०१

[प्रथमोऽध्यायः]

भागसूचना

उद्धव और विदुरकी भेंट

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्॥

मूलम्

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत्॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! जो बात तुमने पूछी है, वही पूर्वकालमें अपने सुख-समृद्धिसे पूर्ण घरको छोड़कर वनमें गये हुए विदुरजीने भगवान् मैत्रेयजीसे पूछी थी॥ १॥

श्लोक-२

विश्वास-प्रस्तुतिः

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः।
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम्॥

मूलम्

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः।
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम्॥ २ ॥

अनुवाद (हिन्दी)

जब सर्वेश्वर भगवान् श्रीकृष्ण पाण्डवोंके दूत बनकर गये थे, तब वे दुर्योधनके महलोंको छोड़कर, उसी विदुरजीके घरमें उसे अपना ही समझकर बिना बुलाये चले गये थे॥ २॥

वीरराघवः

अथ भगवान् बादरायणिः पूर्व-स्कन्धान्ते “यथापुरस्ताद् व्याख्यास्ये पाद्मं कल्पम् अथो शृण्वति” ज्ञातम् अर्थं प्रतिपादयिषुः, स्व-प्रतिपिपादयिषितस्य प्रामाणिकत्व-प्रथिम्ने विदुर-मैत्रेय-संवादं प्रस्तोष्यन्, भवताहम् इव मैत्रेयो ऽपि विदुरेण पृष्ट इत्य् आह श्लोक-द्वयेन एवम् इति । वः पाण्डवानां मन्त्र-कृद्दौत्य-कर्त्ता अखिलेश्वरः, यमस् तद्-अंश-भूतो भगवान् विदुरः, आत्म-सात्कृतं स्वकीयत्व-बुद्ध्या परिगृहीतं पौरवेन्द्र-गृहं पौरवेन्द्रो धृतराष्ट्रस् तस्य गृहं हित्वा त्यक्त्वा, यद्वा यदा वा “प्रविवेश वनम्” इति शेषः, तदा ऋद्धिमत्-संपन्नं स्व-गृहं त्यक्त्वा वनं प्रविष्टेन विदुरेण क्षत्रा भगवान् मैत्रेयो मित्रा-सुतः कौषारविः एतद् भगवता पृष्टं प्रत्येवं भवदीय-प्रश्नानुसारेण पुरा पृष्टः । “त्यक्त्वा स्व-गृहम्” इति, “पौरवेन्द्र-गृहं हित्व् इति” च कायिको मानसश् च त्यागो विवक्षितः, अतो न पौनरुक्त्यम् । गृहस्यर्द्धिमत्त्वहेतुतया “भगवान् अखिलेश्वरः” इति श्री-कृष्णस्य पौरेवेन्द्र-गृह-प्रवेश-कथनम् असंगतम्, तद्-गृहस्य भगवन्-निग्रह-विषयतया विनंक्ष्यमाणत्वेनर्द्धिसत्त्वे वर्णनासंगत्याद्धित्वेति-पदास्वारस्याच् च ॥ १-२ ॥

श्लोक-३

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः।
कदा वा सह संवाद एतद्वर्णय नः प्रभो॥

मूलम्

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः।
कदा वा सह संवाद एतद्वर्णय नः प्रभो॥ ३ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने पूछा—प्रभो! यह तो बतलाइये कि भगवान् मैत्रेयके साथ विदुरजीका समागम कहाँ और किस समय हुआ था?॥ ३॥

श्लोक-४

विश्वास-प्रस्तुतिः

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः।
तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः॥

मूलम्

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः।
तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः॥ ४ ॥

अनुवाद (हिन्दी)

पवित्रात्मा विदुरने महात्मा मैत्रेयजीसे कोई साधारण प्रश्न नहीं किया होगा; क्योंकि उसे तो मैत्रेयजी-जैसे साधुशिरोमणिने अभिनन्दनपूर्वक उत्तर देकर महिमान्वित किया था॥ ४॥

श्लोक-५

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति॥

मूलम्

स एवमृ1षिवर्योऽयं पृष्टो राज्ञा परीक्षिता।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति॥ ५ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—सर्वज्ञ शुकदेवजीने राजा परीक्षित् के इस प्रकार पूछनेपर अति प्रसन्न होकर कहा—सुनो॥ ५॥

वीरराघवः

एवं स पृष्टो राज्ञा मुनिर् आहेति सूत आह स इति । राज्ञा परीक्षिता एवम् आपृष्टः साकल्येन पृष्टः सुबहुवित् सुष्टु । बहुवेत्तीति सुबहुविद् मुनिः श्रीशुकः प्रीतात्मा समीचीन-प्रश्नेन संतुष्ट-चित्तः श्रूयताम् इत्य् आमंत्र्य राजानं प्रत्य् आह ॥ ५ ॥

श्लोक-६

मूलम् (वचनम्)

श्रीशु2क उवाच

विश्वास-प्रस्तुतिः

यदा तु राजा स्वसुतानसाधून्
पुष्णन्नधर्मेण विनष्टदृष्टिः।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षाभवने ददाह॥

मूलम्

यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टदृष्टिः।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह॥ ६ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहने लगे—परीक्षित्! यह उन दिनोंकी बात है, जब अन्धे राजा धृतराष्ट्रने अन्यायपूर्वक अपने दुष्ट पुत्रोंका पालन-पोषण करते हुए अपने छोटे भाई पाण्डुके अनाथ बालकोंको लाक्षाभवनमें भेजकर आग लगवा दी॥ ६॥

वीरराघवः

एवं राज्ञा पृष्टो मुनिस् तम् एव संवादं प्रतुष्टूषुस् तावद् विदुरस्य पौरवेन्द्र-गृह-त्यागे निमित्तान्य् आह यदेति । यदा राजा धृतराष्ट्रो यविष्ठस्य कनीयसो भ्रातुः पांडोः सुतान् विबंधून् पितृहीनान् युधिष्ठिरादीन् लाक्षा-भवने जतु-गृहे प्रवेश्य प्रविष्टान् कृत्वा ददाह दग्धवान् तदा स विदुरः अपासरद् गत इत्य् एकादशे क्रिया-सम्बन्धः एवम् उभयत्रापि । कथंभूतो राजा विनष्ट-दृष्टिः विनष्टा दृष्टिर् धन-विषयकं ज्ञानं चक्षुश् च यस्य सः अत एवाधर्मेणासाधून् बालान् स्वसुतान् पुष्णन् एवंभूतो ददात्य् अन्वयः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यदा सभायां कुरुदेवदेव्याः
केशाभिमर्शं सुतकर्म गर्ह्यम्।
न वारयामास नृपः स्नुषायाः
स्वास्रैर्हरन्त्याः कुचकुङ्‍कुमानि॥

मूलम्

यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम्।
न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुवकुङ्‍कुमानि॥ ७ ॥

अनुवाद (हिन्दी)

जब उनकी पुत्रवधू और महाराज युधिष्ठिरकी पटरानी द्रौपदीके केश दुःशासनने भरी सभामें खींचे, उस समय द्रौपदीकी आँखोंसे आँसुओंकी धारा बह चली और उस प्रवाहसे उसके वक्षःस्थलपर लगा हुआ केसर भी बह चला; किन्तु धृतराष्ट्रने अपने पुत्रको उस कुकर्मसे नहीं रोका॥ ७॥

वीरराघवः

यदा च नृपः धृतराष्ट्रः सभायां कुरु-देवस्य युधिष्ठिरस्य देव्या द्रौपद्याः केशाभिमर्श-रूपं गर्ह्यं निंदितं सुत-कर्म पुत्र-कर्तृकं कर्म न वारयामास तदायाद् इत्य् अन्वयः । कथंभूतायाः कुरु-देव्याः आत्मनः स्नुषायाः स्वास्त्रैः स्वीयैर् अश्रुभिः कुच-कुङ्कुमानि स्व-स्तन-गत-कुङ्कुमानि हरंत्याः अपहरंत्याः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

