०२ पुरुषसंस्थावर्णनम्

[द्वितीयोऽध्यायः]

भागसूचना

भगवान‍्के स्थूल और सूक्ष्मरूपोंकी धारणा तथा क्रममुक्ति और सद्योमुक्तिका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

एवं पुरा धारणयाऽऽत्मयोनि-
र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात्।
तथा ससर्जेदममोघदृष्टि-
र्यथाप्ययात् प्राग् व्यवसायबुद्धिः॥

मूलम्

एवं पुरा धारणयाऽऽत्मयोनिर्नष्टां स्मृतिं प्रत्यवरुध्य1 तु2ष्टात्।
तथा ससर्जेदममोघदृष्टिर्यथाप्य3यात् प्राक् व्यवसायबुद्धिः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजी कहते हैं—सृष्टिके प्रारम्भमें ब्रह्माजीने इसी धारणाके द्वारा प्रसन्न हुए भगवान‍्से वह सृष्टिविषयक स्मृति प्राप्त की थी जो पहले प्रलयकालमें विलुप्त हो गयी थी। इससे उनकी दृष्टि अमोघ और बुद्धि निश्चयात्मिका हो गयी तब उन्होंने इस जगत‍्को वैसे ही रचा जैसा कि यह प्रलयके पहले था॥ १॥

वीरराघवः

एवं वैराजधारणामुक्त्वा मुमुक्षोः हृदये उपास्यं रू4पं तदुपासनानिष्ठस्यार्चिरादिना गतिञ्च वक्ष्यन् उक्तायाः वैराजधारणाया एव तावत् माहात्म्यमाह मुनिः एवमिति । एवं या धारणा तया तुष्टाद्धरेः पुरा प्रलयसमये नष्टां पूर्वकल्पे5 चतुर्मुखेन सह विनष्टां स्मृतिं सर्गविषयकं ज्ञानं प्रत्यवरुध्य लब्ध्वा व्यवसायबुद्धिः स्मृतिविषयव्यवसायरूपज्ञानः अत एव अमोघदृष्टिः अमोघा यथाऽवस्थिता दृष्टिः तत्तद्वस्तुविषयकज्ञानं यस्य स तथोक्तः । आत्मयोनिः चतुर्मुखः अप्ययात् प्रलयात् प्राक् यथा तथा ससर्ज । पूर्वकल्पपदार्थसजातीयानेव पदार्थान् ससर्ज इत्यर्थः । अत्र यद्यपि पूर्वकल्पे विनष्टां स्मृति प्र6त्यवरुध्य इत्यनेन पूर्वकल्पे यः चतुर्मुखः स एव अस्मिन् कल्पेऽ7पि प्रतीयते, तथाऽपि प्रतिकल्पं चतुर्मुखानां भेद एव, न्याय्यः तत्तत्कल्प 8चतुर्मुखस्य “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे”, “ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे” (मना.उ.10-6) इति मुक्त्यवगमेन पुनरावृत्त्य-सम्भवात् भगवत्पूर्णकृपापात्रस्य पुनः संसारायोगाञ्च । तथा हि वक्ष्यति भगवान् - “ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः नाऽऽत्मावसीदत्यस्मिंस्ते । वर्षीयान्मदनुग्रहः “(भाग. 3-9-35) इति । अतः प्रतिकल्पं विभिन्ना एव चतुर्मुखाः । अत एव यद्यपि पूर्वानुभूतवस्तुविषयकज्ञानपरः स्मृतिशब्दः, तथाऽपीह सर्गविषयकज्ञानमात्रपरः, स्मृतिशब्दप्रयोगस्तु ज्ञातृज्ञेयज्ञानानाम् अत्यन्त साजात्याभिप्रायकृतः पूर्वदृष्टात्यन्तसजातीये गवान्तरे स एवायं गौरिति प्रत्यभिज्ञावत् । ननु वैराजधारण9या विश्वसृष्टिसामर्थ्ये10 विश्वसृष्टौ च सत्यां सृष्टानां पातालादीनां वैराजपादतलादिरूपेण धारणा इति इतरेतराश्रयवदाभाति, न च स्रक्ष्यमाणपदार्थविषयकज्ञानसद्भावेन पातालादीनामवयवत्वकल्पनं युक्तम् । स्मृतिं प्रत्यवरुध्येत्यनेन ज्ञानस्यापि धारणातो लभ्यत्वावगमात् । सत्यं, भगवन्नाभिकमलाचतुर्मुखे उत्पन्ने त11दीयतपश्चर्यया भगवति प्रसन्ने “भूयस्त्वं तप आतिष्टि विद्याञ्चैव मदाश्रयाम् । ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् । तत आत्मनि लोके च भक्तियुक्तः समाहितः । द्रष्टाऽसि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनः " (भाग.3-9-30,31) इति वक्ष्यमाणरीत्या स्त्रक्ष्यमाणेषु सर्वेषु पदार्थेषु दृष्टेषु तेषां च पदार्थानां भगवदवयवत्वेन धारणया सृष्टिविषयज्ञानसृ12ष्टिसामर्थ्य13लाभस्याभिधानात् । दैनन्दिनकल्पाभिप्रायं वा । एवं प्रपञ्चशरीरकतदाश्रयभगवद्ध्यानात् ब्रह्मणः सृष्टिक्षमत्वलाभ उक्तः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

शाब्दस्य हि ब्रह्मण एष पन्था
यन्नामभिर्ध्यायति धीरपार्थैः।
परिभ्रमंस्तत्र न विन्दतेऽर्थान्
मायामये वासनया शयानः॥

मूलम्

शा14ब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः।
परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः॥ २ ॥

अनुवाद (हिन्दी)

वेदोंकी वर्णनशैली ही इस प्रकारकी है कि लोगोंकी बुद्धि स्वर्ग आदि निरर्थक नामोंके फेरमें फँस जाती है, जीव वहाँ सुखकी वासनामें स्वप्न-सा देखता हुआ भटकने लगता है; किंतु उन मायामय लोकोंमें कहीं भी उसे सच्चे सुखकी प्राप्ति नहीं होती॥ २॥

वीरराघवः

अथ मुमुक्षु15भिर्हदि उपास्यं रूपं वक्ष्यन्” यावानर्थ उदपाने सर्वतः सम्प्लुतोदके” (भ.गी. 2-46) इति न्यायेन वेदे16 मुमुक्षोः साकल्येन अर्था17नुपादेयत्वमाह शाब्दस्येति । शाब्दस्य शब्दात्मकस्य ब्रह्मणो वेदस्यैष पन्था एषा दिक् । क इत्यत आह - यदिति अपाथैरपगतपरमपुरुषार्थेः नामभिः स्वर्गादिविषयशब्दः धीः बुद्धिः ध्यायति चिन्तां करोतीति यत्स्वर्गादिफले श्रुते तत्र धीः । प्रवणा स्यात् इत्यर्थः । नाम्ना सार18वत्त्वं न स्वरूपत इति द्योतनार्थं नामपदप्रयोगः । तृतीया च अध्ययनेन वसति इत्यादिवत् हेत्वर्थे । नाममात्रसारभूतस्वर्गाद्यर्थकर्मणि बुद्धिप्रावण्यापादनमिति यदयं वेदमार्ग इत्यर्थः । स्वर्गादीनाम् अपार्थत्वमेवाऽऽह परिभ्रमन्निति । मायामये प्रपञ्चे वासनया अनादिकर्मवासनया शयानो वर्तमानः तत्र स्वर्गादिविषये परिभ्रमन् अर्थात् मोक्ष - तदुपायादीन् न विन्दते न लभते ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

