०५

[पञ्चमोऽध्यायः]

भागसूचना

विदुरजीका प्रश्न और मैत्रेयजीका सृष्टिक्रमवर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

द्वारि द्युनद्या ऋषभः कुरूणां
मैत्रेयमासीनमगाधबोधम्।
क्षत्तोपसृत्याच्युतभावशुद्धः
पप्रच्छ सौशील्यगुणाभितृप्तः॥

मूलम्

द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम्।
क्षत्तोपसृत्याच्युतभावशुद्धः पप्रच्छ सौशील्यगुणाभितृप्तः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—परमज्ञानी मैत्रेय मुनि (हरिद्वारक्षेत्रमें) विराजमान थे। भगवद‍्भक्तिसे शुद्ध हुए हृदयवाले विदुरजी उनके पास जा पहुँचे और उनके साधुस्वभावसे आप्यायित होकर उन्होंने पूछा॥ १॥

वीरराघवः

एवं कुत्र क्षत्तुर् भगवता मैत्रेयेण स संगमः कदा वा सहसंवाद इत्य् अस्योत्तरम् उक्तम् । अथेतः प्रभृति तृतीय-चतुर्थ-स्कन्धाभ्यां विदुर-मैत्रेय-संवादं विवक्षिष्यस् तावद् विदुरस्य मैत्रेयोपसत्ति-प्रकारं तत्-पृष्ट-भगवल्-लीला-रूप-महद्-आदि-सृष्टि-प्रकारं चाहानेन पञ्चमेनाध्यायेन तावद् यथाविधि क्षत्तुर् मैत्रेयोपसत्ति-प्रकारम् आह - बादरायणिः द्वारीति । द्युनद्याः गङ्गायाः द्वारि द्वारे आसीनं निषण्णम् अगाध-बोधम्—अगाधो ऽपार-बोध आत्म-परमात्म-याथात्म्य-ज्ञानं यस्य तं श्रोत्रियं ब्रह्मनिष्ठम् इत्य्-आद्य्-उक्ताचार्य-लक्षण-लक्षितम् इत्य् अर्थः, एवंभूतं मैत्रेयम् उपसृत्य, गुरुम् एवाभिगच्छेत् समित्-पाणिर् इत्य्-आद्य्-उक्त-रीत्योप समीपे प्राप्य क्षत्ता पप्रच्छ कथम्भूतः क्षत्ता अच्युत-भावः परमात्म-भक्तिः तेन शुद्धः निर्मल-चित्तः । अनेन प्रशान्त-चित्ताय शमान्वितायेत्य् अस्यार्थ उक्तः सौशील्य-गुणाभितृप्तः सौशील्यं महतो मन्दैः सह नीरन्ध्रेण संश्लेष-स्वभावत्वं मैत्रेयस्य सौशील्य-गुणेनाभितृप्तः सत्यार्जव-दया-दानाहिंसादीनाम् अप्य् उपलक्षणम् तैर् अप्य् अभितृप्तः । एतेनाचार्यत्व-पूर्तिर् अभिप्रेता॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

विदुर उवाच

विश्वास-प्रस्तुतिः

सुखाय कर्माणि करोति लोको
न तैः सुखं वान्यदुपारमं वा।
विन्देत भूयस्तत एव दुःखं
यदत्र युक्तं भगवान् वदेन्नः॥

मूलम्

सुखाय कर्माणि करोति लोको न तैः सुखं वान्यदुपारमं1 वा।
विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान् वदेन्नः॥ २ ॥

अनुवाद (हिन्दी)

विदुरजीने कहा—भगवन्! संसारमें सब लोग सुखके लिये कर्म करते हैं; परन्तु उनसे न तो उन्हें सुख ही मिलता है और न उनका दुःख ही दूर होता है, बल्कि उससे भी उनके दुःखकी वृद्धि ही होती है। अतः इस विषयमें क्या करना उचित है, यह आप मुझे कृपा करके बतलाइये॥ २॥

वीरराघवः

किं पृष्टवान् इत्य् अपेक्षायां तावत् परीक्ष्य लोकान् इत्य् अस्यार्थं सूचयस् तत् प्रश्नम् एवाह सुखायेत्य्-आदिना । लोकः जनः सुखाय सुखार्थं सुख-लिप्सयेत्य् अर्थः कर्माणि कृष्यादीनि लौकिकानि श्रौत-स्मार्तानि च करोति । तैः कर्मभिः सुखं वा निरतिशय-सुख-प्राप्तौ आत्यन्तिक-दुःख-निवृत्तौ च साधनत्वेन यद् युक्तं कर्त्तव्यं तन् नः अस्मभ्यं भगवान् उत्पत्त्य्-आदि-ज्ञान-सम्पन्नः त्वं वदेद् इत्य् अर्थः। तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते इत्य्-उक्त-रीत्या कर्मणाम् आत्यन्तिक-दुःख-निवृत्ति-पूर्वक-निरतिशय-सुख-प्राप्ति-साधनत्वानुपपत्तिं परीक्षमाणाय निरतिशय-सुख-साधन-विवित्सावते मह्यम् उपदिशेत्य् अर्थः॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

जनस्य कृष्णाद्विमुखस्य दैवा-
दधर्मशीलस्य सुदुःखितस्य।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य॥

मूलम्

जनस्य कृष्णाद्विमुखस्य दैवादधर्मशीलस्य सुदुःखितस्य।
अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य॥ ३ ॥

अनुवाद (हिन्दी)

जो लोग दुर्भाग्यवश भगवान् श्रीकृष्णसे विमुख, अधर्मपरायण और अत्यन्त दुःखी हैं, उनपर कृपा करनेके लिये ही आप-जैसे भाग्यशाली भगवद‍्भक्त संसारमें विचरा करते हैं॥ ३॥

वीरराघवः

निवृत्त-बाह्याभ्यन्तःकरण-व्यापारस्य भगवत्-प्रवणैक-चित्तस्य मे किं भगवत्-कृत-प्रश्नानां प्रतिवचनेन प्रयोजनम् इत्य्-आशङ्कां शमयस् तस्य प्रतिवचनौत्सुक्यम् आविष्करोति जनस्येति । दैवात् पूर्व-कर्म-वशाद्-अधर्म-शीलस्याधर्म-निरतस्य ‘पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्ट-प्रज्ञः पापम् एव नित्यम् आरभते जनः॥’ इति वचनात् अत एव कृष्णाद् विमुखस्य पराङ्मुखस्य अत एव सुदुःखितस्य जनस्यानुग्रहाय भव्यानि भद्राणि जनार्द्दनस्य विष्णोः भूतानि विष्णु-भक्ता भवतः इत्य् अर्थः । इह मर्त्य-लोके चरन्ति । कृपालूनां भवतां लोकान् उजिघृक्षयैव मर्त्य-लोके सञ्चरणं नान्यथेत्य् अर्थः॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तत्साधुवर्यादिश वर्त्म शं नः
संराधितो भगवान् येन पुंसाम्।
हृदि स्थितो यच्छति भक्तिपूते
ज्ञानं सतत्त्वाधिगमं पुराणम्॥

मूलम्

तत्साधुवर्यादिश वर्त्म2 शं नः संराधितो भगवान् येन पुंसाम्।
हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम्॥ ४ ॥

अनुवाद (हिन्दी)

साधुशिरोमणे! आप मुझे उस शान्तिप्रद साधनका उपदेश दीजिये, जिसके अनुसार आराधना करनेसे भगवान् अपने भक्तोंके भक्तिपूत हृदयमें आकर विराजमान हो जाते हैं और अपने स्वरूपका अपरोक्ष अनुभव करानेवाला सनातन ज्ञान प्रदान करते हैं॥ ४॥

वीरराघवः

बुभुत्सितानि क्रमशः पृच्छति तद् इति । हे साधु-वर्य ! शं सुख-संपादकं तद्-वर्त्म नः आदिश कथय कथम्भूतं वर्त्म येन वर्त्मना संराधितो भगवान् पुंसां भक्ति-पूते भक्ति-योगेन पवित्रिते हृदि हृदये स्थितः सन् तत्त्वाधिगमं तत्त्वम् अधिगम्यते येन तत्तत्त्वावभासकं पुराणम् अनादि-वेद-प्रमाणकं ज्ञानं यच्छति तद्-वर्त्मादिशेत्य् अर्थः॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

करोति कर्माणि कृतावतारो
यान्यात्मतन्त्रो भगवांस्त्र्यधीशः।
यथा ससर्जाग्र इदं निरीहः
संस्थाप्य वृत्तिं जगतो विधत्ते॥

मूलम्

करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्यधीशः।
यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते॥ ५ ॥

वीरराघवः

करोतीति त्र्यधीशः त्रिलोकेशः भगवान् स्वतन्त्रः अकर्म-वश्य एवं कृतावतारः ब्रह्मादि-रूपेण कृतानुप्रवेशावतारः यानि कर्माणि करोति अग्रे सृष्टेः पूर्वं निरीहः निर्व्यापार एव स्वयम् इदं विश्वं यथा येन प्रकारेण ससर्ज यथा संस्थाप्य सम्यक् स्थितिं रक्षां कृत्वा जगतः वृत्तिं जीविकां विधत्ते करोति एतद् वर्णयेत्य् उपरितनेनान्वयः एवम् अग्रे ऽपि ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यथा पुनः स्वे ख इदं निवेश्य
शेते गुहायां स निवृत्तवृत्तिः।
योगेश्वराधीश्वर एक एत-
दनुप्रविष्टो बहुधा यथाऽऽसीत्॥

मूलम्

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः।
योगेश्वराधीश्वर एक एतदनुप्रविष्टो बहुधा यथाऽऽसीत्॥ ६ ॥

अनुवाद (हिन्दी)

त्रिलोकीके नियन्ता और परम स्वतन्त्र श्रीहरि अवतार लेकर जो-जो लीलाएँ करते हैं; जिस प्रकार अकर्ता होकर भी उन्होंने कल्पके आरम्भमें इस सृष्टिकी रचना की, जिस प्रकार इसे स्थापित कर वे जगत‍्के जीवोंकी जीविकाका विधान करते हैं, फिर जिस प्रकार इसे अपने हृदयाकाशमें लीनकर वृत्तिशून्य हो योगमायाका आश्रय लेकर शयन करते हैं और जिस प्रकार वे योगेश्वरेश्वर प्रभु एक होनेपर भी इस ब्रह्माण्डमें अन्तर्यामीरूपसे अनुप्रविष्ट होकर अनेकों रूपोंमें प्रकट होते हैं—वह सब रहस्य आप हमें समझाइये॥ ५-६॥

वीरराघवः

करोतीति त्र्यधीशः त्रिलोकेशः भगवान् स्वतन्त्रः अकर्म-वश्य एवं कृतावतारः ब्रह्मादि-रूपेण कृतानुप्रवेशावतारः यानि कर्माणि करोति अग्रे सृष्टेः पूर्वं निरीहः निर्व्यापार एव स्वयम् इदं विश्वं यथा येन प्रकारेण ससर्ज यथा संस्थाप्य सम्यक् स्थितिं रक्षां कृत्वा जगतः वृत्तिं जीविकां विधत्ते करोति एतद् वर्णयेत्य् उपरितनेनान्वयः एवम् अग्रे ऽपि ॥ ५ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

क्रीडन् विधत्ते द्विजगोसुराणां
क्षेमाय कर्माण्यवतारभेदैः।
मनो न तृप्यत्यपि शृण्वतां नः
सुश्लोकमौलेश्चरितामृतानि॥

मूलम्

क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतार3भेदैः।
मनो न तृप्यत्य4पि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि॥ ७ ॥

अनुवाद (हिन्दी)

ब्राह्मण, गौ और देवताओंके कल्याणके लिये जो अनेकों अवतार धारण करके लीलासे ही नाना प्रकारके दिव्य कर्म करते हैं, वे भी हमें सुनाइये। यशस्वियोंके मुकुटमणि श्रीहरिके लीलामृतका पान करते-करते हमारा मन तृप्त नहीं होता॥ ७॥

वीरराघवः

क्रीडन्निति यथा च द्विज-गो-सुराणां ब्राह्मण-गो-देवतानां क्षेमायावतार-भेदैः राम-कृष्णाद्य्-अवतार-भेदैः भेद-शब्दो गौणावेश-शाक्ताद्य्-अवताराणां प्रदर्शनार्थः स्वयं क्रीडन्न् एव कर्माणि दुष्कृद्-विनाशन-साधु-परित्राणादि-रूप-कर्माणि विधत्ते करोति अन्यद् अपि प्रक्ष्यमाणः अन्तरा स्वस्य प्रतिवचन-श्रवणौत्सुक्यम् आवि करोति अर्द्धेन|अर्धेन । मन इति सुश्लोक-मौलेः सुष्ठु श्लोक्यते कीर्त्यंत इति सुश्लोकाः पवित्र-कीर्तिमन्तः तेषां मौलिर् इव प्रधानः तस्य भगवतश् चरितामृतान्य् अमृत-तुल्यानि चरित्राणि शृण्वताम् अपि नः मनः न तृप्यत्य् अलंभावं न गच्छतीत्य् अर्थः॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

