०४

[चतुर्थोऽध्यायः]

भागसूचना

राजाका सृष्टिविषयक प्रश्न और शुकदेवजीका कथारम्भ

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्॥

मूलम्

वैयासकेरिति वचस्तत्त्वनिश्चयमात्मनः।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात्॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शुकदेवजीके वचन भगवत्तत्त्वका निश्चय करानेवाले थे। उत्तरानन्दन राजा परीक्षित् ने उन्हें सुनकर अपनी शुद्ध बुद्धि भगवान् श्रीकृष्णके चरणोंमें अनन्यभावसे समर्पित कर दी॥ १॥

वीरराघवः

एवमापृष्टः सूतो राज्ञः प्रश्नं कथयितुं तस्य प्राक्तनीं स्थितिमाह - वैयासकेः इति । वैयासके: श्रीशुकस्य आत्मनः तत्त्वनिश्चयं यथावस्थितस्वरूपनिश्चायकं वचः इत्युक्तप्रकारेण उपधार्य श्रुत्वा औत्तरेयः उत्तरापुत्रः राजा श्रीकृष्णे सर्ती मतिं व्यधात् अकरोत् ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

आत्मजायासुतागारपशुद्रविणबन्धुषु।
राज्ये चाविकले नित्यं विरूढां ममतां जहौ॥

मूलम्

आत्मजायासुतागारपशुद्रविणबन्धुषु।
राज्ये चाविकले नित्यं वि1रूढां ममतां जहौ॥ २ ॥

अनुवाद (हिन्दी)

शरीर, पत्नी, पुत्र, महल, पशु, धन, भाई-बन्धु और निष्कण्टक राज्यमें नित्यके अभ्यासके कारण उनकी दृढ़ ममता हो गयी थी। एक क्षणमें ही उन्होंने उस ममताका त्याग कर दिया॥ २॥

वीरराघवः

किञ्च आत्मा देहः अ2गारं, द्रविणं धनम्, आत्मादिषु अविकले निरुपद्रवे राज्ये च निरूढां नित्यरूढां ममतां स्व3त्वाभिमतिं तत्याज ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः।
कृष्णानुभावश्रवणे श्रद्दधानो महामनाः॥

मूलम्

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ4 सत्तमाः।
कृष्णानुभावश्रवणे श्रद्दधानो महाम5नाः॥ ३ ॥

वीरराघवः

हे सत्तमाः! शौनकादयः! इममेव हरिकथालक्षणमेवार्थं पप्रच्छ मां प्रति यत्पृच्छथ यूयं कथम्भूतः पप्रच्छ श्रीकृष्णानुभावश्रवणे श्री6कृष्णलीलाश्रवणे श्रद्दधानः अत एव महायशाः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत्।
वासुदेवे भगवति आत्मभावं दृढं गतः॥

मूलम्

संस्थां विज्ञाय स7न्न्यस्य कर्म त्रैवर्गिकं च यत्।
वासुदेवे भगवति आ8त्मभावं दृ9ढं गतः॥ ४ ॥

अनुवाद (हिन्दी)

शौनकादि ऋषियो! महामनस्वी परीक्षित् ने अपनी मृत्युका निश्चित समय जान लिया था। इसलिये उन्होंने धर्म, अर्थ और कामसे सम्बन्ध रखनेवाले जितने भी कर्म थे, उनका संन्यास कर दिया। इसके बाद भगवान् श्रीकृष्णमें सुदृढ़ आत्मभावको प्राप्त होकर बड़ी श्रद्धासे भगवान् श्रीकृष्णकी महिमा सुननेके लिये उन्होंने श्रीशुकदेवजीसे यही प्रश्न किया, जिसे आपलोग मुझसे पूछ रहे हैं॥ ३-४॥

वीरराघवः

संस्थां मृत्युं विज्ञाय ज्ञात्वा त्रैवर्गिकं धर्मर्थकामसाधनं कर्म सन्न्यस्य त्यक्त्वा भगवति वासुदेवे स्वात्मभावं स्वस्यात्मत्वं मम आत्मा वासुदेव इति बुद्धिविशेषं परं दृढं गतः प्रा10प्तः इत्यर्थः । एवंविधः प11रीक्षित् पप्रच्छ इति पूर्वेणान्वयः ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ।
तमो विशीर्यते मह्यं हरेः कथयतः कथाम्॥

मूलम्

समीचीनं वचो ब्रह्मन्। सर्वज्ञस्य तवानघ!
तमो विशीर्यते मह्यं हरेः कथयतः कथा12म्॥ ५ ॥

अनुवाद (हिन्दी)

परीक्षित् ने पूछा—भगवत्स्वरूप मुनिवर! आप परम पवित्र और सर्वज्ञ हैं। आपने जो कुछ कहा है, वह सत्य एवं उचित है। आप ज्यों-ज्यों भगवान‍्की कथा कहते जा रहे हैं, त्यों-त्यों मेरे अज्ञानका परदा फटता जा रहा है॥ ५॥

वीरराघवः

स्वबुभुत्सितम13वतारयितुं मुनिवचो14ऽभिनन्दति रा15जा समीचीनमिति । हे ब्रह्मन्! अनघ! मह्यं हरेः कथाः कथयतः सर्वज्ञस्य तव वचः समीचीनं यतः तमः अज्ञानं विशीर्यते नश्यति ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

भूय एव विवित्सामि भगवानात्ममायया।
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः॥

मूलम्

भूय एव विवित्सामि भगवानात्ममायया।16
यथे17दं सृजते विश्वं दुर्विभाव्य18मधीश्वरैः॥ ६ ॥

अनुवाद (हिन्दी)

