलम्

सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन्॥ ३ ॥

अनुवाद (हिन्दी)

उनमें प्रविष्ट होकर उन्होंने जीवोंके सोये हुए अदृष्टको जाग्रत् किया और परस्पर विलग हुए उस तत्त्वसमूहको अपनी क्रियाशक्तिके द्वारा आपसमें मिला दिया॥ ३॥

वीरराघवः

स इति । स भगवान् चेष्टा-रूपेण प्रेरणात्मक-चेष्टोपलक्षितः भिन्नम् असंहतं तं गणं त्रयोविंशति-तत्त्व-गणं संयोजयामासेत्य् उक्तं चकारात् भूतानां पञ्चीकरणम् इन्द्रियाणां भूतैर् आप्यायनं च उक्तं भवति । कथम्-भूतः? सुप्तं कर्म तद्-व्यापारं प्रबोधयन् उद्बोधयन् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः।
प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम्॥

मूलम्

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः।
प्रेरितोऽज3नयत्स्वाभिर्मात्राभिरधिपूरुषम्॥ ४ ॥

अनुवाद (हिन्दी)

इस प्रकार जब भगवान‍्ने अदृष्टको कार्योन्मुख किया, तब उस तेईस तत्त्वोंके समूहने भगवान‍्की प्रेरणासे अपने अंशोंद्वारा अधिपुरुष—विराट्को उत्पन्न किया॥ ४॥

वीरराघवः

आहित-सामर्थ्यस्य तत्त्व-गणस्य ब्रह्माण्डोत्पत्ति-द्वारा चतुर्मुख-शरीरारम्भकत्वं संग्रहेणाहैकेन प्रबुद्ध-कर्मेति दैवेन भगवत्-सङ्कल्पेन प्रबुद्धम् उद्बुद्धं कर्म स्व-व्यापारो यस्य स त्रयोविंशति-तत्त्वात्मको गणः प्रेरितः दैवेनेत्य् अनुषङ्गः स्वाभिर् मात्राभिर् अंशैर् अधिपुरुषं ब्रह्माणम् अजनयत् असृजत् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः।
चुक्षोभान्योन्यमासाद्य यस्मिल्ँलोकाश्चराचराः॥

मूलम्

परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः।
चुक्षोभान्योन्यमासाद्य यस्मिॅंल्लोकाश्चराचराः॥ ५ ॥

अनुवाद (हिन्दी)

अर्थात् जब भगवान‍्ने अंशरूपसे अपने उस शरीरमें प्रवेश किया, तब वह विश्वरचना करनेवाला महत्तत्त्वादिका समुदाय एक-दूसरेसे मिलकर परिणामको प्राप्त हुआ। यह तत्त्वोंका परिणाम ही विराट् पुरुष है, जिसमें चराचर जगत् विद्यमान है॥ ५॥

वीरराघवः

कथम् अजनयद् इत्य् अपेक्षायां तद् एव विवृणोति परेणेति । मात्रयांश-भूत-सङ्कल्प-रूप-ज्ञानेन स्वस्मिन् विशता ऽनुप्रविष्टेन परेण भगवतोपलक्षितः हेतौ वा तृतीया विश्वसृङ्गणः विश्वं सृजतीति विश्वसृङ्गणः त्रयोविंशति-तत्त्व-जातं यस्मिन् गणे चराचराः स्थावर-जङ्गमा लोकाः कार्यत्वेनावस्थिताः एवं-भूतो गणः अन्यो ऽन्यं परस्परम् आसाद्य संहत्य चुक्षोभ परिणतो ऽभूत् समष्टि-पुरुष-गर्भ-ब्रह्माण्ड-रूपेण परिणतो ऽभूद् इत्य् अर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान्।
आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः॥

मूलम्

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान्।
4ण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः॥ ६ ॥

अनुवाद (हिन्दी)

जलके भीतर जो अण्डरूप आश्रयस्थान था, उसमें वह हिरण्यमय विराट् पुरुष सम्पूर्ण जीवोंको साथ लेकर एक हजार दिव्य वर्षोंतक रहा॥ ६॥

वीरराघवः

हिरण्मय इतीत्य् अण्डकोश-विशेषणं स पुरुषः समष्टि-पुरुष-सहितः । यद्वा, अप्सु वर्तमाने ऽण्डकोशे हिरण्मयः स्वर्णमयाण्डकोशावृतत्वाद् धिरण्मयः स प्रसिद्धः समष्टि-पुरुषश् चतुर्मुखः देवादि-सर्व-सत्त्वैर् उपबृंहितः युक्तः सहस्र-परिवत्सरान् यावद् अण्डस्य परिपाकस् तावद् उवास उषितवान् इत्य् अर्थः । अत्र अप्सु उवासेत्य् अनेनाण्डकोशोत्पत्तेः पूर्वम् अपां स्थित्य्-अवगमात् उदाप्लुतं विश्वम् इदं तद् आसीत् इति वक्ष्यमाणत्वाच् चावरण-जल-सृष्टिर् अण्डोत्पत्तेः पूर्वम् अवगन्तव्या । सर्व-सत्त्वोपबृंहित इत्य् अनेन चतुर्मुखस्य समष्टि-पुरुषत्वम् आवेदितम् । तेनावरण-जले शयानस्य भगवतो नाभ्याः प्रसूतत्व्-आरब्ध-पद्म-कोश-रूप-ब्रह्माण्डोत्पत्तिर् अर्थ-सिद्धा वेदितव्या । स पद्म-कोशः सहसोदतिष्ठद् इति वक्ष्यमाणैकार्थ्यात् । एवं तत्त्वानां समष्टि-पुरुष-शरीरारम्भकत्वम् उक्तं समष्टि-पुरुषत्वं नाम भूत-संघातारब्ध-स्व-संश्लिष्ट-जीव-संघात-मनः-प्राणेन्द्रियात्मक-शरीरवत्त्वं न च पुत्रादि-शरीरारम्भक-शरीरवत्त्वात् पित्रादीनां समष्टि-पुरुषत्व-शङ्का कार्या ‘पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति’ ‘तद्-अन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम्’ । शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इव आशयात् ॥ इत्यादि-श्रुति-सूत्र-स्मृत्यादि-प्रामाण्येन मनादीन्द्रिय-विश्लेषाभावेन पित्रादि-शरीराणां तद्-आरम्भकत्वाभावात् तद्-इन्द्रियाद्य्-अधिष्ठान-मात्रत्वात् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान्।
विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा॥

मूलम्

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान्।
विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा॥ ७ ॥

अनुवाद (हिन्दी)

वह विश्वरचना करनेवाले तत्त्वोंका गर्भ (कार्य) था तथा ज्ञान, क्रिया और आत्मशक्तिसे सम्पन्न था। इन शक्तियोंसे उसने स्वयं अपने क्रमशः एक (हृदयरूप), दस (प्राणरूप) और तीन (आध्यात्मिक, आधिदैविक, आधिभौतिक) विभाग किये॥ ७॥

