[द्वितीयोऽध्यायः]
भागसूचना
उद्धवजीद्वारा भगवान्की बाललीलाओंका वर्णन
श्लोक-१
मूलम् (वचनम्)
श्री1शुक उवाच
विश्वास-प्रस्तुतिः
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः॥
मूलम्
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—जब विदुरजीने परम भक्त उद्धवसे इस प्रकार उनके प्रियतम श्रीकृष्णसे सम्बन्ध रखनेवाली बातें पूछीं, तब उन्हें अपने स्वामीका स्मरण हो आया और वे हृदय भर आनेके कारण कुछ भी उत्तर न दे सके॥ १॥
वीरराघवः
एवं विदुरेण पृष्टे उद्धवे तस्य भगवतो-ऽववार-प्रभृति-तत्-समाप्त्य्-अवधि-दिव्य-चेष्टित-वर्णनानुरूपम् उत्तरं वक्ष्यंस् तावद् उद्धवस्य भगवद्-विरहौत्कंठ्यावेशेन प्रतिवचनासामर्थ्यम् आह बादरायणिर् इतीत्य्-आदि-षड्भिः। क्षत्रा विदुरेण प्रियाश्रयां प्रिय-भगवद्-विषयां वार्त्तां प्रत्य्-उक्त-प्रकारेण पृष्टः भागवत उद्भवः औत्कंठ्यात् प्रेम-विशेषात्-स्मारित ईश्वरः श्रीकृष्णो यस्य सः प्रतिवक्तुम् उत्तरं वक्तुं न चोत्सेहे न समर्थो ऽभूत् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यः पञ्चहायनो मात्रा प्रातराशाय याचितः।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया॥
मूलम्
यः पञ्चहायनो मात्रा प्रातराशाय याचितः।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया॥ २ ॥
अनुवाद (हिन्दी)
जब ये पाँच वर्षके थे, तब बालकोंकी तरह खेलमें ही श्रीकृष्णकी मूर्ति बनाकर उसकी सेवा-पूजामें ऐसे तन्मय हो जाते थे कि कलेवेके लिये माताके बुलानेपर भी उसे छोड़कर नहीं जाना चाहते थे॥ २॥
वीरराघवः
एतद् एव कैमुत्य-न्यायेन प्रपंचयति य इति द्वाभ्याम् । पंच-हायनः पंच-वर्षः य उद्धवः मात्रा जनन्या प्रातर्-आसाय प्रात-भोजनार्थं याचितः प्रार्थितः तत् प्रातराशं नैच्छत् कथं-भूतः सन् अस्य श्रीकृष्णस्य सपर्यां पूजां बाललीलया रचयन् बालक्रीडया श्रीकृष्णं कंचित् परिकल्प्या-कल्पितैर् एव साधनैः परिचर्यां कुर्वन्न् इत्य् अर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स कथं सेवया तस्य कालेन जरसं गतः।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन्॥
मूलम्
स कथं सेवया तस्य कालेन 2जरसं गतः।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन्॥ ३ ॥
अनुवाद (हिन्दी)
अब तो दीर्घकालसे उन्हींकी सेवामें रहते-रहते ये बूढ़े हो चले थे; अतः विदुरजीके पूछनेसे उन्हें अपने प्यारे प्रभुके चरणकमलोंका स्मरण हो आया—उनका चित्त विरहसे व्याकुल हो गया। फिर वे कैसे उत्तर दे सकते थे॥ ३॥
श्लोक-४
विश्वास-प्रस्तुतिः
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम्।
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः॥
मूलम्
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम्।
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः॥ ४ ॥
अनुवाद (हिन्दी)
उद्धवजी श्रीकृष्णके चरणारविन्द-मकरन्दसुधासे सराबोर होकर दो घड़ीतक कुछ भी नहीं बोल सके। तीव्र भक्तियोगसे उसमें डूबकर वे आनन्द-मग्न हो गये॥ ४॥
वीरराघवः
एवं बाल्य-प्रभृति तस्य भगवतः सेवया कालेन जरसं जरां वृद्धत्वं गतः प्राप्तः स उद्धवः वार्त्तां प्रति पृष्टः भर्त्तुः श्रीकृष्णस्य पादाव् अनुस्मरन् कथं प्रतिब्रूयात् । एवं प्रत्य् उत्तरासामर्थ्यम् अभिधायाथ तस्य परिपूर्ण-भक्तियोगेन परवशस्य महता प्रयत्नेन सामर्थ्यम् आह समुहूर्तम् इति । |कृष्णाङ्घ्रि-सुधया साधु यथा तथा निर्वृतः भृशम् अत्य्-अन्तं तीव्रेण भक्ति-योगेन निमग्नः पर-वशः स उद्धवः मुहूर्तं मुहूर्तमात्रं तूष्णीम् अभूत् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः।
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः॥
मूलम्
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः।
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः॥ ५ ॥
अनुवाद (हिन्दी)
उनके सारे शरीरमें रोमांच हो आया तथा मुँदे हुए नेत्रोंसे प्रेमके आँसुओंकी धारा बहने लगी। उद्धवजीको इस प्रकार प्रेमप्रवाहमें डूबे हुए देखकर विदुरजीने उन्हें कृतकृत्य माना॥ ५॥
वीरराघवः
