[नवमोऽध्यायः]
भागसूचना
ब्रह्माजीका भगवद्धामदर्शन और भगवान्के द्वारा उन्हें चतुःश्लोकी भागवतका उपदेश
श्लोक-१
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
आत्ममायामृते राजन् परस्यानुभवात्मनः।
न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा॥
अनुवाद (हिन्दी)
श्रीशुकदेवजीने कहा—परीक्षित्! जैसे स्वप्नमें देखे जानेवाले पदार्थोंके साथ उसे देखनेवालेका कोई सम्बन्ध नहीं होता, वैसे ही देहादिसे अतीत अनुभवस्वरूप आत्माका मायाके बिना दृश्य पदार्थोंके साथ कोई सम्बन्ध नहीं हो सकता॥ १॥
वीरराघवः
अथ राज्ञः प्रश्नानामुत्तरं वक्तुं भागवताख्यानमारप्स्यमाणः तावत् जीवस्य देहारम्भः सहेतुको निर्हेतुको वेति प्रश्नस्य जीवदेहतुल्यपरिणामावयवत्त्वेन जीवतुल्यत्वप्रयुक्ताभजनीयत्वामोक्षप्रदत्वप्रश्नस्य मुक्त्वा आत्ममायां यत्र शेते तं च देशं कथयस्वेति प्रश्नस्य चोत्तरं नवमेनाध्यायेनोच्यते - तत्र सहेतुकत्वनिर्हेतुकत्वप्रश्नस्योत्तरं वदन् त्रिपाद्विभूतिविशिष्टस्य भगवतः कालमायावश्यत्वाभावं वक्तुं संसारिचेतनानां कालमायावश्यत्वमाह आत्मेति । अनुभवात्मनः अनुभवो ज्ञानं, तदात्मा स्वरूपम् यस्य तस्य अत एव परस्य देहादिभ्यो विलक्षणस्य जीवस्यार्थसम्बन्धः । भोग्यभूतशब्दादिविषयेषु भोक्तृतया सम्बन्धः । आत्ममायां परमात्मनियाम्यां मायां प्रकृतिं ऋते विना अञ्जसा सामीचीन्येन न घटेत न सङ्गच्छेत । तत्र दृष्टान्तः - स्वप्नद्रष्टुरिवेति । यथा स्वप्रद्रष्टुः “न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजते, कामं कामं पुरुषो निर्मिमाणः” इति श्रुत्युक्तरथादिपदार्थसम्बन्धः तदर्थ भगवन्मायामृते नोपपद्यते तद्वदित्यर्थः । प्रकृतितिरोहितस्वपररूपत्वात् प्राकृतेषु भोग्यबुद्धिरित्युक्तं भवति । एवं च प्रकृत्या तिरोहितस्व3रूपत्वमेव देहारम्भे हेतुरित्यहेतुकत्वं निरस्तं भ4वति ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
बहुरूप इवाभाति मायया बहुरूपया।
रममाणो गुणेष्वस्या ममाहमिति मन्यते॥
मूलम्
बहुरूप इवाभाति मायया बहुरूपया।
रममाणो गुणेष्वस्या5 ममाहमिति मन्यते॥ २ ॥
अनुवाद (हिन्दी)
विविध रूपवाली मायाके कारण वह विविध रूपवाला प्रतीत होता है और जब उसके गुणोंमें रम जाता है तब ‘यह मैं हूँ, यह मेरा है’ इस प्रकार मानने लगता है॥ २॥
वीरराघवः
उक्तं विवृणोति बह्विति । बहुरूपया विचित्रपरिणामिन्या भगवन्मायया तिरोहितज्ञानानन्दस्वरूपो जीवः देवमनुष्याद्याकारमात्मन्यारोप्य, बहुरूप इव आ6भातीत्यर्थः । अस्या मायाया गुणेषु सत्त्वादिगुणकार्येषु शब्दादिषु रममाणः शब्दादीन् भुञ्जानो ममाहमिति मन्यते । अहङ्कारममकाराभ्यां बद्धो भवतीत्यर्थः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः।
रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम्॥
अनुवाद (हिन्दी)
किन्तु जब यह गुणोंको क्षुब्ध करनेवाले काल और मोह उत्पन्न करनेवाली माया—इन दोनोंसे परे अपने अनन्त स्वरूपमें मोहरहित होकर रमण करने लगता है—आत्माराम हो जाता है; तब यह ‘मैं, मेरा’ का भाव छोड़कर पूर्ण उदासीन—गुणातीत हो जाता है॥ ३॥
वीरराघवः
जीवप्रस्तावाद्यवस्थानं स्वरूपत इति जीवविषयप्रश्नान्तरस्योत्तरं वदन् स10न् स्वरूपसाक्षात्कारे सति शब्दादिप्रावण्यनिवृत्तिरित्याह - यर्हीति । यर्हि यदा मुक्ता वित्यर्थः । स्वे स्वाभाविके कालमाययोः परस्मिन् कालमायाकार्यासंसृ11ष्ट महिम्नि अपहतपाप्मत्वादि सत्यसङ्कल्पत्व12पर्यन्तगुणाष्टकलक्षणे परमात्मशेषतैकरसस्य स्वात्मनो महिम्नि; यद्वा कालमाययोः परस्मिन्नियन्तरि महिम्नि उक्तविधपरमात्म महिम्नि । महिम्रो नियन्तृत्वं महिमवद्द्वारा। रमेत 13कथं रमेत? गतसम्मोहः निवृत्ताहङ्कारममकारः तदोभयं प्रकृतिकालवश्यत्वं त्यक्त्वा हित्वा उदास्ते शब्दादिषु भोग्यसिद्धार्थप्रवृत्तिशून्यो भवतीत्यर्थः । अनेन आविर्भूतगुणाष्टकविशिष्टत्वेन अवस्थितिरेव स्वरूपतो व्यवस्थानं तादृशस्वरूपस्यापि स्वात्मनः आत्मभूतनिरतिशयानन्दपरब्रह्मानुभवः परब्रह्मशरीरभूतत्वेन स्वात्मानुभवो वा शब्दादिप्रावण्यनिवर्तक इति चोक्तं भवति ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम्।
ब्रह्मणे दर्शयन् रूपमव्यलीकव्रतादृतः॥
मूलम्
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम्।
ब्रह्मणे14 दर्शयन् रूपमव्यलीकव्रतादृतः॥ ४ ॥
अनुवाद (हिन्दी)
ब्रह्माजीकी निष्कपट तपस्यासे प्रसन्न होकर भगवान्ने उन्हें अपने रूपका दर्शन कराया और आत्मतत्त्वके ज्ञानके लिये उन्हें परम सत्य परमार्थ वस्तुका उपदेश किया (वही बात मैं तुम्हें सुनाता हूँ)॥ ४॥
वीरराघवः
यच्चोक्तं भगवतो15ऽपि जीववत् देहसम्बन्धाविशेषात् कथं तद्भजनेन मुक्तिरिति तस्योत्तरम् । कालमायावश्य16स्य जीवस्य कर्माधीनः प्राकृतो देहः, ईश्वरस्य तु अप्राकृतस्वेच्छोपात्तदिव्यम17ङ्गलविग्रहवत्वमित्येवं रू18पं वक्ष्यन् कालमायावश्यजीववि19लक्षण भगवत्स्वरूपविशोधनं कथं ज्ञायत इत्यत्राऽऽह - आत्मतत्त्वेति । अव्यलीकव्रतादृतः निर्दिष्टव्रतेन आदृतः आराधितः भगवान् ब्रह्मणे चतुर्मुखाय रूपमप्राकृतं स्वीयं रूपं दर्शयन्नात्मतत्त्वविशुद्धयर्थं जीवविलक्षण परमात्म याथात्म्य विशोधनार्थं ऋतं सत्यं यद्वचनमाह, तद्वक्ष्यामीति शेषः । अदर्शयद्रूपमिति पाठे यथा अदर्शयत् तथा आहेत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
स आदिदेवो जगतां परो गुरुः
स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत।
तां नाध्यगच्छद् दृशमत्र सम्मतां
प्रपञ्चनिर्माणविधिर्यया भवेत्॥
मूलम्
स आदिदेवो ज20गतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत।
तां नाध्यगच्छ्रद्दृशमत्र सम्मताम् प्रपञ्चनिर्माणविधिर्यया भवेत्॥ ५ ॥
अनुवाद (हिन्दी)
तीनों लोकोंके परम गुरु आदिदेव ब्रह्माजी अपने जन्मस्थान कमलपर बैठकर सृष्टि करनेकी इच्छासे विचार करने लगे। परन्तु जिस ज्ञानदृष्टिसे सृष्टिका निर्माण हो सकता था और जो सृष्टि-व्यापारके लिये वांछनीय है, वह दृष्टि उन्हें प्राप्त नहीं हुई॥ ५॥
वीरराघवः
आत्मतत्त्वविशोधकं भगवदुक्तमेव उपपादयितुं इतिहासमाह स इति । जगतां व्यष्टिभूतानां परः प्रभुः गुरुः धर्मोपदेष्टा च आदिदेवः चतुर्मुखः स्वधिष्ण्यं भगवन्नाभिपद्मरूपं स्थानमास्थाय अ21धिष्ठाय तस्य अधिष्ठानस्यान्वेषणाय पूर्वं जले निमग्नः पश्चात् परावृत्य स्वधिष्ण्ये स्थित्वेत्यर्थः । सिसृक्षया स्त्रष्टुमिच्छया ऐक्षत कथं स्रष्टव्यमित्यालोचितवान् । एवमीक्षमाणे ब्रह्मा यया दृष्ट्या प्रपञ्चनिर्माणविधिः जगद्रचनाप्रकारः भवेत् ज्ञातो भवेत् । अत्र सृष्टिविषये सम्मतां तां दृशं प्रज्ञां नाध्यगछ्रत् न प्राप्तवान् ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
स चिन्तयन् द्व्यक्षरमेकदाम्भ-
स्युपाशृणोद् द्विर्गदितं वचो विभुः।
स्पर्शेषु यत्षोडशमेकविंशं
निष्किञ्चनानां नृप यद् धनं विदुः॥
