[अष्टमोऽध्यायः]
भागसूचना
राजा परीक्षित् के विविध प्रश्न
श्लोक-१
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च।
यस्मै यस्मै यथा प्राह नारदो देवदर्शनः॥
मूलम्
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च।
यस्मै यस्मै यथा प्राह नारदो देवदर्शनः॥ १ ॥
वीरराघवः
त्वमेतद्विपुलीकुर्वित्युक्तं विपुली1करणं राजा पृच्छति ब्रह्मणेति । हे ब्रह्मन्! शुक! देवदर्शनः परमात्मदर्शी नारदः ब्रह्मणा चतुर्मुखेन अगुणस्य सत्वादीप्राकृतगुणरहितस्य भगवतः गुणाख्याने गुणानुकथने चोदितः प्रवर्तितः यस्मै यस्मै प्रश्नायेति शेषः । यद्वा पृच्छते इति । यथा प्राह, यादृशमित्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
एतद् वेदितुमिच्छामि तत्त्वं वेदविदां वर।
हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने कहा—भगवन्! आप वेदवेत्ताओंमें श्रेष्ठ हैं। मैं आपसे यह जानना चाहता हूँ कि जब ब्रह्माजीने निर्गुण भगवान्के गुणोंका वर्णन करनेके लिये नारदजीको आदेश दिया, तब उन्होंने किन-किनको किस रूपमें उपदेश किया? एक तो अचिन्त्य शक्तियोंके आश्रय भगवान्की कथाएँ ही लोगोंका परम मंगल करनेवाली हैं, दूसरे देवर्षि नारदका सबको भगवद्दर्शन करानेका स्वभाव है। अवश्य ही आप उनकी बातें मुझे सुनाइये॥ १-२॥
वीरराघवः
एतन्नारदेन विस्तरेण वर्णितं वेदितुमहमिच्छामीति तत्तस्मात् हे वेदविदां वर! त्व मद्भुतवीर्यस्य हरेः लो4कसुमङ्गलाः लोकस्य5 मङ्गलकराः कथाः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
कथयस्व महाभाग यथाहमखिलात्मनि।
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम्॥
मूलम्
क6थयस्व महाभाग! यथाऽहमखिलात्मनि।
कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम्॥ ३ ॥
अनुवाद (हिन्दी)
महाभाग्यवान् शुकदेवजी! आप मुझे ऐसा उपदेश कीजिये कि मैं अपने आसक्तिरहित मनको सर्वात्मा भगवान् श्रीकृष्णमें तन्मय करके अपना शरीर छोड़ सकूँ॥ ३॥
वीरराघवः
कथयस्व, हे महाभाग! बुद्धिमन्! सर्वान्तरात्मनि कृष्णे निस्सङ्गं मनो निवेशेय कलेबरं त्यक्ष्ये भगवत्कथाः शृण्वन् तमेवावसाने स्मरन् देहं त्यक्ष्यामि अतः कथयस्वेत्यर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम्।
कालेन नातिदीर्घेण भगवान् विशते हृदि॥
मूलम्
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम्।
कालेन7 नातिदीर्घेण भगवान् विशते हृदि॥ ४ ॥
अनुवाद (हिन्दी)
जो लोग उनकी लीलाओंका श्रद्धाके साथ नित्य श्रवण और कथन करते हैं, उनके हृदयमें थोड़े ही समयमें भगवान् प्रकट हो जाते हैं॥ ४॥
वीरराघवः
अल्पकालकथाश्रवणेन कथमवसाने स्मृतिः सम्पद्यते इत्यत आह - शृण्वत इति । भगवान् स्वचेष्टितं नित्यं श्रद्धया शृण्वतो गृणतः क8थयतश्च पुंसः हृदये नातिदीर्घेणाल्पेन कालेन विशति शृण्वतो गृणतश्च चित्तं तत्स्मरणप्रवणमेव भवतीत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम्।
धुनोति शमलं कृष्णः सलिलस्य यथा शरत्॥
मूलम्
