०६

[षष्ठोऽध्यायः]

भागसूचना

विराट्स्वरूपकी विभूतियोंका वर्णन

श्लोक-१

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च॥

मूलम्

वाचां1 वह्नेर्मुखं क्षे2त्रं छन्दसां सप्तधातवः।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च॥ १ ॥

अनुवाद (हिन्दी)

ब्रह्माजी कहते हैं—उन्हीं विराट् पुरुषके मुखसे वाणी और उसके अधिष्ठातृदेवता अग्नि उत्पन्न हुए हैं। सातों छन्द* उनकी सात धातुओंसे निकले हैं। मनुष्यों, पितरों और देवताओंके भोजन करनेयोग्य अमृतमय अन्न, सब प्रकारके रस, रसनेन्द्रिय और उसके अधिष्ठातृदेवता वरुण विराट् पुरुषकी जिह्वासे उत्पन्न हुए हैं॥ १॥

पादटिप्पनी
  • गायत्री, त्रिष्टुप्, अनुष्टुप्, उष्णिक्, बृहती, पङ‍‍्क्ति और जगती—ये सात छन्द हैं।
वीरराघवः

एवं कृत्स्नप्रपञ्चस्य महदादिक्रमेण सृष्टस्य वैराजविभूतित्वं अभिधाय तदेव पुरुषसूक्तसंवादेन दृढीकुर्वन् यद्रूपं इत्यादेः उत्तरमाह वाच इति । वाचो वागिन्द्रियस्य तदधिष्ठातृदेवताभूताग्नेश्च भगवन्मुखं स्थानमाश्रयः छ3न्दसां गायत्र्युष्णिग्बृहतीपंक्तिजगतीत्रिष्टुबनुष्टभां सप्तानां छन्दसां, सप्तधातवः त्वगादि सप्तधातुस्थानीया भगवद्विग्रहावयवाः स्थानं, हव्यं देवानामन्नं कव्यं पितॄणाम्, अमृतं तदुभयशे4षं मनुष्याणां एषां अन्नानां सर्वरसस्य च5 मधुरादेः षड्विधस्य चकारात् अस्मदादिरसनेन्द्रियस्य तदधिष्ठातुः वरुणस्य च । तस्य जिह्वा क्षेत्रम् । एवं सर्वत्र अनुक्तमुन्नेयम् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

सर्वासूनां च वायोश्च तन्नासे परमायने।
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः॥

मूलम्

सर्वासूनां च वायोश्च तन्नासे परमायने6
अश्विनोरोषधीनां च घ्राणो7 मो8दप्रमोदयोः॥ २ ॥

अनुवाद (हिन्दी)

उनके नासाछिद्रोंसे प्राण, अपान, व्यान, उदान और समान—ये पाँचों प्राण और वायु तथा घ्राणेन्द्रियसे अश्विनीकुमार, समस्त ओषधियाँ एवं साधारण तथा विशेष गन्ध उत्पन्न हुए हैं॥ २॥

वीरराघवः

सर्वासूनां अस्मदादिप्राणानां वायोश्च तस्य नासे नासारन्ध्रे परमायने उत्तमक्षेत्रं9 ओषधीनां अश्विनोः मोदप्रमोदयोश्च तद्घ्राणेन्द्रियं स्थानम् । मोदः अनुकूलवस्तुदर्शनजसुखविशेषः, प्रमोदस्तु अनुकूलवस्तुनः स्वीयत्वबुद्धि10जसुखविशेष इति भेदः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी।
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः।
तद‍्गात्रं वस्तुसाराणां सौभगस्य च भाजनम्॥

मूलम्

रूपाणां तेजसां चक्षुः दिवः सूर्यस्य चाक्षिणी।
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः।
तद‍्गात्रं वस्तुसाराणां सौभ11गस्य च भाजनम्॥ ३ ॥

अनुवाद (हिन्दी)

उनकी नेत्रेन्द्रिय रूप और तेजकी तथा नेत्र-गोलक स्वर्ग और सूर्यकी जन्मभूमि हैं। समस्त दिशाएँ और पवित्र करनेवाले तीर्थ कानोंसे तथा आकाश और शब्द श्रोत्रेन्द्रियसे निकले हैं। उनका शरीर संसारकी सभी वस्तुओंके सारभाग तथा सौन्दर्यका खजाना है॥ ३॥

वीरराघवः

रूपाणां शुक्लादीनां, तेजसां रूपप्रकाशकानां च च12क्षुः तच्चक्षुरिन्द्रियं स्थानम् । दिवः सूर्यस्य चाक्षिणी तन्नेत्रगोलकौ13 स्थानम् । सर्वत्र षष्ठ्यन्तनिर्दिष्टानां प्रथमान्तनिर्दिष्टं क्षेत्रं द्रष्टव्यम् । दिशां तीर्थानां च14 तत्कर्णौ कर्णबिले स्थानम् । आकाशशब्दयोः तच्छ्रोत्रम् । वस्तूनां ये सारांशाः तेषां सौभगस्य स्पृहणीयतायाश्च तद्गात्रं तच्छरीरं भाजनं स्थानम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि।
रोमाण्युद‍्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः॥

मूलम्

त्वगस्य स्पर्शवाय्वो15श्च सर्वमेधस्य चैव हि।
रोमाण्युद‍्भिज्ज16जाती17नां यैर्वा यज्ञस्तु सम्भृतः॥ ४ ॥

अनुवाद (हिन्दी)

सारे यज्ञ, स्पर्श और वायु उनकी त्वचासे निकले हैं; उनके रोम सभी उद‍्भिज्ज पदार्थोंके जन्मस्थान हैं, अथवा केवल उन्हींके, जिनसे यज्ञ सम्पन्न होते हैं॥ ४॥

वीरराघवः

स्पर्शवाय्वोः सर्वमेधस्य समस्तयज्ञस्य च अस्य त्वक् स्थानम् । उद्भिज्जजाती18नां सर्ववृक्षाणां यैर्वृक्षैः यज्ञः स19म्भृतः सम्य20क् साधितः तेषामेव वा, तद्रोमाणि स्थानम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम्।
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्॥

मूलम्

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम्।
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्॥ ५ ॥

अनुवाद (हिन्दी)

उनके केश, दाढ़ी-मूँछ और नखोंसे मेघ, बिजली, शिला एवं लोहा आदि धातुएँ तथा भुजाओंसे प्रायः संसारकी रक्षा करनेवाले लोकपाल प्रकट हुए हैं॥ ५॥

वीरराघवः

शिलालोहाभ्रविद्युतां अस्य केशश्मश्रुनखानि स्थानम् । नखानि शिलालोहयोः स्थानं, अभ्रविद्युतोः केशश्मश्रूणीति विवेकः । क्षेमकर्मणां रक्षाकारिणां लोकपालानामिन्द्रादीनां तद्बाहवः स्थानम् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च।
सर्वकामवरस्यापि हरेश्चरण आस्पदम्॥

मूलम्

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च।
सर्वकामवरस्यापि हरेश्चरण आ21स्पदम्॥ ६ ॥

अनुवाद (हिन्दी)

उनका चलना-फिरना भूः, भुवः, स्वः—तीनों लोकोंका आश्रय है। उनके चरणकमल प्राप्तकी रक्षा करते हैं और भयोंको भगा देते हैं तथा समस्त कामनाओंकी पूर्ति उन्हींसे होती है॥ ६॥

वीरराघवः

भूर्भुवः स्वरिति षष्ठीबहुवचनान्तम् । भूरादीनां त्रयाणां लोकानां विक्रमस्तस्य त्रिविधपादविन्यासः स्थानं, क्षेमस्य प्राप्तरक्षणस्य शरणस्य च22 अनिष्टनिवारणस्य सर्वेषां कामानां वरस्य श्रेष्ठस्यापि हरेश्चरणः23 पादः आस्पदं आश्रयः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः।
पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः॥

मूलम्

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः।
पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः॥ ७ ॥

अनुवाद (हिन्दी)

विराट् पुरुषका लिंग जल, वीर्य, सृष्टि, मेघ और प्रजापतिका आधार है तथा उनकी जननेन्द्रिय मैथुनजनित आनन्दका उद‍्गम है॥ ७॥

वीरराघवः

अपां वीर्यस्य शुक्ल24स्य, स्वर्गस्य सृष्टेः पर्जन्यस्य प्रजापतेश्च पुंसो भगवतः शिश्नः उपस्थेन्द्रियाधिष्ठानं आस्पदं इत्यर्थः । प्रजात्यानन्दः सन्तानार्थं सम्भोगस्तेन या निर्वृतिः तापहानिः तस्याः तदुपस्थेन्द्रियं आश्रयः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद।
हिंसाया निर्ऋतेर्मृत्योर्निरयस्य गुदः स्मृतः॥

मूलम्

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद।
हिंसाया निऋृतेर्मृत्योः निरयस्य गु25दः स्मृतः॥ ८ ॥

अनुवाद (हिन्दी)

नारदजी! विराट् पुरुषकी पायु-इन्द्रिय यम, मित्र और मलत्यागका तथा गुदाद्वार हिंसा, निर्ऋति, मृत्यु और नरकका उत्पत्तिस्थान है॥ ८॥

वीरराघवः

यमस्य मित्रस्य परिमोक्षस्य मलत्यागस्य च तस्य पाय्विन्द्रियाश्रयः हिंसादीनां तद्गुदः आश्रयः । पायुरिन्द्रियं गुदं अधिष्ठानम् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

पराभूतेरधर्मस्य तमसश्चापि पश्चिमः।
नाड्यो नदनदीनां तु गोत्राणामस्थिसंहतिः॥

मूलम्

पराभूतेरधर्मस्य26 तमसश्चापि पश्चिमः27
नाड्यो नदनदीनां तु28 गोत्राणामस्थिसंहतिः॥ ९ ॥

