[दशमोऽध्यायः]
भागसूचना
भागवतके दस लक्षण
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः॥
मूलम्
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः॥ १ ॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—परीक्षित्! इस भागवतपुराणमें सर्ग, विसर्ग, स्थान, पोषण, ऊति, मन्वन्तर, ईशानुकथा, निरोध, मुक्ति और आश्रय—इन दस विषयोंका वर्णन है॥ १॥
वीरराघवः
अथ वैराजात् पुरुषात् इदं यथासीत् तदुपाख्यास्ये इति प्रतिज्ञातं समष्टिपुरुषचतुर्मुखावयवैः देवादिक्लू1प्ती रभिधास्यन् तावत् पुराणं दशलक्षणं प्रोक्तं भगवतेति प्र2स्तुतान् दशार्थानाह - अत्रेति । अत्र अस्मिन् पुराणे सर्गादयः आश्रयान्ताः दशार्थाः प्रतिपाद्या इत्यर्थः । मन्वन्तरेशानुकथा मन्वन्तरकथनं ईश्वरचेष्टाकथनं च इत्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम्।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा॥
मूलम्
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम्।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा॥ २ ॥
अनुवाद (हिन्दी)
इनमें जो दसवाँ आश्रय-तत्त्व है, उसीका ठीक-ठीक निश्चय करनेके लिये कहीं श्रुतिसे, कहीं तात्पर्यसे और कहीं दोनोंके अनुकूल अनुभवसे महात्माओंने अन्य नौ विषयोंका बड़ी सुगम रीतिसे वर्णन किया है॥ २॥
वीरराघवः
नन्वेवं प्रतिपाद्यानां बहुत्वात् प्रतिपाद्यभेदात् शास्त्रभेदः स्यादित्याशङ्कयाऽऽह - दशमस्येति । इह पुराणे दशमस्या3श्रयस्य परब्रह्मणः विशुद्ध्यर्थ शोधनार्थं सम्यक् प्रतिपत्त्यर्थं नवानां सर्गादीनां लक्षणं अञ्जसा सुखेन महात्मानः परा4पस्याथात्म्यज्ञाः श्रुतेनार्थेन यथाश्रुतं वर्णयन्ति । एवञ्च दशमस्यैव प्राधान्यात् तदर्थत्वेन इतरेषां प्रतिपादनात् न शास्त्रभेदः इत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः।
ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः॥
मूलम्
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः।
ब्रह्मणोर्गुणवैषम्याद् विसर्गः पौरुषः स्मृतः॥ ३ ॥
अनुवाद (हिन्दी)
ईश्वरकी प्रेरणासे गुणोंमें क्षोभ होकर रूपान्तर होनेसे जो आकाशादि पंचभूत, शब्दादि तन्मात्राएँ, इन्द्रियाँ, अहंकार और महत्तत्त्वकी उत्पत्ति होती है, उसको ‘सर्ग’ कहते हैं। उस विराट् पुरुषसे उत्पन्न ब्रह्माजीके द्वारा जो विभिन्न चराचर सृष्टियोंका निर्माण होता है, उसका नाम है ‘विसर्ग’॥ ३॥
वीरराघवः
प्रत्येकं दशानां लक्षणमाह - भूतेति । भूतानि आकाशादीनि, मात्राः तन्मात्राणि शब्दादीनि । इन्द्रियाणि ज्ञानकर्मोभयेन्द्रियाणि । धीशब्दोऽन्तःकरणभूतबुद्धिशब्दवाच्यमहत्तत्त्वपरः । महदादिपृथिव्यन्तानामित्यर्थः । एतेषां तत्त्वानां यज्जन्म उत्पत्तिः तत्सर्गः इत्युदाहृतः 5कथितः इत्यर्थः । ब्रह्मणः परस्मात् ब्रह्मणः प्रयोजकात् कर्तुः गुणानां सत्त्वरजस्तमसां वैषम्यात् हेतोः पौरुषः चतुर्मुखसम्बन्धी प्रयोज्य6चतुर्मुखकर्तृक इत्यर्थः । एवम्भूतः सर्गः विसर्गः स्मृतः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः।
मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः॥
मूलम्
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः।
मन्वन्तराणि सद्धर्म7 ऊतयः कर्मवासनाः॥ ४ ॥
अनुवाद (हिन्दी)
प्रतिपद नाशकी ओर बढ़नेवाली सृष्टिको एक मर्यादामें स्थिर रखनेसे भगवान् विष्णुकी जो श्रेष्ठता सिद्ध होती है, उसका नाम ‘स्थान’ है। अपने द्वारा सुरक्षित सृष्टिमें भक्तोंके ऊपर उनकी जो कृपा होती है, उसका नाम है ‘पोषण’। मन्वन्तरोंके अधिपति जो भगवद्भक्ति और प्रजापालनरूप शुद्ध धर्मका अनुष्ठान करते हैं, उसे ‘मन्वन्तर’ कहते हैं। जीवोंकी वे वासनाएँ, जो कर्मके द्वारा उन्हें बन्धनमें डाल देती हैं, ‘ऊति’ नामसे कही जाती हैं॥ ४॥
वीरराघवः
वैकुण्ठविजयः वैकुण्ठस्य हरेः सर्वोत्कर्षः शत्रुविजयादिरूपः स्थितिः । तस्य वैकुण्ठस्य योऽनुग्रहः जगद्रक्षणरूपः स पोषणं इत्यर्थः । सद्धर्मः सतां वैकुण्ठानुगृहीतानां मन्वन्तराधिपतीनां यो धर्मः सः मन्वन्तरानुकथनम् । कर्मवासनाः कर्मणः वासनाः संस्काराः ऊतयः इति उच्यन्ते । क्रमस्त्वविवक्षितः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम्।
सतामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः॥
अनुवाद (हिन्दी)
भगवान्के विभिन्न अवतारोंके और उनके प्रेमी भक्तोंकी विविध आख्यानोंसे युक्त गाथाएँ ‘ईशकथा’ हैं॥ ५॥
वीरराघवः
ईशानुकथां विवृणोति - अवतारेति । हरेः अवतारानुचरितं तदनुवर्तिनां हर्यनुवर्तिनां पुंसां च नानाख्यानोपबृंहिताः विचित्रकथाभिः युक्ताः सत्कथाश्च ईशानुकथा इत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः॥
मूलम्
निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः॥ ६ ॥
अनुवाद (हिन्दी)
जब भगवान् योगनिद्रा स्वीकार करके शयन करते हैं, तब इस जीवका अपनी उपाधियोंके साथ उनमें लीन हो जाना ‘निरोध’ है। अज्ञानकल्पित कर्तृत्व, भोक्तृत्व आदि अनात्मभावका परित्याग करके अपने वास्तविक स्वरूप परमात्मामें स्थित होना ही ‘मुक्ति’ है॥ ६॥
वीरराघवः
निरोधलक्षणमाह - निरोध इति । अस्य जीवात्मनः सह शक्तिभिः कर्मशक्तिभिः सह अनुशयनं सूक्ष्मावस्थ प्रकृ11तौ अवस्थितिः निरोध इत्यर्थः । मुक्ति12लक्षणमाह मुक्तिरिति । अन्यथाभावं देवादिरूपं हित्वा स्वरूपेण आविर्भूतापहतपाप्मत्वादिगुणाष्टकविशिष्टेन रूपेणावस्थानमेव मुक्तिरित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
आभासश्च निरोधश्च यतश्चाध्यवसीयते।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते॥
अनुवाद (हिन्दी)
परीक्षित्! इस चराचर जगत्की उत्पत्ति और प्रलय जिस तत्त्वसे प्रकाशित होते हैं, वह परम ब्रह्म ही ‘आश्रय’ है। शास्त्रोंमें उसीको परमात्मा कहा गया है॥ ७॥
वीरराघवः
आश्रय15लक्षणमाह - आभास इति । आ समान्तात् भासनं आभासः जगतः आविर्भावः निरोधः प्रलयश्च । यतः 16परब्रह्मणः अध्यवसीयते ज्ञायते प्रमाणेनावगम्यते “आविर्भावतिरोभावजन्मनाशविकल्पवत्” इत्युक्तेः यच्च परब्रह्मादिशब्दैः शब्द्यते 17अभिधीयते स आश्रय इत्यर्थः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः।
यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः॥
अनुवाद (हिन्दी)