द्यूते त्वधर्मेण जितस्य साधोः
सत्यावलम्बस्य वनागतस्य।
न याचतोऽदात्समयेन दायं
तमो जुषाणो यदजातशत्रोः॥

मूलम्

द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनागतस्य।
न याचतोऽदात्समयेन दायं तमो जुषाणो यदजातशत्रोः॥ ८ ॥

अनुवाद (हिन्दी)

दुर्योधनने सत्यपरायण और भोले-भाले युधिष्ठिरका राज्य जूएमें अन्यायसे जीत लिया और उन्हें वनमें निकाल दिया। किन्तु वनसे लौटनेपर प्रतिज्ञानुसार जब उन्होंने अपना न्यायोचित पैतृक भाग माँगा, तब भी मोहवश उन्होंने उन अजातशत्रु युधिष्ठिरको उनका हिस्सा नहीं दिया॥ ८॥

श्लोक-९

विश्वास-प्रस्तुतिः

यदा च पार्थप्रहितः सभायां
जगद‍्गुरुर्यानि जगाद कृष्णः।
न तानि पुंसाममृतायनानि
राजोरु मेने क्षतपुण्यलेशः॥

मूलम्

यदा च पार्थप्रहितः सभायां जगद‍्गुरुर्यानि जगाद कृष्णः।
न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः॥ ९ ॥

अनुवाद (हिन्दी)

महाराज युधिष्ठिरके भेजनेपर जब जगद‍्गुरु भगवान् श्रीकृष्णने कौरवोंकी सभामें हितभरे सुमधुर वचन कहे, जो भीष्मादि सज्जनोंको अमृत-से लगे, पर कुरुराजने उनके कथनको कुछ भी आदर नहीं दिया। देते कैसे? उनके तो सारे पुण्य नष्ट हो चुके थे॥ ९॥

द्युत इति तमोजुषाणोऽजातशत्रोः तमः-प्रधानो राजा यद् यदा समयेन प्रतिज्ञानुसारेण दायं रिक्थं याचतो नादान्न ददौ तदायाद् इत्य् अर्थः । कथंभूतस्याजातशत्रोर् वनागतस्य वनात् प्रत्यागतस्य सत्यावलम्बस्य सत्यं धर्मम् एवालम्बनम् आश्रयो यस्य तस्य साधोः साधु-लक्षण-लक्षितस्य द्यूतेऽज्ञानिभिर् अधर्मेणाधर्म-रूपेण दुर्योधनेन वा जितस्य पराजितस्य ॥ ८-९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यदोपहूतो भवनं प्रविष्टो
मन्त्राय पृष्टः किल पूर्वजेन।
अथाह तन्मन्त्रदृशां वरीयान्
यन्मन्त्रिणो वैदुरिकं वदन्ति॥

मूलम्

यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन।
अथाह तन्मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति॥ १० ॥

अनुवाद (हिन्दी)

फिर जब सलाहके लिये विदुरजीको बुलाया गया, तब मन्त्रियोंमें श्रेष्ठ विदुरजीने राज्यभवनमें जाकर बड़े भाई धृतराष्ट्रके पूछनेपर उन्हें वह सम्मति दी, जिसे नीति-शास्त्रके जाननेवाले पुरुष ‘विदुरनीति’ कहते हैं॥ १०॥

वीरराघवः

यदेति । पार्थेन युधिष्ठिरेण प्रहितः जगतो गुरुः धर्मोपदेष्टा भगवान् श्रीकृष्णः सभायां यानि पुंसां भीष्मादीनाम् अमृतायनान्य् अमृत-स्रावीणि वचांसि जगाद तानि वचांसि यदा च राजा धृतराष्ट्रो नोरु मेने न बहु मेने तदायाद् इत्य् अन्वयः । कथंभूतो राजा क्षत-पुण्य-लेशः क्षतो विनष्टः पुण्यस्य लेशो यस्य सः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

अजातशत्रोः प्रतियच्छ दायं
तितिक्षतो दुर्विषहं तवागः।
सहानुजो यत्र वृकोदराहिः
श्वसन् रुषा यत्त्वमलं बिभेषि॥

मूलम्

अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः।
3सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत्त्वमलं बिभेषि॥ ११ ॥

अनुवाद (हिन्दी)

उन्होंने कहा—‘महाराज! आप अजातशत्रु महात्मा युधिष्ठिरको उनका हिस्सा दे दीजिये। वे आपके न सहनेयोग्य अपराधको भी सह रहे हैं। भीमरूप काले नागसे तो आप भी बहुत डरते हैं; देखिये, वह अपने छोटे भाइयोंके सहित बदला लेनेके लिये बड़े क्रोधसे फुफकारें मार रहा है॥ ११॥

वीरराघवः

यदेति । यदा पूर्वतेन धृतराष्ट्रेण मन्त्रायोपहूतः उपसमीपे हूतः आहूतः भगवद्-गृहे प्रविष्टः मन्त्र-दृशां मन्त्र-विदां मध्ये वरीयान् श्रेष्ठो विपश्चिन् मन्त्रं समालोचनं प्रतिपृष्टः मन्त्र-दृशां मन्त्र-विदां मध्ये वरीयान् विदुरः अथ प्रश्नानन्तरम् उवाच मन्त्रम् एवाह यद् यतः वैदुरिकं विदुरोक्तम् एव मंत्रिणः इतरे सर्वे मंत्रिणः वदन्ति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

पार्थांस्तु देवो भगवान्मुकुन्दो
गृहीतवान् सक्षितिदेवदेवः।
आस्ते स्वपुर्यां यदुदेवदेवो
विनिर्जिताशेषनृदेवदेवः॥

मूलम्

पार्थास्तु देवो भगवान्मुकुन्दो गृहीतवान् सक्षितिदेवदेवः।
आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः॥ १२ ॥

अनुवाद (हिन्दी)

आपको पता नहीं, भगवान् श्रीकृष्णने पाण्डवोंको अपना लिया है। वे यदुवीरोंके आराध्यदेव इस समय अपनी राजधानी द्वारकापुरीमें विराजमान हैं। उन्होंने पृथ्वीके सभी बड़े-बड़े राजाओंको अपने अधीन कर लिया है तथा ब्राह्मण और देवता भी उन्हींके पक्षमें हैं॥ १२॥

वीरराघवः

पृष्ठः किम् आहेत्य् अत आह अजातशत्रोर् इति त्रिभिः । दुर्विषहं सोढुम् अशक्यं तवागः अपराधं तितिक्षतो मृश्यतः अजातशत्रोर् दायं प्रति यच्छ असमर्थे परं तितिक्षयैव भवितव्यम् इत्य् अत आह सहानुजः अनुजैर् अर्जुनादिभिः सहितः वृकोदरः भीमः स एवाहिः स रुषा श्वसन् यत्राजातशत्रु-सन्निधौ वर्त्तते यद् यस्माद् वृकोदरात् त्वम् अलं नितरां बिभेषि यं त्वम् इत्य् अपि पाठः । तदा यं प्रति बिभेषीत्य् अर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

स एष दोषः पुरुषद्विडास्ते
गृहान् प्रविष्टो यमपत्यमत्या।
पुष्णासि कृष्णाद्विमुखो गतश्री-
स्त्यजाश्वशैवं कुलकौशलाय॥

मूलम्

स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या।
पुष्णासि कृष्णाद्विमुखो गतश्रीस्त्यजाश्वशैवं कुलकौशलाय॥ १३ ॥

अनुवाद (हिन्दी)

जिसे आप पुत्र मानकर पाल रहे हैं तथा जिसकी हाँ-में-हाँ मिलाते जा रहे हैं, उस दुर्योधनके रूपमें तो मूर्तिमान् दोष ही आपके घरमें घुसा बैठा है। यह तो साक्षात् भगवान् श्रीकृष्णसे द्वेष करनेवाला है। इसीके कारण आप भगवान् श्रीकृष्णसे विमुख होकर श्रीहीन हो रहे हैं। अतएव यदि आप अपने कुलकी कुशल चाहते हैं तो इस दुष्टको तुरन्त ही त्याग दीजिये’॥ १३॥