अनुवाद (हिन्दी)

उनकी पीठसे पराजय, अधर्म और अज्ञान, नाड़ियोंसे नद-नदी और हड्डियोंसे पर्वतोंका निर्माण हुआ है॥ ९॥

वीरराघवः

पराभूतेः अलक्ष्म्याः अधर्मस्य त29मसः अज्ञानस्यापि पश्चिमः तत्पृष्टभागः आश्रयः नदनदीनां तन्नाड्यः स्थानम्, गोत्राणां गिरीणां तदस्थिसंघः स्थानम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अव्यक्तरससिन्धूनां भूतानां निधनस्य च।
उदरं विदितं पुंसो हृदयं मनसः पदम्॥

मूलम्

अव्यक्तरससिन्धूनां भूतानां विधनस्य च।
उदरं विदितं पुंसो हृदयं मनसः पदम्॥ १० ॥

अनुवाद (हिन्दी)

उनके उदरमें मूल प्रकृति, रस नामकी धातु तथा समुद्र, समस्त प्राणी और उनकी मृत्यु समायी हुई है। उनका हृदय ही मनकी जन्मभूमि है॥ १०॥

वीरराघवः

अव्यक्तं प्रधानं, रसः अन्नादिरसः, सिन्धवः समुद्राः, तेषां भूतानां निधनस्य लयस्य च तदुदरं स्थानं विदितम् । मनसः सर्वदेहिमनस्तत्त्वस्य पुंसः ईश्वरस्य यद्धृदयं तत्पदं स्थानम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम्॥

मूलम्

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च।
विज्ञानस्य च स30त्त्वस्य परस्याऽऽत्मा परायणम्॥ ११ ॥

अनुवाद (हिन्दी)

नारद! हम, तुम, धर्म, सनकादि, शंकर, विज्ञान और अन्तःकरण—सब-के-सब उनके चित्तके आश्रित हैं॥ ११॥

वीरराघवः

धर्मस्य मम चतुर्मखस्य, तुभ्यं तव कुमाराणां सनकादीनां भवस्य रुद्रस्य च31 विज्ञानस्य च तत्त्वस्य महत्तत्त्वस्य परस्य भगवतः आत्मऽन्तःकरणं परायणं श्रेष्ठस्थानम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अहं भवान् भवश्चैव त इमे मुनयोऽग्रजाः।
सुरासुरनरा नागाः खगा मृगसरीसृपाः॥

मूलम्

अहं भवान् भवश्चैव त32 इमे मुनयोऽग्रजाः।
सुरासुर33नरा34 नागाः खगा मृगसरीसृपाः॥ १२ ॥

वीरराघवः

एवं परमात्मनो जातं कृत्स्नं जगत् तद्विभूतिभूतं तच्छरीरत्त्वेन ततो35 न विविक्तमित्युक्तम् । एतदेव पुरुषसूक्तार्थकथनेन प्रथयति त36त्र “सहस्रशीर्षा” (तैत्ति. आ. 3-32-33) इत्यर्द्धर्चस्य “ब्राह्मणोऽस्य मुखमासीत्” (तैत्ति. आ. 3-36-37) इत्यादेश्च अर्थः पूर्वाध्याये कथितः । “पुरुष एवेदं सर्वं” (तैत्ति.आ.3-32-33) इत्यस्य अर्थमाह - अहं इत्यादिभिः सार्धैः स्त्रिभिः । अहं चतुर्मुखः भवान् नारदः भवो रुद्रः अग्रजाः मुनयः सनकादयः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः।
पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः॥

मूलम्

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः।
पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः॥ १३ ॥

वीरराघवः

विद्याध्रा विद्याधराः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अन्ये च विविधा जीवा जलस्थलनभौकसः।
ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः॥

मूलम्

अन्ये च विविधा जीवाः जलस्थलनभौकसः।
ग्रहर्क्षकेतवस्ताराः तडि37तः स्तनयित्नवः॥ १४ ॥

वीरराघवः

जलं स्थलं नभश्च ओकांसि स्थानानि येषां ते ज38लस्थलनभौकसः । न39भौकस इति सन्धिरार्षः । ग्रहाः सूर्यादयः, ऋक्षाणि नक्षत्राणि, के40तवः केतुसदृशानि नक्षत्राणि, तारा अपि नक्षत्रस्यैव भिदा । त41डितः विद्युतः स्तनयित्नवो मेघाः गर्जितानि वा ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत्।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति॥

मूलम्

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत्।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति42॥ १५ ॥

अनुवाद (हिन्दी)

(कहाँतक गिनायें—) मैं, तुम, तुम्हारे बड़े भाई सनकादि, शंकर, देवता, दैत्य, मनुष्य, नाग, पक्षी, मृग, रेंगनेवाले जन्तु, गन्धर्व, अप्सराएँ, यक्ष, राक्षस, भूत-प्रेत, सर्प, पशु, पितर, सिद्ध, विद्याधर, चारण, वृक्ष और नाना प्रकारके जीव—जो आकाश, जल या स्थलमें रहते हैं—ग्रह-नक्षत्र, केतु (पुच्छल तारे) तारे, बिजली और बादल—ये सब-के-सब विराट् पुरुष ही हैं। यह सम्पूर्ण विश्व—जो कुछ कभी था, है या होगा—सबको वह घेरे हुए है और उसके अंदर यह विश्व उसके केवल दस अंगुलके* परिमाणमें ही स्थित है॥ १२—१५॥

पादटिप्पनी
  • ब्रह्माण्डके सात आवरणोंका वर्णन करते हुए वेदान्त प्रक्रियामें ऐसा माना गया है कि—पृथ्वीसे दसगुना जल है, जलसे दसगुना अग्नि, अग्निसे दसगुना वायु, वायुसे दसगुना आकाश, आकाशसे दसगुना अहंकार, अहंकारसे दसगुना महत्तत्त्व और महत्तत्त्वसे दसगुनी मूल प्रकृति है। वह प्रकृति भगवान‍्के केवल एक पादमें है। इस प्रकार भगवान‍्की महत्ता प्रकट की गयी है। यह दशांगुलन्याय कहलाता है।
वीरराघवः

किं बहुना, यच्च कालत्रयवर्तिवस्तुजातं वि43दितं सर्वं पुरुष एव प44रमपुरुष एव कालत्रयवर्ति कृत्स्नवस्तुजातशरीरकत्वात् अपुरुषशरीरभूतं स्वतन्त्रं वस्तु नास्तीत्यर्थः । नामरूपविभागानर्हातिसूक्ष्म प्रकृतिपुरुषकालशरीरकस्य परमपुरुषस्यैव विभक्तनामरूपप्रकृतिपुरुषशरीरकपरमात्माऽऽत्मक जगदाकारेण अवस्थानात् अयं ऐक्योपदेशः उपपन्नः । सर्वत्र वेदान्तेषु एवमेव हि ऐक्यम् - “सर्वं खल्विदं ब्रह्म” (च्छान्दो. उ.3-14-1) “अयमात्मा ब्रह्म” (बृह. उ.6-4-5) “तत्त्वमसि” (छान्दो. उ.6-8-7) इत्यादिभिः उपदिश्यते “पुरुष एवेदं” (तैत्ति. आ. 3-32-33) इति । सामानाधिकरण्यस्य व्याप्तिनिबन्धनत्त्वमाह तेनेति । “अधोनिष्ठ्या वितस्त्यांते नाभ्यामुपरि तिष्ठति हृदयं तद्विजानीयात् विश्वस्यायतनं महत्” (मना. उ.26) इति श्रुत्युक्तदिशा नाभ्या उपरि वितस्तिपरिच्छिन्नप्रदेशान्ते स्थितं हृदयं अधितिष्ठता तेन परमात्मना इदं विश्वं आवृतं व्याप्तम् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान्॥

मूलम्

स्वधिष्ण्यं प्र45तपन् प्राणो बहिश्च प्रतपत्यसौ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान्॥ १६ ॥

अनुवाद (हिन्दी)

जैसे सूर्य अपने मण्डलको प्रकाशित करते हुए ही बाहर भी प्रकाश फैलाते हैं, वैसे ही पुराणपुरुष परमात्मा भी सम्पूर्ण विराट् विग्रहको प्रकाशित करते हुए ही उसके बाहर-भीतर—सर्वत्र एकरस प्रकाशित हो रहा है॥ १६॥

वीरराघवः

असौ हृदयान्तर्वर्ती प्राणः परमात्मा स्वधिष्ण्यं स्वा46ऽऽवासस्थानं शरीरं प्रतपन् अन्तर्व्याप्त्या प्रशासनाधीनं कुर्वन् बहिश्च स्वधिष्ण्याद्बहिष्ठमपि वस्तुजातं प्रशासनाधीनं यथा करोति - एवं विराजं विराट्शब्दवाच्यानिरुद्धकार्यं प्रपञ्चं प्रशासनाधीनं कुर्वन् अन्तर्बहिश्च प्रशासनाधीनं करोतीत्यर्थः । अत्र कार्य कारणोपचारात् विराट्शब्दः ब्रह्माण्डपरः, एतेन अपरिच्छन्नत्वप्रतिपादकं “स भूमिं विश्वतो वृत्वा” इत्यर्द्धर्चं व्याख्यातं भवति । सः परमात्मा भूमिं ब्रह्माण्डरूपं प्रपञ्चं विश्वतः सर्वतः वृत्त्वा व्याप्य भूमिं दशाङ्गुलमात्रं अतिक्रम्य स्थितः “अत्यतिष्ठद्दशाङ्गुलं” इत्याधिक्यमात्रं विवक्षितं न प्रमाणं अनुपयोगात् अपरिच्छिन्नत्वात् चेति तस्य अर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः॥