वीरराघवः

एवं समष्टि-पुरुषोत्पत्तिम् अभिधायाथास्मात् समष्टि-पुरुष-शरीराद् व्यष्टि-शरीरेन्द्रियाणाम् उत्पत्तिं वक्ष्यंस्-तावद् अस्य समष्टि-पुरुषत्वं वदन् करण-भोक्तृ-विषय-रूपेण त्रिधा विभागं करणांशे एकादशधा विभागं स्व-कर्तृकम् आह — स इति । विश्वसृजां महदादीनां गर्भः अपत्य-रूपः दैवं भगवत्-सङ्कल्पः कर्मात्म-शक्तिः कर्म-रूपा आत्मनां जीवानां शक्तिः ‘अविद्या कर्म-संज्ञा ऽन्या तृतीया शक्तिर् इष्यत’ इत्य् उक्तेः तद्वान् इत्य् अर्थः । यद् वा दैवं भगवत्-सङ्कल्पः कर्म-जीवानां कर्मात्मानो जीवाः शक्तिः जीव-संघ-शरीरद्य् आरम्भिका अचिच्-छक्तिश् चास्य सन्ति इति तद्वान् अनेन समष्टि-पुरुषत्वम् उक्तं एवम्-भूतः स वै समष्ट्य्-आत्मना कर्त्रा आत्मानं प्रथमं त्रिधा करणं भोक्तृ-विषय-रूपेण तत्रापि करणांशे एकधा दशधा मनः पर्यन्तेन्द्रिय-रूपेणैकादशवेत्य् अर्थः विबभाज विभक्तम् अकरोत् स्व-संश्लिष्ट-जीव-संघं भोक्तृत्वेन स्वेन्द्रियैकदेशान् तद्-भोग्य-करणत्वेनाकारेणाकरोद् इत्य् अर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः।
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते॥

मूलम्

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः।
आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते॥ ८ ॥

अनुवाद (हिन्दी)

यह विराट् पुरुष ही प्रथम जीव होनेके कारण समस्त जीवोंका आत्मा, जीवरूप होनेके कारण परमात्माका अंश और प्रथम अभिव्यक्त होनेके कारण भगवान‍्का आदि-अवतार है। यह सम्पूर्ण भूतसमुदाय इसीमें प्रकाशित होता है॥ ८॥

वीरराघवः

अस्यैवं-विध-विभाग-सामर्थ्यम् आह एष इति । एष ब्रह्मा ऽशेष-सत्त्वानां समस्त-व्यष्टि-पदार्थानाम् आत्मा आधारः तच्-छरीरक-परमात्म-दृष्ट्येदम्-उक्तं परमात्मनो ऽन्शः अपृथक्-सिद्ध-विशेषण-भूतः । नन्व् इदं सर्व-जीव-साधारणम् अत आह आद्य इति । आद्यः अवतारः परमात्मन इत्य् अनुषङ्गः । परमात्मन आवेशावतारो बोध्यः “सृष्टिं ततः करिष्यामि त्वाम् आविश्य प्रजापते” इत्य् उक्तेः । यत्र परमात्मात्मके समष्टि-पुरुषे परमात्मांशावतार-भूते ऽसौ भूत-ग्रामः व्यष्टि-पदार्थ-जातं विभाव्यते विविधम् उत्पाद्यते अत ईदृश-विभाग-समर्थ इत्य् अर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा।
विराट् प्राणो दशविध एकधा हृदयेन च॥

मूलम्

साध्यात्मः साधिदैवश्च5 साधिभूत इति त्रिधा।
विराट् प्राणो दशविध एकधा हृदयेन च॥ ९ ॥

अनुवाद (हिन्दी)

यह अध्यात्म, अधिभूत और अधिदैवरूपसे तीन प्रकारका, प्राणरूपसे दस प्रकारका* और हृदयरूपसे एक प्रकारका है॥ ९॥

पादटिप्पनी
  • दस इन्द्रियोंसहित मन अध्यात्म है, इन्द्रियादिके विषय अधिभूत हैं, इन्द्रियाधिष्ठाता देव अधिदैव हैं तथा प्राण, अपान, उदान, समान, व्यान, नाग, कूर्म, कृकल, देवदत्त और धनंजय—ये दस प्राण हैं।
वीरराघवः

प्रस्तुत-त्रिविधैकादश-विध-विभागाव् उपपादयन् समष्टि-पुरुषत्वम् एवोपपादयति साध्यात्म इति । विविधं राजते व्यक्ति-रूपेण भातीति विराट् । यद्य् अपि विराट्-शब्दो ऽनिरुद्ध परः तथापीह समष्टि-पुरुषाद् विभक्त-व्यष्ट्य्-उत्पत्ति-प्रकरणाच् चतुर्मुख-परः । स ब्रह्मा साध्यात्मः अध्यात्म-सहितः समष्टि-रूपेण स्व-शरीरान्तर्गत-भोक्तृ-वर्ग-सहितः आत्मनि देहे वर्तमानो जीवो ह्य् अध्यात्म-शब्दोक्तः स चाविभक्त-रूपः समष्ट्य्-अवस्थः साधिभूतः भूतेषु वर्तमान-शब्दादि-विषय-सहितः ब्रह्म-शरीरारब्ध-भोग्य-जातम् अविभक्तम् साधिदैवः इन्द्रिय-समष्टि-सहितः आदित्य-मण्डलादिषु स्थानेषु वर्तमाना आदित्यादयो देव-शब्द-वाच्याः तद्-अधिष्ठेय इन्द्रिय-वर्ग इत्याधिदेव-शब्दोक्तः समष्ट्य्-अवस्थ-स्व-शरीरान्तर्गत-भोक्तृ-भोग्य-करण-ग्रामवान् इत्य् अर्थः । अत्राधिदैवांशं विवृणोति प्राण इति । प्राण-शब्द इन्द्रिय-परः “तम् उत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति” इति श्रुति-प्रयोगात् दश-विधः श्रोत्रादि-रूपेणैकधा हृदयेन मनसा व्यष्टि-शरीरेन्द्रियादीनां ब्रह्मणाविभक्तत्वं वक्ष्यते ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

स्मरन् विश्वसृजामीशो विज्ञापितमधोक्षजः।
विराजमतपत्स्वेन तेजसैषां विवृत्तये॥

मूलम्

स्मरन्6 विश्वसृजामीशो विज्ञापितमधोक्षजः।
विराजमतपत्स्वेन तेजसैषां विवृत्तये॥ १० ॥

अनुवाद (हिन्दी)

फिर विश्वकी रचना करनेवाले महत्तत्त्वादिके अधिपति श्रीभगवान‍्ने उनकी प्रार्थनाको स्मरण कर उनकी वृत्तियोंको जगानेके लिये अपने चेतनरूप तेजसे उस विराट् पुरुषको प्रकाशित किया, उसे जगाया॥ १०॥

