०७

[सप्तमोऽध्यायः]

भागसूचना

भगवान‍्के लीलावतारोंकी कथा

श्लोक-१

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्तः।
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार॥

मूलम्

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः।
अन्तर्महार्णव उ1पागतमादिदैत्यं तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार॥ १ ॥

अनुवाद (हिन्दी)

ब्रह्माजी कहते हैं—अनन्तभगवान‍्ने प्रलयके जलमें डूबी हुई पृथ्वीका उद्धार करनेके लिये समस्त यज्ञमय वराहशरीर ग्रहण किया था। आदिदैत्य हिरण्याक्ष जलके अंदर ही लड़नेके लिये उनके सामने आया। जैसे इन्द्रने अपने वज्रसे पर्वतोंके पंख काट डाले थे, वैसे ही वराहभगवान‍्ने अपनी दाढ़ोंसे उसके टुकड़े-टुकड़े कर दिये॥ १॥

वीरराघवः

एवं प्रतिज्ञा2य अवतारान् तत्कर्माणि तत्तत्प्रयोजनानि तद्गुणांश्चाह - ब्र3ह्मा - यत्र इत्यादिना । यत्र यदा काले क्षितितलोद्धरणार्थं समस्तयज्ञावयवां क्रौडीं वाराहीं तनुं बिभ्रत्सन्नुद्यतोऽनन्तोऽपरिच्छिन्नस्वरूपभा4वो भगवान् दंष्ट्रयाऽन्तर्महार्णवं समुद्रस्यान्तः उपागतं समागतं हिरण्याक्ष इति प्रसिद्धमादिदैत्यं दितेः प्रथमं पुत्रं ददार विदारितवान् । तत्र दृष्टान्तः वज्रधरः इन्द्रः अद्रिमेवेत्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

जातो रुचेरजनयत् सुयमान् सुयज्ञ
आकूतिसूनुरमरानथ दक्षिणायाम्।
लोकत्रयस्य महतीमहरद् यदाऽऽर्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्तः॥

मूलम्

जातो रुचेरजनयत् सु5यमा6न् सुयज्ञ आकूतिसूनुरम7रानथ दक्षिणायाम्।
लोकत्रयस्य महतीमहरद् यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः॥ २ ॥

अनुवाद (हिन्दी)

फिर उन्हीं प्रभुने रुचि नामक प्रजापतिकी पत्नी आकूतिके गर्भसे सुयज्ञके रूपमें अवतार ग्रहण किया। उस अवतारमें उन्होंने दक्षिणा नामकी पत्नीसे सुयम नामके देवताओंको उत्पन्न किया और तीनों लोकोंके बड़े-बड़े संकट हर लिये। इसीसे स्वायम्भुव मनुने उन्हें ‘हरि’ के नामसे पुकारा॥ २॥

वीरराघवः

सुयज्ञावतारमाह - जातम् इति । रुचेः प्रजापतेः सकाशात् तद्भार्यया आकूतेः सूनुः सुयज्ञो नाम जातः । स च स्वभार्यायां दक्षिणायां य8मान् यमाख्यगुणयुक्तान् यामान् देवानित्यर्थः । ‘यज्ञस्य दक्षिणायां पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता’ इति वचनात्, अजनयत् उत्पादयामास । आकूतेः सूनुः स एव इन्द्रः सन्नार्तिं यदा अहरत् तदा पूर्वं सुयज्ञ इत्युक्तोऽपि अनु पश्चान्मातामहेन मनुना हरिरित्युक्तः । अनेन देवोत्पादनं लोकत्रयार्तिहरणं च कर्म दर्शितम् । एवं सर्वत्रावतारः तत्कर्म च ज्ञेयम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

जज्ञे च कर्दमगृहे द्विज देवहूत्यां
स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे।
ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्क-
मस्मिन् विधूय कपिलस्य गतिं प्रपेदे॥

मूलम्

जज्ञे च कर्दमगृहे द्विजदेवहूत्यां स्त्रीभिस्समं नवभिरात्मगतिं स्वमात्रे।
ऊचे य9याऽऽत्मशमलं गुणसङ्गपङ्क10मस्मिन् विधूय कपिलस्य11 गतिं प्रपेदे॥ ३ ॥

अनुवाद (हिन्दी)

नारद! कर्दम प्रजापतिके घर देवहूतिके गर्भसे नौ बहिनोंके साथ भगवान‍्ने कपिलके रूपमें अवतार ग्रहण किया। उन्होंने अपनी माताको उस आत्मज्ञानका उपदेश किया, जिससे वे इसी जन्ममें अपने हृदयके सम्पूर्ण मल—तीनों गुणोंकी आसक्तिका सारा कीचड़ धोकर कपिलभगवान‍्के वास्तविक स्वरूपको प्राप्त हो गयीं॥ ३॥

वीरराघवः

कपिलावतारमाह - जज्ञ इति । कर्दमप्रजापतेः गृहे तद्भार्यायां देवहूत्यां हे द्विज ! नारद नवभिः स्त्रीभिः भगिनीभिः सह जज्ञे जातः, स च स्वमात्रे आत्मगतिमात्मज्ञानं मोक्षमार्गं वा उक्तवान् । यया आत्मगत्या सा देवहूतिरात्मशमलं आत्मनो मलिनीकरणमस्मिन् देहे जातं गुणसङ्गपङ्कं गुणत्रयसङ्ग एव पङ्कः तं विधूय कपिलस्य गतिं कपिलोक्तगतिं प्राप्तवती ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो
दत्तो मयाहमिति यद् भगवान् स दत्तः।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं यदुहैहयाद्याः॥

मूलम्

अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाऽहमिति यद्भगवान् स दत्तः।
यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरु12भयीं यदुहै13हयाद्याः॥ ४ ॥

अनुवाद (हिन्दी)

महर्षि अत्रि भगवान‍्को पुत्ररूपमें प्राप्त करना चाहते थे। उनपर प्रसन्न होकर भगवान‍्ने उनसे एक दिन कहा कि ‘मैंने अपने-आपको तुम्हें दे दिया।’ इसीसे अवतार लेनेपर भगवान‍्का नाम ‘दत्त’ (दत्तात्रेय) पड़ा। उनके चरणकमलोंके परागसे अपने शरीरको पवित्र करके राजा यदु और सहस्रार्जुन आदिने योगकी, भोग और मोक्ष दोनों ही सिद्धियाँ प्राप्त कीं॥ ४॥

वीरराघवः

दत्तात्रेयावतारमाह - अत्रेः इति । अपत्यं पुत्रम् अ14भिकाङ्क्षतोऽभि15काङ्क्षमाणादत्रेः तुष्टः मयाऽहमेव तुभ्यं दत्त इति यद्यत आह, ततः स भगवान् नाम्ना दत्त इति जातः । स्वभक्तेभ्यो योगैश्वर्यदानं तच्चरित्रं दर्शयति । यस्य पादपङ्कजयोः परागः तेन पवित्रिताः देहा येषां ते हैहयाद्याः स16हस्रार्जुनप्रभृतयः यद्यतः दत्ता17त्रेयादुभयीमैहिकामुष्मिकीं योगर्द्धिं योगैश्वर्यम् अणिमाद्यष्ठैश्वर्यरूपामैहिकीं मुक्तिरूपामामुष्मिकीं च योगर्द्धिमापुः प्रापुः ‘उ’ प्रसिद्धौ 18यद्वा यदुः ययातिपुत्र इति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तप्तं तपो विविधलोकसिसृक्षया मे
आदौ सनात् स्वतपसः स चतुःसनोऽभूत्।
प्राक्‍कल्पसम्प्लवविनष्टमिहात्मतत्त्वं
सम्यग् जगाद मुनयो यदचक्षतात्मन्॥

मूलम्

तप्तं तपो विविधलोकसिसृक्षया मे19 आदौ सनात् स्व20तपसः स21चतुः सनोऽभूत्।
प्राक्‍कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन्॥ ५ ॥

अनुवाद (हिन्दी)

नारद! सृष्टिके प्रारम्भमें मैंने विविध लोकोंको रचनेकी इच्छासे तपस्या की। मेरे उस अखण्ड तपसे प्रसन्न होकर उन्होंने ‘तप’ अर्थवाले ‘सन’ नामसे युक्त होकर सनक, सनन्दन, सनातन और सनत्कुमारके रूपमें अवतार ग्रहण किया। इस अवतारमें उन्होंने प्रलयके कारण पहले कल्पके भूले हुए आत्मज्ञानका ऋषियोंके प्रति यथावत् उपदेश किया, जिससे उन लोगोंने तत्काल परम तत्त्वका अपने हृदयमें साक्षात्कार कर लिया॥ ५॥

वीरराघवः

कुमारावतारमाह - तप्तमिति । ननाविधलोकानां स्रष्टुमिच्छया मे मया यत्तपस्तप्तं तस्मात् सुतपसः महातपसो हेतोः स हरिः आदौ सनात् दीर्घ आर्षः सन22न्नामकः क23थम्भूतः चतुःसनः चतुर्थः स24नः सनको यस्य स चतुःसनः अभूत् । सनातनसनन्दनौ द्वितीयतृतीयौ अभूतामित्यभिप्रायः । य25द्वा चतुःसनः चत्वारः सनशब्दाः नामसु यस्य स चतुःसनः । अस्मिन् पक्षे आदौ कल्पादौ सनादिति तपोविशेषणमखण्डितादित्यर्थः । यद्वा तपस इति षष्ठ्यन्तं तपसः सनात् समर्पणादित्यर्थः । षणु दाने । स च जातो हरिः पूर्वकल्पसम्प्लवे प्रलये विनष्टं विच्छिन्नसम्प्रदायं आत्मतत्त्वं इहास्मिन् कल्पे सम्यग्जगाद उक्तवान् । सम्यक्त्वं दर्शयति यद्गदितमात्रमेव मुनयः आत्मन् आत्मनि मनसि अ26चक्षत साक्षादपश्यन्, यद्वा यद्गदितमेवाऽत्मनि तत्त्वं मुनयः अचक्षत अन्येभ्योऽप्युक्तवन्तः इ27त्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर इति स्वतपःप्रभावः।
दृष्ट्वाऽऽत्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकुः॥

मूलम्

धर्मस्य दक्षदुहितर्यज28निष्ट मूर्त्यां नारायणो नर इति स्वतपः प्रभावः29
दृष्ट्वा30ऽऽत्मनो भगवतो31 नियमावलोपं देव्यस्त्वनङ्गपृतना घटितं न शेकुः॥ ६ ॥

अनुवाद (हिन्दी)

धर्मकी पत्नी दक्षकन्या मूर्तिके गर्भसे वे नर-नारायणके रूपमें प्रकट हुए। उनकी तपस्याका प्रभाव उन्हींके जैसा है। इन्द्रकी भेजी हुई कामकी सेना अप्सराएँ उनके सामने जाते ही अपना स्वभाव खो बैठीं। वे अपने हाव-भावसे उन आत्मस्वरूप भगवान‍्की तपस्यामें विघ्न नहीं डाल सकीं॥ ६॥

वीरराघवः

नरनारायणावतारमाह - धर्मस्येति । धर्मस्य पत्न्यां दक्षदुहितरि मूर्तिसंज्ञायां नारायणो नर इति मूर्तिद्वयेन स हरिरभवत् जातः । कथम्भूतः स्वः असाधारणस्तपः प्रभावो यस्य सः उपास्यान्तराभावात् । प्रभावमेवाऽऽह - अनङ्गपृतानाः मन्मथसेनाः देव्यः अप्सरसः आत्मनः परमात्मनो भगवतः अनियमावलोषं नियमलोपाभावं दृष्ट्वा घटितुं तं32 स्ववशीकर्तुं न शे33कुः समर्था न बभूवः । एतदाख्यानमेकादशे स्फुटम्34 ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या
रोषं दहन्तमुत ते न दहन्त्यसह्यम्।
सोऽयं यदन्तरमलं प्रविशन् बिभेति
कामः कथं नु पुनरस्य मनः श्रयेत॥

मूलम्

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमु35त ते न दहन्त्यसह्यम्।
सोऽयं यदन्तरमलं प्र36विशन् बिभेति कामः कथं नु पुनरस्य मनः श्रयेत॥ ७ ॥

अनुवाद (हिन्दी)

नारद! शंकर आदि महानुभाव अपनी रोषभरी दृष्टिसे कामदेवको जला देते हैं, परंतु अपने-आपको जलानेवाले असह्य क्रोधको वे नहीं जला पाते। वही क्रोध नर-नारायणके निर्मल हृदयमें प्रवेश करनेके पहले ही डरके मारे काँप जाता है। फिर भला, उनके हृदयमें कामका प्रवेश तो हो ही कैसे सकता है॥ ७॥

वीरराघवः

37त्र कामविजयी क्रोधोऽपि बिभेति तत्र कामोऽपि न प्रभवतीति किं वक्तव्यम् इत्याह - काममिति । ननु हे नारद! कृतिनो रूद्रादयः रोषदृष्ट्या रो38षयुक्तया दृष्ट्या कामं दहन्ति ते रोषं त्वात्मानं दहन्तमसह्यं सोढुमशक्यं न दहन्ति नाभिभवन्ति किन्तु तेनैवाभिभूयन्ते इत्यर्थः । सोऽयं रोषः यदन्तरं य39स्य भगवतो मनः प्रति प्रविशन्नलं बिभेति प्रवेष्टुमधिकं बिभेतीत्यर्थः । अस्य मनः कामः मन्मथः कथं न श्रयेत न कथमपीत्यर्थः । कामजेत्राऽप्यजेयं रोषं जितवतो मनः कामः कथं श्रयेदित्यर्थः । ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नुपगतस्तपसे वनानि।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात्॥

मूलम्

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि40
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात्॥ ८ ॥

अनुवाद (हिन्दी)

अपने पिता राजा उत्तानपादके पास बैठे हुए पाँच वर्षके बालक ध्रुवको उनकी सौतेली माता सुरुचिने अपने वचन-बाणोंसे बेध दिया था। इतनी छोटी अवस्था होनेपर भी वे उस ग्लानिसे तपस्या करनेके लिये वनमें चले गये। उनकी प्रार्थनासे प्रसन्न होकर भगवान् प्रकट हुए और उन्होंने ध्रुवको ध्रुवपदका वरदान दिया। आज भी ध्रुवके ऊपर-नीचे प्रदक्षिणा करते हुए दिव्य महर्षिगण उनकी स्तुति करते रहते हैं॥ ८॥

वीरराघवः

चरित्रेणैव41 कमप्यवतारं सूचयति - विद्ध इति । राज्ञः उत्तानपादः अन्ति अन्तिके मातुः सपत्न्याः सुरुचेः उदितान्येव वाक्यान्येव पत्रिणो बाणाः तैः विद्धः ताडितः बालोऽपि सन् तपसे तपश्चर्त्तुं वनानि यो ध्रुवो गतः तस्मै गतवते ध्रुवाय गृणते स्तुवते प्रसन्नो यो42 हरिः ध्रुवगतिं स्थायिपदम् अदात् । सोप्येकः अवतारः इत्यर्थः । ध्रुवगतिं विशिनष्टि-यदुपरि यद्ध्रुवगतेरुपरि यतः अधस्ताच्च दिव्याः मुनयः सप्तर्षिप्रभृतयः स्तुवन्ति ध्रुवगतिप्रभावं प्रशंसन्तीत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यद्वेनमुत्पथगतं द्विजवाक्यवज्र-
विप्लुष्टपौरुषभगं निरये पतन्तम्।
त्रात्वार्थितो जगति पुत्रपदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन॥