मूलम्

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः॥ १७ ॥

अनुवाद (हिन्दी)

मुनिवर! जो कुछ मनुष्यकी क्रिया और संकल्पसे बनता है, उससे वह परे है और अमृत एवं अभयपद (मोक्ष)-का स्वामी है। यही कारण है कि कोई भी उसकी महिमाका पार नहीं पा सकता॥ १७॥

वीरराघवः

जीवान्तरात्मत्वेन वसतोऽपि प47रमपुरुषस्य भोक्तृत्वं मोक्षप्रदत्वं च प्रतिपादयन्48 “उतामृतत्वस्य” इत्यस्यार्थमाह इति । न विद्यते भयं यस्मात् तस्यामृतस्य मोक्षस्येशः प्रदाता यद्यस्मात् मर्त्यमनित्यमन्नं भोग्यं कर्मफलमत्यगात् श्रुतावन्नेनेति व्यत्ययेन द्वितीयार्थे तृतीया । अतिक्रम्य स्थितः । “अनश्नन्नन्यो अभिचाकशीति” इति श्रुत्युक्तरीत्याऽसंम्भावितकर्मफलसम्बन्धत्वात् परमात्मा मोक्षद इत्यर्थः । शरीरान्तः49स्थितिः जीववैलक्षण्यं चे50त्यनुपपन्नमित्याशङ्कायां “एतावानस्य महिमे” त्यस्यार्थमाह महिमेति । पुरुषस्य कृत्स्त्नचिदचिदात्मकप्रपञ्चस्य अन्तर्बहिश्च व्याप्य सर्वं स्वप्रशासनाधीनं कुर्वतः परमात्मनः एष महिमा अमृतत्वे51शानत्वरूप52महिमा दुरत्ययः अपारकृत्स्नप्रपञ्चात्मकत्वेनावस्थितस्यापि प्रपञ्चगतदोषासंस्पर्शित्वममृतेशितृत्वं चेत्येतदनुपपद्यमानमपि तस्य महिम्ना उपपद्यत इत्यभिप्रायः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः।
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु॥

मूलम्

पादे53षु सर्वभूतानि पुंसः स्थितिप54दो विदुः।
अमृतं क्षेममभयं त्रिमूर्ध्नो55ऽधा56यि मूर्धसु57॥ १८ ॥

अनुवाद (हिन्दी)

सम्पूर्ण लोक भगवान‍्के एक पादमात्र (अशंमात्र) हैं, तथा उनके अंशमात्र लोकोंमें समस्त प्राणी निवास करते हैं। भूलोक, भुवर्लोक और स्वर्लोकके ऊपर महर्लोक है। उसके भी ऊपर जन, तप और सत्यलोकोंमें क्रमशः अमृत, क्षेम एवं अभयका नित्य निवास है॥ १८॥

वीरराघवः

अपारमहिमत्वमेव प्रतिपादयतः “पादोऽस्य विश्वा भूतानि” इति वाक्यास्यार्थमाह पादेष्विति । तिष्ठन्त्यत्रेति स्थितयो भूरादयो लोकास्ते पाद इव पादाः अंशाः यस्य स स्थि58तिपात् तस्य पादेष्वंशभूतेषु लोकेषु सर्वभूतानि देवादिचतुर्विधभूतानि विदुः । एतेन मन्त्रेऽपि “पादोऽस्य विश्वा भूतानि” इति सामानाधिकरण्यमधिष्ठानाधिष्ठेय59योरभेदविवक्षया पाद इत्येकवचनं च60 सामान्याभिप्रायेणेति व्याख्यातं भवति । बद्धमुक्तयोरसाङ्कर्येण प्राप्यस्थानानां तद्विभूतित्वप्रतिपादकस्य “त्रिपादस्यामृतं दिवि” इत्यादेरर्थमाह अमृतमिति । अस्येश्वरस्य सम्बन्धि त्रिपात् त्रिविधम् अमृतं अक्षय्यसुखं दिवि प्रकृतिमण्डलाद्बहिरिति61 श्रुत्यर्थः । अत्र त्रिपाच्छब्दोक्तत्रि62विधत्वं दर्शयन्नाह - अमृतं मरणादि विकारराहित्यम्, अभयं तत्कार्यभयराहित्यं, क्षेमं इष्टप्राप्तिरूपलक्षणं निरतिशयानन्दप्रापणमित्यर्थः । अपहतपाप्मत्वादि गुणाष्टकाविर्भवरूप63 मुक्तैश्वर्यं कोटित्रये64ण संगृहीतम् । अमृतमिति विरजविमृत्युशब्दार्थः उक्तः । क्षेममिति सत्यकामत्वाद्यनुवृत्तिरुक्ता । अभयमित्यपहतपाप्मविशोकादिशब्दार्थः उक्तः । पाप्मा हि भयहेतुः । भयमिति च65 शोकादिसर्वदुःखप्रदर्शनम् । एवं त्रिमूर्धा त्रिविधं मु66क्तैश्वर्यं मूर्धनि उपरिष्टादित्यर्थः । “तमसः परस्तात्" इतिवत् लीलाविभूतेः परस्तादमृतं क्षेममभयं चाधायि विहितमित्यर्थः मूर्धस्विति पाठे उपरिष्टाद्वर्तमानेषु त्रि67षु पादेष्वित्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्‍व्रतः॥

मूलम्

पादास्त्रयो बहिश्चा68सन् न प्रजानां य आश्रमाः69
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो70ऽबृहद्‍व्रतः॥ १९ ॥

अनुवाद (हिन्दी)

जन, तप और सत्य—इन तीनों लोकोंमें ब्रह्मचारी, वानप्रस्थ एवं संन्यासी निवास करते हैं। दीर्घकालीन ब्रह्मचर्यसे रहित गृहस्थ भूलोक, भुवर्लोक और स्वर्लोकके भीतर ही निवास करते हैं॥ १९॥

वीरराघवः

बद्धेभ्यो मुक्ता67नां जीवानां बहुत्वम्, तत्प्राप्यस्थानानन्त्यमुभयोस्तद्विभूतित्वं, बद्धानामल्पीयस्त्वंतत्प्राप्यस्थानं तस्यापि तद्विभूतित्वं च प्रतिपादयतः “त्रिपादूर्ध्वं” इत्यादेरर्थमाह पादा इति । 71त्रयः पादा यस्य सः त्रिपात् पुरुषः परमपुरुषः ऊर्ध्वं प्रकृतिप्राकृतेभ्यः उपरिष्ठादुदेदुदयं गतः स्वेच्छोपात्तदिव्यमङ्गलविग्रहः समस्तमुक्तनित्यभोग्यः आस्त इत्यर्थः । अत्र पाच्छब्दः पादवदंशत्वेनावस्थिता72नां मुक्तानां तत्प्राप्यस्थानस्य च भागानाह । एवं च त्रयः पादाः मुक्तजीववर्गस्य तत् प्राप्यस्थानस्य च भागाः विभूतित्वेन यस्य स त्रिपात् । बद्धजीव-तत्प्राप्यस्थानापेक्षया मुक्ततत्प्राप्यस्थानानां त्रिभागत्व73कथनं अनन्तत्वतात्पर्यकम् । अस्य परमपुरुषस्य पादः विभूतिभूतः एको भागः । इह प्रकृतिमण्डलेऽभवद्वद्धः74 तत्प्राप्यस्थानानि च “एकांशेन स्थितो जगत्” त75स्यायुतायुतशतैककलांशकांशे । विश्वं विचित्रचिदचित्प्रविभागवृत्त" मित्युक्तप्रकारेण तद्विभूत्येकदेश इति श्रुत्यर्थः । एतदेव व्याचष्टे पादा इति । त्रयः पादास्तु बहिः प्रकृतेः प्राकृतेभ्यो बहिरासन् । ये तस्य पादास्तेऽप्रजानां जन्मरहितानां मुक्तानामाश्रयाः प्राप्या इत्यर्थः । एकस्य पा76दस्य बहिष्ठत्वमाह अन्तरिति । अपरः सांसारिक क्षेत्रज्ञवर्गप्राप्यस्थानरूपः पादः त्रिलोक्याः अन्तरित्यर्थः । तमेव पादं विशिनष्ठि गृहमेधः अहङ्कारममकारादिमान्वर्णाश्रमान्वितश्चेत्यर्थः । बृहद्व्रतः कर्मवश्यः उपचारात्प्रा77प्ते प्राप्तृधर्मव्यपदेशः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

सृती विचक्रमे विष्वङ् साशनानशने उभे।
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः॥

मूलम्

सृती विचक्रमे विष्वङ्78 साशनानशने उभे।
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः॥ २० ॥

अनुवाद (हिन्दी)

शास्त्रोंमें दो मार्ग बतलाये गये हैं—एक अविद्यारूप कर्ममार्ग, जो सकाम पुरुषोंके लिये है और दूसरा उपासनारूप विद्याका मार्ग, जो निष्काम उपासकोंके लिये है। मनुष्य दोनोंमेंसे किसी एकका आश्रय लेकर भोग प्राप्त करानेवाले दक्षिणमार्गसे अथवा मोक्ष प्राप्त करानेवाले उत्तरमार्गसे यात्रा करता है; किन्तु पुरुषोत्तमभगवान् दोनोंके आधारभूत हैं॥ २०॥

