[चतुर्थोऽध्यायः]
भागसूचना
उद्धवजीसे विदा होकर विदुरजीका मैत्रेय ऋषिके पास जाना
श्लोक-१
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम्।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः॥
मूलम्
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम्।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः॥ १ ॥
अनुवाद (हिन्दी)
उद्धवजीने कहा—फिर ब्राह्मणोंकी आज्ञा पाकर यादवोंने भोजन किया और वारुणी मदिरा पी। उससे उनका ज्ञान नष्ट हो गया और वे दुर्वचनोंसे एक-दूसरेके हृदयको चोट पहुँचाने लगे॥ १॥
वीरराघवः
अथ स्नान-दानाद्य् अनन्तरं ते यदवः तद्-अनुज्ञाताः विप्रैर् अनुज्ञाताः भुक्त्वा वारुणीं पैष्टीं मदिरां पीत्वा तया वारुण्यैव विभ्रंशित-ज्ञानाः विभ्रष्ट-स्वपर-विज्ञानाः संतो दुरुक्तैः मर्मस्थानि पस्पृशुः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तेषां मैरेयदोषेण विषमीकृतचेतसाम्।
निम्लोचति रवावासीद्वेणूनामिव मर्दनम्॥
मूलम्
तेषां मैरेयदोषेण विषमीकृतचेतसाम्।
निम्लोचति रवावासीद्वेणूनामिव मर्दनम्॥ २ ॥
अनुवाद (हिन्दी)
मदिराके नशेसे उनकी बुद्धि बिगड़ गयी और जैसे आपसकी रगड़से बाँसोंमें आग लग जाती है, उसी प्रकार सूर्यास्त होते-होते उनमें मार-काट होने लगी॥ २॥
वीरराघवः
ततः मैरेयस्य मद्यस्य दोषेण मदेन विषमीकृतानि विभ्रंशितानि चेतांसि येषां यदूनां रवौ सूर्ये निम्लोचत्य् अस्तं गच्छति सति वेणूनाम् इव मर्दनं परस्पर-संघर्षणम् आसीत् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
भगवान् स्वात्ममायाया गतिं तामवलोक्य सः।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत्॥
मूलम्
भगवान् स्वात्ममायाया गतिं तामवलोक्य सः।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत्॥ ३ ॥
अनुवाद (हिन्दी)
भगवान् अपनी मायाकी उस विचित्र गतिको देखकर सरस्वतीके जलसे आचमन करके एक वृक्षके नीचे बैठ गये॥ ३॥
वीरराघवः
भगवान्स् त्व् इति स भगवान् आत्मनो मायायाः प्राक्तन-सङ्कल्पस्य गतिं फलरूपां तां स्वकुल-संहृतिम् अवलोक्य सरस्वतीम् उपस्पृश्य सरस्वत्यां स्नात्वा वृक्ष-मूलम् अश्वत्थ-वृक्ष-मूलम् उपाविशत् प्राविशत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह।
बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा॥
मूलम्
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह।
बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा॥ ४ ॥
अनुवाद (हिन्दी)
इससे पहले ही शरणागतोंका दुःख दूर करनेवाले भगवान् श्रीकृष्णने अपने कुलका संहार करनेकी इच्छा होनेपर मुझसे कह दिया था कि तुम बदरिकाश्रम चले जाओ॥ ४॥
वीरराघवः
अहम् इति प्रपन्नार्ति-हरेण स्वकुलं संजिहीर्षुणा भगवता त्वं बदरिकाश्रमं प्रति प्रयाहि गच्छेत्य् उक्तो ऽहम् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अथापि तदभिप्रेतं जानन्नहमरिन्दम।
पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः॥
मूलम्
अथापि तदभिप्रेतं जानन्नहमरिन्दम।
पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः॥ ५ ॥
अनुवाद (हिन्दी)
विदुरजी! इससे यद्यपि मैं उनका आशय समझ गया था, तो भी स्वामीके चरणोंका वियोग न सह सकनेके कारण मैं उनके पीछे-पीछे प्रभासक्षेत्रमें पहुँच गया॥ ५॥
वीरराघवः
तथाप्य् एवम् उक्तो अप्य् अहं तद् अभिप्रेतं कुल-संहारादिकं जानन् हे अरिंदम हे विदुर भर्तुर् भगवतः पाद-विश्लेषणे ऽक्षमः तम् एव पृष्ठतो ऽन्वगमम् अन्ववर्त्तम् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम्।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम्॥
मूलम्
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम्।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम्॥ ६ ॥
अनुवाद (हिन्दी)
वहाँ मैंने देखा कि जो सबके आश्रय हैं किन्तु जिनका कोई और आश्रय नहीं है, वे प्रियतम प्रभु शोभाधाम श्यामसुन्दर सरस्वतीके तटपर अकेले ही बैठे हैं॥ ६॥
वीरराघवः
