०५

[पञ्चमोऽध्यायः]

भागसूचना

सृष्टि-वर्णन

श्लोक-१

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज।
तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम्॥

मूलम्

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज।
तद् विजानीहि य1ज्ज्ञानमात्मतत्त्वनिदर्शनम्॥ १ ॥

अनुवाद (हिन्दी)

नारदजीने पूछा—पिताजी! आप केवल मेरे ही नहीं, सबके पिता, समस्त देवताओंसे श्रेष्ठ एवं सृष्टिकर्ता हैं। आपको मेरा प्रणाम है। आप मुझे वह ज्ञान दीजिये, जिससे आत्मतत्त्वका साक्षात्कार हो जाता है॥ १॥

वीरराघवः

“नारदाय विपृच्छते । वेदगर्भः अभ्यदात्” इत्युक्तं तत्र नारदप्रश्रमाह - देवदेव इति । हे देवदेव! हे भूतभावन! भूतस्रष्टः! अत एव हे पूर्वज! आत्मतत्त्वस्य निदर्शनं नितरां प्रकाशकं यत् ज्ञानं तद्विजानीहि अन्तर्भावितणिजर्थः । विशेषेण ज्ञापय इत्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

यद‍‍्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो।
यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः॥

मूलम्

यद‍‍्रूपं यदधिष्ठानं यतः सृष्टमिदं प्र2भो।
यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वतः॥ २ ॥

अनुवाद (हिन्दी)

पिताजी! इस संसारका क्या लक्षण है? इसका आधार क्या है? इसका निर्माण किसने किया है? इसका प्रलय किसमें होता है? यह किसके अधीन है? और वास्तवमें यह है क्या वस्तु? आप इसका तत्त्व बतलाइये॥ २॥

वीरराघवः

इदं कार्यं ज3गद्रूपं यस्य रूपं य4दात्मकमित्यर्थः । अयं निमित्तप्रश्नः । यतः सृष्टं यतः उपादानभूतात्सृष्टं, यदुपादानकमिति यावत् । यदधिष्ठानं यत्संस्लं यत्परमिति च बहुव्रीहिः । यः आधारो यस्य तद्यदधिष्ठानं यदाधारकम् इति आधारप्रश्नः । यस्मिन् संस्था लयो यस्य तत् यत्संस्थम् अयं लयाधारप्रश्नः । यत्परं य अस्मात्परो विलक्षणः तद्यत्परं यदधीनमित्यर्थः । यच्च यदपि अन्यत् यदुपकरणत्वादिकमस्ति, तत्तत्त्वं त5स्य याथात्म्यं तत्त्वतो वद इत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः।
करामलकवद् विश्वं विज्ञानावसितं तव॥

मूलम्

सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभुः।
करामलकवद् विश्वं विज्ञानावसितं तव॥ ३ ॥

अनुवाद (हिन्दी)

आप तो यह सब कुछ जानते हैं; क्योंकि जो कुछ हुआ है, हो रहा है या होगा, उसके स्वामी आप ही हैं। यह सारा संसार हथेलीपर रखे हुए आँवलेके समान आपकी ज्ञान-दृष्टिके अन्तर्गत ही है॥ ३॥

वीरराघवः

न जानामीति न वक्तव्यम् इत्याह - सर्वम् इति । यत्पृष्टं तदेतत्सर्वं भवान् वे6द जानाति । कुत इत्यत आह - भूतभव्यभवत्प्रभुः भूतभविष्यद्वर्तमानकाल7गोचरकृत्स्त्नवस्तुजातस्य प्रभुः उत्पादकः । किञ्च तव त्वया विश्वं जगत् विज्ञानेन भगवत्प्रसादलब्ध8ज्ञानेन अवसितं निश्चितं करस्थामलकवत् । एवं जगद्विषयः प्रश्नः कृतः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः।
एकः सृजसि भूतानि भूतैरेवात्ममायया॥

मूलम्

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः।
एकः सृजसि9 भूतानि भूतैरेवात्ममायया॥ ४ ॥

अनुवाद (हिन्दी)

पिताजी! आपको यह ज्ञान कहाँसे मिला? आप किसके आधारपर ठहरे हुए हैं? आपका स्वामी कौन है? और आपका स्वरूप क्या है? आप अकेले ही अपनी मायासे पंचभूतोंके द्वारा प्राणियोंकी सृष्टि कर लेते हैं, कितना अद‍्भुत है!॥ ४॥

वीरराघवः

आस्तां तावदिदम् । त्वामेव त्वं कथय इत्याह - यद्विज्ञान इति । यस्मिन् विषये तव विज्ञानमस्तीति सप्तमीपू10र्वपदबहुव्रीहिः । यतो विज्ञानं यस्य, यद्विज्ञानः तव विज्ञानदः क इति वा । यदाधारः य आधारो यस्य सः11 कः तवाश्रयः । यत्परः यः परो यस्य सः कः 12तव 13स्वामी । यदात्मकः यः आत्मा यस्य सः 14कः त्वदात्मा इत्यर्थः । मम तु त्वमेव स्वतन्त्रः परमेश्वर इति प्रति15भाति तपश्चरणेन तु परशङ्कया पृच्छामीत्याह सार्धैः चतुर्भिः । एकः असहायः आत्ममायया आत्मनः सङ्कल्पेन भूतैः पृथिव्यादिभूतैः भूतानि देवादी16नि भूतानि सृजसि17, त्व18मिति शेषः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

आत्मन् भावयसे तानि न पराभावयन् स्वयम्।
आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः॥

मूलम्

आत्मन् भावयसे तानि न पराभा19वयन् स्वयम्।
आत्मशक्तिमवष्टभ्य ऊ20र्णनाभिरिवाक्लमः॥ ५ ॥

अनुवाद (हिन्दी)

जैसे मकड़ी अनायास ही अपने मुँहसे जाला निकालकर उसमें खेलने लगती है, वैसे ही आप अपनी शक्तिके आश्रयसे जीवोंको अपनेमें ही उत्पन्न करते हैं और फिर भी आपमें कोई विकार नहीं होता॥ ५॥

वीरराघवः

तानि सृष्टानि भूतानि आत्मन् आत्मनि स्वस्मिन् इत्यर्थः । स्वयं न पराभावयन् स्वात्मानं परिभवम् अप्रापयन् अमोघवाञ्छ इत्यर्थः । भावयसे पालयसि । ऊर्णनाभिः सूत्रनाभिः कीट21विशेषः तद्वत् आत्मनः शक्तिं प्रकृतिं अवष्टभ्य अक्लमः अस्पृष्टभ्रमः सृजसि पासि संहरसीत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

नाहं वेद परं ह्यस्मिन्नापरं न समं विभो।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः॥

मूलम्

नाहं वेद परं ह्य22स्मिन्नाप23रं न समं विभो।
नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः॥ ६ ॥

अनुवाद (हिन्दी)

जगत‍्में नाम, रूप और गुणोंसे जो कुछ जाना जाता है उसमें मैं ऐसी कोई सत्, असत्, उत्तम, मध्यम या अधम वस्तु नहीं देखता जो आपके सिवा और किसीसे उत्पन्न हुई हो॥ ६॥

वीरराघवः

एतदेव उपपादयति - नाहम् इति । अहं तु अस्मिन् कारणविषये परम् उत्कृष्टं, अ24परं निकृष्टं, समं मध्यमं देवादि25नाम, द्विपदादिरूप, शुक्लादिगुणैः भाव्यं सदसदात्मकं चेतनाचेतनात्मकं किञ्चिदपि वस्तु, अन्यतो न वेद, किन्तु त्वत्त एव जानामीत्यर्थः । यद्वा अस्मिन् कार्यावस्थं26 नामरूपाभ्यां सत्वादिगुणैश्च उपलक्षितत्वेन 27निष्पाद्यं चेतनाचेतनात्मकं किञ्चिदपि वस्तु इदमनेन सममिदं निकृष्टम् इदम् उत्कृष्टमिति न जानामीत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