मूलम्

43द्वेन44मुत्पथगतं द्विजवा45क्यवज्रवि46प्लुष्टपौरुषभगं निरये पतन्तम्।
त्रा47त्वाऽर्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन॥ ९ ॥

अनुवाद (हिन्दी)

कुमार्गगामी वेनका ऐश्वर्य और पौरुष ब्राह्मणोंके हुंकाररूपी वज्रसे जलकर भस्म हो गया। वह नरकमें गिरने लगा। ऋषियोंकी प्रार्थनापर भगवान‍्ने उसके शरीरमन्थनसे पृथुके रूपमें अवतार धारण कर उसे नरकोंसे उबारा और इस प्रकार ‘पुत्र’* शब्दको चरितार्थ किया। उसी अवतारमें पृथ्वीको गाय बनाकर उन्होंने उससे जगत‍्के लिये समस्त ओषधियोंका दोहन किया॥ ९॥

पादटिप्पनी
  • ‘पुत्र’ शब्दका अर्थ ही है ‘पुत् ’ नामक नरकसे रक्षा करनेवाला।
वीरराघवः

पृथ्ववतारमाह - इति । यः पृथुः ऋषिभिः अर्थितः वेनं त्रात्वा जगति पुत्रपदं लेभे, सोऽप्येकोऽवतार इत्यर्थः । पुत्रपदम् “पुन्नम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयम्भूवा” इति व्यु48त्पत्तिस्मरणात् । ‘पुत्’ आख्यान्नरकात् पितरं वेनं संरक्ष्य पुत्रपदवाच्यतां प्राप्तवानित्यर्थः । कथम्भूतं वेनं ? निरये नरके पतन्तम् । तत्कुतः ? द्विजानां मुनीनां शा49प एव वज्रं तेन विप्लुष्टौ50 विशेषेण दग्धौ51 पौरुषं भगः ऐश्वर्यं च यस्य तम् । द्विजशापः कुत इत्यत आह - उत्पथगतमसन्मार्गवर्तिनम् । एतदाख्यानं चतुर्थे स्पुटम् । एतस्यैव चरित्रान्तरमाह - येन पृथुना वसुधा भूमिः सर्वापि वसूनि अन्नादिद्रव्याणि दुग्धाऽदुह्यत दुहधातुर्द्विकर्मकः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नाभेरसावृषभ आस सुदेविसूनु-
र्यो वै चचार समदृग् जडयोगचर्याम्।
यत्पारमहंस्यमृषयः पदमामनन्ति
स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः

मूलम्

नाभेरसावृषभ आस सुदेविसूनुर्योवै चचार समदृग् ज52डयोगचर्याम्।
यत्पारम53हंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः॥ १० ॥

अनुवाद (हिन्दी)

राजा नाभिकी पत्नी सुदेवीके गर्भसे भगवान‍्ने ऋषभदेवके रूपमें जन्म लिया। इस अवतारमें समस्त आसक्तियोंसे रहित रहकर, अपनी इन्द्रियों और मनको अत्यन्त शान्त करके एवं अपने स्वरूपमें स्थित होकर समदर्शीके रूपमें उन्होंने जड़ोंकी भाँति योगचर्याका आचरण किया। इस स्थितिको महर्षिलोग परमहंसपद अथवा अवधूतचर्या कहते हैं॥ १०॥

वीरराघवः

ऋषभावतारमाह - नाभेरिति । यद्ब्रह्य पारमहंस्यं प54रमहंसप्राप्यं पदं स्वरूपं ऋषयो वेदा: आमनन्ति । तदसौ हरिः कपिलादिवत् स्वांशेन ऋषभाख्यो राजा नाभेरग्नीध्रपुत्रात् सुदेव्याः सूनुरास । मेरूदेव्या एव ‘सुदेवी’ इत्यपि संज्ञा । यो जातो ऋषभः जडवत् योगचर्यां चचार । तत्र हेतुः - समदृक् सर्वस्यापि स्वात्मकत्वेन समदर्शनः । तस्यान्यात्मकत्वं व्यावर्तयति स्वस्थः “स्वे महिम्नि प्रतिष्ठितः” इति श्रुतेः । स्वस्मिन्नेव स्थितः नत्वात्मान्तरधार्यः । जडयोगचर्याचरणे हेत्वन्तरमाह - प्रशान्तकरणः प्रशान्तेन्द्रियः । तत्कुतः परिमुक्तसङ्गः परितः शब्दादिषु मुक्तस्त्यक्तः सङ्गः आसङ्गो येन सः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञपुरुषस्तपनीयवर्णः।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः॥

मूलम्

सत्रे ममाऽऽस भगवान् हय55शीर्ष एव साक्षात् स यज्ञपुरुषः तपनीयवर्णः।
छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः॥ ११ ॥

अनुवाद (हिन्दी)

इसके बाद स्वयं उन्हीं यज्ञपुरुषने मेरे यज्ञमें स्वर्णके समान कान्तिवाले हयग्रीवके रूपमें अवतार ग्रहण किया। भगवान‍्का वह विग्रह वेदमय, यज्ञमय और सर्वदेवमय है। उन्हींकी नासिकासे श्वासके रूपमें वेदवाणी प्रकट हुई॥ ११॥

वीरराघवः

हयग्रीवावतारमाह सत्र इति । स एव साक्षद्भगवान् मम ब्रह्मणः सत्रे हयशीर्षः आस स56 कथम्भूतः ? तपनीयं सुवर्णं तद्वद्वर्णो यस्य सः छन्दोमयः वेदमयः वेदोत्पादकत्वेन तत्प्रचुर इत्यर्थः । मखमयः यज्ञाराध्यः अ57खिलदेवतात्मा अखिलं58 देवतानामात्मा “स आत्मा अङ्गान्यन्या देवता” इति श्रुतेः । श्वसतः निश्वसतः अस्य हयग्रीवस्य नस्तः नासिकातः उसतीः शुद्धा वाचः वेदवाचः बभूवुः । “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद” इ59ति श्रुतेः । वेदानां तद्विहितानां कर्मणां तदाराध्यदेवतानां तत्प्रवर्तकत्वतदाराध्यत्वतदात्मकत्वान्युक्तानि इति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

मत्स्यो युगान्तसमये मनुनोपलब्धः
क्षोणीमयो निखिलजीवनिकायकेतः।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान्॥

मूलम्

मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः।
विस्रंसितानुरुभये सलिले मु60खान्मे आदाय तत्र विजहार ह वेदमार्गान्॥ १२ ॥

अनुवाद (हिन्दी)

चाक्षुष मन्वन्तरके अन्तमें भावी मनु सत्यव्रतने मत्स्यरूपमें भगवान‍्को प्राप्त किया था। उस समय पृथ्वीरूप नौकाके आश्रय होनेके कारण वे ही समस्त जीवोंके आश्रय बने। प्रलयके उस भयंकर जलमें मेरे मुखसे गिरे हुए वेदोंको लेकर वे उसीमें विहार करते रहे॥ १२॥

वीरराघवः

मत्स्यावतारमाह - मत्स्य इति । मत्स्यो भाविना वैवस्वते61न मनुना उ62पलब्धः दृष्टः क्षोणीमय: आगामिसृष्ट्युपयोगिपा63र्थिवद्रव्यमयः पार्थिवद्रव्याश्रय इत्यर्थः । अत एव निखिलजीवनिकायानां समस्त जीवसमूहानां निकेतः निलयः । मे मम मुखाद्विस्रंसितान् वेदमार्गान् वैदिकप्रमाणान्यादाय समर्प्य मह्यमिति शेषः । वेदरूपप्रमाणप्रदानमेवास्य अवतारस्य कृत्यम् । त64त्र उरुभये अतिभयङ्करे युगान्तसलिले विजहार विहितवान्, हेति हर्षे, एतदाख्यानमष्टमे स्पष्टम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

क्षीरोदधावमरदानवयूथपाना-
मुन्मथ्नताममृतलब्धय आदिदेवः।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः॥

मूलम्

क्षीरोदधावमरदानवयूथपानाम् उन्मथ्नताममृतलब्धय आदिदेवः।
पृष्टेन कच्छपवपुर्विदधार गोत्रम् निद्रा65क्षणोऽद्रिपरिवर्तकषाणकण्डूः॥ १३ ॥

अनुवाद (हिन्दी)

जब मुख्य-मुख्य देवता और दानव अमृतकी प्राप्तिके लिये क्षीरसागरको मथ रहे थे, तब भगवान‍्ने कच्छपके रूपमें अपनी पीठपर मन्दराचल धारण किया। उस समय पर्वतके घूमनेके कारण उसकी रगड़से उनकी पीठकी खुजलाहट थोड़ी मिट गयी, जिससे वे कुछ क्षणोंतक सुखकी नींद सो सके॥ १३॥

वीरराघवः

कूर्मावतारमाह - क्षीरोदधाविति । क्षीरसमुद्रेऽमृतलब्धयेऽमृतलाभार्थम् अमरदानवयूथपानां सुरासुरश्रेष्ठानां उन्मथ्नतां मथनं कुर्वतां सतामादिदेवो भगवान् कच्छपवपुः धृतकूर्मतनुः पृष्टेन पृष्टभागेन गोत्रं मन्दरपर्वतं विदधार विधृतवान् । कथम्भूतो विदधार ? निद्राक्षणः निद्रायाः क्षणः अवसरः उत्सवो यस्य सः । अद्रिपरिवर्तकषाणकण्डूः अ66द्रेर्मन्दरस्य परिवर्तः परिभ्रम एव कषाणं कषणं यस्यां सा अद्रिपरिवर्तिकषाणा तथविधा कण्डूतिर्यस्य स तथोक्तः । कषाण इति दीर्घः आर्षः । मन्दरभ्रमणसङ्घर्षितकण्डूरित्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

त्रैविष्टपोरुभयहा स नृसिंहरूपं
कृत्वा भ्रमद‍्भ्रुकुटिदंष्ट्रकरालवक्त्रम्।
दैत्येन्द्रमाशु गदयाभिपतन्तमारा-
दूरौ निपात्य विददार नखैः स्फुरन्तम्॥

मूलम्

त्रैवि67ष्टपोरुभयहा68 स नृसिंहरूपं कृत्वा भ्रमद‍्भ्रुकुटिदंष्ट्रकरालवक्त्रम्।
दैत्येन्द्रमाशु गदयाऽभिपतन्तमारात् ऊरौ निपात्य विददार नखैः स्फुरन्तम्॥ १४ ॥

अनुवाद (हिन्दी)

देवताओंका महान् भय मिटानेके लिये उन्होंने नृसिंहका रूप धारण किया। फड़कती हुई भौंहों और तीखी दाढ़ोंसे उनका मुख बड़ा भयावना लगता था। हिरण्यकशिपु उन्हें देखते ही हाथमें गदा लेकर उनपर टूट पड़ा। इसपर भगवान् नृसिंहने दूरसे ही उसे पकड़कर अपनी जाँघोंपर डाल लिया और उसके छटपटाते रहनेपर भी अपने नखोंसे उसका पेट फाड़ डाला॥ १४॥

वीरराघवः

नृसिंहावतारमाह - त्रैविष्टपेति69त्रिविष्टपे स्व70र्गे भवाः त्रैविष्टपाः देवाः तेषामुरुभयं तत् ह71रतीति त्रैविष्टपोरुभयहा72रि तथाविधं नृसिंहरूपं कृत्वा धृत्वा कथम्भूतं ? भ्रमन्त्यो भ्रुकुट्यो दंष्ट्राश्च यस्मिंस्तथाभूतम् । करालं भयङ्करं वक्त्रं यस्मिन् त73त् आरात् समीपे आशु शीघ्रं गदया उपलक्षितं अभिमुखमापतन्तं 74दैत्येन्द्रं हिरण्यकशिपुं स्फुरन्तं च75लन्तं ऊ76रौस्वस्योरौ निपात्य पातयित्वा नखैः विददार विदारितवान्77 ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अन्तःसरस्युरुबलेन पदे गृहीतो
ग्राहेण यूथपतिरम्बुजहस्त आर्तः।
आहेदमादिपुरुषाखिललोकनाथ
तीर्थश्रवः श्रवणमङ्गलनामधेय॥

मूलम्

अन्तः सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः।
आहेदमादिपुरुषाखिललोकनाथः तीर्थश्रवः श्रवणमङ्गलनामधेयः॥ १५ ॥

अनुवाद (हिन्दी)

बड़े भारी सरोवरमें महाबली ग्राहने गजेन्द्रका पैर पकड़ लिया। जब बहुत थककर वह घबरा गया, तब उसने अपनी सूँड़में कमल लेकर भगवान‍्को पुकारा—‘हे आदिपुरुष! हे समस्त लोकोंके स्वामी! हे श्रवणमात्रसे कल्याण करनेवाले!’॥ १५॥

वीरराघवः

हरिसंज्ञकावतारमाह - अन्तरिति द्वा78भ्याम् | यूथपतिः गजयूथस्य पतिः गजेन्द्रः अन्तः सरसि स79रोमध्ये उरुबलेन अधिकबलेन ग्राहेण मकरेण पदे गृहीतः, अत एव आर्तः दुःखितः । अम्बुजं हस्ते यस्य स धृताम्बुजोच्छ्रि80तहस्तः सन् इदमाह । किमित्यत आह हे आदिपुरुष! कारणपुरुष ! हे तीर्थश्रवः ! तीर्थं विशुद्धं श्रवः कीर्तिर्यस्य सः त81स्य सम्बुद्धौ हे तीर्थश्रवः ! हे श्रवणमङ्गलनामधेय ! श्रवणेनैव मङ्गलं कल्याण सम्पादकं नामधेयं यस्य सः ईदृशस्त्वं रक्षिता भवेत्याहेत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुधः पतगराजभुजाधिरूढः।
चक्रेण नक्रवदनं विनिपाट्य तस्मा-
द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार॥

मूलम्

श्रु82त्वा हरिस्त83मरणार्थिनमप्रमेयश्चक्रायुधः पतगराजभुजाधिरूढः।
चक्रेण नक्रवदनं विनिपाद्य तस्मात् हस्ते प्रगृह्य भगवान् कृपयोज्जहार॥ १६ ॥

अनुवाद (हिन्दी)

उसकी पुकार सुनकर अनन्तशक्ति भगवान् चक्रपाणि गरुडकी पीठपर चढ़कर वहाँ आये और अपने चक्रसे उन्होंने ग्राहका मस्तक उखाड़ डाला। इस प्रकार कृपापरवश भगवान‍्ने अपने शरणागत गजेन्द्रकी सूँड़ पकड़कर उस विपत्तिसे उसका उद्धार किया॥ १६॥