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम्।
धुनोति शमलं कृष्णः सलिलस्य यथा शरत्॥ ५ ॥
अनुवाद (हिन्दी)
श्रीकृष्ण कानके छिद्रोंके द्वारा अपने भक्तोंके भावमय हृदयकमलपर जाकर बैठ जाते हैं और जैसे शरद् ऋतु जलका गँदलापन मिटा देती है, वैसे ही वे भक्तोंके मनोमलका नाश कर देते हैं॥ ५॥
वीरराघवः
भगवतो हृदयप्रवेशफलमाह - प्रविष्ट इति । कर्णरन्ध्रेण कथाश्रवणद्वारा स्वानां भक्तानां भावसरोरुहं हृदयकमलं प्रविष्टः श्रीकृष्णः हृदयगतं शमलं रागादिरूपं मलं धुनोति निरस्यति यथा श9रत् शरत्कालः सलिलस्य श10मलं धुनोति तद्वदित्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति।
मुक्त सर्वपरिक्लेशः पान्थः स्वशरणं यथा॥
मूलम्
धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति।
मु11क्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा॥ ६ ॥
अनुवाद (हिन्दी)
जिसका हृदय शुद्ध हो जाता है, वह श्रीकृष्णके चरणकमलोंको एक क्षणके लिये भी नहीं छोड़ता—जैसे मार्गके समस्त क्लेशोंसे छूटकर घर आया हुआ पथिक अपने घरको नहीं छोड़ता॥ ६॥
वीरराघवः
ततश्च कृतार्थो भवतीत्याह - धौतात्मेति । धौतातेमा शुद्धमनाः पुरुषः कृष्णस्य पादमूलं न मुञ्चति ? तदेव स्मरतीति भावः । कथम्भूतो न मुञ्चति ? मुक्तसर्वपरिक्लेशः मुक्ताः सर्वे रागद्वेषादयः परिक्लेशः येन सः । यथा पान्थः प्रवासादागतः स्वशरणं स्वगृहं न मुञ्चति तथा इत्यर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभिः।
यदृच्छया हेतुना वा भवन्तो जानते यथा॥
मूलम्
यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभिः।
यदृच्छया हेतुना वा भवन्तो जानते यथा॥ ७ ॥
अनुवाद (हिन्दी)
भगवन्! जीवका पंचभूतोंके साथ कोई सम्बन्ध नहीं है। फिर भी इसका शरीर पंचभूतोंसे ही बनता है। तो क्या स्वभावसे ही ऐसा होता है, अथवा किसी कारणवश—आप इस बातका मर्म पूर्णरीतिसे जानते हैं॥ ७॥
वीरराघवः
एवं श्रवणौत्सुक्यमाविष्कृत्य अज्ञातानर्थान् प्रष्टव्यान् क्रमेण प्र12वक्ष्यमाणः तावत् सन्दि13ग्धानर्थान् पृच्छति - यदिति । हे ब्रह्मन्! अधातुमतः स्वरूपतः भौतिकदोषहीनस्य अस्य जीवस्य देहारम्भश्च धातुभिरेव स्यदिति तु ज्ञातमित्यर्थः । इदन्तु संशयविषयमित्याह स च देहारम्भः किं यदृच्छयाऽहै14तुकः, हेतुना वा15 सहेतुको वा इत्यर्थः । एतद्भवन्तो यथावत् जानते । अतः कथयन्तु इति शेषः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
आसीद् यदुदरात् पद्मं लोकसंस्थानलक्षणम्।
यावानयं वै पुरुष इयत्तावयवैः पृथक्।
तावानसाविति प्रोक्तः संस्थावयववानिव॥
मूलम्
आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम्।
यावानयं वै पुरुष इयत्तावयवैः16 पृथक्।
ता17वानसाविति प्रोक्तः सं18स्थावयववानिव॥ ८ ॥
अनुवाद (हिन्दी)
(आपने बतलाया कि) भगवान्की नाभिसे वह कमल प्रकट हुआ, जिसमें लोकोंकी रचना हुई। यह जीव अपने सीमित अवयवोंसे जैसे परिच्छिन्न है, वैसे ही आपने परमात्माको भी सीमित अवयवोंसे परिच्छिन्न-सा वर्णन किया (यह क्या बात है?)॥ ८॥