मैं आपसे फिर भी यह जानना चाहता हूँ कि भगवान् अपनी मायासे इस संसारकी सृष्टि कैसे करते हैं। इस संसारकी रचना तो इतनी रहस्यमयी है कि ब्रह्मादि समर्थ लोकपाल भी इसके समझनेमें भूल कर बैठते हैं॥ ६॥

वीरराघवः

बुभुत्सि19तं पृच्छति - भूय इति । भूयः पुनः विवित्सामि वेदितुमिच्छामि । अधीश्वरैः ब्रह्मादिभिः दुर्विभाव्यम् अप्रतर्क्यं इदं विश्वं यथा सृजति ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यथा गोपायति विभुर्यथा संयच्छते पुनः।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान्।
आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च॥

मूलम्

यथा गोपायति वि20भुर्यथा संयच्छते पुनः।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान्।
आत्मानं क्रीडयन् क्रीडन्-करोति विकरोति च॥ ७ ॥

अनुवाद (हिन्दी)

भगवान् कैसे इस विश्वकी रक्षा और फिर संहार करते हैं? अनन्तशक्ति परमात्मा किन-किन शक्तियोंका आश्रय लेकर अपने-आपको ही खिलौने बनाकर खेलते हैं? वे बच्चोंके बनाये हुए घरौंदोंकी तरह ब्रह्माण्डोंको कैसे बनाते हैं और फिर किस प्रकार बात-की-बातमें मिटा देते हैं?॥ ७॥

वीरराघवः

यथा गोपायति रक्षति यथा पुनः संयच्छते21 संहरति पुरुशक्तिः अनन्तशक्तिः परः पुमान् परमपुरुषः यां यां ब्रह्मादिररूपां शक्तिं शरीरं उपाश्रित्य अधिष्ठाय आत्मानं ब्रह्मरुद्रादिरू22पिणं स्वात्मानं क्रीडयन् सृष्ट्यादिव्यापारविशेषाभिनिविष्टं कुर्वन् स्वयं क्रीडन् स्थित्यादिव्यापारं कुर्वन् करोति स्वयमेव तत्तदन्तरात्मतया सृष्ट्यादिव्यापारं करोति । विकरोति त23त्तदन्तरतया विरुद्धं करोति । इयं जगव्द्यापाररूपा क्रिडा स्वातन्त्र्यमूला न तु बालादीनामिव कर्ममूला इत्यभिप्रायः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

नूनं भगवतो ब्रह्मन् हरेरद‍्भुतकर्मणः।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम्॥

मूलम्

नूनं भगवतो ब्रह्मन्! हरेरद‍्भुतकर्मणः।
दुर्विभाव्यमिवाभाति कविभिश्चा24पि चेष्टितम्॥ ८ ॥

अनुवाद (हिन्दी)

भगवान् श्रीहरिकी लीलाएँ बड़ी ही अद‍्भुत—अचिन्त्य हैं। इसमें संदेह नहीं कि बड़े-बड़े विद्वानोंके लिये भी उनकी लीलाका रहस्य समझना अत्यन्त कठिन प्रतीत होता है॥ ८॥

वीरराघवः

उपसंहरति हे भगवन्! अद्भुतकर्मणः विस्मयनीयव्यापारस्य हरेः । विचेष्टितं कविभिः ज्ञानाधिकैः अपि दुर्विभाव्यम् अप्रतर्क्यमिव आभाति प्रतीयते ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यथागुणांस्तु प्रकृतेर्युगपत् क्रमशोऽपि वा।
बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः॥

मूलम्

25था गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा।
बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः॥ ९ ॥

अनुवाद (हिन्दी)

भगवान् तो अकेले ही हैं। वे बहुत-से कर्म करनेके लिये पुरुषरूपसे प्रकृतिके विभिन्न गुणोंको एक साथ ही धारण करते हैं अथवा अनेकों अवतार ग्रहण करके उन्हें क्रमशः धारण करते हैं॥ ९॥

वीरराघवः

अन्यदपि पृच्छति - यथा इति । स्वयमेकः जन्मभिः अवतारैः भूरिशः कर्माणि चेष्टितानि कुर्वन् प्रकृतेः गुणान् सत्त्वादीन् युगपत् अपि वा क्रमशः यथा बिभर्ति अत्र यथा सृजतीति निमित्तोपादानाधिकरणानां प्रश्नः । यथा गोपायति इत्यनेन रक्षितुः स्वस्य किं सृष्ट्यादाविव रक्षणेऽपि जीवान्तर्यामित्वेन, उत स्वावतारेणैव रक्षणमिति प्रश्नः । यथा संयच्छते इत्यनेन संयमाधिकरणप्रश्नः । नारदीयानां प्रश्नानां तथै26व अवतरिष्यमाणत्वात् । यथा गुणांस्तु इत्यनेन भगवदवतारस्य गुणत्रयात्मकत्वं अथवा त्रयाणामेव अन्यतमगुणात्मकत्वं अथवा अप्राकृतत्वमेवेति प्रश्नः । अत्र यद्यपि न तृतीयपक्षः प्रश्नारूढः तथाऽपि प्रष्टुः अभिप्रेतः तस्यैव सिद्धान्तकोटित्वात् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा।
शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान्खलु॥

मूलम्

विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा।
शा27ब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु॥ १० ॥

अनुवाद (हिन्दी)

मुनिवर! आप वेद और ब्रह्मतत्त्व दोनोंके पूर्ण मर्मज्ञ हैं, इसलिये मेरे इस सन्देहका निवारण कीजिये॥ १०॥

वीरराघवः

एतत्पूर्वोक्तं मे मम विचिकित्सितं विचारयितुमिष्टं भगवान् भवान् य28था यथावत् ब्रवीतु क29थयतु । त्वमेव कथयितुं समर्थ इत्याह शा30ब्देति । शब्दे ब्रह्मणि शब्दात्मके ब्रह्मणि निष्णातः परिनिष्ठितः कृत्स्नशास्त्रार्थवित् । परस्मिंश्च ब्रह्मणि निष्णातः खलु इत्यन्वयः । अनेन प31रब्रह्मविषययोगजन्यज्ञानसम्पत्तिरुक्ता ॥ ११० ॥