वीरराघवः

भगवत्-सहायानां पार्थानां बलीयस् त्वं किमु वक्तव्यम् इत्य् आह पार्थान् इति । देवः भगवान् समय-ज्ञान-शक्त्यादि-संपन्नः मुकुंदः श्रीकृष्णः पार्थान् गृहीतवान् । “मम प्राणा हि पांडवाः” इत्य् अभिमान-विशेषेण परिगृहीतवान् गृह्णातु भगवान् ततोपि किम् इत्य् अत आह स भगवान् क्षिति-देवाः ब्राह्मणास् तेषां देवो ब्रह्मण्येत्यर्थः । यत्र भगवान् ब्रह्मण्यो वर्त्तते तत्र श्रीर्-विजयो भूतिर् इति न्यायेन तत्रैव विजय इत्य् अर्थः । दूरस्थेन भगवता किं भवितव्यम् इति मावोच इत्य् आह स्वपुर्याम् एवास्ते आस्तां स्वपुर्यां तथाप्य् एकेन तेन किम् इत्य् अत आह यदु-देव-देवः यदु-देवाः यदु-श्रेष्ठ-सात्यकि-प्रद्युम्नानिरुद्धादयः तेषां देवः प्रभुः यादवास् तत्-संनिधाव् एवासते इत्यर्थः । यादव-तुल्या योद्धारो मत्-संनिधाव् अपि संतीत्य् अत आह विनिर्जिताशेष-नृ-देव-देवः विनिर्जिता अशेषाः नृ-देवाः राजानः यैस् तेषाम् अपि देवो देवेत्यर्थः । समस्त-दिग्-विजेतॄणाम् अपि प्रभुः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

इत्यूचिवांस्तत्र सुयोधनेन
प्रवृद्धकोपस्फुरिताधरेण।
असत्कृतः सत्स्पृहणीयशीलः
क्षत्ता सकर्णानुजसौबलेन॥

मूलम्

इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण।
असत्कृतः 4सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन॥ १४ ॥

वीरराघवः

एवं भगवत्-सहायानां पार्थानाम् अजेयत्वम् अभिधाय स्व-कुल-विनाशको भगवद्-द्वेषी तव सुतो निर्वास्यताम् इत्य् आह यं दुर्योधनम् अपत्य-बुद्ध्या त्वं पुष्णासि स एष दुर्योधनः दोष-प्रचुरः त्वदीय-पाप-राशिर् एवापत्य-रूपेण मूर्त्तः सन् गृहान् प्रविष्टः कुतः यतः पुरुष-द्विड् भगवद्-द्वेषी आस्ते कथंभूतः पुष्णासि कृष्णाद् विमुखः अत एव गत-श्रीः अत आशु अशिवम् अमङ्गलं एनं दुर्योधनं कुल-कौशलाय त्यज “त्यजेद् एकं कुलस्यार्थे” इति न्यायेन स्व-कुलानिष्ट-निवृत्तये त्यजेति । आश्वथैनम्, आश्वसेव्यम् इत्य् अपि पाठः । आशु एनं दुर्योधनम् अपीत्य् अर्थः । असेव्यं मूर्खं तम् आशु त्यजेत्य् अर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

क एनमत्रोपजुहाव जिह्मं
दास्याः सुतं यद‍्बलिनैव पुष्टः।
तस्मिन् प्रतीपः परकृत्य आस्ते
निर्वास्यतामाशु पुराच्छ्वसानः॥
विदुरजीका ऐसा सुन्दर स्वभाव था कि साधुजन भी उसे प्राप्त करनेकी इच्छा करते थे। किंतु उनकी यह बात सुनते ही कर्ण, दुःशासन और शकुनिके सहित दुर्योधनके होठ अत्यन्त क्रोधसे फड़कने लगे और उसने उनका तिरस्कार करते हुए कहा—‘अरे! इस कुटिल दासीपुत्रको यहाँ किसने बुलाया है? यह जिनके टुकड़े खा-खाकर जीता है, उन्हींके प्रतिकूल होकर शत्रुका काम बनाना चाहता है। इसके प्राण तो मत लो, परंतु इसे हमारे नगरसे तुरन्त बाहर निकाल दो’॥ १४-१५॥

मूलम्

क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद‍्बलिनैव पुष्टः।
तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः॥ १५ ॥

अनुवाद (हिन्दी)

विदुरजीका ऐसा सुन्दर स्वभाव था कि साधुजन भी उसे प्राप्त करनेकी इच्छा करते थे। किंतु उनकी यह बात सुनते ही कर्ण, दुःशासन और शकुनिके सहित दुर्योधनके होठ अत्यन्त क्रोधसे फड़कने लगे और उसने उनका तिरस्कार करते हुए कहा—‘अरे! इस कुटिल दासीपुत्रको यहाँ किसने बुलाया है? यह जिनके टुकड़े खा-खाकर जीता है, उन्हींके प्रतिकूल होकर शत्रुका काम बनाना चाहता है। इसके प्राण तो मत लो, परंतु इसे हमारे नगरसे तुरन्त बाहर निकाल दो’॥ १४-१५॥

वीरराघवः

इति स्वम् ऊचिवान् विदुरः इति शेषः । अथैतस्य गृह-त्यागं वक्ष्यन्न् एतस्मिन् साक्षात्-पर-कृताभिभवम् आह तत्र विदुरेणैवम् उच्यमाने प्रवृद्ध-कोप-स्फुरिताधरेण प्रवृद्धः यः कोपः तेन स्फुरितश् चञ्चल अधरो यस्य तेन सकर्णानुज-सौबलेन कर्ण-दुःशासन-शकुनि-सहितेन दुर्योधनेन सद्भिः स्पृहणीयं शीलं यस्य सः क्षत्ता ऽसत्कृतः तिरस्कृतः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

स इत्थमत्युल्बणकर्णबाणै-
र्भ्रातुः पुरो मर्मसु ताडितोऽपि।
स्वयं धनुर्द्वारि निधाय मायां
गतव्यथोऽयादुरु मानयानः॥

मूलम्

स इत्थमत्युल्बणकर्णबाणैर्भ्रातुः पुरो मर्मसु ताडितोऽपि।
स्वयं धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः॥ १६ ॥

अनुवाद (हिन्दी)

भाईके सामने ही कानोंमें बाणके समान लगनेवाले इन अत्यन्त कठोर वचनोंसे मर्माहत होकर भी विदुरजीने कुछ बुरा न माना और भगवान‍्की मायाको प्रबल समझकर अपना धनुष राजद्वारपर रख वे हस्तिनापुरसे चल दिये॥ १६॥

वीरराघवः

तिरस्कार-प्रकारम् एवाह क इति । दास्याः सुतं जिह्मं कुटिलात्मानम् एनम् अत्र मन्त्रे क उपजुहावा ऽऽहूतवान्? जिह्मत्वं स्फुटयति यद्-बलिना यस्य मम बलिना ऽन्नेनैव पुष्टः संवर्द्धितस् तस्मिन् मयि प्रतीपः प्रतिकूलः पर-कृते परेषां शत्रूणां कृत्ये कार्ये प्रथमान्तत्वे व्यधिकरण-बहुव्रीहिः शत्रु-कार्य-पर आस्ते वर्त्तते । अतः श्मशानः शूद्रः “यद्य् उ ह वा एतच् छ्मशानं यच् छूद्र” इति श्रुतेः पुरान् निर्वास्यतां निर्याप्यताम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

स निर्गतः कौरवपुण्यलब्धो
गजाह्वयात्तीर्थपदः पदानि।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां
स्वधिष्ठितो यानि सहस्रमूर्तिः॥

मूलम्

स निर्गतः कौरवपुण्यलब्धो गजाह्वयात्तीर्थपदः पदानि।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां स्वधिष्ठितो यानि सहस्रमूर्तिः॥ १७ ॥

अनुवाद (हिन्दी)

