०३

[तृतीयोऽध्यायः]

भागसूचना

कामनाओंके अनुसार विभिन्न देवताओंकी उपासना तथा भगवद‍्भक्तिके प्राधान्यका निरूपण

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवमेतन्निगदितं पृष्टवान् यद‍्भवान् मम।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम्॥

मूलम्

एवमेतन्निगदितं पृष्टवान् यद‍् भवान् मम।
नृणां य1न्म्रियमाणानां मनुष्येषु मनीषिणाम्॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! तुमने मुझसे जो पूछा था कि मरते समय बुद्धिमान् मनुष्यको क्या करना चाहिये, उसका उत्तर मैंने तुम्हें दे दिया॥ १॥

वीरराघवः

एवं मुमुक्षोः भगवच्छ्रवणादिकं कर्तव्यमित्युक्तम् । अथ तदेव व्यतिरेकमुखेन द्रढयितुम् अन्यदेवतानां क्षुद्रफलप्रदत्वं वक्ष्यन् पूर्वोक्तमनुवदति - एवम् इति । मनुष्येषु कदाचित् दैववशात् मनुष्यत्वं प्राप्तेषु जीवेषु ये मनीषिणः तेषां तत्रापि ये म्रियमाणाः तेषां विशेषतो यत्कर्तव्यं पुरा मां प्रति पृष्टवान् तद्भगवच्छ्रवणादिकमेव इत्येवं निगदितमुक्तमित्यर्थः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्।
इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन्॥

मूलम्

ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्।
इन्द्रमिन्द्रियकाम2स्तु प्रजाकामः प्रजापतीन्॥ २ ॥

अनुवाद (हिन्दी)

जो ब्रह्मतेजका इच्छुक हो वह बृहस्पतिकी; जिसे इन्द्रियोंकी विशेष शक्तिकी कामना हो वह इन्द्रकी और जिसे सन्तानकी लालसा हो वह प्रजापतियोंकी उपासना करे॥ २॥

वीरराघवः

कामफलप्रात्यर्थम् अन्येषां दैवतानां भजनमाह - ब्रह्मवर्चसेत्यादिना । ब्रह्मवर्चसं कामयमानः ब्रह्मणस्पतिं वेदपतिं यजेत भ3जेत । इन्द्रियकामः इन्द्रियसामर्थ्यकामः इन्द्रं य4जेत इत्यनुषङ्गः । एवमग्रेऽपि । प्रजापतीन् दक्षादीन् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्।
वसुकामो वसून् रुद्रान् वीर्यकामोऽथ वीर्यवान्॥

मूलम्

देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम्।
वसुकामो वसून् रुद्रान् वीर्यकामो5ऽथ वीर्यदा6न्॥ ३ ॥

अनुवाद (हिन्दी)

जिसे लक्ष्मी चाहिये वह मायादेवीकी, जिसे तेज चाहिये वह अग्निकी, जिसे धन चाहिये वह वसुओंकी और जिस प्रभावशाली पुरुषको वीरताकी चाह हो उसे रुद्रोंकी उपासना करनी चाहिये॥ ३॥

वीरराघवः

देवीं देवस्य विष्णोः सम्बन्धिनीं मायां विस्मा7पनीयशक्तिम् । विभावसुम् अग्निं वसुकामः अर्थकामः वसून् यजेत वीर्यकामस्तु रुद्रान् यजेत । यजनफलमाह वीर्यवानिति । भवेदिति शेषः । इदं सर्वत्र तत्तत्फलावाप्तेः उपलक्षणम् ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान्।
विश्वान्देवान् राज्यकामः साध्यान्संसाधको विशाम्॥

मूलम्

अन्नाद्यकामस्त्वदि8तिं स्वर्गकामोऽदितेः सुतान्।
विश्वान्देवान् राज्य9कामः साध्यान्संसाधको विशाम्॥ ४ ॥

अनुवाद (हिन्दी)

जिसे बहुत अन्न प्राप्त करनेकी इच्छा हो वह अदितिका; जिसे स्वर्गकी कामना हो वह अदितिके पुत्र देवताओंका, जिसे राज्यकी अभिलाषा हो वह विश्वेदेवोंका और जो प्रजाको अपने अनुकूल बनानेकी इच्छा रखता हो उसे साध्य देवताओंका आराधन करना चाहिये॥ ४॥