वीरराघवः

तच्छ्रुत्वा, गजेन्द्रस्य वचः श्रुत्वा अरणार्थिनं शरणार्थिनं हस्ते शुण्डायां प्रगृह्य भगवान् कृपया तस्मात् ग्राहादुज्जहार उद्धृतवान् । किं कृत्वा ? चक्रेण सुदर्शनेन नक्रस्य ग्राहस्य वदनं विनिपाट्य विदार्य । कथम्भूतो भगवान् ? पतगानां पक्षिणां राजा गरुडः तस्य भुजयोरधिरूढः आ84रूढः चक्रायुध धरः अप्रमेयः अपरिच्छिन्नस्वरूपस्वभावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां
लोकान् विचक्रम इमान् यदथाधियज्ञः।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याच्ञामृते पथि चरन् प्रभुभिर्न चाल्यः॥

मूलम्

ज्यायान् गुणैरवरजोऽप्यदितेः सुतानां लोकान् विचक्रम इमान् यदथा85धियज्ञः।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याञ्चामृते पथि चरन् प्रभुभिर्न चाल्यः॥ १७ ॥

अनुवाद (हिन्दी)

भगवान् वामन अदितिके पुत्रोंमें सबसे छोटे थे, परन्तु गुणोंकी दृष्टिसे वे सबसे बड़े थे। क्योंकि यज्ञपुरुष भगवान‍्ने इस अवतारमें बलिके संकल्प छोड़ते ही सम्पूर्ण लोकोेंको अपने चरणोंसे ही नाप लिया था। वामन बनकर उन्होंने तीन पग पृथ्वीके बहाने बलिसे सारी पृथ्वी ले तो ली, परन्तु इससे यह बात सिद्ध कर दी कि सन्मार्गपर चलनेवाले पुरुषोंको याचनाके सिवा और किसी उपायसे समर्थ पुरुष भी अपने स्थानसे नहीं हटा सकते, ऐश्वर्यसे च्युत नहीं कर सकते॥ १७॥

वीरराघवः

वामनावतारमाह - ज्यायानिति । अदितेः सुतानां द्वादशादित्यानां मध्येऽधियज्ञः यज्ञाधिपतिः भगवानवरजः कनीयानपि गुणैर्ज्यायान् श्रेष्ठः । गुणानेव आह - यद्यतः इमान् लोकान् विचक्रमे पादविन्यासैः क्रान्तवान्, अथ प्रतिश्रुतानन्तरमेव । त86त्र हेतुः बलेश्चक्रवर्तिनः सकाशात् प87दत्रयव्याजेन क्ष्मां भूमिं वामनेन ज88गृहे रूपेणेति शेषः । वामनेन रूपेण89 गृहीतवान् । नन्वीश्वरः स्वयं दुर्बलवत् किमिति तथा चक्रे ? तत्राऽऽह याञ्चामृते यच्ञां विना पथि चरन् धर्ममार्गे प्रवर्तमानः प्रभुभिस्समर्थै90रपि न चाल्यः ऐश्वर्यात् न भ्रंशनीय इत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

नार्थो बलेरयमुरुक्रमपादशौच-
मापः शिखा धृतवतो विबुधाधिपत्यम्।
यो वै प्रतिश्रुतमृते न चिकीर्षदन्य-
दात्मानमङ्ग शिरसा हरयेऽभिमेने॥

मूलम्

नार्थो बलेरयमुरुक्रमपादशौचं’ आ91पः शिखा92 धृतवतो विबुधाधिपत्यम्।
यो वै प्रतिश्रुतमृते93 न चिकीर्षदन्यदात्मानमङ्ग! शि94रसा ह95रयेऽभिमेने॥ १८ ॥

अनुवाद (हिन्दी)

दैत्यराज बलिने अपने सिरपर स्वयं वामनभगवान‍्का चरणामृत धारण किया था। ऐसी स्थितिमें उन्हें जो देवताओंके राजा इन्द्रकी पदवी मिली, इसमें कोई बलिका पुरुषार्थ नहीं था। अपने गुरु शुक्राचार्यके मना करनेपर भी वे अपनी प्रतिज्ञाके विपरीत कुछ भी करनेको तैयार नहीं हुए। और तो क्या, भगवान‍्का तीसरा पग पूरा करनेके लिये उनके चरणोंमें सिर रखकर उन्होंने अपने-आपको भी समर्पित कर दिया॥ १८॥

वीरराघवः

ननु तर्हि याच्ञयाऽपि चालनमनुचितमेवेत्याशङ्क्य प्रबुद्धस्य बलेर्लौकिकस्वीयैश्वर्यभ्रंश इष्ट एवेत्या96शयेनाऽऽह - नार्थ इति । उरुक्रमस्य विस्तृतपादविन्यासस्य हरेः पादक्षा97लनं प्रत्युपयुक्ता आपः आ अप इति च्छेदः । आसमन्तात् शिखायां मूर्ध्नि धृतवतः, “सु98प्सुपा" इति समासः । यद्वा सप्तम्या आर्षो लुक् । विबुधाधिपत्यं नार्थः न सदृशं प्रयोजनमित्यर्थः । एतदेव उपपादयति यो बलिः प्रतिश्रुतमृते प्रतिज्ञातार्थं विना अन्यत् न चिकीर्षत् कर्तुं नैच्छदडभाव आर्षः । किन्तु स्वात्मानं अङ्ग हे नारद! हरये शिरसाऽभिमेने भगवच्छेषभूतमात्मानं हरये समर्पितवान् । शुक्रेण वारितः शप्तोऽपि अन्यथा कर्तुं नैच्छत्, किन्तु तृतीयपादपूरणार्थमात्मानमपि शिरसा समर्पितवानित्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधुपरितुष्ट उवाच योगम्।
ज्ञानं च भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा विदुरञ्जसैव॥

मूलम्

तुभ्यं च नारद! भृशं भगवान् विवृद्धभावेन साधुपरितु99ष्ट उवाच योगम्।
ज्ञानं च भागवतमात्म100सतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव॥ १९ ॥

अनुवाद (हिन्दी)

नारद! तुम्हारे अत्यन्त प्रेमभावसे परम प्रसन्न होकर हंसके रूपमें भगवान‍्ने तुम्हें योग, ज्ञान और आत्मतत्त्वको प्रकाशित करनेवाले भागवतधर्मका उपदेश किया। वह केवल भगवान‍्के शरणागत भक्तोंको ही सुगमतासे प्राप्त होता है॥ १९॥

वीरराघवः

हंसावतारमाह - तुभ्यमिति । हे101 नारद! भृशं विवृद्धभावेन प्रवृद्धस्नेहेन त्वया सा102धु परिपृष्टः साकल्येन पृष्टो भगवान् हंसरूपेणेति शेषः । योगम् अनभिसंहितफलकर्मयोगं, ज्ञानं भागवतं साधनसप्तकानुगृहीतभगवदुपासनात्मकं103 ज्ञानम् । आत्मसु प्रकृतिविविक्तात्मसु यत्तत्त्वं याथात्म्यं तस्य दीपवत् प्रकाशकं ज्ञानयोगं च साधु यथा तथा तुभ्यमुवाच, एतदाख्यानमेकादशे स्फुटम् । यदेव हंसोक्तमे104व योगादिकं वासुदेवशरणाः “बहूनां जन्मनामन्ते” (भा.गी.) इत्युक्तरीत्या उपायत्वेन उ105पेयत्वेन वासुदेवं शरणं गताः, अञ्जसा सुखेन विदुः हंसोक्तमेव ज्ञात्वाऽनुतिष्ठन्तीत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो
मन्वन्तरेषु मनुवंशधरो बिभर्ति।
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं
सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः॥

मूलम्

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति।
दु106ष्टेषु राजसु दमं व्य107दधात् स्वकीर्तिं सत्ये त्रि108पृष्ठ उशतीं प्रथयंश्चरित्रैः॥ २० ॥

अनुवाद (हिन्दी)

वे ही भगवान् स्वायम्भुव आदि मन्वन्तरोंमें मनुके रूपमें अवतार लेकर मनुवंशकी रक्षा करते हुए दसों दिशाओंमें अपने सुदर्शनचक्रके समान तेजसे बेरोक-टोक—निष्कण्टक राज्य करते हैं। तीनों लोकोंके ऊपर सत्यलोकतक उनके चरित्रोंकी कमनीय कीर्ति फैल जाती है और उसी रूपमें वे समय-समयपर पृथ्वीके भारभूत दुष्ट राजाओंका दमन भी करते रहते हैं॥ २०॥

वीरराघवः

तत्तन्मन्वन्तरावतारमाह - चक्रम् इति । मनुवंशधरः मनुवंशपालकस्सन् मन्वन्तरेषु दशसु दिक्ष्ववि109हितमनभिभाव्यं स्वतेजः स्वप्रतापो110पबृंहितं चक्रम् आज्ञारूपं111 चक्रं बिभर्ति, किञ्च दृप्तेषु गर्वितेषु राजसु दमं दण्डं व्यदधात् व्यधत्त । कथम्भूतः सन् त्रिपृष्ठे तृतीयस्यां दिवि सत्ये सत्यलोके चरित्रैः उशतीं कमनीयं स्वकीर्तिं प्रथयन् विस्तारयन् व्यदधादित्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति।
यज्ञे च भागममृतायुरवावरुन्ध
आयुश्च वेदमनुशास्त्यवतीर्य लोके॥

मूलम्

धन्वन्तरिश्च भगवान् स्वयमे112व कीर्तिः नाम्ना नृणां पुरुरुजां रुज आशु हन्ति।
यज्ञेरुच भागममृतायुरवा113वचन्ध आयु114श्च वेदमनुशास्त्यवतीर्य लोके॥ २१ ॥

अनुवाद (हिन्दी)

स्वनामधन्य भगवान् धन्वन्तरि अपने नामसे ही बड़े-बड़े रोगियोंके रोग तत्काल नष्ट कर देते हैं। उन्होंने अमृत पिलाकर देवताओंको अमर कर दिया और दैत्योंके द्वारा हरण किये हुए उनके यज्ञभाग उन्हें फिरसे दिला दिये। उन्होंने ही अवतार लेकर संसारमें आयुर्वेदका प्रवर्तन किया॥ २१॥

वीरराघवः

धन्वन्तर्यवतारमाह - धन्वन्तरिरिति । भगवान् लोके धन्वन्तरिरूपेणावतीर्य पुरुरुजां भूरिदुःखानां महारोगिणां नृणां स्वनाम्नैव रुजः रोगान् हन्ति कथम्भूतः स्वयमेव कीर्तिरिति कीर्त्यतिशयोक्तिः अमृतं मरणशून्यमायुर्यस्मात् सः । रुद्धं पूर्वं दै115त्यैः प्रतिषिद्धं यज्ञे भागमवाप । लेभे आयुर्विषयं वेदं चानुशास्ति प्रवर्तयति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

क्षत्रं क्षयाय विधिनोपभृतं महात्मा
ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्य-
स्त्रिः सप्तकृत्व उरुधारपरश्वधेन॥

मूलम्

क्षत्रं क्षयाय विधिनोपभृ116तं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु।
उद्ध117न्त्यसाववनिकण्टकमुग्रवीर्यः118 त्रिः सप्तकृत्व उरुधारपरश्वधेन॥ २२ ॥

अनुवाद (हिन्दी)

जब संसारमें ब्राह्मणद्रोही आर्यमर्यादाका उल्लंघन करनेवाले नारकीय क्षत्रिय अपने नाशके लिये ही दैववश बढ़ जाते हैं और पृथ्वीके काँटे बन जाते हैं, तब भगवान् महापराक्रमी परशुरामके रूपमें अवतीर्ण होकर अपनी तीखी धारवाले फरसेसे इक्‍कीस बार उनका संहार करते हैं॥ २२॥

वीरराघवः

परशुरामावतारमाह - क्षत्रमिति । विधिना दैवेन क्षयाय मृत्यवे उपभृतं समर्पितं ब्रह्मधृग् ब्राह्मणेभ्यो दुह्यतीति तथा । अतः उज्झितस्त्यक्तः पन्था वेदमार्गो येन त119त्, अत एव नरकार्तिं नारकं दुःखं लिप्सु लब्धुमिच्छु, एवम्भूतमवनेः कण्टकं कण्टकतुल्यं क्षत्रं क्षत्रियकुलमसौ महात्मा भार्गवरामरूपो हरिरुरुधारपरश्वधेन दीर्घतीक्ष्णधारेण परशुना त्रिस्सप्तकृत्वः एकविंशतिवारम् । उग्रवीर्यः असह्यवीर्यः सन् उद्धन्ति उत्पाटयति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अस्मत्प्रसादसुमुखः कलया कलेश
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे।
तिष्ठन् वनं सदयितानुज आविवेश
यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत्॥

मूलम्

118स्मत्प्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे।
तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुद्ध्य दशकन्धर आर्तिमार्च्छत्॥ २३ ॥

अनुवाद (हिन्दी)

मायापति भगवान् हमपर अनुग्रह करनेके लिये अपनी कलाओं—भरत, शत्रुघ्न और लक्ष्मणके साथ श्रीरामके रूपसे इक्ष्वाकुके वंशमें अवतीर्ण होते हैं। इस अवतारमें अपने पिताकी आज्ञाका पालन करनेके लिये अपनी पत्नी और भाईके साथ वे वनमें निवास करते हैं। उसी समय उनसे विरोध करके रावण उनके हाथों मरता है॥ २३॥

वीरराघवः

रामावतारमाह - अस्मदिति त्रि120भिः । अस्मदनुग्रहे सुमुखः अस्मद्दत्तवराविरोधेनावतीर्ण इति भावः । कलेशः प्रकृतिपुरुषयोराधिपतिः कलया भरतादि121रूपया सह त्रिभिः इक्ष्वाकुकुलेऽवतीर्य गुरोर्दशरथस्य पि122तुर्निदेशे आज्ञायां तिष्ठन्नाज्ञां पालयन्नित्यर्थः । सदयितानुजः सीतालक्ष्मणाभ्यां सहितः वनं द123ण्डकारण्यं यः आविवेश यस्मिन् रामे विरुद्ध्य विरोधं कृत्वा दशकन्धरो रावणः आर्तिं नाशमार्च्छत् प्राप्तः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

यस्मा अदादुदधिरूढभयाङ्गवेपो
मार्गं सपद्यरिपुरं हरवद् दिधक्षोः।
दूरे सुहृन्मथितरोषसुशोणदृष्ट्या
तातप्यमानमकरोरगनक्रचक्रः॥

मूलम्

124स्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद् दिधक्षोः।
दूरे सुहृन्मथितरोषसुशोण125दृष्ट्या तातप्यमानमकरोरगनक्रचक्रः॥ २४ ॥

अनुवाद (हिन्दी)

त्रिपुर विमानको जलानेके लिये उद्यत शंकरके समान, जिस समय भगवान् राम शत्रुकी नगरी लंकाको भस्म करनेके लिये समुद्रतटपर पहुँचते हैं, उस समय सीताके वियोगके कारण बढ़ी हुई क्रोधाग्निसे उनकी आँखें इतनी लाल हो जाती हैं कि उनकी दृष्टिसे ही समुद्रके मगरमच्छ, साँप और ग्राह आदि जीव जलने लगते हैं और भयसे थर-थर काँपता हुआ समुद्र झटपट उन्हें मार्ग दे देता है॥ २४॥