वीरराघवः

तत् तु न स्वातन्त्र्येण कृतं किन्तु भगवद्-अनुप्रवेशाद् इत्य्-आह स्मरन्न् इति । ईशः नियन्ता अधोक्षजो भगवान् विश्वसृजां महदादि-तत्त्वानां विज्ञापितं “यावद् बलिं ते ऽज हराम काले” इत्यादिना विज्ञापितं स्मरन्न् एषाम् इन्द्रियादीनां विवृद्धये व्यष्टि-रूपेण विस्ताराय स्वेन स्वीयेन तेजसा ज्ञानेन विराजं ब्रह्माणम् अतपद् आलोचयत् तप आलोचने । अयं व्यष्टि-शरीरेन्द्रिय-विभाग-सामर्थ्यवान् यथा भवेत् तथा तम् असङ्कल्पयद् इत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

अथ तस्याभितप्तस्य कति चायतनानि ह।
निरभिद्यन्त देवानां तानि मे गदतः शृणु॥

मूलम्

अथ तस्याभितप्तस्य कति चायतनानि ह।
निरभिद्यन्त देवानां तानि मे गदतः शृणु॥ ११ ॥

अनुवाद (हिन्दी)

उसके जाग्रत् होते ही देवताओंके लिये कितने स्थान प्रकट हुए—यह मैं बतलाता हूँ, सुनो॥ ११॥

वीरराघवः

व्यष्टि-शरीरेन्द्रियाणां ब्रह्मणः सकाशाद् विभाग-प्रतिपादनं प्रतिजानीते अथेति । अथालोचनानन्तरम् अभितप्तस्य उक्त-सङ्कल्प-विषयस्य तस्य तस्माद् ब्रह्मण इत्य् अर्थः । नटस्य शृणोतीति-वदत्र पञ्चम्य्-अर्थः सम्बन्ध-सामान्य-परतया षष्ठ्या विवक्षितः । देवानां व्यष्टीन्द्रियाणां कति चायतनानि कतिपयानि स्थानानि निरभिद्यन्त उदभूवन् तानि स्थानानि गदतः मे मत्तः शृण्व् आकर्णयेत्य् अर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम्।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते॥

मूलम्

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम्।
वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते॥ १२ ॥

अनुवाद (हिन्दी)

विराट् पुरुषके पहले मुख प्रकट हुआ; उसमें लोकपाल अग्नि अपने अंश वागिन्द्रियके समेत प्रविष्ट हो गया, जिससे यह जीव बोलता है॥ १२॥

वीरराघवः

विभागम् आह तस्येत्य्-आदिभिश् चतुर्दशभिः । अत्र प्रति-श्लोकं प्रस्तुतः समष्टि-पुरुषो भगवद्-आत्मकश् चतुर्मुखस् तस्यास्येत्य् आदि-षष्ठ्यन्तैः परामृश्यते । तस्य भगवद्-आत्मकाच् चतुर्मुखान् निर्भिन्नं विभक्तम् उत्पन्नम् इति यावत् व्यष्टि-भूत-जातस्यास्यं पदं स्थानं स्वांशेन स्वाधिष्ठेय-भूतेन वाचः वाग्-इन्द्रियेण सह लोक-पालो ऽग्निर् आविशत् प्राविशत् । कथम्भूतया वाचा? असौ व्यष्टि-जीवः यथा वाचा वक्तव्यम् उच्चार्यं शब्दं प्रतिपद्येत उच्चारयतीत्य् अर्थः । समष्टि-पुरुषाद् विभक्तो ऽग्निस् तस्माद् एव विभक्तस्य व्यष्टि-जीवस्य विभक्तम् आस्यं विभक्तेन वाग्-इन्द्रियेण सह प्राविशद् इत्य् अर्थः । एवम् अग्रे ऽप्य् ऊह्यम् सर्वत्रासाव् इति प्रथमान्तम् अध्यात्म-पदं वाचेत्य्-आदि तृतीयां तम् अधिदैव-समर्पकं वक्तव्यम् इत्य्-आदि प्रतिपत्तव्यं शब्दादिकम् अधिभूत-समर्पकं वेदितव्यम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते॥

मूलम्

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः।
जिह्वयांशेन च र7सं ययासौ प्रतिपद्यते॥ १३ ॥

अनुवाद (हिन्दी)

फिर विराट् पुरुषके तालु उत्पन्न हुआ; उसमें लोकपाल वरुण अपने अंश रसनेन्द्रियके सहित स्थित हुआ, जिससे जीव रस ग्रहण करता है॥ १३॥

वीरराघवः

निर्भिन्नम् इति । निर्भिन्नं पृथग्-विभक्तं तालु-स्थानं लोकपालो वरुणः ऽन्शेन स्वाधिष्ठेयेन जिह्वया इन्द्रियेण सहाविशत् असौ व्यष्टि-जीवः यया जिह्वया रसानम्लमधुरादिरसान् प्रतिपद्यते जानाति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम्।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत्॥

मूलम्

निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम्।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत्॥ १४ ॥

अनुवाद (हिन्दी)

इसके पश्चात् उस विराट् पुरुषके नथुने प्रकट हुए; उनमें दोनों अश्विनीकुमार अपने अंश घ्राणेन्द्रियके सहित प्रविष्ट हुए , जिससे जीव गन्ध ग्रहण करता है॥ १४॥

वीरराघवः

निर्भिन्नेति । विष्णोर् विष्ण्व्-आत्मकाद्-ब्रह्मणो नासे निर्भिन्ने अश्विनाव् अंशेन स्वाधिष्ठेयेन घ्राणेन्द्रियेण गन्धस्य सुगन्ध-दुर्गन्धादेः प्रतिपत्तिर् ज्ञानं भवेत् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः।
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत्॥

मूलम्

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः।
चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत्॥ १५ ॥

अनुवाद (हिन्दी)

इसी प्रकार जब उस विराट् देहमें आँखें प्रकट हुईं, तब उनमें अपने अंश नेत्रेन्द्रियके सहित—लोकपति सूर्यने प्रवेश किया, जिस नेत्रेन्द्रियसे पुरुषको विविध रूपोंका ज्ञान होता है॥ १५॥

वीरराघवः

विभोर् ब्रह्मणः सकाशाद् निर्भिन्ने अक्षिणी स्थाने लोकपालः त्वष्टा आदित्यः स्वाधिष्ठेयेन चक्षुरिन्द्रियेण सहाविशत् रूपाणां नील-पीतादीनां प्रतिपत्तिर् यतः येन चक्षुषा भवेत् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत्।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते॥

मूलम्

निर्भिन्नान्यस्य 8चर्माणि लोकपालोऽनिलोऽविशत्।
प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते॥ १६ ॥

अनुवाद (हिन्दी)

फिर उस विराट् विग्रहमें त्वचा उत्पन्न हुई; उसमें अपने अंश त्वगिन्द्रियके सहित वायु स्थित हुआ, जिस त्वगिन्द्रियसे जीव स्पर्शका अनुभव करता है॥ १६॥