वीरराघवः

अन्नं भोज्यम् । आद्यं भक्ष्यं खरं विशदम् अभ्यवहार्यं भोज्यं खरं कठिनं विशदं विविक्तावयवं, भक्ष्यमिति शेषः । तदुभयकामोऽदितिं यजेत । अदितेः सुतान् देवान् आदित्यान् वा । दिशां संसाधकः दिक्पतित्वकामः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ॥

मूलम्

आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत्।
प्रतिष्ठाकामः पुरुषो रोदसीलोकमातरौ॥ ५ ॥

अनुवाद (हिन्दी)

आयुकी इच्छासे अश्विनीकुमारोंका, पुष्टिकी इच्छासे पृथ्वीका और प्रतिष्ठाकी चाह हो तो लोकमाता पृथ्वी और द्यौ (आकाश)-का सेवन करना चाहिये॥ ५॥

वीरराघवः

पुष्टि: देहबलं तत्कामः इलां पृथ्वीं यजेत । प्रतिष्ठाकामः स्थानात् अप्रच्युतिकामः रोदसी द्यावापृथिव्यौ तयोः सर्वलोकाधारत्वात् लोकमातृत्वम् ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सरउर्वशीम्।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्॥

मूलम्

रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उ10र्वशीम्।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम्॥ ६ ॥

अनुवाद (हिन्दी)

सौन्दर्यकी चाहसे गन्धर्वोंकी, पत्नीकी प्राप्तिके लिये उर्वशी अप्सराकी और सबका स्वामी बननेके लिये ब्रह्माकी आराधना करनी चाहिये॥ ६॥

वीरराघवः

रूपमभिकामयमानः अप्सराश्चासावु11र्वशी च ताम् । सर्वेषामाधिपत्यकामः प्र12भुत्वकामः परमेष्ठिनं ब्रह्माणम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यज्ञं यजेद् यशस्कामः कोशकामः प्रचेतसम्।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम्॥

मूलम्

यज्ञं यजेद् यशस्कामः कोशकामः प्रचेतसम्।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उ13मां सतीम्॥ ७ ॥

अनुवाद (हिन्दी)

जिसे यशकी इच्छा हो वह यज्ञपुरुषकी, जिसे खजानेकी लालसा हो वह वरुणकी; विद्या प्राप्त करनेकी आकांक्षा हो तो भगवान् शंकरकी और पति-पत्नीमें परस्पर प्रेम बनाये रखनेके लिये पार्वतीजीकी उपासना करनी चाहिये॥ ७॥

वीरराघवः

यज्ञं विष्णुं कोशो वसुसञ्चयः, वसुकाम इत्यत्र धनमात्रमिति भेदः । प्रचेतसं वरुणं विद्याकामः ज्ञानकामः । दाम्पत्यार्थं दम्पत्योः अन्योन्यप्रीत्यर्थं सतीम् इति उमाविशेषणं पतिव्रताम् उमां दे14वीमित्यर्थः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

धर्मार्थ उत्तमश्लोकं तन्तुं तन्वन्पितॄन् यजेत्।
रक्षाकामः पुण्यजनानोजस्कामो मरुद‍्गणान्॥

मूलम्

धर्मार्थ उ15त्तमश्लोकं त16न्तुं तन्वन् पितॄन् यजेत्।
रक्षाकामः पुण्यजनान् ओजस्कामो मरुद‍्गणान्॥ ८ ॥

अनुवाद (हिन्दी)

धर्म-उपार्जन करनेके लिये विष्णुभगवान् की, वंशपरम्पराकी रक्षाके लिये पितरोंकी, बाधाओंसे बचनेके लिये यक्षोंकी और बलवान् होनेके लिये मरुद‍्गणोंकी आराधना करनी चाहिये॥ ८॥

वीरराघवः

उत्तमश्लोकं विष्णुं तन्तुं सन्तानं तन्वन् विस्तारयन् सन्तानवृ17द्धिकाम इत्यर्थः । रक्षाकामः बाधानिवृत्तिकामः पुण्यजनान् यक्षान् ओजस्कामः बलकामः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

राज्यकामो मनून् देवान् निर्ऋतिं त्वभिचरन् यजेत्।
कामकामो यजेत् सोममकामः पुरुषं परम्॥