मूलम्
स22 चिन्तयन् द्व्यक्षरमेकदाम्भस्युपाशृणोद् द्विर्गदितं वचो विभुः।
स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः॥ ६ ॥
अनुवाद (हिन्दी)
एक दिन वे यही चिन्ता कर रहे थे कि प्रलयके समुद्रमें उन्होंने व्यंजनोंके सोलहवें एवं इक्कीसवें अक्षर ‘त’ तथा ‘प’ को—‘तप-तप’ (‘तप करो’) इस प्रकार दो बार सुना। परीक्षित्! महात्मालोग इस तपको ही त्यागियोंका धन मानते हैं॥ ६॥
वीरराघवः
सञ्चिन्तयन्निति । स23ञ्चिन्तयन् प्रज्ञाप्राप्त्युपायं चिन्तयन्नेकदा कदाचित् द्विर्गदितं द्विरुक्तं द्व्यक्षरं वचः अम्भसि जले उपाशृणोत् उप समीपे श्रुतवान् । ते अक्षरे दर्शयति - “कादयो मावसानाः स्पर्शाः” तेषु यत् षोडशं तकारः यच्चैकविंशं प्रकारः वच24सो निर्देशार्थं तदर्थमाह - हे नृप ! निष्किञ्चनानां त्यक्तधनानां धनं यद्विदुः येन तपोधना इति प्रसिद्धाः, तत्र द्विर्गदितं तपतपेति लोण्मध्यमपुरुषैकवचनम् । तस्य वीप्सां सादरविधिरूपामश्रुणोदित्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
निशम्य तद्वक्तृदिदृक्षया दिशो
विलोक्य तत्रान्यदपश्यमानः।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं
तपस्युपादिष्ट इवादधे मनः॥
मूलम्
निशम्य तद्वक्तृ25दिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः॥ ७ ॥
अनुवाद (हिन्दी)
यह सुनकर ब्रह्माजीने वक्ताको देखनेकी इच्छासे चारों ओर देखा, परन्तु वहाँ दूसरा कोई दिखायी न पड़ा। वे अपने कमलपर बैठ गये और ‘मुझे तप करनेकी प्रत्यक्ष आज्ञा मिली है’ ऐसा निश्चयकर और उसीमें अपना हित समझकर उन्होंने अपने मनको तपस्यामें लगा दिया॥ ७॥
वीरराघवः
निशम्येति । तप तपेति वचो निशम्य श्रुत्वा तस्य वचसो यो वक्ता 26तस्य दिदृक्षया द्रष्टुमिच्छया ततः प्रचलितस्सन् दिशो विलोक्य तत्र दिक्षु अन्यत् वस्त्वन्तरं अपश्यमानः पुनः स्वधिषण्यमास्थाय उपादिष्ट इव केनचित् प्रत्यक्षं नियुक्त इव तच्चात्मनो हितं विमृश्य तपसि मनः चित्तमादधे धृतवान् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
दिव्यं सहस्राब्दममोघदर्शनो
जितानिलात्मा विजितोभयेन्द्रियः।
अतप्यत स्माखिललोकतापनं
तपस्तपीयांस्तपतां समाहितः॥
मूलम्
दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः।
अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः॥ ८ ॥
अनुवाद (हिन्दी)
ब्रह्माजी तपस्वियोंमें सबसे बड़े तपस्वी हैं। उनका ज्ञान अमोघ है। उन्होंने उस समय एक सहस्र दिव्य वर्षपर्यन्त एकाग्र चित्तसे अपने प्राण, मन, कर्मेन्द्रिय और ज्ञानेन्द्रियोंको वशमें करके ऐसी तपस्या की, जिससे वे समस्त लोकोंको प्रकाशित करनेमें समर्थ हो सके॥ ८॥
वीरराघवः
ततश्च स ब्रह्मा अखिललोकानां तापनं प्रकाशनं यस्मात्, तथाभूतं तपः दिव्यं सहस्राब्दं देवमानेन सहस्र27वर्षपर्यन्तं अतप्यतस्म28 त29पःकृतवान् । कथं भूतोऽतप्यत ? तपतां तपश्चरतां मध्ये तपीयान् अत्यन्ततपस्संयुक्तः अमोघदृष्टिः स्वचरितव्ये तपसि अव्यर्था दृष्टिः । सङ्कल्परूपज्ञानं यस्य सः । जितः अनिलः प्रा30णवायुः आत्मा मनश्च येन सः । विजितान्युभयेन्द्रियाणि ज्ञानकर्मात्मकानि येन सः । एवम्भूतोऽतप्यते31त्यर्थः । स्मे32ति प्रसिद्धौ ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तस्मै स्वलोकं भगवान् सभाजितः
सन्दर्शयामास परं न यत्परम्।
व्यपेतसंक्लेशविमोहसाध्वसं
स्वदृष्टवद्भिर्विबुधैरभिष्टुतम्॥
मूलम्
तस्मै स्व33लोकं भगवान् सभाजितस्सन्दर्शयामास परं न यत्परम्।
व्यपेतसंक्लेशविमोहसाध्वसं 34स्वदृष्टवद्भि35र्विबुधैरभि36ष्टुतम्॥ ९ ॥
अनुवाद (हिन्दी)
उनकी तपस्यासे प्रसन्न होकर भगवान्ने उन्हें अपना वह लोक दिखाया, जो सबसे श्रेष्ठ है और जिससे परे कोई दूसरा लोक नहीं है। उस लोकमें किसी भी प्रकारके क्लेश, मोह और भय नहीं हैं। जिन्हें कभी एक बार भी उसके दर्शनका सौभाग्य प्राप्त हुआ है, वे देवता बार-बार उसकी स्तुति करते रहते हैं॥ ९॥
वीरराघवः
सभाजितः तपसा सम्यगाराधितो भगवान् परमन्यत् यद्यस्मात् परमुत्कृष्टं नास्ति तथाभूतं लोकं त37स्मै चतुर्मुखाय सन्दर्शयामास । तमेव लोकं वर्णयति पञ्चभिः । व्यपेतसंक्लेशविमोहसाध्वसं सं38क्लेशाः अविद्यादयः साध्वसं भयम् । व्यपेताः संक्लेशादयो यस्मात् त39म् । स्वदृष्टवद्भिः स्वशरीरकपरमात्मानमनुभवद्भिः विबुधैर्विशेषेण बुद्ध्यन्ते इति विबुधाः ज्ञानाधिकाः नित्यमुक्ताश्च तैरधिष्ठितम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
प्रवर्तते यत्र रजस्तमस्तयोः
सत्त्वं च मिश्रं न च कालविक्रमः।
न यत्र माया किमुतापरे हरे-
रनुव्रता यत्र सुरासुरार्चिताः॥
मूलम्
प्र40वर्तते यत्र रजस्तमस्तयोः सत्त्वं च41 मिश्रं न च कालविक्र42मः।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः॥ १० ॥
अनुवाद (हिन्दी)
वहाँ रजोगुण, तमोगुण और इनसे मिला हुआ सत्त्वगुण भी नहीं है। वहाँ न कालकी दाल गलती है और न माया ही कदम रख सकती है; फिर मायाके बाल-बच्चे तो जा ही कैसे सकते हैं। वहाँ भगवान्के वे पार्षद निवास करते हैं, जिनका पूजन देवता और दैत्य दोनों ही करते हैं॥ १०॥
वीरराघवः
क्लेशमोहाद्यभावहेतुमाह - प्रवर्तत इति । रजस्तमसी तयोस्ताभ्यां मिश्र सत्वं च यत्र वैकुण्ठाख्ये लोके न प्रवर्तते अविद्याऽस्मितारागद्वेषाभिनिवेशाः 43पञ्च क्लेशाः रजस्तमोविरहात् रागद्वेषादिकं मोहनं च नास्ति तन्मिश्रसत्वाभावात् का44दाचित्कप्रकाशश्च नास्ति तस्मात् शुद्धसत्त्वमय इत्यर्थः । कालविक्रमः कालस्य यो विक्रमः परिणामहेतुत्वं तच्च नेत्यर्थः । माया सत्त्वरजस्तम आश्रया प्रकृतिः । यत्र न अप्राकृत इत्यर्थः । अनेन लोकस्य मायाकल्पितत्वशङ्का च45 निरस्ता । यत्र लोके सुरासुरैरचिताः हरेरनुव्रताः उपासकाः दृश्यन्ते इति शेषः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
श्यामावदाताः शतपत्रलोचनाः
पिशङ्गवस्त्राः सुरुचः सुपेशसः।
सर्वे चतुर्बाहव उन्मिषन्मणि-
प्रवेकनिष्काभरणाः सुवर्चसः।
प्रवालवैदूर्यमृणालवर्चसः
परिस्फुरत्कुण्डलमौलिमालिनः॥
मूलम्
श्यामावदाताश्शतपत्रलोचनाः पिशङ्गवस्त्रास्सुरुचस्सुपेशसः।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणास्सुवर्चसः।
प्रवालवैदू46र्यमृणालवर्चसः47 परिस्फुरत्कुण्डलमौलिमालिनः48॥ ११ ॥
अनुवाद (हिन्दी)
उनका उज्ज्वल आभासे युक्त श्याम शरीर शतदल कमलके समान कोमल नेत्र और पीले रंगके वस्त्रसे शोभायमान है। अंग-अंगसे राशि-राशि सौन्दर्य बिखरता रहता है। वे कोमलताकी मूर्ति हैं। सभीके चार-चार भुजाएँ हैं। वे स्वयं तो अत्यन्त तेजस्वी हैं ही, मणिजटित सुवर्णके प्रभामय आभूषण भी धारण किये रहते हैं। उनकी छबि मूँगे, वैदूर्यमणि और कमलके उज्ज्वल तन्तुके समान है। उनके कानोंमें कुण्डल, मस्तकपर मुकुट और कण्ठमें मालाएँ शोभायमान हैं॥ ११॥
वीरराघवः