पुलकेन रोमांचेनोद्भिन्नं व्याप्तं सर्वम्-अङ्गं यस्य सः मीलद्-दृशा निमीलद्-दृष्ट्या शुचः आनंदाश्रूणि मुञ्चन् स्नेह-प्रसर-संप्लुतः भगवति यः स्नेहः तस्य प्रसरेण संप्लुतो व्याप्तः उद्धवस् तेन विदुरेण पूर्णार्थः कृत-कृत्यो लक्षितः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः।
विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन्॥
मूलम्
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः।
विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन्॥ ६ ॥
अनुवाद (हिन्दी)
कुछ समय बाद जब उद्धवजी भगवान्के प्रेमधामसे उतरकर पुनः धीरे-धीरे संसारमें आये, तब अपने नेत्रोंको पोंछकर भगवल्लीलाओंका स्मरण हो आनेसे विस्मित हो विदुरजीसे इस प्रकार कहने लगे॥ ६॥
वीरराघवः
शनकैर् इति भगवान् एव लोकस् तस्मान् नृलोकं देहानुसंधानं शनकैः पुनर् आगतः । नेत्रे विमृज्य संमृज्य उत्स्मयन् भगवद्-आख्यस्य लोकस्य ज्ञातत्वाद् विस्मयं प्राप्नुवन्न् उद्धवः विदुरं प्रत्याह प्रत्यभाषत ॥ ६ ॥
श्लोक-७
मूलम् (वचनम्)
उद्धव उवाच
विश्वास-प्रस्तुतिः
कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह।
किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम्॥
मूलम्
कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह।
किं नु3 नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम्॥ ७ ॥
अनुवाद (हिन्दी)
उद्धवजी बोले—विदुरजी! श्रीकृष्णरूप सूर्यके छिप जानेसे हमारे घरोंको कालरूप अजगरने खा डाला है, वे श्रीहीन हो गये हैं; अब मैं उनकी क्या कुशल सुनाऊँ॥ ७॥
वीरराघवः
कृष्णेत्य्-आदि कृष्ण एव द्यु-मणिः सूर्यस् तस्य निम्लोचे ऽस्तमये सत्य-जगरेण काल-रूप-महा-सर्पेण नो ऽस्माकं गृहेषु गीर्णेषु सत्सु कुशलं त्वत्-पृष्टानां कुशलम् अहं किं ब्रूयाम् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
दुर्भगो बत लोकोऽयं यदवो नितरामपि।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम्॥
मूलम्
दुर्भगो बत लोकोऽयं यदवो नितरामपि।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम्॥ ८ ॥
अनुवाद (हिन्दी)
ओह! यह मनुष्यलोक बड़ा ही अभागा है; इसमें भी यादव तो नितान्त भाग्यहीन हैं, जिन्होंने निरन्तर श्रीकृष्णके साथ रहते हुए भी उन्हें नहीं पहचाना—जिस तरह अमृतमय चन्द्रमाके समुद्रमें रहते समय मछलियाँ उन्हें नहीं पहचान सकी थीं॥ ८॥
वीरराघवः
दुर्भग इति बतेति खेदे ऽयं लोकः जनः दुर्भगः यादवास् तु सुतराम् अपि दुर्भगाः ये यादवाः संवसंतः श्रीकृष्णेन सह संवसंतोपि हरिं भगवन्तं नाविदुः किंतु स्व-सदृश एवायम् अपीति विदुः तत्र दृष्टान्तः । मीना मत्स्योडुप-प्लवम् इव । मीना ह्य् उडुपम् अयम् अपि कश्चिज् जलचर इति जानन्ति न तूत्तारण-हेतुर् अयम् इति एव यादवा अप्य् अयं श्री-कृष्णः स्वाश्रित-दुरितान्य् अपहरेन् संसार-पारं तारयतीति न जानन्ति किन्तु कश्चिद् यादवो बलवान् एवेति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः।
सात्वतामृषभं सर्वे भूतावासममंसत॥
मूलम्
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः।
सात्वतामृषभं सर्वे भूतावासममंसत॥ ९ ॥
अनुवाद (हिन्दी)
यादवलोग मनके भावको ताड़नेवाले, बड़े समझदार और भगवान्के साथ एक ही स्थानमें रहकर क्रीडा करनेवाले थे; तो भी उन सबने समस्त विश्वके आश्रय, सर्वान्तर्यामी श्रीकृष्णको एक श्रेष्ठ यादव ही समझा॥ ९॥
वीरराघवः
एतद् एवाह इङ्गितज्ञा इति । इङ्गितज्ञाः पर-चित्त-वृत्ति-ज्ञाः अतएव पुरु-प्रौढाः बहु-निपुणाः एकारामाः एक-स्थान-वर्त्तिनश् च सात्वताः यादवाः सर्वे सात्वताम् ऋषभं यादवानां श्रेष्ठं श्री-कृष्णं भूता-वासं क्षेत्रज्ञम् एवामन्यन्त ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ॥
मूलम्
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ॥ १० ॥
अनुवाद (हिन्दी)
किंतु भगवान्की मायासे मोहित इन यादवों और इनसे व्यर्थका वैर ठाननेवाले शिशुपाल आदिके अवहेलना और निन्दासूचक वाक्योंसे भगवत्प्राण महानुभावोंकी बुद्धि भ्रममें नहीं पड़ती थी॥ १०॥
वीरराघवः