स भवानचरद् घोरं यत् तपः सुसमाहितः।
तेन खेदयसे नस्त्वं पराशङ्कां प्रयच्छसि॥

मूलम्

28 भवान29चरद् घोरं यत् तपः सुसमाहितः।
तेन खेदयसे नस्त्वं परा30शङ्कां प्र31यच्छसि॥ ७ ॥

अनुवाद (हिन्दी)

इस प्रकार सबके ईश्वर होकर भी आपने एकाग्रचित्तसे घोर तपस्या की, इस बातसे मुझे मोहके साथ-साथ बहुत बड़ी शंका भी हो रही है कि आपसे बड़ा भी कोई है क्या॥ ७॥

वीरराघवः

यत्परः त्वम् इत्यादिप्रश्नः कुतः प्रसक्त इत्यत्रऽह - इति । घोरम् इतरैः चरितुमशक्यं महत्तपः स भवान् जगत्स्रष्टा32 । भगवानिति पाठान्तरम् । तदा पूज्यस्त्व33मित्यर्थः । अचरत् 34कृतवान् । तेन तपश्चरणेन किं अस्मादपि परमस्तीति शङ्कां प्रयच्छसि ततः त्वं नः खेदयसे परशङ्काप्रदानेन चित्तविक्षेपं जनयसि इत्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर।
विजानीहि यथैवेदमहं बुद्ध्येऽनुशासितः॥

मूलम्

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर!।
विजानीहि य35थैवेदमहं बुद्ध्येऽनुशासितः॥ ८ ॥

अनुवाद (हिन्दी)

पिताजी! आप सर्वज्ञ और सर्वेश्वर हैं। जो कुछ मैं पूछ रहा हूँ, वह सब आप कृपा करके मुझे इस प्रकार समझाइये कि जिससे मैं आपके उपदेशको ठीक-ठीक समझ सकूँ॥ ८॥

वीरराघवः

प्रश्नम् उपसंहरति - एतत् इति । हे सर्वज्ञ! सकलेश्वर! त्वया अनुशासितः शिक्षितः अहम् इदं भवता उपदेक्ष्यमाणं यथैव बुध्ये जाने तथै36व तत्सर्वं पृच्छतो मे मह्यं विजानीहि विशेषेण ज्ञापय ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

सम्यक‍‍्कारुणिकस्येदं वत्स ते विचिकित्सितम्।
यदहं चोदितः सौम्य भगवद्वीर्यदर्शने॥

मूलम्

सम्यक‍‍् कारुणिकस्येदं वत्स ते विचिकित्सितम्।
यदहं चोदितः सौ37म्य भ38गवद्वीर्यदर्शने॥ ९ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने कहा—बेटा नारद! तुमने जीवोंके प्रति करुणाके भावसे भरकर यह बहुत ही सुन्दर प्रश्न किया है; क्योंकि इससे भगवान‍्के गुणोंका वर्णन करनेकी प्रेरणा मुझे प्राप्त हुई है॥ ९॥

वीरराघवः

अथ ब्रह्मा यथाप्रश्नम् उत्तरिष्यन् तावत् प्रश्नम् अभिनन्दति - सम्यक् इति । हे वत्स ! पुत्र ! कारुणिकस्य मयि करुणावतः ते त्वया इदं सम्यक् विचिकित्सितं ज्ञातुमिष्टं कुत इत्यत आह यद्यस्मात् अहं भगवद्वीर्यदर्शने भगवत्प्रभावज्ञापनरूपे धर्मे प्रवर्तितः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे॥

मूलम्

नानृ39तं त40व तच्चापि यथा मां प्रब्रवीषि भोः।
अविज्ञाय परं मत्त एतावत्त्वं यतो हि41 मे॥ १० ॥

अनुवाद (हिन्दी)

तुमने मेरे विषयमें जो कुछ कहा है, तुम्हारा वह कथन भी असत्य नहीं है; क्योंकि जबतक मुझसे परेका तत्त्व—जो स्वयं भगवान् ही हैं—जान नहीं लिया जाता, तबतक मेरा ऐसा ही प्रभाव प्रतीत होता है॥ १०॥

वीरराघवः

अभिमतार्थजिघृक्षया प्रश्नं विविनक्ति - नानृतम् इति । भो 42नारद! मां प्रति यथा प्र43ब्रवीषि “एकः सृजसि44 भूतानि” (भाग. 2-5-4) इत्यादिना यत्पृच्छसि तच्चापि तव त्वदीयं वचः नानृतमतीव नासत्यं किन्तु मत्तः परं भगवन्तम् अज्ञात्वा ब्रवीषि इ45ति । अज्ञानहेतुमाह मम एतावत्त्वं एतावन्महिमवत्वं यतः परमकार46णात् भवति तं मत्तः परम् अज्ञात्वा ब्रवीषि इत्यर्थः ॥ ११० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्।
यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः॥

मूलम्

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्।
यथाऽर्कोऽग्निर्यथा सोमो यथार्क्षग्रहतारकाः॥ ११ ॥

अनुवाद (हिन्दी)

जैसे सूर्य, अग्नि, चन्द्रमा, ग्रह, नक्षत्र और तारे उन्हींके प्रकाशसे प्रकाशित होकर जगत‍्में प्रकाश फैलाते हैं, वैसे ही मैं भी उन्हीं स्वयंप्रकाश भगवान‍्के चिन्मय प्रकाशसे प्रकाशित होकर संसारको प्रकाशित कर रहा हूँ॥ ११॥

वीरराघवः

तहि कः असौ ईश्वर इत्यपेक्षायां भक्त्या नमस्करिष्यन्नाह - येन इति । ‘अर्कादयो भगवत्तेजसा रोचितं विश्वं तत्तेजोलेशं उपजीव्य स्वयं रोचयन्तीति स्वात्मानं अभिमन्यते एवं अहमपि इत्यर्थः । “न तत्र सूर्यो भाति” (कठ. उ. 5-15) इति श्रुतिः अत्र अनुसन्धेया ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तस्मै नमो भगवते वासुदेवाय धीमहि।
यन्मायया दुर्जयया मां ब्रुवन्ति जगद‍्गुरुम्॥

मूलम्

तस्मै नमो भगवते वासुदेवाय धीमहि।
यन्मायया दुर्जय47या 48मां ब्रु49वन्ति जगद‍्गुरुम्॥ १२ ॥

अनुवाद (हिन्दी)

उन भगवान् वासुदेवकी मैं वन्दना करता हूँ और ध्यान भी, जिनकी दुर्जय मायासे मोहित होकर लोग मुझे जगद‍्गुरु कहते हैं॥ १२॥

वीरराघवः

तस्मै वासुदेवाय नमो धीमहि नमः कुर्महे । यद्वा, धीमहि इत्यत्र तमिति शेषः । जेतुमशक्यया यस्य भगवतो मायया मां जगद्गुरुं वदन्ति “ब्रह्माद्याः सकला देवाः मनुष्याः पशवः तथा । विष्णुमायामहावर्त्तमो50हान्धतमसावृताः" (विष्णु.पु. 5-30-17) इति न्यायेन मायया मो51हिताः मां जगद्गुरुं वदन्ति; न तु तत्त्वविद इत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः॥

मूलम्

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया।
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः॥ १३ ॥

अनुवाद (हिन्दी)

यह माया तो उनकी आँखोंके सामने ठहरती ही नहीं, झेंपकर दूरसे ही भाग जाती है। परन्तु संसारके अज्ञानीजन उसीसे मोहित होकर ‘यह मैं हूँ, यह मेरा है’ इस प्रकार बकते रहते हैं॥ १३॥