यैस्तत्त्वभेदैरधिलोकनाथो
लोकानलोकान् सह लोकपालान्।
अचीक्लृपद्यत्र हि सर्वसत्त्व-
निकायभेदोऽधिकृतः प्रतीतः॥

मूलम्

यैस्तत्त्वभेदैरधिलोकनाथो लोकानलोकान् सह लोकपालान्।
अचीक्लृपद्यत्र हि सर्वसत्त्वनिकायभेदोऽधिकृतः प्रतीतः॥ ८ ॥

अनुवाद (हिन्दी)

हमें यह भी सुनाइये कि उन समस्त लोकपतियोंके स्वामी श्रीहरिने इन लोकों, लोकपालों और लोकालोक-पर्वतसे बाहरके भागोंको, जिनमें ये सब प्रकारके प्राणियोंके अधिकारानुसार भिन्न-भिन्न भेद प्रतीत हो रहे हैं, किन तत्त्वोंसे रचा है॥ ८॥

वीरराघवः

अन्यद् अपि पृच्छति यैर् इति अधिलोक-नाथः लोकाधिपतिः यैस् तत्त्व-भेदैर् महदादिभिर् इत्य् अर्थः । सह-लोक-पालान्-सह-विद्यमानाः लोक-पाला येषां तान् लोकान् अलोकान् लोकालोक-बहिर्-भागान्-नरकान् वा अचीक्लृपत् कल्पयामास तान् वर्णयेत्य् अर्थः । यत्र येषु लोकादिषु सर्वाणि यानि सत्त्वानि प्राणिनः तेषां निकाया समूहास् तेषां भेदः भिदा अधिकृतः कर्मानुगुणाधिकारवान् प्रतीतः प्रतीयते ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

येन प्रजानामुत आत्मकर्म-
रूपाभिधानां च भिदां व्यधत्त।
नारायणो विश्वसृडात्मयोनि-
रेतच्च नो वर्णय विप्रवर्य॥

मूलम्

येन प्रजानामुत आत्मकर्मरूपाभिधानां च भिदां व्यधत्त।
नारायणो विश्वसृडात्मयोनिरेतच्च नो वर्णय विप्रवर्य॥ ९ ॥

वीरराघवः

येनेति । उतापि च आत्मनः योनिः आत्मवै योनिः कारणं यस्य सः आत्म-योनिः कारणान्तर-शून्य इत्य् अर्थः । विश्व-स्रष्टा नारायणः प्रजानां व्यष्टि-भूतानाम् आत्म-कर्म-रूपाभिधानाम् आत्मा ज्ञानेन्द्रिय-गणः कर्म कर्मेन्द्रिय-गणः रूपाणि देव-मनुष्यादि-रूपाणि अभिधा-देवो मनुष्य इत्याद्य्-अभिधाः आसां भिदां येन येन प्रकारेण व्यधत्ताकरोत् किं साक्षात् परम्परया वेत्य् अभिप्रायः । एतत् पृष्टं चकाराद् अपृष्टम् अपि नो ऽस्मभ्यं हे विप्र-वर्य ! वर्णय ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

परावरेषां भगवन् व्रतानि
श्रुतानि मे व्यासमुखादभीक्ष्णम्।
अतृप्नुम क्षुल्लसुखावहानां
तेषामृते कृष्णकथामृतौघात्॥

मूलम्

परावरेषां भगवन् व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम्।
अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णकथामृतौघात्॥ १० ॥

अनुवाद (हिन्दी)

द्विजवर! उन विश्वकर्ता स्वयम्भू श्रीनारायणने अपनी प्रजाके स्वभाव, कर्म, रूप और नामोंके भेदकी किस प्रकार रचना की है? भगवन्! मैंने श्रीव्यासजीके मुखसे ऊँच-नीच वर्णोंके धर्म तो कई बार सुने हैं। किन्तु अब श्रीकृष्णकथामृतके प्रवाहको छोड़कर अन्य स्वल्प-सुखदायक धर्मोंसे मेरा चित्त ऊब गया है॥ ९-१०॥

वीरराघवः

ननु बहु-श्रुतस्य तव किम् अनया शुश्रूषयेत्य् अत आह परावरेषाम् इति हे भगवन् मैत्रेय ! परे त्रैवर्णिका अवरे स्त्री-शूद्रादयः तेषां व्रतानि व्यास-मुखाद् अभीक्ष्णं पुनः पुनः मे मया श्रुतानि भगवत्-कथामृत-पूराद् विना क्षुल्ल-सुखावहानाम् अल्प-सुख-सम्पादकानां तेषां व्रतानां श्रवणेनेति शेषः, अतृप्नुम तृप्ताः अभूम भगवत्-कथामृत-श्रवणेन तु न तृप्ता इत्य् अर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

कस्तृप्नुयात्तीर्थपदोऽभिधानात्
सत्रेषु वः सूरिभिरीड्यमानात्।
यः कर्णनाडीं पुरुषस्य यातो
भवप्रदां गेहरतिं छिनत्ति॥

मूलम्

कस्तृप्नुयात्तीर्थपदोऽभिधानात् सत्रेषु वः सूरिभिरीड्यमानात्।
यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति॥ ११ ॥

अनुवाद (हिन्दी)

उन तीर्थपाद श्रीहरिके गुणानुवादसे तृप्त हो भी कौन सकता है। उनका तो नारदादि महात्मागण भी आप-जैसे साधुओंके समाजमें कीर्तन करते हैं तथा जब ये मनुष्योंके कर्णरन्ध्रोंमें प्रवेश करते हैं, तब उनकी संसारचक्रमें डालनेवाली घर-गृहस्थीकी आसक्तिको काट डालते हैं॥ ११॥

वीरराघवः

एतद् एवाह क इति । वः युष्माकं सत्रेषु सूरिभिर् विद्वद्भिर् ईड्यमाना स्तूयमानात् तीर्थ-पदो भगवतः अभिधानाच्-चरित्रात् कः शृण्वन् पुरुषः तृप्नुयात् न को ऽपि तृप्नुयाद् इत्य् अर्थः। यस् तीर्थ-पात् पुरुषस्य शृण्वतः पुंसः कर्ण-नाडीं श्रोत्र-बिलं यातः गतः, कथा-श्रवणेन श्रोत्र-बिल-द्वारेण हृदयं प्रविष्ट इत्य् अर्थः, भव-प्रदां संसृति-सम्पादिकां गेह-रतिं देहापत्य-कलत्रादिष्व् आसक्तिं छिनत्ति । न ह्य् एवं व्रतानां ताप-त्रयाभिहति-सामर्थ्यम् अस्तीति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

मुनिर्विवक्षुर्भगवद‍्गुणानां
सखापि ते भारतमाह कृष्णः।
यस्मिन्नृणां ग्राम्यसुखानुवादै-
र्मतिर्गृहीता नु हरेः कथायाम्॥

मूलम्

मुनिर्विवक्षुर्भगवद‍्गुणानां सखापि ते भारतमाह कृष्णः।
यस्मिन्नृणां ग्राम्यसुखानुवादैर्मतिर्गृहीता नु हरेः कथायाम्॥ १२ ॥

अनुवाद (हिन्दी)

भगवन्! आपके सखा मुनिवर कृष्णद्वैपायनने भी भगवान‍्के गुणोंका वर्णन करनेकी इच्छासे ही महाभारत रचा है। उसमें भी विषयसुखोंका उल्लेख करते हुए मनुष्योंकी बुद्धिको भगवान‍्की कथाओंकी ओर लगानेका ही प्रयत्न किया गया है॥ १२॥

वीरराघवः

ननु भगवत्-कथाया एव ताप-त्रयात्मक-संसृति-विच्छेदकत्वे सैवं प्राधान्येन भगवता व्यासेन महाभारते किम् इति नानुवर्णिता किम् इति वा प्रायशो व्रतान्य् एव वर्णितानीत्य् आशङ्क्यान्वारोह-वाद-न्यायेन श्री-महाभारतस्यापि भगवद्-गुणानुवर्णने तात्पर्यम् इत्य् आह मुनिर् इति । तव सखा मुनिः कृष्णः व्यासः भगवद्-गुणानां विवक्षुः भगवद्-गुणान्-वक्तुम्-इच्छुर्-भारतम् आह यस्मिन् भारते ग्राम्य-सुखानुवादैर्-द्वार-भूतैर् अनुपश्चाद्धरेः कथायां नृणां मतिः गृहीता ऽवतारितेत्य् अर्थः । शाखा-चन्द्र-न्यायेन भगवत्-कथायां बुद्ध्य्-अवतारार्थं भारते ग्राम्य-सुखानुवादः कृतः । न हि तावता तत्रैव तात्पर्यम् इति वक्तुं युक्तं तद् उक्तम् इतिहास-समुच्चये कामिनो वर्णयन्-कामान् । लोभं लुब्धस्य वर्णयन् नरः किं फलम् आप्नोति कूपे ऽधम् इव पातयन्॥ लोक-चित्तावतारार्थं वर्णयित्वा तु तेन तौ । इतिहासैः पवित्रार्थैः पुनस् तत्रैव निन्दितौ अन्यथा । घोर-संसार-बन्ध-हेतू जनस्य तौ । वर्णयेत् स कथं विद्वान् महा-कारुणिको मुनिः॥" इति अतो भारताभिप्रायो दुरवगम इत्य् अर्थः॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

सा श्रद्दधानस्य विवर्धमाना
विरक्तिमन्यत्र करोति पुंसः।
हरेः पदानुस्मृतिनिर्वृतस्य
समस्तदुःखात्ययमाशु धत्ते॥

मूलम्

सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः5
हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखात्ययमाशु धत्ते॥ १३ ॥

अनुवाद (हिन्दी)

यह भगवत्कथाकी रुचि श्रद्धालु पुरुषके हृदयमें जब बढ़ने लगती है, तब अन्य विषयोंसे उसे विरक्त कर देती है। वह भगवच्चरणोंके निरन्तर चिन्तनसे आनन्दमग्न हो जाता है और उस पुरुषके सभी दुःखोंका तत्काल अन्त हो जाता है॥ १३॥

वीरराघवः

भगवत्-कथायां मति-प्रवेशस्य फलम् आह सेति । सा हरि-कथा अहरहः श्रवणेन वृद्धिं प्राप्ता सती श्रद्दधानस्य कथा-श्रवणे श्रद्धां कुर्वतः पुंसः अन्यत्र शब्दादौ विरक्तिं करोति । ततः किम् इत्य् अत आह हरेर् भगवतः पादयोर् अनुस्मृत्या ऽनुध्यानेन निर्वृतस्य सुखितस्य समस्त-दुःखानाम् अप्य् अयं नाशं विधत्ते सा हरि-कथेति शेषः॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

ताञ्छोच्यशोच्यानविदोऽनुशोचे
हरेः कथायां विमुखानघेन।
क्षिणोति देवोऽनिमिषस्तु येषा-
मायुर्वृथावादगतिस्मृतीनाम्॥

मूलम्

ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन।
क्षिणोति देवोऽनिमिषस्तु येषामायुर्वृथावादगतिस्मृतीनाम्॥ १४ ॥

अनुवाद (हिन्दी)

मुझे तो उन शोचनीयोंके भी शोचनीय अज्ञानी पुरुषोंके लिये निरन्तर खेद रहता है, जो अपने पिछले पापोंके कारण श्रीहरिकी कथाओंसे विमुख रहते हैं। हाय! कालभगवान् उनके अमूल्य जीवनको काट रहे हैं और वे वाणी, देह और मनसे व्यर्थ वाद-विवाद, व्यर्थ चेष्टा और व्यर्थ चिन्तनमें लगे रहते हैं॥ १४॥