वीरराघवः
योऽसा वीश्वरः सोऽपि जीवदेहतुल्यदेहवान् प्रोक्तः, अतः तस्य को विशेषः ? यतस्तद्भजनात् पदे पदे मोक्ष इत्युच्यते, इत्याशयेन पृच्छति आसीदिति सार्धद्वयेन । लोकानां संस्थानं विन्यासो यस्मिन् तत् । तदेव लक्षण स्वरूपं यस्य तत् जगदाकारं पद्म मित्यर्थः । त्रि19लोक्यात्मकं पद्मं यस्य उदरात् आसीत् पृथग्विभक्तैः इयत्ता20युक्तावयवैः अयं पुरुषः लौकिकः पुरुषः यावान् यावत्प्रमाणः तावत्परिमाण एवाऽसौ ईश्वरः प्रोक्तः स्यात् परिच्छिन्नत्वेन प्रोक्त इति भावः 21‘स्वसंस्थावयवा22निव, “तज्जलान्” इतिवदयं निर्देशः, स्वसंस्थानभूतैः अवयवैः अन् जीवन् संसारी परिच्छिन्नः तद्वदित्यर्थः । अतो जीवपरयोर्विशेषः कथनीयः इत्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अजः सृजति भूतानि भूतात्मा यदनुग्रहात्।
ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः॥
मूलम्
अजः सृजति भूतानि भूतात्मा यदनुग्रहात्।
ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः॥ ९ ॥
वीरराघवः
अन्यदपि पृच्छति अज इति । भू23तात्मा भूतानां व्यष्टिभूतानामात्मा नियन्ता, यद्वा स्वयं भूतारब्धदेहः नाभिपद्मसमुद्भवः अजो ब्रह्मा यदनुग्रहात् यस्य अनिरुद्धस्य अनुग्रहात् भूतानि व्यष्टिभूतानि सृजाति येन चतुर्मुखेन तद्रूपं तदनिरुद्धरूपं द24दृशे दृष्टम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः।
मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुहाशयः॥
मूलम्
स चाऽपि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः।
मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगु25हाशयः॥ १० ॥
अनुवाद (हिन्दी)
जिनकी कृपासे सर्वभूतमय ब्रह्माजी प्राणियोंकी सृष्टि करते हैं, जिनके नाभिकमलसे पैदा होनेपर भी जिनकी कृपासे ही ये उनके रूपका दर्शन कर सके थे, वे संसारकी स्थिति, उत्पत्ति और प्रलयके हेतु, सर्वान्तर्यामी और मायाके स्वामी परमपुरुष परमात्मा अपनी मायाका त्याग करके किसमें किस रूपसे शयन करते हैं?॥ ९-१०॥
वीरराघवः
स भगवान् विश्वस्थित्युद्भवाप्ययः विश्वस्य स्थित्युद्भवाप्यया यस्मात्तथाभूतः मायाया नियन्ता आत्ममायां मुक्त्वा प्रकृतिमतीत्य जगद्व्यापारादुपरतः सर्वगुणाश्रयः पूर्णषाड्गुण्यः यत्र शेते, वसति तं देशं कथयस्वेत्यन्वयः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः।
लोकैरमुष्यावयवाः सपालैरिति शुश्रुम॥
मूलम्
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः।
लोकैरमुष्यावयवाः सपालैरिति शुश्रुम॥ ११ ॥
अनुवाद (हिन्दी)
पहले आपने बतलाया था कि विराट् पुरुषके अंगोंसे लोक और लोकपालोंकी रचना हुई और फिर यह भी बतलाया कि लोक और लोकपालोंके रूपमें उसके अंगोंकी कल्पना हुई। इन दोनों बातोंका तात्पर्य क्या है?॥ ११॥
वीरराघवः