न केवलं यादवा एव भूता-वासं श्री-कृष्णम् अमंसत किन्त्व् अन्ये ऽपीत्य् आह देवस्य भगवतो मायया स्पृष्टा मोहिता अत एवासद्-अचेतनं शब्दादिकं भोग्यत्वेनाश्रिताः अन्ये शिशुपालादयः ते सर्वे ऽपि भूतावासम् अमंसतेति पूर्वेणान्वयः तर्हि भगवद्-आदयोपि माया-स्पर्शाविशेषान् न जानीयुर् इत्यत आह भ्राम्यत इति । आत्मनि परमात्मनि हरौ उप्तात्मनां समर्पित-मनसां मादृशानां धीः तद्-वाक्यैर् भगवन्-माया-मोहितानां जीवो ऽयम् इत्य्-आदि-वाक्यैर् न भ्राम्यते ददामि बुद्धि-योगं तं येन माम् उपयान्ति इति भगवतैव गीतत्वाद् इति भावः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम्।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम्॥
मूलम्
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम्।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम्॥ ११ ॥
अनुवाद (हिन्दी)
जिन्होंने कभी तप नहीं किया, उन लोगोंको भी इतने दिनोंतक दर्शन देकर अब उनकी दर्शन-लालसाको तृप्त किये बिना ही वे भगवान् श्रीकृष्ण अपने त्रिभुवन-मोहन श्रीविग्रहको छिपाकर अन्तर्धान हो गये हैं और इस प्रकार उन्होंने मानो उनके नेत्रोंको ही छीन लिया है॥ ११॥
वीरराघवः
भवत्व् एवम् अजस्य वार्त्तां सखे कीर्त्तयेत्यस्य किम् उत्तरम् इत्यत आह प्रदर्श्येत्य्-आदिना । यो भगवान् तप्तं तपो यैस् तेषां अवितृप्ता दृशः येषां नृणां लोक-लोचन-लोकैर् अवलोकनीयं कर्मणि ल्युट् अति-सुंदरं स्वस्य बिम्बं वपुः प्रदर्शयित्वा आदाय स्व-बिम्बं गृहीत्वान्तरधाद् अन्तर्द्दधे । आदायान्तरधाद् इत्य् अनेन स्व-बिम्बेन सहैव गमनम् अप्राकृतवद् इति सूचितम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यन्मर्त्यलीलौपयिकं स्वयोग-
मायाबलं दर्शयता गृहीतम्।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणभूषणाङ्गम्॥
मूलम्
यन्मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतम्।
विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम्॥ १२ ॥
अनुवाद (हिन्दी)
भगवान्ने अपनी योगमायाका प्रभाव दिखानेके लिये मानवलीलाओंके योग्य जो दिव्य श्रीविग्रह प्रकट किया था, वह इतना सुन्दर था कि उसे देखकर सारा जगत् तो मोहित हो ही जाता था, वे स्वयं भी विस्मित हो जाते थे। सौभाग्य और सुन्दरताकी पराकाष्ठा थी उस रूपमें। उससे आभूषण (अंगोंके गहने) भी विभूषित हो जाते थे॥ १२॥
वीरराघवः
लोक-लोचनम् इत्य्-अनेन सूचितम् एव वपुषः सौन्दर्यं वर्णय इति त्रिभिः । यद् इति । मर्त्य-लीलासु मनुष्यलीलास्वौपयिकं योग्यं स्वस्य या योग-माया आश्चर्य-शक्तिः तस्या बलं दर्शयता लोकस्येति शेषः गृहीतं स्वस्यातिविस्मापनम् आश्चर्य-करं सौभगर्द्धेः सौभाग्य-समृद्धेः परं पदं पराकाष्ठा-भूतं भूषण-भूषणाङ्गं भूषणानि कौस्तुभादीनि भूषयन्त्य् अलं कुर्वन्तीति भूषणानि अङ्गानि उरः-प्रभृतीनि यस्मिंस् तद् एवं यद्-वपुः तद् आदायान्तरधाद् इति पूर्वेणान्वयः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
यद्धर्मसूनोर्बत राजसूये
निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः।
कार्त्स्न्येन चाद्येह गतं विधातु-
रर्वाक्सृतौ कौशलमित्यमन्यत॥
मूलम्
यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः।
कार्त्स्न्येन चाद्येह4 गतं विधातुरर्वाक्सृतौ कौशलमित्यमन्यत॥ १३ ॥
अनुवाद (हिन्दी)
धर्मराज युधिष्ठिरके राजसूय यज्ञमें जब भगवान्के उस नयनाभिराम रूपपर लोगोंकी दृष्टि पड़ी थी, तब त्रिलोकीने यही माना था कि मानव-सृष्टिकी रचनामें विधाताकी जितनी चतुराई है, सब इसी रूपमें पूरी हो गयी है॥ १३॥
वीरराघवः
यदिति । धर्म-सूनोर् युधिष्ठिरस्य राजसूये यागे त्रि-लोकं त्रि-भुवन-स्थ-लोकं दृशां स्वस्त्य्-अयनं परमानन्द-करं यद्-वपुर् निरीक्ष्य विधातुर् ब्रह्मणः अर्वाक्-सृतौ अर्वाचीन-मनुष्य-सृष्टौ यत्-कौशलं नैपुण्यं तत् कार्त्स्न्येन साकल्येन इह वपुषि अद्य इदानीं गतं पर्यवसितम् इत्य् अमन्यत मेने विधातुः कौशलं कार्त्स्न्येनास्मिन्न् एव वपुष्य् उपक्षीणं नातः परं तस्य कौशलम् अस्तीत्य् एवम् मेने, इत्य् अर्थः । तद्-वपुषो विधात्रसृष्टत्वे ऽपि लोक-दृष्टेर् इयम् उक्तिः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यस्यानुरागप्लुतहासरास-