वीरराघवः

निर्भिन्नानीति अस्य ब्रह्मणः निर्भिन्नानि चर्माणि लोकपालो ऽनिलो वायुर् अंशेन प्राणेन त्वगिन्द्रियेण प्राणवत् कृत्स्न-देह-व्यापिनेत्य् अर्थः अविशत् असौ व्यष्टि-जीवः येन त्वगिन्द्रियेण संस्पृर्शं मृदुत्व-कठिनत्व-शैत्यौष्ण्यादि-संस्पर्शं प्रतिपद्यते ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते॥

मूलम्

कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते॥ १७ ॥

अनुवाद (हिन्दी)

जब इसके कर्णछिद्र प्रकट हुए , तब उनमें अपने अंश श्रवणेन्द्रियके सहित दिशाओंने प्रवेश किया, जिस श्रवणेन्द्रियसे जीवको शब्दका ज्ञान होता है॥ १७॥

वीरराघवः

कर्णाविति । अस्य ब्रह्मणः विनिर्-भिन्नौ कर्णौ स्वधिष्ण्यं स्व-स्थानं दिशः देवताः श्रोत्रेणांशेन श्रोत्रेन्द्रियेण सह विविशुः शब्दस्य सिद्धिं ज्ञानं येन श्रोत्रेण प्रपद्यते प्राप्नोति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः।
अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते॥

मूलम्

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः।
अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते॥ १८ ॥

अनुवाद (हिन्दी)

फिर विराट् शरीरमें चर्म उत्पन्न हुआ; उसमें अपने अंश रोमोंके सहित ओषधियाँ स्थित हुईं, जिन रोमोंसे जीव खुजली आदिका अनुभव करता है॥ १८॥

वीरराघवः

त्वचमिति । अस्य ब्रह्मणः विभिन्नां त्वचम् ओषधीर् ओषध्यः तदभिमानि-देवताः विभक्ति-व्यत्यय आर्षः रोमभिर् अंशेन रोम-रूप-स्वाधिष्ठेयेनेन्द्रियेण विविशुः प्राविशन् । असौ व्यष्टि-जीवः यै रोमभिः कण्डूं प्रतिपद्यते जानाति त्वग्-इन्द्रियस्यैव स्थान-भेदेन विषय-द्वयं कण्डूः स्पर्शश् च तत्रायं नाम-भेदेन देवता-भेदश् चेति द्वितीये एव व्याख्यातम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत्।
रेतसांशेन येनासावानन्दं प्रतिपद्यते॥

मूलम्

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत्।
रेतसांशेन येनासावानन्दं प्रतिपद्यते॥ १९ ॥

अनुवाद (हिन्दी)

अब उसके लिंग उत्पन्न हुआ। अपने इस आश्रयमें प्रजापतिने अपने अंश वीर्यके सहित प्रवेश किया, जिससे जीव आनन्दका अनुभव करता है॥ १९॥

वीरराघवः

मेढ्रम्-इति तस्य ब्रह्मणः विनिर्-भिन्नं मेढ्रम् उपस्थेन्द्रिय-स्थानं स्वधिष्ण्यं स्व-स्थानं कः प्रजापतिः रेतसा अंशेन रेतो-रूप-स्वाधिष्ठेयेनेन्द्रियेण उपाविशत्, येन रेतसा ऽसौ व्यष्टि-जीवः आनन्दं रति-सुखं जानाति ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत्।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते॥

मूलम्

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत्।
पायुनांशेन येनासौ विसर्गं प्रतिपद्यते॥ २० ॥

अनुवाद (हिन्दी)

फिर विराट् पुरुषके गुदा प्रकट हुई; उसमें लोकपाल मित्रने अपने अंश पायु-इन्द्रियके सहित प्रवेश किया, इससे जीव मलत्याग करता है॥ २०॥

वीरराघवः

गुदम्-इति । पुंसो ब्रह्मणो विनिर्-भिन्नं गुदं पाय्व्-इन्द्रिय-स्थानं लोकेशः मित्रः पायुनांशेन पाय्व्-इन्द्रियेण सहाविशत्, येन पायुना विसर्गं पुरीष-त्यागं प्रतिपद्यते करोति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत्।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते॥

मूलम्

हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत्।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते॥ २१ ॥

अनुवाद (हिन्दी)

इसके पश्चात् उसके हाथ प्रकट हुए; उनमें अपनी ग्रहण-त्यागरूपा शक्तिके सहित देवराज इन्द्रने प्रवेश किया, इस शक्तिसे जीव अपनी जीविका प्राप्त करता है॥ २१॥

वीरराघवः

हस्ताव्-इति अस्य ब्रह्मणः विनिर्भिन्नौ हस्तौ करौ स्वर्पतिः स्वर्गस्य पतिर् इन्द्रः वार्तया कृष्यादि-व्यापार-रूप-वृत्ति-साधनेनांशेन पाणीन्द्रियेणाविशत् पुरुषो व्यष्टि-जीवः यया वृत्ति-साधन-पाणीन्द्रियेण वृत्तिं जीवन-प्रकारं प्रतिप्रपद्यते प्राप्नोति अत्र हस्तावित्य् अनेनाक्षिणी इति द्विवचनेन च एषां श्लोकानां चतुर्मुख-शरीराद् विभक्त-व्यष्टि-देह-विषयत्वं स्पष्टं, न तु तस्यैव हस्ताद्य्-उत्पत्ति-परत्वं, चतुर्मुखस्य भुज-चतुष्टय-नेत्राष्टक-सद्भावात् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत्।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते॥

मूलम्

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत्।
गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते॥ २२ ॥

अनुवाद (हिन्दी)

जब इसके चरण उत्पन्न हुए , तब उनमें अपनी शक्ति गतिके सहित लोकेश्वर विष्णुने प्रवेश किया—इस गति-शक्तिद्वारा जीव अपने गन्तव्य स्थानपर पहुँचता है॥ २२॥

वीरराघवः

पादाव्-इति । अस्य विनिर्भिन्नौ पादौ चरणौ लोकेशो विष्णुर् गत्या गति-साधनेनांशेन स्वाधिष्ठेय-पादेन्द्रियेण सहाविशत् यया गति-साधनेन पादेन्द्रियेणासौ जीवः प्राप्यं गन्तव्यं गमनेन प्रतिपद्यते प्राप्नोति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत्।
बोधेनांशेन बोद्धव्यं प्रतिपत्तिर्यतो भवेत्॥

मूलम्

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत्।
बोधेनांशेन बोद्धव्यं प्रतिपत्तिर्यतो भवेत्॥ २३ ॥

मूलम् - कर्णावती

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत्।
बोधेनांशेन बोद्धव्यप्रतिपत्तिर्यतो भवेत्॥ २३ ॥

अनुवाद (हिन्दी)

फिर इसके बुद्धि उत्पन्न हुई; अपने इस स्थानमें अपने अंश बुद्धिशक्तिके साथ वाक्पति ब्रह्माने प्रवेश किया, इस बुद्धिशक्तिसे जीव ज्ञातव्य विषयोंको जान सकता है॥ २३॥