“यस्येहावयवैर्लोकान् कल्पयन्ति", “पातालमेतस्य हि पादमूलम्” इत्युभयथा श्रवणात्तस्य कल्पभेदेनोपपत्तिं मन्वानः आशङ्कते पुरुषेत्यादिना । पुरुषावयवैः अनिरुद्धादुत्पन्नचतुर्मुखाख्यपुरुषावयवैः सपालाः से26शाः लोकाः पूर्वकल्पिताः पूर्वस्मिन् कल्पे कल्पिताः इदानीं त्वि27तरथेति शुश्रुम इत्याह - सपालैरिति । सपालैर्लोकैरमुष्य पुरुषस्यावयवाः कल्पिताः इति शुश्रुम, एवञ्च “धाता यथापूर्वमकल्पयत्” इति श्रुतिविरोधः इत्यभिप्रायः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते।
भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः॥
अनुवाद (हिन्दी)
महाकल्प और उनके अन्तर्गत अवान्तर कल्प कितने हैं? भूत, भविष्यत् और वर्तमान कालका अनुमान किस प्रकार किया जाता है? क्या स्थूल देहाभिमानी जीवोंकी आयु भी बँधी हुई है॥ १२॥
वीरराघवः
अथ अज्ञातान् अर्थान् बहून् पृच्छति यावानित्यादिना । कल्पो महाकल्पः यावान् यावत्परिमाण30कः विकल्पः अवान्तरकल्पकालभागः यावान् भूतभव्यभवदादिशब्दवाच्यः कालः यथाऽनुमीयते ग्रहसञ्चारादिनेति भावः । सतः कार्यस्य देवपितृमनुष्यादेरायुर्मानं आयुः परिमाणञ्च यत् तदप्युदाहर्तुमर्हसीत्यन्वयः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि।
यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम॥
अनुवाद (हिन्दी)
ब्राह्मणश्रेष्ठ! कालकी सूक्ष्म गति त्रुटि आदि और स्थूल गति वर्ष आदि किस प्रकारसे जानी जाती है? विविध कर्मोंसे जीवोंकी कितनी और कैसी गतियाँ होती हैं॥ १३॥
वीरराघवः
कालस्य या अण्वी सूक्ष्मा निमेषादिरूपा बृहती संवत्सरादिरूपा याऽनुगतिः प्रवृत्तिः लक्ष्यते साऽपि कथनीयेत्यर्थः । कर्मगतयः कर्मणः प्राप्यानि फलानि यावत्यः यावत्सङ्ख्याकाः यादृश्यः यत्प्रकारकाः । हे द्विजसत्तम ! ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते।
गुणानां गुणिनां चैव परिणाममभीप्सताम्॥
अनुवाद (हिन्दी)
देव, मनुष्य आदि योनियाँ सत्त्व, रज, तम—इन तीन गुणोंके फलस्वरूप ही प्राप्त होती हैं। उनको चाहनेवाले जीवोंमेंसे कौन-कौन किस-किस योनिको प्राप्त करनेके लिये किस-किस प्रकारसे कौन-कौन कर्म स्वीकार करते हैं?॥ १४॥
वीरराघवः
यस्मिन् देशे कर्मस36मावापः कर्मणां फलनिष्पादनं येन देवादिभूतेन यथा उपगुह्यते यादृशं कर्मफलं प्राप्यते, तच्च कथयेत्यर्थः । गुणानां सत्त्वादीनां गुणिनां जी37वानां च परिणामं परिणामहेतुं गुणिनां परिणामो38 देवादिशरीरपरिग्रहहेतुः सविस्तरं प39रिणामं वक्तुमर्ह40सि ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम्।
सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम्॥
मूलम्
भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम्।
सरित्समुद्रद्वीपानां सम्भ41वश्चैतदोकसाम्॥ १५ ॥
अनुवाद (हिन्दी)
पृथ्वी, पाताल, दिशा, आकाश, ग्रह, नक्षत्र, पर्वत, नदी, समुद्र, द्वीप और उनमें रहनेवाले जीवोंकी उत्पत्ति कैसे होती है?॥ १५॥
वीरराघवः
ककुभः दिशः, भूभृतः पर्वताः भूपातालादीनां सम्भवः एतानि भ्वा42दीनि ओकांसि येषां तेषां प्राणिनां च सम्भवः । यथेति सर्वत्रानुषङ्गः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदतः।
महतां चानुचरितं वर्णाश्रमविनिश्चयः॥