कौरवोंको विदुर-जैसे महात्मा बड़े पुण्यसे प्राप्त हुए थे। वे हस्तिनापुरसे चलकर पुण्य करनेकी इच्छासे भूमण्डलमें तीर्थपाद भगवान‍्के क्षेत्रोंमें विचरने लगे, जहाँ श्रीहरि, ब्रह्मा, रुद्र, अनन्त आदि अनेकों मूर्तियोंके रूपमें विराजमान हैं॥ १७॥

वीरराघवः

स विदुरः अत्य्-उत्बणैः कठिनैः भ्रातुः पुरः कर्णयोर् बाणवद् आयतैर् वाक्यैः तीक्ष्णैर् मर्मसु ताडितो ऽपि प्रव्यथितो ऽपि विगत-व्यथः “यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ” इत्य् उक्त-रीत्या गत-व्यथः अत एव स्मयन्न् ईषद्-धसन् । “ख्यम्” इति पाठे धनुर्-विशेषणम् । धनुः शरासनं द्वारि निधाय तीर्थान्य् अटिष्यन् “मम किं धनुषा” इति बुद्ध्या निधाय मायां सर्व-जन-मोहिनीं भगवन्-मायां उरु मानयानः “अहो माया-माहात्म्यम्” इति बहु-मन्यमानः अयान् निर्गतः गृहाद् इति शेषः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

पुरेषु पुण्योपवनाद्रिकुञ्जे-
ष्वपङ्कतोयेषु सरित्सरःसु।
अनन्तलिङ्गैः समलङ्‍कृतेषु
चचार तीर्थायतनेष्वनन्यः॥

मूलम्

पुरेषु पुण्योपवनाद्रिकुञ्जेष्वपङ्कतोयेषु सरित्सरःसु।
अनन्तलिङ्गैः समलङ्‍कृतेषु चचार तीर्थायतनेष्वनन्यः॥ १८ ॥

अनुवाद (हिन्दी)

जहाँ-जहाँ भगवान‍्की प्रतिमाओंसे सुशोभित तीर्थस्थान, नगर, पवित्र वन, पर्वत, निकुंज और निर्मल जलसे भरे हुए नदी-सरोवर आदि थे, उन सभी स्थानोंमें वे अकेले ही विचरते रहे॥ १८॥

वीरराघवः

एवं गृह-त्याग-हेतून् त्यागं चाभिधाय तस्य तीर्थाटन-प्रकारम् आह स इत्य् अष्टभिः । कौरव-पुण्य-लब्धः स विदुरः गजाह्वयात् पद्भ्यां निर्गतः कौरव-पुण्य-लब्धः स इत्य् अनेन तेषां भाग्यं तेन रूपेण निर्गतम् इति सूचितं तीर्थ-पदः तीर्थं गङ्गा-पादं यस्य तस्य हरेः पदानि स्थानानि पुण्यं कर्तुम् इच्छया ऽन्वाक्रमद् अनुचचार । कानि पदानि उर्व्यां भूम्यां यानि पदानि सहस्र-मूर्तिः सहस्राणि बहूनि मूर्त्तयो रङ्गेश-वेङ्कटेश-हयशीर्षाद्य्-अर्चा-रूपाणि यस्य तथा-भूतो भगवान् अधिष्ठितः अधिष्ठाय स्थितः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

गां पर्यटन्मेध्यविविक्तवृत्तिः
सदाऽऽप्लुतोऽधःशयनोऽवधूतः।
अलक्षितः स्वैरवधूतवेषो
व्रतानि चेरे हरितोषणानि॥

मूलम्

गां पर्यटन्मेध्यविविक्तवृत्तिः सदाऽऽप्लुतोऽधःशयनोऽवधूतः।
अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि॥ १९ ॥

अनुवाद (हिन्दी)

वे अवधूत-वेषमें स्वच्छन्दतापूर्वक पृथ्वीपर विचरते थे, जिससे आत्मीयजन उन्हें पहचान न सकें। वे शरीरको सजाते न थे, पवित्र और साधारण भोजन करते, शुद्धवृत्तिसे जीवन-निर्वाह करते, प्रत्येक तीर्थमें स्नान करते, जमीनपर सोते और भगवान‍्को प्रसन्न करनेवाले व्रतोंका पालन करते रहते थे॥ १९॥

वीरराघवः

पुरेषु पुण्यवान्य् उपवनानि चाद्रयश् च कुञ्जानि च तेषु तेष्व् अपङ्कानि निर्मलानि तोयानि येषु तेषु सरित्-सरःसु सरितश् च सरांसि च तेष्व् अनन्तस्य भगवतो लिङ्गैर् मूर्तिभिः सम्यग् अलङ्कृतेषु तीर्थायतनेष्व् अनन्यः अव्यभिचरित-भगवद्-भक्ति-योग-निष्ठः चचार पर्यटन् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

इत्थं व्रजन् भारतमेव वर्षं
कालेन यावद‍्गतवान् प्रभासम्।
तावच्छशास क्षितिमेकचक्रा-
मेकातपत्रामजितेन पार्थः॥

मूलम्

इत्थं व्रजन् भारतमेव वर्षं कालेन यावद‍्गतवान् प्रभासम्।
तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः॥ २० ॥

अनुवाद (हिन्दी)

इस प्रकार भारतवर्षमें ही विचरते-विचरते जबतक वे प्रभासक्षेत्रमें पहुँचे, तबतक भगवान् श्रीकृष्णकी सहायतासे महाराज युधिष्ठिर पृथ्वीका एकच्छत्र अखण्ड राज्य करने लगे थे॥ २०॥

वीरराघवः

गां भूमिं पर्यटन् मेध्यैर् विविक्तैर् जात्याश्रय-निमित्ताद्दुष्टैर् अन्नादिभिर् वृत्तिर् आजीविका यस्य सः सदा आप्लुतः अधः-शयनं यस्य सः अवधूतः अभ्यङ्गोद्वर्तनादि-देह-संस्कार-हितः स्वैः स्व-देह-संबन्धिभिर् अलक्षितः अदृष्टः विषो वल्कलाजिनधारणादि-रूपो यस्य सः हरि-तोषणानि “हरिस् तोष्यते एभिः” इति, हरि-तोषणानि व्रतानि चेरे ऽचरत् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तत्राथ शुश्राव सुहृद्विनष्टिं
वनं यथा वेणुजवह्निसंश्रयम्।
संस्पर्धया दग्धमथानुशोचन्
सरस्वतीं प्रत्यगियाय तूष्णीम्॥

मूलम्

तत्राथ5 शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्नि6संश्रयम्।
संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय7 तूष्णीम्॥ २१ ॥

अनुवाद (हिन्दी)

वहाँ उन्होंने अपने कौरव बन्धुओंके विनाशका समाचार सुना, जो आपसकी कलहके कारण परस्पर लड़-भिड़कर उसी प्रकार नष्ट हो गये थे, जैसे अपनी ही रगड़से उत्पन्न हुई आगसे बाँसोंका सारा जंगल जलकर खाक हो जाता है। यह सुनकर वे शोक करते हुए चुपचाप सरस्वतीके तीरपर आये॥ २१॥

वीरराघवः

इत्थम् इति भारत-वर्षम् एव व्रजन् पर्यटन् कालेन यावद् यावता कालेन प्रभासं प्रभास-तीर्थं प्रति गतवान् विदुरस् तावन्तं कालं पार्थो युधिष्ठिरः अजितेनार्जुनेन साकं श्रीकृष्णेन हेतुना वा एकातपत्रां एकम् आतपत्रं यस्यां तां एक-चक्रां एकस्यैव चक्रं सैन्यं यस्यां तां क्षितिं शशासानुशिष्टवान् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

तस्यां त्रितस्योशनसो मनोश्च
पृथोरथाग्नेरसितस्य वायोः।
तीर्थं सुदासस्य गवां गुहस्य
यच्छ्राद्धदेवस्य स आसिषेवे॥

मूलम्

तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः।
तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे॥ २२ ॥

अनुवाद (हिन्दी)