वीरराघवः

यस्मै श्रीरामाय उदधिः समुद्र; मार्गमदात् दत्तवान् कथम्भूतोऽदात् सपदि शीघ्रं हरो रुद्रः यथा त्रिपुरं दिधक्षुः दग्धुमिच्छुः तद्वदरिपुरं लङ्कां दिधक्षोः त126स्मात् श्रीरामात् हेतोः ऊढभयाङ्गवेपः ऊढं प्राप्तं यत् भयं तेनाङ्गवेपः कम्पो यस्य सः127 हरिः दू128रे वर्तमाना सुहृत्सीता तया निमित्तभूतया मथितः क्षुभितः यो रोषः तेन सुशोणा दृष्टिः श्रीरामसम्बन्धिनी तया तातप्यमानं मकराणां उरगाणां नक्राणां च129 चक्रं समूहो यस्मिन् स एवं भूतोऽ130ब्धिः मार्गमदादित्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-
दन्तैर्विडम्बितककुब्जुष ऊढहासम्।
सद्योऽसुभिः सह विनेष्यति दारहर्तु-
र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये॥

मूलम्

वक्षःस्थलस्पर्शरु131ग्णमहेन्द्रवाहदन्तैर्विड132म्बितककुब्जु133ष ऊढहास134म्।
सद्योऽसुभिस्सह विनेष्यति दारहर्तुर्विस्फूर्जितैर्धनुष उच्चर135तोऽधि136 सैन्ये137॥ २५ ॥

अनुवाद (हिन्दी)

जब रावणकी कठोर छातीसे टकराकर इन्द्रके वाहन ऐरावतके दाँत चूर-चूर होकर चारों ओर फैल गये थे, जिससे दिशाएँ सफेद हो गयी थीं, तब दिग्विजयी रावण घमंडसे फूलकर हँसने लगा था। वही रावण जब श्रीरामचन्द्रजीकी पत्नी सीताजीको चुराकर ले जाता है और लड़ाईके मैदानमें उनसे लड़नेके लिये गर्वपूर्वक आता है, तब भगवान् श्रीरामके धनुषकी टंकारसे ही उसका वह घमंड प्राणोंके साथ तत्क्षण विलीन हो जाता है॥ २५॥

वीरराघवः

किञ्च युद्धे रावणस्य वक्षस्थलः स्पर्शेन रुग्णाः भग्ना ये महेन्द्रवाहस्यैरावतस्य दन्ताः तैर्विडम्बिताः स्वधवलिम्ना धवलीकृताः तत्तद्दिक्षु पतितैः वक्षश्चूर्णितसुरगजदन्तचूर्णैः प्रकाशिता इत्यर्थः । एवम्भूताः याः ककुभः दिशः तासां यो जयस्तेन रूढः उत्पन्नः यो हासः अहो मत्समः कोऽन्योऽस्तीति गर्वेण प्राप्तहासः तं सैन्यमध्ये उत्कर्षेण चरतो दारहर्तुः रावणस्यासुभिः प्राणैस्सह सद्यः शीघ्रं विनेष्यति अपनेष्यति कैः? धनुषो विस्फूर्जितैः वि138शेषेण स्फूर्जितैः स्फुरितैः शरैरित्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

भूमेः सुरेतरवरूथविमर्दितायाः
क्लेशव्ययाय कलया सितकृष्णकेशः।
जातः करिष्यति जनानुपलक्ष्यमार्गः
कर्माणि चात्ममहिमोपनिबन्धनानि॥

मूलम्

भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः।
जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चाऽऽत्ममहिमोपनिबन्धनानि॥ २६ ॥

अनुवाद (हिन्दी)

जिस समय झुंड-के-झुंड दैत्य पृथ्वीको रौंद डालेंगे उस समय उसका भार उतारनेके लिये भगवान् अपने सफेद और काले केशसे बलराम और श्रीकृष्णके रूपमें कलावतार ग्रहण करेंगे।* वे अपनी महिमाको प्रकट करनेवाले इतने अद‍्भुत चरित्र करेंगे कि संसारके मनुष्य उनकी लीलाओंका रहस्य बिलकुल नहीं समझ सकेंगे॥ २६॥

पादटिप्पनी
  • केशोंके अवतार कहनेका अभिप्राय यह है कि पृथ्वीका भार उतारनेके लिये भगवान‍्का एक केश ही काफी है इसके अतिरिक्त श्रीबलरामजी और श्रीकृष्णके वर्णोंकी सूचना देनेके लिये भी उन्हें क्रमशः सफेद और काले केशोंका अवतार कहा गया है। वस्तुतः श्रीकृष्ण तो पूर्णपुरुष स्वयं भगवान् हैं—कृष्णस्तु भगवान् स्वयम्।
वीरराघवः

कृष्णावतारमाह - भूमेरिति । सुरेतरा आ139सुरसम्पत्त्या जाताः राजानः तेषां वरूथैः सैन्यैः विमर्दिताया भारेण पीडिताया भूमेः क्लेशव्य140याय भ141रापहारायेत्यर्थः । सितकृष्णकेशः भगवान् कलया बलभद्रेण साकं जातः अवतीर्णः सितकृष्णौ केशौ यस्य सः 142शोभार्थं हि भगवता सितकृष्णकेशौ धृतौ अविकारत्वेन वयः परिणामासम्भवात् । यत्तु विष्णुपुराणे - “उज्जहारात्मनः केशौ सितकृष्णौ तथा मुने” इति । भारतेऽपि “स चापि केशौ हरिरुच्चजह्ले युक्लं चैकमपरं चापि कृष्णम्, तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च । तयोरेको बलभद्रो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः । कृष्णो द्वितीयः केशवः सम्बभूव केशौ योऽसौ व143र्णतः कृष्ण उक्तः” इति । तत्तु न केशमात्रावताराभिप्रायं किन्तु भूभारावताररूपं कार्यं कियदेतन्मत्केशावपि त144त्कर्तुं शक्ताविति द्योतनार्थम् । रामकेशवयोर्वर्णस्तवनार्थं च केशोद्धरणमिति गम्यते, अन्यथा तत्रैव पूर्वापरविरोधापत्तेः । ‘कृष्णस्तु भगवान् स्वयम्’ इत्येतद्विरोधाच्च । जातश्च भगवान् जनैरनुपलक्ष्यः मार्गो गतिर्यस्य सः तथाभूतः आत्मनः स्वस्य महिमा उपनिबध्यते अभिव्यज्यते येषु तानि स्वमाहात्म्यप्रकाशकानीत्यर्थः । क145र्माणि चेष्टितानि करिष्यति ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तोकेन जीवहरणं यदुलूकिकाया-
स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः।
यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा
उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम्॥

मूलम्

तोकेन जीवहरणं यदुलूकि146कायास्त्रैमासिकस्य च पदा शकटो147ऽप148वृत्तः।
यद् रिङ्गतान्तरगतेन दिविस्पृशो149र्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम्॥ २७ ॥

अनुवाद (हिन्दी)

बचपनमें ही पूतनाके प्राण हर लेना, तीन महीनेकी अवस्थामें पैर उछालकर बड़ा भारी छकड़ा उलट देना और घुटनोंके बल चलते-चलते आकाशको छूनेवाले यमलार्जुनवृक्षोंके बीचमें जाकर उन्हें उखाड़ डालना—ये सब ऐसे कर्म हैं, जिन्हें भगवान‍्के सिवा और कोई नहीं कर सकता॥ २७॥

कर्मणां परमेश्वरत्वप्रकाशकत्वमेव प्रपञ्चयति - तोकेनेत्या150दिनवभिः । तोकेन बालेन सता उलूकिकायाः पूतनायाः जीवहरणं यत् पूतना उलूकरूपेण आगतेति पुराणान्तरप्रसिद्धिः । त्रैमासिकस्य त्रिमासवयस्कस्य पदा पादेन श151कटस्य शकटरूपेणागतस्यासुरस्य अ152पवृत्तिः परावृत्तिरिति यत् रिङ्गता जा153नुभ्यां गच्छता उ154लूखलमाकर्षता दिविस्पृशोः अ155त्युच्ययोः अर्जुनयोः अर्जुना156ख्यवृक्षयोः अन्तरगतेन मध्यं प्राप्तेन तयोरुन्मूलन157मुत्पाटनं 158इति यत् तत्सर्वं कर्म दिव्यमित्युत्तरत्रान्वयः इतरथा दिव्यं न चेत् न भाव्यं न भवितव्यम् अनीश्वरत्वे तत्सर्वमनुपपन्नमित्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

यद् वै व्रजे व्रजपशून् विषतोयपीथान्
पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व-
मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम्॥

मूलम्

यद् वै व्रजे व्रजपशून् विषतोयपीथा159न् पा160लांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या।
तच्छुद्धयेऽतिविषवीर्य विलोलजिह्वमुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम्॥ २८ ॥

अनुवाद (हिन्दी)

जब कालियनागके विषसे दूषित हुआ यमुना-जल पीकर बछड़े और गोपबालक मर जायँगे, तब वे अपनी सुधामयी कृपा-दृष्टिकी वर्षासे ही उन्हें जीवित कर देंगे और यमुना-जलको शुद्ध करनेके लिये वे उसमें विहार करेंगे तथा विषकी शक्तिसे जीभ लपलपाते हुए कालियनागको वहाँसे निकाल देंगे॥ २८॥

वीरराघवः

किञ्च व्रजे वसन् विषतोयपीतान् विषजलस्य पीतं पानं येषां तान् व्र161जपशून् त162त्पालांश्च अनुग्रहदृष्टिः कृपादृष्टिः तस्याः वृष्ट्या सुधावर्षेणाजीवयदिति यत् ह्लदिन्यां यमुनायां विहरन् तच्छुद्धये ह्लदिन्याः निर्विषत्वाय अतिविषवीर्येण विलोला चञ्चला जिल्ह्वा यस्य तं उरगं कालियाख्यं सर्पमुच्याटयिष्यत् पलाययिषयती163ति यत् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तत् कर्म दिव्यमिव यन्निशि निःशयानं
दावाग्निना शुचिवने परिदह्यमाने।
उन्नेष्यति व्रजमतोऽवसितान्तकालं
नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्यः॥

मूलम्

तत्कर्म दिव्यमिव यन्निशि निःशयानं दावाग्निना164 शुचिवने परिदह्यमाने।
उन्नेष्यति व्रजम165तोऽवसितान्तकालं166 नेत्रे पिधाय्य167 सबलोऽनधिगम्यवीर्यः॥ २९ ॥

अनुवाद (हिन्दी)

उसी दिन रातको जब सब लोग वहीं यमुना-तटपर सो जायँगे और दावाग्निसे आस-पासका मूँजका वन चारों ओरसे जलने लगेगा, तब बलरामजीके साथ वे प्राणसंकटमें पड़े हुए व्रजवासियोंको उनकी आँखें बंद कराकर उस अग्निसे बचा लेंगे। उनकी यह लीला भी अलौकिक ही होगी। उनकी शक्ति वास्तवमें अचिन्त्य है॥ २९॥

वीरराघवः

तदपि कर्म दिव्यमिव अमानुषमिव इति लौकिकोक्तिः ; किञ्च दावाग्निना शुचि वने शुष्कवने परिदह्यमाने सति अतो देवाग्नेः हेतोः अवसितः निश्चितोऽन्तकालो यस्य तम् निशि रात्रौ निःशयानं नितरां स्वपन्तं व्रजं उ168न्नेष्यति उद्धरिष्यति । नेत्रे पिधाय्य पिहिते कारयित्वा अनेन व्रजस्य पश्चात् जागरणं सूचितम् । स169बलः बलभद्रेण सहितः अनधिगम्यवीर्यः अनधिगम्यं दुर्विज्ञेयं वीर्यं यस्य । तथाभूतः उ170न्नेष्यति अग्निं पीत्वा व्रजमुद्धरिष्यतीत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

गृह्णीत यद् यदुपबन्धममुष्य माता
शुल्बं सुतस्य न तु तत् तदमुष्य माति।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कितमनाः प्रतिबोधिताऽऽसीत्॥

मूलम्

गृह्णीत यद् यदुपब171न्धममुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधिता172ऽऽसीत्॥ ३० ॥

अनुवाद (हिन्दी)

उनकी माता उन्हें बाँधनेके लिये जो-जो रस्सी लायेंगी वही उनके उदरमें पूरी नहीं पड़ेगी, दो अंगुल छोटी ही रह जायगी। तथा जँभाई लेते समय श्रीकृष्णके मुखमें चौदहों भुवन देखकर पहले तो यशोदा भयभीत हो जायँगी, परन्तु फिर वे सँभल जायँगी॥ ३०॥

वीरराघवः

किञ्च गृह्णीतेति । अमुष्य श्रीकृष्णस्य माता यशोदा यद्यत् उपबन्धं बन्धनसाधनं शुल्बं मुञ्जादिनिर्मितरज्जुं गृह्णीत ग्रहीष्यति । तत्तच्छुल्बं अमुष्य श्री173कृष्णस्य उदरे न माति न174 व्याप्नोति न पर्याप्तमित्यर्थः । किञ्च जृम्भतोऽस्य भगवतो वदने मुखे भुवनानि चतुर्दश भुवनानि संवी175क्ष्य दृष्ट्वा गोपी यशोदा शङ्कितमनाः कि176मिदमिति शङ्कितचित्ता सती पश्चात्प्रतिबोधिता ज्ञापितैश्वर्या आसीदिति यत् तच्च कर्म दिव्यमिवेति पूर्वेणान्वयः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद्
गोपान् बिलेषु पिहितान् मयसूनुना च।
अह्‍न्यापृतं निशि शयानमतिश्रमेण
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म॥

मूलम्

नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च।
177ह्‍न्यापृ178तं निशि शयानमतिश्रमेण लोकं179 विकुण्ठ180मुपने181ष्यति गोकुलं स्म॥ ३१ ॥

अनुवाद (हिन्दी)

वे नन्दबाबाको अजगरके भयसे और वरुणके पाशसे छुड़ायेंगे। मय दानवका पुत्र व्योमासुर जब गोपबालोंको पहाड़की गुफाओंमें बन्द कर देगा, तब वे उन्हें भी वहाँसे बचा लायेंगे। गोकुलके लोगोंको, जो दिनभर तो काम-धंधोंमें व्याकुल रहते हैं और रातको अत्यन्त थककर सो जाते हैं, साधनाहीन होनेपर भी, वे अपने परमधाममें ले जायँगे॥ ३१॥

वीरराघवः

अपि च वरुणस्य पाशात् यद्भयं तस्मात् नन्दं स्वपितरं 182मोचयिष्यति मयसूनुना व्योमासुरेण बिलेषु पिहितान् तिरोधापितान् गोपांश्च मोक्ष्यतीत्यर्थः । किञ्चाह्नि दिवसे अतिश्रमेणापृ183तं व्यापारग्रस्तं निशि शयानं गोकुलं गोकुलवासिजनं दृष्ट्वा तेषु स्वानुवृत्तिजनितकृपया विकुण्ठं नि184त्यं लोकं निरतिशयानन्द-लोकमुपनेष्यति प्रापयिष्यतीत्यर्थः । स्म इति आश्चर्य ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