एवम् अनुगच्छन्न् अहं तम् एव विचिन्वन् मनसा विचितयन्न् अद्राक्षं चक्षुषा च दृष्टवान् अस्मि कथं-भूतं एकम् असहायं दयितं निरतिशय-प्रियतमं पतिं निरुपाधिक-शेषिणं श्री-निकेतं श्री-निवासं सरस्वत्यां सरस्वती-तीरे कृत-केतं कृत-निवासं स्वतः अकेतनम् अनाश्रयं तस्यैव सर्वाश्रयत्वाद् इति भावः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
श्यामावदातं विरजं प्रशान्तारुणलोचनम्।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च॥
मूलम्
श्यामावदातं विरजं प्रशान्तारुणलोचनम्।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च॥ ७ ॥
अनुवाद (हिन्दी)
दिव्य विशुद्ध-सत्त्वमय अत्यन्त सुन्दर श्याम शरीर है, शान्तिसे भरी रतनारी आँखें हैं। उनकी चार भुजाएँ और रेशमी पीताम्बर देखकर मैंने उनको दूरसे ही पहचान लिया॥ ७॥
वीरराघवः
श्यामावदातं नील-श्वेत-वर्णं विरजं निर्मलं प्रसन्ने अरुणे लोचने यस्य तं चतुर्भिर् दोर्भिर् भुजैः पीत-कौशाम्बरेण च कौशं कौशेयं पीत-कौशेयांबरेण च विदितं लक्षितम् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम्।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम्॥
मूलम्
वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम्।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम्॥ ८ ॥
अनुवाद (हिन्दी)
वे एक पीपलके छोटे-से वृक्षका सहारा लिये बायीं जाँघपर दायाँ चरणकमल रखे बैठे थे। भोजन-पानका त्याग कर देनेपर भी वे आनन्दसे प्रफुल्लित हो रहे थे॥ ८॥
वीरराघवः
दक्षिण-पाद-सरोरुहं वामे ऊराव् अधिश्रित्य उपरि स्थापयित्वा उपाश्रितः पृष्ठतो ऽवष्टब्धः अर्भको बालः कोमलो ऽश्वत्थो येन तं त्यक्त-पिप्पलं त्यक्त-कर्म-फलं अत एवाकृशं कर्म-यत्त-कार्य-स्थौल्याधि-व्याध्य्-आदि-रहितम् ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा।
लोकाननुचरन् सिद्ध आससाद यदृच्छया॥
मूलम्
तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा।
लोकाननुचरन् सिद्ध आससाद यदृच्छया॥ ९ ॥
अनुवाद (हिन्दी)
इसी समय व्यासजीके प्रिय मित्र परम भागवत सिद्ध मैत्रेयजी लोकोंमें स्वच्छन्द विचरते हुए वहाँ आ पहुँचे॥ ९॥
वीरराघवः
तस्मिन्न् इति तस्मिन् भगवत्-संनिधौ द्वैपायन-सुहृत्-सखः द्वैपायनो व्यासः तस्य सुहृन् मित्रं सखा च सौहार्दं सहाध्येतृत्वं चोभयम् अपि विवक्षितं महा-भागवतः भागवताग्रगण्यः अत एव सिद्धः कृतकृत्यः मैत्रेयः लोकान् अनुचरन् यदृच्छया भगवद्-इच्छया आससादागतो ऽभूद् इत्य् अर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तस्यानुरक्तस्य मुनेर्मुकुन्दः
प्रमोदभावानतकन्धरस्य।
आशृण्वतो मामनुरागहास-
समीक्षया विश्रमयन्नुवाच॥
मूलम्
तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य।
आशृण्वतो मामनुरागहाससमीक्षया विश्रमयन्नुवाच॥ १० ॥
अनुवाद (हिन्दी)
मैत्रेय मुनि भगवान्के अनुरागी भक्त हैं। आनन्द और भक्तिभावसे उनकी गर्दन झुक रही थी। उनके सामने ही श्रीहरिने प्रेम एवं मुसकानयुक्त चितवनसे मुझे आनन्दित करते हुए कहा॥ १०॥
वीरराघवः
तस्येति प्रमोदेन भगवद्-दर्शन-जनित-संतोषेण भावेन भक्त्या आनता कंधरा यस्य अनुरक्तस्य भगवत्य् अनुरागयुक्तस्य मुनेर् मैत्रेयस्याशृण्वतः सतः मुकुंदो भगवान् अनुराग-हास-समीक्षया ऽनुराग-हासान्वितावलोकेन विश्रमयन् श्रम-हानिं जनयन् मां प्रत्य् उवाच ॥ १० ॥
श्लोक-११
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
वेदाहमन्तर्मनसीप्सितं ते
ददामि यत्तद् दुरवापमन्यैः।
सत्त्रे पुरा विश्वसृजां वसूनां
मत्सिद्धिकामेन वसो त्वयेष्टः॥
मूलम्
वेदाहमन्तर्मन1सीप्सितं ते ददामि यत्तद् दुरवापमन्यैः।
सत्त्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः॥ ११ ॥
अनुवाद (हिन्दी)
श्रीभगवान् कहने लगे—मैं तुम्हारी आन्तरिक अभिलाषा जानता हूँ; इसलिये मैं तुम्हें वह साधन देता हूँ, जो दूसरोंके लिये अत्यन्त दुर्लभ है। उद्धव! तुम पूर्वजन्ममें वसु थे। विश्वकी रचना करनेवाले प्रजापतियों और वसुओंके यज्ञमें मुझे पानेकी इच्छासे ही तुमने मेरी आराधना की थी॥ ११॥