अनुवाद (हिन्दी)
ब्रह्माण्डका परिमाण भीतर और बाहर—दोनों प्रकारसे बतलाइये। साथ ही महापुरुषोंके चरित्र, वर्णाश्रमके भेद और उनके धर्मका निरूपण कीजिये॥ १६॥
वीरराघवः
अण्डकोशस्य तद्बाह्याभ्यन्तरवस्तुनश्च प्रमाणम् अण्डात् बाह्यवस्त्वावरणं महतां भागवताना मनुचरितं चरित्रं वर्णानामाश्रमाणाञ्च विनिश्चयः त46त्स्वभावेन निर्धारः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
युगानि युगमानं च धर्मो यश्च युगे युगे।
अवतारानुचरितं यदाश्चर्यतमं हरेः॥
मूलम्
युगानि युगमानञ्च धर्मो यश्च युगे युगे।
अवतारानुचरितं यदाश्चर्यत47मं हरेः॥ १७ ॥
अनुवाद (हिन्दी)
युगोंके भेद, उनके परिमाण और उनके अलग-अलग धर्म तथा भगवान्के विभिन्न अवतारोंके परम आश्चर्यमय चरित्र भी बतलाइये॥ १७॥
वीरराघवः
हरेराश्चर्यतममवतारानुचरितञ्च यत्तदपि युगानि युगस्वरूपं युगपरिमाणं युगे युगे प्रतियुगम् यो 48धर्मः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
नृणां साधारणो धर्मः सविशेषश्च यादृशः।
श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम्॥
मूलम्
नृ49णां साधारणो धर्मः सविशेषश्च यादृशः।
श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम्॥ १८ ॥
अनुवाद (हिन्दी)
मनुष्योंके साधारण और विशेष धर्म कौन-कौन-से हैं? विभिन्न व्यवसायवाले लोगोंके, राजर्षियोंके और विपत्तिमें पड़े हुए लोगोंके धर्मका भी उपदेश कीजिये॥ १८॥
वीरराघवः
50साधारणः मनुष्यमात्रसाधारणः सविशेषः वर्णाश्रमविशेषनिबन्धनरूपविशेषयुक्तः श्रेणीनां तत्तद्व्यवहारोपजीविनां धर्मः व्यवहारनियमलक्षणः धर्मः राजर्षीणां प्रजापालनाधिकारिणां कृच्छ्रेषु आपत्सु जीव51तां यो धर्मः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
तत्त्वानां परिसंख्यानं लक्षणं हेतुलक्षणम्।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च॥
मूलम्
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम्।
पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च॥ १९ ॥
अनुवाद (हिन्दी)
तत्त्वोंकी संख्या कितनी है, उनके स्वरूप और लक्षण क्या हैं? भगवान्की आराधनाकी और अध्यात्मयोगकी विधि क्या है?॥ १९॥
वीरराघवः
तत्त्वानां महदादीनां परिसङ्ख्यानं सङ्ख्यालक्षणं स्वरूपं हेतुलक्षणं तत्त्वकाराणलक्षणं पुरुषाराधनविधिः परमपुरुषाराधनप्रकारः आध्यात्मिकस्य प्रकृतिविविक्तात्मस्वरूपविषयस्य योगस्य ज्ञान योगस्य प्रकारः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम्।
वेदोपवेदधर्माणामितिहासपुराणयोः॥
अनुवाद (हिन्दी)
योगेश्वरोंको क्या-क्या ऐश्वर्य प्राप्त होते हैं, तथा अन्तमें उन्हें कौन-सी गति मिलती है? योगियोंका लिंगशरीर किस प्रकार भंग होता है? वेद, उपवेद, धर्मशास्त्र, इतिहास और पुराणोंका स्वरूप एवं तात्पर्य क्या है?॥ २०॥
वीरराघवः
योगे54श्वराणामैश्वर्याणि अणिमादीनि तेषां गतिः स्वरूपं योगिनां लिङ्गभङ्गः शरीरपातः । वेदाः ऋग्वेदादयः । उपवेदाः धनुर्वेदादयः, तदुक्त55धर्माश्च तेषामितिहासपुराणयोश्च गतिः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसंक्रमः।
इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः॥
मूलम्
सम्प्ल56वस्सर्वभूतानां विक्रमः प्रतिसङ्क्रमः।
इष्टापूर्तस्य काम्या57नां त्रिवर्गस्य च यो विधिः॥ २१ ॥
अनुवाद (हिन्दी)
समस्त प्राणियोंकी उत्पत्ति, स्थिति और प्रलय कैसे होता है? बावली, कुआँ खुदवाना आदि स्मार्त्त, यज्ञ-यागादि वैदिक एवं काम्य कर्मोंकी तथा अर्थ-धर्म-कामके साधनोंकी विधि क्या है?॥ २१॥
वीरराघवः
सर्वभूतानां सम्प्लवः अवान्तरप्रलयः उत्पत्तिर्वा, विविधः58 क्रमः विक्रमः स्थितिः प्रतिसङ्क्रमः संहारः महाप्रलयः । इष्टं वैदिकं कर्म, पूर्तम् स्मा59र्तम् त्रिवर्गस्य धर्मार्थकामानां विधिः प्रकारः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
यश्चानुशायिनां सर्गः पाखण्डस्य च सम्भवः।
आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः॥
अनुवाद (हिन्दी)
प्रलयके समय जो जीव प्रकृतिमें लीन रहते हैं, उनकी उत्पत्ति कैसे होती है? पाखण्डकी उत्पत्ति कैसे होती है? आत्माके बन्ध-मोक्षका स्वरूप क्या है? और वह अपने स्वरूपमें किस प्रकार स्थित होता है?॥ २२॥
वीरराघवः
अनुशायिनां भुक्तशेषकर्मणा सह परलोकभ्रष्टानां सर्गः उत्पत्तिप्रकारः पाष62ण्डस्य पाष63ण्डधर्मस्य सम्भवः उत्पत्तिः आत्मनो जीवस्य बन्धमोक्षप्रकारः स्वरूपतो व्य64वस्थानं मुक्तिदशायामवस्थानं तत्प्रकार इत्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया।
विसृज्य वा यथा मायामुदास्ते साक्षिवद् विभुः॥
मूलम्
यथाऽऽत्मतन्त्रो भगवान् विक्रीडत्यात्ममायया।
विसृज्य वा65 यथा मायामुदास्ते साक्षिवद्विभुः॥ २३ ॥
अनुवाद (हिन्दी)
भगवान् तो परम स्वतन्त्र हैं। वे अपनी मायासे किस प्रकार क्रीड़ा करते हैं और उसे छोड़कर साक्षीके समान उदासीन कैसे हो जाते हैं?॥ २३॥
वीरराघवः
आत्मतन्त्रः स्वतन्त्रः विभुः सर्वान्तरो भगवान् आत्ममायया स्वनियाम्यमायया यथा विक्रीडति पुनश्च मायां विसृज्य यथा येन प्रकारेण साक्षिवत् साक्षाद्द्रष्टृवत् उदास्ते प्रलये उदासीन आस्ते ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
सर्वमेतच्च भगवन् पृच्छते मेऽनुपूर्वशः।
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने॥
मूलम्
सर्वमेतच्च भगवन् पृच्छते मेऽनुपूर्वशः।
तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामु66ने॥ २४ ॥
अनुवाद (हिन्दी)
भगवन्! मैं यह सब आपसे पूछ रहा हूँ। मैं आपकी शरणमें हूँ। महामुने! आप कृपा करके क्रमशः इनका तात्त्विक निरूपण कीजिये॥ २४॥
वीरराघवः
एतत्सर्वं चकारादपृष्टमपि गुह्यं यत् तच्च पृच्छते प्रपन्नाय च मे मह्यं हे भगवन्! हे महामते! तत्त्वतः उदाहर्तुं उत्तरं वक्तुं त्वमर्हसि । अर्हताद्योतकमिदं विशेषणद्वयं भगवन्, महामते इति च । “उत्पतिं प्र67लयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवान्” इति हि स्मर्यते । महामतित्वञ्च त्रैकालिकवस्तुवि68षययाथात्म्यज्ञानवत्त्वम् ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अत्र प्रमाणं हि भवान् परमेष्ठी यथाऽऽत्मभूः।