वीरराघवः

एवमपारमहिमत्वमुपपाद्याथ प्रस79ङ्गाद् बुभुक्षुमुमुक्षूणां च भगवल्लीलाविभूतित्रिपाद्विभूतिगतिहेतुमार्गद्वयप्रतिपादकं “ततो विष्वङ्” इति वाक्यं व्याचष्टे सृती इति । विविधं सुष्ठु अञ्चतीति विष्वङ् क्षेत्रज्ञः सृती धूमाद्यर्चिरादिमार्गौ विचक्रमे आक्रमदाक्रान्तवानित्यर्थः । कथाभूते सृती ? साशनानशने अशनं भोगः भोगार्थत्वतदभावाभ्यां मार्गयोः साशनत्वानशनत्वे । साशनानशनलक्षणमार्गद्वयप्राप्त्युपायमाह यदिति । य80त् यत्र मार्गद्वयमध्ये अविद्या कर्म “अविद्याकर्मसंज्ञाऽन्या” इत्याद्युक्तेः81 कर्मरूपाऽविद्याधूमादिमार्गप्राप्त्युपायभूता एका, विद्या अर्चिरादिप्राप्त्युपायभूता परमात्मोपासनरूपा अपरा । पुरुषो जीवस्तूभयाश्रयः साधनद्वयनिष्ठः “(ते) तं विद्याकर्मणी समन्वारभेते” इति श्रुतेः । समन्वारभेते संग82च्छेते इत्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मकः।
तद् द्रव्यमत्यगाद् विश्वं गोभिः सूर्य इवातपन्॥

मूलम्

83स्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्म84कः।
तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाऽऽत85पन्86॥ २१ ॥

अनुवाद (हिन्दी)

जैसे सूर्य अपनी किरणोंसे सबको प्रकाशित करते हुए भी सबसे अलग हैं, वैसे ही जिन परमात्मासे इस अण्डकी और पंचभूत, एकादश इन्द्रिय एवं गुणमय विराट्की उत्पत्ति हुई है—वे प्रभु भी इन समस्त वस्तुओंके अंदर और उनके रूपमें रहते हुए भी उनसे सर्वथा अतीत हैं॥ २१॥

वीरराघवः

एवं बुभुक्षुमुमुक्ष्वधिकारिभेदेन तद्गन्तव्यमार्गद्वयं तदुपायं चोक्त्वाऽथ भगवतः स्वविभूतिभूतप्रपञ्चाद्वैलक्षण्यं, भगवतः87 प्रपञ्चाकारेण परिणामं88 तद्गतदोषासंस्पर्शित्वं च प्रतिपादयत् “तस्माद्विराडजायत” इत्यादिवाक्यं व्याचष्टे 89स्मादिति । विराट् अण्डकारणभूतो विराट्पुरुषोऽनिरुद्धः अण्डादिति ल्यब्लोपे पञ्चमी । यस्मात्स्वशरीरभूतात् प्रधानादु90पादानाद्यदण्डं सृष्ट्वा स्वयमपि भूतेन्द्रियगुणात्मकः देवादिव्यष्टिप्रपञ्चानु91रूपो जज्ञे त92त्प्रधानं तदण्डरूपं च93 सर्वं द्रव्यमत्यगान्न तत्र परिच्छिन्नः - बहिरपि व्याप्तवानित्यर्थः । त92त्र दृष्टान्तः आश्रयाद्धट94पटादिपदार्थजातात् गोभिः किरणैरादित्य इवात्यगादि95त्यर्थः । वेदान्तेषु सत्कार्यवादस्याभिहितत्वात्कारणभूतो विराडेव व्यष्टिरूपेण जज्ञे । सूक्ष्मचिदचिच्छ96रीरको भगवानेव स्थूलचिदचिच्छ97रीरको जातः । जातश्च स्वयं स्वशरीरभूतचेतनाचेतनगतदोषैरस्पृष्टः स्वकार्यभूतकृत्स्त्नप्रपञ्चमन्तर्बहिश्च व्याप्य व्य98वस्थितः इत्यर्थः । नामरूपविभागानर्हसूक्ष्मप्रकृतिपुरुषशरीरकस्य परमपुरुषस्य जगदुपादानत्वादुपादानत्वस्यावस्थाश्रयत्वरूपत्वात्प्रकृतिपुरुषेश्वराणां त्रयाणामप्यवस्थाश्रयत्वमस्त्येव । तत्राचेतनस्यावस्थाश्रयत्वं स्वरूपान्यथाभावरूपं, चेतनस्य तु स्वभावान्यथाभावरूपं, ईश्वरस्य तु कार्यावस्थचेतनाचेतननियन्तृत्वरूपम् । नहि कारणावस्थचेतनाचेतननियमनात्कार्यावस्थाचेतनाचेतननियमनमभिन्नमिति वक्तुं शक्यम् । किञ्चेश्वरस्य सद्वारकावस्थाश्रयत्वमस्त्येव । एवमसाङ्कर्येणावस्थानां प्रतिनियतत्वाछुक्लनीलादितन्त्वारब्धे पटे शौक्ल्यादेस्तत्तत्प्र99देशगतत्ववच्चेतनाचेतनगताः धर्माः अज्ञत्वपरिणामित्वादयः, तत्रैवावतिष्ठन्ते न परमात्मानं स्पृशन्ति । परमात्मा तु स्वयं निरस्तनिखिलदोषोऽनवधिकातिशयासंख्येयकल्याणगुण100गणः स्वशरीरभूतचेतनाचेतनगतस्वपर्यन्तनामरूपनिर्वाहकः कारणावस्थ 101चेतनाचेतनशरीरकत्वेन तद्वाचिभिः शब्दैरभिधीयमानः सर्ववस्तुसमानाधिकृतोऽवतिष्ठत इत्ययमत्र सङ्ग्रहः । श्रुत्यर्थस्तु तस्मात्परमप्रस्तुतकारणपुरुषाद्विराडनिरुद्धो जज्ञेऽवतीर्णः । विराजोऽनिरुद्धाद्वैराजो ब्रह्माण्डशरीरकः पुरुषो जज्ञे । जातश्च स वैराजः भूमिं विश्वं पश्चादुपरिष्ठादधः अन्तश्चाऽत्यतिरिच्यते तद्विलक्षणो व्याप्तवानिति ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यदास्य नाभ्यान्नलिनादहमासं महात्मनः।
नाविदं यज्ञसम्भारान् पुरुषावयवादृते॥

मूलम्

यदास्य नाभ्यान्नलिनादहमासं महात्मनः।
नाविन्दं102 यज्ञसम्भारान् पुरुषावयवादृ103ते॥ २२ ॥

अनुवाद (हिन्दी)

जिस समय इस विराट् पुरुषके नाभिकमलसे मेरा जन्म हुआ, उस समय इस पुरुषके अंगोंके अतिरिक्त मुझे और कोई भी यज्ञकी सामग्री नहीं मिली॥ २२॥

वीरराघवः

नन्वेवं पुरुष एव चेत् सर्वं तर्हि यज्ञस्य तत्साधनानां चापृथग्भावाद्यज्ञैः पुरुषाराधनं न सिध्ये104दित्याशङ्क्य तत्परिहाराय यत्पुरुषेत्यादिमन्त्रार्थं संगृह्य दर्शयति यदेति । महात्मनः अस्य विराडाख्यानिरुद्धस्य नाभौ भवं नाभ्यं तथाभूतान्नलिनात्कमलादहं चतुर्मुखः यदा आसमभू105वं तदा पुरुषावयवाद्विना यज्ञसम्भारान् अन्यानि यज्ञसाधनानि नाविन्दम् नापश्यम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः।
इदं च देवयजनं कालश्चोरुगुणान्वितः॥

मूलम्

तेषु यज्ञ106स्य पशवः सवनस्पतयः कु107शाः।
इदं च देवयजनं काल108श्चोरुगुणान्वितः॥ २३ ॥

अनुवाद (हिन्दी)

तब मैंने उनके अंगोंमें ही यज्ञके पशु, यूप (स्तम्भ), कुश, यह यज्ञभूमि और यज्ञके योग्य उत्तम कालकी कल्पना की॥ २३॥

वीरराघवः

तेषु पुरुषावयवेषु यज्ञस्य साधनान्यासन्निति शेषः । तान्याह पशव इति । वनस्पतयो यूपादयो देवयजनं देवा इज्यन्तेऽस्मिन्निति देवयजनं यागभूमिः इदं चेति वचनाद्यज्ञार्हे स्थाने उपविष्टः कथयतीति गम्यते । बहुगुणान्वितः कालो वसन्तादिः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

वस्तून्योषधयः स्नेहा रसलोहमृदो जलम्।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम॥

मूलम्

वस्तू109न्योषधयः स्नेहा110 रसलोहमृदो जलम्।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम॥ २४ ॥

वीरराघवः

वस्तूनि पुरोडाशादीनि तदर्था ओषधयः व्रीह्मादयः । स्नेह आज्यादिः । रसः सोमादिरसः । लोहः सुवर्णादिः । मृदः कपालादीनि । चातुर्होत्रं चतुहोतृशब्दवाच्यैर्मन्त्रैः प्रकाश्यं कर्म । हे सत्तम ! सतां श्रेष्ठ ! ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च।
देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव च॥

मूलम्

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च।
देवतानुक्रमः कल्पः सङ्कल्पस्त111न्त्रमेव च॥ २५ ॥

वीरराघवः

नामधेयानि ज्योतिष्टोमादीनि ऋगादीनामुक्तत्वान्मन्त्रः स्वाहाकारादयः । व्रतं पयोभक्षणादिकं । देवतानुक्रमः देवतानामनुक्रमः उद्देशः । यद्वा देवतेति पृथक् पदं, सा च अनुक्रम अनुपाठः आनुपूर्वी वा112 । कल्पः प्रयोगविधिः, सङ्कल्पः कर्तव्याध्यवसायः, तन्त्रं क्रियाकलापः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम्।
पुरुषावयवैरेते सम्भाराः सम्भृता मया॥