वीरराघवः

हृदयम्-इति । अस्य निर्भिन्नं हृदयं कमलाकारं धिष्ण्यं स्थानं चन्द्रमा मनसांशेनेन्द्रियेण सहाविशत्, येन मनसा ऽसौ जीवः विक्रियां विकल्प-संकल्प-रूपां प्रतिपद्यते । एकस्यैवान्तःकरणस्य विक्रिया-बोधाभिमान-विवेक-रूप-वृत्ति-भेदेन मनो-बुद्ध्य्-अहङ्कार-चित्त-भेदस्य चन्द्र-वागीश-रुद्र-प्रजापतयो ऽधिष्ठातारो बोध्याः । तत्र सङ्कल्प-विकल्पात्मक-वृत्त्य्-अवच्छिन्न-स्वान्तःकरण-भेदस्य चन्द्रमसाधिष्ठितस्य समष्टि-पुरुषाद् विभागः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत्।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते॥

मूलम्

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत्।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते॥ २४ ॥

अनुवाद (हिन्दी)

फिर इसमें हृदय प्रकट हुआ; उसमें अपने अंश मनके सहित चन्द्रमा स्थित हुआ। इस मनःशक्तिके द्वारा जीव संकल्प-विकल्पादिरूप विकारोंको प्राप्त होता है॥ २४॥

वीरराघवः

अथ बुद्ध्य्-आदि-विभागम् आह बुद्धिम् इत्यादिना । ब्रह्मणः विनिर्भिन्नां बुद्धिं धिष्ण्यं स्थानं वागीशः ब्रह्मा बोधेन निश्चयात्मक-ज्ञान-जनन-सामर्थ्येन सहाविशत्, यतः बोधेन बोधव्यस्य निश्चेतव्यस्य प्रतिपत्तिर् ज्ञानं भवेत् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम्।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते॥

मूलम्

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम्।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते॥ २५ ॥

अनुवाद (हिन्दी)

तत्पश्चात् विराट् पुरुषमें अहंकार उत्पन्न हुआ; इस अपने आश्रयमें क्रियाशक्तिसहित अभिमान (रुद्र)-ने प्रवेश किया। इससे जीव अपने कर्तव्यको स्वीकार करता है॥ २५॥

वीरराघवः

आत्मानम्-इति । आत्मानम् अहङ्कारम् अस्य ब्रह्मणः निर्भिन्नं पदं स्थानम् अभिमानः अभिमन्यते ऽनेनेत्य् अभिमानः अनात्मन्य्-आत्माभिमान-कृद्-देवता रुद्रः सर्वात्मनो ऽन्तःकरणं गिरित्रम् इति प्राग् उक्तत्वात् कर्मणा देहाभिमानेनांशेनाविशत् येन कर्मणा ऽसौ जीवः कर्तव्यम् अभिमान-विषयं प्रतिपद्यते ऽभिमनुते ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत्।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते॥

मूलम्

सत्त्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत्।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते॥ २६ ॥

अनुवाद (हिन्दी)

अब इसमें चित्त प्रकट हुआ। उसमें चित्तशक्तिके सहित महत्तत्त्व (ब्रह्मा) स्थित हुआ; इस चित्तशक्तिसे जीव विज्ञान (चेतना)-को उपलब्ध करता है॥ २६॥

वीरराघवः

सत्त्वमिति । अस्य ब्रह्मणो विनिर्भिन्नं सत्त्वं देहात्म-विवेक-ज्ञान-हेतु-बुद्ध्याख्यम् अन्तःकरणं बुद्धि-चित्तयोर् अभेदेनायं निर्देशः धिष्ण्यं स्थानं महान् प्रजापतिः चित्तेनांशेन सम्यग्-अर्थ-चिन्तन-रूपेण मनसोपाविशत् येन चित्तेनांशेनासौ जीवः विज्ञानं सम्यक्-चिकीर्षयितव्यार्थ-विषयं ज्ञानं प्रतिपद्यते लभते ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

शीर्ष्णोऽस्य द्यौर्धरा पद‍्भ्यां खं नाभेरुदपद्यत।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः॥

मूलम्

शीर्ष्णोऽस्य द्यौर्धरा पद‍्भ्यां खं नाभेरुदपद्यत।
गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः॥ २७ ॥

अनुवाद (हिन्दी)

इस विराट् पुरुषके सिरसे स्वर्गलोक, पैरोंसे पृथ्वी और नाभिसे अन्तरिक्ष (आकाश) उत्पन्न हुआ। इनमें क्रमशः सत्त्व, रज और तम—इन तीन गुणोंके परिणामरूप देवता, मनुष्य और प्रेतादि देखे जाते हैं॥ २७॥

वीरराघवः

एवं व्यष्टीन्द्रिय-विभागम् उक्तत्वा ऽथ देवादीनां भोग-स्थान-विभागम् आह **शीर्ष्ण इति ** । अस्य ब्रह्मणः शीर्ष्णः शिरसो द्यौः, पद्भ्यां पादाभ्यां धरा भूमिः, अस्य नाभेः खम् अन्तरिक्ष-लोकः उदपद्यत, उदभूत्; येषु द्यु-धरास्वेषु गुणानां सत्त्व-रजस्-तमसां वृत्तयः वृत्ति-मन्तः देव-मनुष्यादयः वृत्ति-शब्दो ऽजहल्-लक्षणया वृत्ति-मत्-परः प्रतीयन्ते दृश्यन्ते, देवादय उत्पद्यन्त इत्य् अन्वयः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे।
धरां रजःस्वभावेन पणयो ये च ताननु॥

मूलम्

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे।
धरां रजःस्वभावेन प9णयो ये च ताननु॥ २८ ॥

वीरराघवः

गुणानां वृत्तय इत्य् एतद् एव प्रपञ्चयति द्वाभ्याम्, **आन्त्यतिकेनेति ** । आत्यन्तिकेन ऊर्ज्जितेन औत्पत्तिकेनेत्य् अपि पाठः, तदा नैसर्गिकेणेत्य् अर्थः । सत्त्वेन सत्त्व-गुणेन उपलक्षिता देवाः दिवं सात्त्विक-कर्मानुष्ठान-निष्पादित-फल-भोगानुरूप-द्युलोकं प्रतिपेदिरे प्राप्ताः । पणयः पण व्यवहारे पणन्ते आयासादिना-व्यवहारेण जीवन्तीति पणयो मनुष्याः, तान् अनुसृत्य ये उपकरण-भूता गव्-आदयस् ते सर्वे रजः-स्वभावेन उपलक्षिताः राजस-कर्म-फल-भोगानुकूलां धरां भूमिं प्रपेदिरे हेत्व्-अर्थे तृतीया सात्त्विकादि-स्वभावेन हेतुता द्युः पृथिव्य्-आदीन् लोकान् देवादयः प्रपेदिरे इत्य् अर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः।
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः॥