वीरराघवः

हरि-कथैव स्वस्यां श्रद्दधानस्य शुश्रूषोः शब्दादि-विषयेषु विरक्तिं भगवत्-पदारविन्द-भक्तिं च जनयति, ताप-त्रयाभिहतिं च विधत्ते अत एवं-विध-प्रभाववत्यां हरि-कथायां ये विमुखास् तान् शोचन्ति तान् इति शोच्य-शोच्यान् शोच्यानाम् अपि शोच्यान् अत्यन्त-शोच्यान् इत्य् अर्थः । कुतः अविदः अज्ञान् तान् शोचे ते के हरेः कथायाम् उक्त-गुण-शालिन्याम् अघेन पापेन ये विमुखाः पराङ्मुखाः अत एव येषां हरि-कथा-विमुखानाम् आयुर् अनिमिषो देवः रविः क्षिणोति क्षपयति किम् इदम् उच्यते यतः कथाः शृण्वतो ऽप्य् आयुः क्षिणोतीत्य् आशङ्कां शमयन् विमुखान् विशिनष्टि वृथा-वाद-गति-स्मृतीनाम् इति वादो वाग्-व्यापारः गतिर् देह-व्यापारः स्मृतिर् मनो-व्यापारः वृथाः व्यर्थाः वाद-गति-स्मृतयो येषां तेषां भगवतः कथाः शृण्वतस् तु वाद-गति-स्मृतयः सफला इत्य् अर्थः । आयुः-क्षपणं तु तुल्यम् एव ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तदस्य कौषारव शर्मदातु-
र्हरेः कथामेव कथासु सारम्।
उद‍्धृत्य पुष्पेभ्य इवार्तबन्धो
शिवाय नः कीर्तय तीर्थकीर्तेः॥

मूलम्

तदस्य कौषारव शर्मदातुर्हरेः कथामेव कथासु सारम्।
उद‍्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः॥ १५ ॥

अनुवाद (हिन्दी)

मैत्रेयजी! आप दीनोंपर कृपा करनेवाले हैं; अतः भौंरा जैसे फूलोंमेंसे रस निकाल लेता है, उसी प्रकार इन लौकिक कथाओंमेंसे इनकी सारभूता परम कल्याणकारी पवित्र-कीर्ति श्रीहरिकी कथाएँ छाँटकर हमारे कल्याणके लिये सुनाइये॥ १५॥

वीरराघवः

प्रश्नम् उपसंहरति द्वाभ्यां तद् इति, तस्माद् धरि-कथाया एव समस्त-दुःखाप्य्-अयकरत्व्-करत्वाद् धेतोः, हे कौषारव ! मैत्रेय! शर्म-दातुः सुख-प्रदस्य पवित्र-कीर्तेर् अस्य हरेः कथाम् एव कथासु सारं सार-भूताम् उद्धृत्य पुष्पेभ्यः मधु-करो मधु इव नः शिवाय हे आर्त-बन्धो ! ताप-त्रयाभिपीडितानां सुख-कर ! कीर्तय कथय ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

स विश्वजन्मस्थितिसंयमार्थे
कृतावतारः प्रगृहीतशक्तिः।
चकार कर्माण्यतिपूरुषाणि
यानीश्वरः कीर्तय तानि मह्यम्॥

मूलम्

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः।
चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम्॥ १६ ॥

अनुवाद (हिन्दी)

उन सर्वेश्वरने संसारकी उत्पत्ति, स्थिति और संहार करनेके लिये अपनी मायाशक्तिको स्वीकार कर राम-कृष्णादि अवतारोंके द्वारा जो अनेकों अलौकिक लीलाएँ की हैं, वे सब मुझे सुनाइये॥ १६॥

वीरराघवः

भगवत्-कथास्व् अपि प्राधान्येन श्री-कृष्ण-कथैव कथनीयेत्य् आह स इति । यो भगवान् विश्वस्य जन्म-स्थिति-संहारार्थे सृष्टि-स्थिति-संहारार्थं प्रगृहीत-शक्तिः प्रगृहीतोपात्ता शक्तिः ब्रह्मादि-रूपा शक्तिर् येन सः शक्ति-तन्व्-अंश-विभूति-शरीरादयः शब्दाः पर्यायाः । पालनाधिकृत-स्वावतार-रूप-विष्णु-गत-पालनानुकूल-सामर्थ्यस्य स्व-शक्तित्वं बोध्यम् । एवंभूतः स एवेश्वरः कृतावतारः अति-पूरुषाण्य् अति-मानुषाणि दिव्यानि कर्माणि चकार तानि मह्यं कीर्तय कथय ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः।
पुंसां निःश्रेयसार्थेन तमाह बहु मानयन्॥

मूलम्

स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः।
पुंसां निःश्रेयसार्थेन तमाह बहु मानयन्॥ १७ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—जब विदुरजीने जीवोंके कल्याणके लिये इस प्रकार प्रश्न किया, तब तो मुनिश्रेष्ठ भगवान् मैत्रेयजीने उनकी बहुत बड़ाई करते हुए यों कहा॥ १७॥

वीरराघवः

एवं क्षत्त्रा पृष्टो मैत्रेय आहेत्य् आह शुकः स एवम् इत्य् एकेन भगवान् उत्पत्त्य्-आदि-ज्ञान-सम्पन्नः स कुषारव-सुतो मैत्रेयः एवं क्षत्त्रा विदुरेण पुसां निःश्रेयसार्थाय मोक्षोदयाय स्वस्य तु संसिद्धत्वान् न स्व-निःश्रेयसार्थायेत्य् अर्थः, एवम् आपृष्टः तं क्षत्तारं बहुमानयन् सम्मानयन्न् आह ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

मैत्रेय उवाच

विश्वास-प्रस्तुतिः

साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः॥

मूलम्

साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः॥ १८ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी बोले—साधुस्वभाव विदुरजी! आपने सब जीवोंपर अत्यन्त अनुग्रह करके यह बड़ी अच्छी बात पूछी है। आपका चित्त तो सर्वदा श्रीभगवान‍्में ही लगा रहता है, तथापि इससे संसारमें भी आपका बहुत सुयश फैलेगा॥ १८॥

वीरराघवः

पुंसां निःश्रेयसार्थायेत्य् अनेन सूचितम् एव क्षत्तुः लोकानुग्रह-कारित्वम् आविष्कुर्वंस् तावत् प्रश्नम् अभिनन्दति मैत्रेयः साध्व् इति । हे साधो ! विदुर ! त्वया साधु सम्यक् पृष्टम् त्वया कथम्भूतेन? लोकान् साध्व् अनुगृह्णता अधोक्षजात्मनः अधोक्षज आत्मा यस्य तस्यात्मनः स्वस्याधोक्षज-चित्तस्य स्वस्येति वा कीर्तिं लोके वितन्वता विस्तरवता ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे।
गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः॥

मूलम्

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे।
गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः॥ १९ ॥

अनुवाद (हिन्दी)

आप श्रीव्यासजीके औरस पुत्र हैं; इसलिये आपके लिये यह कोई बड़ी बात नहीं है कि आप अनन्यभावसे सर्वेश्वर श्रीहरिके ही आश्रित हो गये हैं॥ १९॥

वीरराघवः

हरि-कथा-प्रश्नस् त्वयि न चित्रम् इत्य् आह नैतद् इति । हे क्षतः बादरायण-वीर्य-जे व्यास-वीर्य-संभूते त्वयि इदं हेतु-गर्भ-विशेषणम् एतद्-धरि-कथा-प्रश्न इत्य् एतन् न चित्रं न केवलं बादरायण-वीर्यं तत्त्व-मात्रम् एव किन्तु यद् यस्माद् अनन्य-भावेनैकान्त-भावेनेश्वरो हरिस् त्वया गृहीतः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

माण्डव्यशापाद‍्भगवान् प्रजासंयमनो यमः।
भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात्॥

मूलम्

माण्डव्यशापाद‍्भगवान् प्रजासंयमनो यमः।
भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात्॥ २० ॥

अनुवाद (हिन्दी)

आप प्रजाको दण्ड देनेवाले भगवान् यम ही हैं। माण्डव्य ऋषिका शाप होनेके कारण ही आपने श्रीव्यासजीके वीर्यसे उनके भाई विचित्रवीर्यकी भोगपत्नी दासीके गर्भसे जन्म लिया है॥ २०॥

वीरराघवः

बादरायण-वीर्य-जत्वं च स्पष्टयति माण्डव्य-शापाद् इति प्रजानाम् अभागवतानां प्रजानां संयमनो दण्डयिता यमः वैवस्वतः माण्डव्यस्य मुनेः शापाद् भुजिष्यायां दास्यां सत्यवती-सुताद् व्यासाज् जातः उत्पन्नः यम एव त्वं जातो ऽसीत्य् अर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

भवान् भगवतो नित्यं सम्मतःसानुगस्य च।
यस्य ज्ञानोपदेशाय माऽऽदिशद‍्भगवान् व्रजन्॥

मूलम्

भवान् भगवतो नित्यं सम्मतः सानुगस्य च।
6यस्य ज्ञानोपदेशाय माऽऽदिशद‍्भगवान् व्रजन्॥ २१ ॥

अनुवाद (हिन्दी)

आप सर्वदा ही श्रीभगवान् और उनके भक्तोंको अत्यन्त प्रिय हैं; इसीलिये भगवान् निजधाम पधारते समय मुझे आपको ज्ञानोपदेश करनेकी आज्ञा दे गये हैं॥ २१॥

वीरराघवः

किं च भवान् इति सानुगस्य सभागवतस्य भगवतः श्री-कृष्णस्य भवान् नित्यं संमतः प्रीतिविषयः यत् यस्य तव ज्ञानोपदेशाय मां भगवान् व्रजन् भुवं त्यक्ष्यन्न् आदिशद् आदिष्टवान् समीपे ऽसंतम् अपि । भगवंतं स्मृत्वा ज्ञानोपदेशार्थं माम् आज्ञप्तवान् एतेन भगवन्-निरतिशय-प्रीतिविषयत्वम् अवगम्यते प्रियो हि ज्ञानिनो ऽत्यर्थम् इति स्मरणात् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अथ ते भगवल्लीला योगमायोपबृंहिताः।
विश्वस्थित्युद‍्भवान्तार्था वर्णयाम्यनुपूर्वशः॥

मूलम्

अथ ते भगवल्लीला योगमायोपबृंहिताः।
विश्वस्थित्युद‍्भवान्तार्था वर्णयाम्यनुपूर्वशः॥ २२ ॥

अनुवाद (हिन्दी)

इसलिये अब मैं जगत‍्की उत्पत्ति, स्थिति और लयके लिये योगमायाके द्वारा विस्तारित हुई भगवान‍्की विभिन्न लीलाओंका क्रमशः वर्णन करता हूँ॥ २२॥

वीरराघवः

अतो निरतिशय-भगवत्-प्रीति-विषयाय ते यथा-प्रश्नं वर्णयाम् इति संबंधः । कथंभूता योग-मायोपबृंहिताः, युज्यते इति योगः स चासौ माया च आश्चर्य-शक्तिः तयोपबृंहिताः भगवन्-नियाम्याश्चर्य-शक्त्य्-उपकल्पिताः अंतः संहारः अर्थो मोक्षः विश्वस्य स्थित्यादयो यासां ताः एवं-भूता लीलाः । यद्वा अर्थ-शब्दः स्व-रूप-परः वस्तुन्य्-अर्थ-शब्द-प्रयोगात् अन्त-शब्देन संहारो मोक्षश् च विवक्षितः । यत् प्रयन्त्य् अभिसंविशन्तीति श्रुतेः, विश्वस्य स्थित्यादयः अर्थः स्व-रूपं यासां ताः लीलाः क्रीडाः चेष्टाः आनुपूर्व्यशः प्रश्नानुसारेण कर्णयामीत्य् अर्थः । यद्वा सृष्टि-लीलादि-क्रमेणेत्य् अर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः।
आत्मेच्छानुगतावात्मानानामत्युपलक्षणः॥

मूलम्

भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः।
आत्मेच्छानुगतावात्मानानामत्युपलक्षणः॥ २३ ॥

मूलम् - कर्णावती

भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः।
आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः॥ २३ ॥

अनुवाद (हिन्दी)

सृष्टिरचनाके पूर्व समस्त आत्माओंके आत्मा एक पूर्ण परमात्मा ही थे—न द्रष्टा था न दृश्य! सृष्टिकालमें अनेक वृत्तियोंके भेदसे जो अनेकता दिखायी पड़ती है, वह भी वही थे; क्योंकि उनकी इच्छा अकेले रहनेकी थी॥ २३॥