लीलावलोकप्रतिलब्धमानाः।
व्रजस्त्रियो दृग्भिरनुप्रवृत्त-
धियोऽवतस्थुः किल कृत्यशेषाः॥
मूलम्
यस्यानुरागप्लुतहासरासलीलावलोकप्रतिलब्धमानाः।
व्रजस्त्रियो दृग्भिरनुप्रवृत्तधियोऽवतस्थुः किल कृत्यशेषाः॥ १४ ॥
अनुवाद (हिन्दी)
उनके प्रेमपूर्ण हास्य-विनोद और लीलामय चितवनसे सम्मानित होनेपर व्रजबालाओंकी आँखें उन्हींकी ओर लग जाती थीं और उनका चित्त भी ऐसा तल्लीन हो जाता था कि वे घरके काम-धंधोंको अधूरा ही छोड़कर जड पुतलियोंकी तरह खड़ी रह जाती थीं॥ १४॥
वीरराघवः
यस्येति । यस्य भगवतो ऽनुरागेण वृत्तः हासो हसनं रासः क्रीडा लीलावलोकश् च तैः साधनैः प्रतिलब्धः मानो बहुमानो याभिस् ता व्रज-स्त्रियः दृग्भिः सहानुप्रवृत्त-धियः अनुप्रवृत्ताः गच्छन्तम् एवानुगताः धियो यासां ताः भगवद्-गृहानुवृत्त्य्-अन्तर्-ब्राह्मेन्द्रिय-वृत्तय इत्य् अर्थः । अत एव खिल-कृत्य-शेषाः खिलस्य कृत्यस्य शेषो यासां ताः कृत्याकृत्य-विवेक-शून्याः सत्यो ऽवतस्थुः किल-कृत्त्य-शेषा इत्य् अयम् अपि पाठः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
स्वशान्तरूपेष्वितरैः स्वरूपै-
रभ्यर्द्यमानेष्वनुकम्पितात्मा।
परावरेशो महदंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्निः॥
मूलम्
स्व5शान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा।
परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः॥ १५ ॥
अनुवाद (हिन्दी)
चराचर जगत् और प्रकृतिके स्वामी भगवान्ने जब अपने शान्तरूप महात्माओंको अपने ही घोररूप असुरोंसे सताये जाते देखा, तब वे करुणाभावसे द्रवित हो गये और अजन्मा होनेपर भी अपने अंश बलरामजीके साथ काष्ठमें अग्निके समान प्रकट हुए॥ १५॥
वीरराघवः
नन्वीदृशं भुवन-सुन्दरं वपुः किम्-अर्थम् अन्तर्द्धापितवान् इतीमाम् आशङ्कां वपुः-परिग्रह-निमित्तं वपुषः स्वरूपं चाह स्व-शान्त-रूपेष्व् इति । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद्-धस्तसत्यं वानृतं च सत्यम् अभवद् इत्य्-आदि श्रुत्य्-उक्त-रीत्या सर्वाणि सत्त्व-प्रचुराणि रजस्-तमः-प्रचुराणि च रूपाणि स्वस्यैव रूपाणि स्वस्यैव शरीराणि तत्र प्रशान्त-रूपेषु सत्त्वोत्तरेषु रूपेषु इतरैः स्व-रूपैर् अर्द्यमानेषु पीड्यमानेषु सत्सु अनुकम्पितः आत्मा चित्तं यस्य सः सत्त्वोत्तरेष्व् अनुकम्पा-परः परावरेशः सत्त्वाधिपतिः भगवान् अजो ऽपि कर्मायत्तोत्पत्ति-शून्यो ऽपि महद्-अंश-युक्तः महतां ऽशेन च राम-रूपेण युक्तः अकर्मायत्त-स्वेच्छोपात्ताप्राकृत-दिव्य-रूप-विशिष्टो ऽवतीर्ण इत्य् अर्थः । यथाग्निर् दार्वादिष्व् आविर्भवन् स्व-स्वभावम् अजहन्न् एवाविर् भवति तथायम् अपि भगवान् देव-मनुष्यादि-योनिष्व् आविर्भवन् निरस्त-निखिल-दोषानवधिकातिशयासंख्येय-कल्याण-गुणाकरत्व-स्वभावम् अजहन्न् एवावतीर्ण इति दृष्टान्ताभिप्रायः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
मां खेदयत्येतदजस्य जन्म-
विडम्बनं यद्वसुदेवगेहे।
व्रजे च वासोऽरिभयादिव स्वयं
पुराद् व्यवात्सीद्यदनन्तवीर्यः॥
मूलम्
मां खेदयत्येतदजस्य जन्मविडम्बनं यद्वसुदेवगेहे।
व्रजे च वासोऽरिभयादिव स्वयं पुराद् व्यवात्सीद्यदनन्तवीर्यः॥ १६ ॥
अनुवाद (हिन्दी)
अजन्मा होकर भी वसुदेवजीके यहाँ जन्म लेनेकी लीला करना, सबको अभय देनेवाले होनेपर भी मानो कंसके भयसे व्रजमें जाकर छिप रहना और अनन्तपराक्रमी होनेपर भी कालयवनके सामने मथुरापुरीको छोड़कर भाग जाना—भगवान्की ये लीलाएँ याद आ-आकर मुझे बेचैन कर डालती हैं॥ १६॥
वीरराघवः
अजहत्-सर्वज्ञत्व-सत्य-सङ्कल्पत्व-ज्ञान-शक्त्य्-आदि-स्वभावस्यैव पुनर् मर्त्य-लीलानुकार ऐश्वर्याच्छादको न कर्मायत्त इत्य् आह माम् इति द्वयेन । अजस्य भगवतः वसुदेव-गेहे बन्धनागारे यज्-जन्मनो विडम्बनम् अनुकरणं न तु नृसिंहवद् अकस्माद् आविर्भावः पश्चात् स्वयम् अनन्त-वीर्यः कंस-भयाद् इव व्रजे च वासः कालयवनादि-भयाद् इव पुरान् मथुराया व्यवात्सीत् प्रोषितवान् इति च यद् एतन् मां खेदयति मत् चित्तं व्यामोहयति एतत् सर्वम् ऐश्वर्याच्छादकम् एवेत्य् अर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