श्लोक-११

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः।
हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे॥

मूलम्

इत्युपामन्त्रितो राज्ञा गुणानुकथने ह32रेः।
हृषीकेशमनुस्मृत्य प्र33तिवक्तुं प्रचक्रमे॥ ११ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—जब राजा परीक्षित् ने भगवान‍्के गुणोंका वर्णन करनेके लिये उनसे इस प्रकार प्रार्थना की, तब श्रीशुकदेवजीने भगवान् श्रीकृष्णका बार-बार स्मरण करके अपना प्रवचन प्रारम्भ किया॥ ११॥

वीरराघवः

हरेः गुणानुकथने इत्युक्तप्रकारेण रा34ज्ञा उपामन्त्रितः प्रार्थितः हृषीकेशं भगवन्तं सर्वेन्द्रियनियन्तारं अनुस्मृत्य प्रवक्तुं देवतागुरुनमस्कारादिरूपं उपक्रमं कृतवान् ॥ ११ ॥

श्लोक-१२

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

नमः परस्मै पुरुषाय भूयसे
सदुद‍्भवस्थाननिरोधलीलया।
गृहीतशक्तित्रितयाय देहिना-
मन्तर्भवायानुपलक्ष्यवर्त्मने॥

मूलम्

नमः परस्मै पुरुषाय भूयसे सदुद‍्भवस्थाननिरोधलीलया।
गृहीतशक्तित्रितयाय देहिनामन्तर्भ35वायानुपलक्ष्य36वर्त्मने॥ १२ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—उन पुरुषोत्तम भगवान‍्के चरणकमलोंमें मेरे कोटि-कोटि प्रणाम हैं, जो संसारकी उत्पत्ति, स्थिति और प्रलयकी लीला करनेके लिये सत्त्व, रज तथा तमोगुणरूप तीन शक्तियोंको स्वीकार कर ब्रह्मा, विष्णु और शंकरका रूप धारण करते हैं; जो समस्त चर-अचर प्राणियोंके हृदयमें अन्तर्यामीरूपसे विराजमान हैं, जिनका स्वरूप और उसकी उपलब्धिका मार्ग बुद्धिके विषय नहीं हैं; जो स्वयं अनन्त हैं तथा जिनकी महिमा भी अनन्त है॥ १२॥

वीरराघवः

तदेवाऽह त्र37योदशभिः नम इति । परस्मै प्रकृतिपुरुषविलक्षणाय पु38रुषाय । तत्र हेतुः भूयसे स्वरूपतो गुणतश्च अन्तर्बहिश्च व्याप्य वर्तमानाय । तदेव दर्शयति - सतः प्रपञ्चस्य उद्भवः उत्पत्तिः, स्थानं पालनं, निरोधः संहारः, त एव लीला तया गृहीतशक्तित्रितयाय गृहीतहिरण्यगर्भस्वावतारशङ्कररूपशक्तित्रितयं येन तस्मै । अनेन वैलक्षण्यमुक्तं भूयस्त्वमाह अन्तर्भवाय अन्तरात्मने अनेन सर्वस्य स्व39व्याप्यत्वात् तदपेक्षया स्वस्य व्यापकत्वमुक्तम् । अनुपलभ्यं वर्त्म यस्य तस्मै, वर्त्मशब्दः गन्तव्यमार्गपरोऽपि अत्र उपासनारूपज्ञानविषयीभूतभगवत्स्वरू40परूपादिपरः उपचारात् । अनेन प्राकृतकरणागोचरत्वमुक्तं इदमपि वैलक्षण्या41पादकम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

भूयो नमः सद्‍‍वृजिनच्छिदेऽसता-
मसम्भवायाखिलसत्त्वमूर्तये।
पुंसां पुनः पारमहंस्य आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे॥

मूलम्

भूयो नमः सद्‍‍वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तये।
पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे॥ १३ ॥

अनुवाद (हिन्दी)

हम पुनः बार-बार उनके चरणोंमें नमस्कार करते हैं, जो सत्पुरुषोंका दुःख मिटाकर उन्हें अपने प्रेमका दान करते हैं, दुष्टोंकी सांसारिक बढ़ती रोककर उन्हें मुक्ति देते हैं तथा जो लोग परमहंस आश्रममें स्थित हैं, उन्हें उनकी भी अभीष्ट वस्तुका दान करते हैं। क्योंकि चर-अचर समस्त प्राणी उन्हींकी मूर्ति हैं, इसलिये किसीसे भी उनका पक्षपात नहीं है॥ १३॥

वीरराघवः

अनुपलभ्यवर्त्मत्वे अनुपास्यत्वं स्यादित्यत आह - भूयो नम इति । सद्वृजिनच्छिदे सतां पापच्छिदे असतां दुष्कृतां असम्भवाय विनाशाय । अखिलसत्त्वमूर्त्तये अखिलं पूर्णं सत्त्वमेव मूर्तिः यस्य तस्मै उपात्तपूर्णसत्वदेहाय इत्यर्थः । स्वतोऽनिन्द्रियत्वेऽपि सौलभ्यातिशयेन साधुपरित्राणाय दुष्कृद्विनाशादि कुर्वन् अखिलमनुजनयनविषयतां रामकृष्णादिरूपेण ग42ताय इत्यर्थः प्रकृतिपुरुषविलक्षणत्वात् सर्वजगत्कारणत्वाद्वा43 सत्त्वादिगुणवत्वाच्च मुमुक्षू44पास्यत्वं मोक्षप्रदत्वं चाऽह पारमहंस्ये परमहंसानां सम्बन्धिनि आ45श्रमे चतुर्थाश्रम इत्यर्थः । तस्मिन् व्यवस्थितानां इदं मुमुक्षुमात्रोपलक्षणं परमहंसानां प्राये46ण मुमुक्षुत्वात् तदाश्रमनिर्देशः । ब्रह्मविद्याङ्गत्वेन तत्तत्स्वाश्रमप्रयुक्तध47र्मानुष्ठानपराणां अनुमृग्यदाशुषे अनुमृग्यो लब्धुमिष्टोऽर्थः । तस्य दाशुषे दानशीलाय ए48वम्भूताय भूयो नम इति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