वीरराघवः

प्रथमं सृष्टि-लीलां वर्णयितुं सृष्टेः पूर्वं कारणत्वेनावस्थित-वस्तु-स्वरूपम् आह त्रयेण भगवान् इति । इदं परिदृश्यमान-नामरूप-विभागार्ह-स्थूल-चिद्-अचिदात्मकं जगद् अग्रे सृष्टेः पूर्व्वकाले आत्मनां जीवानाम् आत्मान्तः प्रविश्य धारकः विभुः स्वामी एक अविभक्त-नाम-रूप-सूक्ष्म-चिद्-अचिच्-छरीरः भगवान् एवासीद् इत्य् अर्थः । स एव भगवान् आत्मेच्छानुगताव् आत्मनः स्वस्येच्छा सृष्ट्य्-उपयोगी संकल्पः तस्या अनुगतौ उन्मेषे सति नाना-मत्य्-उपलक्षितः देवादि-नाना-नाम-रूप-विषय-बुद्धि-बोध्यः पूर्वस्मिन् कल्पे आसीत् कुतः आत्मा आत्म-पर्यंतत्वान्-नाम-रूप-विषय-मतीनाम् इत्य् अभिप्रायः एक एव भगवान् कदाचिद् विभक्त-नाम-रूप-चिद्-अचिच्-छरीरकः कार्यावस्थः नाना स एव कदाचिन्-नामरूप-विभागानर्ह-सूक्ष्म-चिद्-अचिच्-छरीरकः परमात्मा कारणावस्थ इत्य् अर्थः । यद्वा ऽनानामत्य्-उपलक्षित इति छेदः, आत्मेच्छानुगतौ संहार-विषयात्मनि संकल्पोन्मेषे सति अनानाम्-अत्य्-उपलक्षितः देवादि-नाम-रूप-विषय-बुद्ध्य्-उपलक्षितः । कुत आत्मा देवादि-नाम-रूप-भाक् क्व तदभावश् चात्मन एवेत्य् अर्थः । न चैवं विकारित्वप्रसंगः सद्वारकत्वान्-नाम-रूप-संस्पर्शस्येत्य् अभिप्रयाद् अत्रेदं-शब्देन स्थूल-चिद्-अचिच्-छरीरकः परमात्मैवोच्यते । तस्यैव स्थूलावस्था-प्रहाणेन सूक्ष्म-चिद्-अचिच्-छरीरकतया ऽवस्थितस्य कारणत्वम् उच्यते । न च चिद्-अचिच्-छरीरकत्वस्यात्राप्रतीतेर् एक एवेत्य् अनेन सजातीय-विजातीय-स्व-गत-भेद-शून्यं ब्रह्मैव जगत्-कारणम् इत्य् उच्यते इति भ्रमितव्यं, अग्र इति कालस्य निर्द्देशाद् विजातीय-भेदस्यात्मनाम् आत्मेति व्यतिरेक-निर्द्देशेन सजातीय-भेदस्य भगवान् इत्य् अनेन कारणत्व् उपयिक-सार्वज्ञ्य-सर्वशक्तित्व-सत्य-संकल्पत्वादि-स्वगत-भेदस्य चात्रैव प्रतिपन्नत्वात् तर्ह्य्-एक इत्य्-अनेन किम् उच्यते इति चेद् उच्यते महदादि-सृष्टि-क्रमेण वक्ष्यमाण-नानात्व-प्रतीति-संबंधि ह्य् एकत्वम् एक इत्य् अनेनोच्यत इति नाम-रूप-विभागाभावाभिप्राय-निबन्धनो ह्य् एक इति व्यपदेशः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट्।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक्॥

मूलम्

स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट्।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक्॥ २४ ॥

अनुवाद (हिन्दी)

वे ही द्रष्टा होकर देखने लगे, परन्तु उन्हें दृश्य दिखायी नहीं पड़ा; क्योंकि उस समय वे ही अद्वितीय रूपसे प्रकाशित हो रहे थे। ऐसी अवस्थामें वे अपनेको असत् के समान समझने लगे। वस्तुतः वे असत् नहीं थे, क्योंकि उनकी शक्तियाँ ही सोयी थीं। उनके ज्ञानका लोप नहीं हुआ था॥ २४॥

वीरराघवः

तद् धेदं तर्ह्यव्याकृतम् आसीत् तन्-नाम-रूपाभ्यां व्याक्रियते इति प्रकृति-पुरुष-काल-शरीरकस्य सार्वज्ञ्यादि-कल्याण-गुणाकरस्यैव कारणत्वं प्रपंचयति द्वाभ्यां स इति । स वा एषः सो ऽयं भगवान् तदा प्रलय-दशायां द्रष्टा सर्वज्ञः तत्र हेतुः असुप्त-दृग्-असंकुचित-ज्ञानः तत् कुतः एक-राट् एक-रूप-प्रकाशः न तु जीववत् कर्मायत्त-कादाचित्क-संकोच-विकास-भाग्-ज्ञान-संपन्नः सुप्त-शक्तिः सूक्ष्मावस्थ-चिद्-अचिदाख्य-स्व-शक्तिः तत् कुतः । तन्व्-आदि-पर्यायः शक्ति-शब्द इत्य् उक्तं दृश्यं कार्यं नापश्यत् किंतु असंतं व्यवहारानर्हं नामरूप-रहितम् इति वा ऽऽत्मानं मेने अमनुत । इव-शब्देन तस्य सूक्ष्म-दर्शित्वात् स्व-शरीर-भूत-सूक्ष्मावस्थ-चिद्-अचिद्-विषय-ज्ञान-संपत्तिः सूच्यते । अनेन सार्वज्ञ्यादि-गुण-संपत्तिर् नामरूप-विभागाभावश् चोक्तः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

सा वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका।
माया नाम महाभाग ययेदं निर्ममे विभुः॥

मूलम्

सा वा एतस्य संद्रष्टुः शक्तिः सदसदात्मिका।
माया नाम महाभाग ययेदं निर्ममे विभुः॥ २५ ॥

अनुवाद (हिन्दी)

यह द्रष्टा और दृश्यका अनुसन्धान करनेवाली शक्ति ही—कार्यकारणरूपा माया है। महाभाग विदुरजी! इस भावाभावरूप अनिर्वचनीय मायाके द्वारा ही भगवान‍्ने इस विश्वका निर्माण किया है॥ २५॥

वीरराघवः

अथ चिद्-अचिच्-छरीरकत्वम् आह सा वा एतस्येति । सद्-द्रष्टुः सतो द्रष्टुः सत्ता-योगि-सकल-पदार्थं द्रष्टुः शक्तिर् अपृथक्-सिद्ध-विशेषण-भूता माया नाम प्रकृतिः सदसदात्मिका चेतनाचेतनात्मिका भूमिर् आपो ऽनलो वायुः । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धीति । चेतनाचेतनयोर् उभयोर् अपि परस्पर-विलक्षण-प्रकृतित्वाभिधानात् यया सदसदात्मिकया प्रकृत्या इदं कार्या ऽवस्थां चेतनाचेतनात्मकं जगत् स्वयं विभुः जगद्-गत-दोषासंपृष्टः निर्ममे सृष्टवान् सैषा मायापि विभोः शरीरत्वेन सूक्ष्मावस्थया आसीद् इत्य् अर्थः । भगवान् एक एवेदम् अग्रे आसीद् इत्य् अनेन सूक्ष्म-चिद्-अचिद्-विशिष्टस्योपादानत्वं ययेदं निर्ममे विभुर् इत्य् अनेन केवल-निष्कृष्ट-स्व-रूपस्य निमित्तत्वं चाभिहितम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्॥

मूलम्

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्॥ २६ ॥

अनुवाद (हिन्दी)

कालशक्तिसे जब यह त्रिगुणमयी माया क्षोभको प्राप्त हुई, तब उन इन्द्रियातीत चिन्मय परमात्माने अपने अंश पुरुषरूपसे उसमें चिदाभासरूप बीज स्थापित किया॥ २६॥

वीरराघवः

अथ महदादि-क्रमेण सृष्टिं वक्तुं स्वशरीरभूत-जीवानुप्रवेशेनाहित-सृष्टि-सामर्थ्याया एव प्रकृतेर् महदादि-रूपेण परिणामः, न तु केवलाया इत्य् आह कालवृत्त्याम् इति । कालानुगुण-वृत्तिमत्याम् अत एव गुणमय्यां साम्यानापन्न-सत्त्वादि-गुण-प्रचुरायां मायायाम् आत्मभूतेन स्व-शरीर-भूतेन पुरुषेण जीवेन वीर्यं सृष्टिसामर्थ्यं स्वयं वीर्यवान् अविकृत एव एवा ऽऽधत्त संपादितवान्, मायाभिमानी स्वात्मक-जीवानुप्रवेशे न मायां सृष्ट्युन्मुखीम् अकरोत् इत्य् अर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

ततोऽभवन् महत्तत्त्वमव्यक्तात्कालचोदितात्।
विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः॥

मूलम्

ततोऽभवन् महत्तत्त्वमव्यक्तात्कालचोदितात्।
विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जस्तमोनुदः॥ २७ ॥

अनुवाद (हिन्दी)

तब कालकी प्रेरणासे उस अव्यक्त मायासे महत्तत्त्व प्रकट हुआ। वह मिथ्या अज्ञानका नाशक होनेके कारण विज्ञानस्वरूप और अपनेमें सूक्ष्मरूपसे स्थित प्रपंचकी अभिव्यक्ति करनेवाला था॥ २७॥

वीरराघवः

महतः सृष्टिम् आह तत इति । तत आहितवीर्यात् कालचोदितात् कालप्रेरिताद् अव्यक्तात् स्वात्मकाद् अव्यक्तात् स्वयम् एव विज्ञानात्मा विज्ञानं यज्ञं तनुते इत्य् उक्त-रीत्या जीवान्तरात्मा आत्मदेहस्थं स्व-शरीरभूत-प्रकृति-गतं विश्वं कार्यजातं व्यञ्जन् प्रकाशयन् प्रकाशयितुम् इत्य् अर्थः । पर्यवसानं बोध्यं तमो-नुदः तमः-शब्दवाच्य-सूक्ष्मावस्था-प्रकृति-प्रेरकः भगवान् महत्तत्त्वम् अभवत् इत्य् अर्थः । प्रकृति-पुरुष-शरीरकः भगवान् एव महच्-छरीरको ऽभूत् इत्य् अर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

सोऽप्यंशगुणकालात्मा भगवद‍्दृष्टिगोचरः।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया॥

मूलम्

सोऽप्यंशगुणकालात्मा भगवद‍्दृष्टिगोचरः।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया॥ २८ ॥

अनुवाद (हिन्दी)

फिर चिदाभास, गुण और कालके अधीन उस महत्तत्त्वने भगवान‍्की दृष्टि पड़नेपर इस विश्वकी रचनाके लिये अपना रूपान्तर किया॥ २८॥

वीरराघवः

महतो ऽहंकारस्य सृष्टिम् आह द्वाभ्याम् सो ऽपीति । स महान् अपि अंश-गुण-कालात्मा, अंशो जीवः, अंशो नानाव्यपदेशात् । ममैवांशो जीव-लोके जीव-भूतः सनातनः इति प्रयोगात् गुणाः सत्त्वादयः कालश्-च तैर् उपलक्षितः आत्मा स्वरूपं यस्य सः कालवश्यो गुणमयो जीवगर्भश् चेत्य् अर्थः । भगवद्-दृष्टि-गोचरः भगवतो दृष्टिः सङ्कल्प-रूपं ज्ञानं तस्य गोचरः विषयः आत्मा परमात्मात्मकः सो ऽप्य् आत्मेति सामानाधिकरण्यं शरीरात्म-भाव-निबन्धनम् एवं-भूतो महानस्य विश्वस्य सिसृक्षया अहंकारादीनि स्रष्टुम् इच्छया आत्मानं स्वात्मानं व्यकरोत् विकृतम् अकरोत् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः॥

मूलम्

महत्तत्त्वाद्विकुर्वाणादहंतत्त्वं व्यजायत।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोम7यः॥

अनुवाद (हिन्दी)

महत्तत्त्वके विकृत होनेपर अहंकारकी उत्पत्ति हुई—जो कार्य (अधिभूत), कारण (अध्यात्म) और कर्ता (अधिदैव) रूप होनेके कारण भूत, इन्द्रिय और मनका कारण है॥ २९॥

वीरराघवः

महत्तत्त्वाद् इति विकुर्वाणाद् विक्रियमाणान् महत्तत्त्वाद् अहं-तत्त्वम् अहंकारः अजायत उत्पन्नो ऽभूत् । कथंभूतः कार्यकारण-कर्त्रात्मा कार्यं शरीरं कारणम् इन्द्रियं तयोः कर्त्रात्मा कर्तृ-रूपः कारणभूत इत्य् अर्थः । तद् विवृणोति भूतेन्द्रिय-मनो-भवः भूतेन्द्रिय-मनसा भवः । भवत्य् अस्माद् इति भवः भूतेन्द्रिय-मनोमय इति पाठे भूतेन्द्रियादि-रूपेण परिणाम-स्वभाव-प्रचुरः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा।
अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत्।
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः॥

मूलम्

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा।
अहंतत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत्।
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः॥ ३० ॥

अनुवाद (हिन्दी)