वीरराघवः
भगवद्-भक्तिम् एवाह द्वयेन वेदेति । हे वसो उद्धव पूर्व-जन्माभि-प्रायेणेदं संबोधनं विश्वसृजां प्रजा-पतीनां वसूनां च सत्रे पुरा पूर्व-जन्मनि मत्-सिद्धि-कामेन मत्-प्राप्ति-कामेन त्वया ऽहम् इष्टः सम्यग् आराधितः अतस् ते तवान्तर् अमनसान्तःकरणेनेप्सितं यस् तद् वेद जानामि । अन्यैर् अनाराधितमत्-चरणैर्-दुरवापं दुःखेनाप्य् अवाप्तुम् अशक्यं तद् ददामि दास्यामि ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
स एष साधो चरमो भवाना-
मासादितस्ते मदनुग्रहो यत्।
यन्मां नृलोकान् रह उत्सृजन्तं
दिष्ट्या ददृश्वान् विशदानुवृत्त्या॥
मूलम्
स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो य2त्।
यन्मां नृलोका3न् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या॥ १२ ॥
अनुवाद (हिन्दी)
साधुस्वभाव उद्धव! संसारमें तुम्हारा यह अन्तिम जन्म है; क्योंकि इसमें तुमने मेरा अनुग्रह प्राप्त कर लिया है। अब मैं मर्त्यलोकको छोड़कर अपने धाममें जाना चाहता हूँ। इस समय यहाँ एकान्तमें तुमने अपनी अनन्य भक्तिके कारण ही मेरा दर्शन पाया है, यह बड़े सौभाग्यकी बात है॥ १२॥
वीरराघवः
स इति हे साधो उद्धव भवानां जन्मनां मध्यं स एष भवः चरमः अंतिमः कुतः यद् यस्मात् ते त्वया मद्-अनुग्रहः आसादितः लब्धः यस्माच् च पुनर् नृलोकान् मर्त्यलोकान् रहः एकांते उत्सृजंतं त्यजतं मर्त्यलोकाद् वैकुठं गच्छन्तं माविशद् अनुवृत्त्या एकांत-भक्त्या ददृश्वान् दृष्टवान् असि एतद् दिष्ट्या जातम् इत्य् अर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति॥
मूलम्
पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे।
ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति॥ १३ ॥
अनुवाद (हिन्दी)
पूर्वकाल (पाद्मकल्प)-के आरम्भमें मैंने अपने नाभिकमलपर बैठे हुए ब्रह्माको अपनी महिमाके प्रकट करनेवाले जिस श्रेष्ठ ज्ञानका उपदेश किया था और जिसे विवेकी लोग ‘भागवत’ कहते हैं, वही मैं तुम्हें देता हूँ॥ १३॥
वीरराघवः
किं ददासीत्य् अपेक्षायां देयं निर्दिशति पुरेति । आदिसर्गे सृष्ट्य्-उपक्रमे नाभ्ये नाभि-भवे पद्मे कमले निषण्णाय उपविष्टायाजाय ब्रह्मणे पुरा पूर्व-काले मया प्रोक्तं मम महिमा ऽवभास्यते प्रकाश्यते ऽनेनेति मन्-महिमावभासं यद् एव सूरयो भागवतम् इति वदंति तत् परमं ज्ञानं ददामीत्य् अनुषंगः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
इत्यादृतोक्तः परमस्य पुंसः
प्रतिक्षणानुग्रहभाजनोऽहम्।
स्नेहोत्थरोमा स्खलिताक्षरस्तं
मुञ्चञ्छुचः प्राञ्जलिराबभाषे॥
मूलम्
इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम्।
स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे॥ १४ ॥
अनुवाद (हिन्दी)
विदुरजी! मुझपर तो प्रतिक्षण उन परम पुरुषकी कृपा बरसा करती थी। इस समय उनके इस प्रकार आदरपूर्वक कहनेसे स्नेहवश मुझे रोमांच हो आया, मेरी वाणी गद्गद हो गयी और नेत्रोंसे आँसुओंकी धारा बहने लगी। उस समय मैंने हाथ जोड़कर उनसे कहा—॥ १४॥
वीरराघवः
एवं भगवतोक्ते मयैवम् उक्तम् इत्य् आह इतीति । इतीत्थम् आदृतोक्तः आदृतश् परमस्य पुंसः परम-पुरुषस्य प्रतीक्षणं कृपावलोकनम् अनुग्रहश् च तयोर् भाजनः पात्र-भूतः स्नेहोर्ध्व-रोमा स्नेहेनोर्ध्वानि पुलकितानि रोमाणि यस्य सः स्खलिताक्षरः गद्गदवाहं शुच आनन्दाश्रूणि मुञ्चन् प्राञ्जलिस् तं भगवंतं प्रत्य् आबभाषे आभाषितवान् अस्मीत्य् अर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुकः॥
मूलम्
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह।
तथापि नाहं प्रवृणोमि भूम4न् भवत्पदाम्भोजनिषेवणोत्सुकः॥ १५ ॥
अनुवाद (हिन्दी)
‘स्वामिन्! आपके चरणकमलोंकी सेवा करनेवाले पुरुषोंको इस संसारमें अर्थ, धर्म, काम, मोक्ष—इन चारोंमेंसे कोई भी पदार्थ दुर्लभ नहीं है; तथापि मुझे उनमेंसे किसीकी इच्छा नहीं है। मैं तो केवल आपके चरणकमलोंकी सेवाके लिये ही लालायित रहता हूँ॥ १५॥
वीरराघवः