अतः कविर्नामसु यावदर्थः
स्यादप्रमत्तो व्यवसायबुद्धिः।
सिद्धेऽन्यथार्थे न यतेत तत्र
परिश्रमं तत्र समीक्षमाणः॥

मूलम्

19तः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः।
सिद्धेऽन्यथार्थे न यतेत त20त्र परिश्रमं त21त्र समीक्षमाणः॥ ३ ॥

अनुवाद (हिन्दी)

इसलिये विद्वान् पुरुषको चाहिये कि वह विविध नामवाले पदार्थोंसे उतना ही व्यवहार करे, जितना प्रयोजनीय हो। अपनी बुद्धिको उनकी निस्सारताके निश्चयसे परिपूर्ण रखे और एक क्षणके लिये भी असावधान न हो। यदि संसारके पदार्थ प्रारब्धवश बिना परिश्रमके यों ही मिल जायँ, तब उनके उपार्जनका परिश्रम व्यर्थ समझकर उनके लिये कोई प्रयत्न न करे॥ ३॥

वीरराघवः

ननु मातापितृसहस्त्रेभ्योऽपि वत्सलतमो वेद आत्मोज्जीवने प्रवृत्तः कथं नाममात्रसारभूतस्वर्गाद्यर्थकर्म बोधयन् प्रतारयेत् इत्याशङ्कां परिहरन् मुमुक्षोः अपेक्षितांशस्योपादेयतामाह अत इति । अतः वेदोक्तस्य साकल्येनानुपादेयत्वात् कविः त्याज्योपादेय22विषय23विवेकवान् अनेनोक्ता शङ्का परिहृ24ता । वेदो हि तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च लोकानां वत्सलतयैव हितम् अवबोधयति । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावबोधये25त् तदा एते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्व26पेक्षितफलमजानन्तः कामप्रावण्यवि27वशा अनुपाये उपायभ्रान्त्या प्रणष्टा भवेयुरिति गुणत्रयप्रचुराणां स्वर्गादि28फलानि तत्साधनानि वा29 अवबोधयति । केवलसात्त्विकस्य तु मुमुक्षोः तानि परित्याज्यानि परिगृहीतानि वा तत्त30त्फलानि परित्यज्य सर्वाणि कर्माणि मोक्षैकफलतया अनुष्ठेयानीति विवेकसम्पन्नः अप्रमत्तः कदाचित् देहधारणाद्यर्थतया परिग्राह्येष्वप्यन्नपश्वादिषु अनासक्तः व्यवसायबुद्धिः स्वर्गादीनां क्षयिष्णुत्वसातिशयत्वनिश्चयात्मकज्ञानवान् नामसु नाममात्रसारभूतेषु भोगे31षु यावदर्थः स्यात्, यावत्प्रयोजनवान् स्यात्, न तु प्रयोजनाभासेषु रतः स्यादित्यर्थः । नानाविधेषु फलेषु तत्साधनभूतेषु बहुषु कर्मसु वेदबोधितेषु सत्स्वपि यावता देहधारणमुपासनानिर्वृत्ति32श्च भवति, तावत् परिग्रहवान् स्यादित्यर्थः । देहधारणार्थं क्षुद्रफलेष्वपि यतितव्यमित्यत आह - सिद्ध इति । अर्थे अपेक्षिऽर्थेऽन्यथा पूर्वकर्मानुरूपे सिद्धे सति तत्तत् क्षुद्रफलतदुपायादिष्वपि न यतेत कथम्भूतो न यतेत तत्र यत्ने क्रियमाणे परिश्रमं समीक्षमाणः भवितव्यमेव भवति परिश्रमस्तु फलति इत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

सत्यां क्षितौ किं कशिपोः प्रयासै-
र्बाहौ स्वसिद्धे ह्युपबर्हणैः किम्।
सत्यञ्जलौ किं पुरुधान्नपात्र्या
दिग्वल्कलादौ सति किं दुकूलैः॥

मूलम्

सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्व33सिद्धे ह्युपबर्हणैः किम्।
सत्यञ्जलौ किं पुरुधा34न्नपात्र्या दिग्वल्क35लादौ सति किं दुकूलैः॥ ४ ॥

अनुवाद (हिन्दी)

जब जमीनपर सोनेसे काम चल सकता है तब पलँगके लिये प्रयत्न करनेसे क्या प्रयोजन। जब भुजाएँ अपनेको भगवान‍्की कृपासे स्वयं ही मिली हुई हैं तब तकियोंकी क्या आवश्यकता। जब अंजलिसे काम चल सकता है तब बहुत-से बर्तन क्यों बटोरें। वृक्षकी छाल पहनकर या वस्त्रहीन रहकर भी यदि जीवन धारण किया जा सकता है तो वस्त्रोंकी क्या आवश्यकता॥ ४॥

वीरराघवः

अन्यथासिद्धिं विवृणोति सत्यामित्यादिना द्वयेन । क्षितौ सत्यां कशिपोः शय्यायाः पर्यङ्कादेः प्रयासैः तद36र्जनानुकूलप्रयत्नैः किम् ? न किमपि । किन्तु परिश्रम एवेत्यर्थः । स्वतस्सिद्धे बाहौ सति उपबर्हणैः उपधानैः किम् ? अञ्जलौ सति पुरुधाऽन्नपात्र्या नानाविध37 भोजनपात्रे38ण किम् ? दिग्वल्कलादौ सति दिक्षु उत्तरीयस्थानीयासु सतीषु वल्कलेषु अन्तरीयस्थानीयेषु सत्सु न तु वल्कलाभावे दिक्षु सतीषु इत्यर्थः स्वरस:, ‘अपवित्रकरो नम्र’ इति नग्नस्य कर्मानर्हत्वस्मरणात्, मुमुक्षोरप्यावश्यकानाम् अनुष्ठेयत्वात् । दुकूलैः क्षौमैः किम्? ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन्।
रुद्धा गुहाः किमजितोऽवति नोपसन्नान्
कस्माद् भजन्ति कवयो धनदुर्मदान्धान्॥

मूलम्

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नो39वाङ्घ्रिपाः प40रभृतः सरितो41ऽप्यशुष्यन्।
रुद्धा गुहाः किमजि42तोऽवति नोपस43न्नान् कस्माद् भजन्ति कवयो धनदुर्मदान्धान्॥ ५ ॥

अनुवाद (हिन्दी)

पहननेको क्या रास्तोंमें चिथड़े नहीं हैं? भूख लगनेपर दूसरोंके लिये ही शरीर धारण करनेवाले वृक्ष क्या फल-फूलकी भिक्षा नहीं देते? जल चाहनेवालोंके लिये नदियाँ क्या बिलकुल सूख गयी हैं? रहनेके लिये क्या पहाड़ोंकी गुफाएँ बंद कर दी गयी हैं? अरे भाई! सब न सही, क्या भगवान् भी अपने शरणागतोंकी रक्षा नहीं करते? ऐसी स्थितिमें बुद्धिमान् लोग भी धनके नशेमें चूर घमंडी धनियोंकी चापलूसी क्यों करते हैं?॥ ५॥