वह अहंकार वैकारिक (सात्त्विक), तैजस (राजस) और तामस-भेदसे तीन प्रकारका है; अतः अहंतत्त्वमें विकार होनेपर वैकारिक अहंकारसे मन और जिनसे विषयोंका ज्ञान होता है वे इन्द्रियोंके अधिष्ठाता देवता हुए॥ ३०॥

वीरराघवः

अहङ्कारं विभजते वैकारिक इति । वैकारिकः सात्त्विकाहंकारः तैजसो राजसाहंकारः तामसस् तामसाहंकारः तस्यैव भूतादिर् इति नामान्तरं वैकारिकाहंकार-कार्यम् आह । अहंतत्त्वाद् इति । विकुर्वाणाद् विक्रियमाणाद् वैकारिकात् सात्त्विकाद् अहंतत्त्वाद् अहंकारान् मनोभूद् उदभूत् । ये देवाः दिगादि-देवाधिष्ठे यानीन्द्रियाणीत्य् अर्थः । न तु दिगादि-देवास् तेषां चतुर्मुख-स्रक्ष्यमाणतया अण्डोत्पत्तेः पूर्वम् उत्पत्त्य-असंभवात् अतः देव-शब्देन तद्-अधिष्ठेयानीन्द्रियाण्य् एव विवक्षितानि ये देवास् तेपि वैकारिकाः सात्त्विकाहंकार-कार्यभूता इत्य् अर्थः । कथं-भूता देवाः यतो येभ्यः अर्थाभिव्यञ्जनं शब्द-स्पर्श-रूप-रसादीनाम् अर्थानाम् अभिव्यञ्जनम् उपलम्भो भवति एवं-भूता देवा वैकारिकाद् अभवन्न् इत्य् अर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च।
तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः॥

मूलम्

तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च।
तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः॥ ३१ ॥

अनुवाद (हिन्दी)

तैजस अहंकारसे ज्ञानेन्द्रियाँ और कर्मेन्द्रियाँ हुईं तथा तामस अहंकारसे सूक्ष्म भूतोंका कारण शब्द-तन्मात्र हुआ और उससे दृष्टान्तरूपसे आत्माका बोध करानेवाला आकाश उत्पन्न हुआ॥ ३१॥

वीरराघवः

ज्ञान-कर्म-मयानि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च इन्द्रियाणि तैजसान्य् एव तैजसाहंकार-सहकृत-सात्विकाहंकार-कार्याण्य् एवेत्य् अर्थः । तैजसस्य वैकारिक-तामसयोर् अनुग्राहकत्वेन पृथक्-कार्याभावाद् अनुग्राहकतैव हि तैजसस्य कार्यता ॥ अथ तामसाहंकार-कार्यम् आह तामस इति । तामसः भूत-सूक्ष्मादिः भूतानाम् आकाशादीनां तत्-सूक्ष्माणां शब्दादीनां चादिः कारणम् एतद् एवोपपादयति यतः भूतादेः सकाशाद् आत्मनो ब्रह्मणो यल् लिङ्गं प्रमापकं शब्दः स ततो लिङ्गात् खम् आकाशं चाभूद् इत्य् अर्थः । ब्रह्मणः शब्दैक-प्रमाणकत्वं शास्त्र-योन्य्-अधिकरण-सिद्धम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

कालमायांशयोगेन भगवद्वीक्षितं नभः।
नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम्॥

मूलम्

कालमायांशयोगेन भगवद्वीक्षितं नभः।
नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम्॥ ३२ ॥

अनुवाद (हिन्दी)

भगवान‍्की दृष्टि जब आकाशपर पड़ी, तब उससे फिर काल, माया और चिदाभासके योगसे स्पर्शतन्मात्र हुआ और उसके विकृत होनेपर उससे वायुकी उत्पत्ति हुई॥ ३२॥

वीरराघवः

नभः-कार्यम् आह कालेत्य्-आदि-माया-सत्वादि-गुणाः सो ऽप्य् अंश-गुण-कालात्मेति पूर्वम् उक्तत्वात् ॥ अंशो जीवः कालादि-योगेन हेत्व् अर्थे तृतीया कालादि-योगेन हेतुना भगवद्-वीक्षितं भगवत्-सङ्कल्प-रूप-ज्ञान-विषयं नभो ऽभूत् एवं भूतान् नभसो ऽनुसृतम् उद्भूतं स्पर्शं स्पर्श-तन्-मात्रं विकुर्वद् विक्रियमाणं सद् अनिलं निर्ममे ऽसृजत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः।
ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम्॥

मूलम्

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः।
ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम्॥ ३३ ॥

अनुवाद (हिन्दी)

अत्यन्त बलवान् वायुने आकाशके सहित विकृत होकर रूपतन्मात्रकी रचना की और उससे संसारका प्रकाशक तेज उत्पन्न हुआ॥ ३३॥

वीरराघवः

स्पर्शाद् उत्पन्नो ऽनिलो वायुर् अपि विकुर्वाणः नभसा नभोगुणेन शब्देन सहितः स्वयं चोरु-बलान्वितः अधिक-बल-युक्तः बलम् अपि प्राणन् ओजः सहसाम् अप्य् उपलक्षणं रूप-तन्मात्रं च लोकस्य लोचनं प्रकाशकं ज्योतिः तेजः ससर्ज ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम्।
आधत्ताम्भो रसमयं कालमायांशयोगतः॥

मूलम्

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम्।
आधत्ताम्भो रसमयं कालमायांशयोगतः॥ ३४ ॥

अनुवाद (हिन्दी)

फिर परमात्माकी दृष्टि पड़नेपर वायुयुक्त तेजने काल, माया और चिदंशके योगसे विकृत होकर रसतन्मात्रके कार्य जलको उत्पन्न किया॥ ३४॥

वीरराघवः

तच् च ज्योतिर् अनिलेनान्वितं स्पर्श-गुणेनान्वितम् अनिलेनेति नभसो ऽप्य् उपलक्षणम् । एवम् अग्रे ऽपि शब्द-स्पर्शाभ्यां स्व-कारण-भूत-गुणाभ्यां स्व-गुणेन रूपेण चान्वितं ज्योतिर् भगवत्-सङ्कल्प-विषयं सत् काल-मायांश-योगतो हेतो-रसमयम् रस-गुणकम् अंभः जलम् आधत्त असृजत् भगवद्-वीक्षण-काल-मायांश-योगाः सर्वत्रान्वितव्याः रसमयम् अम्भः ससर्जेत्य् अनेन प्रथमं रस-तन्मात्रं ततो ऽम्भ इति क्रमो वेदितव्यः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद‍्ब्रह्मवीक्षितम्।
महीं गन्धगुणामाधात्कालमायांशयोगतः॥

मूलम्

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद‍् ब्रह्मवीक्षितम्।
महीं गन्धगुणामाधात्कालमायांशयोगतः॥ ३५ ॥

अनुवाद (हिन्दी)

तदनन्तर तेजसे युक्त जलने ब्रह्मका दृष्टिपात होनेपर काल, माया और चिदंशके योगसे गन्धगुणमयी पृथ्वीको उत्पन्न किया॥ ३५॥

वीरराघवः

तथाम्भो ज्योतिषा ज्योतिः-स्पर्श-शब्दैर् अनुसंसृष्टम् अनुसंहितं ब्रह्म-सङ्कल्प-विषयं कालादि-योगतो हेतोः गन्ध-गुणां महीम्धात्-प्रथमं गन्धं ततो महीं चाधाद् असृजत् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

भूतानां नभआदीनां यद्यद‍्भव्यावरावरम्।
तेषां परानुसंसर्गाद्यथासंख्यं गुणान् विदुः॥

मूलम्

भूतानां नभआदीनां यद्यद‍्भ8व्यावरावरम्।
तेषां परानुसंसर्गाद्यथासंख्यं गुणान् विदुः॥ ३६ ॥

अनुवाद (हिन्दी)

विदुरजी! इन आकाशादि भूतोंमेंसे जो-जो भूत पीछे-पीछे उत्पन्न हुए हैं, उनमें क्रमशः अपने पूर्व-पूर्व भूतोंके गुण भी अनुगत समझने चाहिये॥ ३६॥

वीरराघवः

भूतानाम् इति हे भव्य ! विदुर ! नभादीनां भूतानां मध्ये परात्-परं यद्-यद्-उत्तर-भूतं तत्-तत्-परानुसंसर्गात् कारण-द्रव्य-गुणानुवृत्त्या यथा-संख्यं गुणान् विदुः । प्रथमस्यैको गुणः, द्वितीयस्य द्वौ, तृतीयस्य त्रयः, चतुर्थस्य चत्वारः, पञ्चमस्य पञ्च गुणा इत्य् एवं विदुः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

एते देवाःकला विष्णोः कालमायांशलिङ्गिनः।
नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम्॥

मूलम्

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः।
नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम्॥ ३७ ॥

अनुवाद (हिन्दी)

ये महत्तत्त्वादिके अभिमानी विकार, विक्षेप और चेतनांशविशिष्ट देवगण श्रीभगवान‍्के ही अंश हैं किन्तु पृथक्-पृथक् रहनेके कारण जब वे विश्व रचनारूप अपने कार्यमें सफल नहीं हुए , तब हाथ जोड़कर भगवान‍्से कहने लगे॥ ३७॥

वीरराघवः

अथैतानि महत्-तत्त्वादि-पृथिव्य्-अन्तानि तत्त्वानि परस्पर-पञ्चीकरण-रूपं सम्मेलनाभावात् ब्रह्माण्ड-रचनायाम् असमर्थानीश्वरं तुष्टुवुर् इत्य् आह एत इति । ननु भगवद्-दृष्टि-गोचरः, भगवद्-वीक्षितं नमः, पर-वीक्षितं, ब्रह्म-वीक्षितम् इत्य् एषां तत्त्वानां भगवत्-सङ्कल्प-रूप-ज्ञान-विषयकत्व्-उक्त्या सृष्टि-सामर्थ्यावगमात् पुनः स्तुति-प्रीत-परमेश्वरानुप्रवेश-कृत-सामर्थ्योक्तिर् विरुध्यते, न चान्य एव वक्ष्यमाणो ऽनुप्रवेश इति वक्तुं शक्यं विभोर् ईश्वरस्य ज्ञानेनैवानुप्रवेशस्य वाच्यत्वात् तावतैव तेषां शरीरत्वोपपत्तेः, आधेयत्व-विधेयत्व-शेषत्वानां शरीरत्व-निर्वाहकत्ववत् यस्य चेतनस्य यद् द्रव्यम् आधेयं विधेयं शेषं च तत् तस्य शरीरम् इति हि शरीर-लक्षणम् । मैवं, पूर्वं महदादीनां स्व-स्व-कार्योत्पादन-सामर्थ्यावहेश्वर-प्रवेशस्योक्तत्वे ऽप्य् एतैः सर्वैः संहत्याण्डोत्पादन-सामर्थ्यापादकानुप्रवेशस्यानुक्तत्वेनैवं विधानुप्रवेशाय स्तुतेस् तत्-प्रीत-परमात्मनो ऽनुप्रवेशस्य ततो ऽडसृष्टेश् चोपपत्तेः एते महदादयो देवा देवस्य भगवतः शरीरत्वाद् देवा इत्य् उक्तिः यथा “हन्ताहम् इमास् तिस्रो देवताः” इत्यादौ काल-मायांश-लिङ्गिनः काल-मायांश-रूपाणि लिङ्गान्य् अस्य सन्तीति काल-मायांश-लिङ्गी, तस्य काल-माया-जीव-शरीरस्येत्य् अर्थः । विष्णोर् भगवतः कलाः शरीर-भूता नानात्वात्, पृथग्-भूतत्वात्, परस्पर-सम्बन्धाभावात्, स्व-क्रियायां ब्रह्माण्ड-रचनायाम् अनीशा असमर्थाः सन्तः विभुं भगवन्तं प्राञ्जलयो बद्धाञ्जलयः प्रोचुः, तुष्टुवुः ॥ ३७ ॥

श्लोक-३८

मूलम् (वचनम्)

देवा ऊचुः

विश्वास-प्रस्तुतिः

नमाम ते देव पदारविन्दं
प्रपन्नतापोपशमातपत्रम्।
यन्मूलकेता यतयोऽञ्जसोरु
संसारदुःखं बहिरुत्क्षिपन्ति॥

मूलम्

नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम्।
यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति॥ ३८ ॥

अनुवाद (हिन्दी)

देवताओंने कहा—देव! हम आपके चरणकमलोंकी वन्दना करते हैं। ये अपनी शरणमें आये हुए जीवोंका ताप दूर करनेके लिये छत्रके समान हैं तथा इनका आश्रय लेनेसे यतिजन अनन्त संसार-दुःखको सुगमतासे ही दूर फेंक देते हैं॥ ३८॥