जो नेत्र आदि इन्द्रियोंका अभिमानी द्रष्टा जीव है, वही इन्द्रियोंके अधिष्ठातृदेवता सूर्य आदिके रूपमें भी है और जो नेत्रगोलक आदिसे युक्त दृश्य देह है, वही उन दोनोंको अलग-अलग करता है॥ ८॥
वीरराघवः
अथ आश्रयस्य परमात्मनः कारण20त्वौपयिकं सार्वज्ञ्यं वक्तुं ज्ञातृज्ञेयज्ञान21कारणानां भगवदात्मकत्वं आह - य इति । आत्मनि जीवे ज्ञातरि नियन्तृतया वर्तमानः आध्यात्मिकः यः पुरुषः 22परमपुरुषः सोऽसावेवाधिदैविकः । देवेषु ज्ञान23कारणचक्षुरादीन्द्रियाभिमानिषु आदित्यदिषु वर्तमानश्च स एव उभयविच्छेदः ज्ञातृज्ञान24कारणविलक्षणः ज्ञेयः शब्दादिः आकाशादिभूतेषु वर्तमानः तत्र यः शब्दादिषु अन्तरात्मतयावर्तमानः यः स अधिभौतिकः स्मृत इत्यर्थः । 25ज्ञाता ज्ञानकरणं शब्दादिज्ञेयं च भगवदात्मकमित्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एकमेकतराभावे यदा नोपलभामहे।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः॥
अनुवाद (हिन्दी)
इन तीनोंमें यदि एकका भी अभाव हो जाय तो दूसरे दोकी उपलब्धि नहीं हो सकती। अतः जो इन तीनोंको जानता है, वह परमात्मा ही सबका अधिष्ठान ‘आश्रय’ तत्त्व है। उसका आश्रय वह स्वयं ही है, दूसरा कोई नहीं॥ ९॥
वीरराघवः
एवं त्रयाणां भगवदात्मकत्वमभिधाय तस्य सर्वज्ञतां वक्तुं जीवानां असर्वज्ञतामाह - एकमिति । यथा एकतराभावे चक्षुरादिकरणाभावे एकं विषयं नोपलभामहे न साक्षात्कुर्महे चक्षुरादिकरणाभावे सन्निहितमपि विषयं न पश्यामः क्षेत्रज्ञाः त्रिविधसन्निकर्षवत्सु पदार्थेषु करणाधीनज्ञानाः न तु सूक्ष्मव्यवहितादिज्ञानवन्तः न च करणानपेक्षज्ञानाश्च इत्यर्थः । परमात्मा तु कोटित्रयसाक्षात्कर्तेत्याह त्रितयमिति । तत्र तदा त्रितयं ज्ञातृकरणज्ञेयानां त्रयं यो वेद साक्षात्कुर्यात् स त्वात्मा आश्रयाश्रयः अ29चिदाश्रयजीवस्याप्याश्रयः “यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा प्राणेऽर्पिताः” (कौषी. उ. 3-8) इति श्रुतेः स्वाश्रयाश्रय इति पाठे स्वस्याप्याश्रयः अन्येषामप्याश्रयः इत्यर्थः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः॥
मूलम्
पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स वि30निर्गतः।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः॥ १० ॥
अनुवाद (हिन्दी)
जब पूर्वोक्त विराट् पुरुष ब्रह्माण्डको फोड़कर निकला, तब वह अपने रहनेका स्थान ढूँढने लगा और स्थानकी इच्छासे उस शुद्ध-संकल्प पुरुषने अत्यन्त पवित्र जलकी सृष्टि की॥ १०॥
वीरराघवः
एवमाश्रयपर्यन्तान् 31दशार्थानभिधाय “यथासीत्तदुपाख्यास्ये” इति प्रतिज्ञाते चातुर्मुखसृष्टिप्रकारं वक्तुमारभते - पुरुष इति । पुरुषश्चतुर्मुखरूपी असौ परमात्मा अण्डं ब्रह्माण्डं विनिर्भिद्य यदा विनिर्गतः अण्डभेदात् अनुपरुद्धसञ्चार इत्यर्थः । तेन बहिर्गमनमुक्तम् । यदेति निर्देशः कालानन्तर्याभिप्रायः चतुर्मुखसृष्ट्यासनकाले हि जलसृष्टिरित्यर्थः । तदा स अनिरुद्धः परमात्मा आत्मनः स्वस्य अयनं स्थानमिच्छन् विमृशन् यतः स्वयं शुचिः अत एव शुचीः शुद्धाः अपः जलानि अस्राक्षीत् सृष्टवान् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
तास्ववात्सीत् स्वसृष्टासु सहस्रपरिवत्सरान्।
तेन नारायणो नाम यदापः पुरुषोद्भवाः॥
मूलम्
तास्ववात्सीत्स्वसृष्टासु सहस्रपरिवत्सरान्।
तेन नारायणो नाम यदापः पुरुषोद्भवाः॥ ११ ॥
अनुवाद (हिन्दी)
विराट् पुरुषरूप ‘नर’ से उत्पन्न होनेके कारण ही जलका नाम ‘नार’ पड़ा और उस अपने उत्पन्न किये हुए ‘नार’ में वह पुरुष एक हजार वर्षोंतक रहा, इसीसे उसका नाम ‘नारायण’ हुआ॥ ११॥
वीरराघवः
स्वसृष्टासु तासु अप्सु 32सहस्रपरिवत्सरान् सहस्रं परिवत्सरान् बहून् संवत्सरान् अवात्सीत् उवास । एतदेव नारायणशब्दप्रवृत्तिनिमित्तमित्याह - तेनेति । 33यद्यस्मात्पुरुषोद्भवाः पुरुषात् परमपुरुषात् 34नारायणात् उद्भवाः उत्पन्नाः पुरुषादुद्भवः यासामिति वा । नाराः आपः अयनं यस्येति शेषः । तेन ईदृशव्युत्पत्तिलभ्येन अयनत्वेन 35निमित्तेन नारायणः नारायणशब्दवाच्योऽभूदित्यर्थः । नामेति स्मृत्यन्तरप्रसिद्धिं द्योतयति । तथाहि स्मर्यते “आपो नारा इति प्रोक्ताः आपो वै नरसूनवः । अयनं 36तस्य ताः पूर्वं तेन नारायणः स्मृतः” ॥ इति ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥
मूलम्
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
यदनुग्रहतस्सन्ति न सन्ति यदुपेक्षया॥ १२ ॥
अनुवाद (हिन्दी)
उन नारायणभगवान्की कृपासे ही द्रव्य, कर्म, काल, स्वभाव और जीव आदिकी सत्ता है। उनके उपेक्षा कर देनेपर और किसीका अस्तित्व नहीं रहता॥ १२॥
वीरराघवः
अस्यैव प्रभावमाह - द्रव्यमिति । द्रव्यादयः यदनुग्रहतः 37सन्ति स नारायण इत्यन्वयः । द्रव्यं महदादिपृथिव्यन्तभूतवर्गः, कर्म जीवादृष्टं, कालः गुणवैषम्यहेतुः, स्वभावः प्रकृतेः परिणामस्वभावः, यदनुग्रहतः 38यस्यानुग्रहात् सन्ति 39यदुपेक्षया 40यस्य उपेक्षया न सन्ति द्रव्यादयः यत्सङ्कल्पानुविधायिसत्तास्थितप्रवृत्तिका इत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः।
वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा॥
मूलम्
एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः।
वीर्यं हिरण्मयं 41देवो मायया व्यसृजत् त्रिधा॥ १३ ॥
वीरराघवः
एवम्भूतो नारायणः एकः अविभक्तनामरूप सूक्ष्मचिदचिच्छरीरकत्वेनैकः नानात्वमन्विच्छन् देवमनुष्यादिरूपेण 42नाना भवितुमिच्छन् योगः स्वात्मानुभवरूपो योगः स एव तल्पं शय्या तत्स्मात् समुत्थितः देहं स्वशरीरभूतं हिरण्मयं रमणीयं वीर्यं चिदचिदात्मकं कारणद्रव्यं मायया चतुर्मुखरूपेण त्रिधा 43व्यष्ट्यात्मककरणज्ञातृज्ञेयरूपेण व्यसृजत् मायाशब्दः तद्गुणरजः प्रचुरचतुर्मुखपरः सङ्कल्पपरो वा । सङ्कल्पेन चतुर्मुखरूपी भूत्वा वाप्यसृजदित्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः।
यथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु॥
अनुवाद (हिन्दी)
उन अद्वितीय भगवान् नारायणने योगनिद्रासे जगकर अनेक होनेकी इच्छा की। तब अपनी मायासे उन्होंने अखिल ब्रह्माण्डके बीजस्वरूप अपने सुवर्णमय वीर्यको तीन भागोंमें विभक्त कर दिया—अधिदैव, अध्यात्म और अधिभूत। परीक्षित्! विराट् पुरुषका एक ही वीर्य तीन भागोंमें कैसे विभक्त हुआ, सो सुनो॥ १३-१४॥
वीरराघवः