मूलम्

राज्यकामो मनून् देवान् निऋृतिं त्वभिचरन् य18जेत्।
कामकामो यजेत् सोममकामः पुरुषं प19रम्॥ ९ ॥

अनुवाद (हिन्दी)

राज्यके लिये मन्वन्तरोंके अधिपति देवोंको, अभिचारके लिये निर्ऋतिको, भोगोंके लिये चन्द्रमाको और निष्कामता प्राप्त करनेके लिये परम पुरुष नारायणको भजना चाहिये॥ ९॥

वीरराघवः

राज्यकामः मनुरूपान् देवान् अभिचरन् शत्रुमरणमिच्छन् निऋृतिं राक्षसं कामकामः भोगेच्छुः अकामः वैराग्यकामः, परं पुरुषं परमपुरुषं “यो यो यां यां तनुं भक्तः” (भ.गी. 7-21) इति री20त्या इन्द्रादिरू21पेणापि परमपुरुषस्यैवान्तवत्फलद22त्वात् तत्तत्फलेप्सुभिः इज्यमानः परमपुरुष एवान्तवत्फलानि प्रयच्छति “अनन्याश्चिन्तयन्तो माम्” (भ.गी. 9- 22) इति रीत्या तु भजमानस्य स एव मुक्तिं प्रयच्छति इत्यभिप्रायः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अकामः सर्वकामो वा मोक्षकाम उदारधीः।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्॥

मूलम्

अकामः सर्वकामो वा मोक्षकाम उदारधीः।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम्॥ १० ॥

अनुवाद (हिन्दी)

और जो बुद्धिमान् पुरुष है—वह चाहे निष्काम हो, समस्त कामनाओंसे युक्त हो अथवा मोक्ष चाहता हो—उसे तो तीव्र भक्तियोगके द्वारा केवल पुरुषोत्तम भगवान‍्की ही आराधना करनी चाहिये॥ १०॥

वीरराघवः

उदारधीः इति मोक्षकामविशेषणं तीव्रेण अविच्छिन्नेन भक्तियोगेन ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एतावानेव यजतामिह निःश्रेयसोदयः।
भगवत्यचलो भावो यद् भागवतसंगतः॥

मूलम्

एतावानेव यजतामिह निःश्रेयसोदयः।
भगवत्यचलो भावो यद्भागवतसङ्गतः॥ ११ ॥

अनुवाद (हिन्दी)

जितने भी उपासक हैं, उनका सबसे बड़ा हित इसीमें है कि वे भगवान‍्के प्रेमी भक्तोंका संग करके भगवान‍्में अविचल प्रेम प्राप्त कर लें॥ ११॥

वीरराघवः

एवं य23जद्भिः कदा मोक्षोऽवाप्य24त इत्यत आह - एतावान् इति । इह अस्मिन् लोके य25जतां निःश्रेयसस्य मोक्षस्य उदयो लाभः एतावान् एतदवधिकः भागवतसङ्गाद्भगवत्यचलो भाव इति यत् भागवतस्ङ्गात् भगवत्यचले भावे सति निःश्रेयसोदयः सिद्ध एव । तस्मात् भागवतसङ्गादचलो भाव एव सम्पाद्य इति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र-
मात्मप्रसाद उत यत्र गुणेष्वसङ्गः।
कैवल्यसम्मतपथस्त्वथ भक्तियोगः
को निर्वृतो हरिकथासु रतिं न कुर्यात्॥

मूलम्

ज्ञानं यदा26 प्रतिनिवृत्तगुणोर्मिचक्रमात्मप्रसाद उत27 यत्र गुणेष्वसङ्गः।
कैवल्यसम्म28तपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात्॥ १२ ॥

अनुवाद (हिन्दी)

ऐसे पुरुषोंके सत्संगमें जो भगवान‍्की लीला-कथाएँ होती हैं, उनसे उस दुर्लभ ज्ञानकी प्राप्ति होती है जिससे संसार-सागरकी त्रिगुणमयी तरंगमालाओंके थपेड़े शान्त हो जाते हैं, हृदय शुद्ध होकर आनन्दका अनुभव होने लगता है, इन्द्रियोंके विषयोंमें आसक्ति नहीं रहती, कैवल्यमोक्षका सर्वसम्मत मार्ग भक्तियोग प्राप्त हो जाता है। भगवान‍्की ऐसी रसमयी कथाओंका चस्का लग जानेपर भला कौन ऐसा है, जो उनमें प्रेम न करे॥ १२॥