किम् आभाषितवान् असीत्य् अत आह क इति । हे ईश ते तव पाद-सरोज-भाजां पाद-कमलं भजमानानाम् इह पुरुषाणां चतुर्ष्व् अर्थेषु धर्मार्थ-काम-मोक्षेषु को नु सु-दुर्लभः न कोपि दुर्लभ इत्य् अर्थः । तथापि पुरुषार्थ-चतुष्टयस्य सुलभत्व् अपि हे भूमन् विभो नाहं प्रवृणोमि पुरुषार्थ-चतुष्टयम् इति शेषः । कथं-भूतो अहं भवत्-पदाम्भोजयोर् निषेवणे उत्सुकः, तेषां ज्ञानी नित्ययुक्त इत्य् उक्त-विध-ज्ञान्य् अहम् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
कर्माण्यनीहस्य भवोऽभवस्य ते
दुर्गाश्रयोऽथारिभयात्पलायनम्।
कालात्मनो यत्प्रमदायुताश्रयः
स्वात्मन्रतेः खिद्यति धीर्विदामिह॥
मूलम्
कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम्।
कालात्मनो यत्प्रमदायुताश्रयः स्वात्मन्रतेः खिद्यति धीर्विदामिह॥ १६ ॥
अनुवाद (हिन्दी)
प्रभो! आप निःस्पृह होकर भी कर्म करते हैं, अजन्मा होकर भी जन्म लेते हैं, कालरूप होकर भी शत्रुके डरसे भागते हैं और द्वारकाके किलेमें जाकर छिप रहते हैं तथा स्वात्माराम होकर भी सोलह हजार स्त्रियोंके साथ रमण करते हैं—इन विचित्र चरित्रोंको देखकर विद्वानोंकी बुद्धि भी चक्करमें पड़ जाती है॥ १६॥
वीरराघवः
नित्य-योग-विरोधनं धर्मादिकं न वृणोमि किंत्व् अघटित-घटना-सामर्थ्य-रूपां भवदीयां शक्तिं स्मरतां चित्तं पारवश्यं यातीत्य् अब्रुवम् इत्य् आह कर्माणीति । अनीहस्य निर्व्यापारस्य तव कर्माण्यभवस्य जन्म-रहितस्य भवः जन्म कालात्मनः काल-शरीरस्य दुर्गाश्रयः द्वारका-रूप-जल-दुर्गाश्रयः यच् चारि-भयात् काल-यवनादि-भयात् पलायनं स्वात्म-निरतः प्रमदायुताश्रमः बह्वीभिः प्रमदाभिः स्त्रीभिर्-युतः य आश्रमः गृहस्थाश्रमः इति च यद् इहास्मिन् विषये विदां विदुषाम् अपि धीः खिद्यति पारवश्यं याति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
मन्त्रेषु मां वा उपहूय यत्त्व-
मकुण्ठिताखण्डसदात्मबोधः।
पृच्छेः प्रभो मुग्ध इवाप्रमत्त-
स्तन्नो मनो मोहयतीव देव॥
मूलम्
मन्त्रेषु मां वा उपहूय यत्त्वमकुण्ठिताखण्डसदात्मबोधः।
पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव॥ १७ ॥
अनुवाद (हिन्दी)
देव! आपका स्वरूपज्ञान सर्वथा अबाध और अखण्ड है। फिर भी आप सलाह लेनेके लिये मुझे बुलाकर जो भोले मनुष्योंकी तरह बड़ी सावधानीसे मेरी सम्मति पूछा करते थे, प्रभो! आपकी वह लीला मेरे मनको मोहित-सा कर देती है॥ १७॥
वीरराघवः
किं च मंत्रेषु सत्सु माम् उपहूय वै आह्वयैव पृच्छेः पृष्टवान् असि कथं-भूतस् त्व्-अकुंठिताखंड-सदात्म-बोधः अकुंठितः आवरणरहितः अखंडः अपरिच्छिन्नः सन् सत्य-रूपः आत्मनः स्वस्य बोधः यस्य सः अनादृता ऽपरिच्छिन्नात्म-ज्ञान इत्य् अर्थः । अत एवाममत्तः स्वयम् एवम्भूतो ऽपि मुग्ध इव मूढ इव यत् पृष्टवान् असि तन् मे मनो मोहयतीव मोहं प्रापयतीव वर्त्तते । इव-शब्देन परमार्थत एतत् सर्वम् उपपन्नम् एवेति सूच्यते । तथा हि अकर्मायत्त-क्रियस्य लीलया कर्माणि अकर्मायत्त-भवस्य स्वेच्छोपात्ताप्राकृत-दिव्य-मंगलास्पद-विग्रह-परिग्रह-रूपो भवश् च उपपद्यते । दुर्गाश्रयादिकं मर्त्य-लीलयोपपद्यते यो वैवालोक एतेषां पुरुषाणां कर्त्ता यस्य चैतत् कर्म अजायमानो बहुधा विजायते लोकवत् तु लीला-कैवल्यम् इत्य्-आदि-श्रुति-सूत्रादिभ्यः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
ज्ञानं परं स्वात्मरहःप्रकाशं
प्रोवाच कस्मै भगवान् समग्रम्।
अपि क्षमं नो ग्रहणाय भर्त-
र्वदाञ्जसा यद् वृजिनं तरेम॥
मूलम्
ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान् समग्रम्।
अपि क्षमं नो ग्रहणाय भर्तर्वदाञ्जसा यद् वृजिनं तरेम॥ १८ ॥
अनुवाद (हिन्दी)
स्वामिन्! अपने स्वरूपका गूढ़ रहस्य प्रकट करनेवाला जो श्रेष्ठ एवं समग्र ज्ञान आपने ब्रह्माजीको बतलाया था, वह यदि मेरे समझनेयोग्य हो तो मुझे भी सुनाइये, जिससे मैं भी इस संसार-दुःखको सुगमतासे पार कर जाऊँ’॥ १८॥
वीरराघवः