त्रैविध्यं विवृणोति - अधिदैवमिति । अधिदैवं दिगादिदेवताधि46ष्ठितः एकादशेन्द्रियरूपकरणवर्गः अध्यात्मं ज्ञातृवर्गः, अधिभूतमिति पृथिव्यादिभूतस्थगन्धादिज्ञेयवर्गः उक्त इति त्रिधा प्रभुर्व्यसृजदित्यर्थः । ज्ञातृसृष्टिर्नाम जीवानां तत्तद्देवादिदेहयोगसम्पादनमेव । तथाहि “तोयेन जीवान् विससर्ज भूम्याम्” इति तोयशब्दोपलक्षितभूतसङ्घपरिणामदेवादिशरीरविशिष्टत्वेनाऽकारेण विससर्ज इत्यर्थः । अथ सङ्ग्रहेणोक्तं देवादिव्यष्टिशरीरस्थानां प्राणेन्द्रियादीनां चतुर्मुखस्वशरीरस्थ प्राणेन्दियादि समष्टितः उत्पत्तिप्रकारं प्रतिपादयितुं प्रतिजानीते यथेति । पौरुषे समष्टिपुरुषचतुर्मुखदेहगतं पुरुषाधिष्ठितं वा एकं समष्टिरूपेणैकं वीर्यं व्यष्टिकारणं द्रव्यं त्रेधा करणभोक्तृविषयरूपेण देवादिव्यष्टीनां यथा निरभिद्यत उदपद्यत तच्छृण्वित्यर्थः 47मत्त इति शेषः ॥ ११४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
अन्तःशरीर आकाशात् पुरुषस्य विचेष्टतः।
ओजः सहो बलं जज्ञे ततः प्राणो महानसुः॥
अनुवाद (हिन्दी)
विराट् पुरुषके हिलने-डोलनेपर उनके शरीरमें रहनेवाले आकाशसे इन्द्रियबल, मनोबल और शरीरबलकी उत्पत्ति हुई। उनसे इन सबका राजा प्राण उत्पन्न हुआ॥ १५॥
वीरराघवः
एवं प्रतिज्ञाय व्यष्टीन्द्रियसृष्टिविभागं वक्तुं इन्द्रियाश्रयप्राणव्यष्टिसृष्टिमाह - अन्तरिति । पुरुषस्य चतुर्मुखस्य विचेष्टतः प्राणव्यापारं कुर्वतः 51सतः चतुर्मुखे प्राणव्यापारं कुर्वति सतीत्यर्थः । अन्तश्शरीरे तच्छरीरान्तस्स्थितादाकाशकार्यवायुविशेषात् प्राणात् ओजः सहो बलं जज्ञे । ओजः प्रवृत्तिसामर्थ्यं सहः वेगसामर्थ्यं बलं धारण52सामर्थ्यं एते धर्माः अभवन्नित्यर्थः । ततः चतुर्मुखस्वशरीरगतौजस्सहोबलधर्मिप्राणात् प्राणाख्यः महान् मुख्यः असुः प्राणनहेतुः जज्ञे इतरेषां शरीरान्तर्वर्तिप्राणा अभवन्नित्यर्थः । प्राण इत्येकवचनमार्षम् जात्यभिप्रायं वा ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगाः॥
मूलम्
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगाः॥ १६ ॥
अनुवाद (हिन्दी)
जैसे सेवक अपने स्वामी राजाके पीछे-पीछे चलते हैं, वैसे ही सबके शरीरोंमें प्राणके प्रबल रहनेपर ही सारी इन्द्रियाँ प्रबल रहती हैं और जब वह सुस्त पड़ जाता है, तब सारी इन्द्रियाँ भी सुस्त हो जाती हैं॥ १६॥
वीरराघवः
तस्य महत्त्वमेवाऽऽह अनुप्राणन्तीति । प्राणा इन्द्रियाणि सर्वजन्तुषु यं 53प्राणं प्राणन्तं चेष्टां कुर्वन्तं अनु पश्चात् प्राणन्ति चेष्टां कुर्वन्ति । अपानन्तं चेष्टां त्यजन्तं प्राणं अनु पश्चात् सर्वे प्राणाः अपानन्ति चेष्टां त्यजन्ति नरदेवं राजानं अनुगाः भृत्या इव सर्वाण्यपि इन्द्रियाणि प्राणाधीनवृत्तीनीत्यर्थः । यद्वा व्यष्टिप्राणानां कारणस्वभावानुवर्तित्वमाह अनुप्राणन्तीति । यं चतुर्मुखशरीरस्थं समष्टिप्राणं अनु अनुसृत्य तत्स्वभावानुवर्तिनः ओजआदिसामर्थ्ययुक्ता एव व्यष्टिप्राणाः प्राणापानादिव्यापारं कुर्वन्तीत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
प्राणेन क्षिपता क्षुत् तृडन्तरा जायते प्रभोः।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत॥
मूलम्
प्राणेन क्षिपता क्षुत् तृडन्तरा जायते प्र54भोः।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत॥ १७ ॥
अनुवाद (हिन्दी)
जब प्राण जोरसे आने-जाने लगा, तब विराट् पुरुषको भूख-प्यासका अनुभव हुआ। खाने-पीनेकी इच्छा करते ही सबसे पहले उनके शरीरमें मुख प्रकट हुआ॥ १७॥
वीरराघवः
अथ साधिष्ठानस्य सदेवतस्य सविषयस्य जिह्वेन्द्रियस्य उत्पत्तेः मुख्यप्राणहेतुकत्वं सूचयत्राह - प्राणेनेति । क्षिपता व्याप्रियमाणेन 55प्राणेन विभोश्चतुर्मुखस्यान्तरा जठराग्नौ दीपिते 56क्षुत्तृट् च जायते 57अजायत इत्यर्थः । ततः पिपासतः पातुमिच्छतः जक्षतः अत्तुमिच्छतश्च नटस्य श्रुणोतीतिवत् 58पञ्चम्यर्थे षष्ठी बोध्या, प्राक् प्रथमं मुखं निरभिद्यत विभक्तमभूत् चतुर्मुखमुखात् व्यष्टिशरीरमुखानि उत्पन्नानीत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते॥
मूलम्
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते॥ १८ ॥
अनुवाद (हिन्दी)
मुखसे तालु और तालुसे रसनेन्द्रिय प्रकट हुई। इसके बाद अनेकों प्रकारके रस उत्पन्न हुए , जिन्हें रसना ग्रहण करती है॥ १८॥
वीरराघवः
ताल्वधिष्ठानं जिह्वेन्द्रियं नानारसः विषयः वरुणश्च देवता ज्ञातव्याः । एवं सर्वत्र अधिष्ठानं इन्द्रियं देवता विषयः इत्येतच्चतुष्टयं अनुक्तमप्यूह्यम् । मुखाद्यङ्गैः विना जिह्वायाः उत्पत्त्ययोगात् मुखेत्पत्तिरुक्ता नत्वाधिष्ठानतया अधिष्ठानं तु ताल्वेव । अनेन ज्ञातृसृष्टिरप्यर्थात् उक्ता भवति वागादीन्द्रियाश्रयमुखाद्यवयवसङ्घातात्मकदेवादिदेहयोगकरणमेव हि ज्ञातृसृष्टिः । तालुः जिह्वामूलं 59निर्भिन्नं व्यष्टिशरीरतालूत्पन्नमित्यर्थः । तत्र तालुनि जिह्वा 60उपजायते उपाजायतेत्यर्थः । नानारसः कट्वाम्लमधुरतिक्तादिरसः जज्ञे जिह्वाया यः नानारसः अधिगम्यते ज्ञाय61त इत्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः।
जले वै तस्य सुचिरं निरोधः समजायत॥
अनुवाद (हिन्दी)
जब उनकी इच्छा बोलनेकी हुई तब वाक्-इन्द्रिय, उसके अधिष्ठातृदेवता अग्नि और उनका विषय बोलना—ये तीनों प्रकट हुए। इसके बाद बहुत दिनोंतक उस जलमें ही वे रुके रहे॥ १९॥
वीरराघवः
वाग्व्यष्ट्युत्पत्तिमाह - विवक्षोरिति । विवक्षोर्वक्तुमि64च्छोभूम्नो भगवतः 65चतुर्मुखरूपिणो भगवतः मुखतः मुखात् वह्निः वागभिमानिनी देवता वागिन्द्रियं तयोरिन्द्रियतदभिमानिदेवतयोर्व्यापाररूपं व्याहृतमुक्तिश्चाभूदित्यर्थः । एवं सर्वत्र ब्रह्मशरीरात् समष्टिभूतात् व्यष्ट्यवयवविशेषविभाग उच्यते । 66मुखाद्यरित्यस्य मुखमादिर्येषां कपोलादीनां तैरङ्गैः विनेत्यर्थः मुखकपोलहन्वादिसमुच्चयं विना तदन्तर्वर्तिजिह्वायाः उत्पत्त्ययोगादित्यभिप्रायः । 67न चेयं चतुर्मुखस्यैवेन्द्रयोत्पत्तिरिति वक्तुं युक्तं “उपरि हस्तौ रुरुहतुः” (भाग 2-10-24) इति हस्तद्वयोत्पत्तिकथनेन चतुर्मुखस्य द्विबाहुत्वाभावात् देवादिशरीरस्थहस्तादिव्यष्टियुग्मविभगस्य सूचितत्वत् घ्राणेन्द्रियव्यष्ट्युत्पत्तिमाह गले इति । एतस्य ब्रह्मणः कण्ठे सुचिरं 68कालमित्यर्थः । निरोधः वायोरिति शेषः । वायोर्निरोधः समजायतेत्यर्थः । जले इति पाठे नभस्वतीत्यन्वयः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
नासिके निरभिद्येतां दोधूयति नभस्वति।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः॥
मूलम्