कथम्भूताः दृश्यन्ते इत्यपेक्षायां सारूप्यमाह - श्यामेत्यादिना । श्यामाश्च ते अवदाताः उज्ज्वलाश्च श्यामावदाताः, शतपत्रलोचनाः पद्मदलायतेक्षणाः पिशङ्गवस्त्राः पीताम्बरधराः, सुरुचः दीप्तिमन्तः, सुपेशसः अतिसुकुमाराः उन्मिषन्तः देदीप्यमानाः मणयो येषु तानि प्रवेकानि श्रेष्ठानि निष्काणि कनकमयानि आभरणानि येषां ते । सुवर्चसः अतिलावण्यवन्तः प्रवालादिवद्वर्चो वर्णो येषां ते परिस्फुरन्ति कुण्डलानि मौलयः मुकुटानि मालाश्च येषां सन्तीति तथाभूताः व्रीह्यादित्वात् इनिः । ‘49अत इनिः’ इति तपरकरणात् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
भ्राजिष्णुभिर्यः परितो विराजते
लसद्विमानावलिभिर्महात्मनाम्।
विद्योतमानः प्रमदोत्तमाद्युभिः
सविद्युदभ्रावलिभिर्यथा नभः॥
मूलम्
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्।
विद्योतमानः प्रमदोत्तमा50द्युभिः सविद्युदभ्रावलिभिर्यथा नभः॥ १२ ॥
अनुवाद (हिन्दी)
जिस प्रकार आकाश बिजलीसहित बादलोंसे शोभायमान होता है, वैसे ही वह लोक मनोहर कामिनियोंकी कान्तिसे युक्त महात्माओंके दिव्य तेजोमय विमानोंसे स्थान-स्थानपर सुशोभित होता रहता है॥ १२॥
वीरराघवः
भ्राजिष्णुभिः देदीप्यमानाभिः महात्मनां नित्यमुक्तानां प्रकाशमानविमानपङ्क्तभिः यः लोकः परितो विराजते, यश्च प्रमदोत्तमानां दिवः कान्तयः ताभिर्विद्योतमानः तं सन्दर्शयामासेति पूर्वेणान्वयः । तत्र ददर्शेत्युत्तरेण वाऽ[^30]न्वयः । तत्र दृष्टान्तः - विद्युद्भिः त[^31]डिद्भिः सह वर्तमानाः सविद्युतः अभ्राणां मेघानामावलयः पङ्क्तयः ताभिः नभो यथा विराजते तद्वदित्यर्थः । विद्युत इव स्त्रियः, अभ्रपङ्क्तय इव विमानानि, नभ इव लोकः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
श्रीर्यत्र रूपिण्युरुगायपादयोः
करोति मानं बहुधा विभूतिभिः।
प्रेङ्खं श्रिता या कुसुमाकरानुगै-
र्विगीयमाना प्रियकर्म गायती॥
मूलम्
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं ब51हुधा विभूतिभिः।
प्रे52ङ्खं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती॥ १३ ॥
अनुवाद (हिन्दी)
उस वैकुण्ठलोकमें लक्ष्मीजी सुन्दर रूप धारण करके अपनी विविध विभूतियोंके द्वारा भगवान्के चरणकमलोंकी अनेकों प्रकारसे सेवा करती रहती हैं। कभी-कभी जब वे झूलेपर बैठकर अपने प्रियतम भगवान्की लीलाओंका गायन करने लगती हैं, तब उनके सौन्दर्य और सुरभिसे उन्मत्त होकर भौंरे स्वयं उन लक्ष्मीजीका गुणगान करने लगते हैं॥ १३॥
वीरराघवः
श्रीः महालक्ष्मीर्यत्र लोके रूपिणी प्रशस्तमूर्तिमती उरुगायस्य भगवतः पादयोः मानं पूजां विभूतिभिः भूनीलादिभिः सह करोति । कथम्भूता करोति ? याः श्रीः प्रेङ्खं दोलां श्रिता कुसुमाकरानुगैः शुककोकिलभृङ्गादिभिः विविधं गीयमाना स्वयं तु प्रियस्य भगवतः कर्म गायती भवति सा श्रीर्मानं करोतीत्यर्थः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
ददर्श तत्राखिलसात्वतां पतिं
श्रियः पतिं यज्ञपतिं जगत्पतिम्।
सुनन्दनन्दप्रबलार्हणादिभिः
स्वपार्षदमुख्यैः परिसेवितं विभुम्॥
मूलम्
ददर्श तत्राखिलसात्त्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम्।
सुनन्दनन्दप्र53बलार्हणादिभिः स्व54पार्षद55मुख्यैः परिसे56वितं विभुम्॥ १४ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने देखा कि उस दिव्य लोकमें समस्त भक्तोंके रक्षक, लक्ष्मीपति, यज्ञपति एवं विश्वपति भगवान् विराजमान हैं। सुनन्द, नन्द, प्रबल और अर्हण आदि मुख्य-मुख्य पार्षदगण उन प्रभुकी सेवा कर रहे हैं॥ १४॥
वीरराघवः
एवंभूतो लोकः तत्र श्रियः पतिं ददर्शेत्यन्वयः । कथम्भूतम् ? यज्ञपतिं तप आदियज्ञानां प्रवर्तकमाराध्यं फलप्रदं वा57, जगत्पतिं चिदचिदात्मकजगतः शेषिणं अखिलानां सा58त्वतां सा59त्वतधर्मनिष्ठानां पतिं स्वलोकप्रापणेन रक्षकम् । सात्वतम् पञ्चरात्रम् । सुनन्दादिभिः स्वपार्षदश्रेष्ठैः परितः तं सेवितं विभुं सर्वो60त्तरम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
भृत्यप्रसादाभिमुखं दृगासवं
प्रसन्नहासारुणलोचनाननम्।
किरीटिनं कुण्डलिनं चतुर्भुजं
पीताम्बरं वक्षसि लक्षितं श्रिया॥
मूलम्
भृत्यप्रसादाभिमुखं दृगासवं61 प्रसन्नहासारुणलो62चनाननम्।
किरीटिनं कुण्डलिनं चतुर्भुजं पी63ताम्बरं वक्षसि लक्षितं श्रिया॥ १५ ॥
अनुवाद (हिन्दी)
उनका मुखकमल प्रसाद-मधुर मुसकानसे युक्त है। आँखोंमें लाल-लाल डोरियाँ हैं। बड़ी मोहक और मधुर चितवन है। ऐसा जान पड़ता है कि अभी-अभी अपने प्रेमी भक्तको अपना सर्वस्व दे देंगे। सिरपर मुकुट, कानोंमें कुण्डल और कंधेपर पीताम्बर जगमगा रहे हैं। वक्षःस्थलपर एक सुनहरी रेखाके रूपमें श्रीलक्ष्मीजी विराजमान हैं और सुन्दर चार भुजाएँ हैं॥ १५॥
वीरराघवः
भृत्येषु यः प्रसादोऽनुग्रहः तस्मिन् अभिमुखं दृगासवं दृशि च64क्षुषि आसवोऽमृतं यस्य तम् । यद्वा दृक् आसवमिव यस्य, अमृतकल्पकटाक्षमित्यर्थः । प्रस65न्नहासम् अरुणलोचनं च आननं यस्य तम् । वक्षसि स्थितया श्रिया लक्षितमलङ्कृतमित्यर्थः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
अध्यर्हणीयासनमास्थितं परं
वृतं चतुःषोडशपञ्चशक्तिभिः।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः
स्व एव धामन् रममाणमीश्वरम्॥
मूलम्
अध्य66र्हणीयासनमास्थितं प67रं वृतं चतुष्षोडशपञ्चशक्तिभिः।
युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम्॥ १६ ॥
अनुवाद (हिन्दी)
वे एक सर्वोत्तम और बहुमूल्य आसनपर विराजमान हैं। पुरुष, प्रकृति, महत्तत्त्व, अहंकार, मन, दस इन्द्रिय, शब्दादि पाँच तन्मात्राएँ और पंचभूत—ये पचीस शक्तियाँ मूर्तिमान् होकर उनके चारों ओर खड़ी हैं। समग्र ऐश्वर्य, धर्म, कीर्ति, श्री, ज्ञान और वैराग्य—इन छः नित्यसिद्ध स्वरूपभूत शक्तियोंसे वे सर्वदा युक्त रहते हैं। उनके अतिरिक्त और कहीं भी ये नित्यरूपसे निवास नहीं करतीं। वे सर्वेश्वर प्रभु अपने नित्य आनन्दमय स्वरूपमें ही नित्य-निरन्तर निमग्न रहते हैं॥ १६॥
वीरराघवः
अभ्यर्हणीयमाराधनीयं परमुत्कृष्टमासनं अधिष्ठितं चतुष्षोडशपञ्चशक्तिभिः पञ्चविंशतितत्त्वाधिष्ठातृशक्तिभिः अस्त्रभूषणाध्यायोक्तप्रकारः68 स्मारितः भगरैश्वर्यवीर्ययशश्श्रीज्ञानवैराग्याधिष्ठातृदेवताविशेषैः स्वैः स्वभाविकैः वि69शेषणभूतैः इत्यर्थः । इतरत्र संसारिषु कर्मतारतम्यानुगुणमध्रुवैः संसारिषु ऐश्वर्याद्यधिष्ठातृृणामधिष्ठेयद्वारा अध्रुवत्वं बोध्यम् । एवम्भूतैर्भगैर्युक्तं धामन् धामनि स्वे स्वकीये क्षेत्रज्ञे रममाणमत एवेश्वरं नियन्तारं ददर्शेत्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तद्दर्शनाह्लादपरिप्लुतान्तरो
हृष्यत्तनुः प्रेमभराश्रुलोचनः।
ननाम पादाम्बुजमस्य विश्वसृग्
यत् पारमहंस्येन पथाधिगम्यते॥
मूलम्
तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः।
ननाम पादाम्बुजमस्य विश्वसृ70ग् यत् पारमहंस्येन पथाऽधि71गम्यते॥ १७ ॥
अनुवाद (हिन्दी)