मूलम्

तार्तीयेन स्वभावेन भगव10न्नाभिमाश्रिताः।
उभयोरन्तरं व्योम ये11 रुद्रपार्षदां गणाः॥ २९ ॥

अनुवाद (हिन्दी)

इनमें देवतालोग सत्त्वगुणकी अधिकताके कारण स्वर्गलोकमें, मनुष्य और उनके उपयोगी गौ आदि जीव रजोगुणकी प्रधानताके कारण पृथ्वीमें तथा तमोगुणी स्वभाववाले होनेसे रुद्रके पार्षदगण (भूत, प्रेत आदि) दोनोंके बीचमें स्थित भगवान‍्के नाभिस्थानीय अन्तरिक्षलोकमें रहते हैं॥ २८-२९॥

वीरराघवः

तार्तीयेनेति तृतीयं तमः तदीयेन तार्त्तीयेन तमः-स्वभावेन भगवन्-नाभिं भगवतो वैराज-धारणायां नभः-स्थलं नाभि-सरो गृणन्ति, भूः पादौ यस्य, नाभिर् वियद् इत्य्-आदिभिर् नाभित्वेनानुसन्धीयमानम् यद् वा, भगवन्-नाभिं भगवतश् चतुर्मुख-शरीरस्य भगवतः नाभिं नाभ्या आसीद् अन्तरिक्षम् इति श्रुतेः उपचारात् कार्ये कारण-शब्दः उभयोर् द्यावा-पृथिव्योर् अन्तरं मध्य-स्थं व्योमान्तरिक्षं रुद्र-पार्षदां गणाः भूत-प्रेत-पिशाचाद्या आश्रिताः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह।
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद‍्ब्राह्मणो गुरुः॥

मूलम्

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह।
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद‍्ब्राह्मणो गुरुः॥ ३० ॥

मूलम् - कर्णावती

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह।
यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद‍् ब्राह्मणो गुरुः॥ ३० ॥

अनुवाद (हिन्दी)

विदुरजी! वेद और ब्राह्मण भगवान‍्के मुखसे प्रकट हुए। मुखसे प्रकट होनेके कारण ही ब्राह्मण सब वर्णोंमें श्रेष्ठ और सबका गुरु है॥ ३०॥

वीरराघवः

चातुर्वर्ण्योत्पत्तिम् आह **मुखत इति ** । पुरुषस्य समष्टि-पुरुषस्य मुखतः ब्रह्म यद् ब्राह्मण-वृत्तिर् अध्ययनादि तन्-मुखतो ऽवर्त्तत प्रवृत्तम् एतद् एव हि ब्राह्मणानां ब्रह्म-मुखोद्भूतत्वं नाम, यत् तन्-मुख-व्यापार-भूताध्यापनादि-वृत्त्याश्रितत्वम् । एवं क्षत्रियादिष्व् अपि द्रष्टव्यम् । हे कुरूद्वह ! विदुर ! यद् यस्माद् ब्राह्मणः तन्-मुखत्वात्, तन्-मुखोद्भवत्वात्, तन्-मुखोद्भूताध्यापनादि-मुख-व्यापारत्वाद् वर्णानां मुख्यः मुखम् इव प्रधानः गुरुश् च अभूत् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः।
यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात्॥

मूलम्

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः।
यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात्॥ ३१ ॥

अनुवाद (हिन्दी)

उनकी भुजाओंसे क्षत्रियवृत्ति और उसका अवलम्बन करनेवाला क्षत्रिय वर्ण उत्पन्न हुआ, जो विराट् भगवान‍्का अंश होनेके कारण जन्म लेकर सब वर्णोंकी चोर आदिके उपद्रवोंसे रक्षा करता है॥ ३१॥

वीरराघवः

बाहुभ्य इति क्षत्रं क्षत्रिय-धर्मः पालन-रूपा वृत्तिः तद्-बाहुभ्यो ऽवर्तत तद्-अनुव्रतः क्षत्रम्-अनुव्रतः क्षत्रियश् च स्व-वृत्ति-द्वारा बाहुभ्यो ऽवर्त्तत यो ब्रह्मणो बाहुभ्यो जातः पौरुषः समष्टि-पुरुषांशः क्षत्रियः कण्टक-क्षतात् कण्टक-वल्-लोकोपद्रव-कारिणो चोरादयः, तेभ्यो जातं यत् क्षतम् उपद्रवस् तस्माद् वर्णान् त्रायते रक्षति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः।
वैश्यस्तदुद‍्भवो वार्तां नृणां यः समवर्तयत्॥

मूलम्

विशोऽवर्तन्त त12स्योर्वोर्लोकवृत्तिकरीर्विभोः।
वैश्यस्तदुद‍्भवो वार्तां नृणां यः समवर्तयत्॥ ३२ ॥

अनुवाद (हिन्दी)

भगवान‍्की दोनों जाँघोंसे सब लोगोंका निर्वाह करनेवाली वैश्यवृत्ति उत्पन्न हुई और उन्हींसे वैश्य वर्णका भी प्रादुर्भाव हुआ। यह वर्ण अपनी वृत्तिसे सब जीवोंकी जीविका चलाता है॥ ३२॥

वीरराघवः

विश इति तस्य विभोः प्रभोः ब्रह्मण ऊर्वोर् अपादानस्यैव शेषत्व-विवक्षया षष्ठी, लोक-वृत्ति-करीः क्रय-विक्रय-कृष्य्-आदि-लोक-जीविका-हेतवः, विभक्ति-लिङ्ग-व्यत्ययाव् आर्षौ विशः वैश्या अवर्तन्त । तद्-उद्भवः ब्रह्मण उद्भूतः यो वैश्यः सन् नृणां वार्त्ताम् आजीविकां समवर्तयत्, सम्पादितवान् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

पद‍्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये।
तस्यां जातः पुरा शूद्रो यद्‍वृत्त्या तुष्यते हरिः॥

मूलम्

पद‍्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये।
तस्यां जातः पुरा शूद्रो यद्‍वृत्त्या तुष्यते हरिः॥ ३३ ॥

अनुवाद (हिन्दी)

फिर सब धर्मोंकी सिद्धिके लिये भगवान‍्के चरणोंसे सेवावृत्ति प्रकट हुई और उन्हींसे पहले-पहल उस वृत्तिका अधिकारी शूद्रवर्ण भी प्रकट हुआ, जिसकी वृत्तिसे ही श्रीहरि प्रसन्न हो जाते हैं*॥ ३३॥

पादटिप्पनी
  • सब धर्मकी सिद्धिका मूल सेवा है, सेवा किये बिना कोई भी धर्म सिद्ध नहीं होता। अतः सब धर्मोंकी मूलभूता सेवा ही जिसका धर्म है, वह शूद्र सब वर्णोंमें महान् है। ब्राह्मणका धर्म मोक्षके लिये है, क्षत्रियका धर्म भोगनेके लिये है, वैश्यका धर्म अर्थके लिये है और शूद्रका धर्म धर्मके लिये है। इस प्रकार प्रथम तीन वर्णोंके धर्म अन्य पुरुषार्थोंके लिये हैं, किन्तु शूद्रका धर्म स्वपुरुषार्थके लिये है; अतः इसकी वृत्तिसे ही भगवान् प्रसन्न हो जाते हैं।
वीरराघवः