वीरराघवः

ननु वल्कलमन्नं तोयं वासस्थानञ्च याच्ञादिप्रयत्नं विना कथं प्राप्येत ? तत्राऽऽह - चीराणीति । जीर्णवस्त्रखण्डानि पथि मार्गे न सन्ति किम् ? परभृतः परान् बिभ्रति पुष्णन्ति फलादिभिः ये ते44 अङ्घ्रिपाः भिक्षां न दिशन्ति वा किम् ? न प्रयच्छन्ति किम् ? इत्यर्थः । सरितो नद्यः अशुष्यन् किम् ? गुहाः पर्वतबिलानि रुद्धाः नि45रुद्धाः किम् ? ननु कदाचिदेषामलाभे किं कार्यं स्यात् ? तत्राह - अजित इति । उपस46न्नान् शरणागतान् अजितः सर्वेश्वरः नावति ? न रक्षति किम् ? कवयो धनेन यो दुर्मदः तेन अन्धान् का47र्याकार्यानभिज्ञान् कस्माद्धेतोः भजन्ति ? कविभिरन्नाद्यर्थमपि ध48नदुर्मदान्धा न भजनीया इत्यर्थः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

एवं स्वचित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवाननन्तः।
तं निर्वृतो नियतार्थो भजेत
संसारहेतूपरमश्च यत्र॥

मूलम्

एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियो49ऽर्थो भगवाननन्तः।
तं50 निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र॥ ६ ॥

अनुवाद (हिन्दी)

इस प्रकार विरक्त हो जानेपर अपने हृदयमें नित्य विराजमान, स्वतःसिद्ध, आत्मस्वरूप, परम प्रियतम, परम सत्य जो अनन्तभगवान् हैं, बड़े प्रेम और आनन्दसे दृढ़ निश्चय करके उन्हींका भजन करे; क्योंकि उनके भजनसे जन्म-मृत्युके चक्‍करमें डालनेवाले अज्ञानका नाश हो जाता है॥ ६॥

वीरराघवः

इतरे दुस्सेव्याः, हरिस्तु सुसेव्यः उक्तरीत्या अवस्थितस्य इतरवैतृष्ण्यात् भगवत एव प्रीतिविषयत्वादित्याऽऽह - एवमिति । स्वचित्ते स्वकीयचित्ते एवं सिद्धे - उक्तानुसाधनपरे सति विषयान्तरविरक्तचित्तविषयभृतो यः आत्मत्वादिगुणकः यत्र च यस्मिन् सेव्यमाने संसारहेतूपरमश्च बन्धहेतुभूताविद्यानिवृत्तिश्च भवति, तं भजेतेत्यन्वयः । भजनीयत्वौ51पयिकगुणानाह - आत्मेत्यादि । आत्मा अन्तः प्रविश्य धारकः, धार्यस्य शरीरस्य जीवात्मनः धारकपरमात्मानुवर्तित्वं युक्तम् इत्यभिप्रायः । यत आत्मा अत एव प्रियः निरतिशयप्रीतिविषयः52 । आत्मसम्बन्धादेव हि देहापत्यकलत्रादिकं सर्वं प्रियवदाभाति । आत्मनोऽप्यात्मा हरिः प्रिय इति किमु वक्तव्यम् । प्रिय इति निरतिशयसुखस्वरूपत्वस्यापि उपलक्षणम् । अत एव अर्थः निरतिशयपुरुषार्थस्वरूपः निरतिशयसुखमेव हि परमपुरुषार्थः । पुरुषार्थस्वरूपस्यापि दुर्भगत्वेऽभजनीयत्वं स्यात् ।
अत आह भगवान् हेयप्रतिभटसमग्रज्ञानशक्तिबलैश्वर्यवीर्यतेजस्सम्पन्नः स्वरूपस्य ज्ञानादिगुणानाञ्च परिच्छिन्नत्वशङ्कां व्यावर्तयति अनन्त इति । तमुक्तविधं स्वप्राप्ति विरोधिभूताविद्यानिवर्तकं आत्मानं निर्वृतः इतरविषयवैतृष्ण्यात् निरतिशयसुखरूपपरमात्मोपासनाञ्च सुखितः । नियतार्थः नियमि53तप्रयोजनः फलान्तरनिवृत्त इत्यर्थः । भजेत उपासीतेत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

कस्तां त्वनादृत्य परानुचिन्ता-
मृते पशूनसतीं नाम युञ्‍ज्यात्।
पश्यञ्जनं पतितं वैतरण्यां
स्वकर्मजान् परितापाञ्जुषाणम्॥

मूलम्

कस्तां54 त्वनादृत्य परानुचिन्तामृते पशू55नसतीं नाम यु56ञ्‍ज्यात्।
पश्यन् जनं पतितं वैतरण्यां स्वकर्मजान् परिता57पान् जुषाणम्॥ ७ ॥58

अनुवाद (हिन्दी)

पशुओंकी बात तो अलग है; परन्तु मनुष्योंमें भला ऐसा कौन है जो लोगोंको इस संसाररूप वैतरणी नदीमें गिरकर अपने कर्मजन्य दुःखोंको भोगते हुए देखकर भी भगवान‍्का मंगलमय चिन्तन नहीं करेगा, इन असत् विषय-भोगोंमें ही अपने चित्तको भटकने देगा?॥ ७॥

वीरराघवः

एतदेवार्थान्तरचिन्तानिन्दया द्रढयति - इति । तं ईश्वरं अनादृत्य । तामिति पाठे ईश्वरचिन्तामनादृत्येत्यर्थः । को लोकः ऋते पशून् विना परानुचिन्ताम् अर्थान्तरचिन्ताम् असतीम् अशोभनाम् कुर्यान्नाम ? पशुरेव तथा कुर्यात्, तथा कुर्वन् पशुरित्यर्थः । परानुचिन्तया वैतरण्यां यमलोकसिन्धौ तत्सदृशे संसारे इत्यर्थः । पतितं तत्र च स्वकर्मजान् आध्यात्मिकादिक्लेशान् जुषाणं सेवमानं पश्यन् कः कुर्यात् इति पूर्वेण सम्बन्धः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

केचित् स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम्।
चतुर्भुजं कञ्जरथाङ्गशङ्ख-
गदाधरं धारणया स्मरन्ति॥

मूलम्

केचित् स्वदे59हान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्।
चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति॥ ८ ॥

अनुवाद (हिन्दी)

कोई-कोई साधक अपने शरीरके भीतर हृदयाकाशमें विराजमान भगवान‍्के प्रादेशमात्र स्वरूपकी धारणा करते हैं। वे ऐसा ध्यान करते हैं कि भगवान‍्की चार भुजाओंमें शंख, चक्र, गदा और पद्म हैं॥ ८॥

वीरराघवः

एवं फलान्तर-तदुपायनिवृत्तस्य भगवद्ध्यानप्रकारमाह - केचिदित्यादिना । भगवदुपासनाबाहुल्येन, उपासकबाहुल्यात् केचिदित्युक्तिः, न तु स्वासम्मतत्वेन । स्वदेहस्य अन्तः मध्ये यो हृदयावकाशः तत्र वसन्तं प्रादेशमात्रं प्रादेशसम्बन्धिनी मात्रा वपुः परिमाणं यस्य तं हृदयान्तः- प्रदेशसम्बन्धिमात्रया परिच्छिन्नम्। “यस्त्वेतमेनं60 प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते” (छान्दो. उ. 5-18-1) इति त्रैलोक्यशरीरकेऽप्युपासका61नुग्रहाय उपास62नायाः प्रदेशसम्बन्धिमात्रया परिच्छिन्नत्वश्रवणात् । हृदयकमलस्याङ्गुष्ठमात्रत्वाच्च । एतेन तर्जन्यङ्गुष्ठविस्तारः प्रादेशः तत्परिमित63मित्ययुक्तमिति बोद्धव्यम् । कञ्जं कमलम् । रथाङ्गं चक्रम् । दक्षिणबाहुभ्यां क64ञ्जरथाङ्गे वामाभ्यां शङ्खगदे बिभ्रतमित्यर्थः । एवंविधं पुरुषं केचिद्योगीश्वराः धारणया स्मरन्ति धारणापूर्वकमुपासत इत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