उनका दर्शन करते ही ब्रह्माजीका हृदय आनन्दके उद्रेकसे लबालब भर गया। शरीर पुलकित हो उठा, नेत्रोंमें प्रेमाश्रु छलक आये। ब्रह्माजीने भगवान्के उन चरणकमलोंमें, जो परमहंसोंके निवृत्तिमार्गसे प्राप्त हो सकते हैं, सिर झुकाकर प्रणाम किया॥ १७॥
वीरराघवः
तस्य भगवतो दर्शनेन यः आह्लादः तेन परिप्लु72तं समन्ततो व्याप्तमा73न्तरं यस्य सः । हृष्यत्तनुः पुलकिततनुः प्रेम्णो यो भरः पू74रः तेनाश्रूणि लोचनेषु यस्य सः आनन्दा75श्रमन्नयनः । विश्वसृट् ब्रह्मा पारमहंस्येन परमं, हंसैरनुष्ठेयेन पथा भक्तिमार्गेण यत्पादाम्बुजमधिगम्यते प्राप्यते तदस्य भगवतः पादाम्बुजं ननाम नमस्कृतवान् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
तं प्रीयमाणं समुपस्थितं तदा
प्रजाविसर्गे निजशासनार्हणम्।
बभाष ईषत्स्मितशोचिषा गिरा
प्रियः प्रियं प्रीतमनाः करे स्पृशन्॥
मूलम्
तं प्रीयमाणं समुपस्थितं त76दा प्रजाविसर्गे निजशासनार्हणम्।
बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन्॥ १८ ॥
अनुवाद (हिन्दी)
ब्रह्माजीके प्यारे भगवान् अपने प्रिय ब्रह्माको प्रेम और दर्शनके आनन्दमें निमग्न, शरणागत तथा प्रजा-सृष्टिके लिये आदेश देनेके योग्य देखकर बहुत प्रसन्न हुए। उन्होंने ब्रह्माजीसे हाथ मिलाया तथा मन्द मुसकानसे अलंकृत वाणीमें कहा—॥ १८॥
वीरराघवः
प्रजाविसर्गे प्रजासृष्टिरूपे कार्ये समुपस्थितं समुद्यतं निजशासनार्हणं स्वनियोगा77र्हणं प्रीयमाणं स्वस्मिन्निरतिशयप्रीतिमन्तं तं78 कविं ब्रह्माणं करे हस्ते स्पृशन् करं गृहीत्वेत्यर्थः । प्रीतमनाः तस्मिन्निरतिशयप्रीतियुक्तान्तःकरण: 79प्रियो निरतिशयप्रीतिविषयो भगवान् ईषत्स्मितेन मन्दहासेन शोचिर्दीप्तिः शोभा यस्यास्तया गिरा प्रियं यथा तथा बभाषे भाषितवान् ॥ १८ ॥
श्लोक-१९
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया।
चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम्॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—ब्रह्माजी! तुम्हारे हृदयमें तो समस्त वेदोंका ज्ञान विद्यमान है। तुमने सृष्टिरचनाकी इच्छासे चिरकालतक तपस्या करके मुझे भलीभाँति सन्तुष्ट कर दिया है। मनमें कपट रखकर योगसाधन करनेवाले मुझे कभी प्रसन्न नहीं कर सकते॥ १९॥
वीरराघवः
त्वयेति । हे वेदगर्भ! सिसृक्षया हेतुना चिरं भृतेन चीर्णेन तपसा साधनभूतेन त्वया कर्त्राऽहं स82ध्य्रक् सम्यक्तोषितः कूटयोगिनां दाम्भिकयोगिनां दुस्तोषः तोषयितुमशक्योऽहम् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम्।
ब्रह्मञ्छ्रेयः परिश्रामः पुंसो मद्दर्शनावधिः॥
अनुवाद (हिन्दी)
तुम्हारा कल्याण हो। तुम्हारी जो अभिलाषा हो, वही वर मुझसे माँग लो। क्योंकि मैं मुँहमाँगी वस्तु देनेमें समर्थ हूँ। ब्रह्माजी! जीवके समस्त कल्याणकारी साधनोंका विश्राम—पर्यवसान मेरे दर्शनमें ही है॥ २०॥
वीरराघवः
वरेश वरप्रदं मां प्रत्यभिवाञ्छितमभीष्टं वरं वरय । ते तुभ्यं, भद्रं मङ्गलमस्त्विति शेषः । हे ब्रह्मन्! पुंसां श्रेयः परिश्रामः श्रेयसां फलानां परिश्रामः साधनप्रयासः । मद्दर्शनावधिः म85म दर्शन मवधिर्यस्य सः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मनीषितानुभावोऽयं मम लोकावलोकनम्।
यदुपश्रुत्य रहसि चकर्थ परमं तपः॥
मूलम्
मनीषितानुभावोऽयं मम लोकावलोकनम्।
यदुपश्रुत्य रहसि चकर्थ परमं तपः॥ २१ ॥
अनुवाद (हिन्दी)
तुमने मुझे देखे बिना ही उस सूने जलमें मेरी वाणी सुनकर इतनी घोर तपस्या की है, इसीसे मेरी इच्छासे तुम्हें मेरे लोकका दर्शन हुआ है॥ २१॥
वीरराघवः
मल्लोकदर्शनं मत्प्रसादादेव अभूदित्याह - मनीषितेति । लोकस्य वैकुण्ठा86ख्यलोकस्य अवलोकनमित्ययं म87मैव मनीषितानुभाव इत्यर्थः । अनुभावः प्रभावः ममैव तपोबलेन प्राप्तं लोकवलोकनं इत्याशङ्कायां त88पसः प्रवृत्तेरेव मत्कृतत्वान्न तव स्वातन्त्र्यमित्याह । रहसि यदुपश्रुत्य तप तपेति वचः उपश्रुत्य परमं श्रे89ष्ठं तपश्चकर्थ ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते।
तपो मे हृदयं साक्षादात्माहं तपसोऽनघ॥
अनुवाद (हिन्दी)
तुम उस समय सृष्टिरचनाका कर्म करनेमें किंकर्तव्यविमूढ़ हो रहे थे। इसीसे मैंने तुम्हें तपस्या करनेकी आज्ञा दी थी। क्योंकि निष्पाप! तपस्या मेरा हृदय है और मैं स्वयं तपस्याका आत्मा हूँ॥ २२॥
तदपि त्वयि कर्मणि ज92गत्सर्गकर्मणि विमोहिते सति मयैव प्रत्यादिष्टं त्वां93 प्रति आभिमुख्येन उपदिष्टमतो ममैवानुभाव इति भावः । तपः प्रशंसति तपो मे इत्यादिना ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सृजामि तपसैवेदं ग्रसामि तपसा पुनः।
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः॥
मूलम्
सृजामि तपसैवेदं ग्रसामि तपसा पुनः।
बिभर्मि तपसा विश्वं वीर्यं मे दु94श्चरं तपः॥ २३ ॥
अनुवाद (हिन्दी)
मैं तपस्यासे ही इस संसारकी सृष्टि करता हूँ, तपस्यासे ही इसका धारण-पोषण करता हूँ और फिर तपस्यासे ही इसे अपनेमें लीन कर लेता हूँ। तपस्या मेरी एक दुर्लङ्घ्य शक्ति है॥ २३॥
“तपसैव सोऽतप्यत”, “यस्य ज्ञानमयं तपः” इत्यादि श्रुत्यक्तपूर्व जगदाकारपर्यालोचन95ज्ञानरूपतपसैवेदं जगत् सृजामीति तेनैव तपसा ग्रसामि संहरामि बिभर्मि पालयामि विश्वं दु96श्चरं तपः मे वीर्यं प्रभावः ॥ २३ ॥
श्लोक-२४
मूलम् (वचनम्)
ब्रह्मोवाच
विश्वास-प्रस्तुतिः
भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम्।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्॥
मूलम्
भगवन्! सर्वभूतानामध्यक्षोऽवस्थितो गुहाम्।
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्॥ २४ ॥
अनुवाद (हिन्दी)
ब्रह्माजीने कहा—भगवन्! आप समस्त प्राणियोंके अन्तःकरणमें साक्षीरूपसे विराजमान रहते हैं। आप अपने अप्रतिहत ज्ञानसे यह जानते ही हैं कि मैं क्या करना चाहता हूँ॥ २४॥
वीरराघवः
एवं भगवताऽनुगृहीतो ब्रह्मा स्वबुभुत्सितमर्थद्वयं तस्मै निवेदयति - भगवन्निति । हे भगवन्! सर्वभूतानां गुहां हृदयकुहरमवस्थितोऽधिष्ठितः अत एवाध्यक्षः सर्वेन्द्रियवृत्तिद्रष्टा अत एवाप्रतिरुद्धेन प्रतिहतिशून्येन प्रज्ञानेन चिकीर्षितं साक्षात् अस्मदादिपरम्परया वा कर्तुमिष्टं यद्यपि वेद जानासि, हीति प्रसिद्धौ ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तथापि नाथमानस्य नाथ नाथय नाथितम्।
परावरे यथा रूपे जानीयां ते त्वरूपिणः॥
अनुवाद (हिन्दी)
नाथ! आप कृपा करके मुझ याचककी यह माँग पूरी कीजिये कि मैं रूपरहित आपके सगुण और निर्गुण दोनों ही रूपोंको जान सकूँ॥ २५॥
वीरराघवः
तथाऽपि नाथमानस्य याचमानस्य हि नाथ । नाथितं प्रार्थितं नाथय पूरय ! नाथितमेवाऽऽह परावर इति । परं दिव्यात्मस्वरूपम् अवरं रूपं चिदचिदात्मकम् अरूपिणः कर्मायत्तप्राकृतरूपरहितस्य ते तव परावरे रूपे यथा जानीयां तथा मनीषां बु102द्धिं देहीत्यन्वयः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम्।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना॥