परे चेहानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम्॥
मूलम्
अत्र प्रमाणं हि69 भवान् परमेष्ठी यथाऽऽत्मभूः।
प70रे चेहानुतिष्ठन्ति पूर्वेषां पूर्वजैः71 कृतम्॥ २५ ॥
अनुवाद (हिन्दी)
इस विषयमें आप स्वयम्भू ब्रह्माके समान परम प्रमाण हैं। दूसरे लोग तो अपनी पूर्वपरम्परासे सुनी-सुनायी बातोंका ही अनुष्ठान करते हैं॥ २५॥
वीरराघवः
योग्यतामेव उपपादयति अत्र इति । अत्र पृष्टेष्वर्थेषु भवान् प्रमाणं सम्यक् ज्ञाता । तत्र दृष्टान्तः - आत्मनः परमात्मनः भूः जातः परमेष्ठी ब्रह्मा यथा प्रमाणं तद्वत् । ब्रह्मनारदव्यासक्रमेण सम्प्रदायोऽप्यस्तीत्याह - पूर्वेषामपि पूर्वजैः72 कृतं परेऽर्वाञ्चः अनुतिष्ठन्ति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी।
पिबतोऽच्युतपीयूषमन्यत्र कुपिताद् द्विजात्॥
अनुवाद (हिन्दी)
ब्रह्मन्! आप मेरी भूख-प्यासकी चिन्ता न करें। मेरे प्राण कुपित ब्राह्मणके शापके अतिरिक्त और किसी कारणसे निकल नहीं सकते; क्योंकि मैं आपके मुखारविन्दसे निकलनेवाली भगवान्की अमृतमयी लीला-कथाका पान कर रहा हूँ॥ २६॥
वीरराघवः
ननु तव अनशनद्विजको75पाभ्यां व्याकुलस्य कुतः श्रवणं तत्रऽऽह - न मे इति । अत्र त्वत्सन्निधौ अच्युतपीयूषमच्युतकी76र्तनरूपममृतं पिबतो मेऽ77मी असवः प्राणाः कुपितात् द्विजात्, अनशनादपि हेतोः न परायन्ति नापगच्छन्ति न व्याकुलीभवन्तीत्यर्थः ॥ २६ ॥
श्लोक-२७
मूलम् (वचनम्)
श्रीसूत उवाच
विश्वास-प्रस्तुतिः
स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि॥
मूलम्
स उपामन्त्रितो राज्ञा कथा78यामिति सत्पतेः।
ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि॥ २७ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—शौनकादि ऋषियो! जब राजा परीक्षित् ने संतोंकी सभामें भगवान्की लीला-कथा सुनानेके लिये इस प्रकार प्रार्थना की, तब श्रीशुकदेवजीको बड़ी प्रसन्नता हुई॥ २७॥
वीरराघवः
79सूतवाक्यमाह स इति । इतीत्थं 80सत्पतेः सतां पत्युः भगवतः कथायां राज्ञा विष्णुरातेन वि81ष्णुना रक्षितेन परीक्षिता उपामन्त्रितः प्रवर्तितः ब्रह्मरातो 82ब्रह्म ब्रह्मविषयकज्ञानं राति 83ददातीति ब्रह्मरातः 84श्रीशुकः सभायाम् ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम्।
ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते॥
अनुवाद (हिन्दी)
उन्होंने उन्हें वही वेदतुल्य श्रीमद्भागवत-महापुराण सुनाया, जो ब्राह्मकल्पके आरम्भमें स्वयं भगवान्ने ब्रह्माजीको सुनाया था॥ २८॥
वीरराघवः
भागवतं नाम पुराणं प्राह - कथम्भूतं 88पुराणम् ? ब्रह्मसम्मितं वेदतुल्यं परब्रह्म89प्रमापकं वा । ब्रह्मकल्पे सृष्ट्युपक्रमे उपागते प्राप्ते सति ब्रह्मणे चतुर्मुखाय भगवता प्रोक्तञ्चेत्यर्थः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