नासिके निरभिद्येतां दोधूयति नभस्वति।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः॥ २० ॥
अनुवाद (हिन्दी)
श्वासके वेगसे नासिका-छिद्र प्रकट हो गये। जब उन्हें सूँघनेकी इच्छा हुई, तब उनकी नाक घ्राणेन्द्रिय आकर बैठ गयी और उसके देवता गन्धको फैलानेवाले वायुदेव प्रकट हुए॥ २०॥
वीरराघवः
निरोधात् नभस्वति वायौ दोधूयति । अत्यन्तं प्रचलति सति नासिके 69नासापुटे निरभिद्येताम् । वायुव्यापारं कुर्वतः ब्रह्मणः शरीरे वायुपूरिते नासिके निरभिद्येताम् । ब्रह्मशरीरे 70वायोः स्तैमित्यात्रासा71विवरात् नासाव्यष्टयः अभवन्नित्यर्थः । 72घ्राणाभिमानिदेवतोत्पत्तिमाह - तत्रेति । “वायुः प्राणो भूत्वा नासिके प्राविशत्” इति श्रुतेः । जिघृक्षतः 73गन्धमिति शेषः गन्धं 74ग्रहीतुमिच्छतः 75ब्रह्मणः तत्र नसि 76नासायां गन्धवहः 77घ्राणग्राह्यगन्धप्रापकः 78वायुः घ्राणाधिष्ठाता घ्राण इन्द्रियं च निरभिद्यते79त्यन्वयः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
यदाऽऽत्मनि निरालोकमात्मानं च दिदृक्षतः।
निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः॥
मूलम्
80यदाऽऽत्मनि निरालो81कमात्मानं च दिदृक्षतः।
निर्भिन्ने 82ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः॥ २१ ॥
अनुवाद (हिन्दी)
पहले उनके शरीरमें प्रकाश नहीं था; फिर जब उन्हें अपनेको तथा दूसरी वस्तुओंको देखनेकी इच्छा हुई, तब नेत्रोंके छिद्र, उनका अधिष्ठाता सूर्य और नेत्रेन्द्रिय प्रकट हो गये। इन्हींसे रूपका ग्रहण होने लगा॥ २१॥
वीरराघवः
चक्षुर्व्यष्टि सृ83ष्टिमाह - यदेति । यदा आत्मनि देहे निरालोकं अर्थाभावेऽव्ययीभावः । आ84लोकाभावः आसीदिति शेषः । तदा आत्मानं देहं चकारादन्यच्च वस्तु दिदृक्षतः तस्य ब्रह्मणोऽक्षिणी अधिष्ठा85नं निर्भिन्ने चक्षुरिन्द्रियस्य व्यष्टियु86ग्मान्युत्पन्नानीत्यर्थः । चक्षुःचक्षुरिन्द्रियम् । गुणग्रहो रूपगुणग्राहकं ज्योतिः आदि87त्योत्पन्नमित्यर्थः “स हि चक्षुरभिमानी आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्” इति श्रुतेः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः।
कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः॥
मूलम्
बोध्यमानस्य ऋषिभिः आत्मन88स्तञ्जिघृक्षतः।
कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः॥ २२ ॥
अनुवाद (हिन्दी)
जब वेदरूप ऋषि विराट् पुरुषको स्तुतियोंके द्वारा जगाने लगे, तब उन्हें सुननेकी इच्छा हुई। उसी समय कान, उनकी अधिष्ठातृदेवता दिशाएँ और श्रोत्रेन्द्रिय प्रकट हुई। इसीसे शब्द सुनायी पड़ता है॥ २२॥
वीरराघवः
श्रोत्र89व्यष्टिसृष्टिमाह - बोध्यमानस्येति । ऋषिभिः वेदैः बोध्यमानस्य प्रबोध्यमानस्य तत्प्रबोध ग्रहीतुमिच्छतः आत्मनः ब्रह्मणः कर्णो दिशः, श्रोत्राभिमानिदेवताः गुणग्रहः शब्दग्रहणहेतुः श्रोत्रमिन्द्रियं निरभि90द्यत इत्यर्थः । श्रोत्रेन्द्रियव्यष्टियुग्मान्यभवन्निति भावः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम्।
जिघृक्षतस्त्वङ्निर्भिन्ना तस्यां रोममहीरुहाः।
तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः॥
मूलम्
वस्तुनो मृदुकाठि91न्य लघुगु92र्वोष्णशीत93ताम्।
जिघृक्षतस्त्वङ्निर्भिन्ना तस्यां 94रोममहीरुहाः।
तत्र चान्तर्बहिर्वा95तस्त्वचा लब्धगु96णो वृतः॥ २३ ॥
अनुवाद (हिन्दी)
जब उन्होंने वस्तुओंकी कोमलता, कठिनता, हलकापन, भारीपन, उष्णता और शीतलता आदि जाननी चाही तब उनके शरीरमें चर्म प्रकट हुआ। पृथ्वीमेंसे जैसे वृक्ष निकल आते हैं, उसी प्रकार उस चर्ममें रोएँ पैदा हुए और उसके भीतर-बाहर रहनेवाला वायु भी प्रकट हो गया। स्पर्श ग्रहण करनेवाली त्वचा-इन्द्रिय भी साथ-ही-साथ शरीरमें चारों ओर लिपट गयी और उससे उन्हें स्पर्शका अनुभव होने लगा॥ २३॥
वीरराघवः
त्वगिन्द्रिय97व्यष्ट्युत्पत्तिमाह - वस्तुन इति । वस्तुनः द्रव्यस्य मृदुत्वं काठिन्यं च लघुत्वं च गुरुत्वं च 98औष्णं 99आ उष्णं ईषदुष्णत्वं चात्युष्णत्वस्य ग्रहणायोग्यत्वादोष्णं इत्युक्तम् । गुर्वुष्णेतिपाठे यणादेशश्छान्दसः । शीततां च एतान् गुणान् जिघृक्षतः ग्रहीतुमिच्छतः त्वगिन्द्रियव्यष्टिरुत्पन्ना इत्यर्थः । वस्तुनि हस्तेनातोलिते लघुत्वगुरुत्वयोर्ज्ञानात्तयोरपि त्वगिन्द्रियविषयत्वमिति ज्ञेयम् । अत्रेदं 100तत्त्वं बोद्धव्यम् - त्वगिन्द्रियस्य सूक्ष्मस्थूलरूप बाह्यभ्यन्तरचर्मणी द्वे स्थाने । स्थानभेदाच्च कण्डूः स्पर्शश्चेति विषयभेदः । विषयभेदाश्च महीरुहाः वायुश्चेति देवताद्वयम् । “त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः । अंशेन लोमभिः कण्डूर्यैरसौ प्रतिपद्यते” (भाग 3-6-18) “निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते”(भा.ग.3-6-16) इति तृतीये स्पष्टमभिधास्यमानत्वात् । एवं चैकमेव त्वगिन्द्रियं बाह्यचर्मगतं लोमसु व्याप्तमोषधिदेवताकं कण्डूग्राहकं एतदेवान्तर्बहिश्च 101स्पर्शं गृह्णद्वायुदैवतकं इति । एतदेव सङ्ग्रहेणाह तस्यामिति । तस्यां त्वचि त्वगिन्द्रिये निर्भिन्ने 102तदधिष्ठानं रोमाणि अधिष्ठातृदेवतामहीरुहाश्चोत्पन्ना इत्यर्थः । अथ स्पर्शं गृह्णतः तस्यैव त्वगिन्द्रियस्य वाय्वधिष्ठितत्वमाह तत्र चेति । तत्र च तत्रैव त्वगिन्द्रिये वातो वायुः वृतः अधिष्ठितवान् कथम्भूतम् ? त्वचा स्वाधिष्ठेय त्वगिन्द्रियेण साधनेन अन्तर्बहिश्च लब्धगुणः लब्धः 103स्पर्शः गुणः येन सः अन्तर्बहिश्च स्पर्शसम्पादक इत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया।
तयोस्तु बलमिन्द्रश्च आदानमुभयाश्रयम्॥
अनुवाद (हिन्दी)
जब उन्हें अनेकों प्रकारके कर्म करनेकी इच्छा हुई, तब उनके हाथ उग आये। उन हाथोंमें ग्रहण करनेकी शक्ति हस्तेन्द्रिय तथा उनके अधिदेवता इन्द्र प्रकट हुए और दोनोंके आश्रयसे होनेवाला ग्रहणरूप कर्म भी प्रकट हो गया॥ २४॥
वीरराघवः
पाणिव्यष्टिसृष्टिमाह - हस्ताविति । नानाकर्म आदानादिकर्म चिकीर्षतः 106लब्धस्पर्शं कर्तुमिच्छतः तस्य ब्रह्मणः हस्तौ रुरुहतुः ब्रह्मगतहस्तसमष्टितः हस्तयुग्मव्यष्टयोऽभूवन्नित्यर्थः । अत्र स्थानेन्द्रियाधिष्टातृकर्माण्याह तयोरिति । वृत्तिस्तृतीये स्पष्टा । तयोर्हस्तयोः स्थानभूतयोः बलवान् पाणीन्द्रियापरपर्यायबलसहितः इन्द्रः अधिष्ठातेत्यर्थः उभयाश्रयं हस्तद्व107याश्रयं उपादानं कर्म । विषयस्तु इन्द्रियहस्तगतत्वादादानमपि हस्तद्वयाश्रयमित्यर्थः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम्।
पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः॥
मूलम्
गतिं 108जिगीषतः पादौ रुरुहातेऽभिका109मिकाम्।
पद्भ्यां यज्ञः स्वयं हव्यं कर्म110भिः क्रियते 111नृभिः॥ २५ ॥
अनुवाद (हिन्दी)
जब उन्हें अभीष्ट स्थानपर जानेकी इच्छा हुई, तब उनके शरीरमें पैर उग आये। चरणोंके साथ ही चरण-इन्द्रियके अधिष्ठातारूपमें वहाँ स्वयं यज्ञपुरुष भगवान् विष्णु स्थित हो गये और उन्हींमें चलनारूप कर्म प्रकट हुआ। मनुष्य इसी चरणेन्द्रियसे चलकर यज्ञ-सामग्री एकत्र करते हैं॥ २५॥
वीरराघवः
पादेन्द्रिय112व्यष्टिसृष्टिमाह - गतिमिति । अभिकामिकां इच्छानुसारां गतिं जिघृक्षतः 113ग्रहीतुमिच्छतः ब्रह्मणः पादौ रुरुहाते निर्भिन्नावित्यर्थः । अथ स्थानेन्द्रियादीनाह पभ्द्यामिति । “यज्ञोविष्णुः” “यज्ञो वै विष्णुः” इति श्रुतेः । यज्ञः स्वयमेव114 इन्द्रियस्य पादद्वयस्थत्वात् पभ्द्यामिति द्विवचननिर्देशः । पभ्द्यां गतिसामर्थ्यापादकपादेन्द्रियेण सह पादयोरधिष्ठितवान् इत्यर्थः । नृभिः कर्मभिः गमनागमनादिभिः कर्मभिः हव्यं हविरर्थं द्रव्यं क्रियते सम्पाद्यते इत्यर्थः । गमनादिकं कर्म हव्यं विषय इत्युक्तम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः।
उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम्॥
मूलम्
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः।
उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम्॥ २६ ॥
अनुवाद (हिन्दी)
सन्तान, रति और स्वर्ग-भोगकी कामना होनेपर विराट् पुरुषके शरीरमें लिंगकी उत्पत्ति हुई। उसमें उपस्थेन्द्रिय और प्रजापति देवता तथा इन दोनोंके आश्रय रहनेवाले कामसुखका आविर्भाव हुआ॥ २६॥
वीरराघवः
उपस्थव्यष्टिसर्गमाह - निरभिद्यतेति । प्रजानन्दामृतार्थिनः प्रजाः अपत्यं आनन्दो रतिः आनन्दहेतुत्वात्तस्याः । ताभ्यां यदमृतं अमृततुल्यं सुखम् । तदर्थं यतः यद्वा प्रजां रत्यानन्दरूपममृतं 115वाऽर्थयतः ब्रह्मणः समष्युपस्थतः व्यष्ट्युपस्थस्थानं निरभिद्यत अभूदित्यर्थः । शिश्रः शिश्रग्रहणं योषिल्लिङ्गस्याप्युपलक्षणम् । शिश्नः अधिष्ठानं उपस्थ इन्द्रियं प्रजापतिरधिष्ठाता रतिः कर्म आनन्दो विषयश्चासीत् इत्यनुक्तमप्यूह्यम् । कामानां स्त्रीसम्भोगादीनां प्रियं सुखं उभयाश्रयं इन्द्रियदेवताश्रयमित्यर्थः । यद्वा उभयाश्रयं स्त्रीपुल्लिङ्गाश्रयं इत्यर्थः । इन्द्रियतत्स्थानाश्रयमिति वा ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम्।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः॥
अनुवाद (हिन्दी)
जब उन्हें मलत्यागकी इच्छा हुई, तब गुदाद्वार प्रकट हुआ। तत्पश्चात् उसमें पायु-इन्द्रिय और मित्र-देवता उत्पन्न हुए। इन्हीं दोनोंके द्वारा मलत्यागकी क्रिया सम्पन्न होती है॥ २७॥
वीरराघवः
पायुव्यष्ट्युत्पत्तिमाह - उत्सिसृक्षोरिति । धातुमलं भुक्तानामन्नादीनामसारांशं त्यक्तुमिच्छोः गुदं पाय्विन्द्रियस्थानं निरभिद्यत ततो गुदतः पायुः इन्द्रियं मित्रोधिष्ठाता 118चाभूत् उत्सर्गः त्यागः 119उभयाश्रयः इन्द्रियतत्स्थानाश्रयः धातुमलत्याग इत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
आसिसृप्सोः पुरः पुर्या नाभिद्वारमपानतः।
तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम्॥
मूलम्
आसिसृ120प्सोः पु121रः पु122र्या नाभिद्वारमपा123नतः।
124तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम्॥ २८ ॥
अनुवाद (हिन्दी)
अपानमार्गद्वारा एक शरीरसे दूसरे शरीरमें जानेकी इच्छा होनेपर नाभिद्वार प्रकट हुआ। उससे अपान और मृत्यु देवता प्रकट हुए। इन दोनोंके आश्रयसे ही प्राण और अपानका बिछोह यानी मृत्यु होती है॥ २८॥
वीरराघवः
एवं ज्ञान125कर्मोभयेन्द्रियव्यष्टिसृष्टिमभिधाय अन्यासामपि नाभ्यादिव्यष्टीनां तत्समष्टितः उत्पत्तिमाह - आसिसृप्सोरिति । पुर्याः 126शरीरात् 127पुरः शरीरान्तराणि आसिसृप्सोः 128आ सर्वतः गन्तुमिच्छोः ब्रह्मणः अपानतः समष्ट्यपानवातात् अपानव्यष्टिस्थानं 129निरभिद्यत । तत्र 130नाभिद्वारे अपानो 131वायुरिन्द्रियस्थानीयः । 132ततो अपानतः मृत्युरधिष्ठाता । पृथक्त्वं 133शरीरत्यागः । उभयाश्रयं प्राणापानाश्रयं प्राणापानवायुवियोगे मरणस्य पुराणान्तरप्रसिद्धेः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः।
नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये॥
मूलम्
आदित्सोरन्नपानाना134मासन् कु135क्ष्यन्त्रनाड136यः।
नद्यस्समुद्रा137श्च तयोस्तुष्टिः पुष्टिः तदाश्रये॥ २९ ॥
अनुवाद (हिन्दी)
जब विराट् पुरुषको अन्न-जल ग्रहण करनेकी इच्छा हुई, तब कोख, आँतें और नाड़ियाँ उत्पन्न हुईं। साथ ही कुक्षिके देवता समुद्र, नाड़ियोंके देवता नदियाँ एवं तुष्टि और पुष्टि—ये दोनों उनके आश्रित विषय उत्पन्न हुए॥ २९॥
वीरराघवः
138व्यष्टिकुक्ष्यन्त्रनाडीनां सृष्टिमाह - आदित्सोरिति । अन्नपानानां आदित्सोः सङ्ग्रहेच्छोः कु139क्ष्यन्त्रना140ड्यः आसन्नभूवन् । कुक्षिरधिष्ठानं अन्त्राणि 141अन्नसङ्ग्रहे करणं इन्द्रियस्थानीयानि नाड्यस्तु पानसङ्ग्रहे । तयोर्ना142ड्यन्त्रवर्गयोः क्रमेण नद्यः समुद्राश्च देवते । तुष्टिरलम्बुद्धिः । पुष्टिर्देहपोषः तदाश्रये नदीसमुद्राश्रये सस्यादिहेतुत्वात् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
निदिध्यासोरात्ममायां हृदयं निरभिद्यत।
ततो मनस्ततश्चन्द्रः सङ्कल्पः काम एव च॥
मूलम्
निदिध्यासोरात्ममायां हृदयं निरभिद्यत।
ततो मन143स्ततश्चन्द्रस्सङ्कल्पः काम एव च॥ ३० ॥
अनुवाद (हिन्दी)
जब उन्होंने अपनी मायापर विचार करना चाहा, तब हृदयकी उत्पत्ति हुई। उससे मनरूप इन्द्रिय और मनसे उसका देवता चन्द्रमा तथा विषय, कामना और संकल्प प्रकट हुए॥ ३०॥
वीरराघवः
मनोव्यष्टिसृष्टिमाह - निदिध्यासोरिति । आत्ममायां स्वरूपतिरोधायकप्रकृतिं निदिध्यासोः निरूप144यितुं इच्छतः हृदयं कमलाकारमधिष्ठानम् । ततो मन इन्द्रियं चन्द्रः अभिमानी । सङ्क145ल्पः मनोव्यापारश्चाभूदित्यर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः।
भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः॥
मूलम्
त्वक्चर्ममांसरुधिरमेदोमद्यास्थिधातवः।
भूम्यप्तेजोमयास्सप्त प्रा146णो व्योमाम्बुवायुभिः॥ ३१ ॥
अनुवाद (हिन्दी)
विराट् पुरुषके शरीरमें पृथ्वी, जल और तेजसे सात धातुएँ प्रकट हुईं—त्वचा, चर्म, मांस, रुधिर, मेद, मज्जा और अस्थि। इसी प्रकार आकाश, जल और वायुसे प्राणोंकी उत्पत्ति हुई॥ ३१॥