नमो नमस्तेऽस्त्वृषभाय सात्वतां
विदूरकाष्ठाय मुहुः कुयोगिनाम्।
निरस्तसाम्यातिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नमः॥

मूलम्

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम्।
निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः॥ १४ ॥

अनुवाद (हिन्दी)

जो बड़े ही भक्तवत्सल हैं और हठपूर्वक भक्तिहीन साधन करनेवाले लोग जिनकी छाया भी नहीं छू सकते; जिनके समान भी किसीका ऐश्वर्य नहीं है, फिर उससे अधिक तो हो ही कैसे सकता है तथा ऐसे ऐश्वर्यसे युक्त होकर जो निरन्तर ब्रह्मस्वरूप अपने धाममें विहार करते रहते हैं, उन भगवान् श्रीकृष्णको मैं बार-बार नमस्कार करता हूँ॥ १४॥

वीरराघवः

सौलभ्यविशिष्टमेव नमस्करोति नम इति । सात्वतां यदूनामृषभाय श्रेष्ठायाऽश्रितवात्सल्यातिरेकात् सात्वतश्रेष्ठत्वेन अवतीर्णाय इत्यर्थः । एवम्भूतोऽपि दुर्योगिनां दुर्लभ एवेत्याह विदूरकाष्ठायेति । कुयोगिनां कुत्सितयोगिनां भगवद्भक्ति49रहितयोगनिष्ठानां विदूरकाष्ठाय विदूरा50 दूरतरा काष्ठा दिक् यस्य तस्मै दुर्योगभिः यस्य दिगपि दुर्ज्ञेया तथाविधायेत्यर्थः । तदेवं वैषम्यप्रतीतावपि निर्दोषत्वाय अचिन्त्यैश्वर्यमाह निरस्य इति । स्वराधसा स्वतेजसा निरस्तं साम्यमतिशयश्च यस्य तेन तेजसा उपलक्षिते स्वधामनि “स्वे महिम्नि प्रतिष्ठितः” (छान्दो. उ. 7-24-1) इति श्रुत्युक्तरीत्या स्वप्रतिष्ठि51ते स्वयंज्योतिषि ब्र52ह्मणि स्वस्मिन् रंस्यते रममाणाय ते तुभ्यं नमो नमोऽस्तु त53त्तद्गुणविशिष्टाकारोद्देशेन नमस्कृतेः पौनः पुन्यं निस्समाभ्यधिकस्वकीयतेजसा उपलक्षिते स्वस्मिन्नेव रममाणस्य न किञ्चिदपि वैषम्येण प्रयोजनमिति । न हि कल्पद्रुमस्य भजतां अभीष्टान् ददतो वैषम्यम54स्तीति वक्तुं युक्तम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यत्कीर्तनं यत्स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम्।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सुभद्रश्रवसे नमो नमः॥

मूलम्

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम्।
लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः॥ १५ ॥

अनुवाद (हिन्दी)

जिनका कीर्तन, स्मरण, दर्शन, वन्दन, श्रवण और पूजन जीवोंके पापोंको तत्काल नष्ट कर देता है, उन पुण्यकीर्ति भगवान् श्रीकृष्णको बार-बार नमस्कार है॥ १५॥

वीरराघवः

यत एव विचित्रैश्वर्यवत्त्वेन वैषम्यत एव तत्कीर्तनस्मरणादेः समस्तदुरितनिवर्तकत्वमित्याह - यत्कीर्तनम् इति । ईक्षणं अर्चाविग्रहादिनिरीक्षणं अर्हणं पूजनं य55त्कीर्तनादिकं 56कीर्तनादिनिष्ठस्य लो57कस्य क58ल्मषं दुरितं विधुनोति सद्यो विनाशयति तस्मै सुभद्रश्रवसे सुभद्रं सुमङ्गलं श्रवः कीर्तिः यस्य तस्मै नमः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

विचक्षणा यच्चरणोपसादनात्
सङ्गं व्युदस्योभयतोऽन्तरात्मनः।
विन्दन्ति हि ब्रह्मगतिं गतक्लमा-
स्तस्मै सुभद्रश्रवसे नमो नमः॥

मूलम्

विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मनः।
विन्द59न्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः॥ १६ ॥

अनुवाद (हिन्दी)

विवेकी पुरुष जिनके चरणकमलोंकी शरण लेकर अपने हृदयसे इस लोक और परलोककी आसक्ति निकाल डालते हैं और बिना किसी परिश्रमके ही ब्रह्मपदको प्राप्त कर लेते हैं, उन मंगलमय कीर्तिवाले भगवान् श्रीकृष्णको अनेक बार नमस्कार है॥ १६॥