गोपैर्मखे प्रतिहते व्रजविप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षुः।
धर्तोच्छिलीन्ध्रमिव सप्त दिनानि सप्त-
वर्षो महीध्रमनघैककरे सलीलम्॥

मूलम्

गोपैर्मखे प्रतिहते व्र185जविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः।
धर्तोच्छिलीन्ध्रमिव सप्त दिनानि सप्तवर्षो महीध्रमनघैककरे सलीलम्॥ ३२ ॥

अनुवाद (हिन्दी)

निष्पाप नारद! जब श्रीकृष्णकी सलाहसे गोपलोग इन्द्रका यज्ञ बंद कर देंगे, तब इन्द्र व्रजभूमिका नाश करनेके लिये चारों ओरसे मूसलाधार वर्षा करने लगेंगे। उससे उनकी तथा उनके पशुओंकी रक्षा करनेके लिये भगवान् कृपापरवश हो सात वर्षकी अवस्थामें ही सात दिनोंतक गोवर्द्धन पर्वतको एक ही हाथसे छत्रकपुष्प (कुकुरमुत्ते)-की तरह खेल-खेलमें ही धारण किये रहेंगे॥ ३२॥

वीरराघवः

गो186पैः मखे इन्द्रयागे प्रतिहते वि187हते सति मखविप्लवाय गो188वर्धनपर्वतयागनाशार्थं देवे इन्द्रे अभिवर्षति सति पशून् कृपया रिरक्षुः रक्षितुमिच्छुः सप्तवर्षः सप्तवर्षणि वयो यस्य तथाभूतः अनघैककरे अनघे श्र189मरहिते एकस्मिन्नेव करे अनघेतिनारदसम्बोधनं वा सलीलं यथा तथा महीध्रं गोवर्धनाख्यं अद्रिं सप्तदिनानि उच्छिलीन्ध्रमिव धर्त्ता धरिष्यति । उच्छिलीन्धं उद्गतच्छत्राकमिव इत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

क्रीडन् वने निशि निशाकररश्मिगौर्यां
रासोन्मुखः कलपदायतमूर्च्छितेन।
उद्दीपितस्मररुजां व्रजभृद्वधूनां
हर्तुर्हरिष्यति शिरो धनदानुगस्य॥

मूलम्

क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मु190खः कलपदायतमेर्च्छितेन।
उद्दीपितस्मररुजां व्रजभृ191द्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य॥ ३३ ॥

अनुवाद (हिन्दी)

वृन्दावनमें विहार करते हुए रास करनेकी इच्छासे वे रातके समय, जब चन्द्रमाकी उज्ज्वल चाँदनी चारों ओर छिटक रही होगी, अपनी बाँसुरीपर मधुर संगीतकी लम्बी तान छेड़ेंगे। उससे प्रेमविवश होकर आयी हुई गोपियोंको जब कुबेरका सेवक शंखचूड़ हरण करेगा, तब वे उसका सिर उतार लेंगे॥ ३३॥

वीरराघवः

निशाकरश्चन्द्रः तस्य रश्मिभिः गौर्यां धवलायां रात्रौ वने कीडन् विहरन् कलानि मधुराणि पदानि यस्मिन् त192च्च तदायतं दीर्घं मूर्च्छितमालापविशेषयुक्तं गीतं तेन उद्दीपितः स्मरः काम एव रुक् रोगो यासां तासां व्र193जभृद्वधूनां व्रजं विभ्रतीति व्रजभृतः गोपाः तेषां वधूनां गोपीनां हर्तुः गो194पीः चोरयतो धनदानुगस्य कुबेरभृत्यस्य शङ्खचूडाख्यस्य शिरो हरिष्यति ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-
मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः।
अन्ये च शाल्वकपिबल्वलदन्तवक्त्र-
सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः॥

मूलम्

ये च प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः।
अन्ये195 च शा196ल्वकपिब197ल्वलदन्तवक्त्र सप्तोक्षशम्बरविदू198रथरुक्मिमुख्याः॥ ३४ ॥

वीरराघवः

ये च प्रलम्बादयः ते सर्वे हरिणा हेतुभूतेन तदीयं हरिसम्बन्धि अदर्शनं प्राकृतेन्द्रियाविषयं वैकु199ण्ठं निलयं लोकं यास्यन्ति । अलं तद्वर्णनेन तच्चेष्टितानामनन्तत्वान्न तद्वर्णने मम सामर्थ्यम200स्तीति भावः । खरो धेनुकः । दर्दुरो बकः । इभः कुवलयापीडः । कुजो नरकः । कपिर्द्विविदः । सप्तोक्षाणः बलीवर्दाः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

ये वा मृधे समितिशालिन आत्तचापाः
काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः।
यास्यन्त्यदर्शनमलं बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम्॥

मूलम्

ये वा मृधे समितिशालिन आत्तचापाः काम्बो201जमत्स्यकुरुकैक202यसृ203ञ्जयाद्याः।
यास्यन्त्यदर्शनम204लं ब205लपार्थभीमव्याजाह्वयेन हरिणा निलयं तदीयम्॥ ३५ ॥

अनुवाद (हिन्दी)

और भी बहुत-से प्रलम्बासुर, धेनुकासुर, बकासुर, केशी, अरिष्टासुर आदि दैत्य, चाणूर आदि पहलवान, कुवलयापीड हाथी, कंस, कालयवन, भौमासुर, मिथ्यावासुदेव, शाल्व, द्विविद वानर, बल्वल, दन्तवक्त्र, राजा नग्नजित् के सात बैल, शम्बरासुर, विदूरथ और रुक्मी आदि तथा काम्बोज, मत्स्य, कुरु, कैकय और सृंजय आदि देशोंके राजालोग एवं जो भी योद्धा धनुष धारण करके युद्धके मैदानमें सामने आयेंगे, वे सब बलराम, भीमसेन और अर्जुन आदि नामोंकी आड़में स्वयं भगवान‍्के द्वारा मारे जाकर उन्हींके धाममें चले जायँगे॥ ३४-३५॥

वीरराघवः

मृधे युद्धे ये वा आत्तचापाः धृतधन्वानो राजानः समितिशालिनः समितौ संग्रामे शालन्ते श्लाघन्ते इति समितिशालिनः का206म्बोजादिदेशाधिपतयः । ननु प्रलम्बादयो बलभद्रेण हताः, का207म्बोजादयो भीमार्जुनादिभिश्च, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, न तु हरिणा । तत्राऽऽह - बलभीमपार्था इति व्याजाः कपटा आह्वयाः नामानि यस्य तेन बलभीमादिरूपेण च208 स एव हरिः सर्वसंहर्तेत्यर्थः । सप्तोक्षाणस्तु तेन दमिताः कालान्तरे यास्यन्तीति भावः । एतच्च सर्वमपि कर्म दिव्यमे209व तञ्चान्यथा न भाव्यमिति पूर्वेणान्वयः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

कालेन मीलितधियामवमृश्य नॄणां
स्तोकायुषां स्वनिगमो बत दूरपारः।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां
वेदद्रुमं विटपशो विभजिष्यति स्म॥

मूलम्

कालेन मीलितधि210यामवमृश्य नॄणां स्तोकायुषां स्वनिगमो बत दूरपारः।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति211 स्म॥ ३६ ॥

अनुवाद (हिन्दी)

समयके फेरसे लोगोंकी समझ कम हो जाती है, आयु भी कम होने लगती है। उस समय जब भगवान् देखते हैं कि अब ये लोग मेरे तत्त्वको बतलानेवाली वेदवाणीको समझनेमें असमर्थ होते जा रहे हैं, तब प्रत्येक कल्पमें सत्यवतीके गर्भसे व्यासके रूपमें प्रकट होकर वे वेदरूपी वृक्षका विभिन्न शाखाओंके रूपमें विभाजन कर देते हैं॥ ३६॥

वीरराघवः

व्यासावतारमाह - कालेनेति । कालेन मीलितधियां सङ्कुचितबुद्धीनां स्तोकं अल्पं आयुर्येषां तेषां नृणां स्वनिगमः स्वकृतो वेदः बत अहो! दूरपारः दू212रे पारं यस्य दूरपारः । दुर्गम इत्यवमृश्य विचार्य सत्यवत्यामाविर्हितः आविर्भूतः स हरिरनुयुगं युगानुरूपं वेदद्रुमं विटपशः शाखाभेदेन विभजिष्यति विभक्तं करिष्यति ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

देवद्विषां निगमवर्त्मनि निष्ठितानां
पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेषं विधाय बहु भाष्यत औपधर्म्यम्॥

मूलम्

दे213वद्विषां निगमवर्त्मनि नि214ष्ठितानां पूर्भिर्मयेन वि215हिताभिरदृश्यतू216र्भिः।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं217 वेषं विधाय ब218हु भाष्यत औपधर्म्यम्॥ ३७ ॥

अनुवाद (हिन्दी)

देवताओंके शत्रु दैत्यलोग भी वेदमार्गका सहारा लेकर मयदानवके बनाये हुए अदृश्य वेगवाले नगरोंमें रहकर लोगोंका सत्यानाश करने लगेंगे, तब भगवान् लोगोंकी बुद्धिमें मोह और अत्यन्त लोभ उत्पन्न करनेवाला वेष धारण करके बुद्धके रूपमें बहुत-से उपधर्मोंका उपदेश करेंगे॥ ३७॥

वीरराघवः

बुद्धावतारमाह - देवद्विषामिति । निगमवर्त्मनि वैदिकमार्गे, निष्ठितानां नितरां स्थितानाम् लोकान् मयेन रचिताभिः कल्पिताभिः अदृश्यतुर्भिः अलक्ष्यवेगाभिः पूर्भिः पुरीभिः, घ्नतां नाशयतां, देवद्विषां दैत्यानां मतिविमोहमतिप्रलोभम् - मतेर्विमोहो यस्मात् तत् मतेः विमोहं मतेः प्रलोभः यस्मात् तत् मतिप्रलोभम् मतिविमोहं च तत् मतिप्रलोभं च मतिविमोहकं मतिप्रलोभकं चेत्यर्थः । एवम्भूतं वेषं पाषण्डवेषं, विधाय विरचय्य, औपधर्म्यं धर्माभासं पाषण्डधर्मं, स्वार्थे ष्यञ् बहु अधिकं भाष्यते भाषिष्यते इत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः
पाखण्डिनो द्विजजना वृषला नृदेवाः।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र
शास्ता भविष्यति कलेर्भगवान् युगान्ते॥

मूलम्

यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः पाख219ण्डिनो द्विजजना वृषला नृदेवाः।
स्वाहास्वधावषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते॥ ३८ ॥

अनुवाद (हिन्दी)

कलियुगके अन्तमें जब सत्पुरुषोंके घर भी भगवान‍्की कथा होनेमें बाधा पड़ने लगेगी; ब्राह्मण, क्षत्रिय तथा वैश्य पाखण्डी और शूद्र राजा हो जायँगे, यहाँतक कि कहीं भी ‘स्वाहा’, ‘स्वधा’ और ‘वषट्कार’ की ध्वनि—देवता-पितरोंके यज्ञश्राद्धकी बाततक नहीं सुनायी पड़ेगी, तब कलियुगका शासन करनेके लिये भगवान् कल्कि अवतार ग्रहण करेंगे॥ ३८॥

वीरराघवः

कल्क्यवतारमाह - यर्हीति । सतामप्यालयेषु गृहेषु यर्हि यदा हरेः कथा न स्युः द्विजजनाः त्रैवर्णिकाः पाष220ण्डिनः स्युः नृदेवाः राजानः वृषलाः शूद्राः स्युः तथा यत्र त्रैवर्णिकालयेषु स्वहास्वधावषडितिगिरश्च221 न स्युः स्वाहावर्षाडित्य222नेन दैवं कर्मोपलक्ष्यते स्वधेति पित्र्यम् तदा युगान्ते कलियुगान्ते भगवान् कलेः शास्ता भविष्यती223त्यर्थः । कल्क्यवतारेणेति शेषः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

सर्गे तपोऽहमृषयो नव ये प्रजेशाः
स्थाने च धर्ममखमन्वमरावनीशाः।
अन्ते त्वधर्महरमन्युवशासुराद्या
मायाविभूतय इमाः पुरुशक्तिभाजः॥

मूलम्

सर्गे 224तपोऽहमृषयो नव ये प्रजेशाः स्थाने 225च धर्ममखमन्वमरावनीशाः।
अन्ते त्वधर्महरमन्युवशा226सुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः॥ ३९ ॥

अनुवाद (हिन्दी)

जब संसारकी रचनाका समय होता है, तब तपस्या, नौ प्रजापति, मरीचि आदि ऋषि और मेरे रूपमें; जब सृष्टिकी रक्षाका समय होता है, तब धर्म, विष्णु, मनु, देवता और राजाओंके रूपमें तथा जब सृष्टिके प्रलयका समय होता है, तब अधर्म, रुद्र तथा क्रोधवश नामके सर्प एवं दैत्य आदिके रूपमें सर्वशक्तिमान् भगवान‍्की माया-विभूतियाँ ही प्रकट होती हैं॥ ३९॥

वीरराघवः

अत्र च ब्रह्मनारदसंवादात् प्राञ्चो वराहादयोऽ227वताराः मन्वन्तरावताराश्च भूतभाविनः । धन्वन्तरि परशुरामौ तत्कालिकौ । श्रीरामादयस्तु भाविनः तत्र तु क्वचिद्भूतादिनिर्देशः आर्ष इति द्रष्टव्यम् । अत्रेदं तत्त्वम् - भगवतोऽवतारा द्विविधाः अनुप्रवेशावताराः स्वेन रूपेणावताराश्चेति । अकर्महेतुत्वाविशेषादुभयत्रावतारशब्दप्रयोगः । तथा तस्य रूपमपि द्विविधम् प्र228कृतिप्राकृतवस्तुजातमेकं, शुद्धसत्त्वमयमपरञ्चेति । तत्र षोडशकलम229हदहङ्कारसूक्ष्मभूतेन्द्रियाभिमानिदेवताश्रयं पौरुषं रूपं तदनिरुद्धरूपं तदेव “सहस्रोर्वङ्घ्रिबाह्वक्ष” “आद्योऽवतारः पुरुषः परस्ये” -त्यादिषूच्यते, अनुप्रवेशावतारो नाम जीवेषु स्वस्यानुप्रवेशेन स्वीयज्ञानशक्त्यादीनां अन्यतमाभिव्यञ्जनं स एवांशावतार इति230 कथ्यते । स च गौणः शाक्तः, आवेशश्चे231त्यनेकधा उक्तेष्वे232वावतारेषु श्रीवराहनारायण ध्रुवानुग्राहकहयग्रीवमत्स्यकूर्मनृसिंहह233रिवामनहं234सवैकुण्ठाजितश्रीरामश्रीकृष्णकल्क्यवताराः स्वेन रूपेणावतारः इतरे तु अनुप्रवेशावतारा इति ज्ञा235तव्यम् । किञ्च सृष्ट्यादिकार्यभेदेन भगवतो विभूतीराह सर्ग इति । तपः पूर्वजगत्पर्यालोचनम् । अहं ब्रह्मा प्रजेशाः प्रजापतयो नव ऋषयः मरीच्यादयः, मायाविभूतयः विस्मयनीयाः236 भगवन्नियाम्यवर्गाः237, स्थाने पालने धर्मश्च मखश्च विष्णुः विष्णोरनन्यत्वात् तद्गत238पालनानुरूपं सामर्थ्यं मखशब्देन विवक्षितम् । मनवश्च अमराश्चेन्द्रादयः अवनीशाश्च भू239पा एते स्थाने भगवन्नियाम्यवर्गाः अन्ते संहारे अधर्मश्च ह240रश्च रुद्रः मन्युवशाश्च सर्पाः असुराद्याश्च पुरुशक्तिभाजः अपरिमिताश्चर्यशक्तिधारिणो भगवतः इमाः मायाविभूतयः आश्चर्यविभूतय इत्यर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
यः पार्थिवान्यपि कविर्विममे रजांसि।
चस्कम्भ यः स्वरंहसास्खलता त्रिपृष्ठं
यस्मात् त्रिसाम्यसदनादुरु कम्पयानम्॥