वीरराघवः

इतरेषां मायायाः दुर्जयत्वं भगवतः तत् असंस्पर्शं चाह - विलज्जमानया इति । यस्य भगवतः ईक्षापथे दृष्टिपथे स्थातुं विलज्जमानया तस्मिन् स्वकार्यमकुर्वत्या अमुया मायया विमोहिताः सन्तो ममाहमिति दुर्द्धियः विकत्थन्ते ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
वासुदेवात्परो ब्रह्मन‍्न चान्योऽर्थोऽस्ति तत्त्वतः॥

मूलम्

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च।
वासुदेवात्परो ब्रह्मन‍् न52 चा53न्योऽर्थोऽस्ति त54त्त्वतः॥ १४ ॥

अनुवाद (हिन्दी)

भगवत्स्वरूप नारद! द्रव्य, कर्म, काल, स्वभाव और जीव—वास्तवमें भगवान‍्से भिन्न दूसरी कोई भी वस्तु नहीं है॥ १४॥

वीरराघवः

विकत्थनमेवाह - द्रव्यम् इति । द्रव्यं पृथिव्यादिभूतमेव कारणम् इति केचित् । क55र्मेत्यपरे । काल इत्यन्ये । स्वभाव इत्यपरे । कर्माधीनत्वात् जीव एव कारणमिसत्यपरे । एवं यन्मायया मोहिताः56 विकत्थन्ते इत्यर्थः । एवं तैः स्वतन्त्रतया अभिमताः पदार्था भगवदधीना इत्याह वासुदेवादिति । हे ब्रह्मन् ! द्रव्यादिष्वर्थेषु वासुदेवात् परः अन्योऽर्थो नास्ति यथा वासुदेवात् परो नास्ति तद्वत् अतदात्मकम् अतत्परतन्त्रं च नास्तीत्युक्तं वक्ष्यमाणेषु सूचितम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

नारायणपरा वेदा देवा नारायणाङ्गजाः।
नारायणपरा लोका नारायणपरा मखाः॥

मूलम्

नारायणपरा वेदा देवा नारायणाङ्गजाः।
नारायणपरा लोका नारायणपरा मखाः॥ १५ ॥

अनुवाद (हिन्दी)

वेद नारायणके परायण हैं। देवता भी नारायणके ही अंगोंमें कल्पित हुए हैं और समस्त यज्ञ भी नारायणकी प्रसन्नताके लिये ही हैं तथा उनसे जिन लोकोंकी प्राप्ति होती है, वे भी नारायणमें ही कल्पित हैं॥ १५॥

वीरराघवः

एतदेव उपपादयति - नारायणपरा इति । वेदाः ना57रायणपरा: नारायणः परं कारणं येषां ते तथोक्ताः “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः” (बृह.उ.2-4-10) इत्यादिश्रुतेः । यद्वा नारायणः परः58 प्रतिपाद्यो59 येषां ते तथोक्ताः “सर्वे वेदा यत्पदमामनन्ति" (कठ. उ.2-15) इति श्रुतेः । देवाः इन्द्रादयः नारायणः नारायणस्याङ्गाज्जाताः तच्छरीरभूताश्च इत्यपि विवक्षितं “चन्द्रमा मनसो जातः” (पु.सू.1-6) “स आत्मा अङ्गान्यन्या देवता” (तैत्ति.उ.1-5-1) इत्यादिश्रुतेः । लोका नारायणपराः ना60रायणः परः स्वामी येषां ते तथोक्ता मखाः क्रतवः ना61रायणपराः नारायणः परः आराध्यो येषां ते तथोक्ताः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

नारायणपरो योगो नारायणपरं तपः।
नारायणपरं ज्ञानं नारायणपरा गतिः॥

मूलम्

नारायणपरो योगो नारायणपरं तपः।
नारायणपरं ज्ञानं नारायणपरा गतिः॥ १६ ॥

अनुवाद (हिन्दी)

सब प्रकारके योग भी नारायणकी प्राप्तिके ही हेतु हैं। सारी तपस्याएँ नारायणकी ओर ही ले जानेवाली हैं, ज्ञानके द्वारा भी नारायण ही जाने जाते हैं। समस्त साध्य और साधनोंका पर्यवसान भगवान् नारायणमें ही है॥ १६॥

वीरराघवः

योगो विवेकादिजन्यः उपासनात्मको योगः नारायणपरः नारायणः परो ग61न्तव्यो यस्य स तथोक्तः । तपः विद्याङ्गभूतं कर्म, नारायणपरं नारायणः प62रः पर्यवसानभूमिः यस्य त63त् तथोक्तं ज्ञानं शास्त्रजन्य64ज्ञानं योगस्य पूर्वमुक्तेः तदपि नारायणः परो ध्येयो यस्य तत्तथोक्तं गतिः योगफलं अर्चिरादिका सा अपि नारायणः परो गन्तव्यो यस्याः तथाभूता ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः।
सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः॥

मूलम्

तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः।
सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः॥ १७ ॥65

अनुवाद (हिन्दी)

वे द्रष्टा होनेपर भी ईश्वर हैं, स्वामी हैं; निर्विकार होनेपर भी सर्वस्वरूप हैं। उन्होंने ही मुझे बनाया है और उनकी दृष्टिसे ही प्रेरित होकर मैं उनके इच्छानुसार सृष्टि-रचना करता हूँ॥ १७॥

वीरराघवः

एवं सर्वं तदधीनमिति कथनेन “नाहं वेद परं त्वस्मिन्” (भाग. 2-5-6) इत्यंशस्य उत्तरमुक्तं भवति । तर्हि त्वं किं करोषि ? इत्यपेक्षायाम् आह - तस्य इति । अखिलात्मनः सर्वान्तर्यामिणः अभिद्रष्टुः सर्वज्ञस्य ईशस्य सर्वं स्ववशीकृत्य नियन्तुः, कूटस्थस्य निर्विकारस्य ईक्षयैव सङ्कल्परूपज्ञानेनैव सृष्टः अहं, तेन चोदितः सृज्यं सृजामीत्यन्वयः । स तु प्रयोजकः अहं तु प्रयोज्य इति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः॥

मूलम्

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्र66यः।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः॥ १८ ॥

अनुवाद (हिन्दी)

भगवान् मायाके गुणोंसे रहित एवं अनन्त हैं। सृष्टि, स्थिति और प्रलयके लिये रजोगुण, सत्त्वगुण और तमोगुण—ये तीन गुण मायाके द्वारा उनमें स्वीकार किये गये हैं॥ १८॥

वीरराघवः

ननु कुतो67ऽयं नियोज्यनियोजकभावः कुतो वा तस्य सर्वज्ञत्वादयो धर्माः, स्वस्य तु तद्विपरीता इत्यपेक्षयां मायेश्वरत्वमायावश्यत्वाभ्यामित्याह - सत्त्वमिति । निर्गुणस्य हेयगुणरहितस्य कल्याणगुणानां समनन्तरमेव उक्तत्वात् विभोः - 68व्यापकेन भगवता मायया प्रकृतिद्वारा स्थितिसर्गनिरोधेषु निमित्तेषु स्थित्याद्यर्थम् इ69त्यर्थः । सत्त्वादयस्त्रयो गुणा गृहीताः स्वनिया70म्यत्वेन परिगृहीताः सृष्टिस्थितिसंहाररूपलीलापरिकरत्वेन सत्त्वादय ईश्वरेण परिगृहीता इत्यभिप्रायः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः॥

मूलम्

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः।
बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः॥ १९ ॥

अनुवाद (हिन्दी)

ये ही तीनों गुण द्रव्य, ज्ञान और क्रियाका आश्रय लेकर मायातीत नित्यमुक्त पुरुषको ही मायामें स्थित होनेपर कार्य, कारण और कर्तापनके अभिमानसे बाँध लेते हैं॥ १९॥