एवम् उक्त्वा हार्दम् अपि निवेदितवान् अस्मीत्य् आह ज्ञानम् इति । स्वात्मनस् तव रहः याथात्म्यं तस्य प्रकाशं परं ज्ञातव्येषु प्रधानभूतं समग्रम् अंगोपेतं यज् ज्ञानं भगवान् पूर्ण-षाड्गुण्यो भगवान् कस्मै काय ब्रह्मणेसर्वमानत्वम् आर्षं प्रोवाचोचिवान् तज् ज्ञानं हे भर्त्तः स्वामिन् नो ऽस्माकं ग्रहणाय गृहीतुं क्षमं योग्यम् अपि चेद् वद यद्-यस्माज् ज्ञानाद् वृजिनं दुःखात्मक-संसारम् अंजसा सुखेन तरेमातिवर्त्तेमहि ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
इत्यावेदितहार्दाय मह्यं स भगवान् परः।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम्॥
मूलम्
इत्यावेदितहार्दाय मह्यं स भगवान् परः।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम्॥ १९ ॥
अनुवाद (हिन्दी)
जब मैंने इस प्रकार अपने हृदयका भाव निवेदित किया, तब परमपुरुष कमलनयन भगवान् श्रीकृष्णने मुझे अपने स्वरूपकी परम स्थितिका उपदेश दिया॥ १९॥
वीरराघवः
एवं स्वाभिप्राये निवेदिते मह्यं स भगवांस्-तत्वम् उपदिदेशेत्य् आह इतीति । इतीत्थम् आवेदित हार्द्दम् अभिप्रायो येन तस्मै मह्यं स भगवान् अरविन्दाक्षः आत्मनः स्वात्मनः परमां परो-ज्ञातव्यो मानः यस्यास् तां परमां ज्ञातव्यांतर-रहितां स्थितिं याथात्म्यावगतिम् आदिदेश उपदिदेश ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
स एवमाराधितपादतीर्था-
दधीततत्त्वात्मविबोधमार्गः।
प्रणम्य पादौ परिवृत्य देव-
मिहागतोऽहं विरहातुरात्मा॥
मूलम्
स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः।
प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा॥ २० ॥
अनुवाद (हिन्दी)
इस प्रकार पूज्यपाद गुरु श्रीकृष्णसे आत्मतत्त्वकी उपलब्धिका साधन सुनकर तथा उन प्रभुके चरणोंकी वन्दना और परिक्रमा करके मैं यहाँ आया हूँ। इस समय उनके विरहसे मेरा चित्त अत्यन्त व्याकुल हो रहा है॥ २०॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम्॥
मूलम्
सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम्॥ २१ ॥
वीरराघवः
इहागतस् त्वं क्व गमिष्यसीत्य् अत आह स इति । सोहं बदरीं त्वं प्रयाहीत्य् आज्ञप्तोहं तस्य भगवतः दर्शने यो ममाह्लादः वियोगेनार्तिश् च ताभ्यां युतः सन् प्रभोर् भगवतः तस्य दयितं प्रियं बदर्याश्रम-मंडलं प्रतिगमिष्ये ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यत्र नारायणो देवो नरश्च भगवानृषिः।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ॥
मूलम्
यत्र नारायणो देवो नरश्च भगवानृषिः।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ॥ २२ ॥
अनुवाद (हिन्दी)
विदुरजी! पहले तो उनके दर्शन पाकर मुझे आनन्द हुआ था, किन्तु अब तो मेरे हृदयको उनकी विरहव्यथा अत्यन्त पीड़ित कर रही है। अब मैं उनके प्रिय क्षेत्र बदरिकाश्रमको जा रहा हूँ, जहाँ भगवान् श्रीनारायणदेव और नर—ये दोनों ऋषि लोगोंपर अनुग्रह करनेके लिये दीर्घकालीन सौम्य, दूसरोंको सुख पहुँचानेवाली एवं कठिन तपस्या कर रहे हैं॥ २१-२२॥
वीरराघवः
आश्रमं प्रस्तौति अत्रेति । यत्र बदर्याश्रम-मंडले ऋषिः सर्वज्ञो नारायणो नरश् च मृदू-लोकानां क्षेम-स्वस्त्य्-आदिकरं तीव्रं दुश्चरं दीर्घम् आकल्पांतं तपस् तेपाते चक्राते कथंभूतौ तेपाते लोक-भावनौ लोकानुग्राहकौ लोकानुग्रहार्थं तस्य तपश्-चरणम् इति भावः ॥ २२ ॥
श्लोक-२३
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्।
ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः॥
मूलम्
इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्।
ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः॥ २३ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—इस प्रकार उद्धवजीके मुखसे अपने प्रिय बन्धुओंके विनाशका असह्य समाचार सुनकर परम ज्ञानी विदुरजीको जो शोक उत्पन्न हुआ, उसे उन्होंने ज्ञानद्वारा शान्त कर दिया॥ २३॥
वीरराघवः
एवम् उद्धवाद् उपश्रुत-वृत्तांतस्य क्षत्तुर् अवस्थिति-प्रकारम् आह शुकः श्लोक-द्वयेन इतीति । क्षत्ता विदुरो बुधः विद्वान् इत्य् उक्त-प्रकारेण उद्धवाद् उद्धव-मुखाद् ज्ञातीनां दुःसहं सोढुम् अशक्यम् अत्यंत-दुःख-जनकम् इत्य् अर्थः । वधं नाशम् उपाकर्ण्य श्रुत्व् उत्पतितम् उत्पन्नं शोकं ज्ञानेन स्वात्म-परमात्म-याथात्म्य-ज्ञानेनाशमयत् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