वहाँ उन्होंने त्रित, उशना, मनु, पृथु, अग्नि, असित, वायु, सुदास, गौ, गुह और श्राद्धदेवके नामोंसे प्रसिद्ध ग्यारह तीर्थोंका सेवन किया॥ २२॥

वीरराघवः

तत्रेति । अथ प्रभास-तीर्थं स समीपे संस्पर्द्धया परस्पर-संघर्षेण सुहृदां कौरवादीनां विनष्टिं शुश्रावाशृणोत् । परस्पर-संस्पर्द्धया विनाशे दृष्टान्तः वेणुभ्यो जातो यो वह्निस् तस्य संश्रयम् आश्रयं वनं यथा दग्धं तद्वत् । अथ सुहृद्-विनष्टि-श्रवणानन्तरम् अनुशोचन् प्रत्यक् पश्चिमाभिमुखं सरस्वतीं नदीं प्रति तूष्णीम् इयाय गतवान् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अन्यानि चेह द्विजदेवदेवैः
कृतानि नानायतनानि विष्णोः।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात्कृष्णमनुस्मरन्ति॥

मूलम्

अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति॥ २३ ॥

अनुवाद (हिन्दी)

इनके सिवा पृथ्वीमें ब्राह्मण और देवताओंके स्थापित किये हुए जो भगवान् विष्णुके और भी अनेकों मन्दिर थे, जिनके शिखरोंपर भगवान‍्के प्रधान आयुध चक्रके चिह्न थे और जिनके दर्शनमात्रसे श्रीकृष्णका स्मरण हो आता था, उनका भी सेवन किया॥ २३॥

वीरराघवः

तस्यां सरस्वत्यां त्रितेन सेवितं तीर्थम् इत्य् अर्थः । त्रितादीनाम् एकादश-तीर्थानि तत्-तत्-नाम्ना प्रसिद्धानि आसिषेवे आसेवितवान् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं
सौवीरमत्स्यान् कुरुजाङ्गलांश्च।
कालेन तावद्यमुनामुपेत्य
तत्रोद्धवं भागवतं ददर्श॥

मूलम्

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च।
कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श॥ २४ ॥

अनुवाद (हिन्दी)

वहाँसे चलकर वे धन-धान्यपूर्ण सौराष्ट्र, सौवीर, मत्स्य और कुरुजांगल आदि देशोंमें होते हुए जब कुछ दिनोंमें यमुनातटपर पहुँचे, तब वहाँ उन्होंने परमभागवत उद्धवजीका दर्शन किया॥ २४॥

वीरराघवः

अन्यानीति । द्विज-देवा ऋषयस् तैर् देवैश् च कृतानि विष्णोर् आयतनानि बहुविधानि स्थानानि यद्-दर्शनात् येषाम् आयतनानां दर्शनात् कृष्णम् अनुस्मरन्ति कृष्ण-स्मारकाणीत्य्-अर्थः । प्रत्यङ्गान्य् आयुधानि तेषां मुख्यं चक्रं सुदर्शनं तेनाङ्कितानि मूर्धन्य-हेम-कुम्भेषु विहितानि मन्दिराणि येषु तान्य् अन्यानि च तीर्थान्य् आसिषेवे इति पूर्वेणान्वयः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

स वासुदेवानुचरं प्रशान्तं
बृहस्पतेः प्राक् तनयं प्रतीतम्।
आलिङ्‍ग्य गाढं प्रणयेन भद्रं
स्वानामपृच्छद‍्भगवत्प्रजानाम्॥

मूलम्

स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राप्तनयं प्रतीतम्।
आलिङ्‍ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद‍्भगवत्प्रजानाम्॥ २५ ॥

अनुवाद (हिन्दी)

वे भगवान् श्रीकृष्णके प्रख्यात सेवक और अत्यन्त शान्तस्वभाव थे। वे पहले बृहस्पतिजीके शिष्य रह चुके थे। विदुरजीने उन्हें देखकर प्रेमसे गाढ़ आलिंगन किया और उनसे अपने आराध्य भगवान् श्रीकृष्ण और उनके आश्रित अपने स्वजनोंका कुशल-समाचार पूछा॥ २५॥

वीरराघवः

ततः सरस्वत्या ऋद्धं समृद्धं सुराष्ट्रं देशं सौवीरान्श् च देशान् अतिव्रज्य यावद् उद्धवः प्राप्तस् तावत् स्वयम् अपि कालेन यमुनाम् उपेत्य तत्र यमुना-तीरे भागवतम् उद्धवम् ददर्श ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

कच्चित्पुराणौ पुरुषौ स्वनाभ्य-
पाद्मानुवृत्त्येह किलावतीर्णौ।
आसात उर्व्याः कुशलं विधाय
कृतक्षणौ कुशलं शूरगेहे॥

मूलम्

क्वच्चित्पुराणौ पुरुषौ स्वनाभ्यपाद्मानुवृत्त्येह किलावतीर्णौ।
आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे॥ २६ ॥

अनुवाद (हिन्दी)

विदुरजी कहने लगे—उद्धवजी! पुराणपुरुष बलरामजी और श्रीकृष्णने अपने ही नाभिकमलसे उत्पन्न हुए ब्रह्माजीकी प्रार्थनासे इस जगत‍्में अवतार लिया है। वे पृथ्वीका भार उतारकर सबको आनन्द देते हुए अब श्रीवसुदेवजीके घर कुशलसे रह रहे हैं न?॥ २६॥

वीरराघवः

विदुरः वासुदेवानुचरस् तं येन येन धाता गच्छतीत्य् उक्तम् उक्तवत् प्रवृद्ध-भगवद्-आयत्त-स्थिति-प्रवृत्तिम्-अन्तं शम-दमादि-सम्पन्नं बृहस्पतेः सकाशात् प्राप्त-नयं प्राप्तो नयो नीतिर् येन तं प्रतीतं प्रख्यातम् उद्धवं प्रणयेन गाढं यथा तथा आलिङ्ग्य स्वानां स्व-सम्बन्धिनां भगवत्-प्रजानां भगवतस् तत्-प्रजानां पुत्र-पौत्रादीनाम् अन्येषां तु पोष्याणां च भद्रं कुशलम् अपृच्छत् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

कच्चित्कुरूणां परमः सुहृन्नो
भामः स आस्ते सुखमङ्ग शौरिः।
यो वै स्वसॄणां पितृवद्ददाति
वरान् वदान्यो वरतर्पणेन॥

मूलम्

क्वच्चित्कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः।
यो वै स्वसॄणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन॥ २७ ॥

अनुवाद (हिन्दी)

प्रियवर! हम कुरुवंशियोंके परम सुहृद् और पूज्य वसुदेवजी, जो पिताके समान उदारतापूर्वक अपनी कुन्ती आदि बहिनोंको उनके स्वामियोंका सन्तोष कराते हुए उनकी सभी मनचाही वस्तुएँ देते आये हैं, आनन्दपूर्वक हैं न?॥ २७॥

वीरराघवः

प्रथमं तावद् राम-कृष्णयोः कुशलं पृच्छति कच्चिद् इति । कुशल-प्रश्ने द्योतकम् अव्ययं स्वस्य नाभौ भवः स्व-नाभ्यः स चासौ पद्मः पद्म-सम्भवो ब्रह्मा तस्यानुवृत्त्या प्रार्थनयेह भूर्-लोके ऽवतीर्णौ पुराणौ पुरुषौ उर्व्यां कुशलं सुखं विधाय कृत्वा कृत-क्षणौ लब्धावसरौ शूर-गेहे वसुदेव-गृहे कुशलं सुखं कञ्चिद् आसाते किल ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न आस्ते सुखमङ्ग वीरः।
यं रुक्मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरमादिसर्गे॥

मूलम्

कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः।
यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे॥ २८ ॥

अनुवाद (हिन्दी)

प्यारे उद्धवजी! यादवोंके सेनापति वीरवर प्रद्युम्नजी तो प्रसन्न हैं न, जो पूर्वजन्ममें कामदेव थे तथा जिन्हें देवी रुक्मिणीजीने ब्राह्मणोंकी आराधना करके भगवान‍्से प्राप्त किया था॥ २८॥