वीरराघवः

न केवलं श्रवणादिभिः दुरितनिवृत्तिरेव, कीर्तनादिभिः विशुध्देनाऽत्मना परिपूर्णभक्तियोगं ततो ब्रह्म प्राप्नुवन्ति इत्याह - विचक्षणा इति । यचरणोपसादनात् यच्चरणयोः उ60पसादनात् उपासत्तेः भजनादित्यर्थः । तस्मात् अन्तरात्मनो मनसः उभय61तः इह अमुत्र च सङ्गं व्युदस्य गतक्लमाः निवृत्तसांसारिकतापत्रयाः ब्रह्मगतिं ब्रह्माख्यां गतिं परमप्राप्यां विन्दन्ति प्राप्नुवन्ति । हीति प्रसिद्धं द्योतयति “ब्रह्मविदाप्नोति परम्” (तैत्ति. उ. 2-1-1) इति श्रुतिप्रसिद्धेः । तस्मै सुभद्रश्रवसे नमो नम इत्यर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तपस्विनो दानपरा यशस्विनो
मनस्विनो मन्त्रविदः सुमङ्गलाः।
क्षेमं न विन्दन्ति विना यदर्पणं
तस्मै सुभद्रश्रवसे नमो नमः॥

मूलम्

तपस्विनो दानपरा यशस्विनोमनस्विनो मन्त्रविदः सुमङ्गलाः।
क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः॥ १७ ॥

अनुवाद (हिन्दी)

बड़े-बड़े तपस्वी, दानी, यशस्वी, मनस्वी, सदाचारी और मन्त्रवेत्ता जबतक अपनी साधनाओंको तथा अपने-आपको उनके चरणोंमें समर्पित नहीं कर देते, तबतक उन्हें कल्याणकी प्राप्ति नहीं होती। जिनके प्रति आत्मसमर्पणकी ऐसी महिमा है, उन कल्याणमयी कीर्तिवाले भगवान‍्को बार-बार नमस्कार है॥ १७॥

वीरराघवः

भक्तिशून्यानां सर्वाण्यपि साधनानि निष्फलानि इत्याह - तपस्विन इति । तपस्विनः कृच्छ्रचान्द्रायणादितपोनिष्ठाः मनस्विनः मन आदि इन्द्रियनिग्रहपराः मन्त्रविदः मन्त्रजापपराः सुमङ्गलाः सदाचारपराः एते सर्वे तप आदेः यदर्पणं यस्मिन् भगवति समर्पणं यदुपासनाङ्गत्वेन अनुष्ठानं विना इति यावत् क्षेमं तत्तत्तपआदेः परमं फलं न विन्दन्ति न लभन्ते यद्यपि यत्किञ्चित् दुरितनिवृत्त्यादिरूपं फलमाप्नुवन्ति तथापि नाक्षय्यं फलमाप्नुवन्ति भक्तियोगाङ्गत्वेन तपआदि कुर्वाणास्तु निरतिशयं फलं प्राप्नुवन्ति इत्यभिप्रायः । त62स्मै नम इत्यन्वयः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

किरातहूणान्ध्रपुलिन्दपुल्कसा
आभीरकङ्कायवनाः खसादयः।
येऽन्ये च पापा यदुपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः॥

मूलम्

किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरक63ङ्का यवनाः ख64सादयः।
येऽन्ये च पापा यद65पाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः॥ १८ ॥

अनुवाद (हिन्दी)

किरात, हूण, आन्ध्र, पुलिन्द, पुल्कस, आभीर, कंक, यवन और खस आदि नीच जातियाँ तथा दूसरे पापी जिनके शरणागत भक्तोंकी शरण ग्रहण करनेसे ही पवित्र हो जाते हैं, उन सर्वशक्तिमान् भगवान‍्को बार-बार नमस्कार है॥ १८॥

वीरराघवः

किं वक्तव्यं भागवता आत्मानं विशोध्य ब्रह्म प्राप्नुवन्तीति भागवताश्रिता हीनजतीया अपि प्राप्नुवन्तीत्याह - किरातेति । किरातादयो हीनजातयः अन्ये च ये पापा: पापजातयः यदुपाश्रयाश्रयाः यं परमपुरुषमुपाश्रिता यदुपाश्रया भागवतास्तदाश्रया भागवताश्रिताः शुद्ध्यन्ति । असम्भावनाशङ्कां परिहरति प्रभविष्णवे प्रभवनशीलाय पूर्वोक्त तपआदीनां फलप्रदाय इत्यर्थः । “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” (भ.गी. 9-24) इति भगवद्वचनात् सर्वकर्मफलप्रदत्वेन सर्वसाधनानां तत्समर्पणमेव युक्तमिति भावः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

स एष आत्माऽऽत्मवतामधीश्वर-
स्त्रयीमयो धर्ममयस्तपोमयः।
गतव्यलीकैरजशङ्करादिभि-
र्वितर्क्यलिङ्गो भगवान् प्रसीदताम्॥

मूलम्

स एष आत्माऽऽत्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः।
गतव्यलीकैरजशङ्करादिभिर्वि66तर्क्यलिङ्गो भगवान् प्रसीदता67म्॥ १९ ॥

अनुवाद (हिन्दी)

वे ही भगवान् ज्ञानियोंके आत्मा हैं, भक्तोंके स्वामी हैं, कर्मकाण्डियोंके लिये वेदमूर्ति हैं, धार्मिकोंके लिये धर्ममूर्ति हैं और तपस्वियोंके लिये तपःस्वरूप हैं। ब्रह्मा, शंकर आदि बड़े-बड़े देवता भी अपने शुद्ध हृदयसे उनके स्वरूपका चिन्तन करते और आश्चर्यचकित होकर देखते रहते हैं। वे मुझपर अपने अनुग्रहकी—प्रसादकी वर्षा करें॥ १९॥