प्रसन्नवक्त्रं नलिनायतेक्षणं
कदम्बकिञ्जल्कपिशङ्गवाससम्।
लसन्महारत्नहिरण्मयाङ्गदं
स्फुरन्महारत्नकिरीटकुण्डलम्॥

मूलम्

प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम्।
लसन्महार65त्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम्॥ ९ ॥

अनुवाद (हिन्दी)

उनके मुखपर प्रसन्नता झलक रही है। कमलके समान विशाल और कोमल नेत्र हैं। कदम्बके पुष्पकी केसरके समान पीला वस्त्र धारण किये हुए हैं। भुजाओंमें श्रेष्ठ रत्नोंसे जड़े हुए सोनेके बाजूबंद शोभायमान हैं। सिरपर बड़ा ही सुन्दर मुकुट और कानोंमें कुण्डल हैं, जिनमें जड़े हुए बहुमूल्य रत्न जगमगा रहे हैं॥ ९॥

वीरराघवः

66वमेव पुरुषं विशिनष्टि - प्रसन्नवक्त्रमिति । अनुग्रहोन्मुखं67 मुखं नलिनं पद्मं तद्वत्प्रसन्ने आयते दीर्घे ईक्षणे यस्य । कदम्बकुसुमस्य किञ्जल्कः केसरः तद्वत् पिशङ्गे वाससी यस्य । लसन्ति महारत्नानि येषु तानि हा68राङ्गदानि यस्य । स्फुरन्ति महारत्नानि तन्मयानि किरीटकुण्डलानि यस्य तम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवम्।
श्रीलक्ष्मणं कौस्तुभरत्नकन्धर-
मम्लानलक्ष्म्या वनमालयाऽऽचितम्॥

मूलम्

उन्निद्रहृत्पङ्कजकर्णिकालये69 योगे70श्वरा71स्थापितपादपल्लवम्।
श्रीलक्ष्म72णं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालया73ऽऽचितम्॥ १० ॥

अनुवाद (हिन्दी)

उनके चरणकमल योगेश्वरोंके खिले हुए हृदयकमलकी कर्णिकापर विराजित हैं। उनके हृदयपर श्रीवत्सका चिह्न—एक सुनहरी रेखा है। गलेमें कौस्तुभमणि लटक रही है। वक्षःस्थल कभी न कुम्हलानेवाली वनमालासे घिरा हुआ है॥ १०॥

वीरराघवः

उन्निद्रं विकसितं यत् हृ74त्पङ्कजं हृदयकमलं तस्य । कर्णिकैव आलयः स्थानं तस्मिन् । योगीश्वरैः75 आस्थापितौ ध्यानविषयीकृतौ पादपल्लवौ यस्य । श्रीः लक्ष्मीरेव लक्ष्म चिह्नं अस्यास्तीति श्रीलक्ष्मणः । पामादिविहितमत्वर्थीयो नप्रत्ययः, तस्य आकृतिगणत्वात् । कौस्तुभरत्नं कन्धरायां यस्य । अत्र कन्धराशब्दः तदासन्नवक्षः परः । अम्लाना लक्षमीः शोभा यस्याः तया वनमालया आचितं व्याप्तम् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

विभूषितं मेखलयाङ्गुलीयकै-
र्महाधनैर्नूपुरकङ्कणादिभिः।
स्निग्धामलाकुञ्चितनीलकुन्तलै-
र्विरोचमानाननहासपेशलम्॥

मूलम्

विभूषितं मेखलयाऽङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः।
स्निग्धामला76कुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम्॥ ११ ॥

अनुवाद (हिन्दी)

वे कमरमें करधनी, अँगुलियोंमें बहुमूल्य अँगूठी, चरणोंमें नूपुर और हाथोंमें कंगन आदि आभूषण धारण किये हुए हैं। उनके बालोंकी लटें बहुत चिकनी, निर्मल, घुँघराली और नीली हैं। उनका मुखकमल मन्द-मन्द मुसकानसे खिल रहा है॥ ११॥

वीरराघवः

मेखलया कटिसूत्रेण महाधनैः अनर्घैः अङ्गुलीयकैः नूपुरकङ्कणादिभिश्च विभूषितं विशेषेणालङ्कृतं स्निग्धत्वादिविशिष्टैः कुन्तलैः विरोचमाने77 आनने78 यो हासः तेन पेशलं सुन्दरं त79त्र स्निग्धाः सस्नेहा आकुञ्चिता वक्राः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

अदीनलीलाहसितेक्षणोल्लसद्‍-
भ्रूभङ्गसंसूचितभूर्यनुग्रहम्।
ईक्षेत चिन्तामयमेनमीश्वरं
यावन्मनो धारणयावतिष्ठते॥

मूलम्

अदीनलीलाहसितेक्षणोल्लसद्‍ भ्रूभङ्गसंसूचितभूर्यनुग्रहम्।
ईक्षेत चिन्तामयमेन80मीश्वरं यावन्मनो धारणयाऽवतिष्ठते॥ १२ ॥

अनुवाद (हिन्दी)

लीलापूर्ण उन्मुक्त हास्य और चितवनसे शोभायमान भौंहोंके द्वारा वे भक्तजनोंपर अनन्त अनुग्रहकी वर्षा कर रहे हैं। जबतक मन इस धारणाके द्वारा स्थिर न हो जाय, तबतक बार-बार इन चिन्तनस्वरूप भगवान‍्को देखते रहनेकी चेष्टा करनी चाहिये॥ १२॥

वीरराघवः

अदीनम् उदारं यल्लीलाहसितं तेन युक्तं य81त् ईक्षणं तेनोल्लसन्तो ये82 भ्रूभङ्गाः भ्रूविक्षेपाः तैः संसूचितो भूर्यनुग्रहो येन तं चिन्तामयं चिन्ताविषयम् । चिन्ताप्रचुरम् ईक्षेतेति क्रियाविशेषणं वा । एवंविधमीश्वरं यावद्वारणया मनोऽवतिष्ठते तावत् ईक्षेत उपासीत इत्यर्थः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

एकैकशोऽङ्गानि धियानुभावयेत्
पादादि यावद्धसितं गदाभृतः।
जितं जितं स्थानमपोह्य धारयेत्
परं परं शुद्ध्यति धीर्यथा यथा॥

मूलम्

एकैकशोऽङ्गानि धियानुभाव83येत् पादादि यावद्धसितं गदाभृतः।
जितं जितं स्थानमपोह्य धारयेत् परं परं शु84द्ध्यति धीर्यथा य85था॥ १३ ॥

अनुवाद (हिन्दी)

भगवान‍्के चरणकमलोंसे लेकर उनके मुसकानयुक्त मुखकमलपर्यन्त समस्त अंगोंकी एक-एक करके बुद्धिके द्वारा धारणा करनी चाहिये। जैसे-जैसे बुद्धि शुद्ध होती जायगी, वैसे-वैसे चित्त स्थिर होता जायगा। जब एक अंगका ध्यान ठीक-ठीक होने लगे, तब उसे छोड़कर दूसरे अंगका ध्यान करना चाहिये॥ १३॥