वीरराघवः

वसुदेवस्य कुशलं पृच्छति कुरूणां नः परमः सुहृद्-भामः भद्रः पूज्यो वा यद्वा भगिनी-पतिः अतो देवकी पाण्डोर् भगिनी इति लोकस्य व्यवहारः सः प्रसिद्धः शौरिः शूरस्यापत्यं वसुदेवः अङ्ग हे उद्भव सुखम् आस्ते कश्चित् ? कथम्-भूतः ? शौरिर् वदान्यो ऽत्य्-उदारः स्वसॄणां भगिनीनां वर-तर्पणेन वराणां तत्-पतीनां तर्पणेन तृप्ति-कर-वस्तु-जात-प्रदानेन सह वरान् अभीष्टान् अर्थान् पितृवद् ददात्य् अदात् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

कच्चित्सुखं सात्वतवृष्णिभोज-
दाशार्हकाणामधिपः स आस्ते।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात्॥

मूलम्

क्वच्चित्सुखं सात्वतवृष्णिभोजदाशार्हकाणामधिपः स आस्ते।
यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात्॥ २९ ॥

अनुवाद (हिन्दी)

सात्वत, वृष्णि, भोज और दाशार्हवंशी यादवोंके अधिपति महाराज उग्रसेन तो सुखसे हैं न, जिन्होंने राज्य पानेकी आशाका सर्वथा परित्याग कर दिया था किंतु कमलनयन भगवान् श्रीकृष्णने जिन्हें फिरसे राजसिंहासनपर बैठाया॥ २९॥

वीरराघवः

प्रद्युम्नम् आपृच्छति यदूनां वरूथाधिपतिः सेनापतिर् वीरः प्रद्युम्नः सुखम् आस्ते कच्चिद् अङ्ग हे उद्धव कथम्-भूतः ? प्रद्युम्नः रूक्मिणी-विप्रान्-आराध्यादि-सर्गे पूर्व-जन्मनि स्मरं कामं संतं प्रद्युम्नं केशव-तः सकाशाल् लेभे लब्धवती ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

कच्चिद्धरेः सौम्य सुतः सदृक्ष
आस्तेऽग्रणी रथिनां साधु साम्बः।
असूत यं जाम्बवती व्रताढ्या
देवं गुहं योऽम्बिकया धृतोऽग्रे॥

मूलम्

क्वच्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः।
असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे॥ ३० ॥

अनुवाद (हिन्दी)

सौम्य! अपने पिता श्रीकृष्णके समान समस्त रथियोंमें अग्रगण्य श्रीकृष्णतनय साम्ब सकुशल तो हैं न? ये पहले पार्वतीजीके द्वारा गर्भमें धारण किये हुए स्वामिकार्तिक हैं। अनेकों व्रत करके जाम्बवतीने इन्हें जन्म दिया था॥ ३०॥

वीरराघवः

उग्रसेनं पृच्छति सात्वतादीनाम् अधिपतिः स उग्रसेनः सुखम् आस्ते कच्चिच् छतपत्र-नेत्रः पुण्डरीकाक्षो भगवान् स्वयं नृपासनस्याशाम् अभिलाषं दूरात् परिहृत्य यम् उग्रसेनम् अभ्यषिञ्चत् अभिषिक्तवान् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

क्षेमं स कच्चिद्युयुधान आस्ते
यः फाल्गुनाल्लब्धधनूरहस्यः।
लेभेऽञ्जसाधोक्षजसेवयैव
गतिं तदीयां यतिभिर्दुरापाम्॥

मूलम्

क्षेमं स क्वच्चिद्युयुधान आस्ते यः फाल्गुनाल्लब्धधनूरहस्यः।
लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम्॥ ३१ ॥

अनुवाद (हिन्दी)

जिन्होंने अर्जुनसे रहस्ययुक्त धनुर्विद्याकी शिक्षा पायी है, वे सात्यकि तो कुशलपूर्वक हैं? वे भगवान् श्रीकृष्णकी सेवासे अनायास ही भगवज्जनोंकी उस महान् स्थितिपर पहुँच गये हैं, जो बड़े-बड़े योगियोंको भी दुर्लभ है॥ ३१॥

वीरराघवः

साम्बं पृच्छति हे सौम्य रथिनां रथिकानाम् अग्रणीः श्रेष्ठः हरेः श्री-कृष्णस्य सुतः सदृक्षः हरिणा समानः साम्बो साध्व् आस्ते कच्चित् जाम्बवती-व्रताढ्या व्रत-निष्ठा सती देवं गुहं पूर्व-जन्मनि कार्तिकेयं यं साम्बं प्रासूत-वती यः गुहः अग्रे पूर्व-जन्मनि अम्बिकया भवान्या धृतः गर्भे इति शेषः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

कच्चिद् बुधः स्वस्त्यनमीव आस्ते
श्वफल्कपुत्रो भगवत्प्रपन्नः।
यः कृष्णपादाङ्कितमार्गपांसु-
ष्वचेष्टत प्रेमविभिन्नधैर्यः॥

मूलम्

कच्चिद् बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः।
यः कृष्णपादाङ्कितमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः॥ ३२ ॥

अनुवाद (हिन्दी)

भगवान‍्के शरणागत निर्मल भक्त बुद्धिमान् अक्रूरजी भी प्रसन्न हैं न, जो श्रीकृष्णके चरण-चिह्नोंसे अंकित व्रजके मार्गकी रजमें प्रेमसे अधीर होकर लोटने लगे थे?॥ ३२॥

वीरराघवः

सात्यकिं पृच्छति क्षेमम् इति । युयुधानः सात्यकिः क्षेमं कुशलम् आस्ते कश्चित् यः युयुधानः फाल्गुनाद् अर्जुनाल् लब्धं धनूरहस्यं धनुर्-वेदो यस्य सः अधोक्षजस्य श्री-कृष्णस्य सेवयैव तदीयाम् अधोक्षज-सम्बन्धिनीं यतिभिर् अपि दुरापां गतिम् अञ्जसा सुखेनैव लेभे प्राप्तवान् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

कच्चिच्छिवं देवकभोजपुत्र्या
विष्णुप्रजाया इव देवमातुः।
या वै स्वगर्भेण दधार देवं
त्रयी यथा यज्ञवितानमर्थम्॥

मूलम्

कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः।
या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम्॥ ३३ ॥

अनुवाद (हिन्दी)

भोजवंशी देवककी पुत्री देवकीजी अच्छी तरह हैं न, जो देवमाता अदितिके समान ही साक्षात् विष्णुभगवान‍्की माता हैं? जैसे वेदत्रयी यज्ञविस्ताररूप अर्थको अपने मन्त्रोंमें धारण किये रहती है, उसी प्रकार उन्होंने भगवान् श्रीकृष्णको अपने गर्भमें धारण किया था॥ ३३॥

वीरराघवः

अक्रूरं पृच्छति बुधः विज्ञात-तत्त्वः अत एवानम् इवो ऽपापः भगवन्तं शरणं गतः श्वफल्क-पुत्रः अक्रूरः स्वस्ति-कुशलम् आस्ते कञ्चित् यः श्वफल्क-पुत्रः कृष्णस्य पादाभ्याम् अङ्कितश् चिह्नितो यो मार्गस् तस्य पांशुषु रजःसु प्रेम्णा कृष्ण-पादाङ्कित-मार्ग-दर्शन-जनित-प्रीत्यतिशयेन विभिन्नं धैर्यं यस्य सः अचेष्टत व्यलुठत् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

अपिस्विदास्ते भगवान् सुखं वो
यः सात्वतां कामदुघोऽनिरुद्धः।
यमामनन्ति स्म ह शब्दयोनिं
मनोमयं सत्त्वतुरीयतत्त्वम्॥

मूलम्

अपिस्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुधोऽनिरुद्धः।
यमामनन्ति स्म ह8 शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम्॥ ३४ ॥

अनुवाद (हिन्दी)