दुनोति चेतः स्मरतो ममैतद्
यदाह पादावभिवन्द्य पित्रोः।
ताताम्ब कंसादुरुशङ्कितानां
प्रसीदतं नोऽकृतनिष्कृतीनाम्॥
मूलम्
दुनोति चेतः स्मरतो ममैतद् यदाह पादावभिवन्द्य पित्रोः।
ताताम्ब कंसादुरुशङ्कितानां प्रसीदतं नोऽकृतनिष्कृतीनाम्॥ १७ ॥
अनुवाद (हिन्दी)
उन्होंने जो देवकी-वसुदेवकी चरण-वन्दना करके कहा था—‘पिताजी, माताजी! कंसका बड़ा भय रहनेके कारण मुझसे आपकी कोई सेवा न बन सकी, आप मेरे इस अपराधपर ध्यान न देकर मुझपर प्रसन्न हों।’ श्रीकृष्णकी ये बातें जब याद आती हैं, तब आज भी मेरा चित्त अत्यन्त व्यथित हो जाता है॥ १७॥
वीरराघवः
दुनोतीति पित्रोर् देवकी-वसुदेवयोः पादाव् अभिवन्द्य नमस्कृत्य हे तात पितः हे अम्ब मातः कंसाद् उर्व् अधिकं शङ्कितानां भीतानाम् अकृत-निष्कृतीनाम् अकृत-शुश्रूषाणां नो ऽस्माकं युवां प्रसीदतं प्रसादं कुरुतम् इति यद् आह, एतत् स्मरतो मम चित्तं कर्म दुनोति खेदयति ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
को वा अमुष्याङ्घ्रिसरोजरेणुं
विस्मर्तुमीशीत पुमान् विजिघ्रन्।
यो विस्फुरद्भ्रूविटपेन भूमे-
र्भारं कृतान्तेन तिरश्चकार॥
मूलम्
को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान् विजिघ्रन्।
यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार॥ १८ ॥
अनुवाद (हिन्दी)
जिन्होंने कालरूप अपने भ्रुकुटिविलाससे ही पृथ्वीका सारा भार उतार दिया था, उन श्रीकृष्णके पाद-पद्मपरागका सेवन करनेवाला ऐसा कौन पुरुष है, जो उसे भूल सके॥ १८॥
वीरराघवः
क इति । अमुष्य श्रीकृष्णस्याङ्घ्रि-सरोज-रेणुं विजिघ्रन् को वा पुमान् विस्मर्तुम् ईशीत शक्नुयात्? यः कृष्णः भ्रूर् एव विटपः विस्फुरंच्-चलन्यो भ्रू-विटपः तेन भ्रू-भङ्गानुवर्तिना कृतान्तेन मृत्युना भूमेर् भारं तिरश्-चकारापहृतवान् । भ्रू-भङ्गेन भू-भारापहरणम् ऐश्वर्य-प्रकाशकम् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
दृष्टा भवद्भिर्ननु राजसूये
चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः।
यां योगिनः संस्पृहयन्ति सम्यग्
योगेन कस्तद्विरहं सहेत॥
मूलम्
दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः।
यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस्तद्विरहं सहेत॥ १९ ॥
अनुवाद (हिन्दी)
आपलोगोंने राजसूय यज्ञमें प्रत्यक्ष ही देखा था कि श्रीकृष्णसे द्वेष करनेवाले शिशुपालको वह सिद्धि मिल गयी, जिसकी बड़े-बड़े योगी भलीभाँति योग-साधना करके स्पृहा करते रहते हैं। उनका विरह भला कौन सह सकता है॥ १९॥
वीरराघवः
दृष्टेति । राजसूये कृष्णं द्विषतो ऽपि चैद्यस्य शिशुपालस्य सिद्धि-भगवत्-प्राप्तिर् भवद्भिर् दृष्टा । ननु कथं-भूता सिद्धिः यां सिद्धिं योगिनः भक्ति-योग-निष्ठाः सम्यग्-योगैनैकान्त-भक्तियोगेन संस्पृहयन्ति वाञ्छन्ति । तस्य द्विषतो ऽपि निरतिशय-पुरुषार्थ-रूप-मुक्तिं प्रयच्छतो वात्सल्य-निधेः श्री-कृष्णस्य विरहं कः सहेत ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
तथैव चान्ये नरलोकवीरा
य आहवे कृष्णमुखारविन्दम्।
नेत्रैः पिबन्तो नयनाभिरामं
पार्थास्त्रपूताः पदमापुरस्य॥
मूलम्
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम्।
नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य॥ २० ॥
अनुवाद (हिन्दी)
शिशुपालके ही समान महाभारत-युद्धमें जिन दूसरे योद्धाओंने अपनी आँखोंसे भगवान् श्रीकृष्णके नयनाभिराम मुखकमलका मकरन्द पान करते हुए अर्जुनके बाणोंसे बिंधकर प्राणत्याग किया, वे पवित्र होकर सब-के-सब भगवान्के परमधामको प्राप्त हो गये॥ २०॥
वीरराघवः
न केवलं द्विषतां भजतां च स्व-पद-प्रापकः, उदासीनानाम् अपीत्य् आह तथैवेति । ये युद्धे नयनाभिरामं नयनानन्द-करं श्री-कृष्ण-मुख-कमलं नेत्रैः पिबन्तो ऽनुभवन्तः पार्थस्यार्जुनस्यास्त्रैः पूताः पवित्रिताः अन्ये ऽपि राजानः अस्य भगवतः पदं स्थानम् आपुः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
स्वयं त्वसाम्यातिशयस्त्र्यधीशः
स्वाराज्यलक्ष्म्याप्तसमस्तकामः।
बलिं हरद्भिश्चिरलोकपालैः
किरीटकोट्येडितपादपीठः॥