स तं महाभागवतं व्रजन्तं कौरवर्षभः।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे॥
मूलम्
स तं महाभागवतं व्रजन्तं कौरवर्षभः।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे॥ २४ ॥
अनुवाद (हिन्दी)
जब भगवान् श्रीकृष्णके परिकरोंमें प्रधान महाभागवत उद्धवजी बदरिकाश्रमकी ओर जाने लगे, तब कुरुश्रेष्ठ विदुरजीने श्रद्धापूर्वक उनसे पूछा॥ २४॥
वीरराघवः
स इति स कौरवर्षभः विदुरः व्रजंतं व्रजिष्यंतं बदर्याश्रमं प्रतीति शेषः । महा-भागवतं भागवत-श्रेष्ठम् उद्धवम् विस्रंभाद् विश्वासाद् इदम् अभ्यधत्तानुसंहितवान् निश्चितवान् इत्य् अर्थः । किं कृष्ण-परिग्रहे कृष्णानुग्रहे ऽयम् उद्धवो मुख्य इति कृष्ण-परिग्रह-विषयाणां मध्ये ऽयं मुख्य इति विश्वास-पूर्वकं निश्चितवान् इत्य् अर्थः ॥ २४ ॥
श्लोक-२५
मूलम् (वचनम्)
विदुर5 उवाच
विश्वास-प्रस्तुतिः
ज्ञानं परं स्वात्मरहःप्रकाशं
यदाह योगेश्वर ईश्वरस्ते।
वक्तुं भवान्नोऽर्हति यद्धि विष्णो-
र्भृत्याः स्वभृत्यार्थकृतश्चरन्ति॥
मूलम्
ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते।
वक्तुं भवान्नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति॥ २५ ॥
अनुवाद (हिन्दी)
विदुरजीने कहा—उद्धवजी! योगेश्वर भगवान् श्रीकृष्णने अपने स्वरूपके गूढ़ रहस्यको प्रकट करनेवाला जो परमज्ञान आपसे कहा था, वह आप हमें भी सुनाइये; क्योंकि भगवान्के सेवक तो अपने सेवकोंका कार्य सिद्ध करनेके लिये ही विचरा करते हैं॥ २५॥
वीरराघवः
अथ श्रुत-भगवद्-वृत्तान्तं तद्-उपदिष्ट-तत्त्वं जिज्ञासुः क्षत्ता पृच्छति ज्ञानम् इति । योगीश्वरः योग-फल-प्रदः ईश्वरो भगवान् ते तुभ्यम् आत्म-रहः प्रकाशं परं यज् ज्ञानम् आह तज् ज्ञानं भवान् नः अस्मभ्यं वक्तुम् अर्हति यद्य् अस्माद् विष्णोर् भक्ताः स्वभृत्यार्थ-कृतः स्व-भृत्य-प्रयोजन-कारिणश् चरन्ति हि ॥ २५ ॥
श्लोक-२६
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे।
साक्षाद्भगवताऽऽदिष्टो मर्त्यलोकं जिहासता॥
मूलम्
ननु6 ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे।
साक्षाद्भगवताऽऽदिष्टो मर्त्यलोकं जिहासता॥ २६ ॥
अनुवाद (हिन्दी)
उद्धवजीने कहा—उस तत्त्वज्ञानके लिये आपको मुनिवर मैत्रेयजीकी सेवा करनी चाहिये। इस मर्त्यलोकको छोड़ते समय मेरे सामने स्वयं भगवान्ने ही आपको उपदेश करनेके लिये उन्हें आज्ञा दी थी॥ २६॥
वीरराघवः
तत्त्व-जिज्ञासुना क्षत्त्रा पृष्ट उद्धव आह नन्व् इति । ननु हे विदुर ! ते त्वया ऋषिस् तत्त्व-दर्शी कौषारवो मैत्रेयः तत्त्व-संराज्यः तत्त्व् उपदेशार्थम् आराधनीयः पूज्यः न त्व् अहं कथं-भूतः कौषारविः मर्त्य-लोकं जिहासता हातुम् इच्छता भगवता मे ऽन्ति समीपे साक्षाद् आदिष्ट आज्ञप्तः तीर्थान्य् अटित्वा भवंतम् उपसन्नाय क्षत्रे त्वम् उपदिशेत्य् आदिष्ट इत्य् अर्थः ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
इति सह विदुरेण विश्वमूर्ते-
र्गुणकथया सुधया प्लावितोरुतापः।
क्षणमिव पुलिने यमस्वसुस्तां
समुषित औपगविर्निशां ततोऽगात्॥
मूलम्
इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः।
क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात्॥ २७ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—इस प्रकार विदुरजीके साथ विश्वमूर्ति भगवान् श्रीकृष्णके गुणोंकी चर्चा होनेसे उस कथामृतके द्वारा उद्धवजीका वियोगजनित महान् ताप शान्त हो गया। यमुनाजीके तीरपर उनकी वह रात्रि एक क्षणके समान बीत गयी। फिर प्रातःकाल होते ही वे वहाँसे चल दिये॥ २७॥
वीरराघवः
विदुरोद्धव-संवादम् उपसंहरति शुक इतीति । इतीत्थं विदुरेण सह विश्व-मूर्तेः विश्व-शरीरस्य भगवतो गुण-कथा-रूपया सुधया आप्लुतः निरस्तः उरुस्-तापो यस्य सः औपगविर् उद्धवः यम-स्वसुर् यमुनायाः पुलिने तटे तां निशां रात्रिं क्षणम् इव समुषितः सम्यग् भगवद्-गुण-कथया तां रात्रिं क्षणम् इव नीत्वा ततः यमुनाया अगात् बदर्य्याश्रमं प्रतीति शेषः ॥ २७ ॥