आप भक्तजनोंकी कामनाएँ पूर्ण करनेवाले भगवान् अनिरुद्धजी सुखपूर्वक हैं न, जिन्हें शास्त्र वेदोंके आदिकारण और अन्तःकरण चतुष्टयके चौथे अंश मनके अधिष्ठाता बतलाते हैं*॥ ३४॥

पादटिप्पनी
  • चित्त, अहंकार, बुद्धि और मन—ये अन्तःकरणके चार अंश हैं। इनके अधिष्ठाता क्रमशः वासुदेव, संकर्षण, प्रद्युम्न और अनिरुद्ध हैं।
वीरराघवः

देवकीं पृच्छति देवक-नामा भोजस् तस्य पुत्रो विष्णुः श्री-कृष्णः प्रजाऽपत्यं यस्यास् तस्या देवक्याः देव-मातुर् अदितेर् इव शिवं कुशलं कश्चित् या देवकी स्व-गर्भेण देवं भगवन्तं दधार तत्र दृष्टान्तः त्रयी वेदः यज्ञ-वितानम् अर्थं यथा प्रकाशकतया बिभर्ति तद्वद् इत्य् अर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

अपिस्विदन्ये च निजात्मदैव-
मनन्यवृत्त्या समनुव्रता ये।
हृदीकसत्यात्मजचारुदेष्ण-
गदादयः स्वस्ति चरन्ति सौम्य॥

मूलम्

अपिस्विदन्ये च निजात्मदैवमनन्यवृत्त्या समनुव्रता ये।
हृदीकसत्यात्मजचारुदेष्ण-गदादयः स्वस्ति चरन्ति सौम्य॥ ३५ ॥

अनुवाद (हिन्दी)

सौम्यस्वभाव उद्धवजी! अपने हृदयेश्वर भगवान् श्रीकृष्णका अनन्यभावसे अनुसरण करनेवाले जो हृदीक, सत्यभामानन्दन चारुदेष्ण और गद आदि अन्य भगवान‍्के पुत्र हैं, वे सब भी कुशलपूर्वक हैं न?॥ ३५॥

वीरराघवः

अनिरुद्धं पृच्छति । अपीति सात्वतां भक्तानां वः युष्माकं काम-दुघः अभीष्ट-प्रपूरकः भगवान् अनिरुद्धः सुखम् आस्ते ऽपिस्वित् अपिस्वित्-आदयः कच्चित्-पर्यायाः यम् अनिरुद्धं शब्द-योनि-शास्त्र-प्रमाणकं सत्त्व-तुरीय-तत्त्वं सत्त्वम् एव तस्य तुरीयं तत्त्वं चतुर्थांशम् आमनन्ति शब्द-योनित्वं कुतः मनोमयं योग-परिशुद्ध-मनो-ग्राह्यं लौकिक-प्रमाणाविषयम् इत्य् अर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

अपि स्वदोर्भ्यां विजयाच्युताभ्यां
धर्मेण धर्मः परिपाति सेतुम्।
दुर्योधनोऽतप्यत यत्सभायां
साम्राज्यलक्ष्म्या विजयानुवृत्त्या॥

मूलम्

अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम्।
दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या॥ ३६ ॥

अनुवाद (हिन्दी)

महाराज युधिष्ठिर अपनी अर्जुन और श्रीकृष्ण-रूप दोनों भुजाओंकी सहायतासे धर्ममर्यादाका न्यायपूर्वक पालन करते हैं न? मयदानवकी बनायी हुई सभामें इनके राज्य वैभव और दबदबेको देखकर दुर्योधनको बड़ा डाह हुआ था॥ ३६॥

वीरराघवः

अवशिष्ट-सर्व-यादवानां कुशलं युगपत् पृच्छति निजात्म-दैवतं भगवन्तम् अनन्य-वृत्त्या एकान्त-भक्त्या समनुवर्त्तका ये हृदीकादयस् ते सर्वे हे सौम्य स्वस्ति कुशलं चरन्त्य् अपिस्वित् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

किं वा कृताघेष्वघमत्यमर्षी
भीमोऽहिवद्दीर्घतमं व्यमुञ्चत्।
यस्याङ्घ्रिपातं रणभूर्न सेहे
मार्गं गदायाश्चरतो विचित्रम्॥

मूलम्

किं वा कृताघेष्वघमत्वमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत्।
यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम्॥ ३७ ॥

अनुवाद (हिन्दी)

अपराधियोंके प्रति अत्यन्त असहिष्णु भीमसेनने सर्पके समान दीर्घकालीन क्रोधको छोड़ दिया है क्या? जब वे गदायुद्धमें तरह-तरहके पैंतरे बदलते थे, तब उनके पैरोंकी धमकसे धरती डोलने लगती थी॥ ३७॥

वीरराघवः

एवं यादवानां कुशलं पृष्टम् अथ पाण्डवानां तत् पृच्छति अपीति । स्व-दोर्भ्यां विजयाच्युताभ्याम् अर्जुन-कृष्णाभ्यां सह धर्मो युधिष्ठिरः धर्मेण वेद-शास्त्रा-विरोधेन सेतुं वर्णाश्रमादि-मर्यादां परिपात्य्-अपिस्वित् यत्-सभायां यस्य युधिष्ठिरस्य सभायां विजयो ऽर्जुनस् तत्-कर्तृका या अनुवृत्तिः सेवा तथा हेतु-भूतया या साम्राज्य-लक्ष्मीस् तया दुर्योधनो ऽतप्यत यम् अनुवर्तते विजयस् तम् एव साम्राज्य-लक्ष्मीर् अप्य् अनुवर्तते इति बुद्ध्या ऽतप्यतेत्य् अर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

कच्चिद्यशोधा रथयूथपानां
गाण्डीवधन्वोपरतारिरास्ते।
अलक्षितो यच्छरकूटगूढो
मायाकिरातो गिरिशस्तुतोष॥

मूलम्

कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते।
अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष॥ ३८ ॥

अनुवाद (हिन्दी)

जिनके बाणोंके जालसे छिपकर किरातवेषधारी, अतएव किसीकी पहचानमें न आनेवाले भगवान् शंकर प्रसन्न हो गये थे, वे रथी और यूथपतियोंका सुयश बढ़ानेवाले गाण्डीवधारी अर्जुन तो प्रसन्न हैं न? अब तो उनके सभी शत्रु शान्त हो चुके होंगे?॥ ३८॥

वीरराघवः

किं वेति कृताघेषु कृतापराधेषु तत्-कृतम् अघम् अपराधं कथम्-भूतं दीर्घ-तमं बहु-कालानुसंचितम् अहिवद् अत्य्-अमर्ष्य-सहिष्णुर् भीमो व्यमुञ्चत् किं वा अमर्षम् इति शेषः । अमर्षम् अत्यजत् किं इत्य् अर्थः । यस्य भीमस्य्-अंघ्रि-पात-पाद-घातं रणभूर् न सेहे कथम्-भूतस्य गदाया विचित्रं मार्गं गतिं चरतः गदां विचित्रं भ्रामयत इत्य् अर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

यमावुतस्वित्तनयौ पृथायाः
पार्थैर्वृतौ पक्ष्मभिरक्षिणीव।
रेमात उद्दाय मृधे स्वरिक्थं
परात्सुपर्णाविव वज्रिवक्त्रात्॥

मूलम्

यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव।
रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात्॥ ३९ ॥

अनुवाद (हिन्दी)

पलक जिस प्रकार नेत्रोंकी रक्षा करते हैं, उसी प्रकार कुन्तीके पुत्र युधिष्ठिरादि जिनकी सर्वदा सँभाल रखते हैं और कुन्तीने ही जिनका लालन-पालन किया है, वे माद्रीके यमज पुत्र नकुल-सहदेव कुशलसे तो हैं न? उन्होंने युद्धमें शत्रुसे अपना राज्य उसी प्रकार छीन लिया, जैसे दो गरुड़ इन्द्रके मुखसे अमृत निकाल लायें॥ ३९॥