मूलम्
स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वा6राज्यलक्ष्म्याप्तसमस्तकामः।
बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः॥ २१ ॥
अनुवाद (हिन्दी)
स्वयं भगवान् श्रीकृष्ण तीनों लोकोंके अधीश्वर हैं। उनके समान भी कोई नहीं है, उनसे बढ़कर तो कौन होगा। वे अपने स्वतःसिद्ध ऐश्वर्यसे ही सर्वदा पूर्णकाम हैं। इन्द्रादि असंख्य लोकपालगण नाना प्रकारकी भेंटें ला-लाकर अपने-अपने मुकुटोंके अग्रभागसे उनके चरण रखनेकी चौकीको प्रणाम किया करते हैं॥ २१॥
वीरराघवः
एवं मर्त्य-लीलाम् अनुकुर्वतो भू-भारावतरण-मुक्ति-प्रदत्वादिकम् ऐश्वर्य-प्रकाशकम् अभिहितं, पुनर् ऐश्वर्यं प्रकाशयतो मर्त्य-लीलानु-कृतिम् आह स्वयम् इति । द्वाभ्याम् असाम्यातिशयः समाभ्यधिक-रहितः अत एव त्र्यधीशः प्रकृत-पुरुष-कालानाम् ईशः, यद् वा त्रि-लोकाधिपतिः सत्त्वादि-गुणेशो वा अतः स्व-राज्य-लक्ष्म्या स्वराड् अनन्यायत्तः, तस्य भावः स्व-राज्यं तेन या लक्ष्मीर् ऐश्वर्यादि-संपत्तिस् तया आप्ताः समस्ताः कामा यस्य सः । नित्यं निहित-भोग्याभोगोपकरण-भोग-स्थान-समृद्ध इत्य् अर्थः । बलिं पूजां हरद्भिः स्वीकुर्वद्भिः चिर-लोक-पालैश् चिरं लोकपान् पालयद्भिः किरीटानां कोटिभिर् ईडितः सेवितः पाद-पीठो यस्य सः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तत्तस्य कैङ्कर्यमलं भृतान्नो
विग्लापयत्यङ्ग यदुग्रसेनम्।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये
न्यबोधयद्देव निधारयेति॥
मूलम्
तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम्।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति॥ २२ ॥
अनुवाद (हिन्दी)
विदुरजी! वे ही भगवान् श्रीकृष्ण राजसिंहासनपर बैठे हुए उग्रसेनके सामने खड़े होकर निवेदन करते थे, ‘देव! हमारी प्रार्थना सुनिये।’ उनके इस सेवा-भावकी याद आते ही हम-जैसे सेवकोंका चित्त अत्यन्त व्यथित हो जाता है॥ २२॥
वीरराघवः
स्वयम् एवं-भूतो ऽपि भगवान् अङ्ग हे विदुर, परमेष्ठि-धिष्ण्ये सार्वभौम-सिंहासने विनिषणम् उपविष्टम् उग्रसेनं प्रति स्वयं तिष्ठन् हे देव निधारयावधारयेति अबोधयद् विज्ञापितवान् । तद्-ज्ञापन-वचः तस्य भगवतः कैङ्कर्यं किङ्कर-भावम् उपाश्रितान् अस्मान् अलं भृतान् पाठेप्य् अयम् एवार्थः । अस्मान् विग्लापयति विस्मारयतीत्य् अर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
अहो बकी यं स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी।
लेभे गतिं धात्र्युचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम॥
मूलम्
अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी।
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम॥ २३ ॥
अनुवाद (हिन्दी)
पापिनी पूतनाने अपने स्तनोंमें हलाहल विष लगाकर श्रीकृष्णको मार डालनेकी नियतसे उन्हें दूध पिलाया था; उसको भी भगवान्ने वह परम गति दी, जो धायको मिलनी चाहिये। उन भगवान् श्रीकृष्णके अतिरिक्त और कौन दयालु है, जिसकी शरण ग्रहण करें॥ २३॥
वीरराघवः
पुनर् ऐश्वर्यं दयालुतां चाह अहो इत्य् आश्चर्ये । इयं बकी पूतना स्तन-कालकूटं स्तनयोः संभृतं काल-कूट-विषं जिघांसया हन्तुम् इच्छया ऽपाययद् एवम् असाध्वी दुष्टापि बकी धात्र्या यशोदाया उचितां तत्-संबन्धिनीं गतिं लेभे प्राप्तवती एवम् अपराधवत्या अपि मुक्तिं यो दत्तवान् ततो भगवतो ऽन्यं दयालुं कं पुरुषं शरणं भजेम व्रजेम ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
मन्येऽसुरान् भागवतांस्त्र्यधीशे
संरम्भमार्गाभिनिविष्टचित्तान्।
ये संयुगेऽचक्षत तार्क्ष्यपुत्र-
मंसेसुनाभायुधमापतन्तम्॥
मूलम्
मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्।
ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम्॥ २४ ॥
अनुवाद (हिन्दी)
मैं असुरोंको भी भगवान्का भक्त समझता हूँ; क्योंकि वैरभावजनित क्रोधके कारण उनका चित्त सदा श्रीकृष्णमें लगा रहता था और उन्हें रणभूमिमें सुदर्शनचक्रधारी भगवान्को कंधेपर चढ़ाकर झपटते हुए गरुड़जीके दर्शन हुआ करते थे॥ २४॥
वीरराघवः