वीरराघवः

यद्भागवतसङ्गतः इत्यनेन सूचितां हरिकथां प्रस्तौति - ज्ञानम् इति । यासु हरिकथासु ज्ञानादीनि सम्पत्स्यन्ते तासु हरिकथासु रतिं को न कुर्यात् इत्यन्वयः । यदा हरिकथार29तिदशायां प्रतिनिवृत्ताः गुणाः सत्त्वादिकार्याणि ऊर्मयः अ30शनाया पिपासा शोकमोहजरामृत्यवो यस्मात् तथाभूतं ज्ञानम् आत्मप्रसादः चित्तनैर्मल्यम् उभयत्र लोकद्वये गुणेषु शब्दादिषु विषयेष्वसङ्गो वैराग्यं कैवल्ये मुक्तौ सम्मतः पन्था उपाय: कैवल्यसम्मतपथः तथाभूतो भक्तियोगश्च इत्येते सम्पत्स्यन्ते तथाभूतासु हरिकथासु निर्वृतः सुखितः रतिमासक्तिं को न कुर्यात् सर्वोऽपि कुर्यादेव इत्यर्थः ॥ १२ ॥

श्लोक-१३

मूलम् (वचनम्)

शौनक उवाच

विश्वास-प्रस्तुतिः

इत्यभिव्याहृतं राजा निशम्य भरतर्षभः।
किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम्॥

मूलम्

इत्यभिव्याहृतं राजा निशम्य भरतर्षभः।
किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम्॥ १३ ॥

अनुवाद (हिन्दी)

शौनकजीने कहा—सूतजी! राजा परीक्षित् ने शुकदेवजीकी यह बात सुनकर उनसे और क्या पूछा? वे तो सर्वज्ञ होनेके साथ-ही-साथ मधुर वर्णन करनेमें भी बड़े निपुण थे॥ १३॥

वीरराघवः

एवं हरिकथाप्रभावे उक्ते पुनः जगद्व्यापार31रूपहरिकथाबुभुत्सया मुनिनृपयोः संवादमवतारयितुं शौनकः पृच्छति - इति इत्यादिना । इति पूर्वोक्तप्रकारेणाभिव्याहृतं भा32षितं निशम्य श्रुत्वा भरतर्षभः भरतवंशश्रेष्ठो राजा परीक्षित् ऋृषिं परब्रह्मदर्शिनं कविं शब्दब्रह्मणि33 निष्णातं वैयासकिं व्यासपुत्रं श्रीशुकं किं प्रति अन्यत् किं पृष्टवान् ? ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम्।
कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम्॥

मूलम्

एतच्छुश्रूषतां विद्वन्! सूत नोऽर्हसि भाषितुम्।
कथा हरिक34थोदर्काः सतां स्युः स35दसि ध्रुवम्॥ १४ ॥

अनुवाद (हिन्दी)

सूतजी! आप तो सब कुछ जानते हैं, हमलोग उनकी वह बातचीत बड़े प्रेमसे सुनना चाहते हैं, आप कृपा करके अवश्य सुनाइये। क्योंकि संतोंकी सभामें ऐसी ही बातें होती हैं जिनका पर्यवसान भगवान‍्की रसमयी लीला-कथामें ही होता है॥ १४॥

वीरराघवः

36तच्छुश्रूषतां श्रो37तुमिच्छतां नः अस्मकं हे सूत! हे विद्वन्! भाषितुं वक्तुमर्हसि त38त्प्रश्रप्रश्ने तव को लाभ इति चेत् तत्राऽऽह कथा इति । हरिकथैव उदर्क: उत्तरफलं यासां ताः हरिकथोदर्का: हरिकथाप्रधाना इत्यर्थः । तथाभूताः कथाः सतां भगवद्भक्तानां संसदि सभायां रा39जशुकयोः स्युः ध्रुवं निश्चयः । अ40तः भगवत्कथाश्रवणमेव लाभ इति भावः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स वै भागवतो राजा पाण्डवेयो महारथः।
बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे॥

मूलम्

स वै भागवतो राजा पाण्डवेयो महारथः।
बाल41क्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे॥ १५ ॥

अनुवाद (हिन्दी)