मूलम्
यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहित103म्।
विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना॥ २६ ॥
वीरराघवः
द्वितीयं नाथितमाह यथेति । नानाशक्त्युपबृंहितः “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति श्रुत्युक्तज्ञानबलादिभिरुपबृंहितः युक्तः । द्वितीयान्तपाठे नानाशक्तिभिः पञ्चविंशतितत्त्वात्मकशक्तिभिः उपबृंहितमभिव्यञ्जितं विश्वमात्ममायायोगेन स्वात्मनः आश्चर्यशक्तियोगेनाऽऽत्मना निमित्तभूतेन आत्मना आत्मानं सूक्ष्मचिदचिद्विशिष्टं उपादानम् “तदात्मानं स्वयमकुरुत” इति श्रुत्या आत्मानमित्युपादानत्वस्य अकुरुतेति निमित्तत्वस्य चाभिधानात् विलुम्पन्निति सृष्टेः पूर्वसंहारः गृह्णन्निति पाश्चात्यसंहारः विसृजन्नस्मदादिरूपेण बिभ्रत् पुष्णन् ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते।
तथा तद्विषयां धेहि मनीषां मयि माधव॥
अनुवाद (हिन्दी)
आप मायाके स्वामी हैं, आपका संकल्प कभी व्यर्थ नहीं होता। जैसे मकड़ी अपने मुँहसे जाला निकालकर उसमें क्रीड़ा करती है और फिर उसे अपनेमें लीन कर लेती है, वैसे ही आप अपनी मायाका आश्रय लेकर इस विविध-शक्तिसम्पन्न जगत्की उत्पत्ति, पालन और संहार करनेके लिये अपने-आपको ही अनेक रूपोंमें बना देते हैं और क्रीड़ा करते हैं। इस प्रकार आप कैसे करते हैं—इस मर्मको मैं जान सकूँ, ऐसा ज्ञान आप मुझे दीजिये॥ २६-२७॥
वीरराघवः
अमोघसङ्कल्पः सत्यसङ्कल्पस्त्वं ऊर्णनाभिर्यथा तन्तूनूर्णुते आच्छादयति सृजति इति यावत् । तद्वद्यथा क्रीडसि तथा तद्विषयां सृष्टिविषयां मनीषां बुद्धिं हे माधव ! ल106क्ष्मीनाथ मयि धेहि नि107धेहि ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः।
नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्॥
अनुवाद (हिन्दी)
आप मुझपर ऐसी कृपा कीजिये कि मैं सजग रहकर सावधानीसे आपकी आज्ञाका पालन कर सकूँ और सृष्टिकी रचना करते समय भी कर्तापन आदिके अभिमानसे बँध न जाऊँ॥ २८॥
वीरराघवः
अन्यदपि प्रार्थयते भगवन्निति । हे भगवन्! शिक्षितं त्वया प्रदर्शितप्रकारं प्रजासर्गमतन्द्रितः अनलसस्सन् करवाणि । एवमीहमानः कुर्वाणः यदनुग्रहाद्यस्य भगवतोऽनुग्रहात् न बध्येयं बद्धो न भवेयं तथाऽनुगृहीष्वेत्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यावत् सखा सख्युरिवेश ते कृतः
प्रजाविसर्गे विभजामि भो जनम्।
अविक्लवस्ते परिकर्मणि स्थितो
मा मे समुन्नद्धमदोऽजमानिनः॥
मूलम्
यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि 110भो! जनम्।
अविक्लबस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः॥ २९ ॥
अनुवाद (हिन्दी)
प्रभो! आपने एक मित्रके समान हाथ पकड़कर मुझे अपना मित्र स्वीकार किया है। अतः जब मैं आपकी इस सेवा—सृष्टि-रचनामें लगूँ और सावधानीसे पूर्वसृष्टिके गुण-कर्मानुसार जीवोंका विभाजन करने लगूँ, तब कहीं अपनेको जन्म-कर्मसे स्वतन्त्र मानकर प्रबल अभिमान न कर बैठूँ॥ २९॥
वीरराघवः
अवश्यं प्रजाः सृजतो मे मदो भविता । स माभूदिति प्रार्थयते - यावदिति । भो! हे भगवन्! ते त्वया लौकिकस्य सख्युः सखेवाहं कृतः । करस्पर्शादिना सम्मानितः स111न् प्रजाविसर्गे प्रजासर्गरूपे परिकर्मणि परिचर्यायां अविक्लब धीरः अव्याकुल एव यावज्जनं विभजामि उत्तममध्यमादिभेदेन सृजामि, तावत् त्वत्परिचर्याव112धिः अजमानिनः जगत्स्रष्टारं मां मन्यमानस्य मे मम समुन्नद्धमदः प्रभूतमदः मा113 त्वत्प्रसादान्माभूदित्यर्थः ॥ २९ ॥
श्लोक-३०
मूलम् (वचनम्)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
ज्ञानं परमगुह्यं मे यद् विज्ञानसमन्वितम्।
सरहस्यं तदङ्गं च गृहाण गदितं मया॥
मूलम्
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्।
सरहस्यं तदङ्गं च गृहाण गदितं मया॥ ३० ॥
अनुवाद (हिन्दी)
श्रीभगवान्ने कहा—अनुभव, प्रेमाभक्ति और साधनोंसे युक्त अत्यन्त गोपनीय अपने स्वरूपका ज्ञान मैं तुम्हें कहता हूँ; तुम उसे ग्रहण करो॥ ३०॥
वीरराघवः
एवं प्रार्थितो भगवान् तमनुगृह्णन् परावररूपप्रकाशकं चतुश्श्लोक्यात्मकं भागवतमाह - ज्ञानमिति । ज्ञानं प्राधान्येन ज्ञातव्यं भगवत्स्वरूपविषयकं ज्ञानम् । तदङ्गमप्रधानतया ज्ञातव्यचिदचित्स्वरूपविषयकं च ज्ञानं मया गदितम् । तत् मे मत्तः गृहाण कथम्भूतं ज्ञानम् ? परमगुह्यमतिगोप्यम् विज्ञानसमन्वितम् । विज्ञायते अनेनेति विज्ञानं शास्त्रं त114ज्जन्यं ज्ञानमपि विज्ञानम् योगश्च । ताभ्यां सहितं सरहस्यं समन्त्रकम् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
यावानहं यथाभावो यद्रूपगुणकर्मकः।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्॥
मूलम्
यावानहं यथाभावो यद्रूपगुणकर्मकः।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्॥ ३१ ॥
अनुवाद (हिन्दी)
मेरा जितना विस्तार है, मेरा जो लक्षण है, मेरे जितने और जैसे रूप, गुण और लीलाएँ हैं—मेरी कृपासे तुम उनका तत्त्व ठीक-ठीक वैसा ही अनुभव करो॥ ३१॥
वीरराघवः
कार्त्स्न्येन त्वद्गदितग्रहणेनाहं प्रभुरित्याशङ्कमानं प्रत्याह - यावानिति । अहं “सत्यं ज्ञानं”, “यः सर्वज्ञः” इत्यादिश्रुत्युक्तज्ञानस्वरूपज्ञानगुणकोऽहं यावान् यत्परिमाणकः अपरिच्छिन्नः यथा- भावः यादृक्स्वभाव: “स्वाभाविकी ज्ञानबलक्रिया च” इत्युक्तसार्वज्ञ्यादिगुणकः यद्रूपगुणकर्मकः रूपं चिदचिद्वस्तु गुणस्तयोर्गुणः स च सद्वारको भगवद्गुणः “काठिन्यवान् यो बिभर्ती"ति वत् कर्म जगद्व्यापारः यानि रूपगुणकर्माणि यस्य सः इति बहुव्रीहिः । तथैव तत्त्वविज्ञानं मत्स्वरूप115रूपगुणविभूतियाथात्म्यविज्ञानं मदनुग्रहात् मत्प्रसादाद्धेतोः ते तव अस्तु भवतु ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्॥
अनुवाद (हिन्दी)
सृष्टिके पूर्व केवल मैं-ही-मैं था। मेरे अतिरिक्त न स्थूल था न सूक्ष्म और न तो दोनोंका कारण अज्ञान। जहाँ यह सृष्टि नहीं है, वहाँ मैं-ही-मैं हूँ और इस सृष्टिके रूपमें जो कुछ प्रतीत हो रहा है, वह भी मैं ही हूँ और जो कुछ बच रहेगा, वह भी मैं ही हूँ॥ ३२॥
वीरराघवः
यावानित्यस्यार्थमेव स्फुटयन् प्रधानतया ज्ञातव्यपरशब्दोक्तं भगवत्स्वरूपमाह - अहमिति । सदसत्परं चेतनाचेतनविलक्षणं यद्वस्तु तदहमेव आसमभवम् । अन्यत् चिदचिद्विलक्षणं न भवति अन्यत्सर्वं चिदचिदन्तर्गतमहमेव तद्विलक्षण इत्यर्थः । अग्रे सृष्टेः प्राक् य119द्वस्तु पश्चात्सृष्टिकाले जातः त्वमेतत्कार्यजातं च तदप्यहं का120रणचिदचिद्रूपः कार्यचिदचिद्रूपञ्चाहमित्यर्थः । पुनस्संहारकाले योऽवशिष्येत संह्रियते सोऽप्यहमेवेत्यर्थः । प्रकृतिपुरुषविलक्षणः तच्छरीरकश्चाहमेक एव य121 एव सर्वज्ञः सर्वशक्तिः सर्वेश्वरः सृष्टेः प्रागविभक्तनामरूपसूक्ष्मप्रकृतिपुरुषशरीरकः सृष्टिकाले विभक्तनामरूप प्रकृतिपुरुषशरीरकः स्वपर्यन्तनामरूपः आसम् संहारविषयोऽप्यहमेवेत्यर्थः । एवं कारणावस्थायामविभक्तानामरूपप्रकृतिशरीरकत्वेन कार्यावस्थायां विभक्तनामरूपप्रकृतिपुरुषशरीरकत्वेन अवस्थितस्यापि परमात्मनः स्वशरीरगतचेतनाचेतनगताज्ञत्वदुःखित्वकर्मव122शगत्वपरिणामित्वजडत्वादिभिः विकारैः जीवात्मनः तच्छरीरगतबालत्वयुवत्वस्थविरत्वादिभिरिवास्पर्शात् चेतनाचेतनवैलक्षण्यमविहतमेवावतिष्ठते । कार्यत्वं कारणत्वं च स्वशरीरभूतप्रकृतिपुरुषद्वा123रकमुपपन्नमित्य124त्र भाष्यादिषु विस्तरो द्रष्टव्यः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः॥