मूलम्

गतयो मतयः श्र113द्धा प्रायश्चित्तं समर्पणम्।
पुरुषावयवैरेते114 सम्भाराः सम्भृता मया॥ २६ ॥

अनुवाद (हिन्दी)

ऋषिश्रेष्ठ! यज्ञके लिये आवश्यक पात्र आदि वस्तुएँ, जौ, चावल आदि ओषधियाँ, घृत आदि स्नेहपदार्थ, छः रस, लोहा, मिट्टी, जल, ऋक्, यजुः, साम, चातुर्होत्र, यज्ञोंके नाम, मन्त्र, दक्षिणा, व्रत, देवताओंके नाम, पद्धतिग्रन्थ, संकल्प, तन्त्र (अनुष्ठानकी रीति), गति, मति, श्रद्धा, प्रायश्चित्त और समर्पण—यह समस्त यज्ञ-सामग्री मैंने विराट् पुरुषके अंगोंसे ही इकट्ठी की॥ २४—२६॥

वीरराघवः

गतयो विष्णुक्रमाद्याः, मतयः देवताध्यानानि, श्रद्धा कर्तव्यविषया त्वरा, प्रायश्चित्तं वैकल्यसमाधानं समर्पणं देवताः115 प्रति ह116विषोऽ117र्पणं मया पुरुषावयवैः संभारा यज्ञसाधनानि सम्भृताः सम्पादितानि ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

इति सम्भृतसम्भारः पुरुषावयवैरहम्।
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम्॥

मूलम्

इति सम्भृतसम्भारः पुरुषावयवैरहम्।
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम्॥ २७ ॥

अनुवाद (हिन्दी)

इस प्रकार विराट् पुरुषके अंगोंसे ही सारी सामग्रीका संग्रह करके मैंने उन्हीं सामग्रियोंसे उन यज्ञस्वरूप परमात्माका यज्ञके द्वारा यजन किया॥ २७॥

वीरराघवः

इति इत्थं सम्भृताः सम्पादिताः सम्भारा येन सोऽहं तमेव पुरुषं नियन्तारं “यज्ञं विष्णुं तेनैव यज्ञेनैवायजं इष्टवानस्मि” अनेन “यज्ञेन यज्ञमयजन्त” इति मन्त्रार्थ उक्तः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ततस्ते भ्रातर इमे प्रजानां पतयो नव।
अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः॥

मूलम्

ततस्ते भ्रातर इमे प्रजानां पतयो नव।
अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः॥ २८ ॥

अनुवाद (हिन्दी)

तदनन्तर तुम्हारे बड़े भाई इन नौ प्रजापतियोंने अपने चित्तको पूर्ण समाहित करके विराट् एवं अन्तर्यामीरूपसे स्थित उस पुरुषकी आराधना की॥ २८॥

वीरराघवः

“तेन देवा अयजन्त” इत्यस्यार्थं सप्रपञ्चं दर्शयति तत इति द्वाभ्याम् । ते तव भ्रातरः मरीच्यादयो नव प्रजापतयः सुसमाहितचित्ताः व्यक्तं इन्द्रादिरूपेण अव्यक्तं स्वतः, पुरुषं परमपुरुषमयजन् इष्टवन्तः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

ततश्च मनवः काले ईजिरे ऋषयोऽपरे।
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्॥

मूलम्

ततश्च मनवः काले118 ईजिरे ऋ119षयोऽपरे।
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्॥ २९ ॥

अनुवाद (हिन्दी)

इसके पश्चात् समय-समयपर मनु, ऋषि, पितर, देवता, दैत्य और मनुष्योंने यज्ञोंके द्वारा भगवान‍्की आराधना की॥ २९॥

वीरराघवः

काले स्वे स्वे कालेऽवसरे मन्वादयः क्रतुभिर्विभुं विष्णुं ईजिरे इत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

नारायणे भगवति तदिदं विश्वमाहितम्।
गृहीतमायोरुगुणः सर्गादावगुणः स्वतः॥

मूलम्

नारायणे भगवति तदिदं विश्वमाहितम्।
गृहीतमायोरुगुणः सर्गादावगुणः स्व120तः॥ ३० ॥

अनुवाद (हिन्दी)

नारद! यह सम्पूर्ण विश्व उन्हीं भगवान् नारायणमें स्थित है जो स्वयं तो प्राकृत गुणोंसे रहित हैं, परन्तु सृष्टिके प्रारम्भमें मायाके द्वारा बहुत-से गुण ग्रहण कर लेते हैं॥ ३०॥

श्लोक-३१

विश्वास-प्रस्तुतिः

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्॥

मूलम्

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृ[^m48]क्॥ ३१ ॥

अनुवाद (हिन्दी)

उन्हींकी प्रेरणासे मैं इस संसारकी रचना करता हूँ। उन्हींके अधीन होकर रुद्र इसका संहार करते हैं और वे स्वयं ही विष्णुके रूपसे इसका पालन करते हैं। क्योंकि उन्होंने सत्त्व, रज और तमकी तीन शक्तियाँ स्वीकार कर रखी हैं॥ ३१॥

वीरराघवः

एवं यद्रूपमित्यादिप्रश्नानां पुरुषसूक्तसंवादेनोत्तराण्यभिधाय यदधिष्टानमित्येतत्प्रश्न121स्योत्तरार्थमुपसंहरति नारायण इति । आहितमवस्थितं एवं स्वस्मिन्नेव सूक्ष्मरूपेणावस्थितं विश्वं स्व122शरीरभूतेन मया सृजति, रुद्ररूपेण हरति, पुरुषरूपेण तं123 पातीत्युपसंहरति गृहीतेत्यादिना । स्वत अगुणः सत्त्वादिगुणरहित; प्र124त्यगात्मस्वरूपं हि स्वतः सत्त्वादिरहितं अगुणोऽप्यहं गृहीता मायया उरवो गुणा येन तथा भूतः सर्गादौ तन्नियुक्तस्तन्नियोज्यस्सन् तं सृजामि हरो रुद्रः तद्वशः तदधीनः विश्वं हरति पुरुषरूपेण स्वा125वताररूपेण पाति । अत्र तन्त्रियुक्तः तद्वश इत्यनेन ब्रह्मरुद्रयोः तन्नियाम्यत्वप्रतीतेः पुरुषरूपेणेत्यत्र तदप्रतीतेश्च सृष्टिसंहारौ ब्रह्मरुद्राख्यजीवान्तर्यामित्वेन करोति पालनं तु स्वयमेव क126रोतीति वेदितव्यम् । अत त्रिशक्तिधृ127त् सृष्टिस्थितिसंहारसा128मर्थ्यरूपशक्तित्रययुक्त एक एवेत्यर्थः ॥ ३०, ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

इति तेऽभिहितं तात यथेदमनुपृच्छसि।
नान्यद‍्भगवतः किंचिद‍्भाव्यं सदसदात्मकम्॥

मूलम्

इति तेऽभिहितं तात! यथे129दमनुपृच्छसि।
नान्यद‍्भगवतः किञ्चद‍्भाव्यं सदसदात्मकम्॥ ३२ ॥

अनुवाद (हिन्दी)

बेटा! जो कुछ तुमने पूछा था, उसका उत्तर मैंने तुम्हें दे दिया; भाव या अभाव, कार्य या कारणके रूपमें ऐसी कोई भी वस्तु नहीं है जो भगवान‍्से भिन्न हो॥ ३२॥

वीरराघवः

यद्रूपमित्यादिप्रश्नानां यदात्मकस्त्वमित्ये130वमादि - सर्व प्रश्नानां च सामान्येनोत्तरम्, यदुक्तं- “वासुदेवात्परो ब्रह्मन्न चान्योर्थोऽस्ति तत्त्वतः” (भाग 2-5-14) इति, ‘पुरुष एवेदं सर्वं’ इति श्रुत्या च तद्दृढीकृतं तदुपसंहरति - इतीति । हे तात! इदं विश्वं प्रति यथा अनुपृच्छसि विश्वविषयप्रश्नं करोषि तस्य प्रश्नस्योत्तरं चेतनाचेतनात्मकं कृत्स्नं जगत्किञ्चिदपि भगवतः अन्यत्पृथगिति न भाव्यम्, नानुसन्धेयमिति ते तुभ्यमभिहितं क131थितमित्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन्मे मनसो मृषा गतिः।
न मे हृषीकाणि पतन्त्यसत्पथे
यन्मे हृदौत्कण्ठ्यवता धृतो हरिः॥

मूलम्

न भारती मेऽङ्ग मृषोपलक्ष्यते न वै132 क्वचिन्मे मनसो मृषा गतिः।
न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्ययवता धृतो हरिः॥ ३३ ॥

अनुवाद (हिन्दी)

प्यारे नारद! मैं प्रेमपूर्ण एवं उत्कण्ठित हृदयसे भगवान‍्के स्मरणमें मग्न रहता हूँ, इसीसे मेरी वाणी कभी असत्य होती नहीं दीखती, मेरा मन कभी असत्य संकल्प नहीं करता और मेरी इन्द्रियाँ भी कभी मर्यादाका उल्लंघन करके कुमार्गमें नहीं जातीं॥ ३३॥

वीरराघवः

यदुक्तम् - “एतावत्त्वं यतो हि मे” (भाग 2-5-10) तमविज्ञाय मामीश्वरं प्रब्रवीषीति तदुपपादयितुमुपसंहरति न भारतीति । मे भारती वाक् मृषा मिथ्या न दृश्यते मे मनसो गतिः वृत्तिः न मृषा । हृषीकाणि इन्द्रियाणि असत्पथे असद्विषये न पतन्ति न प्रवर्तन्ते यस्मात् मयोत्कण्ठ्यं आशा, तद्वता हृदयेन हरिर्धृतः ध्यातः । अङ्ग ! हे नारद! अतो मे वाङ्मन133सेन्दियाणां वृत्तयः सत्यार्था नतु मत्प्रभावेनेत्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