वीरराघवः

युगपत् कृत्स्रशुभाश्रयगोचरध्यानाश86क्त87स्य तदुपायभूतम् उक्तरूपस्यैव ध्यानक्रमविशेषमाह - एकैकश इति । गदाभृतः परमात्मनः पादादि पादात्प्रभृति यावद्धसितं मन्दस्मितावधि । अङ्गानि एकैकशः प्रत्येकं धिया अनुभावयेत् चिन्तयेत् । जितं जितं भावनया स्फुरितं प्रतिष्ठितमिति यावत्, स्थानं पादगुल्फाद्यवयवमपोह्य त्यक्त्वा विशेषाकारेणेति भावः । सामान्याकारेण कृत्स्रशुभाश्रयगोचरज्ञानस्यपेक्षितत्वात् परम्परं जङ्घाजान्वादिस्थानं धीः यथा शुद्ध्यति प्रसीदति, अनाकुलीभवति तथा धारयेत् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यावन्न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोगः।
तावत् स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत॥

मूलम्

यावन्न जायेत पराव88रेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः।
तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत॥ १४ ॥

अनुवाद (हिन्दी)

ये विश्वेश्वर भगवान् दृश्य नहीं, द्रष्टा हैं। सगुण, निर्गुण—सब कुछ इन्हींका स्वरूप है। जबतक इनमें अनन्य प्रेममय भक्तियोग न हो जाय तबतक साधकको नित्य-नैमित्तिक कर्मोंके बाद एकाग्रतासे भगवान‍्के उपर्युक्त स्थूलरूपका ही चिन्तन करना चाहिये॥ १४॥

वीरराघवः

कृत्स्रशुभाश्रयगोचरभक्तियोगोत्पत्तेः पूर्वमिदम् अवयवशो विभावनं यत्नेन कर्तव्यम् उत्पन्नायां तु भक्तौ हानायोगात् । अतः तत्स89र्वं यत्नेन ध्येयम् अवयवश: इत्याह - यावदिति । प90रे ब्रह्मादयोऽवरे यस्मात् स परावरः तस्मिन् वि91श्वेषामीश्वरे नियन्तरि द्र92ष्टरि सर्वज्ञेऽस्मिन्नुक्तविग्रहविशिष्टे93 पुरुषे भक्तियोगः विशेषाकारेण कृत्स्रशुभाश्रयगोचरः प्रीतिपूर्वकोऽविच्छिन्नो ध्यानयोगः । यावन्न जायेत नोत्पद्येत तावत् क्रियावसाने आवश्यकानुष्ठानान्ते पुरुषस्य “प्रादेशमात्रं पुरुषं” (भाग:2-2-8) इत्युक्तस्य पुरुषस्य स्थविष्ठं रूपं दिव्यात्मस्वरूपापेक्षया स्थविष्ठं विग्रहं प्रयतः समाहितः अवयवशः स्मरेत् इत्यर्थः । स्थविष्ठं रूपं वैराजस्य पूर्वोक्त94रूपम् इति तु मन्दं; रूपान्तरोपासनायाः एतद्रूपोपासनानुपयुक्तत्वात् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

स्थिरं सुखं चासनमाश्रितो यति-
र्यदा जिहासुरिममङ्ग लोकम्।
काले च देशे च मनो न सज्जयेत्
प्राणान् नियच्छेन्मनसा जितासुः॥

मूलम्

स्थिरं सुखं चासनमा95श्रितो यतिर्यदा जिहासुरिममङ्गलोकम्।
काले च देशे च मनो न सज्ज96येत् प्राणा97न् नियच्छेन्मनसा जितासुः॥ १५ ॥

अनुवाद (हिन्दी)

परीक्षित्! जब योगी पुरुष इस मनुष्यलोकको छोड़ना चाहे तब देश और कालमें मनको न लगाये। सुखपूर्वक स्थिर आसनसे बैठकर प्राणोंको जीतकर मनसे इन्द्रियोंका संयम करे॥ १५॥

वीरराघवः

एवमेकैकमवयवं शिक्षयित्वा पश्चादेकैकाङ्गध्यानपूर्वकं कृत्स्रध्यानाभ्यास उक्तः । अथ ईदृशोपासनानिष्ठस्य देहत्यागप्रकारं वक्ष्यन् स्वात्मनः परमात्मनि समर्पणप्रकारमाह - स्थिरमिति । यतिः योगी यदा परिपूर्णभक्तियोग सम्पादकशरीरावस्थितिहेतुभूतप्रारब्धावसानकाले अङ्ग! हे राजन्! इमं लोकं प्राकृतं लोकं जिहासुः हातुमिच्छुः भवति । तदा गङ्गातीरोत्तरायणादिदेशकालादिषु मनो न स98ज्जयेत् क्तं न कुर्यात् । किन्तु, जितप्राणः जितासुः स्थिरं निर्भयदेशस्थं सुखं99 मृद्वासनमास्थितः मनसा प्राणानिन्द्रियाणि नियच्छेत् अनन्यपराणि कुर्यात् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

मनः स्वबुद्ध्यामलया नियम्य
क्षेत्रज्ञ एतां निनयेत् तमात्मनि।
आत्मानमात्मन्यवरुध्य धीरो
लब्धोपशान्तिर्विरमेत कृत्यात्॥

मूलम्

100नः स्वबुद्ध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि।
आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेतकृत्यात्॥ १६ ॥

अनुवाद (हिन्दी)

तदनन्तर अपनी निर्मल बुद्धिसे मनको नियमित करके मनके साथ बुद्धिको क्षेत्रज्ञमें और क्षेत्रज्ञको अन्तरात्मामें लीन कर दे। फिर अन्तरात्माको परमात्मामें लीन करके धीर पुरुष उस परम शान्तिमय अवस्थामें स्थित हो जाय। फिर उसके लिये कोई कर्तव्य शेष नहीं रहता॥ १६॥

वीरराघवः

स्वबुद्धया निश्चयात्मिकया बुद्ध्याऽमलया भगवदुपासनेन निर्धूतमलया मनः नियम्य बुद्धिव्यापारमात्ररतं कृत्वा एतां बुद्धिं क्षेत्रज्ञे जीवे निनयेत् नियच्छेत् । तं क्षेत्रज्ञम् आत्मनि नि101यच्छेदित्यर्थः । एवम् आत्मानं जीवम् आत्मनि परमात्मनि अवरुध्य समर्प्य लब्धोपशान्तिः प्राप्तनिर्वृतिस्सन् कृत्याद्विरमेत् अन्तकाले परमात्मनि स्वात्मसमर्पणावधि कर्म न त्याज्यमिति कृत्याद्विरमेत इत्यनेनावगम्यते । “आप्रयाणात् तत्रापि हि दृष्टम्” (ब्र.सू. 4-1-12) इति न्यायेन उपासनायाः आप्रयाणादनुवर्तनीयत्वेन तन्निष्पादककृत्यस्यापि आप्प्रयाणादनुवर्तनीयत्वात् । न हि मुमूर्षोः कृत्यविरतिः विधेया स्वत एव विरतेः । अत्र यद्यपि “यदा जिहासुरिममङ्ग! लोकम्” (भाग-2-2-15) इत्यनेन योगिनां स्वच्छन्दमरणानां कृत्यमेव प्रतीयते, तथाऽपि “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” (छान्दो. उ. 6-14-2) इति कृत्स्त्नयोगशरीरारम्भकप्रारब्धावसान एव परमात्मसम्पत्तिश्रवणात् न तेषामिदं कृत्यं न च मुमूर्षोः अनवहितकरणत्वेनाशक्यत्वात् “न सज्जेत् नियच्छेत् विरमेत” इत्यादि विधिविषयत्वानुपपत्या स्वच्छन्दमरणा102नां कृत्यमेव इदमिति वक्तुं युक्तं योगप्रभावातिशयेन करणानां स्वायत्तत्वात् । ये च योगमाहात्म्यादविनष्टे एव प्रारब्धे म्रियन्ते तेषां पुनः संसार एव । अत एव भीष्मादीनाम् उत्तरायणादिकालप्रतीक्षा, प्रारब्धस्याविनष्टत्वात् । अतो यदा इत्यस्य प्रारब्धावसाने इत्युक्त एवार्थः साधुः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