यद् यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति।
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे॥
मूलम्
यद्यत् परीक्षिदृषभः पाण्डूनामनुपृच्छति।
आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे॥ २९ ॥
अनुवाद (हिन्दी)
पाण्डुवंशशिरोमणि परीक्षित् ने उनसे जो-जो प्रश्न किये थे, वे उन सबका उत्तर क्रमशः देने लगे॥ २९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नाम अष्टमोऽध्यायः॥ ८॥
वीरराघवः
पाण्डूनां ऋषभः श्रेष्ठः परीक्षित् यद्यत् अनुपृच्छति अन्वपृच्छत् तत्सर्वमनुपृष्टं सर्वमानुपूर्व्येण प्रस्तावक्रमेण न प्रश्नक्रमेण आख्यातुं भागवताख्यानेनैव प्रश्नानामुत्तरं वक्तुमुपचक्रमे उपक्रान्तवान् ॥ २९ ॥
इति श्रीमद्भागवते द्वितीयस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टमोऽध्यायः ॥ ८ ॥
-
A ल ↩︎
-
B,H,I,V,W तत्त्वं ↩︎
-
AF,GF योगे सु ↩︎
-
A,B Omit लोकसुमङ्गलाः ↩︎
-
A,B सु ↩︎
-
M,Ma नानति ↩︎
-
B,H,V Omit च ↩︎
-
W Omits कथयतश्च पुंसः ↩︎
-
A,B Omit शरत् ↩︎
-
W मलं ↩︎
-
AF,GF मुक्तस्सर्वपरिक्लेशैः ↩︎
-
A,B Omit प्र ↩︎
-
W ग्धार्थान् ↩︎
-
A,B हे ↩︎
-
W ऽपि ↩︎
-
W वान् ↩︎
-
W Omits तावा……वानिव ↩︎
-
M,Ma तथाऽ ↩︎
-
W त्रैः ↩︎
-
A,B त्ताव ↩︎
-
श्रीविरराघवीय व्याख्यानानुसारेण ‘स्वसंस्थावयवानिव’ इति तदादृतः पाठ इति मन्यते । ↩︎
-
W निति च ↩︎
-
W Omits भूतात्मा ↩︎
-
A,B Omit ददृशे ↩︎
-
H,M,Ma,V,W गुणाश्रयः ↩︎
-
W Omits सेशाः ↩︎
-
W त्वतथे ↩︎
-
AF,GF वत्क ↩︎
-
M,Ma कृतम् ↩︎
-
W णः ↩︎
-
AF,GF मतिर्यावत् ↩︎
-
M,Ma म ↩︎
-
M,Ma तीः ↩︎
-
H,M,Ma,V मवायो; W मावापो ↩︎
-
M,Ma माणं सुविस्तरम्; W णामं सविस्तरम् ↩︎
-
A मवायः ; B मावायः ↩︎
-
A,B Omit जीवानां ↩︎
-
A,B मे….ग्रहे हेतुं ↩︎
-
A,B Omit परिणामं ↩︎
-
A,B सीति ↩︎
-
M,Ma वञ्चै ↩︎
-
A भूम्या ↩︎
-
M,Ma,W वस्तुनः ↩︎
-
AF,GF रु ↩︎
-
M,Ma र्णयम् ↩︎
-
A तु तत्स्वरूपभावेन; B तत्तत्स्वरूपभावेन ↩︎
-
AF,GF मयं ↩︎
-
A,B Omit यो धर्मः ↩︎
-
V नृृणां ↩︎
-
A,B add योधर्मः ↩︎
-
A,B विनां ↩︎
-
M,Ma ति लि ↩︎
-
M,Ma ङ्गं च; W ङ्ग श्च ↩︎
-
गी ↩︎
-
W क्ताः धि ↩︎
-
M,Ma भवः ↩︎
-
W मा ↩︎
-
W धमु ↩︎
-
A,B Omit स्मार्तम् ↩︎
-
I,M,Ma,W योवा ↩︎
-
A,C,G,M,Ma,N ख ↩︎
-
A,B ख ↩︎
-
A,B ख ↩︎
-
W अव ↩︎
-
M,Ma च ↩︎
-
W मते ↩︎
-
W च विनाशं च भू ↩︎
-
A,B Omit विषय ↩︎
-
AF,GF भगवान् पर ↩︎
-
H,I,V अपरे चानु; M,Ma,W अपरे ह्यनु ↩︎
-
W कैः ↩︎
-
W कैः ↩︎
-
H,V त्वन्मुखाजविनिस्रुतम्; I तद्वाक्याब्धिविनिस्स्रुतम्; M,Ma त्वद्वाक्याद्धि विनिस्स्रुतम् ↩︎
-
W प्य ↩︎
-
A,B सर्पा ↩︎
-
W र्तिरू ↩︎
-
A,B Omit अमी ↩︎
-
H,V थया मीति ↩︎
-
W Omits सूत……इति । ↩︎
-
A,B Omit सत्पतेः ↩︎
-
W Omits विष्णुना रक्षितेन ↩︎
-
W Omits ब्रह्म ↩︎
-
A,B Omit ददाति ↩︎
-
W Omits श्रीशुकः ↩︎
-
H,M,Ma,V,W आह ↩︎
-
AF,GF ता प्रोक्तं ↩︎
-
W पास्थि ↩︎
-
A,B Omit पुराणम् ↩︎
-
A,B प्रापकं ↩︎