मूलम्

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि।
चस्कम्भ यः स्वर241हसास्खल242ता त्रिपृष्ठं यस्मा243त् त्रि244साम्यसदनादुरुकम्पया245नम्॥ ४० ॥

अनुवाद (हिन्दी)

अपनी प्रतिभाके बलसे पृथ्वीके एक-एक धूलिकणको गिन चुकनेपर भी जगत‍्में ऐसा कौन पुरुष है, जो भगवान‍्की शक्तियोंकी गणना कर सके। जब वे त्रिविक्रम-अवतार लेकर त्रिलोकीको नाप रहे थे, उस समय उनके चरणोंके अदम्य वेगसे प्रकृतिरूप अन्तिम आवरणसे लेकर सत्यलोकतक सारा ब्रह्माण्ड काँपने लगा था। तब उन्होंने ही अपनी शक्तिसे उसे स्थिर किया था॥ ४०॥

वीरराघवः

भगवदवतारास्तच्चेष्टितानि च246 साकल्येनाभिधातुं न कोऽप्यलमित्याह विष्णोरिति । यः कविः बुद्धिमान् पुरुषः पार्थिवानि पृथिवीसम्बन्धीनि रजांसि विममे गणितवांस्तादृशोऽपि को नु विष्णोर्वीर्यगणनां कर्तुमर्हति ? ना247र्हतीत्यर्थः । यो भगवान् यस्मादस्खलता प्रतिहतिशून्येन स्वरभसा स्वपादविन्यासवेगेन हे248तुना उर्वधिकं कम्पमानात् क249म्प्यमानात् सदनात् तत्तत्स्वनिवासस्थानात् स्खल250तः प्राणिनो निशाम्य दृट्वेत्यर्थः । त्रिपृष्ठं सत्यलोकं चस्कम्भ स्तम्भयामास । श्रुतावपि “251विष्णोर्नुकं वीर्य्याणि प्रवोचं यः पार्थिवानि विममे रजांसि यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रे252धोरुगायः” इत्यस्यायमर्थः त्रेधा त्रिप्रकारेण विचक्रमाणः पादविन्यासं कुर्वाणः य उरुगायो भगवान् तिष्ठन्तीति स्थाः देवाः । सहस्य सधादेशः । देवैः सहितमुत्तरं सत्यलोकं अस्कभायदवष्ठब्धवानित्यर्थः । कं253 कः प्रवोचं प्रा254वोचदित्यर्थः एवंविधसर्वशक्तेरपरिच्छिन्नस्वरूपस्वभावस्य वीर्याणि साकल्येन वर्णयितुं कः प्रभवेदित्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

नान्तं विदाम्यहममी मुनयोऽग्रजास्ते
मायाबलस्य पुरुषस्य कुतोऽपरे ये।
गायन् गुणान् दशशतानन आदिदेवः
शेषोऽधुनापि समवस्यति नास्य पारम्॥

मूलम्

नान्तं विदाम्यहममी मुन255योऽग्रजास्ते मायाबलस्य पुरुषस्य कुतो256ऽपरे ये।
गायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनापि समवस्यति नास्य पारम्॥ ४१ ॥

अनुवाद (हिन्दी)

समस्त सृष्टिकी रचना और संहार करनेवाली माया उनकी एक शक्ति है। ऐसी-ऐसी अनन्त शक्तियोंके आश्रय उनके स्वरूपको न मैं जानता हूँ और न वे तुम्हारे बड़े भाई सनकादि ही; फिर दूसरोंका तो कहना ही क्या है। आदिदेव भगवान् शेष सहस्र मुखसे उनके गुणोंका गायन करते आ रहे हैं; परन्तु वे अब भी उसके अन्तकी कल्पना नहीं कर सके॥ ४१॥

वीरराघवः

एवमवतारगुणप्रयोजनानि उक्त्वा “नाहं न यूयम्” इति पूर्वप्रस्तुतमुपसंहरति नेति । मायाबलस्य अद्भुतबलस्य बलं सेना प्रकृत्याख्यपरिकर इति वा पुरुषस्य परमपुरुषस्य अन्तं स्वरूपस्वभावयोः अवधिं अहं चतुर्मुखः न विदामि । तेऽग्रजाः सनकादयः न विदन्ति अन्ये कुतो जानीयुः ? किं बहुना ? दशशतानि आननानि यस्य स दशशत्ताननः सहस्रमुखः आदिदेवः शेषः द्विसहस्रजिह्वश्च अनन्त257गुणान् गायन् अधुनाऽपि अस्य भगवतः पारं न समवस्यति नाध्यवस्यति ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

येषां स एव भगवान् दययेदनन्तः
सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम्।
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमिति धीः श्वशृगालभक्ष्ये॥

मूलम्

येषां स एव258 भगवान् दयये259दनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम्।
ते दु260स्तरामतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वशृगालभक्ष्ये॥ ४२ ॥

अनुवाद (हिन्दी)

जो निष्कपटभावसे अपना सर्वस्व और अपने-आपको भी उनके चरणकमलोंमें निछावर कर देते हैं, उनपर वे अनन्तभगवान् स्वयं ही अपनी ओरसे दया करते हैं और उनकी दयाके पात्र ही उनकी दुस्तर मायाका स्वरूप जानते हैं और उसके पार जा पाते हैं। वास्तवमें ऐसे पुरुष ही कुत्ते और सियारोंके कलेवारूप अपने और पुत्रादिके शरीरमें ‘यह मैं हूँ और यह मेरा है’ ऐसा भाव नहीं करते॥ ४२॥

वीरराघवः

ननु कैरप्य261विज्ञातस्वरूपस्वभावावधित्वे कथं तद्भजनेन मुच्येरन् इत्याशङ्क्यापरिच्छिन्न262स्य वस्तुनोऽपरिच्छिन्नत्वेनैव ज्ञानं मुक्तिसाधनं न तु परिच्छिन्नत्वेन तस्यान्यथाज्ञानरूपत्वात्, अतः परमात्मस्वरूपम् अपरिच्छिन्नत्वेन जानन्तो भजमाना मुच्यन्ते एव इत्याह येषामिति । निर्व्यलीकं निरपराधं यथा तथा येषां सर्वात्मना उपायोपेयत्वबुद्ध्या आश्रितपदः संश्रितपदो यदि भवेत् स एष भगवान् ता263न् दययेत् ते264 भगवद्दया265विषयाः दुस्तरां त266रितुमशक्यां देवस्य विष्णोः मायाम् अतितरन्ति निःशेषं तरिष्यन्ति । चकारात् तत्स्वरूपस्वभावादिकमपि यथावस्थितत्वेन जानन्ति । एवं सर्वात्मना भगवत्प्रपन्नानाम् “आत्मसमं विचक्ष्महे” इत्युक्तदेहात्मभ्रमोऽ267पि निवर्त्तत इत्याह नैषामिति । एषां सर्वात्मना भगवन्तमाश्रितानां श्वशृगाला268नां भक्षणयोग्ये कलेबरे ममाहमिति धीः “अनात्मनि आत्मबुद्धिर्या अस्वे स्वमिति या मतिः” इति स्थानोक्तधीः नास्तीत्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

वेदाहमङ्ग परमस्य हि योगमायां
यूयं भवश्च भगवानथ दैत्यवर्यः।
पत्नी मनोः स च मनुश्च तदात्मजाश्च
प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च॥

मूलम्

वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्यः।
पत्नी मनोः स च मनुश्च269 तदात्मजाश्च प्राचीनबर्हिऋृ270भुरङ्ग उत ध्रुवश्च॥ ४३ ॥

अनुवाद (हिन्दी)

प्यारे नारद! परम पुरुषकी उस योगमायाको मैं जानता हूँ तथा तुमलोग, भगवान् शंकर, दैत्यकुल-भूषण प्रह्लाद, शतरूपा, मनु, मनुपुत्र प्रियव्रत आदि, प्राचीनबर्हि, ऋभु और ध्रुव भी जानते हैं॥ ४३॥

वीरराघवः

किमेवंविधाः भगवत्प्रपन्ना अ271पि सन्तीत्यत आह वेदेति । अङ्ग हे नारद! अहं वेद जानामि भगवन्तमिति शेषः । परमस्य भगवतो योगमायां “देवी ह्येषा गुणमयी” इत्युक्तप्रकारां स्वदेहेन्द्रियादिरूपेण संयुज्यमानां विचित्रसर्गकरीं प्रकृतिं तरिष्यामि इति शेषः । यूयं इत्यादीनां विदन्ति अतितरन्ति च इत्युपरितनेन अन्वयः । यूयमिति सनकाद्यभिप्रायेण बहुवचननिर्देशः । भवो रुद्रः भगवानिति रुद्रविशेषणम् । दैत्यवर्यः प्रह्लादः मनोः पत्नी शतरूपा, स च स्वायम्भुवो मनुश्च त272दात्मजाः मन्वात्मजाः पुत्रौ दुहितरश्च । पुत्रौ उत्तानपादः प्रियव्रतश्च । देवहूत्यादयो दुहितरश्च । प्राचीनवर्हिः विसर्गलोप आर्षः । अङ्गो वेनस्य उत अपि च ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-
रघ्वम्बरीषसगरा गयनाहुषाद्याः।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा
देवव्रतो बलिरमूर्त्तरयो दिलीपः॥

मूलम्

इक्ष्वाकुरै273लमुचुकुन्दविदेहगाधिरघ्वम्बरीषसगरा गयनाहुषाद्याः।
मान्धात्रलर्कशतधन्वनु274रन्तिदेवा275 देवव्रतो बलिरमू276र्त्तरयो दिलीपः॥ ४४ ॥

वीरराघवः

इश्वाकुरीति277लः पुरूरवाः । ग278यनाहुषौ आद्यौ येषां ते । ना279हुषः ययातिः । श280तधन्वनश्चासन्धिरार्षः । देवव्रतो भीष्मः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

सौभर्युतङ्कशिबिदेवलपिप्पलाद-
सारस्वतोद्धवपराशरभूरिषेणाः ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त-
पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः॥

मूलम्

सौभर्युत281ङ्कशिबिदेवलपिप्पलाद282 सारस्वतोद्ध283वपराशरभूरिषेणाः ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त284पार्थार्ष्टि285षेणविदुरश्रुतदेव व286र्याः॥ ४५ ॥

अनुवाद (हिन्दी)

इनके सिवा इक्ष्वाकु, पुरूरवा, मुचुकुन्द, जनक, गाधि, रघु, अम्बरीष, सगर, गय, ययाति आदि तथा मान्धाता, अलर्क, शतधन्वा, अनु, रन्तिदेव, भीष्म, बलि अमूर्त्तरय, दिलीप, सौभरि, उत्तंक, शिबि, देवल, पिप्पलाद, सारस्वत, उद्धव, पराशर, भूरिषेण एवं विभीषण, हनुमान्, शुकदेव, अर्जुन, आर्ष्टिषेण, विदुर और श्रुतदेव आदि महात्मा भी जानते हैं॥ ४४-४५॥

वीरराघवः

सौभरीति । विभीषणादयश्च वर्या मुख्या येषां ते ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवाः।
यद्यद‍्भुतक्रमपरायणशीलशिक्षा-
स्तिर्यग्जना अपि किमु श्रुतधारणा ये॥

मूलम्

ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः।
यद्यद‍्भुतक्रमपरायणशीलशि287क्षास्तिर्यग्ज288ना अपि किमु श्रुतधारणा ये॥ ४६ ॥

अनुवाद (हिन्दी)

जिन्हें भगवान‍्के प्रेमी भक्तोंका-सा स्वभाव बनानेकी शिक्षा मिली है, वे स्त्री, शूद्र, हूण, भील और पापके कारण पशु-पक्षी आदि योनियोंमें रहनेवाले भी भगवान‍्की मायाका रहस्य जान जाते हैं और इस संसारसागरसे सदाके लिये पार हो जाते हैं; फिर जो लोग वैदिक सदाचारका पालन करते हैं, उनके सम्बन्धमें तो कहना ही क्या है॥ ४६॥

वीरराघवः

भवदादयो ये ते सर्वे विदन्ति परमात्मानं देवमायां देवस्य विष्णोः नियाम्यां मा289यां अतितरन्ति च290 । किम् बहुना ? भागवतसङ्गेन तिर्यञ्चो291ऽपि तरिष्य292न्तीत्याह - अद्भुताः क्रमाः पादविन्यासाः यस्य स अद्भुतक्रमो भगवान् त्रिविक्रमः । स एव परायणं उत्कृष्टं प्राप्यं प्रापकमाधारश्च येषां तेषां भागवतानां शीले शिक्षा वासना येषां ते तथाभूता यदि भवेयुः तर्हि तिर्यग्जना अपि तरन्तीति अनुषङ्गः । श्रुतेऽर्थे धारणा येषां ते मनुष्या ब्राह्मणादयः तिरश्चां श्रुतार्थधारणाऽ293पि नास्तीति ज्ञापनार्थम् इदम् । ब्राह्मणादयः तरन्तीति त294त्र किमु वक्तव्यमित्यर्थः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सदसतः परमात्मतत्त्वम्।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना॥

मूलम्

शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम्।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना॥ ४७ ॥

अनुवाद (हिन्दी)

परमात्माका वास्तविक स्वरूप एकरस, शान्त, अभय एवं केवल ज्ञानस्वरूप है। न उसमें मायाका मल है और न तो उसके द्वारा रची हुई विषमताएँ ही। वह सत् और असत् दोनोंसे परे है। किसी भी वैदिक या लौकिक शब्दकी वहाँतक पहुँच नहीं है। अनेक प्रकारके साधनोंसे सम्पन्न होनेवाले कर्मोंका फल भी वहाँतक नहीं पहुँच सकता। और तो क्या, स्वयं माया भी उसके सामने नहीं जा पाती, लजाकर भाग खड़ी होती है॥ ४७॥