ननु नान्यः पन्था विद्यते ऽयनायेति भगवतः भक्ति-योग-प्राप्यत्व-श्रवणात् कथम् उदासीनानां द्विषतां च मुक्तिं प्रायच्छद् इत्य् उच्यत इत्यत आह मन्य । इति अघीशे त्रि-लोकेशे भगवति ये संरंभ-मार्गाभिनिविष्ट-चित्ताः संरंभः क्रोधावेशः तेन मार्गेण अभिनिविष्टं चित्तं येषां ते ये च संयुगे । युद्धे प्राणान्स्त्यक्ष्यन्तस् तार्क्ष्य-पुत्रस्य गरुत्मतो ऽसे भुजे आपतन्तम् अधितिष्ठन्तं सुनाभं च क्रमायुधं यस्य तत् सुनाभायुधं चक्रायुध-धरं भगवन्तम् अचक्षतापश्यत तान् सर्वान् असुरान् दैव-संपत्त्या जातान् भागवतान् भगवद्-भक्तान् एव मन्ये तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेद् इति वक्ष्यमाण-रीत्या भक्ति-योग-निष्ठ-तुल्या एव द्विषद्-आदयोपीति भावः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने।
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः॥
मूलम्
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने।
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः॥ २५ ॥
अनुवाद (हिन्दी)
ब्रह्माजीकी प्रार्थनासे पृथ्वीका भार उतारकर उसे सुखी करनेके लिये कंसके कारागारमें वसुदेव-देवकीके यहाँ भगवान्ने अवतार लिया था॥ २५॥
वीरराघवः
अथवावतार-प्रभृति-दिव्य-चेष्टितानि सङ्ग्रहेण वर्णयति वसुदेवस्येत्य् आदिना । भोजेन्द्रः कंसस् तस्य बन्धने कारागृहे वसुदेवस्य तद्-भार्यायां देवक्यां जातः प्रादुर्भूतः कथं-भूतो भगवान् समग्र-ज्ञान-शक्ति-बलैश्वर्यादि-सम्पन्नः अजेन ब्रह्मणाभियाचितः प्रार्थितः अस्या भूमेः कं सुखं चिकीर्षुः कर्तुम् इच्छुः एवं-भूतो ऽवतीर्ण इत्य् अर्थः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता।
एकादश समास्तत्र गूढार्चिः सबलोऽवसत्॥
मूलम्
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता।
एकादश समास्तत्र गूढार्चिः सबलोऽवसत्॥ २६ ॥
अनुवाद (हिन्दी)
उस समय कंसके डरसे पिता वसुदेवजीने उन्हें नन्दबाबाके व्रजमें पहुँचा दिया था। वहाँ वे बलरामजीके साथ ग्यारह वर्षतक इस प्रकार छिपकर रहे कि उनका प्रभाव व्रजके बाहर किसीपर प्रकट नहीं हुआ॥ २६॥
वीरराघवः
कंसाद् विबिभ्यताति-भीतेन पित्रा वसुदेवेन निमित्त-भूतेन नन्दव्रजम् इतः गतः एकादश-समाः संवत्सरान् तत्र नन्द-व्रजे गूढार्चिर्-अनभिव्यक्तैश्वर्यः सबलः सरामः अवसद् उषितवान् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभुः।
यमुनोपवने कूजद् द्विजसंकुलिताङ्घ्रिपे॥
मूलम्
परीतो वत्सपैर्वत्सांश्चारयन् व्याहर7द्विभुः।
यमुनोपवने कूजद्द्विजसंकुलिताङ्घ्रिपे॥ २७ ॥
अनुवाद (हिन्दी)
यमुनाके उपवनमें, जिसके हरे-भरे वृक्षोंपर कलरव करते हुए पक्षियोंके झुंड-के-झुंड रहते हैं, भगवान् श्रीकृष्णने बछड़ोंको चराते हुए ग्वालबालोंकी मण्डलीके साथ विहार किया था॥ २७॥
वीरराघवः
किं कुर्वन्न् अवसद् इत्य् अत आह परीत इति । वत्सपैर् वत्स-पालकैः सह-वत्सान् परितश् चारयन् कूजद्भिः शब्दं कुर्वद्भिर् ये सङ्कुचिताः व्याप्ता अङ्घ्रिषाः वृक्षाः यस्मिन् तस्मिन् यमुनायाः नद्या उपवने प्रान्त-वने स्वयं विभुः सर्वान्तर्यामी सन् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम्।
रुदन्निव हसन्मुग्धबालसिंहावलोकनः॥
मूलम्
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम्।
रुदन्निव हसन्मुग्धबालसिंहावलोकनः॥ २८ ॥
अनुवाद (हिन्दी)
वे व्रजवासियोंकी दृष्टि आकृष्ट करनेके लिये अनेकों बाल-लीला उन्हें दिखाते थे। कभी रोने-से लगते, कभी हँसते और कभी सिंहशावकके समान मुग्ध दृष्टिसे देखते॥ २८॥
श्लोक-२९
विश्वास-प्रस्तुतिः
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम्।
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत्॥
मूलम्
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम्।
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत्॥ २९ ॥
अनुवाद (हिन्दी)
फिर कुछ बड़े होनेपर वे सफेद बैल और रंग-बिरंगी शोभाकी मूर्ति गौओंको चराते हुए अपने साथी गोपोंको बाँसुरी बजा-बजाकर रिझाने लगे॥ २९॥
वीरराघवः