न यत्र कालोऽनिमिषां परः प्रभुः
कुतो नु देवा जगतां य ईशिरे।
न यत्र सत्त्वं न रजस्तमश्च
न वै विकारो न महान् प्रधानम्॥

मूलम्

न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे।
न यत्र सत्त्वं न रजस्तमश्च न वै विकारो103 न महान् प्रधानम्॥ १७ ॥

अनुवाद (हिन्दी)

इस अवस्थामें सत्त्वगुण भी नहीं है, फिर रजोगुण और तमोगुणकी तो बात ही क्या है। अहंकार, महत्तत्त्व और प्रकृतिका भी वहाँ अस्तित्व नहीं है। उस स्थितिमें जब देवताओंके नियामक कालकी भी दाल नहीं गलती, तब देवता और उनके अधीन रहनेवाले प्राणी तो रह ही कैसे सकते हैं?॥ १७॥

वीरराघवः

अथ प्राप्यं परमात्मस्वरूपं वक्ष्यन् तस्मिन् स्वात्मसमर्पणावधि कर्म न त्याज्यमित्याह - न यत्र इति । यत्र वैष्णवे पदे कालो न प्रभुः किमपि कर्तुं न समर्थः अत एव देवा न प्रभव इत्याह । अनिमिषां ब्रह्मादी104नां परः प्रभुः कालो यत्र न प्रभुः तत्र कुतो नु105 देवाः प्रभवः स्युः देवनियाम्यानां जगतां प्राणिनां का वार्ता इत्याह । जगतां प्राणिनां ये ईशिरे जगन्ति ये न्ययमयन् देवाः ते कुतो नु प्रभवः तन्नियाम्यानां जगतां तु अप्रभुत्वं कैमुत्यन्यायसिद्धमित्यर्थः । सर्वैः अनियाम्यं स106र्वैः अनियन्त्रितमित्यर्थः किञ्च, यत्र पदे प्रधानं तद्गुणाः सत्त्वादयः प्रधानकार्यभूता107 महदहङ्कारादयश्च स्वकीयकार्यजननक्षमा न भवन्ति ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

परं पदं वैष्णवमामनन्ति तद्
यन्नेति नेतीत्यतदुत्सिसृक्षवः।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं पदे पदे॥

मूलम्

परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः।
विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगु108ह्यार्हपदं पदे पदे॥ १८ ॥

अनुवाद (हिन्दी)

योगीलोग ‘यह नहीं, यह नहीं’—इस प्रकार परमात्मासे भिन्न पदार्थोंका त्याग करना चाहते हैं और शरीर तथा उसके सम्बन्धी पदार्थोंमें आत्मबुद्धिका त्याग करके हृदयके द्वारा पद-पदपर भगवान‍्के जिस परम पूज्य स्वरूपका आलिंगन करते हुए अनन्य प्रेमसे परिपूर्ण रहते हैं, वही भगवान् विष्णुका परम पद है—इस विषयमें समस्त शास्त्रोंकी सम्मति है॥ १८॥

वीरराघवः

यत् विष्णोः सम्बन्धि परं सर्वोत्कृष्टं पदं प्राप्यं स्वरूपं पद्यते गम्यत इति हि व्युत्पत्तिः आमनन्ति वे109दान्ताः इति शेषः । किं कर्तुमिच्छवः आमनन्ति यद्यस्मिन्न तन्नेति नेतीति उत्सिसृक्षवः तद्व्यतिरिक्तमुत्स्रष्टुमिच्छवः व्यावर्तयितुमिच्छवः अब्रह्मात्मकं स्वतन्त्रं वस्तु “नेति नेति” (भाग- 7-7-23) इ110ति बोधयन्तः कालादिभिः अनियाम्यं कालादीनां च नियन्तृ यत् सत्त्वादिकार्यास्पृष्टं च वैष्णवं प्राप्यं स्वरूपं वेदान्ता आमनन्ति दौरात्म्यं रागाद्युपहतचित्तत्वं विसृज्य त्यक्त्वा तदर्हपदमर्हस्य आराधनीयस्य भगवतः पदं अनन्यसौहृदा अनन्यसौहृदे111न हृदयस्य हृदादेशः यद्वा अनन्यसौहृदा वेदान्ताः आमनन्ति इति पूर्वेणान्वयः । अनन्यतात्पर्यका इत्यर्थः । हृदा हृदयेन उपगुह्य पदे पदे क्षणे क्षणे आश्लिष्य कृत्याद्विरमेत । तदा कृतकृत्यो भवेदिति पूर्वेणान्वयः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

इत्थं मुनिस्तूपरमेद् व्यवस्थितो
विज्ञानदृग्वीर्यसुरन्धिताशयः।
स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं
स्थानेषु षट् सून्नमयेज्जितक्लमः॥

मूलम्

इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्य सुरन्धिताशयः।
स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं स्थानेषु षड्सून्नमयेज्जितक्लमः॥ १९ ॥

अनुवाद (हिन्दी)

ज्ञानदृष्टिके बलसे जिसके चित्तकी वासना नष्ट हो गयी है, उस ब्रह्मनिष्ठ योगीको इस प्रकार अपने शरीरका त्याग करना चाहिये। पहले एड़ीसे अपनी गुदाको दबाकर स्थिर हो जाय और तब बिना घबड़ाहटके प्राणवायुको षट्चक्रभेदनकी रीतिसे ऊपर ले जाय॥ १९॥

वीरराघवः

अथ देहादुत्क्रान्तिप्र112कारमाह - इत्थम् इति । मुनिः इत्थं तु उपरमेत्, देहादिति शेषः । तुशब्दः कृत्याद्विरते: देहादुपरामस्य वैषम्यद्योतकः । इत्थं वक्ष्यमाणप्रकारे113ण एतदेव उपपादयति विज्ञानेति । सर्वं ब्रह्मात्मकमिति व्यवस्थितमतिः विज्ञानं भगवदुपासनात्मकं ज्ञानं तदेव दृक् दर्शनात्मकं सा114क्षात्कारताऽऽपन्नं प्रत्यक्षतापन्नमित्यर्थः । तादृशस्य ज्ञानस्य यद्वीर्यं सामर्थ्यं तेन सुरन्धितः वि115हिंसित: निश्शेषनिवृत्तः आशयो वासना यस्य स तथोक्तः योगी स्वपार्ष्णिना स्वपादमूलेन गुदं मूलाधारम् आपीड्य निरुद्ध्य ततः आपीडनानन्तरम् अनिलं प्राणं षट्सु नाभ्यादिषु वक्ष्यमाणेषु स्थानेषु उन्नमयेत् । जितः क्लमो येन निवृत्तश्रम इत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