पाण्डुनन्दन महारथी राजा परीक्षित् बड़े भगवद‍्भक्त थे। बाल्यावस्थामें खिलौनोंसे खेलते समय भी वे श्रीकृष्णलीलाका ही रस लेते थे॥ १५॥

वीरराघवः

रा42जशुकयोः भगवद्भक्तत्वमेव आह - इति सार्द्धेन । पाण्डवेयो महारथः राजा महाभगवतः यो राजा बालक्रीडनकैः बा43ल्यक्रीडाभिः क्रीडन् कृष्णक्रीडां श्रीकृष्णसे44वारूपां क्रीडाम् आददे । तस्य क्रीडाऽपि श्रीकृष्णपूजारूपा एव । अतः आबाल्य45 भागवत इत्यभिप्रायः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

वैयासकिश्च भगवान् वासुदेवपरायणः।
उरुगायगुणोदाराः सतां स्युर्हि समागमे॥

मूलम्

वैयासकिश्च भगवान् वासुदेवपरायणः।
उरुगायगुणोदाराः स46तां स्यु47र्हि समा48गमे॥ १६ ॥

अनुवाद (हिन्दी)

भगवन्मय श्रीशुकदेवजी भी जन्मसे ही भगवत्परायण हैं। ऐसे संतोंके सत्संगमें भगवान‍्के मंगलमय गुणोंकी दिव्य चर्चा अवश्य ही हुई होगी॥ १६॥

वीरराघवः

एवं भगवान् “उत्पत्तिं प्रलयं चैव भूतानाम्” (विष्णु.पु. 6-5-78) इत्यादिगुणविशिष्टो वैयासकिः वा49सुदेवपरायणः वासुदेवः परमप्राप्यं परमोपायश्च यस्य स तथोक्तः । एवमुभयोरपि भागवतत्वात् तत्संवाद एव प्रष्टव्य इत्याह । हि यस्मात् सतां भागवतानां आ50गमे सङ्गतो उरुगायस्य भगवतः गुणैः उदारा महत्यः कथाः स्युः प्रवृत्ता भवेयुः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया॥

मूलम्

आयुर्हरति वै पुंसामुद्यन्न51स्तं च यन्नसौ।
तस्यर्ते य52त्क्षणो नीत उत्तम53श्लोकवार्तया॥ १७ ॥

अनुवाद (हिन्दी)

जिसका समय भगवान् श्रीकृष्णके गुणोंके गान अथवा श्रवणमें व्यतीत हो रहा है, उसके अतिरिक्त सभी मनुष्योंकी आयु व्यर्थ जा रही है। ये भगवान् सूर्य प्रतिदिन अपने उदय और अस्तसे उनकी आयु छीनते जा रहे हैं॥ १७॥

वीरराघवः

किञ्च वृथैव क्षीयमाणमायुः हरिकथायामेव सफलं कुरु इत्याशयेनह आयुः इति त्रिभिः । असौ सूर्यः उद्यन् उदयं प्राप्नुवन् अस्तं च यन् तिरोधानं प्राप्नुवन् ति54रोभवन् इत्यर्थः । उत्तमश्लोकस्य भगवतः वार्तया कथया यत्क्षणो नीतः यः क्षणो नीतः तस्य ऋते तं क्षणं विना आयुर्हृतं स तु क्षणो न हृतः सफलं इत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत।
न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे॥

मूलम्

तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत।
न खादन्ति न मेहन्ति किं ग्राम55पशवोऽपरे॥ १८ ॥

अनुवाद (हिन्दी)

क्या वृक्ष नहीं जीते? क्या लुहारकी धौंकनी साँस नहीं लेती? गाँवके अन्य पालतू पशु क्या मनुष्य—पशुकी ही तरह खाते-पीते या मैथुन नहीं करते?॥ १८॥

वीरराघवः

ननु जीवनमेव तदायुषः फलमस्तु । तत्राऽऽह - तरव इति । उत्पत्तिनाशमध्यस्थितिः जीवनम् । ननु तेषां श्वासो नास्ति ? तत्राऽऽह - भस्त्रा इति । चर्मकोशा न श्वसन्ति किम्? वायुमूर्ध्वं न निस्सारयन्ति किम्? ननु तासाम् आहारादिकं नास्ति? तत्राऽऽह - ग्राम्याः56 पशवः अपरे आयुर्व्ययं कुर्वतश्च न खादन्ति ना57दन्ति न मेहन्ति न रेतस्सिञ्चन्ति मैथुनं न कुर्वन्ति किम् ? इत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः॥