वीरराघवः

एवं गुणानाम् ईश्वरलीलापरिकरत्वम् उक्त्वा जीवबन्धक71त्वमाह - कार्येति । कार्यं शरीरं कारणम् इन्द्रियं ताभ्यां कर्तृत्वे निमित्ते पुण्यपापनिष्पादनार्थं गुणाः सत्त्वादयः स्वरूपतः अव्ययं मायिनं मायावश्यं सम्बन्धमात्रे इनिः । पुरुषं जीवं नित्यदा बध्नन्तीत्यन्वयः । गुणान् विशिनष्टि द्रव्येति । मोहनप्रकाशनप्रवर्तनस्वभावाः द्रव्यशब्दस्य मोहनवाचित्वं पारिशेष्यादवगम्यते । अत एव अस्मिन्नध्याये बहुशः प्रयोगाश्च-“सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः, निबध्नन्ति महाबाहो ! देहे देहिनमव्ययम्” (भ.गी. 14-5) “तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्, सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ” (भ.गी. 14-6) “रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्, तन्निबध्नाति कौन्तेय! कर्मसङ्गेन देहिनम्” (भ.गी. 14-7) “तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिः तन्निबध्नाति भारत” (भ.गी. 14-8) इति गीतावचनानि अत्र स्मारितानि ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

स एष भगवाँल्लिङ्गैस्त्रिभिरेभिरधोक्षजः।
स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः॥

मूलम्

स एष भगवाँल्लिङ्गैस्त्रिभिरेभि72रधोक्षजः।
स्वलक्षितगतिर्ब्रह्मन्! सर्वेषां मम चेश्वरः॥ २० ॥

अनुवाद (हिन्दी)

नारद! इन्द्रियातीत भगवान् गुणोंके इन तीन आवरणोंसे अपने स्वरूपको भलीभाँति ढक लेते हैं, इसलिये लोग उनको नहीं जान पाते। सारे संसारके और मेरे भी एकमात्र स्वामी वे ही हैं॥ २०॥

वीरराघवः

एवं गुणानां जीवबन्धकत्वम् उक्तम् । अथ स्वलीलापरि73करीकृतमायः परमेश्वरः सर्वेषां मम चेश्वर इत्याह - इति । लिङ्गैः सत्त्वादिगुणैः शरीरभूतप्रकृतिस्थैः उपलक्षितः स्वलक्षितगतिः स्वलक्षिता स्वच्छन्दा गतिः यस्य तथोक्तः । न तु तदा दर्शितपन्थानौ इतिक्त् अन्यदर्शितमार्गः । स एव एवंविधैश्वर्यसम्पन्नो भगवान् हे ब्रह्मन् ! नारद! सर्वेषां मम च ईश्वरः नियन्ता ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

कालं कर्म स्वभावं च मायेशो मायया स्वया।
आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे॥

मूलम्

कालं कर्म स्वभावं च मायेशो मायया स्वया।
74त्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे॥ २१ ॥

अनुवाद (हिन्दी)

मायापति भगवान‍्ने एकसे बहुत होनेकी इच्छा होनेपर अपनी मायासे अपने स्वरूपमें स्वयं प्राप्त काल, कर्म और स्वभावको स्वीकार कर लिया॥ २१॥

वीरराघवः

75वम् “एकः सृजसि76 भूतानि” (भाग 2-5-4) इति प्रश्न77स्य उत्तरमुक्त्वा यद्रूपं इत्यादि78प्रश्नस्योत्तरं वदन् तावत्सृष्टिप्रकारमाह - कालम् इति । मायेशो मायाधिपतिः स्व79या मायया स्वसङ्कल्पेन । यद्वा, द्वारभूतया प्रकृत्या विबुभूषुः प्रकृतिद्वारा नानानामरूपभाक् भवितुमिच्छुः, यदृच्छया अहेतुकम् अपरप्रेर्यो अकर्मपरवशः आ80त्मन् आत्मनि प्राप्तं सङ्गतं युक्तं कालं, कर्म, स्वभावं च उपाददे । कालो गुणवैषम्यरूपगुणक्षोभहेतुः । कर्म जीवादृष्टम् । स्वभावः प्रकृतेः परिणामस्वभावः । एतेषामुपादानं नाम स्व81स्वकार्योन्मुख्यापादनम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

कालाद् गुणव्यतिकरः परिणामः स्वभावतः।
कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्॥

मूलम्

कालाद् गुणव्यतिकरः82 परिणाम83स्स्वभावतः।
कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्॥ २२ ॥

अनुवाद (हिन्दी)

भगवान‍्की शक्तिसे ही कालने तीनों गुणोंमें क्षोभ उत्पन्न कर दिया, स्वभावने उन्हें रूपान्तरित कर दिया और कर्मने महत्तत्त्वको जन्म दिया॥ २२॥

वीरराघवः

कालकर्मस्वभावोपादानफलं दर्शयन् महतः सृष्टिमाह - कालात् इति । कालात् हेतुभूतात् गुणव्यतिकरात् कालकृतगुणवैषम्यात् इत्यर्थः । परिणामस्वभावतः प्रकृतेः परिणामस्वभावात् कर्मणो जीवादृष्टच्च हेतोः परमपुरुषाधिष्ठितात् अव्यक्तात् महतो महत्तत्त्वस्य जन्म उत्पत्तिः अभूदित्यर्थः । तदधिष्ठितत्वं तदाहितस्वकार्यजननसामर्थ्यवत्वम् । अत्र अव्यक्तात् इत्यध्याहारः । पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहेण च इति दर्शनात् व्यतिकरः मिश्रणं समानां84 गु85णानां विषमत्वापत्तिः । यद्वा, गुणानां व्यतिकरो यस्मिन् इति बहुव्रीहिः । अव्यक्तादित्यर्थः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

महतस्तु विकुर्वाणाद्रजः सत्त्वोपबृंहितात्।
तमः प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः॥

मूलम्

महतस्तु विकुर्वाणाद्रजः सत्त्वोपबृंहितात्।
तमः प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मकः॥ २३ ॥

अनुवाद (हिन्दी)

रजोगुण और सत्त्वगुणकी वृद्धि होनेपर महत्तत्त्वका जो विकार हुआ, उससे ज्ञान, क्रिया और द्रव्यरूप तमःप्रधान विकार हुआ॥ २३॥

वीरराघवः

महतोऽहङ्कारोत्पत्तिमाह - महतस्तु इति । वि86कुर्वाणात् विक्रियमाणाद्रजस्सत्त्वोपबृंहितात् 87महतः द्रव्यज्ञानक्रियात्मकः मोहनप्रकाशनप्रवर्त्तनस्वभावः तमःप्रधानः तमोगुणप्रधानः अभवत् । महतः त्रिगुणात्मकत्वेऽपि क्रियाशक्तिज्ञानशक्तिप्रधानत्वात् रजस्सत्त्वोपबृंहितात् इत्युक्तम् । एवम् अहङ्कारस्य तमः कार्यप्रधानत्वात् तमःप्रधानः इत्युक्तिः । अत एव अहङ्कारकार्येषु तामसं बहु राजसं सात्त्विकं च अल्पम् । एवं महत्कार्येषु तामसं अल्पं, तदितरदुभयं बह्विति मन्तव्यम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा।
वैकारिकस्तैजसश्च तामसश्चेति यद‍्भिदा।
द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो॥

मूलम्

सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा।
वै88कारिकस्तैजसश्च तामसश्चेति यद‍्भिदा।
द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो॥ २४ ॥

अनुवाद (हिन्दी)

वह अहंकार कहलाया और विकारको प्राप्त होकर तीन प्रकारका हो गया। उसके भेद हैं—वैकारिक, तैजस और तामस। नारदजी! वे क्रमशः ज्ञानशक्ति, क्रियाशक्ति और द्रव्यशक्तिप्रधान हैं॥ २४॥