वीरराघवः

एतदेव उपपादयति - इति । स प्रसिद्धः एषः आत्मा परमात्मा आत्मवतां केवलभ68क्तियोगनिष्ठानां यः69 अधीश्वरः योगफलप्रदः त्रयीमयः पूर्वभागोक्तकर्माराध्यः तत्फलद इत्यर्थः । धर्ममयः स्मार्तदानादि धर्माराध्यः तत्फलद इत्यर्थः । तपोमयः उपनिषद्भागोक्तोपासनात्मकज्ञानमयः तज्ज्ञानप्राचुर्यवेद्यः तत्फलप्र70द इत्यर्थः । तत्तद्देव71तानां तत्तत्फलदातृत्वश्रवणात् कथं तस्यैव सर्वकर्माराध्यत्वं इत्यत आह । गतव्यलीकैः गतदोषैः अजशङ्करादिभिः ब्रह्मरुद्रादिभिः वितर्क्युलिङ्गः निश्चेतुमशक्यं लिङ्गं लक्षणं चिह्नं यस्य सः । ब्रह्मादयोऽपि यदीय72लक्षणानि वितर्कयन्ति तथाभूतः तेषामपि अन्तरात्मत्वेन उपास्य एव । तत्तद्बह्मादिरूपेण फलद इति हृदयम् । एवंविधभगवत्प्रसादं स्वस्य प्रार्थयते भगवानिति । अनेन देवताविशेषश्च विवक्षितः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

श्रियः पतिर्यज्ञपतिः प्रजापति-
र्धियां पतिर्लोकपतिर्धरापतिः।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पतिः॥

मूलम्

श्रियः पतिर्यज्ञपतिः प्रजापतिः धियां पतिर्लोकपतिर्धरापतिः।
पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां प67तिः॥ २० ॥

अनुवाद (हिन्दी)

जो समस्त सम्पत्तियोंकी स्वामिनी लक्ष्मीदेवीके पति हैं, समस्त यज्ञोंके भोक्ता एवं फलदाता हैं, प्रजाके रक्षक हैं, सबके अन्तर्यामी और समस्त लोकोंके पालनकर्ता हैं तथा पृथ्वीदेवीके स्वामी हैं, जिन्होंने यदुवंशमें प्रकट होकर अन्धक, वृष्णि एवं यदुवंशके लोगोंकी रक्षा की है तथा जो उन लोगोंके एकमात्र आश्रय रहे हैं—वे भक्तवत्सल, संतजनोंके सर्वस्व श्रीकृष्ण मुझपर प्रसन्न हों॥ २०॥

वीरराघवः

सर्वपालकत्वं अ73नुस्मरन् आह - श्रिय इति । श्रियः प74तिः लक्ष्म्याः पतिः भर्ता इत्यर्थः । यज्ञपतिः वैदिकध75र्ममर्यादापालकः प्रजापतिः आब्रह्मस्तम्बपर्यन्तप्रजापालकः । धियां ध्यानानां उपासनानां पतिः तन्मर्यादापालकः यज्ञपतिः धियां पतिरिति भागद्वयाभिप्रायेण उक्तम् । लोकपतिः समस्तभुवनानां पालकः । भुवनानां तदन्तर्गतानां च पालनाभिप्रायेण लोकपतिः प्रजापतिः इति च उक्तम् । धरापतिः भूपालकः धरायाः लोकान्तर्गतत्वेऽपि अधर्मबाहुल्यात् पृथगुक्तिः । रा76मकृष्णादिरूपेण भूलोके अवतीर्य दुष्कृद्विनाशं कुर्वन् विशेषेण मर्यादापालक इत्यर्थः । अवतारप्रयोजनमाह - पतिर्गतिरिति । अन्धकादयो यादवप्रभेदाः तेषां अक्रूरोद्धवादीनां साधूनां च पतिः गतिश्च पालकः प्राप्यश्च । पतिः गतिश्च इति उभयो पादानेन साधुपरित्राणमेव अवतारकृत्यं दुष्कृद्विनाशनं तु आनुषङ्गिकमिति व्यञ्जितम् । न केवलं स्वकुलीनानामेव सतां पतिः, किन्तु अन्येषामपि सताम् इत्याह सतां पतिः । गतिश्च इत्यनुषज्जते एवंविधो भगवान् मे मह्यं प्रसीदतु ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यदङ्‍घ्र्यभिध्यानसमाधिधौतया
धियानुपश्यन्ति हि तत्त्वमात्मनः।
वदन्ति चैतत् कवयो यथारुचं
स मे मुकुन्दो भगवान् प्रसीदताम्॥

मूलम्

यदङ्‍घ्र्यभि77ध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्त्वमात्मनः।
वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम्॥ २१ ॥

अनुवाद (हिन्दी)

विद्वान् पुरुष जिनके चरणकमलोंके चिन्तनरूप समाधिसे शुद्ध हुई बुद्धिके द्वारा आत्मतत्त्वका साक्षात्कार करते हैं तथा उनके दर्शनके अनन्तर अपनी-अपनी मति और रुचिके अनुसार जिनके स्वरूपका वर्णन करते रहते हैं, वे प्रेम और मुक्तिके लुटानेवाले भगवान् श्रीकृष्ण मुझपर प्रसन्न हों॥ २१॥

वीरराघवः

ज्ञानप्रदत्वेन सतां पतित्वमेव व्यक्तीकुर्वन् तत्प्रसादं प्रार्थयते78 - यदित्यादि द्वाभ्याम् । यस्याङ्घ्र्योः79 अभिध्यानमेव समाधिः तेन धौतया शोधितया धिया आत्मनः तत्त्वं याथात्म्यं कवयः स्वयं पश्यन्ति जानन्ति अन्येभ्यश्च यथारुचं यथामति रुक् प्रतिभा वदन्ति च उपदिशन्ति च इत्यर्थः । स भगवान् मु80कुन्दो मे मह्यं प्रसीदताम् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

प्रचोदिता येन पुरा सरस्वती
वितन्वताजस्य सतीं स्मृतिं हृदि।
स्वलक्षणा प्रादुरभूत् किलास्यतः
स मे ऋषीणामृषभः प्रसीदताम्॥