वीरराघवः

ननु कीदृशं तत्स्वरूपं यद्भवदादयो जानन्तीत्यपेक्षायाम् - तत्स्वरूपं चिदचिद्विलक्षणत्वेन विशोध्य तत्स्वरूपानुचिन्तनपराणां स्वर्गाद्यर्थानुष्ठानोपकरणत्याग आर्थिक इत्याह श्लो295कद्वयेन शश्वदिति । विशोकं दुःखासम्भिन्नम् । अजस्रसुखं नित्यानन्दमयं यद्ब्रह्मेति विदुः “सत्यं ज्ञानमनन्तं” “विज्ञानमानन्दं” “विशोको विजर” इत्यादयो वेदान्ता आमनन्ति । तदेव परमस्य पुंसः परमपुरुषस्य भगवतः पदं स्वरूपम् इत्यर्थः । ननु किं विशेषेण वेदान्तवेद्यत्वमुच्यते न प्रमाणान्तरविषयत्वम् इत्यत आह-मा296या जडात्मिका माया अभिमुखे, अवस्थातुं इति शेषः । विलज्जमाना सती परैति तिरो धत्ते मायाकार्याणि मन आदीन्द्रियाणि तत्स्वरूपमवगन्तुं असमर्थानि इत्यभिप्रायः । न केवलं लौकिकप्रमाणविषयत्वमेवालौकिकप्रमाणभूतवैदिकदेशपूर्वभागाविषयत्वमपि इत्याह शब्द इति । पुरुकारकः साध्यसाधनाद्यनेककारकान्वितः क्रियार्थः क्रियाप्रतिपादकः शब्दः वेदपूर्वभागोऽपि यत्र स्वरूपे न साक्षान्न बोधक इत्यर्थः । “सर्वे वेदा यत्पदमामनन्ती” -ति तु सर्वकर्माराध्यब्रह्मरूपमपर्यवसानवृत्त्या आमनन्तीति एतत्तात्पर्यकम् । अ297तएव “तपांसि सर्वाणि च यद्वदृती” त्युक्तं तपांसि तपःप्रधाना उपनिषद्भागा वदन्ति साक्षाद्बोधयन्तीत्यर्थः । ननु जीवस्यापि स्वरूपम् अजस्रसुखमेव इत्यत आह-परमात्मतत्त्वमिति । “सत्यं ज्ञानमनन्तं ब्रह्म”, “विज्ञानमानन्दं ब्रह्म” इति वाक्यप्रत्यभिज्ञानेन अजस्रसुखस्य अनन्तत्वेन विशेषितत्त्वात् अपरिच्छिन्नदुःखासम्भिन्ननित्यसुखस्वरूपत्वं परमात्मन एव स्वरूपमित्यर्थः । ननु जीववत् अस्यापि कर्माधीनसुखदुःखसम्बन्धः स्यात् इति शङ्कां वारयति शुद्धमिति । अकर्मवश्यमित्यर्थः । अत एव सदसतोः चिदचितोः परं विलक्षणम् । अकर्मवश्यता कुत इत्यत आह सममिति, एकरूपमित्यर्थः । चिदचिदन्तर्यामित्वेन अवस्थितस्यापि तत्तद्वस्तुगतदोषासंस्पर्शात् अकर्मवश्यता उपपन्ना इति भावः । ननु आम्रादिफलानां तत्तत्प्रदेशभेदेन आम्लमधुरादिरसवत् सुखापरपर्यायानुकूलज्ञानस्वरूपस्य ब्रह्मणः प्रदेशभेदेन जडरूपता स्यात् इत्याशङ्कां वारयति प्रतिबोधमात्रमिति । प्रतिबोध एव प्रतिबोधमात्रं मात्रया क्वापि जडत्वव्यावृत्तिः विज्ञानघनएव प्रज्ञानघन एव इति श्रुतेः298, मोक्षप्रदत्वमप्यस्या299साधारणो300 धर्म इत्याह अभयम् न विद्यते भयं यस्मात्तदभयं संसारनिवर्तकम् इत्यर्थः । तत्कुतः ? शश्वत्प्रशान्तं शश्वत्सदा प्रशान्तमशनापिपासाद्यूर्मिषट्करहितमतः तदुपासकानामपि शान्तिसम्पादकमिति भावः “परमं साम्यमुपैति”, “मम साधर्म्यमागता” इति हि301 श्रुतिस्मृती ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

तद् वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद् विदुरजस्रसुखं विशोकम्।
सध्य्रङ् नियम्य यतयो यमकर्तहेतिं
जह्युः स्वराडिव निपानखनित्रमिन्द्रः॥

मूलम्

तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्रसुखं विशोकम्।
सध्य्र302ङ् नियम्य यतयो यमक303र्तहेतिं जह्युः स्व304राडिव निपानखनित्रमिन्द्रः॥ ४८ ॥

अनुवाद (हिन्दी)

परमपुरुष भगवान‍्का वही परमपद है। महात्मालोग उसीका शोकरहित अनन्त आनन्दस्वरूप ब्रह्मके रूपमें साक्षात्कार करते हैं। संयमशील पुरुष उसीमें अपने मनको समाहित करके स्थित हो जाते हैं। जैसे इन्द्र स्वयं मेघरूपसे विद्यमान होनेके कारण जलके लिये कुआँ खोदनेकी कुदाल नहीं रखते वैसे ही वे भेद दूर करनेवाले ज्ञान-साधनोंको भी छोड़ देते हैं॥ ४८॥

वीरराघवः

कि305ञ्च यतः एवम्भूतभगवत्स्वरूपचिन्तने प्रयतमानाः सध्र्यङ् सहांचतीति सध्र्यङ् सहस्य सध्र्यादेशः जीवसहचरंमनः नियम्य यद्यत्र उ306क्तरूपे 307नियतं कृत्वाऽकर्तृहेतुं 308कृत्यन्ते छिद्यन्तेऽनेन संशया इति कर्तृ ज्ञा309नं “छिद्यन्ते सर्वसंशया” इति श्रुतेः । कृती छेदेन तदितरत् अकर्तृ310 स्वर्गादिफलसाधनं कर्म इत्यर्थः । तस्य हेतु311म् उपकरणं जह्युः । तत्र दृष्टान्तः-स्वराट् वर्षप्रदः इन्द्रः निपानखनित्रमिव नितरां पिबन्ति अ312स्मिन्निति निपानं कूपः तस्य खनित्रं खननसाधनमिव स्वर्गाद्यर्थानुष्ठानोपकरणम्, अर्थादेव त्यजन्तीत्यर्थः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

स श्रेयसामपि विभुर्भगवान् यतोऽस्य
भावस्वभावविहितस्य सतः प्रसिद्धिः।
देहे स्वधातुविगमेऽनुविशीर्यमाणे
व्योमेव तत्र पुरुषो न विशीर्यतेऽजः॥

मूलम्

स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य स313तः प्रसिद्धिः314
देहे स्वधातुविगमे315ऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः316॥ ४९ ॥

अनुवाद (हिन्दी)

समस्त कर्मोंके फल भी भगवान् ही देते हैं। क्योंकि मनुष्य अपने स्वभावके अनुसार जो शुभकर्म करता है, वह सब उन्हींकी प्रेरणासे होता है। इस शरीरमें रहनेवाले पंचभूतोंके अलग-अलग हो जानेपर जब—यह शरीर नष्ट हो जाता है, तब भी इसमें रहनेवाला अजन्मा पुरुष आकाशके समान नष्ट नहीं होता॥ ४९॥

वीरराघवः

ननु स्वर्गादिफलेप्सूनां तत्साधनोपकरणोपादानम् आवश्यकम् इत्यत आह - स श्रेयसां इति । भावस्वभावविहितस्य भावाः ब्राह्मणादिवर्णाश्रमादयः तेषां स्वभावेनानुगुण्येन विहितस्य स317तः कर्मणः प्रसिद्धिः फलप्र318सिद्धिः यतः स भगवान् श्रेयसां स्वर्गादिफलानामपि विभुः प्रभुः तत्फलप्रदाता इत्यर्थः । अन्तरात्मतयाऽवस्थितस्य परमात्मन एव स्वर्गाद्यर्थकर्मस्वपि प्रवर्तकत्वात् तदाराध्यत्वात् तत्फलदत्वाच्च तद्भजनेनैव ईप्सितस्वर्गादि फलस्यापि सिद्धेः का319मिभिरपि स एव भजनीय इत्यर्थः । भगवतः सर्वान्तर्यामित्वे शरीरभूतचेतनाचेतनगतदोषसं320स्पर्शम् आशङ्कयाऽऽह देह इति । स्वधातुविगमे स्वधातूनां स्वदेहारम्भकभूतसूक्ष्माणां वि321गमे वियोगे सति अनु पञ्चात् विशीर्यमाणेऽ322पि देहे तत्रस्यः पुरुषः परमपुरुषः गगनमिव न शीर्यते । कुतः ? अजः कर्माधीनोत्पत्त्यादिशून्यः । अत्र देहशब्दः चेतनस्यापि प्रदर्शनार्थः चिदचिद्गतदोषस्पृष्ट इत्यर्थः । अस्य उत्तरार्धस्य जीवपरत्ववर्णनं तु अशोभनं कृत्स्नस्यास्य323 प्रकरणस्य परमात्मपरत्वेन मध्ये जीवप्रसक्त्यभावात् जीवस्यापि शरीरद्वारा उत्पत्तिविनाशयोः “विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येव अनुविनश्यती"ति श्रुत्यैव अभिधानाच्च ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः।
समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत्॥

मूलम्

सोऽयं तेऽभिहितस्तात! भगवान् विश्वभावनः।
समासेन हरेर्नान्यदन्यस्मा324त् सदसच्च यत्॥ ५० ॥

अनुवाद (हिन्दी)

बेटा नारद! संकल्पसे विश्वकी रचना करनेवाले षडैश्वर्यसम्पन्न श्रीहरिका मैंने तुम्हारे सामने संक्षेपसे वर्णन किया। जो कुछ कार्य-कारण अथवा भाव-अभाव है, वह सब भगवान‍्से भिन्न नहीं है। फिर भी भगवान् तो इससे पृथक् भी हैं ही॥ ५०॥

वीरराघवः

अध्यायत्रयार्थमुपसंहरति सोऽयम् इति । हे तात! नारद! सोऽयं पूर्वप्रतिपादिताकारः वि325श्वभावनः विश्वकारणभूतः भगवान् ज्ञानशक्तिबलैश्वर्यादिसम्पन्नो वासुदेवः समासेन सङ्ग्रहेण ते तुभ्यम् अभिहितः, मया इति शेषः । सङ्ग्रहमेवाह यत्सदसत् चिदचिदात्मकं वस्त्वन्यत् अतदात्मकं स्वनिष्ठमिव भाति । तद्धरेर्नान्यत् तदात्मकमेव इत्यर्थः । “हरेः नान्यदन्यत् तत्सदसच्च यदि"ति पाठः । नान्यदन्यस्मात् सदसञ्च यदिति पाठे तु अन्यस्मात् सदसद्विलक्षणादपि हरेः सदसदात्मकं नान्यत् किन्तु तदात्मकमेव इत्यर्थः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

इदं भागवतं नाम यन्मे भगवतोदितम्।
संग्रहोऽयं विभूतीनां त्वमेतद् विपुलीकुरु॥

मूलम्

इदं भागवतं नाम यन्मे भगवतोदितम्।
संग्रहोऽयं विभूतीनां त्व326मेत327द् विपुलीकुरु॥ ५१ ॥

अनुवाद (हिन्दी)

भगवान‍्ने मुझे जो उपदेश किया था, वह यही ‘भागवत’ है। इसमें भगवान‍्की विभूतियोंका संक्षिप्त वर्णन है। तुम इसका विस्तार करो॥ ५१॥

वीरराघवः

स्वोक्तस्य328 सङ्ग्रहस्य प्रामाणिकत्वं कथयन् त्वमप्येतत्प्रवर्तयेत्याह इदमिति । भगवद्विभूतीनाम् अयं संङ्ग्रह इति यत् इदं भागवतं भगवद्विषयत्वात् भगवता प्रोक्तत्वात् भागवतनामकं मे मह्यं भगवतोदितं एतत् इदं भागवतं त्वं विपुलीकुरु ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

यथा हरौ भगवति नृणां भक्तिर्भविष्यति।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय॥

मूलम्

यथा हरौ भगवति नृणां भक्तिर्भविष्यति।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य व329र्णय॥ ५२ ॥

अनुवाद (हिन्दी)

जिस प्रकार सबके आश्रय और सर्वस्वरूप भगवान् श्रीहरिमें लोगोंकी प्रेममयी भक्ति हो, ऐसा निश्चय करके इसका वर्णन करो॥ ५२॥

वीरराघवः

वैपुल्यप्रकारमे330वाह - यथेति । सर्वात्मनि सर्वान्तरात्मनि अत एव सर्वाधारे भगवति नृणां भक्तिर्यथा भविष्यति यादृश वर्णनेनभ331विष्यति तथा सङ्कल्प्य वर्णय इत्यर्थः ॥ ५२ ॥

श्लोक-५३

विश्वास-प्रस्तुतिः

मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः।
शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति॥

मूलम्

मा332यां वर्णयतोऽमुष्य ईश्वरस्यानुमोद333तः।
शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति॥ ५३ ॥

अनुवाद (हिन्दी)

जो पुरुष भगवान‍्की अचिन्त्य शक्ति मायाका वर्णन या दूसरेके द्वारा किये हुए वर्णनका अनुमोदन करते हैं अथवा श्रद्धाके साथ नित्य श्रवण करते हैं, उनका चित्त मायासे कभी मोहित नहीं होता॥ ५३॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे ब्रह्मनारदसंवादे सप्तमोऽध्यायः॥ ७॥

वीरराघवः

भगद्विभूतिवर्णनादीनां फलमाह - मायामिति । अमुष्य ईश्वरस्य मायां प्रकृतिं जगत्सृष्ट्यादिप्रकारं इत्यर्थः । वर्णयतः अनुमोदतः श्रद्धया नित्यं शृण्वतश्च आत्मान्तःकरणं मायया मायागुणैस्तमआदिभिः न मुह्यतीत्यर्थः ॥ ५५ ॥

इति श्रीमद्भागवते द्वितीयस्कन्थे श्रीवीरराघवविदुषा लिखितायां श्रीभगवतचन्द्रचन्दिकायां व्याख्यायां सप्तमोऽध्यायः ॥ ७ ॥