सोऽहं समाम्नायमयस्तपोमयः
प्रजापतीनामभिवन्दितः पतिः।
आस्थाय योगं निपुणं समाहित-
स्तं नाध्यगच्छं यत आत्मसम्भवः॥

मूलम्

सोऽहं समाम्नायमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिः।
आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः॥ ३४ ॥

अनुवाद (हिन्दी)

मैं वेदमूर्ति हूँ, मेरा जीवन तपस्यामय है, बड़े-बड़े प्रजापति मेरी वन्दना करते हैं और मैं उनका स्वामी हूँ। पहले मैंने बड़ी निष्ठासे योगका सर्वांग अनुष्ठान किया था, परन्तु मैं अपने मूलकारण परमात्माके स्वरूपको नहीं जान सका॥ ३४॥

वीरराघवः

अतो ममापि ज्ञानप्रदो मदचिन्त्यस्वरूपस्वभावः सर्वेश्वरो मत्तोऽन्योऽस्तीत्याह - सोऽहमिति । समाम्नायमयः समाम्नायप्रचुरः तपोमयः तपःप्रचुरः विद्यातपोभ्यां सर्वोत्कृष्ट इत्यर्थः । प्रजापतीनां मरीच्यादीनामभिवन्दितः तैर्नमस्कृतः तेषां पतिश्चात्मनः परमात्मनः सम्भव उत्पन्नः तत्कृपालब्ध ज्ञानसम्पन्नोऽहं समाहितः सन्निपुणं निर्विघ्नं योगं समास्थाय यः स्वमायाविभवं स्वयं गतस्तं परमात्मानं य134तो नाध्यगच्छं स्वरूपतो गुणतश्चैतावानिति न ज्ञातवान् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

नतोऽस्म्यहं तच्चरणं समीयुषां
भवच्छिदं स्वस्त्ययनं सुमङ्गलम्।
यो ह्यात्ममायाविभवं स्म पर्यगाद्
यथा नभः स्वान्तमथापरे कुतः॥

मूलम्

नतोऽस्म्यहं तच्चरणं स135मीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम्।
यो136 ह्यात्ममायाविभवं स्म137 पर्यगात् य138था न139भः स्वान्तमथापरे कुतः॥ ३५ ॥

अनुवाद (हिन्दी)

(क्यों कि वे तो एकमात्र भक्ति से ही प्राप्त होते हैं।) मैं तो परम मंगलमय एवं शरण आये हुए भक्तोंको जन्म-मृत्यु से छुड़ानेवाले परम कल्याण स्वरूप भगवान‍्के चरणोंको ही नमस्कार करता हूँ। उनकी मायाकी शक्ति अपार है; जैसे आकाश अपने अन्तको नहीं जानता, वैसे ही वे भी अपनी महिमाका विस्तार नहीं जानते। ऐसी स्थिति में दूसरे तो उसका पार पा ही कैसे सकते हैं?॥ ३५॥

वीरराघवः

अतस्तच्चरणं प्रति केवलं नतोऽस्मि । कथम्भूतं चरणं समीयुषां शरणागतानां भवच्छिदं संसृतिनिवर्तकं स्वस्त्ययनं मङ्गलानामाश्रयं सुमङ्गलं सुसेव्यम् । अनवगमे दृष्टन्तः यथेति । दोषास्पर्शाय दुर्ग्रहत्वा140य च नमस्स्वद्दृष्टान्तः “दुःस्पर्शः पाणिना वायु"रिति । महाभारतोक्तेः ‘स्वमायाविभवं स्वयंगत’ इत्यनेन य141वनिकां गत इतिवत् अन्यानुपलभ्यत्वमुक्तं न तु मायावश्यत्वम्, आत्ममायाविभवेनान्यानुपलभ्यत्वं गत इत्यर्थः । एवंविधं परमात्मानम् उक्तविधोऽप्यहमेव नाध्यगच्छमन्ये नाधिगच्छन्तीति, किमु वक्तव्यमित्याह अथेति । अपरे जीवाः कुतो हेतोर्विदुरित्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

नाहं न यूयं यदृतां गतिं विदु-
र्न वामदेवः किमुतापरे सुराः।
तन्मायया मोहितबुद्धयस्त्विदं
विनिर्मितं चात्मसमं विचक्ष्महे॥

मूलम्

नाहं न यूयं य142दृतां गतिं विदुर्न वामदेवः किमुतापरे सुराः।
143न्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चा144त्मसमं विचक्ष्महे॥ ३६ ॥

अनुवाद (हिन्दी)

मैं, मेरे पुत्र तुम लोग और शंकरजी भी उनके सत्यस्वरूपको नहीं जानते; तब दूसरे देवता तो उन्हें जान ही कैसे सकते हैं। हम सब इस प्रकार मोहित हो रहे हैं कि उनकी मायाके द्वारा रचे हुए जगत‍्को भी ठीक-ठीक नहीं समझ सकते, अपनी-अपनी बुद्धिके अनुसार ही अटकल लगाते हैं॥ ३६॥

वीरराघवः

एतदेवोपपादयति - नेति । यूयमिति सनकाद्यभिप्रोयण बहुवचननिर्देशः । वामदेवो नाम कश्चिदृषिः शङ्करो वा, न चाहं न च शङ्करश्च जानन्तीति । श्रीवैष्णवीयचतुर्मुखवाक्यान्तरात् यदृतां यस्य परमात्मनः ऋतां सत्यां गतिं स्वरूपरूपयथावस्थितिम् । बत तद्गतिं इति पाठान्तरम् । अस्मदादयो न विदुः कैमुत्यन्यायेनाह किमुतेति । कुतो न विदुरित्यत आह - तन्माययेति । तस्य भगवतो मायया ‘दैवी ह्येषा गुणमयी’ इत्युक्तविधमायया मोहिता बुद्धिर्येषां ते तन्मायया मोहितबुद्धित्वादेते न विदुरित्यर्थः । तर्हि किं विदुरित्यत आह - तेनैव विनिर्मितमिदमचेतनं शरीरं स्वात्मसममात्मानं देहाकारं मन्यामहे इत्यर्थः । देहात्मविभागमप्यजानतां कथं परमात्मवेदनमिति भावः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः।
न यं विदन्ति तत्त्वेन तस्मै भगवते नमः॥

मूलम्

यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः।
न यं विद145न्ति तत्त्वेन तस्मै भगवते नमः॥ ३७ ॥

अनुवाद (हिन्दी)

हमलोग केवल जिनके अवतारकी लीलाओंका गान ही करते रहते हैं, उनके तत्त्वको नहीं जानते—उन भगवान‍्के श्रीचरणोंमें मैं नमस्कार करता हूँ॥ ३७॥

वीरराघवः

तर्हि मायातरणे कः उपायः इत्यत आह यस्येति । यस्य भगवतो अवताराणां कर्माणि चेष्टितान्यस्मदादयश्चतुर्मृखादयो 146गायन्ति यं तत्त्वेन याथात्म्येन न वि147न्दन्ति न जानन्ति किन्तु तस्मै भगवते नमस्कुर्वन्ति तस्य गुणकर्मानुकीर्तनमेव मायातरणोपाय इत्यभिप्रायः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः।
आत्माऽऽत्मन्यात्मनाऽऽत्मानं संयच्छति च पाति च॥

मूलम्

स एष आद्यः पुरुषः कल्पे कल्पे सृ148जत्यजः।
आत्मा149ऽऽत्मन्यात्मनाऽऽत्मानं सं150यच्छति च पाति च॥ ३८ ॥

अनुवाद (हिन्दी)

वे अजन्मा एवं पुरुषोत्तम हैं। प्रत्येक कल्पमें वे स्वयं अपने-आपमें अपने-आपकी ही सृष्टि करते हैं, रक्षा करते हैं और संहार कर लेते हैं॥ ३८॥

वीरराघवः

केऽवताराः ? कानि चेष्टितानि च151 यदनुकीर्तनेन माया152 तरन्ति इत्याशङ्कायामवतारांस्तत्कर्माणि च वक्ष्यन् यद्रूपमित्यादि प्रश्नानामुत्तराण्युपसंहरति - स एष इति । अजः कर्माधीनजन्मरहितः एष आद्यः कारणभूतः परमपुरुषः कल्पे कल्पे प्रतिकल्पमात्मन्येवाधारे आत्मना उपकरणभूतेन आत्मानमुपादान भूतम् आत्मैव कर्ता सृजति संयच्छति संहरति पाति च ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम्।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम्॥

मूलम्

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम्।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम्॥ ३९ ॥

अनुवाद (हिन्दी)

वे मायाके लेशसे रहित, केवल ज्ञानस्वरूप हैं और अन्तरात्माके रूपमें एकरस स्थित हैं। वे तीनों कालमें सत्य एवं परिपूर्ण हैं; न उनका आदि है न अन्त। वे तीनों गुणोंसे रहित, सनातन एवं अद्वितीय हैं॥ ३९॥