मूलम्
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि।
तद्विद्यादात्मनो मायां य125थाऽऽभासो यथा तमः॥ ३३ ॥
अनुवाद (हिन्दी)
वास्तवमें न होनेपर भी जो कुछ अनिर्वचनीय वस्तु मेरे अतिरिक्त मुझ परमात्मामें दो चन्द्रमाओंकी तरह मिथ्या ही प्रतीत हो रही है अथवा विद्यमान होनेपर भी आकाश-मण्डलके नक्षत्रोंमें राहुकी भाँति जो मेरी प्रतीति नहीं होती, इसे मेरी माया समझना चाहिये॥ ३३॥
वीरराघवः
एवं चिदचिद्विलक्षणस्य परमात्मनः स्वरूपमुक्तम् । अथावरशब्दोक्तं अङ्गतया ज्ञातव्यम् । 126चिदचिद्रूपमाह - ऋतेऽर्थमिति । अर्थं निरतिशयपुरुषार्थभूतचित्तत्वं ऋते विना यदचिद्वस्तु प्रतीयेत प्रकृत्यनुसन्धानवेलायाम् आत्मस्वरूपं न यथावत् प्रकाशत इत्यर्थः । आत्मनि चेतनस्वरूपे प्रतीयमाने “सा निशा पश्यतो मुनेः” इति न्यायेन यदचेतनं न प्रतीयेत तदात्मनः परमात्मनः मायां विद्यादित्यर्थः । अन्यतरस्य प्रकाशे126 अन्यतरस्याप्रकाशनं विरुद्धाकारत्वात् इत्यभिप्रेत्य तत्र दृष्टान्तमाह - “य127था भासो यथा तम” इति । यथा “भासो भासनं” भाश्शब्दो बहुवचनान्तो वा । न हि तेजसि तमो भाति । न च तमसि तेजो भाति तद्वदित्यर्थः । स्थूलत्वसूक्ष्मत्वनित्यत्वानित्यत्वजडत्वाजडत्वादिविरुद्धाकारयोगोऽभिप्रेतः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्॥
मूलम्
यथा महान्ति भूतानि भूतेषूच्चावचेष्व128नु।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्॥ ३४ ॥
अनुवाद (हिन्दी)
जैसे प्राणियोंके पंचभूतरचित छोटे-बड़े शरीरोंमें आकाशादि पंचमहाभूूत उन शरीरोंके कार्यरूपसे निर्मित होनेके कारण प्रवेश करते भी हैं और पहलेसे ही उन स्थानों और रूपोंमें कारणरूपसे विद्यमान रहनेके कारण प्रवेश नहीं भी करते,वैसे ही उन प्राणियोंके शरीरकी दृष्टिसे मैं उनमें आत्माके रूपसे प्रवेश किये हुए हूँ और आत्मदृष्टिसे अपने अतिरिक्त और कोई वस्तु न होनेके कारण उनमें प्रविष्ट नहीं भी हूँ॥ ३४॥
वीरराघवः
एवं परस्परविलक्षणं चिदचित्स्वरूपमुक्तम् । अथ ए129तयोः स्वस्य अनुप्रवे130शतत्प्रशासनरूपं पालनं तद्गतदोषास्पर्शनं च आह - यथा इति । महान्ति भूतानि आकाशवायुतेजांसि यथा उच्चावचेषु नानाविधेषु भूतेषु भौतिकेषु घटादिषु प्रविष्टान्यप्रविष्टानी131व घटादिगतभेदच्छेदनाद्यस्पृष्टत्वात् तथाऽहमपि तेषु चेतनाचेतनेषु आत्मतयाऽनुप्रविष्टोऽपि तेषु न प्रविष्टः । 132न तद्गतदोषैः 133स्पृष्टः इत्यर्थः । यद्वा परिच्छिनचेतनाचेतनवस्त्वनुप्रवेशेऽपि स्वस्यापरिच्छिन्नत्वं सदृष्टान्तमाह - यथेति । अप्रविष्टानि बहिरपि सन्ति, तथा - “अन्तर्बहिश्च तत्सर्वं व्याप्य” इति प्रकारेण तेषु प्रविष्टोऽहं न तेष्वेव बहिरपि व्याप्त इत्यर्थः । एवमपरिच्छिन्नत्वप्रतिपादनेन यावानहं इत्येतत् स्पष्टीकृतम् । अहमेवाऽऽसमित्यत्र जगत्कारणत्वतदाक्षिप्तचेतनाचेतनवैलक्ष्यण्यापा134दकसार्वज्ञ्यसर्वशक्तित्वादिप्रतिपादनेन यथाभाव इत्येतत् स्पष्टीकृतम् । ऋतेऽर्थमित्यादिना परमात्मशरीरभूतपरस्परविलक्षणचेतनाचेतनस्वरूपप्रतिपादनेन यद्रूप इति स्पष्टीकृतम् । तथा तेषु इत्यनेन चेतनाचेतनयोः परमात्मशरीरत्वप्रतिपादनात् शरीरगता धर्मा जीवात्मनः, तच्छरीरगतबालत्वयुवत्वादयः इव मच्छरीरभूतचेतनाचेतनद्वारा ममैव धर्मा इति प्रतीतेः यद्गुणक इत्यभिव्यञ्जितम् । अहमेवाऽऽसमित्यनेन स्रष्टृत्वपालकत्वसंहर्तृत्वरूपजगद्व्यापाररूपकर्मप्रतिपादनेन यत्कर्मक इत्यभिव्यक्तीकृतम् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा॥
मूलम्
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः।
अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वदा॥ ३५ ॥
अनुवाद (हिन्दी)
यह ब्रह्म नहीं, यह ब्रह्म नहीं—इस प्रकार निषेधकी पद्धतिसे, और यह ब्रह्म है, यह ब्रह्म है—इस अन्वयकी पद्धतिसे यही सिद्ध होता है कि सर्वातीत एवं सर्वस्वरूप भगवान् ही सर्वदा और सर्वत्र स्थित हैं, वही वास्तविक तत्त्व हैं। जो आत्मा अथवा परमात्माका तत्त्व जानना चाहते हैं, उन्हें केवल इतना ही जाननेकी आवश्यकता है॥ ३५॥
वीरराघवः
पुनश्च प्रकृतिपुरुषविलक्षणेश्वरस्वरूपं सङ्ग्रहेण वक्ष्यन् तस्यैव जिज्ञास्यत्वमाह - एतावदिति । आत्मनः परमात्मनः तत्त्वं स्वरूपं जिज्ञासुना ज्ञातुमि135च्छुना एतावदेव परस्परविविक्तस्वभावचिदचिदन्तरात्मभूतभगवत्स्वरूपमेव अन्वयव्यतिरेकाभ्यां अयोगान्ययोगव्यवच्छेदाभ्यां जिज्ञास्यमित्यर्थः । इ136दं जिज्ञास्यमेवेत्यन्वयः । नान्यज्जिज्ञास्यमिति व्यतिरेकः । यद्वा अन्वयात्सद्भावात् चिदचिच्छरीरकपरमात्मन एव कार्यात्मना कारणात्मना च सद्भावाद्व्यतिरेकात् चिदचिच्छरीरकपरमात्मातिरिक्तवस्त्वंतराभावात् तदेवम्भूतपरमात्मविज्ञानेन सर्वविज्ञानात् ज्ञातव्यान्तराभावात् एतावदेव जिज्ञास्यमित्यर्थः । प्राधान्येन ज्ञेयं भगवत्स्वरूपं चेतनमचेतनं च तद्विभूतिभूतमिति तज्ज्ञानस्य भगवज्ज्ञानेऽन्तर्भावात् आत्मनः तत्त्वमित्युक्तम् । सङ्ग्रहेण प्रकृतिपुरुषवैलक्षण्यमाह - यत्स्यादिति । यदात्मनस्तत्त्वं मत्स्वरूपं सर्वदा स्यादित्यचिद्व्यावृत्तिः । अचितः प्रतिक्षणपरिणामित्वेन पिण्डत्वघटत्वकपालत्वचूर्णत्वरजस्त्वाणुत्वाद्यवस्थासु पूर्वपूर्वावस्थानां मृद्द्रव्यस्य उत्तरोत्तरावस्थाप्राप्तावभावात् सर्वदा137ऽस्तिशब्दानर्हत्वात् सर्वत्रेति जीवव्यावृत्तिः । तस्याधिकृतत्वेन सर्वदा स्यादिति वक्तुं शक्यत्वेऽपि “बालाग्रशतभागस्य” इत्याद्युक्तप्रकारेण जीवस्वरूपस्याणुपरिमाणत्वेन सर्वत्र स्यादिति वक्तुमशक्यत्वात् । एव मविकारित्वानन्तत्वकथनेन “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युक्तब्रह्मस्वरूपलक्षणमभि138संहितं भवति ।। ३५ ।।
श्लोक-३६
विश्वास-प्रस्तुतिः
एतन्मतं समातिष्ठ परमेण समाधिना।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्॥
मूलम्
एतन्मतं 139समातिष्ठ परमेण समाधिना।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्॥ ३६ ॥
अनुवाद (हिन्दी)
ब्रह्माजी! तुम अविचल समाधिके द्वारा मेरे इस सिद्धान्तमें पूर्ण निष्ठा कर लो। इससे तुम्हें कल्प-कल्पमें विविध प्रकारकी सृष्टिरचना करते रहनेपर भी कभी मोह नहीं होगा॥ ३६॥
वीरराघवः