पद्भ्याम्-इति । भगवतः भगवद्-आत्मकस्य ब्रह्मणः पद्भ्यां शुश्रूषा-धर्म-सिद्ध्यये स्व-पूर्व-वर्ण-शुश्रूषा-रूप-धर्म-सिद्ध्यर्थं जज्ञे । कथम्भूता शुश्रूषा इत्य् अत आह तस्याम्-इति । यद्-वृत्त्या यस्य शूद्रस्य वृत्त्या हरिस् तुष्यते, तस्यां तादृश-शुश्रूषा-वृत्तौ निमित्त-भूतायां शूद्रो जातः । भगवत्-तुष्ट्य्-आपादक-स्व-पूर्व-वर्ण-शुश्रूषा-वृत्ति-निमित्तकं शूद्र-जन्म इत्य् अर्थः । अनेन स्व-वृत्त्या भगवत्-सन्तोष-जननम् एव परो धर्म इति सूचितम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम्।
श्रद्धयाऽऽत्मविशुद्‍ध्यर्थं यज्जाताः सह वृत्तिभिः॥

मूलम्

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम्।
श्रद्धयाऽऽत्मविशुद्‍ध्यर्थं यज्जाताः सह वृत्तिभिः॥ ३४ ॥

अनुवाद (हिन्दी)

ये चारों वर्ण अपनी-अपनी वृत्तियोंके सहित जिनसे उत्पन्न हुए हैं, उन अपने गुरु श्रीहरिका अपने-अपने धर्मोंसे चित्तशुद्धिके लिये श्रद्धापूर्वक पूजन करते हैं॥ ३४॥

वीरराघवः

तद् एवोपपादयति एत इति । एते वर्णा ब्राह्मणाद् अयश् चत्वारः वर्णाः स्वधर्मेण स्व-वर्णोचित-धर्मेण श्रद्धया आत्म-विशुद्ध्यर्थम् आत्मनः अनादि-पाप-वासना-दूषितस्यान्तःकरणस्य विशुद्ध्यर्थं स्व-गुरुं स्व-जनकं हरिं स्वाश्रित-संसार-बन्ध-हरं हरिं यजन्ति यजेयुर् इत्य् अर्थः । कथम्भूतं हरिम्? यज्-जाताः, यद् यस्माच् चतुर्मुख-शरीरकात् परमात्मनो हरेः सकाशाद् वृत्तिभिः सह जाताः तं हरिं यजन्तीत्य् अर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः।
कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम्॥

मूलम्

एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः।
कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम्॥ ३५ ॥

अनुवाद (हिन्दी)

विदुरजी! यह विराट् पुरुष काल, कर्म और स्वभावशक्तिसे युक्त भगवान‍्की योगमायाके प्रभावको प्रकट करनेवाला है। इसके स्वरूपका पूरा-पूरा वर्णन करनेका कौन साहस कर सकता है॥ ३५॥

वीरराघवः

एवं सृष्टि-लीलां वर्णयित्वा पुनः प्रश्नावसर-प्रदानायापार-महिम्नो भगवतः साकल्येन महिमानम् उपवर्णयितुं न को ऽपि शक्त इति वदन्न् उपसंहरति **एतदिति ** । दैव-कर्मात्म-रूपिणः दैवं कालः, देव-नियाम्यत्वेन तत्-सम्बन्धित्वात्; कर्म-शब्देन जीवादृष्टस्य पृथग्-उपादानात्; आत्मानः काल-कर्म-वश्या जीवाः; देवादि-रूपाणि शरीराण्य् अस्य सन्तीति दैव-कर्मात्म-रूपी तस्य भगवतः पूर्ण-षाड्गुण्यस्य योग-माया-बलोदयं युज्यते इति योगा, अधिष्ठेया सा च असौ माया, तस्या बलं जनन-सामर्थ्यं, तस्योदयो विभवो यस्मिंस् तद्-एवं तद् विश्वं हे क्षत्तः ! विदुर ! उपाकर्तुं साकल्येन व्याकर्तुं वर्णयितुम् इति यावत्, कः पुमान् श्रद्दध्यात् श्रद्धां कुर्यात्? न को ऽपीत्य् अर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम्।
कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम्॥

मूलम्

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम्।
कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम्॥ ३६ ॥

अनुवाद (हिन्दी)

तथापि प्यारे विदुरजी! अन्य व्यावहारिक चर्चाओंसे अपवित्र हुई अपनी वाणीको पवित्र करनेके लिये, जैसी मेरी बुद्धि है और जैसा मैंने गुरुमुखसे सुना है वैसा, श्रीहरिका सुयश वर्णन करता हूँ॥ ३६॥

वीरराघवः

ननु कस्याप्य् अशक्तौ कथं भवता वर्ण्यत इत्य् अत आह अथापीति, अथापि कार्त्स्न्येन वर्णयितुं कस्याप्य् अशक्ताव् अपि यथा-श्रुतं गुरु-मुखाच् छुतम् अनतिक्रम्य तत्रापि यथामति यावत्-स्व-बुद्धि-विषयम् अनतिक्रम्य हरेः कीर्त्तिम् अङ्ग हे विदुर ! कीर्तयामि न ह्य् अहं साकल्येन वर्णयामीति प्रतिज्ञातवान् अस्मीत्य् अभिप्रायः । तर्हि किम् एक-देश-वर्णनेन प्रयोजनम् इत्य् अत आह स्वां स्वकीयाम् अन्याभिधां हरि-व्यतिरिक्तार्थाभिधानं तया ऽसतीं दुष्टां गिरं वाचं सत्कर्तुं पवित्रीकर्तुम् इत्य् अर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

एकान्तलाभं वचसो नु पुंसां
सुश्लोकमौलेर्गुणवादमाहुः।
श्रुतेश्च विद्वद‍्भिरुपाकृतायां
कथासुधायामुपसम्प्रयोगम्॥

मूलम्

एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः।
श्रुतेश्च विद्वद‍्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम्॥ ३७ ॥

अनुवाद (हिन्दी)

महापुरुषोंका मत है कि पुण्यश्लोकशिरोमणि श्रीहरिके गुणोंका गान करना ही मनुष्योंकी वाणीका तथा विद्वानोंके मुखसे भगवत्कथामृतका पान करना ही उनके कानोंका सबसे बड़ा लाभ है॥ ३७॥