मूलम्

प्रचोदिता येन पुरा सरस्वती वितन्वता81ऽजस्य सतीं स्मृ82तिं हृदि।
स्व83लक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्॥ २२ ॥

अनुवाद (हिन्दी)

जिन्होंने सृष्टिके समय ब्रह्माके हृदयमें पूर्वकल्पकी स्मृति जागरित करनेके लिये ज्ञानकी अधिष्ठात्रीदेवीको प्रेरित किया और वे अपने अंगोंके सहित वेदके रूपमें उनके मुखसे प्रकट हुईं, वे ज्ञानके मूलकारण भगवान् मुझपर कृपा करें, मेरे हृदयमें प्रकट हों॥ २२॥

वीरराघवः

किञ्च प्रचोदिता इति । पुरा कल्पादौ अजस्य ब्रह्मणः हृदि स्मृतिं सृष्टिविषयां स्मृतिं वितन्वता विस्तारयता येन परमात्मना प्रचोदिता सञ्चोदिता सरस्वती त्रयीरूपा स्वलक्षणा स्वरविशेषादिस्वासाधारणचिह्नवती आस्यतः मुखतः प्रादुरभूत् प्रादुर्भूतवती स प्रचोदयिता ऋषीणां ज्ञानप्रदानाम् ऋषभः श्रेष्ठः मे प्रसीदताम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

भूतैर्महद‍्भिर्य इमाः पुरो विभु-
र्निर्माय शेते यदमूषु पूरुषः।
भुङ्‍क्ते गुणान् षोडश षोडशात्मकः
सोऽलङ्‍कृषीष्ट भगवान् वचांसि मे॥

मूलम्

भूतैर्महद‍्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः।
भुङ्‍क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्‍कृषीष्ट84 भगवान् वचांसि मे॥ २३ ॥

अनुवाद (हिन्दी)

भगवान् ही पंचमहाभूतोंसे इन शरीरोंका निर्माण करके इनमें जीवरूपसे शयन करते हैं और पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय, पाँच प्राण और एक मन—इन सोलह कलाओंसे युक्त होकर इनके द्वारा सोलह विषयोंका भोग करते हैं। वे सर्वभूतमय भगवान् मेरी वाणीको अपने गुणोंसे अलंकृत कर दें॥ २३॥

वीरराघवः

इदानीं भगवानेव स्व वाचां प्रतिपाद्यः स्यादिति प्रार्थयते - भूतैः इति । स भगवान् मे वचांसि अलङ्कृषीष्ट अलङ्करोतु प्रतिपाद्यः स्यात् इत्यर्थः । वाचां भगवत्प्रतिपादनमेव हि अलङ्कारः यथोक्तं “तद्वाग्विसर्गो जनताघविप्लवः” (भा.ग.1-5-11) इत्यादि । ननु भवता उच्चार्यमाणानां नानाविधशब्दानां कथं स एव प्रतिपाद्यः स्यात् इत्यत आह महद्भिः भूतैः महदादिपृथिव्यन्तैः भूतैः इमाः पुरः पुराणि शरीराणि निर्माय विभुः स्वयं तत्तज्जीवान्तर्व्यापनस्वभावः अमूषु आसु पुरीषु शेते । अत एव पूरुषः पुरि शयनात् पुरुषशब्दवाच्यः । अवतिष्ठते न केवलं शेते, किन्तु लीलारसमपि अनुभवति इत्याह । षोडशगुणान् शब्दादिविषयान् पञ्च, पञ्चवागादिव्यापारान्, प्राणादिवायुवृत्तीः पञ्च एकं म85नोगुणं सङ्कल्पादिं एतान् षोडश गुणान् स्वयं षोडशात्मकः एकादशेन्द्रियपञ्चभूतात्मभूतः भुङ्क्ते लीलारसं अनुभवति इत्यर्थः । जीवान्तर्यामित्वेन गुणान् गृह्णतो भगवतः गुणग्रहणं लीलारसः, जीवस्य तु कर्मायत्तो भोग इति भावः । एवञ्च देवादि नामरूपाणां परमात्मपर्यन्तत्वात् “नतास्म सर्ववचसां प्रतिष्ठा यत्र शाश्वतीति” न्यायेन मद्वचसां स एव विषयः स्यादिति युक्ता प्रार्थना ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

नमस्तस्मै भगवते वासुदेवाय वेधसे।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्॥

मूलम्

नमस्तस्मै भगवते वा86सुदेवाय वेधसे।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बु87रुहासवम्॥ २४ ॥

अनुवाद (हिन्दी)

संतपुरुष जिनके मुखकमलसे मकरन्दके समान झरती हुई ज्ञानमयी सुधाका पान करते रहते हैं उन वासुदेवावतार सर्वज्ञ भगवान् व्यासके चरणोंमें मेरा बार-बार नमस्कार है॥ २४॥

वीरराघवः

एवं भगवन्तं नमस्कृत्य अथ स्वगुरुं पितरं च व्यासं नस्करोति - नम इति । व्यासस्यापि वासुदेवावतारत्वात् वासुदेवाय इत्युक्तिः । वेधसे सर्वज्ञाय सौम्याः तच्छिष्याः ज्ञानमयं यन्मुखाम्बुरुहासवं यन्मुखाम्भोजे यो मकरन्दः तं पपुः तस्मै नम इत्यन्वयः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

एतदेवात्मभू राजन् नारदाय विपृच्छते।
वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मनः॥

मूलम्

एतदेवात्मभू राजन्! नारदाय88 विपृच्छते।
वेदगर्भोऽभ्यधात् सा89क्षाद् यदाह हरिरा90त्मनः॥ २५ ॥

अनुवाद (हिन्दी)