मूलम्

श्वविड्वराहोष्ट्रखरैः सं58स्तुतः पुरुषः पशुः।
न यत्कर्णपथोपेतो59 जातु नाम गदाग्र60जः॥ १९ ॥

अनुवाद (हिन्दी)

जिसके कानमें भगवान् श्रीकृष्णकी लीला-कथा कभी नहीं पड़ी, वह नर पशु, कुत्ते, ग्रामसूकर, ऊँट और गधेसे भी गया बीता है॥ १९॥

वीरराघवः

61मपि नराकारं पशुं मत्वाऽऽह - श्वेति । विड्वराहः ग्रामसूकरः । श्वा62दिभिः सदृशत्वेन संस्तुतो निरूपितः सः क इत्यत आह - नेति । जातु कदाचिदपि गदाभृतो भगवतो नाम न63 यत्कर्णपथोपेतं न64 यस्य कर्णपथमुपेतं यस्य कर्णमार्गं न प्राप्नोति स इत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

बिले बतोरुक्रमविक्रमान् ये
न शृण्वतः कर्णपुटे नरस्य।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथाः॥

मूलम्

बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य।
जिह्वासती दार्दुरिकेव सूत! न चो65पगायत्युरुगायगाथाः॥ २० ॥

अनुवाद (हिन्दी)

सूतजी! जो मनुष्य भगवान् श्रीकृष्णकी कथा कभी नहीं सुनता, उसके कान बिलके समान हैं। जो जीभ भगवान‍्की लीलाओंका गायन नहीं करती, वह मेढककी जीभके समान टर्र-टर्र करनेवाली है; उसका तो न रहना ही अच्छा है॥ २०॥

वीरराघवः

66मेव निन्दति बिले इति । उरुक्रमस्य भगवतो विक्रमान् व्यापारान् न शृण्वतो अशृण्वतो नरस्य ये कर्णपुटे ते बिले वृथारन्ध्रे । हे सूत! उरुगायगाथाः भगवत्कथाः न चोपगायति तस्य जिह्वाऽसती दुष्टा दार्दुरिकी67व मण्डूकजिह्वेव ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

भारः परं पट्टकिरीटजुष्ट-
मप्युत्तमाङ्गं न नमेन्मुकुन्दम्।
शावौ करौ नो कुरुतः सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा॥

मूलम्

भारः परं68 पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम्।
शावौ करौ नो कुरुतः सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा॥ २१ ॥

अनुवाद (हिन्दी)

जो सिर कभी भगवान् श्रीकृष्णके चरणोंमें झुकता नहीं, वह रेशमी वस्त्रसे सुसज्जित और मुकुटसे युक्त होनेपर भी बोझामात्र ही है। जो हाथ भगवान‍्की सेवा-पूजा नहीं करते, वे सोनेके कंगनसे भूषित होनेपर भी मुर्देके हाथ हैं॥ २१॥

वीरराघवः

यदि मुकुन्दं न नमेत् न नमस्कुर्यात् तदुत्तमाङ्गं शिरः पट्टकिरीटजुष्टं पट्टेन न69वोष्णीषेण किरीटेन वा जुष्टमपि परं केवलं भारः । हरेः सपर्यां पू70जां नो कुरुतः न कु71र्वन्तौ चेत् तौ करौ हस्ती च72 लसन्तौ काञ्चनकङ्कणौ ययोः तथाभूतौ अपि शावौ शवसम्बन्धिनौ इव अम73ङ्गलौ इत्यर्थः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर्न निरीक्षतो ये।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ॥

मूलम्

बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये।
पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रज74तो हरेर्यौ॥ २२ ॥

अनुवाद (हिन्दी)

जो आँखें भगवान‍्की याद दिलानेवाली मूर्ति, तीर्थ, नदी आदिका दर्शन नहीं करतीं, वे मोरोंकी पाँखमें बने हुए आँखोंके चिह्नके समान निरर्थक हैं। मनुष्योंके वे पैर चलनेकी शक्ति रखनेपर भी न चलनेवाले पेड़ों-जैसे ही हैं, जो भगवान‍्की लीला-स्थलियोंकी यात्रा नहीं करते॥ २२॥