वीरराघवः

नन्वयं जगद्व्यापारी भगवतः किं कर्माधीन इत्याशङ्क्य नेत्याह - विशुद्धमिति । पुण्यपापरूप कर्मरहितमतो न जगद्व्यापारः कर्माधीन इत्यर्थः । एवञ्च कर्माधीनव्यापारजीवस्वरूपाद्वैलक्षण्यमुक्तं भवति । जीवविलक्षणं चेत्तत्किं जडमित्यत आह - केवलं ज्ञानं क्वचिदप्यजडमित्यर्थः । तर्हि किं घटपटाद्याकार वृत्तिज्ञानमित्यत आह- प्रत्यक् स्वस्मै भासमानम् । ननु जीवोऽप्येवंरूपोऽत आह - सम्यगवस्थितमर्थान्तरानपेक्षस्थितिम् । जीवस्तु परमात्मधार्य इत्यभिप्रायः । अन्यानपि चेतनाचेतनविलक्षणाकारानाह - सत्यं स्वरूपतो धर्मतश्च निर्विकारमनेन स्वरूपतो विकार्यचेतनद्रव्यं स्वभावतो विकारी चेतनश्च । व्यावृत्तः पूर्णमवाप्तसमस्तकामं निर्गुणं सत्त्वादिरहितमनाद्यन्तमुत्पत्तिना153शरहितमत एव नित्यं का154लाद्यनवच्छिन्नमद्वयं समाभ्यधिकरहितम् । एते यथासम्भवं चेतानाचेतनव्यावर्तकत्वेनानुसन्धेयाः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः।
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम्॥

मूलम्

ऋषे155 विद156न्ति मु157नयः प्रशान्तात्मेन्द्रियाशयाः।
यदा तदे158वासत्तर्कैस्तिरोधीयेत विप्लुतम्॥ ४० ॥

अनुवाद (हिन्दी)

नारद! महात्मालोग जिस समय अपने अन्तःकरण, इन्द्रिय और शरीरको शान्त कर लेते हैं, उस समय उनका साक्षात्कार करते हैं। परन्तु जब असत‍्पुरुषोंके द्वारा कुतर्कोंका जाल बिछाकर उनको ढक दिया जाता है, तब उनके दर्शन नहीं हो पाते॥ ४०॥

वीरराघवः

अत्र विद्वदनुभवं प्रमाणयति - ऋषे इति । हे ऋषे ! नारद! आत्मा अन्तःकरणमाशयो वासना प्रशान्ता आत्मेन्द्रियाशया येषां ते कवयः । त159त् उक्तविधं परमात्मस्वरूपं जानन्ति । कवयः समीचीनतर्कैः विविच्य तत्स्वरूपं चेतनाचेतनविलक्षणं शोधयन्ति । कुतर्कैर्दुर्ज्ञेयत्वमाह - असत्तर्कैरसतां तर्कैः, सतामेव वा हेतुवादैः यदा विप्लुतमुपद्रुतं स्यात्तदा तिरोधीयेतेत्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

आद्योऽवतारः पुरुषः परस्य
कालः स्वभावः सदसन्मनश्च।
द्रव्यं विकारो गुण इन्द्रियाणि
विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः॥

मूलम्

आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च।
द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः॥ ४१ ॥

अनुवाद (हिन्दी)

परमात्माका पहला अवतार विराट् पुरुष है; उसके सिवा काल, स्वभाव, कार्य, कारण, मन, पंचभूत, अहंकार, तीनों गुण, इन्द्रियाँ, ब्रह्माण्ड-शरीर, उसका अभिमानी, स्थावर और जंगम जीव—सब-के-सब उन अनन्तभगवान‍्के ही रूप हैं॥ ४१॥

वीरराघवः

अथावतारांस्तत्कर्माणि च विवक्षुः आ160दिमावतारमाह - आद्य इति । पुरुषो विराट् पुरुषः परस्य विष्णोः आद्योऽवतार इत्यर्थः । आद्यत्वं मत्स्यकूर्माद्यपेक्षया । अस्य विभूतीराह काल इत्यादिभिः । कालादयो रूपवतः स्वरूपमित्युत्तरेणान्वयः । रूपवतोऽकर्मकृतरूपस्य स्वरूपं स्वीयं रूपं शरीरं कालादयस्तन्नियाम्यवर्गरूपविभूतिरिति परं तत्त्वं कालादीनां परं याथात्म्यमित्यर्थः । स्वभावः प्रकृतिगतपरिणामस्वभावः सदसच्चेतनमचेतनं स्थूलं सूक्ष्मं वा द्रव्यं पृथिव्यादिविकारो महदहङ्कारादिः गुणः सत्वादिः, इन्द्रियाणि ज्ञानकर्मात्मकानि, विरांडन्तरिक्षं, स्वराट् स्वर्गः, “अयं लोकस्तुवै सम्राडन्तरिक्षं विराट् स्मृतम्, स्वराडसौ स्मृतो लोकः” इत्युक्तेः । स्थास्नु स्थावरं चरिष्णु जङ्गमं भूम्नो भूमवतो भगवतः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

अहं भवो यज्ञ इमे प्रजेशा
दक्षादयो ये भवदादयश्च।
स्वर्लोकपालाः खगलोकपाला
नृलोकपालास्तललोकपालाः॥

मूलम्

अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च।
स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः॥ ४२ ॥

वीरराघवः

किं बहुना ? संक्षेपेण शृण्वित्याह - अहमिति । अहं ब्रह्मा, भवो रुद्रः, यज्ञो विष्णुः यद्यप्ययं विभूतिमध्ये पठितस्तथाऽपि न विभूतिरर्थान्तराभावात् । पालनाधिकृतविष्णववतारमतपालनानुगुणं यत्सामर्थ्यं तस्य विभूतित्वद्योतनाय यज्ञोऽपि विभूतिषु पठितः । विभूतित्त्वं नाम नियाम्यत्वम्, सर्वभूतानां प्रवर्तनरूपम् । नियमनमात्मतयाऽवस्थानात् । आत्मा हि नाम शरीरस्य सर्वात्मना आधारो नियन्ता शेषी च । भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतयाऽवस्थानमेव क्वचित् तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुः भगवत्यात्मतयाऽवस्थिते हि सर्वे शब्दाः तस्मिन्नेव पर्यवस्यन्ति यथा - देवमनुष्यपक्षिवृक्षादयः शब्दाः शरीराणि प्रतिपादयन्तस्तत्तदात्मनि पर्यवस्यन्ति । दक्षादयो ये इमे प्रजेशाः भवदादयो नारदप्रभृतयः सनकादयः खगलोकपालाः पक्षिश्रेष्ठाः, तललोकपालाः पातालेश्वराः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

गन्धर्वविद्याधरचारणेशा
ये यक्षरक्षोरगनागनाथाः।
ये वा ऋषीणामृषभाः पितॄणां
दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः।
अन्ये च ये प्रेतपिशाचभूत-
कूष्माण्डयादोमृगपक्ष्यधीशाः॥

मूलम्

गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः।
ये वा ऋषीणामृषभाः161 पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः।
अन्ये च ये प्रेतपिशाचभूतकूष्माण्डयादोमृगपक्ष्य162धीशाः॥ ४३ ॥

वीरराघवः

गन्धर्वादीनामीशाः, उरगाः सर्पाः, नागाः गजाः, यक्षादीनां ये नाथाः । रक्षोरगेति सन्धिरार्षः । ऋषीणां पितॄणां च163 ये श्रेष्ठा, दैत्या दितिपुत्राः ते164षामिन्द्राः अ165न्ये च ये प्रेतादीनामधीशाः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

यत् किञ्च लोके भगवन्महस्व-
दोजःसहस्वद् बलवत् क्षमावत्।
श्रीह्रीविभूत्यात्मवदद‍्भुतार्णं
तत्त्वं परं रूपवदस्वरूपम्॥

मूलम्

यत्किं च लोके भगवन्महस्वदोजस्सहस्वद् बलवत् क्षमावत्।
श्रीह्रीविभूत्यात्मवदद‍्भुता166र्णं तत्त्वं167 परं रूपवद168स्वरूपम्॥ ४४ ॥

अनुवाद (हिन्दी)

मैं, शंकर, विष्णु, दक्ष आदि ये प्रजापति, तुम और तुम्हारे-जैसे अन्य भक्तजन, स्वर्गलोकके रक्षक, पक्षियोंके राजा, मनुष्यलोकके राजा, नीचेके लोकोंके राजा; गन्धर्व, विद्याधर और चारणोंके अधिनायक; यक्ष, राक्षस, साँप और नागोंके स्वामी; महर्षि, पितृपति, दैत्येन्द्र, सिद्धेश्वर, दानवराज; और भी प्रेत-पिशाच, भूत-कूष्माण्ड, जल-जन्तु, मृग और पक्षियोंके स्वामी; एवं संसारमें और भी जितनी वस्तुएँ ऐश्वर्य, तेज, इन्द्रियबल, मनोबल, शरीरबल या क्षमासे युक्त हैं; अथवा जो भी विशेष सौन्दर्य, लज्जा, वैभव तथा विभूतिसे युक्त हैं; एवं जितनी भी वस्तुएँ अद‍्भुत वर्णवाली, रूपवान् या अरूप हैं—वे सब-के-सब परमतत्त्वमय भगवत्स्वरूप ही हैं॥ ४२—४४॥

वीरराघवः

किं बहुना - यदिति । यत्किञ्चित् भगवदादि तत्सर्वं रूपवतः स्वरूपमित्यन्वयः । भगवत् ऐश्वर्यवत् महस्वत्, तेजस्वत्, औजस्वत्, उत्साहवत्, सहस्वत्, वेगवत्, धैर्यवत्, बलवत् धारणासामर्थ्यवत्, क्षमावत्, सहनवत्, श्रीः शोभा, ह्रीर्लज्जा, विभूतिर्नियाम्यवर्गः आत्मा बुद्धिः तद्युक्तम्, अद्भुतार्थमद्भुतशब्दवाच्यम्, एतत्सर्वं रूपवतः प्रशंसायां मतुप् । अकर्मकृत स्वेच्छोपात्तदिव्यमङ्गलास्पदविग्रहस्य भगवतो विराट् पुरुषस्य स्वीया विभूतिरित्यर्थः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