श्लोक-२८
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
निधनमुपगतेषु वृष्णिभोजे-
ष्वधिरथयूथपयूथपेषु मुख्यः।
स तु कथमवशिष्ट उद्धवो यद्-
धरिरपि तत्यज आकृतिं त्र्यधीशः॥
मूलम्
निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः।
स तु कथमवशिष्ट उद्धवो यद् हरिरपि तत्यज आकृतिं त्र्यधीशः॥ २८ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने पूछा—भगवन्! वृष्णिकुल और भोजवंशके सभी रथी और यूथपतियोंके भी यूथपति नष्ट हो गये थे। यहाँतक कि त्रिलोकीनाथ श्रीहरिको भी अपना वह रूप छोड़ना पड़ा था। फिर उन सबके मुखिया उद्धवजी ही कैसे बच रहे?॥ २८॥
वीरराघवः
अत्रोद्धव-विषये किंचिद् राजा पृच्छति निधनम् इति । वृष्णि-भोजेषु निधनं ब्रह्म-शापेन नाशम् उपगतेषु सत्सूद्धवस् तु कथम् एको ऽवशिष्टः अस्यापि विप्र-शाप-विषयत्वाद् इत्य् अभिप्रायः । किम् उ वक्तव्यं वृष्ण्यादयो निधनम् उपगता इति यद् यतः अति-रथानां यूथं पांतीत्य् अतिरथ-यूथपाः तेषाम् अपि ये यूथपास् तेष्व् अपि मुख्यः त्र्यधीशः लोक-त्रयेशो हरिर् अप्य् आकृतिं मनुष्य-सजातीय-संनिवेशं तिरोभावयामास अत्र भू-त्याग एव विवक्षितः । सर्वे नित्याः शाश्वताश् च देहास् तस्य महात्मन इति स्मरणात् ॥ २८ ॥
श्लोक-२९
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः।
संहृत्य स्वकुलं नूनं त्यक्ष्यन्देहमचिन्तयत्॥
मूलम्
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः।
संहृत्य स्वकुलं नूनं त्यक्ष्यन्देहमचिन्तयत्॥ २९ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—जिनकी इच्छा कभी व्यर्थ नहीं होती, उन श्रीहरिने ब्राह्मणोंके शापरूप कालके बहाने अपने कुलका संहार कर अपने श्रीविग्रहको त्यागते समय विचार किया॥ २९॥
वीरराघवः
विप्र-शापादेः सर्वस्य भगवत्-संकल्पानुविधायित्वात् तत्-संकल्पेनायम् शाप-विषयोप्य्-उद्धव इहैव स्थापित इत्य् उत्तरम् आह वैयासकिः ब्रह्मेत्य् आदि । ब्रह्म-शापापदेशेन विप्र-शाप-व्याजेन कालेन स्व-संकल्पित-कालेनामोघं वाञ्छितं यस्य सः सत्य-संकल्प इत्य् अर्थः । एवं-भूतो भगवान् स्फीतं समृद्धं स्व-कुलं संहृत्य देहं स्व-देहं त्यक्ष्यन् तिरोभावयिष्यन्न् इदम् अचिन्तयत् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः॥
मूलम्
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः॥ ३० ॥
अनुवाद (हिन्दी)
‘अब इस लोकसे मेरे चले जानेपर संयमीशिरोमणि उद्धव ही मेरे ज्ञानको ग्रहण करनेके सच्चे अधिकारी हैं॥ ३०॥
वीरराघवः
चिन्ताम् एवाह अस्माद् इति । अस्माल् लोकान् मर्त्य-कामान् मय्य् उपरते स्व-लोकं गते सति मद्-आश्रयं अहम् आश्रयो विषयो यस्य तन् मद्-आश्रयं मद्-विषयं ज्ञानं संप्रतीदानीम् उद्धव एवा ऽद्धा तत्त्वेन साक्षाद् अर्हति स्वयं गृहीतुम् अन्यान् ग्राहयितुं च उद्धव एव योग्यो न त्व् अन्य इत्य् अर्थः । कथं-भूत उद्धवः आत्मवतां स्वात्मवतां स्वात्म-परमात्म-याथात्म्य-ज्ञानवतां मध्ये वरः मुख्यः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु॥
मूलम्
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु॥ ३१ ॥
अनुवाद (हिन्दी)
उद्धव मुझसे अणुमात्र भी कम नहीं हैं, क्योंकि वे आत्मजयी हैं, विषयोंसे कभी विचलित नहीं हुए। अतः लोगोंको मेरे ज्ञानकी शिक्षा देते हुए वे यहीं रहें’॥ ३१॥
वीरराघवः
एतद् एवाह नेति । उद्धव अत एवापि मन्-न्यूनो मत्तो न्यूनो न भवति निरञ्जनः परमं साम्यम् उपैति जगद्-व्यापार-वर्जं भोग-मात्र-साम्य-लिंगाच् च मम साधर्म्यम् आगता इत्य्-आदि-श्रुति-सूत्र-स्मृत्य्-आदि-प्रतिपन्नं भोगे साम्यं विवक्षितं मुक्तौ मया सह समान-भोग-योग्य इत्य् अर्थः । कुतः यद् यस्माद् गुणैः रजस्-तमो-मिश्र-सत्त्वैस्-तत्-कार्य-शब्दादि-विषयैर् नार्दितः न पीडितः अत एव प्रभुः स्व-वशीकृतेन्द्रियः । अनेन मुक्ति-साधन-समग्र-संपत्तिः सूचिता । अत आत्मवद्-वरत्वान् मद्-वयुनं मद्-विषयं ज्ञानं लोकं ग्राहयन् मर्त्य-लोके तिष्ठतु मुक्ति-पर्यन्तम् इति शेषः ।। ३१ ।।