वीरराघवः

नन्व् अचेतनानां महदादीनां स्तोतृत्वानुपपत्तिः, न चाधिष्ठातृणाम् उपपन्नम् इति शङ्क्यम्, अण्ड-सृष्ट्य्-अनन्तरं चतुर्मुख-स्रक्ष्यमाणादित्येंद्रादीनाम्-अण्डसृष्टेः प्राक् तदनुपपत्तेः । न च तत्त्व-शरीरक-परमात्मनः स्तोतृत्वम् उपपन्नम् इति वाच्यं, स्तुत्यत्व-स्तोतृत्वयोर् एकस्मिन्न् असङ्गतत्वात् ब्रह्मणः सर्वोपादानत्वेन सर्व-विकाराश्रयत्वे ऽपि स-द्वारक-विकाराश्रयत्वेन तस्य जीव-द्वारैव स्तोतृत्वात् उच्यते परमाकाश-वर्तिनस् तत्त्वाभिमानि-देवास् तत्त्वान्य् अधिष्ठाय तुष्टुवुः वृतं चतुः-षोडश-पञ्च-शक्तिभिर् इति परमाकाशे तत्त्वाभिमानि-देवता-स्थित्य्-अवगमात् । यद् वा पुरुषेणात्मभूतेन वीर्यम् आधत्त वीर्यवान् इति जीव-द्वारैव परमात्मनो महदादि-पृथिव्यां तत्-तत्त्वेष्व् अनुप्रवेश-कथनात् परमात्मात्मकादृष्ट-विशेष-सचिव-जीवानुप्रवेश-सम्पादित-सृष्टि-सामर्थ्यानां तत्त्वानां स्व-स्व-कार्योत्पादकत्ववत् स्तोतृत्वोपपत्तेर् इति प्रथमं कारणत्व-व्याप्तोपास्यत्व-मोक्ष-प्रदत्व-गुण-विशिष्टं प्रणमन्ति, नमाम इति । हे देव भगवन् ! तव पदारविन्दं नमाम, नमस्कुर्मः । कथम्भूतं पदारविन्दम्? प्रपन्न-तापोपशमातपत्रम्, प्रपन्नाः शरणागतास् तेषां ये तापा आध्यात्मिकाधिदैविकाधिभौतिकास् तेषाम् उपशमे निर्हरणे आतपत्त्रं छत्रम् इव वर्तमानम् अनेन ताप-त्रयातुरोपास्यत्वम् उक्तम् । यन्-मूल-केताः यत्-पदारविन्द-मूलम् एव केत आश्रयो येषां ते यतयः, मनो-नियमने यतमानाः, अञ्जसा सुखेन संसार-दुःखम् अनेन मोक्ष-प्रदत्वम् उक्तं, बहिर्-दूरत एव उत्क्षिपन्ति । त्यजन्ति सांसारिक-सुख-दुःख-शब्देन विवक्षितं, मुमुक्षोर् इष्ट-प्राप्ति-विरोधित्वात् सुखस्यापि दुःख-शब्द-वाच्यत्वात् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

धातर्यदस्मिन् भव ईश जीवा-
स्तापत्रयेणोपहता न शर्म।
आत्मल्ँलभन्ते भगवंस्तवाङ्घ्रि-
च्छायां सविद्यामत आश्रयेम॥

मूलम्

धातर्यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म।
आत्मॅंल्लभन्ते भगवंस्तवाङ्घ्रिच्छायां सविद्यामत आश्रयेम॥ ३९ ॥

अनुवाद (हिन्दी)

जगत्कर्ता जगदीश्वर! इस संसारमें तापत्रयसे व्याकुल रहनेके कारण जीवोंको जरा भी शान्ति नहीं मिलती। इसलिये भगवन्! हम आपके चरणोंकी ज्ञानमयी छायाका आश्रय लेते हैं॥ ३९॥

वीरराघवः

एतद्-व्यतिरेक-मुखेनापि कथयन्तो नमस्कुर्वन्ति, ऋत इति । हे ईश ! अस्मिन् भवे संसारे यद् ऋते यत् भगवत्-पदाम्बुजं विना, भगवत्-पदारविन्दोपासनं विना, ताप-त्रयेणाभिहताः जीवा आत्मन्न् आत्मनि सम्बोधनं वा शर्म सुखं न लभन्ते । अतो ऽन्वय-व्यतिरेकाभ्यां भगवत्-पदाम्बुजोपासनस्यैव ताप-त्रय-निवृत्ति-पूर्वक-मुक्ति-साधनत्वाद् धेतोः, हे भगवन् ! तवाङ्घ्रि-छायां विद्याम् आश्रयेम, विद्यां मुक्त्य्-उपाय-भूतोपासनां तत्-सहिताम् अङ्घ्रि-छायां मुक्तिम् आश्रयेम, उपासना-निर्वृत्या मुक्तिं प्राप्नुवामेत्य् अर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

मार्गन्ति यत्ते मुखपद्मनीडै-
श्छन्दःसुपर्णैर्ऋषयो विविक्ते।
यस्याघमर्षोदसरिद्वरायाः
पदं पदं तीर्थपदः प्रपन्नाः॥

मूलम्

मार्गन्ति यत्ते मुखपद्मनीडैश्छन्दसुपर्णैर्ऋषयो विविक्ते।
यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः9 प्रपन्नाः॥ ४० ॥

अनुवाद (हिन्दी)

मुनिजन एकान्त स्थानमें रहकर आपके मुखकमलका आश्रय लेनेवाले वेदमन्त्ररूप पक्षियोंके द्वारा जिनका अनुसन्धान करते रहते हैं तथा जो सम्पूर्ण पापनाशिनी नदियोंमें श्रेष्ठ श्रीगंगाजीके उद‍्गमस्थान हैं, आपके उन परम पावन पादपद्मोंका हम आश्रय लेते हैं॥ ४०॥

वीरराघवः

ननु कथं मत्-पदाम्बुजोपासन-मात्रेणात्यन्तिक-सांसारिक-सुख-दुःख-निवृत्तिर् उच्यते, यतस् तत्-सुख-दुःखोत्पादक-पुण्य-पाप-रूप-कर्मणाम् अविनष्टत्वाद् इत्य् आशङ्कायां तद्-उपासनस्यैवात्यन्तिक-कर्म-निरासकत्वम् अपीति सूचयन्तस् तद्-भगवत्-पदाम्बुजस्यैव मुमुक्षूपास्यत्वाद् वयम् अपि तम् एव शरणं गता इत्य् आहुः मार्गन्तीति । तीर्थ-पदस् तव पदाम्बुजं वयं प्रपन्नाः शरणं गता इत्य् अन्वयः । तीर्थ-पदः पवित्र-पादस्य, स्वाश्रित-दुरित-निवर्तक-पाद-कमलस्येत्य् अर्थः । कथम्भूतं त्वत्-पदाम्बुजं यत् अघ-मर्षोद-सरिद्-वरायाः, अघ-मर्षाणि पाप-क्षपणकानि उदानि उदकानि यासु तासु सरित्सु मध्ये वरायाः श्रेष्ठाया गङ्गायाः परं पदम् उत्कृष्टम् उत्पत्ति-स्थानम् एतेनासेवमान-समस्त-जन-दुरित-निवर्तक-सरिद्-वराया एव दुरित-निवर्तकत्वात् तद्-उत्पत्ति-स्थान-भगवत्-पदाम्बुजस्याश्रित-दुरित-निवर्तकत्वं कैमुत्य-नय-सिद्धम् यथा पुष्कर-पलाश आपो न श्लिष्यन्त एवम् एवं-विदि पाप-कर्म न श्लिष्यते इत्य् आदिका श्रुतिर् अत्रानुसन्धेया उपासकानाम् आत्यन्तिक-पुण्य-पाप-निवृत्ति-पूर्वक-निरतिशय-सुख-प्रापकत्वाद् एव त्वत्-पदाम्बुजम् ऋषयः उपासत इत्य् आहुः मार्गन्तीति । ते तव मुख-पद्म-नीडैर् मुख-कमल-निलयैर् मुख-कमलोत्पन्नैर् इति यावत् । तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेद इति श्रुतेः भगवन्-मुख-कमलोत्पत्ति-स्थानैः छन्दः-सुपर्णैर् वेद-पक्षिभिः नीडं शकुन्ता इव जातपक्षा इति न्यायेन साम्यं बोध्यं यथा नीडे जातपक्षाः पक्षिणो नीडाद् उड्डीना इतस्-ततः परिभ्रम्य पुनस् तत्रैव प्रविशन्ति तथा वेदा अपि त्वन्-मुखाद् उद्गतास् त्वय्य् एव पर्यवस्यन्तीत्य् अभिप्रायः । एवंविधैः छन्दः सुपर्णैः विविक्ते निःसङ्गे मनसि ऋषयः मार्गन्ति परिशीलयन्ति वेदोक्त-कर्म-ज्ञानोपासना-प्रवृत्ति-योगैर् यत् परिशीलयन्ति तत्-पदारविन्दं वयं प्रपन्ना इत्य् अन्वयः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

यच्छ्रद्धया श्रुतवत्या च भक्त्या
संमृज्यमाने हृदयेऽवधाय।
ज्ञानेन वैराग्यबलेन धीरा
व्रजेम तत्तेऽङ्घ्रिसरोजपीठम्॥

मूलम्

यच्छ्रद्धया श्रुतवत्या च भक्त्या संमृज्यमाने हृदयेऽवधाय।
ज्ञानेन वैराग्यबलेन धीरा 10व्रजेम तत्तेऽङ्घ्रिसरोजपीठम्॥ ४१ ॥

अनुवाद (हिन्दी)

हम आपके चरणकमलोंकी उस चौकीका आश्रय ग्रहण करते हैं, जिसे भक्तजन श्रद्धा और श्रवण-कीर्तनादिरूप भक्तिसे परिमार्जित अन्तःकरणमें धारण करके वैराग्यपुष्ट ज्ञानके द्वारा परम धीर हो जाते हैं॥ ४१॥

वीरराघवः

ननु कथं मार्गति? विषय-प्रवण-चित्तैः कथं वा मनसो ऽसङ्गः सम्पादनीयः, येन विविक्ते मार्गन्तीत्य् उच्येत? इत्य् आशङ्क्य त्वत्-प्रसादानुगृहीत-त्वद्-भक्त्यैव सर्वं सम्पत्स्यते इत्य् आहुः, यद् इति । श्रद्धया, श्रद्धा-युक्तया श्रद्धा-नामास्तिक्यं स्व-चिकीर्षितादाव् इति शेषः । श्रुतवत्या, श्रुति-विहित-पञ्च-महायज्ञादि-रूपा-ऽसङ्ग-कर्म-योग-युक्तया भक्त्या उपासनया, वैराग्यं शब्दादिष्व् अनासक्तिः, तद् एव बलं यस्य तेन ज्ञानेन प्रकृति-विविक्तात्म-याथात्म्य-ज्ञानेन, ज्ञान-कर्म-योगानुगृहीत-भक्ति-योगेन संमृज्यमाने शोध्यमाने हृदये अवधार्य धारण-विषयं कृत्वा धीरा जितेन्द्रिया यद् अन्वेषयन्ति तत्-तवाङ्घ्रि-सरोज-पीठं शरणं व्रजेम अनेन मार्गण-प्रकार उक्तः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

विश्वस्य जन्मस्थितिसंयमार्थे
कृतावतारस्य पदाम्बुजं ते।
व्रजेम सर्वे शरणं यदीश
स्मृतं प्रयच्छत्यभयं स्वपुंसाम्॥

मूलम्

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते।
व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम्॥ ४२ ॥

अनुवाद (हिन्दी)

ईश! आप संसारकी उत्पत्ति, स्थिति और संहारके लिये ही अवतार लेते हैं; अतः हम सब आपके उन चरणकमलोंकी शरण लेते हैं, जो अपना स्मरण करनेवाले भक्तजनोंको अभय कर देते हैं॥ ४२॥

वीरराघवः

अथ भगवतः भक्तानुग्राहकत्वं स्मरन्त आहुः, विश्वस्येति । हे ईश ! यत् ते पदाम्बुजं स्व-पुंसां स्व-भक्तानाम् अभयं शब्दादिभिर् अप्रतिहतं स्मृतं भावे क्तः ध्रुवानुस्मरणं, यद् वा ऽभयं न विद्यते भयं संसारो यस्मात् तथाभूतं स्मृतं प्रयच्छति ददाति निर्वर्त्तयतीत्य् अर्थः । तत्-त्वत्-पदाम्बुजं वयं सर्वे शरणं व्रजेम । कथम्भूतस्य ते? विश्वस्य जगतः सर्ग-स्थिति-संयमार्थे सृष्टि-स्थिति-संहारार्थं कृतावतारस्य कृत-ब्रह्म-रूपानुप्रवेश-स्वावतारस्येदम् एव हि स्व-भक्तानुग्राहकत्वं यत्-ताप-त्रयाभिहति-निवर्त्तक-नित्य-निरतिशयानन्द-साधन-भूत-ध्रुवानुस्मृति-निवर्तकत्वं, स्व-भक्तानां स्मृतं प्रयच्छतीत्य् अनेनाभक्ताननुग्राहकत्वं सूचितम् ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