प्राधान्यतो यानृष आमनन्ति
लीलावतारान् पुरुषस्य भूम्नः।
आपीयतां कर्णकषायशोषा-
ननुक्रमिष्ये त इमान् सुपेशान्॥

मूलम्

प्राधान्यतो या नृष169 आम170नन्ति लीलावतारान् पुरुषस्य भूम्नः।
आपीयतां क171र्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशा172न्॥ ४५ ॥

अनुवाद (हिन्दी)

नारद! इनके सिवा परम पुरुष परमात्माके परम पवित्र एवं प्रधान-प्रधान लीलावतार भी शास्त्रोंमें वर्णित हैं। उनका मैं क्रमशः वर्णन करता हूँ। उनके चरित्र सुननेमें बड़े मधुर एवं श्रवणेन्द्रियके दोषोंको दूर करनेवाले हैं। तुम सावधान होकर उनका रस लो॥ ४५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे षष्ठोऽध्यायः॥ ६॥

वीरराघवः

अवताराणामानन्त्यात्तत्र प्रसिद्धान् वक्ष्यामीत्याह - प्राधान्यत इति । असत्कथाश्रवणैर्ये कर्णयोः कषायाः म173लाः तान् शोषयन्तीति तथा तान् सुपेशान् सुन्दरान्। हे ऋषे! आवदन्ति, मुनय इति शेषः । ऋषय इति पाठे ऋषयो वदन्तीत्यन्वयः । तान् ते तुभ्यमनुक्रमिष्ये क्रमेण वर्णयिष्यामि, तदनु श्र174वणामृतं त्वया आपीयताम् यद्वा आपीयतामिति शत्रन्तमपिबतां कर्णकषायशोषानित्यर्थः ॥ ४५ ॥

इति श्रीमद्भागवते द्वितीयस्कन्धे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां षष्ठोऽध्यायः ॥ ६ ॥


  1. B,M,Ma,W चो ↩︎

  2. W स्थानं ↩︎

  3. A,B Omit छन्दसां ↩︎

  4. A,B षो ↩︎

  5. A,B Omit च ↩︎

  6. I णं ↩︎

  7. W णं ↩︎

  8. M,Ma गन्धस्य चैव दि ↩︎

  9. A,B त्रे ↩︎

  10. W द्धिसु ↩︎

  11. H,M,Ma,V,W भाग्यं ↩︎

  12. W Omits चक्षुः तत् ↩︎

  13. W के ↩︎

  14. A,B Omit च ↩︎

  15. A,B,G,I,M,Ma,N यो ↩︎

  16. M,Ma ज ↩︎

  17. W ता ↩︎

  18. W ता ↩︎

  19. W Omits सम्भृतः ↩︎

  20. A,B Omit सम्यक् ↩︎

  21. H,V मा ↩︎

  22. W Omits च ↩︎

  23. A,B णं ↩︎

  24. A,B क्र ↩︎

  25. B,I दं स्मृतम् ↩︎

  26. A म ↩︎

  27. H,V मम् ↩︎

  28. B,I,W च ↩︎

  29. W तामसस्य ↩︎

  30. M,Ma,W त ↩︎

  31. A,B Omit च ↩︎

  32. M,Ma,W य ↩︎

  33. H,V रा: ↩︎

  34. W गाः ↩︎

  35. W तोऽनतिरिक्तम् । ↩︎

  36. W Omits तत्र ↩︎

  37. H,V,W टि ↩︎

  38. W Omits जलस्थलनभौकसः ↩︎

  39. A,B Omit नभोकसः ↩︎

  40. A,B Omit केतवः केतुसदृशानि नक्षत्राणि ↩︎

  41. W टि ↩︎

  42. M,Ma,V,W ता ↩︎

  43. A,B तदिदं ↩︎

  44. W Omits परमपुरुष एव ↩︎

  45. AF,GF प्रातपत्प्रा ↩︎

  46. W स्ववा ↩︎

  47. W परस्य ↩︎

  48. W तः ↩︎

  49. A,B न्तरावाशितिः ↩︎

  50. A,B चानुप ↩︎

  51. A,B स्ये ↩︎

  52. W पो ↩︎

  53. M,Ma दोऽस्य ↩︎

  54. M,Ma वि ↩︎

  55. W र्धा; AF,GF र्ध्नो ↩︎

  56. AF,GF वाऽपि ↩︎

  57. W नि ↩︎

  58. W Omits स्थितिपात् ↩︎

  59. W याभे ↩︎

  60. W Omits च ↩︎

  61. W त्यर्थः ↩︎

  62. W त्रैविधयं ↩︎

  63. A,B प ↩︎

  64. A,B येऽत्र ↩︎

  65. W Omits च ↩︎

  66. W Omits मुक्त ↩︎

  67. W त्रिपा ↩︎ ↩︎

  68. H,M,Ma,V,W स्त्वा ↩︎

  69. M,Ma,W याः ↩︎

  70. M,Ma धैर्बृहद्धुतः; W धो ब्रुहद्व्रतः; AF,GF धोऽमहद्व्रतम् ↩︎

  71. W पक्ष ↩︎

  72. W Omit यत् ↩︎

  73. W क्तजी ↩︎

  74. W adds त्रिपात् ↩︎

  75. A,B तमुक्ता ↩︎

  76. A,B वत्व ↩︎

  77. A,B द्धा ↩︎

  78. H,M,Ma,V क् ↩︎

  79. W य ↩︎

  80. A,B Omit पादस्य ↩︎

  81. A,B क्तम्। ↩︎

  82. A,B गते ↩︎

  83. M,Ma,W त ↩︎

  84. M,Ma श्रयः ↩︎

  85. M,Ma श्रयम्; W श्रयात् ↩︎

  86. AF,GF त् ↩︎

  87. A,B मत ↩︎

  88. W त ↩︎

  89. A,B Omit उपादानात् ↩︎

  90. A,B Omit अनु ↩︎

  91. W Omit तत्प्रधानं ↩︎

  92. W Omits च सर्वं ↩︎ ↩︎

  93. W अ ↩︎

  94. W Omits पट ↩︎

  95. A,B Omit इत्यर्थः ↩︎

  96. W त्स्वरूपको ↩︎

  97. W त्स्वरूपको ↩︎

  98. A,B Omit व्यव ↩︎

  99. W द्देश ↩︎

  100. W Omits गण ↩︎

  101. A,B add कार्यावस्थ ↩︎

  102. A,B,C,G,I,N दं ↩︎

  103. I,M,Ma नृ ↩︎

  104. W ध्यती ↩︎

  105. W भ ↩︎

  106. AF,GF ज्ञेषु; M,Ma ज्ञाश्च ↩︎

  107. W शुभाः ↩︎

  108. H,V लो बहु ↩︎

  109. M,Ma सू ↩︎

  110. W ह ↩︎

  111. M,Ma स्सूत्र ↩︎

  112. W Omits वा ↩︎

  113. B,C,I,N चैव; H,V शुद्धाः ↩︎

  114. M,Ma तैः ↩︎

  115. W तां ↩︎

  116. W Omits हविषो ↩︎

  117. W सम ↩︎

  118. AF,GF लं ↩︎

  119. H,V मुन ↩︎

  120. W स्मृ ↩︎

  121. A,B श्नो ↩︎

  122. A,B Omit स्व ↩︎

  123. A,B तु ↩︎

  124. A Omits प्रत्य……अगुणो ↩︎

  125. A,B Omit स्वाव……रुपेणों ↩︎

  126. W Omits करोति ↩︎

  127. A,B धृक् ↩︎

  128. A,B Omit सामर्थ्य ↩︎

  129. H,V देतद; W थैतद ↩︎

  130. A,B त्यादि प्र ↩︎

  131. W Omits कथितं ↩︎

  132. H,M,Ma,V,W कर्हि ↩︎

  133. A,B न इ ↩︎

  134. A,B Omit यतः ↩︎

  135. B त ↩︎

  136. M,Ma यस्स्वा; AF,GF यस्त्वा ↩︎

  137. H,V सु पर्यगात्, M,Ma,W स्वयं गतो ↩︎

  138. M,Ma नाहं नभस्वांस्त ↩︎

  139. भस्वन्त ↩︎

  140. A,B णा ↩︎

  141. A,B ज ↩︎

  142. M,Ma,WF बत तद्ग ↩︎

  143. H,M,Ma,V यन्मां ↩︎

  144. AF,GF त्वा; H,M,Ma,V,W स्वा ↩︎

  145. H,M,Ma,V,W न्द ↩︎

  146. W adds ये ↩︎

  147. B वि ↩︎

  148. AF,GF ऽसृजत्प्रजाः ↩︎

  149. H,V त्मन्येवा ↩︎

  150. AF,GF समं गच्छति; B,I,M,Ma स संयच्छति ↩︎

  151. W Omits च ↩︎

  152. W या तीर्यते ↩︎

  153. W adds वि ↩︎

  154. W लान ↩︎

  155. M,Ma तं ↩︎

  156. H,M,Ma,V,W न्द ↩︎

  157. W कव ↩︎

  158. M,Ma दे ↩︎

  159. A,B Omit तत् ↩︎

  160. A,B omit च ↩︎

  161. AF,GF यः ↩︎

  162. H,M,Ma,V,W श्व ↩︎

  163. W मम ↩︎

  164. W Omits तेषामिन्द्राः ↩︎

  165. W Omits अन्ये च ये ↩︎

  166. W र्थं ↩︎

  167. M,Ma त्तत्प ↩︎

  168. W तस्स्व ↩︎

  169. M,Ma षय ↩︎

  170. W वद ↩︎

  171. M,Ma र्म ↩︎

  172. शलान् ↩︎

  173. A,B Omit मलाः ↩︎

  174. A क्रम ; B क्रम ↩︎