वीरराघवः

विष्णोः लिङ्गानि मूर्तिः न निरीक्षतश्चेत् ते नयने बर्हायिते मयूरपिच्छ75नेत्रतुल्ये । हरेः76 क्षेत्राणि श्रीरङ्गादीनि नानुव्रजतश्चेत् तौ नृणां पादौ द्रुमजन्मभाजौ द्रुमजन्म भजतः इति तथा वृक्षमूलतुल्यौ इत्यर्थ: ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

जीवञ्छवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु।
श्रीविष्णुपद्या मनुजस्तुलस्याः
श्वसञ्छवो यस्तु न वेद गन्धम्॥

मूलम्

जीवन् शवो भागवताङ्घ्रिरे77णुं न जातुमर्त्योऽभिलभे78त यस्तु।
श्री79विष्णुपद्या मनुजस्तुलस्याः श्वसन् शवो यस्तु न वेद गन्धम्॥ २३ ॥

अनुवाद (हिन्दी)

जिस मनुष्यने भगवत्प्रेमी संतोंके चरणोंकी धूल कभी सिरपर नहीं चढ़ायी, वह जीता हुआ भी मुर्दा है। जिस मनुष्यने भगवान‍्के चरणोंपर चढ़ी हुई तुलसीकी सुगन्ध लेकर उसकी सराहना नहीं की, वह श्वास लेता हुआ भी श्वासरहित शव है॥ २३॥

वीरराघवः

भागवताङ्घ्रिरेणुं जातु कदाचिदपि यस्तु म80र्त्यो मनुष्यः नाभिलषेत अभितो न स्पृशेत् न धारयेत् स जीवन् शवः जीवन्नपि शवतुल्यः । श्रीविष्णुपद्याः श्रीविष्णुपदलग्नाया: तुलस्याः गन्धं सु81गन्धं यस्तु मनुजो न वेद अभिघ्राय नाभिनन्देदित्यर्थः । सः श्वसन् श82वः प्राणयुक्त शवतुल्यः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तदश्मसारं हृदयं बतेदं
यद् गृह्यमाणैर्हरिनामधेयैः।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षः॥

मूलम्

तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः।
न विक्रियेताथ य83दा विकारो84 नेत्रे जलं गात्ररुहेषु हर्षः॥ २४ ॥

अनुवाद (हिन्दी)

सूतजी! वह हृदय नहीं लोहा है, जो भगवान‍्के मंगलमय नामोंका श्रवण-कीर्तन करनेपर भी पिघलकर उन्हींकी ओर बह नहीं जाता। जिस समय हृदय पिघल जाता है, उस समय नेत्रोंमें आँसू छलकने लगते हैं और शरीरका रोम-रोम खिल उठता है॥ २४॥

वीरराघवः

गृह्यमाणैः स्म85रणकीर्तनादिभिः गृह्यमाणैः भगवन्नामभिः य86दिदं हृदयं न विक्रियेत विकारं न प्राप्नुयात् । अथ मुखे विकारः87 नेत्रे जलमानन्दाश्रुबिन्दवः गात्ररुहेषु हर्षः रोमाञ्चश्च न स्यात्, तद्धृदयमश्मसारं कार्ष्णा88यसम् । बतेति खेदे । यदा मनोविकारो भवति तदा आनन्दाश्रु, रोमाञ्चश्च स्यादित्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

अथाभिधेह्यङ्ग मनोऽनुकूलं
प्रभाषसे भागवतप्रधानः।
यदाह वैयासकिरात्मविद्या-
विशारदो नृपतिं साधु पृष्टः॥

मूलम्

अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवत89प्रधानः।
यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पृष्टः॥ २५ ॥

अनुवाद (हिन्दी)

प्रिय सूतजी! आपकी वाणी हमारे हृदयको मधुरतासे भर देती है। इसलिये भगवान‍्के परम भक्त, आत्मविद्या-विशारद श्रीशुकदेवजीने परीक्षित् के सुन्दर प्रश्न करनेपर जो कुछ कहा, वह संवाद आप कृपा करके हमलोगोंको सुनाइये॥ २५॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे तृतीयोऽध्यायः॥ ३॥

वीरराघवः

भागवतप्रधानः त्वं मनसोऽनुकूलं प्रियं भाषसे अथ अतः आत्मविद्यायां विशारदः निपुणः वैयासकिः श्रीशुकः सा90धु पृष्टस्सन् नृपतिं प्रति यदाह तदभिधेहीत्यन्वयः ॥ २५ ॥