परीक्षित्! वेदगर्भ स्वयम्भू ब्रह्माने नारदके प्रश्न करनेपर यही बात कही थी, जिसका स्वयं भगवान् नारायणने उन्हें उपदेश किया था (और वही मैं तुमसे कह रहा हूँ)॥ २५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे चतुर्थोऽध्यायः॥ ४॥

वीरराघवः

एवं गुरुदेवते नमस्कृत्य प्रकृतप्रश्नस्य उत्तरम् अवता91रयितुं तस्य साम्प्रदायिकत्वसूचनाय नारदहिरण्यगर्भयोः प्रश्नोत्तरे संवादयति एतदिति । त्वया यत्पृष्टं एतदेव वि92पृच्छते पृ93ष्टवते ना94रदाय वे95दगर्भः वेदो यस्य गर्भः अन्तःस्थः स वेदगर्भः चतुर्मुखः अभ्यधात् । किमित्यत आह हरिः भगवान् आत्मनः स्वस्मै यदाह, भगवान् चतुर्मुखाय यदाह, स च नारदाय, तदेवाहं भवते अभिधास्यामि इत्यभिप्रायः ॥ २५ ॥

इति श्रीमद्भागवते द्वितीयस्कन्धे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुर्थोऽध्यायः ॥ ४ ॥


  1. B,C,H,M,Ma,V,W नि ↩︎

  2. A,B Omit अगारं ↩︎

  3. A,B अहं ममत्वा ↩︎

  4. H,V त ↩︎

  5. M,Ma,W यशाः ↩︎

  6. W Omits श्रीकृष्णलीलाश्रवणे ↩︎

  7. AF,GF विन्य ↩︎

  8. H,V ह्या; M,Ma,W स्वां ↩︎

  9. H,V,W परं ↩︎

  10. W Omit प्राप्तः ↩︎

  11. W Omits परीक्षित् ↩︎

  12. H,M,Ma,V,W थाः ↩︎

  13. W मुपपाद ↩︎

  14. W वनमभि ↩︎

  15. W Omits राजा ↩︎

  16. H,V add (यथाऽवतीर्णो भगवान् परिरक्षति सत्पथम्।) ↩︎

  17. W दि ↩︎

  18. B व्यं मुनी ↩︎

  19. W त्सन् ↩︎

  20. C विश्वं य ↩︎

  21. A,B ति ↩︎

  22. A,B पेण ↩︎

  23. A,B Omit तत्तदन्तरतथा ↩︎

  24. W श्च वि ↩︎

  25. B त ↩︎

  26. A,B Omit त्रै ↩︎

  27. M,Ma शब्द; W शाब्द ↩︎

  28. A,B Omit यथा ↩︎

  29. A,B Omit कथयतु ↩︎

  30. A,B Omit शाब्देति ↩︎

  31. W Omits पर ↩︎

  32. M,Ma विभोः ↩︎

  33. W प्रवक्तुमुप ↩︎

  34. A,B Omit राज्ञा ↩︎

  35. M,Ma र्ध्रु ↩︎

  36. H,M,Ma,V,W भ्य ↩︎

  37. W Omits त्रयोदशभिः ↩︎

  38. W Omits पुरुषाय ↩︎

  39. W Omits स्व ↩︎

  40. W Omits रूप ↩︎

  41. W ण्य सम्पा ↩︎

  42. W गत: ↩︎

  43. A,B द्वात्सल्या ↩︎

  44. W क्षोरुपा ↩︎

  45. W Omits आश्रमे ↩︎

  46. . W यशो ↩︎

  47. W क ↩︎

  48. W Omits एवं…..इति । ↩︎

  49. W योगविधुर ↩︎

  50. A,B रे दूरत एव ↩︎

  51. W ष्ठे ↩︎

  52. W वा रंस्य ↩︎

  53. W तद्गु ↩︎

  54. A,B Omit अस्ति ↩︎

  55. W Omits यत्कीर्तनादिकं ↩︎

  56. W adds यत् ↩︎

  57. A,B Omit लोकस्य ↩︎

  58. A,B कल्मलं ↩︎

  59. G,H द ↩︎

  60. A,B Omit उपसादनात् ↩︎

  61. W त्र ↩︎

  62. A,B Omit तस्मै…..न्वयः ↩︎

  63. I शुम्भा: ↩︎

  64. H,V,W कषा; B,M,Ma शका ↩︎

  65. C,H,N,V,W दु ↩︎

  66. AF,GF व्यं ↩︎

  67. H,V तु ↩︎ ↩︎

  68. A,B Omit भक्ति ↩︎

  69. A,B Omit य: ↩︎

  70. A,B Omit प्र ↩︎

  71. W वानां ↩︎

  72. B यं लक्षणं वि ↩︎

  73. A,B प्रभोः ↩︎

  74. A,B Omit पतिः ↩︎

  75. A,B क ↩︎

  76. W Omits राम ↩︎

  77. C,N नु ↩︎

  78. A,B ति ↩︎

  79. A,B घ्रे ↩︎

  80. W Omits मुकुन्दो ↩︎

  81. AF,GF तोऽ ↩︎

  82. M,Ma स्थि ↩︎

  83. AF,GF वि ↩︎

  84. B ष्टाखिलवित् ↩︎

  85. A,B मनसो गु ↩︎

  86. H,V वेदव्यासाय वेधसे; N, व्यासायामिततेजसे ↩︎

  87. M,Ma म्भो ↩︎

  88. M,Ma येति पृ; V, यानु ↩︎

  89. AF,GF सर्वं; W पूर्वं ↩︎

  90. AF,GF रीश्वरः ↩︎

  91. W तितारयिषुः ↩︎

  92. B अनु ↩︎

  93. A,B Omit पृष्टवते ↩︎

  94. W Omits नारदाय ↩︎

  95. A,B Omit वेदगर्भः ↩︎