नाभ्यां स्थितं हृद्यधिरोप्य तस्मा-
दुदानगत्योरसि तं नयेन्मुनिः।
ततोऽनुसन्धाय धिया मनस्वी
स्वतालुमूलं शनकैर्नयेत॥

मूलम्

नाभ्यां स्थितं हृद्यधिरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनिः।
ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत॥ २० ॥

अनुवाद (हिन्दी)

मनस्वी योगीको चाहिये कि नाभिचक्र मणिपूरकमें स्थित वायुको हृदयचक्र अनाहतमें, वहाँसे उदानवायुके द्वारा वक्षःस्थलके ऊपर विशुद्ध चक्रमें, फिर उस वायुको धीरे-धीरे तालुमूलमें (विशुद्ध चक्रके अग्रभागमें) चढ़ा दे॥ २०॥

वीरराघवः

नाभ्यां मणिपूरके स्थितं प्राणं हृद्यनाहताख्ये116 हृदयकमले अधिरोप्य तस्मात् हृदः उदानगत्या उदानस्योदानवायोर्गत्या सञ्चारप्रकारेण उरसि कण्ठात् अधोदेशस्थिते विशुद्धचक्रे तं प्राणं नयेत । तत उरसः धिया अनुसन्धाय स्व117गन्तव्यमनुसन्धाय मनस्वी यतचित्तः स्वतालुमूलं स्वजिह्वाग्रपूर्वचक्रस्यैवाग्रभागं शनकैः ततो बहुधा गमनसम्भवात् शनकैः इत्युक्तम् । नयेत प्रापयेत् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तस्माद् भ्रुवोरन्तरमुन्नयेत
निरुद्धसप्तायतनोऽनपेक्षः।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टि-
र्निर्भिद्य मूर्धन् विसृजेत्परं गतः॥

मूलम्

तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायत118नोऽनपेक्षः।
स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन् विसृजेत् परं गतः॥ २१ ॥

अनुवाद (हिन्दी)

तदनन्तर दो आँख, दो कान, दो नासाछिद्र और मुख—इन सातों छिद्रोंको रोककर उस तालुमूलमें स्थित वायुको भौंहोंके बीच आज्ञाचक्रमें ले जाय। यदि किसी लोकमें जानेकी इच्छा न हो तो आधी घड़ीतक उस वायुको वहीं रोककर स्थिर लक्ष्यके साथ उसे सहस्रारमें ले जाकर परमात्मामें स्थित हो जाय। इसके बाद ब्रह्मरन्ध्रका भेदन करके शरीर-इन्द्रियादिको छोड़ दे॥ २१॥

वीरराघवः

तस्मात् स्वतालुमूलात् । भ्रुवोः अन्तरं भ्रूमध्यस्थाज्ञाचक्रम् । प्रत्युन्नयेत ऊर्ध्वं नयेत । कथम्भूतः ? निरुद्धसप्तायतनः निरुद्धानि सप्तायतनानि श्रोत्रद्वयाक्षिद्वयनासारन्ध्रद्वयास्यरूपाणि स्थानानि येन सः, विषयान्तरनिरपेक्षः । भूमध्ये मुहूर्तार्धं स्थित्वा, अकुण्ठदृष्टिः स्वगन्तव्यविषयाप्रतिहतज्ञानसम्पन्नः परं परमात्मानं प्राप्तः अनुसन्दधत् मूर्द्धन् मूर्द्धानं “सुपां सु लुक्” (अष्टा. 7-1-39) इति सुब्लुक् । निर्भिद्य “शीर्षकपालं भिनत्ति (सुबा. उ. 11) इति श्रुतिः स्मारिता । विसृजेत्, स्थूलदेहमिति शेषः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यदि प्रयास्यन् नृप पारमेष्ठ्यं
वैहायसानामुत यद् विहारम्।
अष्टाधिपत्यं गुणसन्निवाये
सहैव गच्छेन्मनसेन्द्रियैश्च॥

मूलम्

यदि प्रयास्य119न् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहार120म्।
अष्टाधिपत्यं गुणसन्निवा121ये सहैव गच्छेन्मनसेन्द्रियैश्च॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित्! यदि योगीकी इच्छा हो कि मैं ब्रह्मलोकमें जाऊँ, आठों सिद्धियाँ प्राप्त करके आकाशचारी सिद्धोंके साथ विहार करूँ अथवा त्रिगुणमय ब्रह्माण्डके किसी भी प्रदेशमें विचरण करूँ तो उसे मन और इन्द्रियोंको साथ ही लेकर शरीरसे निकलना चाहिये॥ २२॥

वीरराघवः

अथ मुमुक्षोः गन्तव्यम् अर्चिरादिमार्गं वक्ष्यन् तस्य मुमुक्षोः धूमादिमर्गस्य हेयत्वज्ञापनाय धूमादिमार्गेण गतानां गन्तव्यलोकानाह - यदि इति । “एते सृती ते नृपवेदगीते” (भाग-2-2-32) इति मार्गद्वयस्य वक्ष्यमाणत्वात् अस्मिन् अध्याये धूमादिमार्गविषयग्रन्थान्तराभावाच्च । “तासां मूर्द्धानमभिनिः सृतैका तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” (कठ. उ.6-16) इति श्रुतेः । मूर्ध्ना122 निष्क्रान्तस्य अर्वाचीनलोकगत्यनुपपत्तेश्च । यदि इत्यादि श्लोकद्वयं धूमादिमार्गगतानां गन्तव्यलोक प्रदर्शनपरमेव । ननु “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते” (कठ. उ.6-14) इति सद्योमुक्तिरेका प्रतीयते “तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरन्ह” (छान्दो. उ. 5-10-1) इत्यादिना क्रममुक्तिः अन्या प्रतीयते । अत्रापि “विसृजेत्परङ्गतः” इति सद्योमुक्तिः, “वैश्वानरं याति” (भाग-2-2-24) इति क्रममुक्तिश्च प्रतीयते अतः क्रममुक्तिसद्योमुक्तिरूपमार्गद्वयस्यैव एते सृती ते इति वक्ष्यमाणत्वात् न धूमादिमार्गगतगन्तव्यप्रदर्शनपरमिदं श्लोकद्वयम् इति चेत् उच्चते । सद्योमुक्तिः तावत् अप्रामाणिकैव । “ये चेमेऽरण्ये श्रध्दातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति” (छान्दो. उ. 5-10-1) इत्यादिना “स एतान् ब्रह्म गमयति” (छान्दो. उ. 5-10-2) इत्यन्तेन ब्रह्मोपासीनानां अर्चिरादि123ना गतानामेव ब्रह्म प्राप्त्यवगमात् “विकल्पोऽविशिष्टफलत्वात्” (ब्र.सू. 3-3-59) इति न्यायेन सर्वब्रह्मिविद्यानां एकफलत्वेन अर्चिरादिगतेः सर्वब्रह्मविद्यानिष्ठानां समत्वात् शास्त्रप्रतिपाद्यायाः सद्योमुक्तेः अभावात् । अथ ब्रह्मणः सर्वगतत्वात् न तत्प्राप्तये देशान्तरगमनापेक्ष इति चेत् तर्हि ब्रह्मणो नित्यत्वात् सर्वदा तत्प्राप्तिः किं न स्यात् । ाअथ कालविशेष एव निश्शेषाविद्यानिवृत्तिः इति मन्यसे, एवं देशविशेष एव निश्शेषाविद्यानिवृत्तिः इति विभाव्यताम् । “अत्र ब्रह्म समश्नुते” (कठ.उ.6-14) “न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्मात्येति” (बृह. उ. 4-4-6) इत्यादिः कोऽर्थ इति चेदुच्यते । अत्र अस्मिन् लोके उपासन124दशायां यो ब्रह्मानुभवति तस्य ब्रह्मप्रेप्सोः प्राणा नोत्क्रामन्ति तं विहाय न गच्छन्ति किन्तु उपासन125फलभूतब्रह्मप्राप्तये तदधिष्ठतलोकान्तरगमनाय सहैव तिष्ठन्तीत्यर्थः । इति अतो धूमा126दिना गतानां गन्तव्यप्रदर्शनपरमिदं श्लोकद्वयमित्याह । यदि इति । हे नृप! पारमेष्ठ्यं चतुर्मुखलोकं वैहायसानां खेचराणां सिद्धानां यत् विहारस्थानं कीदृशम् ? अष्टाधिपत्यमणिमाद्यष्टैश्वर्यसम्पन्नं यदि प्रयास्यन् गमिष्यन् भवति तदा गुणसन्निवाये मरणे मनसा इन्द्रियैश्च सहैव गच्छेत् स्थूलदेहस्यैव भस्मीभावात् सक्ष्मदेहेनैव गच्छतीत्यर्थः । अर्वाचीनलोकान् गच्छतां भूतसूक्ष्मेन्द्रियात्मकलिङ्गशरीरेणैव सह गमनं ब्रह्मप्रेप्सोस्तु किञ्चिद्दूरं गच्छतो मध्ये विश्लेष इति विशेषः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