इति श्रीमद्भागवते द्वितीयस्कन्धे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥


  1. H,V च म्रि ↩︎

  2. AF,GF माय ↩︎

  3. A,B Omit भजेत ↩︎

  4. W भ ↩︎

  5. H,M,Ma,V,W मस्तु ↩︎

  6. A,B,C,G,I,N,W वान् ↩︎

  7. W स्मय ↩︎

  8. AF,GF तिथिं ↩︎

  9. M,Ma,W ष्ट्र ↩︎

  10. H,V,W ऊ ↩︎

  11. W वू ↩︎

  12. W Omits प्रभुत्व….ब्रह्माणम् । ↩︎

  13. W मु ↩︎

  14. W Omits देवीम् ↩︎

  15. M,Ma मु ↩︎

  16. AF,GF तन्तुकामःपि ↩︎

  17. A,B सृष्टि ↩︎

  18. AF,GF नरः ↩︎

  19. M,Ma पुमान् ↩︎

  20. A Omits रीत्या ↩︎

  21. A,B रूपिणोऽपि ↩︎

  22. W प्रद ↩︎

  23. W भ ↩︎

  24. W प्स्य ↩︎

  25. W भ ↩︎

  26. H,V त:; W था ↩︎

  27. H,M,Ma,V,W भ ↩︎

  28. M,Ma म्भृ ↩︎

  29. W Omils रति ↩︎

  30. A,B अशना ↩︎

  31. W रादि ↩︎

  32. A,B Omit भाषितं ↩︎

  33. W Omits णि ↩︎

  34. M,Ma गुणो ↩︎

  35. H,V,W संसदि ↩︎

  36. W Omits एतत् ↩︎

  37. A,B Omit श्रोतुमिच्छतां ↩︎

  38. A,B तत्प्रश्ने ↩︎

  39. W Omits राजशुकयोः ↩︎

  40. W थ ↩︎

  41. B लः ↩︎

  42. A,B Omit राजशुकयोः ↩︎

  43. W बालक्रीडादिभिः ↩︎

  44. W पूजा ↩︎

  45. W स्यात् ↩︎

  46. H,V,W कथाः ↩︎

  47. H,V स्युस्सत्स ↩︎

  48. W दा ↩︎

  49. A,B Omit वसुदिवपरायण: ↩︎

  50. A,B समा ↩︎

  51. H,V स्तम ↩︎

  52. M,Ma यःक्ष ↩︎

  53. B मः ↩︎

  54. W निम्नोच ↩︎

  55. B,I मे; H,V,W म्याः ↩︎

  56. A,B म ↩︎

  57. W श्व ↩︎

  58. M,Ma स तुल्यः ↩︎

  59. H,V,W तं ↩︎

  60. H,V,W भृतः ↩︎

  61. A,B Omit तमपि…..श्वेति ↩︎

  62. A,B Omit श्वादिभिः….इत्यर्थः ↩︎

  63. W Omits न ↩︎

  64. W Omits न ↩︎

  65. M,Ma चेत्प्र…….थाम् ↩︎

  66. A,B Omit तमेव……बिले इति। ↩︎

  67. A,B Omit व ↩︎

  68. M,Ma र: ↩︎

  69. A,B शस्त्रोल्लेखेन (शास्त्रोल्लेखेन?) ↩︎

  70. W Omits पूजां ↩︎

  71. W कुरुतः ↩︎

  72. W Omits च ↩︎

  73. W Omits अमङ्गलौ इत्यर्थ:। ↩︎

  74. AF,GF तां ↩︎

  75. W ञ्छ ↩︎

  76. A,B Omit हरेः ↩︎

  77. B णून् ↩︎

  78. M,Ma षे ↩︎

  79. AF,GF यो ↩︎

  80. W Omits मर्त्यो मनुष्यः ↩︎

  81. W Omits सुगन्धं ↩︎

  82. A,B जीव: प्राणयुक्तोऽपि शवः शवतुल्यः ↩︎

  83. H,M,Ma,V,W मुखे ↩︎

  84. W सो ↩︎

  85. W श्रवण ↩︎

  86. W दीयं ↩︎

  87. W सः ↩︎

  88. W ला ↩︎

  89. AF,GF त: ↩︎

  90. A,B Omit साधु ↩︎