कौमार-विंध्य-वासिनां प्रेक्षणीयां चेष्टां दर्शयन् स्वयं हसन्न् इव रुदन्न् इव मुग्धः सुंदरो बालसिंहः तस्येवालोकनं यस्य सः व्यहरद् आक्रीडद् इति श्लोक-द्वयम् एकान्वयम् ॥ २८-२९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः।
लीलया व्यनुदत्तांस्तान् बालः क्रीडनकानिव॥
मूलम्
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः।
लीलया व्यनुदत्तांस्तान् बालः क्रीडनकानिव॥ ३० ॥
मूलम् - कर्णावती
प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः।
लीलयाव्यनुदत्तांस्तान् बालः क्रीडनकानिव॥ ३० ॥
अनुवाद (हिन्दी)
इसी समय जब कंसने उन्हें मारनेके लिये बहुत-से मायावी और मनमाना रूप धारण करनेवाले राक्षस भेजे, तब उनको खेल-ही-खेलमें भगवान्ने मार डाला—जैसे बालक खिलौनोंको तोड़-फोड़ डालता है॥ ३०॥
वीरराघवः
प्रयुक्तान् इति भोज-राजेन कंसेन प्रयुक्तान् प्रेषितान् मायिनः वञ्चकान् काम-रूपिणः स्वेच्छानुरूप-वेष-धारिणः तांस्-तान् शकट-धेनुकारिष्टादीन् व्यनुदद् अहन् बालः क्रीडनकानि वेत्य् अनायासे दृष्टान्तः क्रीडनकान् क्रीडार्थं स्व-कल्पितोपकरणानीत्य् अर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
विपन्नान् विषपानेन निगृह्य भुजगाधिपम्।
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम्॥
मूलम्
विपन्नान् विषपानेन निगृह्य भुजगाधिपम्।
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम्॥ ३१ ॥
अनुवाद (हिन्दी)
कालियनागका दमन करके विष मिला हुआ जल पीनेसे मरे हुए ग्वालबालों और गौओंको जीवितकर उन्हें कालियदहका निर्दोष जल पीनेकी सुविधा कर दी॥ ३१॥
वीरराघवः
विपन्नान् इति । विष-तोयेन कालिय-हृद-जलेन विपन्नान् आपन्नान् मूर्छितान् इत्य् अर्थः । दृष्ट्वेति शेषः । भुजगाधिपं कालियं निगृह्य विपन्नान् उत्थाप्य प्रकृति-स्थितं स्वभाव-स्थितं तोयं जलं गाः अपाययत् पानम् अकारयत् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः।
वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः॥
मूलम्
अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः।
वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः॥ ३२ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णने बढ़े हुए धनका सद्व्यय करानेकी इच्छासे श्रेष्ठ ब्राह्मणोंके द्वारा नन्दबाबासे गोवर्धनपूजारूप गोयज्ञ करवाया॥ ३२॥
वीरराघवः
अयाजयद् इति । उरु-भारस्य बहु-भारस्य संभृतस्य वित्तस्य सद्-व्ययं समीचीनोपयोगं चिकीर्षन् प्रभुः द्विजोत्तमैः सहितः गो-सवेन गो-सवाख्य-यागेन गोप-राजं नन्दम् अयजत् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता॥
मूलम्
वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता॥ ३३ ॥
अनुवाद (हिन्दी)
भद्र! इससे अपना मानभंग होनेके कारण जब इन्द्रने क्रोधित होकर व्रजका विनाश करनेके लिये मूसलधार जल बरसाना आरम्भ किया, तब भगवान्ने करुणावश खेल-ही-खेलमें छत्तेके समान गोवर्धन पर्वतको उठा लिया और अत्यन्त घबराये हुए व्रजवासियोंकी तथा उनके पशुओंकी रक्षा की॥ ३३॥
वीरराघवः
वर्षतीति । भग्न-माने विहत-पूजे इन्द्रे कोपाद् वर्षति सति हे भद्र विदुर अति-विह्वलः अत्य्-आपन्नः व्रजः अनुगृह्णता गोत्रं पर्वत एव लीला-पत्रं यस्य तेन भगवता त्रातः रक्षितः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम्।
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः॥
मूलम्
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम्।
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः॥ ३४ ॥
अनुवाद (हिन्दी)
सन्ध्याके समय जब सारे वृन्दावनमें शरत् के चन्द्रमाकी चाँदनी छिटक जाती, तब श्रीकृष्ण उसका सम्मान करते हुए मधुर गान करते और गोपियोंके मण्डलकी शोभा बढ़ाते हुए उनके साथ रासविहार करते॥ ३४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः॥ २ ॥
वीरराघवः
शरदि शरत्-काले यः शशो चन्द्रमास् तस्य करैः किरणैर् मृष्टम् उज्ज्वलं रजनी-मुखं प्रदोषं मानयन् कृतार्थतां तस्यापादयन्न् इत्य् अर्थः । स्त्रीणां गोपीनां मण्डलं मण्डयति भूषयतीति मण्डल-मण्डनः कलान्य् अव्यक्त-मधुराणि पदान्य् अक्षराणि यस्मिन् कर्मणि तथा गायन् रेमे ऽरमत् ॥ ३४ ॥