वीरराघवः
एवं ब्रह्मशरीरात् समष्टेः व्यष्ट्यवयवविशेषविभागमभिधाय तेषां सार्वभौतिकत्वेऽपि तत्तद्भूतांश भूयस्त्वनिबन्धनं तदात्मकत्वमाह - त्वगिति । चर्म स्थूलं अन्तस्त्वक् । तदुपरि स्थितं सूक्ष्मं चर्म त्वक् त्वगादयोस्थ्यन्ताः द्वन्द्वैकवद्भावेन निर्दिष्टाः एते सप्त धातवः भूम्यप्तेजोमयाः प्रा147णस्तु व्योमाम्बुवायुभिः आरब्ध148 इति शेषः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः।
मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी॥
मूलम्
149गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः।
मनस्सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी॥ ३२ ॥
अनुवाद (हिन्दी)
श्रोत्रादि सब इन्द्रियाँ शब्दादि विषयोंको ग्रहण करनेवाली हैं। वे विषय अहंकारसे उत्पन्न हुए हैं। मन सब विकारोंका उत्पत्तिस्थान है और बुद्धि समस्त पदार्थोंका बोध करानेवाली है॥ ३२॥
वीरराघवः
गुणात्मेति । इन्द्रियाणि गुणात्मकानि शब्दादिगुणग्रहणस्वभावानि । गुणाः यदात्मकाः 150ते के इत्यत आह - भूतादिरिति । भूतादिः अहङ्कारः तत्प्रभवाः शब्दादयो गुणाः इन्द्रियाण्यपि तत्प्रभवत्वात् तदात्मकान्येवेत्यभिप्रायः । मनः सर्वविकाराणां कामसङ्कल्पादीनां आत्मा आश्रयः । बुद्धिः विज्ञायते अनेनति विज्ञानं 151महत्तत्वं तद्रूपिणी बुद्धिः “महान्वै बुद्धिलक्षणः” इति वचनात् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम्॥
मूलम्
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया।
मह्यादिभिश्चावरणैः अष्टभिर्बहिरावृतम्॥ ३३ ॥
अनुवाद (हिन्दी)
मैंने भगवान्के इस स्थूलरूपका वर्णन तुम्हें सुनाया है। यह बाहरकी ओरसे पृथ्वी, जल, तेज, वायु, आकाश, अहंकार, महत्तत्त्व और प्रकृति—इन आठ आवरणोंसे घिरा हुआ है॥ ३३॥
वीरराघवः
उपसंहरति - एतदिति । एतच्चेतनाचेतनात्मकं देवादिव्यष्टिवस्तुजातगर्भम् । एतच्छब्दः अण्डकटाहपरः, पृथिव्यप्तेजोवाय्वाकाशाहङ्कारमहदव्यक्तरूपैः अष्टाभिः अण्डावरणैः बहिरावृतम् । 152तोयादिभिश्चावरणैः सप्तभिः बहिरावृतम् इति पाठान्तरम् । भगवतः स्थूलं रूपं ते तुभ्यं मया व्याहृतं सम्यगभिहितम् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम्।
अनादिमध्यनिधनं नित्यं वाङ्मनसः परम्॥
मूलम्
अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम्।
अनादिमध्यनिधनं नित्यं वाङ्मन153सः परम्॥ ३४ ॥
अनुवाद (हिन्दी)
इससे परे भगवान्का अत्यन्त सूक्ष्मरूप हैै। वह अव्यक्त, निर्विशेष, आदि, मध्य और अन्तसे रहित एवं नित्य है। वाणी और मनकी वहाँतक पहुँच नहीं है॥ ३४॥
वीरराघवः
154ततो विलक्षणं रूपान्तरमस्तीत्याह - अत इति । अयं श्लोकः जीवपरः अव्यक्तस्योक्तत्वात्, अन्यथा 155अष्टसङ्घयानुपपत्तेः अतः स्थूलरूपात् परं परत्वेनावस्थि156तं सूक्ष्मत157मं “158वालाग्रशतभागस्य” इति श्रुत्युक्तं मुक्तात्मस्वरूपं रूपान्तरमपि भगवतोऽस्तीति शेषः । सू159क्ष्मतमत्वं कुतः ? अव्यक्तं चक्षुरादिभिः न व्यज्यते इत्यव्यक्तम् । चक्षुराद्य ग्राह्यं तत्कुतः निर्विशेषणं शब्दस्पर्शरूपादि गुणाभावात् शब्दादिविशेष वदेव चक्षुरादिग्राह्यमिति भावः । निर्विशेषत्वं कुतः ? वाङ्मनसः परं देवमनुष्यादि बुद्धिशब्दागोचरम् । तदपि कुतः ? अनादिमध्यनिधनम् । आदिः उत्पत्तिः, निधनं विनाशः मध्यं उत्पत्तिनिधनयोः अन्तरालावस्था एतदवस्थात्रयशून्यमित्यर्थः । तदपि वा कुतः ? नित्यं कालापरिच्छिन्नमेव अवस्थात्रयवदिति भावः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
अमुनी भगवद्रूपे मया ते अनुवर्णिते।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः॥
अनुवाद (हिन्दी)
मैंने तुम्हें भगवान्के स्थूल और सूक्ष्म—व्यक्त और अव्यक्त जिन दो रूपोंका वर्णन सुनाया है, ये दोनों ही भगवान्की मायाके द्वारा रचित हैं। इसलिये विद्वान् पुरुष इन दोनोंको ही स्वीकार नहीं करते॥ ३५॥
वीरराघवः
एवं प्रकृतिमण्डलोत्तीर्णं मुक्तात्मस्वरूपं विशोध्य संसृष्टासंसृष्टयोरुभयोः संसृष्टस्य अविद्यावेष्टितत्वात् मुक्तस्वरूपस्य निष्पन्नयोगिध्येयतया योगयुङ्मनसोऽनालम्बनतया शुभाश्रयत्वं प्रतिषेधति - अमुनी इति । ते तुभ्यं मया अनुवर्णिते भगवतः अमुनी स्थूल162सूक्ष्मरूपे न गृह्णन्ति नोपासते उपासका इति शेषः । उपासकाः उपास्यशुभाश्रयत्वेन न गृह्णन्तीत्यर्थः । कुतः विपश्चितः सर्वज्ञस्य ब्रह्मणः माया सृष्टेः सङ्कल्पसृष्टेः भगवत्सङ्कल्पायत्तत्वात् बन्धमोक्षयोरित्यर्थः । मूर्तस्य संसृष्टचेतनस्य अविद्यावेष्टितत्वेन अशुद्धत्वात् मुक्तस्वरूपस्य स्वतश्शुद्धिविरहाच्च नोपासनाविषयत्वं किन्तु “आदित्यवर्णं” इत्यादि वेदान्तसिद्धं परमात्मनो मूर्तं रूपमेव उपास्यमित्यर्थः । तथा च शौनकेन चतुर्मुखसनकादीनां जगदन्तर्वर्तिनां अविद्यावेष्टितत्वेन शुभाश्रयतानर्हतामुक्त्वा बद्धानामेव पश्चाद्योगेन उद्भूतबोधानां स्वस्वरूपापन्नानां च स्वतश्शुद्धिविरहात् शुभाश्रयताप्रतिषेधः उक्तः “आब्रह्मस्तम्बपर्यन्ताः जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः । पश्चादुद्भूतबोधाश्च ध्यानेनैवोपकारकाः नैसर्गिको 163न वै बोधः तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादवबोधवत्” इत्यादिना प्राधान्येन उपास्यत्वनिषेधः भगवद्विभूतित्वेन उपासनं तु इष्टमेव ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक्।
नामरूपक्रिया धत्ते सकर्माकर्मकः परः॥
मूलम्
स वाच्यवाचकतया भगवान् ब्रह्मरूपधृ164क्।
नामरूपक्रिया धत्ते सकर्माकर्मकः परः॥ ३६ ॥
अनुवाद (हिन्दी)
वास्तवमें भगवान् निष्क्रिय हैं। अपनी शक्तिसे ही वे सक्रिय बनते हैं। फिर तो वे ब्रह्माका या विराट् रूप धारण करके वाच्य और वाचक—शब्द और उसके अर्थके रूपमें प्रकट होते हैं और अनेकों नाम, रूप तथा क्रियाएँ स्वीकार करते हैं॥ ३६॥
वीरराघवः
स्थूल165स्य भगवद्रूपत्वमेव उपपादयितुं भगवत एव ब्रह्मादिरूपेण स्रष्टृत्वादिकमाह - स इति । 166स भगवान् वाच्यवाचकतयाऽवस्थितः जगच्छरीरकत्वात् वाच्यतयावस्थितः आकाशशरीरकत्वाञ्च वाचकाकाशगुणशब्दरूपेणावस्थितः ब्रह्मरूप167धृक् नामरूपक्रियाः धत्ते । ब्रह्मरूप168धृक् इत्यनेन प्रागुक्तव्यष्टिसृष्टिः चतुर्मुखशरीरकात् इत्यवगम्यते । नाम देवादिनाम, रूपं देवादिरूपं, क्रिया तेषां कृत्यानि 169धत्ते 170विधत्ते स्वपर्य171न्ताः नामरूपक्रियाः । यथा “नामरूपं च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः” इति । कथम्भूतो विधत्ते अकर्मकः अकर्मवश्यः सकर्मा सङ्कल्पमात्रव्यापा172रकः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