वीरराघवः

तमःप्रधानस्य किं नामधेयं इत्यत आह - इति । तस्य त्रैविध्यमाह विकुर्वन् रूपान्तरं गच्छन् । अहङ्कारःत्रिधा समभूत् स89म्यगभूत् । यद्भिदा यस्य अहङ्कारस्य भिदा वैकारिकः, तैजसश्च, तामसश्चेति, सात्त्विकराजसतामसा90हङ्काराणां क्रमेण नामानि । तेषां प्रतिनियतस्वभावानाह द्रव्यशक्तिरिति । प्रातिलोम्येन त्रयाणां स्वभावप्रदर्शनं द्रव्यशक्तिः । विमूढमहाभूताख्यद्रव्योत्पादने शक्तिः सामर्थ्यं यस्य स तथोक्तः । सात्त्विकाहङ्कारा91नुग्राहकत्वरूपा या क्रिया तस्यां शक्तिः यस्य स तथोक्तः । प्रवर्तनमेव हि रजःकार्यम् । ज्ञानशक्तिः शब्दादिविषयज्ञानसाधनेन्द्रियोत्पादने शक्तिः यस्य स तथोक्तः । एकादशानाम् इन्द्रियाणां सात्त्विकाहङ्कारकार्यत्वात्, राजसस्य तु तदनुग्राहकत्वात् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तामसादपि भूतादेर्विकुर्वाणादभून्नभः।
तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः॥

मूलम्

तामसादपि भूतादेर्विकुर्वाणादभून्नभः।
तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः॥ २५ ॥

अनुवाद (हिन्दी)

जब पंचमहाभूतोंके कारणरूप तामस अहंकारमें विकार हुआ, तब उससे आकाशकी उत्पत्ति हुई। आकाशकी तन्मात्रा और गुण शब्द है। इस शब्दके द्वारा ही द्रष्टा और दृश्यका बोध होता है॥ २५॥

वीरराघवः

एवम् अहङ्कारस्य त्रैविध्यम् उक्तम् । अथ तामसाहङ्कारात् शब्दादितन्मात्राक्रमेण आकाशादिभूत92सृष्टिमाह - तामसात् इति । भूतादिः इति तामसाहङ्कारस्यैव नामान्तरम् । विक्रियमाणात् भूतादिनामकात् तामसाहङ्कारात् नभः अभूत् । शब्दद्वारा नभः उदपद्यतेत्यर्थः । एवमेव स्पर्शादिष्वपि द्रष्टव्यम् । एतदेव शब्दस्वभाव93त्त्वं कथयन् उपपादयति लिङ्गमिति । द्र94ष्टृदृश्ययोः आत्मानात्मनोः यल्लिङ्गं प्रमाणं तस्य नभसो मात्रा सूक्ष्मं रूपं गुणः व्यावर्त्तकोऽसाधारणो धर्मश्च यः शब्दः सोऽप्यभूदित्यर्थः । यद्वा, तस्य नभसः मात्रागुणः असाधारणगुणः शब्दस्य लक्षणं द्रष्टृदृश्ययोः आत्मानात्मनोः लिङ्गं प्रमाणं यत् स शब्द इत्यर्थः । शब्दो हि शास्त्रात्मना आत्मानात्मनोः प्रमाणम् । यदाह सूत्रकारः “शास्त्रायोनित्वात्” (ब्र.सू. 1-1-3) इति । यदिति नपुंसकत्वं लिङ्गापेक्षया ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिलः।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम्॥

मूलम्

नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिलः।
परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम्॥ २६ ॥

अनुवाद (हिन्दी)

जब आकाशमें विकार हुआ, तब उससे वायुकी उत्पत्ति हुई; उसका गुण स्पर्श है। अपने कारणका गुण आ जानेसे यह शब्दवाला भी है। इन्द्रियोंमें स्फूर्ति, शरीरमें जीवनीशक्ति, ओज और बल इसीके रूप हैं॥ २६॥

वीरराघवः

विकुर्वाणात् रूपान्तरं गच्छतः नभसः स्पर्शगुणः अनिलः वायुः अभूत् स्वर्शतन्मात्रद्वारा अभूदित्यर्थः । परान्वयात् कारणनभोगुणानुवृत्तेः, शब्दवांश्च वायुरित्यर्थः । स95स्पर्शस्य वायोर्लक्षणमाह प्राणः अवस्थाविशेषोपपन्नो वायुर्हि प्राणः । ‘ओजः सहो बलम्’ इति धर्मिप्रधानो निर्देशः ओज आदिविशिष्ट इत्यर्थः । ओजः प्रवृत्तिशक्तिः, सहो वेग;, बलं धारणसामर्थ्यं ओजःसहोबलानि इन्द्रियमनश्शरीराणां पाटवानि तेषां हेतुः इति केचित् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत्॥

मूलम्

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः।
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत्॥ २७ ॥

अनुवाद (हिन्दी)

काल, कर्म और स्वभावसे वायुमें भी विकार हुआ। उससे तेजकी उत्पत्ति हुई। इसका प्रधान गुण रूप है। साथ ही इसके कारण आकाश और वायुके गुण शब्द एवं स्पर्श भी इसमें हैं॥ २७॥

वीरराघवः

कालकर्मस्वभावतो हेतोः विकुर्वाणात् वायोः रूपवत् कारणभूताकाशवायुगुणानुवृत्तेः रू96पवत् स्पर्शशब्दवच्च तेजः उदपद्यत । कालकर्मस्वभावत इति सर्वत्र अनुसन्धेयम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम्।
रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात्॥

मूलम्

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम्।
रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात्॥ २८ ॥

अनुवाद (हिन्दी)

तेजके विकारसे जलकी उत्पत्ति हुई। इसका गुण है रस; कारण-तत्त्वोंके गुण शब्द, स्पर्श और रूप भी इसमें हैं॥ २८॥

वीरराघवः

विक्रियमाणात् तेजसः रसात्मकं परान्वयात् रूपस्पर्शशब्दवाम्भ आसीत् । घो97षवत् शब्दवत् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्।
परान्वयाद् रसस्पर्शशब्दरूपगुणान्वितः॥

मूलम्

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्।
परान्वयाद्रसस्पर्शशब्दरूपगुणान्वितः॥ २९ ॥

अनुवाद (हिन्दी)

जलके विकारसे पृथ्वीकी उत्पत्ति हुई, इसका गुण है गन्ध। कारणके गुण कार्यमें आते हैं—इस न्यायसे शब्द, स्पर्श, रूप और रस—ये चारों गुण भी इसमें विद्यमान हैं॥ २९॥

वीरराघवः

अथ विकुर्वाणात् अम्भसो गन्धवान् परान्वयात् रसस्पर्शशब्दरूपगुणान्वितश्च विशेषः पृथिव्यभूत् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

वैकारिकान्मनो जज्ञे देवा वैकारिका दश।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः॥

मूलम्

वैकारिकान्मनो जज्ञे देवा वैकारिका दश।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः॥ ३० ॥

अनुवाद (हिन्दी)

वैकारिक अहंकारसे मनकी और इन्द्रियोंके दस अधिष्ठातृ देवताओंकी भी उत्पत्ति हुई। उनके नाम हैं—दिशा, वायु, सूर्य, वरुण, अश्विनीकुमार, अग्नि, इन्द्र, विष्णु, मित्र और प्रजापति॥ ३०॥

वीरराघवः

सर्वेषां इन्द्रियाणां सात्त्विकाहङ्कारात् उत्पत्तिमाह - वैकारिकादिति । वैकारिकनाम्नः सात्विकाहङ्कारात् दिगादयः श्रोत्राद्यधिष्ठान98देवताः । ताभिः अधिष्ठितानि इन्द्रियाणि मनश्च जज्ञिरे इत्यर्थः । “अग्निर्वाग्भूत्वा” इत्यादिवत् अधिष्ठात्रधिष्ठेययोः अभेदोपचारात् सामानाधिकरण्यात् देवा वैकारिका इत्युक्तम् । देवताः गणयति दि99गिति । दिशश्च वातश्च अर्कश्च प्रचेताश्च अश्विनौ च - एते तस्य श्रोत्र त्वक्चक्षुर्जिह्वाध्राणानां अधिष्ठातारः वह्निश्चेन्द्रश्च उपेन्द्रश्च मित्रश्च कश्च प्रजापतिः - एते पञ्च वाक्पाणिपादपायूपस्थानां अधिष्ठातारः । मनसस्तु अधिष्ठाता चन्द्रमाः । एभिः दशभिः अधिष्ठितानि श्रोत्रादीनि जातानि इत्यभिप्रायः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन्।
ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ।
श्रोत्रं त्वग्घ्राणदृग्जिह्वावाग्दोर्मेढ्राङ्घ्रिपायवः॥