श्लोक-३२
विश्वास-प्रस्तुतिः
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना।
बदर्याश्रममासाद्य हरिमीजे समाधिना॥
मूलम्
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना।
बदर्याश्रममासाद्य हरिमीजे समाधिना॥ ३२ ॥
अनुवाद (हिन्दी)
वेदोंके मूल कारण जगद्गुरु श्रीकृष्णके इस प्रकार आज्ञा देनेपर उद्धवजी बदरिकाश्रममें जाकर समाधियोगद्वारा श्रीहरिकी आराधना करने लगे॥ ३२॥
वीरराघवः
उपसंहरति एवम् इति । एवम् इत्य् एवं त्रि-लोक-गुरुणा शब्द-योनिना शास्त्र-प्रमाण-गम्येन भगवता संदिष्ट अज्ञाप्त उद्धवः बदर्याश्रमम् आसाद्य समाधिना ध्यान-योगेन हरिं भगवन्तम् ईजे यष्टवान् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च॥
मूलम्
विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम्॥
मूलम्
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम्॥ ३४ ॥
मूलम् - कर्णावती
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्।
अन्येषां दुस्करतरं पशूनां विक्लवात्मनाम्॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम्।
ध्यायन् गते भागवते रुरोद प्रेमविह्वलः॥
मूलम्
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम्।
ध्यायन् गते भागवते रुरोद प्रेमविह्वलः॥ ३५ ॥
अनुवाद (हिन्दी)
कुरुश्रेष्ठ परीक्षित्! परमात्मा श्रीकृष्णने लीलासे ही अपना श्रीविग्रह प्रकट किया था और लीलासे ही उसे अन्तर्धान भी कर दिया। उनका वह अन्तर्धान होना भी धीर पुरुषोंका उत्साह बढ़ानेवाला तथा दूसरे पशुतुल्य अधीर पुरुषोंके लिये अत्यन्त दुष्कर था। परम भागवत उद्धवजीके मुखसे उनके प्रशंसनीय कर्म और इस प्रकार अन्तर्धान होनेका समाचार पाकर तथा यह जानकर कि भगवान्ने परमधाम जाते समय मुझे भी स्मरण किया था, विदुरजी उद्धवजीके चले जानेपर प्रेमसे विह्वल होकर रोने लगे॥ ३३—३५॥
वीरराघवः
विदुर इति । विदुरो ऽपि क्रीडया क्रीडार्थम् उपात्त-देहस्य स्वेच्छोपात्ताप्राकृत-दिव्य-विग्रहस्य परमात्मनः श्री-कृष्णस्य कर्माणि श्लाघितानि चरित्राणि च उद्धवाच् श्रुत्वा तस्यैव भगवतः धीराणां योगिनां धैर्य-वर्द्धनं योग-वर्द्धकं विक्लवात्मनाम् अधीर-चित्तानां पशूनाम् अज्ञानिनां दुष्कर-तरं देह-न्यासं च देह-त्याग-प्रकारं च हे कुरु-श्रेष्ठ ! राजन् कृष्णेन भगवता कर्त्रा मनसा करणेनेक्षितं दृष्टम् आत्मानं स्वात्मानं च श्रुत्वेति-पूर्वेणान्वयः । भागवते उद्धवे गते सति तम् एव श्री-कृष्णम् एव ध्यायन् प्रेम-विह्वलः निरतिशय-भगवत्-प्रेम-परवशः सन् रुरोद ।। ३३-३५ ।।
श्लोक-३६
विश्वास-प्रस्तुतिः
कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभः।
प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः॥
अनुवाद (हिन्दी)
इसके पश्चात् सिद्धशिरोमणि विदुरजी यमुनातटसे चलकर कुछ दिनोंमें गंगाजीके किनारे जा पहुँचे, जहाँ श्रीमैत्रेयजी रहते थे॥ ३६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः॥ ४ ॥
वीरराघवः
कालिन्द्या इति । भागवतर्षभः भागवत-श्रेष्ठो विदुरः स्वयं सिद्ध एव परिनिष्पन्न-भक्ति-योग-निष्ठ एव कतिचिद् अहोभिर् दिनैः कालिंद्या यमुनायाः सकाशात् स्वः-सरितं गंगां प्रापद्यत प्राप्तः, यत्र गंगा-तीरे हरिद्वारे मित्रा-सुतो मैत्रेय आस्ते तत्र प्रापद्यतेत्य् अर्थः ॥ ३६ ॥
इति श्रीमद्-भागवते महा-पुराणे तृतीय-स्कंधे वीर-राघवाचार्य-कृत-भागवत-चंद्र-चंद्रिकायां टीकायां चतुर्थो ऽध्यायः ॥ ४ ॥
-
प्रा. पा. – मनसेप्सितं । ↩︎
-
प्रा. पा. - यः । ↩︎
-
प्रा. पा. - कानिह । ↩︎
-
प्रा. पा. - नूनं । ↩︎
-
प्राचीने पाठे ‘विदुर उवाच’ इति न । ↩︎
-
प्राचीनप्रतौ ‘ननु ते’ इत्यारभ्य आकृतिं त्र्यधीशः ‘पर्यन्तं श्लोकत्रयं नास्ति तथा मध्यपठितम् ‘उवाच’ इत्यपि पदं न वर्तते, टिप्पण्यां सर्वमस्ति । तेनानुमीयते यद्मूले विस्मृतमेतट्टिपण्यां लिखितमिति । ↩︎
-
प्रा. पा. - कालिन्द्यां । ↩︎
-
प्रा. पा. - पारमेद्वा । ↩︎