एवं “परावरे यथा रूपे जानीयां ते” इत्यस्योत्तरमुक्तम् “नेहमानः प्रजासर्गं बध्येयम्" इत्यस्योत्तरमाह - एतदिति । परमेण समाधिना चित्तैकाग्य्रेण एतन्मतं सम्यगनुतिष्ठ भवानिति संहाराद्यधिकर्तृरुद्रादेरप्युपलक्षणम् । कल्पविकल्पेषु सृष्टिसंहारेषु कल्पः कल्पनं 140सृष्टिः विकल्पो विपरीतकल्पनं संहारः कर्हिचित् कदाचिदपि न विमुह्यति अस्मदधीनत्वमनुसन्धाय समुन्नद्धम141दोपहतो न भविष्यसीत्यर्थः । अनेनैव तद्विषयां धेहि मनीषां इत्यस्याप्युत्तरमुक्तं भवति ॥ ३६ ॥
श्लोक-३७
मूलम् (वचनम्)
श्रीशुक उवाच
विश्वास-प्रस्तुतिः
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम्।
पश्यतस्तस्य तद् रूपमात्मनो न्यरुणद्धरिः॥
अनुवाद (हिन्दी)
श्रीशुकदेवजी कहते हैं—लोकपितामह ब्रह्माजीको इस प्रकार उपदेश देकर अजन्मा भगवान्ने उनके देखते-ही-देखते अपने उस रूपको छिपा लिया॥ ३७॥
वीरराघवः
अजनः कर्मायत्तोत्पत्तिशून्यः हरिभगवान् जनानां व्यष्टिभूतानां परमे आधिपत्ये स्थितं प्रति एवमुक्तप्रकारेण संप्रदिश्य तस्य परमेष्ठिनः पश्यतस्सतः तच्च चतुर्मुखाय प्रदर्शितमात्मनः सम्बन्धिरूपं न्यरुणत्तिरोभावयामास ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्॥
मूलम्
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः।
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्॥ ३८ ॥
अनुवाद (हिन्दी)
जब सर्वभूतस्वरूप ब्रह्माजीने देखा कि भगवान्ने अपने इन्द्रियगोचर स्वरूपको हमारे नेत्रोंके सामनेसे हटा लिया है, तब उन्होंने अंजलि बाँधकर उन्हें प्रणाम किया और पहले कल्पमें जैसी सृष्टि थी, उसी रूपमें इस विश्वकी रचना की॥ ३८॥
वीरराघवः
अन्तर्हितः तिरोधापितः इन्द्रियार्थः 144स्वचक्षुरिन्द्रियविषयः प्रत्यक्षरूपं येन तस्मै हरये विहितः रचितः अञ्जलिर्येन सः सर्वभूतमयः सर्वभूतप्रचुरः स्रक्ष्यमाणदेवादिभूतानां बुद्धिस्थत्वेन भूतविषयकर्मज्ञानप्रचुर इत्यर्थः । स ब्रह्मा इदं विश्वं पूर्ववत् पूर्वकल्पवत् ससर्ज ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
प्रजापतिर्धर्मपतिरेकदा नियमान् यमान्।
भद्रं प्रजानामन्विच्छन्नातिष्ठत् स्वार्थकाम्यया॥
मूलम्
प्रजापतिर्धर्मपतिरेकदा नियमान् यमान्।
भद्रं प्रजानामन्विच्छन् नातिष्ठत्स्वार्थकाम्यया॥ ३९ ॥
अनुवाद (हिन्दी)
एक बार धर्मपति, प्रजापति ब्रह्माजीने सारी जनताका कल्याण हो, अपने इस स्वार्थकी पूर्तिके लिये विधिपूर्वक यम-नियमोंको धारण किया॥ ३९॥
वीरराघवः
तदनन्तरं पूर्वोक्तो ब्रह्मनारदसंवादः प्रवृत्त इत्याह - प्रजापतिरिति पञ्चभिः । धर्मपतिर्भागवतधर्माणां प्रवर्तनेन गोप्ता प्रजापतिः ब्रह्मा प्रजानां भद्रं मङ्गलमन्विच्छन् विमृशन् सैव स्वार्थे का145म्यया स्वप्रयोजनेच्छा146 147तया कदाचिद्यमान्नियमांश्च अन्वतिष्ठदनुष्ठितवान् इत्यर्थः ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
तं नारदः प्रियतमो रिक्थादानामनुव्रतः।
शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च॥
मूलम्
तं नारदः प्रियतमो रिक्थादानामनुव्रतः।
शुश्रूषमाणश्शीलेन प्रश्रयेण दमेन च॥ ४० ॥
वीरराघवः
तमनुतिष्ठन्तं पितरं रिक्थादानां 148दायादानां मरीच्यादिपुत्राणां मध्ये प्रियतमो नारदः शीलादिभिः पर्यतोषयदित्युत्तरेणान्वयः । प्रियतमत्वमेवाह - अनुव्रतः पितरं सेवमानः शुश्रूषमाणः श्रोतुकामः शीलेन स्वभावेन प्रश्रयेण विनयेन दमेन बाह्येन्द्रिय149नियमेन चकाराच्छमेनान्तरिन्द्रियनिग्रहेण च ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः।
महाभागवतो राजन् पितरं पर्यतोषयत्॥
मूलम्
मायां विविदि150षन् विष्णोर्मायेशस्य महामुनिः।
महाभागवतो राजन्! पितरं पर्यतोषयत्॥ ४१ ॥
अनुवाद (हिन्दी)
उस समय उनके पुत्रोंमें सबसे अधिक प्रिय, परम भक्त देवर्षि नारदजीने मायापति भगवान्की मायाका तत्त्व जाननेकी इच्छासे बड़े संयम, विनय और सौम्यतासे अनुगत होकर उनकी सेवा की और उन्होंने सेवासे ब्रह्माजीको बहुत ही सन्तुष्ट कर लिया॥ ४०-४१॥
वीरराघवः
किमिच्छन् मायाधिपस्य विष्णोर्मायां तन्नियाम्याश्चर्यशक्तिं विविदि151षन् वेदितुमिच्छन् ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम्।
देवर्षिः परिपप्रच्छ भवान् यन्मानुपृच्छति॥
मूलम्
तुष्टं नि152शाम्य पितरं लोकानां प्रपितामहम्।
देवर्षिः परिपप्रच्छ भवान् 153यन्मानुपृच्छति॥ ४२ ॥
अनुवाद (हिन्दी)
परीक्षित्! जब देवर्षि नारदने देखा कि मेरे लोकपितामह पिताजी मुझपर प्रसन्न हैं, तब उन्होंने उनसे यही प्रश्न किया, जो तुम मुझसे कर रहे हो॥ ४२॥
वीरराघवः
लोकानां प्रपितामहं स्वस्य पितरं ब्रह्माणं तुष्टं स्वपरिच154र्यायां सन्तुष्टं निशाम्य ज्ञात्वा देवर्षिर्नारदः भवान् मां 155सम्प्रति यदनुपृच्छति अनुपृष्टवांस्तदेव परिपप्रच्छ ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
तस्मा इदं भागवतं पुराणं दशलक्षणम्।
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्॥
मूलम्
तस्मा इदं भागवतं पुराणं दशलक्षणम्।
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्॥ ४३ ॥
अनुवाद (हिन्दी)
उनके प्रश्नसे ब्रह्माजी और भी प्रसन्न हुए। फिर उन्होंने यह दस लक्षणवाला भागवतपुराण अपने पुत्र नारदको सुनाया, जिसका स्वयं भगवान्ने उन्हें उपदेश किया था॥ ४३॥
वीरराघवः
तस्मै पृष्टवते 155पुत्राय नारदाय इदं भागवतं भगवता चतुःश्लोक्यात्मना संक्षेपेणोक्तं दशलक्षणं उपरितनाध्यायोक्तैः दशभि156रर्थैचिह्नितं पुराणं चतुःश्लोक्यामपि सर्गादयो दशार्थाः सङ्ग्रहेण सूचिताः । तथा हि ‘अहमेवासम्’ इति श्लोकेन भगवतः सृष्टिस्थितिसंहारकारणत्वोक्त्या आश्रयसर्गपोषणनिरोधानामुक्तिः अनेनैव सर्वकारणत्वरूपसर्वातिशायित्वोक्त्या वैकुण्ठविजयरूपस्थितिरप्युक्ता । “पश्चादहं यदेतच्च” इत्यनेन कार्यचिदचिद्रूपव्यष्टिसर्गस्यापि चतुर्मुखशरीरकस्वकारणकत्वोक्त्या विसर्गोऽपि सङ्गृहीतः । परस्परविविक्तत्वेन प्रकृतिपुरुषस्वरूपशोधके “ऋतेऽर्थम्” इति श्लोके आत्मस्वरूपाप्रतीतिदशायां मायास्वरूपप्रतीतिकथनात् आत्मस्वरूपाप्रतीतिमायाप्रतीत्यो157 रनादिकर्मवासनायत्तत्वप्रतीतेः कर्मवासानारूपा ऊतयोऽपि सूचिताः । “यथा महान्ति भूतानि” इति श्लोके सर्वान्तरात्मतया प्रशासितृत्वरूपपालकत्वोक्त्यैव पालनाधिकृतभगवदवतारकथानां भगवदनुवर्तिमन्वादिककथानामपि सूचितत्वेन मन्वन्तरेशानुकथे अपि सूचिते । परमपुरुषशरीरप्रकृतिविलक्षणजीवस्वरूपशोधनेनैव प्रकृतिविनिर्मुक्ता आविर्भूतगुणाष्टकपरमात्मात्मकस्वरूपेणावस्थितिरूपा मुक्तिरित्यपि सूचितम् । एवं दशार्थाः सङ्ग्रहेण चतुःश्लोक्यामपि सूचिताः । अत एवैतद्विवरणरूपे द्वादशस्कन्धात्मके पुराणे दशार्थानां प्रतिपादनमुपपद्यते । भूतकृत् ब्रह्मा प्रीतः प्राह । ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
नारदः प्राह मुनये सरस्वत्यास्तटे नृप।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे॥
मूलम्
नारदः प्राह मुनये सरस्वत्यास्तटे नृप!