मूलम्

तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन्।
ज्ञानशक्तिः क्रियाशक्तिः बुद्धिः प्राणश्च100 तैजसौ101
श्रोत्रं102 त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः॥ ३१ ॥

अनुवाद (हिन्दी)

तैजस अहंकारके विकारसे श्रोत्र, त्वचा, नेत्र, जिह्वा और घ्राण—ये पाँच ज्ञानेन्द्रियाँ एवं वाक्, हस्त, पाद, गुदा और जननेन्द्रिय—ये पाँच कर्मेन्द्रियाँ उत्पन्न हुईं। साथ ही ज्ञानशक्तिरूप बुद्धि और क्रियाशक्तिरूप प्राण भी तैजस अहंकारसे ही उत्पन्न हुए॥ ३१॥

वीरराघवः

तैजसाहङ्कारकार्यमाह - तैजसादिति । तेजसात् तेजस्सम्बन्धिनः राजसाहङ्कारानुगृहीतात् सात्त्विकाहङ्कारादित्यर्थः । अन्यथा पूर्वग्रन्थव्याघातात् । पूर्वग्रन्थै अभिमानिदेवतासृष्टिरिति चेत् न । इन्द्रियैर्विना देवतादेहारम्भायोगात्, चरुर्मुखसृष्टत्त्वेन अत्र वक्ष्यमाणानां आदित्येन्द्रदीनां अण्डसृष्टेः प्राक् सृष्ट्ययोगाच्च । न च असृष्टानामेव अधिष्ठातृत्वमपि अनुपपन्नमिति वाच्यम् । परमाकाशस्थानां भगवत्संकल्पानुगृहीतानां अधिष्ठातृत्वोपपत्तेः । कोऽयं परमाकाश इति चेत् वैकुण्ठाख्यो लोकः अत एव “वृतं चतुःषोडशपञ्चशक्तिभि” रिति वक्ष्यते । न च परमाकाशस्थाभिः एव अधिष्ठानोपपत्तेः चतुर्मुखकर्तृका दिगादिसृष्टिर्व्यर्थेति वाच्यम् । व्यष्टीन्द्रियाधिष्ठानार्थं दिगादिसृष्टेः आवश्यकत्वात् । अतः परमाकाशे सत्येव इत्यवगन्तव्यम् । अत एव एभिः अधिष्ठातृभिः परमात्मानं प्रति क्रियमाणा स्तुतिरपि उपपद्यते । अन्यथा अण्डोत्पत्त्यनन्तरं स्रक्ष्यमाणानां एषां अण्डोत्पत्तेः पूर्वं अभावात् तत्कर्तृका स्तुतिरनुपपन्ना स्यात् । नन्वेषां सर्वेन्द्रियाधिष्ठातृत्वे तदिन्द्रियाणां केऽधिष्ठातारः इति येत्, उच्यते- तदिन्द्रियाणामपि दशानां अधिष्ठातारः सन्त्येव । एकैकमिन्द्रियं त्वधिष्ठातृशून्यं अवतिष्ठते । तत्र स्वपरकार्यनिर्वाहकत्वन्यायेन स्वेनैव वा परमात्मना वा अधिष्ठीयते इति नानवस्थाप्रसङ्ग इति । यद्वा तैजसात्त्विति पक्षान्तरोक्तिः । पक्षद्वयस्य अविरोधमाह ज्ञानशक्तिरिति । प्राणशब्दः इन्द्रियापरं, ज्ञानशक्तिः प्राणः, ज्ञानेन्द्रियगणः क्रियाशक्तिश्च प्राणः, कर्मेन्द्रियागणः बुद्धिरन्तः - करणचतुष्टयं च तैजसः । राजसाहङ्कारान्वितसामग्रीप्रसूतः ज्ञानकर्मेन्द्रियाणां अन्तःकरणस्य च स्वकार्ये103 प्रवृत्तिमत्वात् तत्कारणेनापि रजोगुणान्तितेन भवितव्यं इत्येतत्तात्पर्यकत्वात् तैजसत्त्ववादस्य सर्वेन्द्रियाणां राजसाहङ्कारानुगृहीतसात्त्विकाहङ्कारकार्यत्वमेवेति न पक्षद्वयविरोध इत्यर्थः । एवं भूतादेः अपि इन्द्रियसृष्टौ अनुग्राहकः तैजसः इति वेदितव्यम् । इन्द्रियाणि गणयति श्रोत्रमिति । दोः पाणिः मेढ्रं उपस्थः । क्रमस्त्वत्र न विवक्षितः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः।
यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम॥

मूलम्

यदै104तेऽसङ्ग105ता भावा भूतेन्द्रियमनोगुणाः।
यदाऽऽयतननिर्माणे न शेकुर्ब्रह्मवि106त्तम!॥ ३२ ॥

अनुवाद (हिन्दी)

श्रेष्ठ ब्रह्मवित्! जिस समय ये पंचभूत, इन्द्रिय, मन और सत्त्व आदि तीनों गुण परस्पर संगठित नहीं थे तब अपने रहनेके लिये भोगोंके साधनरूप शरीरकी रचना नहीं कर सके॥ ३२॥

वीरराघवः

यदैते भूतानि इन्द्रियाणि मनश्च तेषां गुणाः तन्मात्राणि, विषयाः 107शब्दादयः, एते सर्वे असंहताः अमिलिताः आसन् । अत एव यदायतनस्य ब्रह्माण्डा108ख्यभगवच्छरीरस्य निर्माणे हे ब्रह्मवित्तम! न शेकुः नाशक्नुवन् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः।
सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः॥

मूलम्

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः।
सदसत्त्वमुपादाय चो109भयं ससृजुर्ह्यदः॥ ३३ ॥

अनुवाद (हिन्दी)

जब भगवान‍्ने इन्हें अपनी शक्तिसे प्रेरित किया तब वे तत्त्व परस्पर एक-दूसरेके साथ मिल गये और उन्होंने आपसमें कार्य-कारणभाव स्वीकार करके व्यष्टि-समष्टिरूप पिण्ड और ब्रह्माण्ड दोनोंकी रचना की॥ ३३॥

वीरराघवः

तदा भगवच्छक्त्या चोदिताः प्रेरिताः संहत्य पञ्चीकरणोक्तप्रकारेण परस्परं110 मिलित्वा सदसत्त्वं, सत्त्वं पञ्चीकरणेन स्थूलत्त्वं, असत्त्वं सूक्ष्मत्वं न उभयं अनुभयं पूर्वोक्तकालकर्मस्वभावाॅंश्च उपादायादः ब्रह्माण्डं ससृजुः । यद्वा अनुभयमिति अदःशब्दनिर्दिष्टब्रह्माण्डविशेषणं अनुभयं कार्यकारणभावानन्वितं अ111द: ब्रह्माण्डं ससृजुरित्यर्थः । कार्यमप्यण्डं हि आकाशकार्यवायुवत् न तत्त्वान्तरं; न च तत्त्वान्तरारम्भकं, अतस्तत्त्वान्तरतया कार्यं तत्त्वान्तरापेक्षया कारणं च न भवतीत्यनुभयं ब्रह्माण्डमुक्तं चतुर्मुखोत्पत्त्यादिकमन्यत्र विस्तरेण वक्ष्यमाणं अत्रापि अर्थसिद्धं अनुसन्धेयम् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

वर्षपूगसहस्रान्ते तदण्डमुदकेशयम्।
कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत्॥