यत्सानुबन्धेऽसति देहगेहे
ममाहमित्यूढदुराग्रहाणाम्।
पुंसां सुदूरं वसतोऽपि पुर्यां
भजेम तत्ते भगवन् पदाब्जम्॥

मूलम्

यत्सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम्।
पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन् पदाब्जम्॥ ४३ ॥

अनुवाद (हिन्दी)

जिन पुरुषोंका देह, गेह तथा उनसे सम्बन्ध रखनेवाले अन्य तुच्छ पदार्थोंमें अहंता, ममताका दृढ़ दुराग्रह है, उनके शरीरमें (आपके अन्तर्यामीरूपसे) रहनेपर भी जो अत्यन्त दूर हैं; उन्हीं आपके चरणारविन्दोंको हम भजते हैं॥ ४३॥

वीरराघवः

तत् प्रतिपादयन्तः शरणं व्रजन्ति यद् इति । सानुबन्धे अनुबध्यन्ते इत्य् अनुबन्धाः पुत्र-दारादयः पात्र-वस्त्रादयः देहानुबन्धिनो गृहानुबन्धिनश् च, तैः सहिते ऽसति अचेतन-परिणाम-रूपे देह-गेहे समाहार-द्वन्द्वे एकत्वं ममेदम् । देवोहं मनुष्योहम् इत्य् ऊढः दुराग्रहः दुरभिमानो येषां पुंसां, पुर्यां शरीरे हृदय-गुहायाम् इत्य् अर्थः, वसतो ऽपि वात्सल्यातिरेकात् पुरीम् अधिष्ठितो ऽपि ते तव हे भगवन् ! यत्-पदाम्बुजं सुदूरम् अतिविप्रकृष्टं तत्-पदाम्बुजं शरणं प्रजेमेत्य् अर्थः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

तान् वै ह्यसद्‍वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनसः परेश।
अथो न पश्यन्त्युरुगाय नूनं
ये ते पदन्यासविलासलक्ष्म्याः॥

मूलम्

11तान् वै ह्यसद्‍वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश।
अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्याः॥ ४४ ॥

अनुवाद (हिन्दी)

परम यशस्वी परमेश्वर! इन्द्रियोंके विषयाभिमुख रहनेके कारण जिनका मन सर्वदा बाहर ही भटका करता है, वे पामरलोग आपके विलासपूर्ण पादविन्यासकी शोभाके विशेषज्ञ भक्तजनोंका दर्शन नहीं कर पाते; इसीसे वे आपके चरणोंसे दूर रहते हैं॥ ४४॥

वीरराघवः

अहं ममाभिमान-ग्रस्त-चित्तानां सत्-सङ्गतिर् एव दुर्लभा, कुतः सत्-सङ्गति-शुश्रूषा-चार्योपसत्ति-प्रमाड्या भगवत्-पदाम्बुजोपासन-निर्वृतिः स्याद् इत्य् आहुः । तान् इति । हे परेश ! परेषां ब्रह्मादीनाम् ईश ! नियन्तः ! असद्-वृत्तिभिर् अचेतन-परिणाम-रूप-शब्दादि-प्रवणैर् अक्षिभिर् इन्द्रियैः पराहृतं दूरम् अपकृष्टम् अन्तस्थं मनो येषां ते ये लोकास् तान् न पश्यन्ति वै प्रसिद्धं केन पश्यन्ति इत्य् अत आहुः हे उरुगाय ! बहु-गेय ! तव पद-न्यास-विलास-लक्ष्म्याः, पदयोर् यो न्यासः स्वात्म-समर्पणं, तस्य विलासो विलसितं येषां ते शमादयो गुणास् तेषां लक्ष्मीः सम्पद् येषां ते भवत्-पादाराविन्दात्म-समर्पण-विलसित-शमादि-गुण-सम्पत्-समृद्धा इत्य् अर्थः । लक्ष्म्येति तृतीयान्त-पाठे तयोपलक्षिता इत्य् अर्थः । अथो ऽत एव न पश्यन्ति न वीक्षन्ते, किम् उ तत्-सङ्गतिं न कुर्वन्तीति । पथ इति पाठे भ्रष्टानि इत्य् अध्याहर्त्तव्यं, पथो मार्गाद् भ्रष्टान् न पश्यन्तीत्य् अर्थः । लक्ष्मीन् इति द्वितीयान्त-पाठे पथ इति पाठे च अपद-न्यास-विलास-लक्ष्मीन् इति पद-च्छेदः । पद-न्यास-विलास-लक्ष्मी-रहिता न त एव पथो मार्गाद् भ्रष्टान् मार्गन्ति, यत् ते इति पूर्व-प्रस्तुता भगवद्-उपासकान् न पश्यन्तीत्य् अर्थः । त्वां वेत्य् अपि पाठः । अस्मिन् पाठे ममाहम् इत्य् ऊढ-दुराग्रहाणां पुंसां भगवत्-पदाम्बुजं सुदूरम् इत्य् उक्तं, तेषाम् अप्य् उपासनाधिकृतानां सन्निकृष्टं स्याद् इत्य् आशङ्कायाम् उपासनाधिकार एव तावद् दुर्लभ इत्य् आहुः । त्वाम् इति । अस्मिन् पाठे भ्रष्टा इति प्रथमान्ताध्याहारः । ये असद्-वृत्तिभिः पराहृतान्तर्-मनसो ऽत एव सन्-मार्ग-भ्रष्टा ये ते त्वां न पश्यन्ति, नोपासते तर्हि के उपासत इत्य् अत आहुः, ये इति । त्वत्-पद-न्यास-विलास-लक्ष्म्यस् तु पश्यन्तीत्य् अर्थः । लक्ष्म्या इति पञ्चम्यन्त-पाठे पथ इत्यस्य विशेषणं, पद-न्यास-विलास-लक्ष्मी-रूपात् पथो भ्रष्टा न पश्यन्ति । अस्मिन् पाठे अथो इति पाठाभ्युपगमे लक्ष्म्याः भ्रष्टाः अथो ऽत एव न पश्यन्तीत्य् अर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

पानेन ते देव कथासुधायाः
प्रवृद्धभक्त्या विशदाशया ये।
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम्॥

मूलम्

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये।
वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम्॥ ४५ ॥

अनुवाद (हिन्दी)

देव! आपके कथामृतका पान करनेसे उमड़ी हुई भक्तिके कारण जिनका अन्तःकरण निर्मल हो गया है, वे लोग—वैराग्य ही जिसका सार है—ऐसा आत्मज्ञान प्राप्त करके अनायास ही आपके वैकुण्ठधामको चले जाते हैं॥ ४५॥

वीरराघवः

एवम् अनुग्राहकत्वाननुग्राहकत्वे उक्ते, अथानुग्रह-विषयेष्व् अपि भगवत्-कथा-श्रोतॄणां समाधि-परेभ्यः सौकर्यम् आहुः द्वाभ्याम् — पानेनेति । हे देव ! ते कथा-सुधायाः अमृत-तुल्य-कथायाः पानेन श्रवणेन प्रवृद्ध-भक्त्या प्रवृद्ध-प्रमात्मक-ज्ञानेन विशदाशयाः निर्मलाऽन्तःकरणाः अनेनोपायोत्पत्ति-प्रतिबन्धक-पुण्य-पाप-निवृतिर् उक्ता भवति वैराग्य-सारं वैराग्येण सार-भूतं वैराग्यं नाम विमोकापर-पर्यायं कामेष्व्-अलाल-सत्व-रूपं कामानभिष्वङ्ग-त्वम्, इदं च विवेकादीनाम् अपि उपलक्षणम् विवेकादि-साधन-सप्तकानुगृहीते बोध्यं तैल-धारावद् अविच्छिन्न-स्मृति-संतान-रूपं प्रत्यक्षतापन्नं प्रेमात्मकं ज्ञानं प्रतिलभ्याञ्जसा सुखेनाकुण्ठ-धिष्ण्यं काल-सत्त्वादि गुणादिभिर् अप्रतिहतं वैकुण्ठाख्यं मुक्त-प्राप्यं स्थानं यथान्वीयुः प्राप्नुयुः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

तथापरे चात्मसमाधियोग-
बलेन जित्वा प्रकृतिं बलिष्ठाम्।
त्वामेव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान्न तु सेवया ते॥

मूलम्

तथापरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम्।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते॥ ४६ ॥

अनुवाद (हिन्दी)

दूसरे धीर पुरुष चित्तनिरोधरूप समाधिके बलसे आपकी बलवती मायाको जीतकर आपमें ही लीन तो हो जाते हैं, पर उन्हें श्रम बहुत होता है; किन्तु आपकी सेवाके मार्गमें कुछ भी कष्ट नहीं है॥ ४६॥

वीरराघवः

अथापरे चान्ये ऽप्य् आत्म-समाधि-योग-बलेनात्मनो ऽन्तःकरणस्य यः समाधिः स्थैर्यं स एव योगः उपायस् तस्य बलेन । यद्वा आत्मनः परमात्मनः यः समाधिः परमात्म-विषयकः समाधिः स एव योगस् तस्य बलेन, निष्पादनेन परिपक्व-भगवत्-समाधिना निष्ठां दुस्तरां प्रकृतिं भगवन्-मायां जित्वा तीर्त्वा धीराः जितेन्द्रियाः पुरुषं परम-पुरुषं त्वाम् एव विशन्ति प्राप्नुवन्ति तथापि तेषां श्रमः स्यात् अष्टाङ्ग-युक्त-भक्ति-योग-निष्ठानां श्रमः स्यात् एकैक-स्वाङ्गस्यैव दुःसम्पाद्यत्वात् न तु सेवया कथा-श्रवणादि-रूप-तत्-सेवयोपलक्षितानां तु न श्रम इत्य् अर्थः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तत्ते वयं लोकसिसृक्षयाऽऽद्य
त्वयानुसृष्टास्त्रिभिरात्मभिः स्म।
सर्वे वियुक्ताः स्वविहारतन्त्रं
न शक्नुमस्तत्प्रतिहर्तवे ते॥

मूलम्

तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म।
सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तवे12 ते॥

अनुवाद (हिन्दी)

आदिदेव! आपने सृष्टि-रचनाकी इच्छासे हमें त्रिगुणमय रचा है। इसलिये विभिन्न स्वभाववाले होनेके कारण हम आपसमें मिल नहीं पाते और इसीसे आपकी क्रीडाके साधनरूप ब्रह्माण्डकी रचना करके उसे आपको समर्पण करनेमें असमर्थ हो रहे हैं॥ ४७॥

वीरराघवः

तद् एव स्तुत्वा अथ स्वाभिप्रायम् आविष्कुर्वन्तीत्य्-आहुः तद्-इत्यादिभिश् चतुर्भिः । तद् अस्माकं शरणागतत्वाद् धेतोः, हे आद्य ! परम-कारण ! ते वयं त्वत्-सम्बन्धिनो वयं लोक-सिसृक्षया लोकान् स्रष्टुम् इच्छया त्वया त्रिभिः सत्त्वादिभिर् गुणैः स्वे आत्मन्य्-आधार-भूते सृष्टाः आत्मभिः स्मेति पाठे आत्मभिः शरीर-भूतैस् त्रिभिर् इत्य् अर्थः । अनुसृष्टाः महदाद्य्-अनुक्रमेण सृष्टाः सर्वे वियुक्ताः परस्परम् असंमिलितास् ते तुभ्यं स्व-विहार-तन्त्रं स्वाधिकार-निर्वहणं प्रतिर्हर्तवे प्रत्यपकर्तुं त्वल्-लीलोपकरण-ब्रह्माण्ड-रचना-रूप-प्रत्युपकारार्थं न शक्नुमः ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

यावद‍्बलिं तेऽज हराम काले
यथा वयं चान्नमदाम यत्र।
यथोभयेषां त इमे हि लोका
बलिं हरन्तोऽन्नमदन्त्यनूहाः॥

मूलम्

यावद‍्बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र।
यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः॥ ४८ ॥

अनुवाद (हिन्दी)