  1. H,V,W मु ↩︎

  2. A,B ज्ञया ↩︎

  3. W Omits ब्रह्मा ↩︎

  4. W स्वभा ↩︎

  5. W स य ↩︎

  6. M,Ma शाः ↩︎

  7. V सु ↩︎

  8. A,B Omit यमान् ↩︎

  9. M,Ma य आत्म ↩︎

  10. H,V,W ङ्कं सां ↩︎

  11. M,Ma स्स्व ↩︎

  12. M,Ma रम ↩︎

  13. V हे ↩︎

  14. W Omits अभिकाङ्क्षितो ↩︎

  15. W आका ↩︎

  16. W हैहयप्रभु ↩︎

  17. W त्तादृभ ↩︎

  18. W Omits यद्वा…..इति ↩︎

  19. AF,GF यः ↩︎

  20. M,Ma,W सु ↩︎

  21. M,Ma तपतः ↩︎

  22. A ना ↩︎

  23. W अभूत् ↩︎

  24. W Omits सनः ↩︎

  25. A,B Omit यद्वा ↩︎

  26. A,B Omit अचक्षत ↩︎

  27. W Omits इत्यर्थः ↩︎

  28. AF,GF भवत्स्वमुर्त्याः ; M,Ma जनिस्वमृर्त्या ↩︎

  29. AF,GF वात ↩︎

  30. M,Ma ष्टात्म ↩︎

  31. W तोऽनि ↩︎

  32. A,B Omit तं ↩︎

  33. A,B श्क्रुवत्यः ॥६॥ ↩︎

  34. A Omits ↩︎

  35. C,H,V मपि ↩︎

  36. M,Ma,N,W नि ↩︎

  37. A,B Omits यत्र……रुद्रादयः ↩︎

  38. A,B Omit रोष - युक्तया दृष्ट्या ↩︎

  39. A Omits यस्य ↩︎

  40. M,Ma य ↩︎

  41. W वमप्य ↩︎

  42. A,B Omit यो ↩︎

  43. W यो वेन ↩︎

  44. B ण ↩︎

  45. W शाप ↩︎

  46. I निष्प्लुट; M,Ma निष्पिष्ट ↩︎

  47. M,Ma ज्ञा ↩︎

  48. W Omits व्युत्पत्ति ↩︎

  49. A,B शापवाक्यमेव ↩︎

  50. A,B ष्टं ↩︎

  51. A,B ग्धं ↩︎

  52. M,Ma हृदि यो ↩︎

  53. H,V,W Omit म ↩︎

  54. A,B पारम ↩︎

  55. A,B,C,G,I,N शीरषाथो; AF,GF शीर्षशीर्षा ↩︎

  56. A,B Omit सः ↩︎

  57. A,B Omit अखिलदेवतात्मा ↩︎

  58. W लानां दे ↩︎

  59. W इत्यादि ↩︎

  60. AG,GF मखात्मा ↩︎

  61. W त मनुना ↩︎

  62. W Omits उपलब्धः ↩︎

  63. B Omits पार्थिवद्रव्यमयः ↩︎

  64. A Omits तत्र ↩︎

  65. M,Ma द्रे ↩︎

  66. W Omits उद्रे……कण्डूतिः ↩︎

  67. B,I पि ↩︎

  68. M,Ma,W हारि; A maintains हं in veeraraghava commentary ↩︎

  69. A,B add सः ↩︎

  70. W Omits स्वर्गे ↩︎

  71. A,B हन्ती ↩︎

  72. A,B हं ↩︎

  73. A,B add तथाविधं ↩︎

  74. A,B add तं ↩︎

  75. A,B परितो गच्छन्तं ↩︎

  76. A,B स्वोरौ ↩︎

  77. A,B add भयहासनृसिंहरूपमिति पाठे हासेनैव सर्वभयनिवर्तकनिर्यर्थः ॥ २४ ॥ ↩︎

  78. W द्वयेन ↩︎

  79. W Omits सरोमध्ये ↩︎

  80. W द्धृ ↩︎

  81. W Omits तस्य…..श्रवः ↩︎

  82. M,Ma स्मृत्वा ↩︎

  83. AF,GF स्स्वमर; H,V स्तु शर; W स्तदर ↩︎

  84. W Omits आरूढः ↩︎

  85. M,Ma थोऽधि ↩︎

  86. W अत्र ↩︎

  87. A,B Omit पदत्रयव्याजेन ↩︎

  88. A,B Omit जगृहे ↩︎

  89. A,B add जगृहे ↩︎

  90. W Omits अपि ↩︎

  91. M,Ma अम्भश्शिवं ↩︎

  92. C खां ↩︎

  93. M,Ma तेऽपि च शीर्षमाणमात्मन्यं ↩︎

  94. I,M,Ma विदधत् ↩︎

  95. H,V प्यर ↩︎

  96. W त्याह ↩︎

  97. W प्रक्षा ↩︎

  98. W Omits सुप्सुपा इति समासः यद्वा ↩︎

  99. W पृष्ट ↩︎

  100. M,Ma,W सु ↩︎

  101. A,B Omit हे नारद ↩︎

  102. A,B Omit साधु ↩︎

  103. W कज्ञा ↩︎

  104. A,B Omit मेव ↩︎

  105. A,B Omit उपेयत्वेन ↩︎

  106. W दृप्तेषु ↩︎

  107. M,Ma विदुघत् ↩︎

  108. M,Ma विनष्ट ↩︎

  109. A,B प्रतिह ↩︎

  110. W पहि ↩︎

  111. W पचक्रं ↩︎

  112. M,Ma मास देवो ↩︎

  113. AF,GF प दुःखमा; M,Ma प चाद्धा; W प रुद्धं ↩︎

  114. H,I,V ष्य ↩︎

  115. W दैतेयैः ↩︎

  116. M,Ma हृतं ↩︎

  117. AF,GF द्यन्न ↩︎

  118. B य ↩︎ ↩︎

  119. A,B Omit तत् ↩︎

  120. W Omits त्रिभिः ↩︎

  121. A adds क ↩︎

  122. W Omits पितुः ↩︎

  123. W Omits दण्डकारण्यं यः ↩︎

  124. M,Ma त ↩︎

  125. M,Ma ष ↩︎

  126. W Omits तस्मात् ↩︎

  127. W Omits सः हरिः ↩︎

  128. A,B Omit दूरे ↩︎

  129. W Omits च ↩︎

  130. W Omits ऽब्धिः ↩︎

  131. AF,GF भग्न ↩︎

  132. M,Ma ल ↩︎

  133. M,Ma,W ब्जयरू ↩︎

  134. M,Ma सः ↩︎

  135. M,Ma रितैस्ससैन्यः ↩︎

  136. AF,GF रि ↩︎

  137. W न्यम् ↩︎

  138. W Omits विशेषेण स्फुर्जितैः ↩︎

  139. W अ ↩︎

  140. W नाशाय ↩︎

  141. W भारापहरणार्थमित्यर्थः ↩︎

  142. W adds सितकृष्णकेशः ↩︎

  143. W वर्णितः कृष्णवर्णः ↩︎

  144. A,B Omit तत् ↩︎

  145. A,B कार्याणिः ↩︎

  146. M,Ma पि ↩︎

  147. W टायवृत्तिः ↩︎

  148. C प्र; H,V वि ↩︎

  149. W र्यत् ↩︎

  150. W Omits आदि नवभिः । ↩︎

  151. A,B Omit शकटस्य ↩︎

  152. A,B उपवृत्तिः विपरिवर्तन ↩︎

  153. A,B Omit जानुभ्यां गच्छता ↩︎

  154. W Omits उलूखलमाकर्षता ↩︎

  155. W Omits अत्युच्ययोः ↩︎

  156. W नवृक्ष ↩︎

  157. W Omits उत्पाटनं ↩︎

  158. A तत्, तदितरथा न भाव्यं; B यत्, तदितरथा न क्षाव्यं ↩︎

  159. H,I,M,Ma,V,W तान् ↩︎

  160. M,Ma गोपांस्तु जीव; W बालानजीव ↩︎

  161. W Omits व्रज ↩︎

  162. A,B Omit तत् ↩︎

  163. A,B दिति ↩︎

  164. M,Ma मि ↩︎

  165. AF,GF ले ↩︎

  166. I प्य; N,W य ↩︎

  167. M,Ma द्धु ↩︎

  168. A,B Omit उन्नेष्यति उद्धरिष्यति ↩︎

  169. A,B Omit सबलः ↩︎

  170. A,B Omit उन्नेष्यति ↩︎

  171. H,V च; W ल ↩︎

  172. M,Ma तस्य ↩︎

  173. W Omits श्रीकृष्णस्य ↩︎

  174. W Omits न व्याप्नोति ↩︎

  175. W ल ↩︎

  176. W Omits किमिदमिति शङ्कितयिता ↩︎

  177. M,Ma जल्प्यावृत्तं ↩︎

  178. H,V,W वृ ↩︎

  179. B,C,M,Ma,N के ↩︎

  180. B,C,M,Ma,N ण्ठ उप ↩︎

  181. M,Ma धास्यति ↩︎

  182. W adds नन्दं ↩︎

  183. W वृ ↩︎

  184. W त्यक्तो ↩︎

  185. W मख ↩︎

  186. A,B Omit गोपैः ↩︎

  187. A,B Omit विहते ↩︎

  188. W Omits गोवर्धन ↩︎

  189. A,B अय ↩︎

  190. H,V त्सवः ↩︎

  191. H,V भूव; M,Ma सद्व ↩︎

  192. A,B Omit तच्च ↩︎

  193. A,B Omit व्रजभृद्वधूनां ↩︎

  194. A,B Omits गोपीः ↩︎

  195. B,M,Ma न्येऽपि ↩︎

  196. B,M,V,W सा ↩︎

  197. H,V,W प ↩︎

  198. H,V,W डू ↩︎

  199. A,B ण्ठनि ↩︎

  200. W मिति ↩︎

  201. H,V म्भों ↩︎

  202. H,V,W के ↩︎

  203. W स ↩︎

  204. M,Ma मिता ↩︎

  205. AF,GF युधि ↩︎

  206. W म्भो ↩︎

  207. W म्भो ↩︎

  208. W अयमेव ↩︎

  209. W मि ↩︎

  210. M,Ma श ↩︎

  211. W तीति ↩︎

  212. A,B दूरः पारः ↩︎

  213. N वेद ↩︎

  214. M,Ma विष्ठि ↩︎

  215. H,V,W रचिता ↩︎

  216. M,Ma मूर्तिः ↩︎

  217. H,V भ ↩︎

  218. M,Ma यदभाषत ↩︎

  219. H,I,M,Ma,V,W ष ↩︎

  220. A ख ↩︎

  221. W Omits च ↩︎

  222. W Omits अनेन ↩︎

  223. W Omits इत्यर्थः…… शेषः ↩︎

  224. M,Ma तु योऽहं; W ततोऽह ↩︎

  225. H,I,M,Ma,V ऽथ ↩︎

  226. M,Ma शाः ↩︎

  227. W Omits अवताराः ↩︎

  228. A Omits प्रकृति ↩︎

  229. W Omits महदहङ्कारसूक्ष्म ↩︎

  230. W adds अपि ↩︎

  231. W Omits च ↩︎

  232. W Omits एव ↩︎

  233. W Omits हरि ↩︎

  234. W Omits हंसवैकुण्ठाजित ↩︎

  235. W Omits ज्ञातव्यम् ↩︎

  236. W य ↩︎

  237. W र्गः ↩︎

  238. W तं ↩︎

  239. W पाला ↩︎

  240. W Omits हरश्च ↩︎

  241. A,B,G,N रंहसा; C,I रहसा ↩︎

  242. M,Ma लितं ↩︎

  243. M,Ma न्मां ↩︎

  244. M,Ma,W निशाम्य ↩︎

  245. M,Ma मानम्; W मानात् ↩︎

  246. W Omits च ↩︎

  247. W Omits नार्हतीत्यर्थः ↩︎

  248. W Omits हेतुना ↩︎

  249. W Omits कम्प्यमानात् ↩︎

  250. A,B लिनः ↩︎

  251. W Omits विष्णोर्नु…..रजांसि ↩︎

  252. W Omits त्रेधोरुगायः ↩︎

  253. W Omits कं कः ↩︎

  254. W प्रवच्यादि ↩︎

  255. M,Ma यः प्रजेशाः ↩︎

  256. I ऽवरा ↩︎

  257. W न्तः ↩︎

  258. H,I,V,W ष ↩︎

  259. AF,GF याह्यनन्तः ↩︎

  260. M,Ma वै विदन्त्यति ↩︎

  261. W प्यज्ञा ↩︎

  262. W न्नवस्तु ↩︎

  263. W Omits तान् ↩︎

  264. A,B Omit ते ↩︎

  265. W यया दुस्त ↩︎

  266. A,B तर्त्तु ↩︎

  267. W विनिव ↩︎

  268. W लादीनां ↩︎

  269. M,Ma स्तदपत्यभूताः ↩︎

  270. A,C,I ऋृ ↩︎

  271. W Omits अपि ↩︎

  272. A,B Omit तदात्मजाः…..अपि च ↩︎

  273. W रङ्ग ↩︎

  274. M,Ma,W न ↩︎

  275. M,Ma वदेवव्रताः ↩︎

  276. H,V धू ↩︎

  277. W Omits ऐलः पुरूरवाः ↩︎

  278. A,B Omit गय…..ते ↩︎

  279. W Omits नाहुषः ययतिः ↩︎

  280. A,B Omit शतधन्वनश्चासन्धिरार्षः ↩︎

  281. H,M,Ma,V,W द ↩︎

  282. H,M,Ma,V,W दाः ↩︎

  283. W भ्द ↩︎

  284. AF,GF ताः ↩︎

  285. H,V,W र्ष्णि ↩︎

  286. M,Ma मुख्याः ; AF,GF भूपाः ↩︎

  287. A,W शी ↩︎

  288. W ग्गणा ↩︎

  289. A,B Omit मायां ↩︎

  290. W Omits च ↩︎

  291. A,B गपि ↩︎

  292. A,B ती ↩︎

  293. W Omits अपि ↩︎

  294. W Omits तत्र ↩︎

  295. W Omits श्लोक ↩︎

  296. A,B Omit माया ↩︎

  297. A,B Omit अत एव ↩︎

  298. A,B ति ↩︎

  299. A,B Omit स्या ↩︎

  300. W णधर्म ↩︎

  301. A,B Omit हि ↩︎

  302. M,Ma म्यङ्निशाम्य ↩︎

  303. M,Ma लोकहेतुम्; W कर्तृहेतुम् ↩︎

  304. M,Ma सुधामिव ↩︎

  305. W Omits किञ्च ↩︎

  306. A च्च ↩︎

  307. A स्वरूपं; B स्वरूपे ↩︎

  308. A,B र्तहेति ↩︎

  309. A,B र्त ↩︎

  310. A,B र्त ↩︎

  311. A,B तिं ↩︎

  312. A,B य ↩︎

  313. W ततः ↩︎

  314. M,Ma द्धः ↩︎

  315. M,Ma मेतु ↩︎

  316. AF,GF तः ↩︎

  317. W Omits सतः ↩︎

  318. W Omits प्र ↩︎

  319. W कर्म ↩︎

  320. A,B Omit सं ↩︎

  321. A,B Omit विगमे ↩︎

  322. A,B Omit ऽपि ↩︎

  323. W पि ↩︎

  324. W त्तत् ↩︎

  325. A,B Omit विश्वभावनः ↩︎

  326. M,Ma तदेतत् ↩︎

  327. H तं; V वं ↩︎

  328. A,B Omit स्य ↩︎

  329. AF,GF वर्ण्यताम् ↩︎

  330. A,B माह ↩︎

  331. A Omits भविष्यति ↩︎

  332. H,V लीलां ↩︎

  333. H,V दितुः ↩︎