मूलम्

वर्ष112पूगसहस्रान्ते तदण्डमुदकेशयम्।
कालकर्मस्वभावस्थो जीवोऽजीवमजीव113यत्॥ ३४ ॥

अनुवाद (हिन्दी)

वह ब्रह्माण्डरूप अंडा एक सहस्र वर्षतक निर्जीवरूपसे जलमें पड़ा रहा; फिर काल, कर्म और स्वभावको स्वीकार करनेवाले भगवान‍्ने उसे जीवित कर दिया॥ ३४॥

वीरराघवः

वर्षपूगसहस्रान्ते प्रलयकालावसाने इत्यर्थः । अन्यथा “त114त् क्रमेण विवृद्धं तज्जलबुद्बुदवत् समम्” (विष्णु.पु.1-2-54) इति विरोधात् । जीवः देवाद्यपेक्ष्या समष्टिपुरुषब्रह्माख्यजीवशरीरकः परमपुरुषः, कालकर्मस्वभावाश्रितः सन् तं अजीवं अचेतनं उदकेशयं अण्डं ब्र115ह्माण्डं अजीवयत् चेतयति स्म । अत्रोदकेशयं इत्यनेन अण्डसृष्टेः पूर्वं गर्भोदकसंज्ञिका सृष्टिः अर्थसिद्धानुसन्धेया परोक्षनिर्देशश्च चतुर्मुखान्तरसाम्याभिप्रायः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः।
सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान्॥

मूलम्

स एवं116 पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः।
सहस्रोर्वङ्घ्रिबाह्वक्षः117 सहस्राननशीर्षवान्॥ ३५ ॥

अनुवाद (हिन्दी)

उस अंडेको फोड़कर उसमेंसे वही विराट् पुरुष निकला, जिसकी जंघा, चरण, भुजाएँ, नेत्र, मुख और सिर सहस्रोंकी संख्यामें हैं॥ ३५॥

वीरराघवः

स एव पुरुषः चतुर्मुखरू118पेणा119वस्थितः परमपुरुषः अण्डं निर्भिद्य तस्मात् निर्गत; अण्डभेद120नावकाशलाभात् अनुपरुद्धसंचारादिमान् अभूत् इत्यर्थः । चतुर्मुखस्य भगवदात्मकत्त्वं सामानाधिकरण्येन आह सहस्त्रेति । यः चतुर्मुखशरीरकत्त्वेन अवस्थितः स एव “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्” । (पु.सू.1-1) “सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोक" (भ.गी. 13-13) इत्यादिना उक्तः सर्वतः पाणिपादादिकार्यकर्ता परमपुरुष इत्यर्थ: ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः।
कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः॥

मूलम्

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः।
121ट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः॥ ३६ ॥

अनुवाद (हिन्दी)

विद्वान् पुरुष (उपासनाके लिये) उसीके अंगोंमें समस्त लोक और उनमें रहनेवाली वस्तुओंकी कल्पना करते हैं। उसकी कमरसे नीचेके अंगोंमें सातों पातालकी और उसके पेड़ूसे ऊपरके अंगोंमें सातों स्वर्गकी कल्पना की जाती है॥ ३६॥

वीरराघवः

यस्य सर्वतः पाणिपादादिकार्यकर्तुः वैराजपुरुषस्य अवयवैः पादतलाद्यवयवैः लोकान् अ122तलादीन् मनीषिणः उपासकाः कल्पयन्ति लोकान्, यदवयवत्त्वेन रचयन्तीत्यर्थः । तत्तदवयवप्रभवानां तत्तदवयवत्त्वेन उपासनं युक्तं तदवयवैः लोकरचनां आह कट्यादिभिरिति । कटिरूरुमूलयोः पश्चाद्भागः, जघनं पुरोभागः अधः सप्तलोकान् अतलादीनूर्घ्वं भूरादीन् सप्त कल्पयन्तीत्यन्वयः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः।
ऊर्वोर्वैश्यो भगवतः पद‍्भ्यां शूद्रोऽभ्यजायत॥

मूलम्

पुरुषस्य मुखं ब्रह्मा123 क्षत्रमेतस्य बाहवः।
ऊर्वोर्वै124श्यो भगवतः पद‍्भ्यां शूद्रो125ऽभ्यजायत॥ ३७ ॥

अनुवाद (हिन्दी)

ब्राह्मण इस विराट् पुरुषका मुख है, भुजाएँ क्षत्रिय हैं, जाँघोंसे वैश्य और पैरोंसे शूद्र उत्पन्न हुए हैं॥ ३७॥

वीरराघवः

वर्णानां तद्विभूतित्वाय चतुर्मुखरूपेण अवस्थितात् तत उत्पत्तिं दर्शयति पुरुषस्येति । ब्रह्म ब्राह्मणः मुखमिति । कार्यकारणयोः अभेदविवक्षया उक्तं बाहव इति च । क्षत्रं क्षत्रियः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

भूर्लोकः कल्पितः पद‍्भ्यां भुवर्लोकोऽस्य नाभितः।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः॥

मूलम्

भूर्लोकः कल्पितः पद‍्भ्यां भुवर्लोको126ऽस्य नाभितः।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः॥ ३८ ॥

अनुवाद (हिन्दी)

पैंरोंसे लेकर कटिपर्यन्त सातों पाताल तथा भूलोककी कल्पना की गयी है; नाभिमें भुवर्लोककी, हृदयमें स्वर्लोककी और परमात्माके वक्षःस्थलमें महर्लोककी कल्पना की गयी है॥ ३८॥

श्लोक-३९

विश्वास-प्रस्तुतिः

ग्रीवायां जनलोकश्च तपोलोकः स्तनद्वयात्।
मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः॥

मूलम्

ग्रीवा127यां जनलोक128श्च तपोलोकः129 स्तनद्वयात्।
मूर्धतः130 सत्यलोकस्तु ब्रह्मलोकः सनातनः॥ ३९ ॥

अनुवाद (हिन्दी)

उसके गलेमें जनलोक, दोनों स्तनोंमें तपोलोक और मस्तकमें ब्रह्माका नित्य निवासस्थान सत्यलोक है॥ ३९॥

श्लोक-४०

विश्वास-प्रस्तुतिः

तत्कट्यां चातलं क्लृप्तमूरुभ्यां वितलं विभोः।
जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम्॥

मूलम्

तत्कट्यां131 चातलं क्लृप्तमूरुभ्यां वितलं विभोः।
जानुभ्यां सुतलं शु132द्धं जङ्घाभ्यां तु तलातलम्॥ ४० ॥

अनुवाद (हिन्दी)

उस विराट् पुरुषकी कमरमें अतल, जाँघोंमें वितल, घुटनोंमें पवित्र सुतललोक और जंघाओंमें तलातलकी कल्पना की गयी है॥ ४०॥

श्लोक-४१

विश्वास-प्रस्तुतिः

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम्।
पातालं पादतलत इति लोकमयः पुमान्॥

मूलम्

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम्।
पातालं पादतलत इति लोकमयः पुमान्॥ ४१ ॥

अनुवाद (हिन्दी)

एड़ीके ऊपरकी गाँठोंमें महातल, पंजे और एड़ियोंमें रसातल और तलुओंमें पाताल समझना चाहिये। इस प्रकार विराट् पुरुष सर्वलोकमय है॥ ४१॥

वीरराघवः

इदानीं उपासनार्थं लोककल्पनाभेदं दर्शयन् चतुर्दशलोकपक्षमाह भूरित्यादि चतुष्टयेन । भूर्लोकः पातालं आरभ्य पद्भ्यां कटिपर्यन्ताभ्यां कल्पितः । भुवर्लोकः नाभितः नाभिं आरभ्य आ133 स्तनद्वयात् हृदयं कमलाकारं तदूर्ध्वभागः उरः । ब्रह्मलोकः सनातन इति । सत्यलोकविशेषणम् । सनातनत्वं च भूराद्यपेक्षया । यद्वा ब्रह्मलोको वैकुण्ठाख्यो134 लोकः सनातनः न तु सृज्यप्रपञ्चान्तवर्तीत्यर्थः ॥ ३८,३९,४०,४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