अतः जन्मरहित भगवन्! जिससे हम ब्रह्माण्ड रचकर आपको सब प्रकारके भोग समयपर समर्पण कर सकें और जहाँ स्थित होकर हम भी अपनी योग्यताके अनुसार अन्न ग्रहण कर सकें तथा ये सब जीव भी सब प्रकारकी विघ्न-बाधाओंसे दूर रहकर हम और आप दोनोंको भोग समर्पण करते हुए अपना-अपना अन्न भक्षण कर सकें, ऐसा कोई उपाय कीजिये॥ ४८॥

वीरराघवः

प्रतिहरणासामर्थ्यम् एव प्रपञ्चयन्ति यावद् इति । हे अज काले तत्-तद्-अवसरे ते तव बलिम् आराधनं यथा हराम समर्पयाम करवामेति यावत्, वयं च भगवत्-क्रीडोपकरण-भूता वयम् अप्य्-अन्न-शब्दादि-भोग्यं यथा अदामः अनुभवामः यथा च मे लोकाः स्रक्ष्यमाणाः देवादयो लोका उभयेषां ज्ञान-कर्मेन्द्रियाणां बलि-शब्दादीन् गन्तव्यादींश् च विषयान् हरन्तः उपस्थापयन्तः अनूहाः निःसंशयाः अन्नम् अदन्ति सुखम् अनुभवन्ति तथा कर्तुं न शक्नुम इत्य् अर्थः । यावच्-छब्दो ऽवधारणे न शक्नुम यावन् न शक्नुम एव इत्य् अर्थः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

त्वं नः सुराणामसि सान्वयानां
कूटस्थ आद्यः पुरुषः पुराणः।
त्वं देव शक्त्यां गुणकर्मयोनौ
रेतस्त्वजायां कविमादधेऽजः॥

मूलम्

त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः।
त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः॥ ४९ ॥

अनुवाद (हिन्दी)

आप निर्विकार पुराणपुरुष ही अन्य कार्यवर्गके सहित हम देवताओंके आदि कारण हैं। देव! पहले आप अजन्माहीने सत्त्वादि गुण और जन्मादि कर्मोंकी कारणरूपा मायाशक्तिमें चिदाभासरूप वीर्य स्थापित किया था॥ ४९॥

वीरराघवः

एवं ब्रह्माण्ड-सृष्टाव् आत्मना सामर्थ्यम् आवेद्याथ तत्-सामर्थ्यं प्रार्थयिष्यन्तस् त्वम् एव तत्-प्रदान-समर्थ इत्य्-आहुः । त्वं नः इति । सान्वयानां स-कार्याणां सुराणां नः अस्माकं त्वम् आद्यः कारण-भूतो ऽसि आद्यत्वेन विकाराश्रयत्वम् आशङ्क्याहुः — कूटस्थः निर्विकारः तर्ह्य्-आद्यत्वम् अयुक्तम् इत्य्-आशङ्क्योक्तम् — पुरुष इति पुरि शेते पुरुषः तत्-तद्-अन्तरात्मतया अवस्थितः न तु तद्-वस्तु-गत विकाराश्रय इत्य् अर्थः । तस्यापि कारणान्तरम् आशङ्क्योक्तम् — पुराण इति सर्वापेक्षया इत्य्-एव पुराणः न तु त्वद्-अपेक्षया किञ्चित् पुराणम् अस्ति इत्य्-अभिप्रायः । एवं-भूतो ऽजस् त्वं, हे देव! गुण-कर्म-योनौ, शब्दादि-गुण-ग्राहक-ज्ञानेन्द्रियाणां च कर्मेन्द्रियाणां च योनौ कारण-भूतायां शक्त्याम् स्वापृथक्-सिद्ध-विशेषण-भूतायाम् अजायां प्रकृतौ रेतः सृष्टि-सामर्थ्यं कविं समष्टि-पुरुषं ब्रह्माणं चादधे निहितवान् पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् इति पूर्वम् उक्तत्वाद् इति ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

ततो वयं सत्प्रमुखा यदर्थे
बभूविमात्मन् करवाम किं ते।
त्वं नः स्वचक्षुः परिदेहि शक्त्या
देव क्रियार्थे यदनुग्रहाणाम्॥

मूलम्

ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते।
त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यदनुग्रहा13णाम्॥ ५० ॥

अनुवाद (हिन्दी)

परमात्मदेव! महत्तत्त्वादिरूप हम देवगण जिस कार्यके लिये उत्पन्न हुए हैं, उसके सम्बन्धमें हम क्या करें? देव! हमपर आप ही अनुग्रह करनेवाले हैं। इसलिये ब्रह्माण्डरचनाके लिये आप हमें क्रियाशक्तिके सहित अपनी ज्ञानशक्ति भी प्रदान कीजिये॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चमोऽध्यायः॥ ५ ॥

वीरराघवः

तद् इति । तत् तस्मात् तवैव परम-कारणत्वात् सत्-प्रमुखाः समष्टि-पुरुष-प्रभृतयः ते वयं त्वच्-छरीर-भूता वयं यद्-अर्थे यद्-अर्थं बभूविम अभूम तत् किं ते कार्यं करवाम सृष्टिम् इति चेत् तत्राहुः तर्हि नो ऽस्मभ्यं हे देव! त्वं क्रियार्थे सृष्ट्य्-अर्थं स्व-चक्षुः स्वाधिकारानुरूपं विज्ञानं शक्त्या सामर्थ्येन सह यद्-अनुग्रहणम् इति यस्य अनुग्रहो येषां तेषाम् इति व्यधिकरण-बहुव्रीहिः । यस्य तव अनुग्रह-भाजाम् अस्माकं देहि इत्य् अर्थः । यद् वा ऽनुगृह्यते येन भवता इत्य्-अनुग्रहः; संसारिणां फल-निष्पत्ताव् अनुग्राहकतयानुगृहीताः तेषां नः क्रियार्थे स्व-स्व-प्रवृत्तेः यच्-चक्षुर्-ज्ञानं तद् देहीत्य् अर्थः । अत्रेदं तत्त्वम् — पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान्, रेतस् त्व् अजायां कविम् आदधे ऽज इति परमात्मत्मक-समष्टि-पुरुष-संसृष्टाया मायायाः महदाद्य्-आरम्भकत्वम् अवगम्यते तत्र महदादि-पृथिव्य्-अन्ताः अचेतनस्यैवावस्था-विशेषाः तत्राखण्डिताया एव मायायाः प्रदेश-भेदेन महद्-रूपत्वेन परिणामः एवं महतो ऽप्य् अखण्डित-तत्-प्रदेश-भेदेनाहङ्कार-रूप-परिणामः एवम् अहङ्कारादिष्व् अपि द्रष्टव्यम् न तु कार्त्स्न्येन महदादीनाम् उत्तरोत्तर-कार्य-रूप-परिणामः । तथा सत्य्-उत्तरोत्तर-कार्य-रूपेण कृत्स्नस्य अपि महदादेः परिणतत्त्वात् महदादीनां पृथक्-स्थित्य्-अनुपपत्त्या पृथिव्य्-अप्सु प्रलीयते इत्य् आरभ्य महान् अव्यक्ते लीयते इत्य्-अन्तेन लय-श्रवणं विरुध्येत । अयम् एव हि लयः — यत् पूर्व-पूर्वावस्थायाम् अवस्थितेन द्रव्येण तत्-एक-देशस्योत्तरोत्तरावस्थाम्-आपन्नस्य तद्-अवस्था-प्रहाणेन संश्लेषः । एवं च पञ्चीकरणोपपत्तिः । अन्यथा पृथक् तत्त्वानाम् अभावात् तद् अनुपपन्नं स्यात् । एवं च महत्त्वाद्-अहङ्कारत्वावकाशत्व्-आदि-पृथिवीत्व्-अपर्यन्तावस्थाम्-आपन्नस्य प्रधान-द्रव्यस्य परमात्मात्मक-सृष्टि-पुरुष-ब्रह्मानुप्रवेशेन परमात्म-शरीरत्व-व्यपदेश उपपन्नः । कार्यावस्थ-कारणावस्थ-द्रव्यस्यैकत्वेन तत्रैवानुप्रवेश-मात्रेण यस्य पृथिवी शरीरम् इत्य्-आदीनाम् उपपत्तिः । न तु पृथिवीत्व्-आद्य्-अवस्थास्व्-अनुप्रवेश उपपन्नः । न च एवं यस्याव्यक्तं शरीरम् इत्य्-एतावतैव महदादि-पृथिव्य्-अन्तानां शरीरत्व-सिद्धेः पृथक् यस्य पृथिवी शरीरं, यस्यापः शरीरम् इति पृथिव्य्-आदीनां शरीरत्व-कथनं व्यर्थम् इति वाच्यं; परस्परम् अवस्थानाम् अवस्थावतोश् च भेदेप्य्-अवस्थावद्-द्रव्यानाम् एकत्वात् सर्वावस्थ-द्रव्यस्य परमात्म-शरीरत्वम् एव । ननु वैशेषिक-मत-रीत्या कार्य-कारणयोर् भिन्न-द्रव्यत्वेनाशरीरत्वम् इति प्रतिपादनार्थत्वात् । न च महदादीनां केवलाचेतन-परिणाम-रूपत्वे विशिष्टोपादानत्वासिद्धिः; प्रकृति-पुरुष-विशिष्टस्य परमात्मन उपादानत्वं हि विशिष्टोपादानत्वं विशेषाश्रयत्वं ह्य् उपादानत्वम् इति वाच्यं विशिष्टोपादानत्वे ऽपि त्रयाणाम् असाङ्कर्येण कार्यत्वाभ्युपगमेन विरोधाभावात् अचेतनम् अचेतनं प्रति चेतनश् चेतनं प्रति, ईश्वरः ईश्वरं प्रति कारणम् इत्य्-अङ्गीक्रियते तत्राचेतनस्य कार्यता महदादि-पृथिव्य्-अन्तावस्थााश्रयता-रूपा स्व-रूपान्यथा-भाव-लक्षणा । चेतनस्य कार्यता तु सङ्कुचित-ज्ञानस्य तद्-विकास-रूपा स्व-भावान्यथा-भाव-लक्षणा । सैवाग्रिमाध्याये प्रतिपादयिष्यते । तत्र हि, अथ तस्याभितप्तस्य कति चायतनान्य् इत्य् उपक्रम्य जीव-संघात-संश्लिष्टस्य समष्टि-पुरुषस्य चतुर्मुखस्य वागाद्-इन्द्रियेभ्यः व्यष्टि-भूतानां देवादीनाम् इन्द्रियोत्पत्तिं चातुर्वर्ण्योत्पत्तिं चाभिधाय, एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिं श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह-वृत्तिभिर् इति प्रलय-दशायां सङ्कुचित-ज्ञानानाम् अचेतन-प्रायाणां जीवानां भगवद्-आराधनोपयुक्त-करण-कलेवरोत्पत्ति-द्वारा विज्ञान-विकास-रूप-कार्यता ह्य् अभिधास्यते कार्यावस्थ-चेतनाचेतन-नियमन-रूपाद्वारकावस्थाश्रयता-रूपा, चेतनाचेतन-गत-कार्यता-निर्वाहकत्व-रूपा, सद्-द्वारकावस्थाश्रयता चेत्य्-उभय-विधावस्थाश्रयतेश्वरस्यानुप्रवेशे चेतनाचेतन-सामानाधिकरण्य्-आदिभिर् अस्मिन् शास्त्रे बहुधा प्रतिपाद्यते । अतोस्मिन्न् अध्याये ऽचेतनं न परिणामपरं परामात्रम् अभिहितम् इति ॥ ५० ॥

इति श्रीमद्-भागवत-महापुराणे तृतीय-स्कन्धे श्रीमद्-वीरराघवाचार्य्य-कृत-भागवत-चन्द्र-चन्द्रिकायां पञ्चमो ऽध्यायः ॥ ५ ॥


  1. प्रा. पा. - पारमेद्वा । ↩︎

  2. प्रा. पा. - साधुवर्त्म संरा । ↩︎

  3. प्रा. पा. – ताररूपैः । ↩︎

  4. प्रा. पा. — त्यधिशृण्वतां । ↩︎

  5. प्रा. पा. - पुंसां ! ↩︎

  6. प्राचीने पाठे श्लोकार्धस्यास्यायं प्रकारो यथा - ‘यज्ज्ञानादेशये चैव माऽऽदिशद्भगवानिह ।’ ↩︎

  7. प्रा. पा. - मनोभवः । ↩︎

  8. प्रा. पा. - द्भाव्यं चराचरम् । ↩︎

  9. प्रा. पा. - तीर्थपदं । ↩︎

  10. प्रा. पा. - व्रजन्ति । ↩︎

  11. प्रा. पा. - तत्त्वा । ↩︎

  12. प्रा. पा. - हर्तुरते । ↩︎

  13. प्रा. पा. - ग्रहेण । ↩︎