प्रजापतीन्मनून् देवानृषीन्पितृगणान् पृथक्।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान्॥
मूलम्
प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक्।
सिद्धचारणगन्धर्वान् विद्या173ध्रासुरगुह्यकान्॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान्।
मातॄ रक्षःपिशाचांश्च प्रेतभूतविनायकान्॥
मूलम्
किन्नराप्सरसो 174नागान् सर्पान् किम्पुरु175षोरगान्।
मा176तरक्षःपिशाचांश्च प्रेतभूतविनायकान्॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि।
खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान्॥
मूलम्
कू177ष्माण्डोन्माद178वेतालान् यातुधानान् ग्रहानपि।
खगान् मृगान् पशून् वृक्षान् गिरीन् नृप! सरीसृपान्॥ ३९ ॥
अनुवाद (हिन्दी)
परीक्षित्! प्रजापति, मनु, देवता, ऋषि, पितर, सिद्ध, चारण, गन्धर्व, विद्याधर, असुर, यक्ष, किन्नर, अप्सराएँ, नाग, सर्प, किम्पुरुष, उरग, मातृकाएँ, राक्षस, पिशाच, प्रेत, भूत, विनायक, कूष्माण्ड, उन्माद, वेताल, यातुधान, ग्रह, पक्षी, मृग, पशु, वृक्ष, पर्वत, सरीसृप इत्यादि जितने भी संसारमें नाम-रूप हैं, सब भगवान्के ही हैं॥ ३७—३९॥
वीरराघवः
नामरूपक्रियाधानमेव प्रपञ्चयति - प्रजापतीनित्यादिना । द्वितीयान्तानां धत्ते इत्यनेनान्वयः । तत्र प्रजापत्यादिनामानि तद्वाच्यानि रूपाणि तत्कर्माणि च ज्ञेयानि पृथक् तत्तदवान्तरभेदेन । गिरीनित्यस्या नन्तरं नृपेति सम्बोधनम् ॥ ३७,३८,३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः।
कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः॥
अनुवाद (हिन्दी)
संसारमें चर और अचर भेदसे दो प्रकारके तथा जरायुज, अण्डज, स्वेदज और उद्भिज्ज भेदसे चार प्रकारके जितने भी जलचर, थलचर तथा आकाशचारी प्राणी हैं, सब-के-सब शुभ-अशुभ और मिश्रित कर्मोंके तदनुरूप फल हैं॥ ४०॥
वीरराघवः
चतुर्विधाः जरायुजाण्डजस्वेदजोद्भिज्जरूपेण चतुर्विधाः “पुमान् न देवो न नरो न पशुः न च पादपः । चतुर्विधो विभेदोऽयं" इत्युक्तदेवादिरूपेण 181वा चतुर्विधाः । 182ये च द्विविधाः स्थावरजङ्गमरूपेण द्विविधाः । जलस्थलनभांसि ओकांसि 183स्थानानि येषां तान्184 धत्ते इति पूर्वे185णान्वयः । न186न्वेकरूप्येणैव किं न धत्ते इत्यत आह - कुशलेत्यादिना । कर्मणां क्षेत्रज्ञपुण्यापुण्यरूपाणां कर्मणां पराः प्राप्याः गतयः फलानि कुशलाः उत्तमाः, अकुशलाः नीचाः, मिश्राः म187ध्यमाः । कर्मणां विचित्रत्वात् तत्फलानामपि वैचित्र्यमिति भावः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते॥
मूलम्
सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते॥
अनुवाद (हिन्दी)
सत्त्वकी प्रधानतासे देवता, रजोगुणकी प्रधानतासे मनुष्य और तमोगुणकी प्रधानतासे नारकीय योनियाँ मिलती हैं। इन गुणोंमें भी जब एक गुण दूसरे दो गुणोंसे अभिभूत हो जाता है, तब प्रत्येक गतिके तीन-तीन भेद और हो जाते हैं।॥ ४१॥
श्लोक-४२
विश्वास-प्रस्तुतिः
स एवेदं जगद्धाता भगवान् धर्मरूपधृक्।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः॥
मूलम्
स एवेदं जगद्धाता भगवान् धर्मरूपधृक्।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः॥
अनुवाद (हिन्दी)
वे भगवान् जगत्के धारण-पोषणके लिये धर्ममय विष्णुरूप स्वीकार करके देवता, मनुष्य और पशु, पक्षी आदि रूपोंमें अवतार लेते हैं तथा विश्वका पालन-पोषण करते हैं॥ ४२॥
श्लोक-४३
विश्वास-प्रस्तुतिः
ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः।
संनियच्छति कालेन घनानीकमिवानिलः॥
मूलम्
ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः।
संनियच्छति कालेन घनानीकमिवानिलः॥
अनुवाद (हिन्दी)
प्रलयका समय आनेपर वे ही भगवान् अपने बनाये हुए इस विश्वको कालाग्निस्वरूप रुद्रका रूप ग्रहण करके अपनेमें वैसे ही लीन कर लेते हैं, जैसे वायु मेघमालाको॥ ४३॥
श्लोक-४४
विश्वास-प्रस्तुतिः
इत्थंभावेन कथितो भगवान् भगवत्तमः।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरयः॥
मूलम्
इत्थंभावेन कथितो भगवान् भगवत्तमः।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरयः॥
अनुवाद (हिन्दी)
परीक्षित्! महात्माओंने अचिन्त्यैश्वर्य भगवान्का इसी प्रकार वर्णन किया है। परन्तु तत्त्वज्ञानी पुरुषोंको केवल इस सृष्टि, पालन और प्रलय करनेवाले रूपमें ही उनका दर्शन नहीं करना चाहिये; क्योंकि वे तो इससे परे भी हैं॥ ४४॥
श्लोक-४५
विश्वास-प्रस्तुतिः
नास्य कर्मणि जन्मादौ परस्यानुविधीयते।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्॥
मूलम्
नास्य कर्मणि जन्मादौ परस्यानुविधीयते।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत्॥
अनुवाद (हिन्दी)
सृष्टिकी रचना आदि कर्मोंका निरूपण करके पूर्ण परमात्मासे कर्म या कर्तापनका सम्बन्ध नहीं जोड़ा गया है। वह तो मायासे आरोपित होनेके कारण कर्तृत्वका निषेध करनेके लिये ही है॥ ४५॥
श्लोक-४६
विश्वास-प्रस्तुतिः
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः॥
मूलम्
अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः॥
अनुवाद (हिन्दी)
यह मैंने ब्रह्माजीके महाकल्पका अवान्तर कल्पोंके साथ वर्णन किया है। सब कल्पोंमें सृष्टि-क्रम एक-सा ही है। अन्तर है तो केवल इतना ही कि महाकल्पके प्रारम्भमें प्रकृतिसे क्रमशः महत्तत्त्वादिकी उत्पत्ति होती है और कल्पोंके प्रारम्भमें प्राकृत सृष्टि तो ज्यों-की-त्यों रहती ही है, चराचर प्राणियोंकी वैकृत सृष्टि नवीन रूपसे होती है॥ ४६॥
श्लोक-४७
विश्वास-प्रस्तुतिः
परिमाणं च कालस्य कल्पलक्षणविग्रहम्।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु॥
मूलम्
परिमाणं च कालस्य कल्पलक्षणविग्रहम्।
यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो शृणु॥
अनुवाद (हिन्दी)
परीक्षित्! कालका परिमाण, कल्प और उसके अन्तर्गत मन्वन्तरोंका वर्णन आगे चलकर करेंगे। अब तुम पाद्मकल्पका वर्णन सावधान होकर सुनो॥ ४७॥
श्लोक-४८
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान्॥
मूलम्