ध्यायते ब्रह्म परमं व्यासायामिततेजसे॥ ४४ ॥
अनुवाद (हिन्दी)
परीक्षित्! जिस समय मेरे परमतेजस्वी पिता सरस्वतीके तटपर बैठकर परमात्माके ध्यानमें मग्न थे, उस समय देवर्षि नारदजीने वही भागवत उन्हें सुनाया॥ ४४॥
वीरराघवः
स च नारदः सरस्वत्याः नद्यास्तटे परमं ब्रह्म ध्यायते ध्यानं कुर्वतेऽपरिमिततेजसे मुनये वेदशास्त्रार्थतत्त्वावगन्त्रे व्यासाय प्राह प्रोक्तवान् व्यासस्तु मह्यं प्रोक्तवानित्येतत्तु “अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम्” इति पूर्वमेवोक्तम् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम्।
यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः॥
मूलम्
यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम्।
यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः॥ ४५ ॥
अनुवाद (हिन्दी)
तुमने मुझसे जो यह प्रश्न किया है कि विराट्पुरुषसे इस जगत्की उत्पत्ति कैसे हुई तथा दूसरे भी जो बहुत-से प्रश्न किये हैं, उन सबका उत्तर मैं उसी भागवतपुराणके रूपमें देता हूँ॥ ४५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे नवमोऽध्यायः॥ ९॥
वीरराघवः
एवं सत्सम्प्रदायागतश्रीभागवत158व्याख्यानेनैव त्वत्कृतप्रश्नानामुत्तराण्यभिधास्यामीत्याह - यदुतेति । इदं विश्वं वैराजात् 159विराडाख्यानिरुद्धसृष्टाच्चतुर्मुखाद्यथा आसीदिति यत्त्वयाऽहं पृष्टः “अतः सृजति भूतानि भूतात्मा यदनुग्रहात्” इत्यादिना तदुपाख्यास्ये भागव160तोपाख्यानेनोत्तरयामि, अन्यांश्च प्रश्नान् कार्त्स्येन उपाख्यास्ये इत्यर्थः । एवं यत्र शेते इत्यस्योत्तरमुक्तं भवति परमव्योमकथनात् अप्राकृतशुद्धसत्त्वमयलोकस्थ161विग्रहकथनेन ईश्वरस्य जीववद्धातुभिर्देहारम्भप्रश्नः प्रत्युक्तः । अन्यत्र व्याप्तिकथनात् परिच्छिन्नत्वमपि परिहृतम् ॥ ४५ ॥
इति श्रीमद्भागवते महापुराणे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयकन्धे नवमोऽध्यायः ॥ ९ ॥
-
M,Ma प्रे ↩︎
-
H,V र्यथाञ्ज ↩︎
-
A,B स्वपररूप ↩︎
-
W Omits भवति ↩︎
-
C,N स्यां ↩︎
-
A,B Omit आ ↩︎
-
M,Ma चायं; W वाऽयं ↩︎
-
M,Ma त्वे स्वं ↩︎
-
M,Ma रमते ↩︎
-
W Omits सन् ↩︎
-
A,B स्पृष्टे न ↩︎
-
W Omits त्व ↩︎
-
A,B Omit कथं रमेत ? ↩︎
-
M,Ma णेऽदर्शयद्रू ↩︎
-
W तः जी ↩︎
-
A,B श्यजी ↩︎
-
A,B Omit मङ्गल ↩︎
-
A,B Omit रूपं ↩︎
-
W Omits वि ↩︎
-
H,M,Ma,V भजतां ↩︎
-
A,B Omit अधिष्ठाय तस्य ↩︎
-
M,Ma,W संचि ↩︎
-
A,B Omit संचिन्तयन् ↩︎
-
W चो निर्दे ↩︎
-
C,N क्त्र ↩︎
-
W तदिदृ ↩︎
-
W स्राब्दप ↩︎
-
A,B Omit स्म ↩︎
-
A,B Omit तपः….ऽतप्यत ↩︎
-
W Omits प्राण्वायु: ↩︎
-
W त स्मेत्यर्थः ↩︎
-
W Omits स्मेति प्रसिद्धो ↩︎
-
W नृ ↩︎
-
M,Ma संदृ ↩︎
-
I द्भिः पुरुषै ↩︎
-
W धिष्ठितं ↩︎
-
W Omits तस्मै….लोकं ↩︎
-
A,B क्लेशाः ↩︎
-
A,B Omit तम् ↩︎
-
M,Ma न वर्त ↩︎
-
W न ↩︎
-
AF,GF भ्र ↩︎
-
W हिक्लेशाः ↩︎
-
A,B कदाचित्प्र ↩︎
-
A,B Omit च ↩︎
-
H,V डू ↩︎
-
M,Ma सां ↩︎
-
M,Ma णाम् ↩︎
-
W अत इति तपर ↩︎
-
M,Ma माभि ↩︎
-
W विबुधा ↩︎
-
H,V,W प्रेङ्खश्रिता; M,Ma प्रेङ्खं स्थिता ↩︎
-
AF,GF प्रमुखा ↩︎
-
AF,GF Omit स्व ↩︎
-
I दाग्रैः ↩︎
-
B,W षे ↩︎
-
W च ↩︎
-
W Omits सात्वतां ↩︎
-
A,B सत्त्वं ↩︎
-
A,B र्वान्तिरम् ↩︎
-
M,Ma वैः ↩︎
-
W चारुलोचनं ↩︎
-
B,I,M,Ma पीतांशुकं ↩︎
-
W Omits चक्षुषि ↩︎
-
A,B सारुण ↩︎
-
H,V,W भ्य ↩︎
-
M,Ma विभुं ↩︎
-
A रस्मारितैः ↩︎
-
A,B शेषभूतैः ↩︎
-
H,V,W सृड् ↩︎
-
H,V भि ↩︎
-
A,B स्रु ↩︎
-
A,B म ↩︎
-
W Omits पूरः ↩︎
-
A,B न्दाश्रुनयनः ↩︎
-
H,I,M,Ma,V कविं ↩︎
-
W,A,B गार्ह ↩︎
-
W Omits तं कविं ↩︎
-
W Omits प्रियो….विषयो ↩︎
-
H,V स्सध्य्र ↩︎
-
H,V धृ ↩︎
-
W Omits सध्य्रक् ↩︎
-
M,Ma सर्वश्रेयः ↩︎
-
A,C,G,I,N पुंसो ↩︎
-
A,B मद्दर्श ↩︎
-
A,B Omit आख्य ↩︎
-
W मम मे ↩︎
-
W तपः प्र ↩︎
-
W Omits श्रेष्ठं ↩︎
-
According to AF&GF two verses beginning with प्रत्यादिष्टं & सृजमि are not to be found in Ancient editions. ↩︎
-
W सा ↩︎
-
W Omits जगत्सर्गकर्मणि ↩︎
-
W Omits त्वां ↩︎
-
M,Ma दुस्तरं ↩︎
-
A,B Omit ज्ञान ↩︎
-
A,B Omit दुश्चरं ↩︎
-
M,Ma अ ↩︎
-
M,Ma नाय ↩︎
-
AF,GF जनार्चित ↩︎
-
H,V प ↩︎
-
W पं ↩︎
-
W Omits बुद्धिं ↩︎
-
M,Ma,W त ↩︎
-
H,V देहि ↩︎
-
AF,GF मम ↩︎
-
W Omits लक्ष्मीनाथ ↩︎
-
A,B देहि अर्पयेत्यर्थः ।। ↩︎
-
W वन् शि ↩︎
-
C त्व ↩︎
-
M,Ma भोजनम् ↩︎
-
A,B Omit सन् ↩︎
-
W वधेः ↩︎
-
A,B सः ↩︎
-
A,B Omit तज्जन्यं…..विज्ञानम् ↩︎
-
W Omits रूप ↩︎
-
A,B,C,G,I,M,Ma,N मेवाग्रे ↩︎
-
M,Ma त्वमे ↩︎
-
W प्य ↩︎
-
W यद्यद्वस्तु ↩︎
-
W Omits कारणचिदचिद्रूपः ↩︎
-
W Omits य एव ↩︎
-
B वशत्व; W वश्यत्व ↩︎
-
W द्वारा उप ↩︎
-
W त्यन्यत्र ↩︎
-
W यथा भासो ↩︎
-
A,B शने नान्य ↩︎
-
M,Ma षु च; W ष्वपि ↩︎
-
W तयो ↩︎
-
A,B वेशेन ↩︎
-
A,B न्येव ↩︎
-
W Omits न ↩︎
-
W अस्पृष्टः ↩︎
-
A,B न ↩︎
-
. W च्छता ↩︎
-
A,B एवं ↩︎
-
W दा नासिशब्दर्हत्वात् ↩︎
-
A,B Omit सं ↩︎
-
M,Ma म ↩︎
-
W Omits सृष्टिः ↩︎
-
A,B दा ↩︎
-
M,Ma दृ ↩︎
-
M,Ma नः ↩︎
-
A,B Omit स्व ↩︎
-
A,B म्या ↩︎
-
W च्छया ↩︎
-
W Omits तया ↩︎
-
A,B Omits दायादानां ↩︎
-
A,B दमनेन ↩︎
-
H,M,Ma,V,W षुः ↩︎
-
W षुः ↩︎
-
M,Ma श ↩︎
-
AF,GF यदनु ↩︎
-
A,B र्यायां ↩︎
-
W Omits अर्थैः ↩︎
-
W त्याः ↩︎
-
A,B ताख्या ↩︎
-
A,B वैराजाख्यादनि ↩︎
-
A,B ताख्या ↩︎
-
A,B स्य परिग्र ↩︎