वीरराघवः

कच्चिद् इति । रथ-यूथ-पानां मध्ये यशोधाः कीर्ति-धारकः उपरतारिर् गाण्डीव-धन्वा आस्ते कश्चित् । यस्य गाण्डीव-धन्वनः शर-कूटेन बाण-समूहेन गूढः संवृतः अर्जुनेतरैर् अलक्षितः माया-किरातः मायया किरात-वेष-धरः गिरिशो रुद्रस् तुतोष सन्तुष्टः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षिवर्येण विनापि तेन।
यस्त्वेकवीरोऽधिरथो विजिग्ये
धनुर्द्वितीयः ककुभश्चतस्रः॥

मूलम्

अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन।
यस्त्वेकवीरो9ऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः॥ ४० ॥

अनुवाद (हिन्दी)

अहो! बेचारी कुन्ती तो राजर्षिश्रेष्ठ पाण्डुके वियोगमें मृतप्राय-सी होकर भी इन बालकोंके लिये ही प्राण धारण किये हुए है। रथियोंमें श्रेष्ठ महाराज पाण्डु ऐसे अनुपम वीर थे कि उन्होंने केवल एक धनुष लेकर ही अकेले चारों दिशाओंको जीत लिया था॥ ४०॥

वीरराघवः

नकुल-सहदेवौ पृच्छति एकेन यमाव् इति । पार्थैर् युधिष्ठिर-भीमार्जुनैः पक्ष्मभिर् अक्षिणीव वृतौ रक्षितौ अक्षिणीवेति प्रगृह्यत्वाभाव आर्षः पृथायाः कुन्त्यास् तनयौ तनयीयन्तौ यमौ युगपन्-निष्क्रान्तौ नकुल-सहदेवौ मृधे युद्धे स्व-रिक्थं पराच्-छत्रोर्-आदाय लब्ध्वा रेमाते उतस्वित् परात् स्व-रिक्थ-लाभे दृष्टान्तः वज्रि-वक्त्राद् इन्द्र-मुखात् सुपर्णाव् इव यदि द्वौ गरुडाव् अमृतम् आनयेतां तद्वद् इत्य् अर्थः अभूतोपमेयम् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

सौम्यानुशोचे तमधःपतन्तं
भ्रात्रे परेताय विदुद्रुहे यः।
निर्यापितो येन सुहृत्स्वपुर्या
अहं स्वपुत्रान् समनुव्रतेन॥

मूलम्

सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे10 यः।
निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन॥ ४१ ॥

अनुवाद (हिन्दी)

सौम्यस्वभाव उद्धवजी! मुझे तो अधःपतनकी ओर जानेवाले उन धृतराष्ट्रके लिये बार-बार शोक होता है, जिन्होंने पाण्डवोंके रूपमें अपने परलोकवासी भाई पाण्डुसे ही द्रोह किया तथा अपने पुत्रोंकी हाँ-में-हाँ मिलाकर अपने हितचिन्तक मुझको भी नगरसे निकलवा दिया॥ ४१॥

वीरराघवः

पृथायाः कुशलं किं पृच्छेयं यतस् तस्याः पाण्डुं विना प्राण-धारणम् एवाश्चर्यम् इत्य् आह अहो इति । तेन प्रसिद्धेन राजर्षि-वर्येण पाण्डुना विनाप्य् अर्भकार्थे ऽर्भक-पोषणार्थं पृथा कुन्ती ध्रियते ऽवतिष्ठते अहो इत्य् आश्चर्ये । यस् तु पाण्डुर् एक-वीरः असहाय-वीरः धनुर् एव द्वितीयं यस्येत्य्-अतिरथः एवं-भूतश् चतस्रः ककुभः दिशः विजिग्ये जितवान् एवं-भूतेन पाण्डुना विना पृथा-जीवनम् अप्य् आश्चर्यम् एव ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

सोऽहं हरेर्मर्त्यविडम्बनेन
दृशो नृणां चालयतो विधातुः।
नान्योपलक्ष्यः पदवीं प्रसादा-
च्चरामि पश्यन् गतविस्मयोऽत्र॥

मूलम्

सोऽहं हरेर्मर्त्यविडम्बनेन
दृशो नृणां चालयतो विधातुः।
नान्योपलक्ष्यः पदवीं प्रसादा-
च्चरामि पश्यन् गतविस्मयोऽत्र॥

अनुवाद (हिन्दी)

किंतु भाई! मुझे इसका कुछ भी खेद अथवा आश्चर्य नहीं है। जगद्विधाता भगवान् श्रीकृष्ण ही मनुष्योंकी-सी लीलाएँ करके लोगोंकी मनोवृत्तियोंको भ्रमित कर देते हैं। मैं तो उन्हींकी कृपासे उनकी महिमाको देखता हुआ दूसरोंकी दृष्टिसे दूर रहकर सानन्द विचर रहा हूँ॥ ४२॥

श्लोक-४३

विश्वास-प्रस्तुतिः

नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभिः।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं भगवान् कुरूणाम्॥

मूलम्

नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभिः।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं भगवान् कुरूणाम्॥

अनुवाद (हिन्दी)

यद्यपि कौरवोंने उनके बहुत-से अपराध किये, फिर भी भगवान‍्ने उनकी इसीलिये उपेक्षा कर दी थी कि वे उनके साथ उन दुष्ट राजाओंको भी मारकर अपने शरणागतोंका दुःख दूर करना चाहते थे, जो धन, विद्या और जातिके मदसे अंधे होकर कुमार्गगामी हो रहे थे और बार-बार अपनी सेनाओंसे पृथ्वीको कँपा रहे थे॥ ४३॥

श्लोक-४४

विश्वास-प्रस्तुतिः

अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम्।
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम्॥

मूलम्

अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम्।
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम्॥

अनुवाद (हिन्दी)

उद्धवजी! भगवान् श्रीकृष्ण जन्म और कर्मसे रहित हैं, फिर भी दुष्टोंका नाश करनेके लिये और लोगोंको अपनी ओर आकर्षित करनेके लिये उनके दिव्य जन्म-कर्म हुआ करते हैं। नहीं तो, भगवान‍्की तो बात ही क्या—दूसरे जो लोग गुणोंसे पार हो गये हैं, उनमें भी ऐसा कौन है, जो इस कर्माधीन देहके बन्धनमें पड़ना चाहेगा॥ ४४॥

श्लोक-४५

विश्वास-प्रस्तुतिः

तस्य प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने स्वे।
अर्थाय जातस्य यदुष्वजस्य
वार्तां सखे कीर्तय तीर्थकीर्तेः॥

मूलम्

तस्य प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने स्वे।
अर्थाय जातस्य यदुष्वजस्य
वार्तां सखे कीर्तय तीर्थकीर्तेः॥

अनुवाद (हिन्दी)

अतः मित्र! जिन्होंने अजन्मा होकर भी अपनी शरणमें आये हुए समस्त लोकपाल और आज्ञाकारी भक्तोंका प्रिय करनेके लिये यदुकुलमें जन्म लिया है, उन पवित्रकीर्ति श्रीहरिकी बातें सुनाओ॥ ४५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः॥ १॥


  1. प्रा. पा. - एवं मुनिवर्योऽथ । ↩︎

  2. प्राचीने पाठे ‘श्री’ इति पदं नास्ति । ↩︎

  3. प्राचीन पाठस्य मूले ‘सहानुजो…’ इत्यारभ्य ‘…नृदेवदेवः पर्यन्तं सार्धैकश्लोको न । पश्चाल्लिखितायां टिपण्यां वर्तते । ↩︎

  4. प्रा. पा. - संस्पृह । ↩︎

  5. प्रा. पा. - तदाथ । ↩︎

  6. प्रा. पा. - वह्निनाभयम् । ↩︎

  7. प्रा. पा. - प्रत्यगियात्ततश्च । ↩︎

  8. प्रा. पा. - हि । ↩︎

  9. प्रा. पा. ऽविरथो । ↩︎

  10. प्रा. पा. - च दुदुहे यः । ↩︎