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान्॥
अनुवाद (हिन्दी)
शौनकजीने पूछा—सूतजी! आपने हमलोगोंसे कहा था कि भगवान्के परम भक्त विदुरजीने अपने अति दुस्त्यज कुटुम्बियोंको भी छोड़कर पृथ्वीके विभिन्न तीर्थोंमें विचरण किया था॥ ४८॥
श्लोक-४९
विश्वास-प्रस्तुतिः
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह॥
मूलम्
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह॥
अनुवाद (हिन्दी)
उस यात्रामें मैत्रेय ऋषिके साथ अध्यात्मके सम्बन्धमें उनकी बातचीत कहाँ हुई तथा मैत्रेयजीने उनके प्रश्न करनेपर किस तत्त्वका उपदेश किया?॥ ४९॥
श्लोक-५०
विश्वास-प्रस्तुतिः
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम्।
बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः॥
मूलम्
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम्।
बन्धुत्यागनिमित्तं च तथैवागतवान् पुनः॥
अनुवाद (हिन्दी)
सूतजी! आपका स्वभाव बड़ा सौम्य है। आप विदुरजीका वह चरित्र हमें सुनाइये। उन्होंने अपने भाई-बन्धुओंको क्यों छोड़ा और फिर उनके पास क्यों लौट आये?॥ ५०॥
श्लोक-५१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः।
तद्वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः॥
मूलम्
राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनिः।
तद्वोऽभिधास्ये शृणुत राज्ञः प्रश्नानुसारतः॥
अनुवाद (हिन्दी)
सूतजीने कहा—शौनकादि ऋषियो! राजा परीक्षित् ने भी यही बात पूछी थी। उनके प्रश्नोंके उत्तरमें श्रीशुकदेवजी महाराजने जो कुछ कहा था, वही मैं आपलोगोंसे कहता हूँ। सावधान होकर सुनिये॥ ५१॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां द्वितीयस्कन्धे पुरुषसंस्थानुवर्णनं नाम दशमोऽध्यायः॥ १०॥
॥ इति द्वितीयः स्कन्धः समाप्तः॥
ॐ ॐ ॐ
Misc Detail
॥ ॐ नमो भगवते वासुदेवाय ॥
-
W प्तिम ↩︎
-
A,B श्रु ↩︎
-
W श्रय भूतस्य ↩︎
-
W व ↩︎
-
A,B Omit कथित इत्यर्थः । ↩︎
-
W Omits चतु……योज्य ↩︎
-
M,Ma र्मा ↩︎
-
H,V र ↩︎
-
AF,GF र्णितम् ↩︎
-
B,E,I,M,Ma,N,W पुंसा; H,V पुंसां च सत्कथाः ↩︎
-
A,B कृत्यव ↩︎
-
W क्तेर्ल ↩︎
-
AF,GF तपस्तद्यत्र गीयते; I यतो ऽस्त्य; H,V,W यतस्त्वं; M,Ma यतस्तत्तयमीयते ↩︎
-
AF,GF जप्यते ↩︎
-
W Omits लक्षण ↩︎
-
A,B add यस्मात् ↩︎
-
A,B अध्यवसीयते ↩︎
-
M,Ma,W आध्या ↩︎
-
A,B,E,I,N पुरुषो ↩︎
-
A,B त्वोपयुक्तसर्वज्ञतां ↩︎
-
A,B क ↩︎
-
A,B Omit परमपुरुष ↩︎
-
A,B क ↩︎
-
A,B क ↩︎
-
W Omits ज्ञान ↩︎
-
M,Ma एतदेकतमा ↩︎
-
W त्तु ↩︎
-
W त्वा ↩︎
-
A,B अविधाश्रयजीवस्याप्याश्रयः ↩︎
-
AF,GF स ↩︎
-
A,B Omit द्या ↩︎
-
A,B Omit सह….रान् ↩︎
-
W Omits यत् ↩︎
-
A,B Omit नारायणात् ↩︎
-
A,B Omit निमित्तेन ↩︎
-
A यस्य ↩︎
-
W Omits सन्ति ↩︎
-
A,B Omit यस्यानुग्रहात् ↩︎
-
A,B Omit यदुपेक्षया ↩︎
-
W Omits यस्य उपेक्षया ↩︎
-
H,V,W देहं ↩︎
-
A,B Omit नाना ↩︎
-
A,B Omit व्यष्ट्यात्मक ↩︎
-
B,I,N अ; H,V यदेकं; M,Ma पुनस्तत् ↩︎
-
W बीजं ↩︎
-
A,B पः ↩︎
-
W Omits मत्तः…..शेषः ↩︎
-
M,Ma शे ↩︎
-
AF,GF तेजः ↩︎
-
M,Ma भूत् ↩︎
-
A,B Omit सतः ↩︎
-
W ण ↩︎
-
A,B Omit प्राणं ↩︎
-
H,I,M,Ma,V वि ↩︎
-
W Omits प्राणेन ↩︎
-
W क्षुत्तृडिच्छा ↩︎
-
A,B Omit अजायत ↩︎
-
W adds पक्षे ↩︎
-
W Omits निर्भिन्नं ↩︎
-
W Omits उपजायते ↩︎
-
W Omits इत्यर्थः ↩︎
-
W ग ↩︎
-
I,M,Ma,W चै ↩︎
-
W च्छतः ↩︎
-
A,B Omit चतुर्मु……बतः ↩︎
-
W Omits मुखाद्यङ्गैः ….अभिप्रायः ↩︎
-
W न चेदं चतुर्मुखस्यैवेन्दियोत्पत्ति परं प्रकरणमिति ↩︎
-
W Omits कालमित्यर्थः ↩︎
-
W Omits नासापुटे ↩︎
-
W वायुस्तै ↩︎
-
A,B Omit विवरात् नासा ↩︎
-
A,B Omit ध्राण….श्रुतेः ↩︎
-
A,B Omit गन्धमिति शेषः ↩︎
-
A,B आघ्रातु ↩︎
-
W Omits ब्रह्मणः तत्र ↩︎
-
W नासिकयां ↩︎
-
A,B Omit घ्राणग्राह्य ↩︎
-
W Omits घ्राणाघिष्ठाता ↩︎
-
W त्यर्थः । ↩︎
-
A त ↩︎
-
M,Ma क आ ↩︎
-
H,I,M,Ma,V,W अ ↩︎
-
W ष्टिमाह ↩︎
-
A Omits आलोकाभावः ↩︎
-
A,B ने ↩︎
-
W गा ↩︎
-
A,B त्यश्चेत्यर्थः ↩︎
-
A,H,V स्तं ↩︎
-
W व्यष्टिमाह ↩︎
-
A,B त ↩︎
-
M,Ma न्यं ↩︎
-
H र्वौ; M,Ma र्वृ; V र्वौष्ण्य ↩︎
-
E ताः ↩︎
-
N लो ↩︎
-
M,Ma र्व्या ↩︎
-
M,Ma णा ↩︎
-
W यस्य व्य ↩︎
-
A,B Omit ओष्णं ↩︎
-
W Omits आ उष्णं ↩︎
-
A,B Omit तत्त्वं ↩︎
-
A,B स्पर्शग्रहणाद्वायुदैवतमिति ↩︎
-
W तत् स्थान ↩︎
-
W स्पर्शगुण ↩︎
-
H,V,W तः ↩︎
-
B,H,I,M,Ma,V,W वानिन्द्र ↩︎
-
W Omits लब्धस्पर्श ↩︎
-
W यस्याश्र ↩︎
-
H,V जिघृक्षतः; M,Ma,W चिकीर्षतः ↩︎
-
M,Ma मिनः ↩︎
-
M,Ma यत् ↩︎
-
AF,GF त्रि ↩︎
-
W व्यष्टिमाह ↩︎
-
A,B Omit ग्रहीतुमिच्छत ↩︎
-
A,B add पभ्द्यामिन्द्रियेण ↩︎
-
W चार्थे ↩︎
-
B प्सो ↩︎
-
W त्मकः ↩︎
-
A,B वाऽभूत् ↩︎
-
W adds उभयात्मकः ↩︎
-
M,Ma क्षोः ↩︎
-
M,Ma,W रं ↩︎
-
B,M,Ma र्या ↩︎
-
M,Ma वृतं ↩︎
-
M,Ma ततोऽपानस्वतो ↩︎
-
A,B व्यष्टिसृष्टि माह ↩︎
-
W देहात् ↩︎
-
W पुरं देहान्तरं ↩︎
-
W व्याप्तुमिऽऽच्छोर्ब ↩︎
-
W Omits निरभिद्यत ↩︎
-
W नाभौ ↩︎
-
W Omits वायुः ↩︎
-
W तदधिष्ठाता मृत्युश्चाभूदित्यर्थः । पृथ ↩︎
-
W मरणम् ↩︎
-
M,Ma असृक् ↩︎
-
H,V,W क्ष्यां ↩︎
-
M,Ma डिकाः ↩︎
-
W स्तु ↩︎
-
W Omits व्यष्टि……माह ↩︎
-
W क्ष्यां ↩︎
-
W ड्यः ↩︎
-
W मा ↩︎
-
W ड्या ↩︎
-
H,I,M,Ma,V,W श्चन्द्र इति ↩︎
-
W यतः हृ ↩︎
-
W ल्पादिम ↩︎
-
W णा ↩︎
-
W णा ↩︎
-
W ब्धा ↩︎
-
AF,GF भूतात्म ↩︎
-
W Omits ते के ↩︎
-
W महत् तद्रू ↩︎
-
A,B Omit तोयादि….पाठान्तरम् ↩︎
-
M,Ma सोः ↩︎
-
W इतो ↩︎
-
A,B सम ↩︎
-
W adds सूक्ष्मं ↩︎
-
A,B रं ↩︎
-
A,B बा ↩︎
-
W क्ष्मत्वं; A,B क्ष्मतरत्वं ↩︎
-
A अ ↩︎
-
M,Ma ष्टेऽवि; W ष्टेर्वि ↩︎
-
W सूक्ष्मे ↩︎
-
W नैव ↩︎
-
V,W तू ↩︎
-
A,B त्वं ↩︎
-
A,B Omit सः ↩︎
-
W धृत् ↩︎
-
W धृत् ↩︎
-
W Omnits धत्ते ↩︎
-
A,B Omit विधत्ते ↩︎
-
A,B न्त नामक्रियाः व्याकरोदित्यर्थः ↩︎
-
W रः ↩︎
-
H,M,Ma,V ध्रान् ↩︎
-
W यक्षान् ↩︎
-
H,V षपूरुषान्; B,I षान्नरान्; M,Ma,W षानपि ↩︎
-
I,N तू ↩︎
-
H,V,W श्मा ↩︎
-
H,V भे ↩︎
-
M,Ma श्चान्ये ↩︎
-
M,Ma लमिश्राणां ↩︎
-
W Omits वा ↩︎
-
A,B Omit येच……द्विविधाः ↩︎
-
A,B Omit स्थानानि ↩︎
-
W adds अपि ↩︎
-
W णैवा ↩︎
-
A,B न्वेकरूपे ↩︎
-
W मध्याः ↩︎