वीरराघवः

एतद् एवोपपादयति एकान्तलाभमिति । सुश्लोक-मौलेः श्लोकनीय-प्रधानस्य भगवतो गुण-वादं गुण-कथनम् एव पुंसां वचसः एकान्त-लाभम् एकान्त-फलम् आहुः श्रुति-स्मृतीतिहास-पुराण-तज्ज्ञाः विद्वद्भिर् उपाकृतायां उपवर्णितायां कथा-सुधायाम् उपसम्प्रयोगं सन्निधौ अर्पणं सम्बन्धम् इत्य् अर्थः । श्रुतेः श्रोत्रेन्द्रियस्य एकान्त-लाभम् आहुर् इत्य् अर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना।
संवत्सरसहस्रान्ते धिया योगविपक्वया॥

मूलम्

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना।
संवत्सरसहस्रान्ते धिया योगविपक्वया॥ ३८ ॥

अनुवाद (हिन्दी)

वत्स! हम ही नहीं, आदिकवि श्रीब्रह्माजीने एक हजार दिव्य वर्षोंतक अपनी योगपरिपक्व बुद्धिसे विचार किया; तो भी क्या वे भगवान‍्की अमित महिमाका पार पा सके?॥ ३८॥

वीरराघवः

न केवलम् अस्माभिर् एव भगवन्-महिमा कार्त्स्न्येन दुर्ज्ञेयः किं तु ब्रह्मादिभिर् अपि ज्ञानाधिकैर् इत्य् आह आत्मन इति । हे वत्स ! विदुर ! आदिना-कविना चतुर्मुखेनात्मनो भगवतो महिमा बहु-संवत्सरान्ते योग-विपक्वया धिया ऽवसितः किम् इति काक्वा? एतावान् इति न ज्ञात एवेत्य् उक्तम्, यद् वा, अवसितः अपरिच्छिन्नत्वेनेत्य् अध्याहारः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

अतो भगवतो माया मायिनामपि मोहिनी।
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे॥

मूलम्

अतो भगवतो माया मायिनामपि मोहिनी।
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे॥ ३९ ॥

अनुवाद (हिन्दी)

अतः भगवान‍्की माया बड़े-बड़े मायावियोंको भी मोहित कर देनेवाली है। उसकी चक्‍करमें डालनेवाली चाल अनन्त है; अतएव स्वयं भगवान् भी उसकी थाह नहीं लगा सकते, फिर दूसरोंकी तो बात ही क्या है॥ ३९॥

वीरराघवः

न केवलम् आदि-कविर् एवापरिच्छिन्नत्वेन वेद किं तु भगवान् अपि स्वयं तथैवं वेदेत्य् आह अहो इति । भगवती भगवत्-सम्बन्धिनी माया आश्चर्य-शक्तिर् मायिनाम् अप्य् आश्चर्य-शक्तिमताम् अपि मोहिन्य्-आश्चर्य-जनयित्री अहो इत्य् आश्चर्ये यद् यस्माद् आत्म-वर्त्मात्मा आत्म-वर्त्मनः स्व-प्रापक-मार्ग-भूतस्य वेदस्यात्मा वेद-मूर्तिः न वेद इयत्तया न वेद अपरे ब्रह्मादयः न विदुर् इति किम् उत किम् उ वक्तव्यम् इत्य् अर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह।
अहं चान्य इमे देवास्तस्मै भगवते नमः॥

मूलम्

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह।
अहं चान्य इमे देवास्तस्मै भगवते नमः॥ ४० ॥

अनुवाद (हिन्दी)

जहाँ न पहुँचकर मनके सहित वाणी भी लौट आती है तथा जिनका पार पानेमें अहंकारके अभिमानी रुद्र तथा अन्य इन्द्रियाधिष्ठाता देवता भी समर्थ नहीं हैं, उन श्रीभगवान‍्को हम नमस्कार करते हैं॥ ४०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः॥ ६ ॥

वीरराघवः

ननु वाङ्-मनसोर् अतीन्द्रियार्थ-दर्शिनः ऋषयो देवाश् च जानीयुर् एव सर्वेषाम् अपि दुर्ज्ञेयत्वे ऽनुपास्यत्व-प्रसङ्गाद् इत्य् अत आह यत इति । वाचो वेद-वचांसि मनः योग-परिशुद्धं मनः तेन सहाहम् अतीन्द्रियार्थ-दर्शिनो ऽस्मत्-प्रभृतयः ऋषयः देवा ब्रह्म-रुद्रादयश् चाप्राप्य कार्त्स्न्येन यन्-महिमानम् अनवगम्य यतो भगवतः न्यवर्तन्त तस्मै भगवते नमः न हि कार्त्स्न्येन वाङ्-मनस्-आदयो विदुः किं तु तन्-महिमानम् अपरिच्छिन्नत्वेनैव विदुः । न चानुपास्यत्व-प्रसङ्गः तत्-स्वरूप-गुण-विभूतीनाम् अपरिच्छिन्नत्वेनोपासनोपपत्तेः । अतएव न भगवतो ऽपि कार्त्स्न्येन स्व-स्व-रूप-आद्य्-अज्ञानेन सर्व-ज्ञता-हानिः । अपरिच्छिन्नत्वेनैव ज्ञानस्य सर्व-ज्ञता-निर्वाहकत्वात् यद् वस्तु यथा-विधं प्रमितं तस्य तद्-याथात्म्य-ज्ञानं हि सर्व-ज्ञतापादकं न हि अपरिच्छिन्नस्य परिच्छिन्नतया ज्ञानं परिच्छिन्नस्य वा ऽपरिच्छिन्नता-ज्ञानं सर्वज्ञत्वं निर्वोढुम् अलम् अतएव “यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातम् अविजानताम् ॥ यतो वाचो निवर्तन्त अप्राप्य मनसा सह ।” आनन्दं ब्रह्मणो विद्वान् इति वेदना-विधि-निषेधयोर् उपपत्तिः अपरिच्छिन्नत्व-परिच्छिन्नत्वाभ्यां तयोर् व्यवस्थित-विषयत्वात् ॥ ४० ॥

इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कन्धे मद्-वीर-राघवाचार्य-कृत-भागवत-चन्द्र-चन्द्रिकायां षष्ठो ऽध्यायः ॥ ६ ॥


  1. प्रा. पा. - प्रसुप्तो लो । ↩︎

  2. प्रा. पा. - निशम्य । ↩︎

  3. प्रा. पा. - प्रेरितो जनितस्ताभिर्मात्रा । ↩︎

  4. प्रा. पा. - अण्डकोश । ↩︎

  5. प्रा. पा. - स्फु । ↩︎

  6. प्रा. पा. - रसान् । ↩︎

  7. प्रा. पा. - रसान् । ↩︎

  8. प्रा. पा. - मर्माणि । ↩︎

  9. प्रा. पा. - प्राणयोगेन चैव तत् । ↩︎

  10. प्रा. पा. - भगवान्नाभिमाश्रितः । ↩︎

  11. प्राचीने पाठे श्लोकस्यास्य चतुर्थे पादं - ‘सरुद्राः है पार्षदा गणाः ।’ इति ↩︎

  12. प्रा. पा. - य । ↩︎