भूर्लोकः कल्पितः पद‍्भ्यां भुवर्लोकोऽस्य नाभितः।
स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना॥

मूलम्

भूर्लोकः कल्पितः पद‍्भ्यां भुवर्लोको135ऽस्य नाभितः।
स्वर्लोकः कल्पितो मूर्ध्ना136 इति वा लोककल्पना॥ ४२ ॥

अनुवाद (हिन्दी)

विराट् भगवान‍्के अंगोंमें इस प्रकार भी लोकोंकी कल्पना की जाती है कि उनके चरणोंमें पृथ्वी है, नाभिमें भुवर्लोक है और सिरमें स्वर्लोक है॥ ४२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पञ्चमोऽध्यायः॥ ५॥

वीरराघवः

इदानीं सङ्ग्रहेण लोकत्रयकल्पनामाह भूर्लोकः कल्पित इति । पादतलमारभ्य आ137 नाभितः भूलोकः, नाभिमारभ्य आ138 मूर्धतः भुवर्लोकः, मूर्धा स्वर्लोकः कल्पितः । अतलादीनां भूरादिषु अन्तर्भावात् ॥ ४२ ॥

इति श्रीमद्भागवते द्वितीयस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥


  1. W विज्ञा ↩︎

  2. M,Ma वि ↩︎

  3. W जगत् यद्रूपं ↩︎

  4. W Omits यदात्मकं ↩︎

  5. A,B Omit तस्य ↩︎

  6. A,B एव ↩︎

  7. A,B लीन ↩︎

  8. A,B भ्य ↩︎

  9. W ति ↩︎

  10. A,B Omit पूर्वपद ↩︎

  11. W यदाधारः ↩︎

  12. W त्वत्तः ↩︎

  13. W इत्यर्थः ↩︎

  14. W adds यदात्मकः ↩︎

  15. A,B भासि ↩︎

  16. W दिभू ↩︎

  17. W ति ↩︎

  18. W Omits त्वमिति शेषः ↩︎

  19. M,Ma ग्भावयेः ↩︎

  20. M,Ma सूत्र ↩︎

  21. A,B व ↩︎

  22. AF,GF तस्मिन्; B,H,V त्वस्मिन्; M,Ma त्वस्मात् ↩︎

  23. M,Ma व ↩︎

  24. W द्युपत्यदिरू ↩︎

  25. GF,W स्थे ↩︎

  26. A,B अनि ↩︎

  27. W त ↩︎

  28. WF भगवानच ↩︎

  29. H,V नाच ↩︎

  30. H,M,Ma,V रां; W र ↩︎

  31. I,M,Ma च य ↩︎

  32. B adds भवान् ↩︎

  33. W स्त्वं गुरुसम इ ↩︎

  34. A,B add अचरति ↩︎

  35. H यथैवाहं त्वया; V तथैवाहं त्वया ↩︎

  36. A,B थैतत्स ↩︎

  37. C,H,V धर्मे ↩︎

  38. N परधर्मप्र ↩︎

  39. H,V त्यन्तमनृतं तच्च ↩︎

  40. M,Ma बत ↩︎

  41. H,V ऽस्ति ↩︎

  42. W adds हे ↩︎

  43. W Omits प्र ↩︎

  44. W ति ↩︎

  45. W Omits इति। ↩︎

  46. W रुणिकात् ↩︎

  47. AF,GF र ↩︎

  48. V (याय) ↩︎

  49. B,H,I,M,Ma,V वद ↩︎

  50. W गर्ता ↩︎

  51. W Omits मोहिताः ↩︎

  52. M,Ma नैवा ↩︎

  53. H,V त्व ↩︎

  54. M,Ma ता ↩︎

  55. A,B कर्मैव कारणमिति केचित् ↩︎

  56. W adds सन्तो ↩︎

  57. A,B Omit नारायणपराः ↩︎

  58. A,B रं ↩︎

  59. A,B द्यं ↩︎

  60. A Omits नारायणः ↩︎

  61. A,B Omit नारायणपराः ↩︎ ↩︎

  62. B,W ध्येयो ↩︎

  63. A,B Omit परः ↩︎

  64. A,B Omit तत् ↩︎

  65. “तस्याभिद्रष्टुः” :- श्रीवीरराघवाङ्गीकृतः पाठः। ↩︎

  66. V स्ततः ↩︎

  67. W Omits अयं ↩︎

  68. “व्यापकस्य भगवतः” इति वा, “व्यापकत्वेन भगवतः” इति वा सुगमतरः पाठः । ↩︎

  69. A,B य ↩︎

  70. A,B न ↩︎

  71. A,B Omit इत्यर्थः ↩︎

  72. I,M,Ma,W तै ↩︎

  73. W ल्पित ↩︎

  74. H,V यदृच्छ्याऽऽत्मनि ↩︎

  75. W Omits एवम् ↩︎

  76. W ति ↩︎

  77. W श्नोत्त ↩︎

  78. A,B देः ↩︎

  79. W स्वमा ↩︎

  80. W Omits आत्मन् ↩︎

  81. W स्वका ↩︎

  82. M,Ma,W रात् ↩︎

  83. M,Ma,W मस्व ↩︎

  84. W नानां ↩︎

  85. A,B Omit गुणानां ↩︎

  86. A,B Omit विकुर्वाणात् ↩︎

  87. W adds इत्युक्तं ↩︎

  88. I Omits वैका….यद्भिदा। ↩︎

  89. W Omits सम्यगभूत् ↩︎

  90. W सानां अहं ↩︎

  91. W रग्ना ↩︎

  92. A,B तस्य सृ ↩︎

  93. W वं ↩︎

  94. A,B Omit द्रष्टृ…..प्रमाणं ↩︎

  95. W स्पर्शवांश्च ↩︎

  96. A,B Omit रूपवत् ↩︎

  97. A,B घोषः शब्दः ↩︎

  98. W तृ ↩︎

  99. A,B Omit दिगिति ↩︎

  100. C,M,Ma,N,W स्तु ↩︎

  101. M,Ma सः; W सात् ↩︎

  102. C,H,N,V त्र ↩︎

  103. A,B र्य ↩︎

  104. M,Ma ए ↩︎

  105. W संह ↩︎

  106. V स ↩︎

  107. W adds च ↩︎

  108. A,B ण्डस्य ↩︎

  109. M,Ma,W नो ↩︎

  110. W रेण ↩︎

  111. A,B अण्डं ↩︎

  112. H,V र्षायुत ↩︎

  113. M,Ma जनत् ↩︎

  114. A,B न ↩︎

  115. W Omits ब्रहमाण्डं ↩︎

  116. M,Ma,W ष ↩︎

  117. M,Ma क्षिः ↩︎

  118. A,B स्वरू ↩︎

  119. A,B णीप ↩︎

  120. A,B ढे ↩︎

  121. M,Ma ऊर्वा ↩︎

  122. W पाताल ↩︎

  123. A,B,C,G,I,M,Ma,N,W ह्य ↩︎

  124. H,V,W र्विशो ↩︎

  125. H,I,M,Ma,V,W द्रोव्य ↩︎

  126. H,V कश्च; W कस्तु ↩︎

  127. W याः ↩︎

  128. B,I कोऽस्य; H,V कस्तु ↩︎

  129. M,Ma कश्च नेत्रयोः ↩︎

  130. A,B,C,G,I,M,Ma,N,W भिः ↩︎

  131. H,M,Ma,V ट्याम; W ट्या अ ↩︎

  132. W सृष्टं ↩︎

  133. A,B Omit आ ↩︎

  134. A,B ख्य ↩︎

  135. H,M,Ma,V कस्तु ↩︎

  136. M,Ma र्ध्नि ↩︎

  137. A,B Omit आ ↩︎

  138. A,B Omit आ ↩︎