योगेश्वराणां गतिमाहुरन्त-
र्बहिस्त्रिलोक्याः पवनान्तरात्मनाम्।
न कर्मभिस्तां गतिमाप्नुवन्ति
विद्यातपोयोगसमाधिभाजाम्॥

मूलम्

योगे127श्वराणां गतिमाहु128रन्तर्बहिस्त्रिलोक्याः पवनान्तरात्म129नाम्।
130 कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम्॥ २३ ॥

अनुवाद (हिन्दी)

योगियोंका शरीर वायुकी भाँति सूक्ष्म होता है। उपासना, तपस्या, योग और ज्ञानका सेवन करनेवाले योगियोंको त्रिलोकीके बाहर और भीतर सर्वत्र स्वछन्दरूपसे विचरण करनेका अधिकार होता है। केवल कर्मोंके द्वारा इस प्रकार बेरोक-टोक विचरना नहीं हो सकता॥ २३॥

वीरराघवः

यो131गेश्वराणां भगवद्भक्तिव्यतिरिक्तयोगनिष्ठानां अब्रह्मात्मकस्वतन्त्रजीवोपसकानां त्रिलोक्या: अ132न्तः बहिः जनलोकादिषु पवनान्तरात्मना पवनस्यान्तरात्मा पवनान्तरात्मा तेन वायुभूतसूक्ष्मदेहेन गतिमाहुरित्यर्थः । यद्वा वायुमनुप्रविश्य गच्छतीति वायुतुल्यवेगो133 गच्छतीति आहुः इत्यर्थः । भगवद्भक्ति134व्यतिरिक्तयोगनिष्ठानां गतिः इतरैः न लभ्यत इत्याह नेति । विद्या शास्त्रजन्यं ज्ञानं, तपः कर्मयोग:, योगो यमनियमादिः, समाधिः अब्रह्मात्मकस्वात्म135रूपानुसन्धानम् एतान् भजन्ति ये तेषां योगीश्वराणां तां गतिं ब्रह्माण्डान्तर्गतापेक्षितलोकगतिं कर्मभिः अभिसंहितफलैः कर्मभिः न प्राप्नुवन्ति केवलकर्मिभ्योऽधिको योगी केवलयोगभ्यः अधिको भगवदुपासक इत्यभिप्रायः । यद्वा भवद्भक्तानां गतिः कर्मभिः नावाप्यत इत्याह योगीश्वराणाम् इति । भगवद्भक्तियोगनिष्ठानाम् इत्यर्थः । त्रिलोक्याः त्रिलोकान्तर्भूतचतुर्दशभुवनात्मकाण्डकोशाद्बहिः समाधिः परमात्मोपासनमिति भेदः, एवं हेयत्वेन धूमादिमार्गगतिरुक्ता ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

वैश्वानरं याति विहायसा गतः
सुषुम्णया ब्रह्मपथेन शोचिषा।
विधूतकल्कोऽथ हरेरुदस्तात्
प्रयाति चक्रं नृप शैशुमारम्॥

मूलम्

वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथे136न शो137चिषा।
विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशु138मारम्॥ २४ ॥

अनुवाद (हिन्दी)

परीक्षित्! योगी ज्योतिर्मय मार्ग सुषुम्णाके द्वारा जब ब्रह्मलोकके लिये प्रस्थान करता है, तब पहले वह आकाशमार्गसे अग्निलोकमें जाता है; वहाँ उसके बचे-खुचे मल भी जल जाते हैं। इसके बाद वह वहाँसे ऊपर भगवान् श्रीहरिके शिशुमार नामक ज्योतिर्मय चक्रपर पहुँचता है॥ २४॥

वीरराघवः

अथ मुमुक्षोः अर्चिरादिमार्गमाह - वैश्वानरम् इति । छान्दोग्ये “यथा पुष्करपलाश आपो न श्लिष्यन्ते एवं एवंविदि पापं कर्म न श्लिष्यते” (छान्दो. उ. 4-14-3) इत्युपक्रम्य ब्रह्मविद्यामुपदिश्य आम्नातः । “अथ यदचास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्ति । अर्चिषोऽहः अह्न आपूर्यमाणपक्षम् आपूर्यमाणपक्षाद्यान् षडुदङ्केति मासांस्तान्” “मासेभ्यः संवत्सरम् । संवत्सरादादित्यम् । आदित्यात् चन्द्रमसम् । चन्द्रमसो विद्युतम् । तत्पुरुषोऽमानवः । स एनान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाऽऽवर्तते नावर्तन्ते” (छान्दो. उ. 4-15-5) इत्याम्नाता श्रुतिः “स वै पुनर्नेह विषज्जतेऽङ्गम्” (भाग. 2-2-31) इत्यन्तेनाभिमता । अत्रानुक्तो हरादिप्रवेशस्त्वर्थसिद्धो वेदितव्यः । शीर्षकपालभेदनानन्तरमेव वैश्वानरप्राप्त्यसम्भवात् श्रुतावपि वरुणेन्द्रप्रजापत्यादयोऽन्यत्र श्रुताः अर्थसिद्धाः इति वेदितव्यम् । ब्रह्मपथेनेति सुषुम्नाविशेषणम् । ब्रह्मप्रेप्सोर्मार्गभूतया शोचिषा प्रकाशमानया सुषुम्नया सुषुम्नाख्यया नाड्या देहान्निर्गतः । शोचिषेत्यनेन “तेन प्रद्योतेनैष आत्मा निष्क्रामति” (बृह.उ.4-4-2) इति श्रुत्युक्तसुषुम्नासम्बन्धिहृदयकमलाग्रस्य प्रकाशनं स्मारितं “तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृति योगाच्च हार्द्दानुगृहीताः शताधिकया” (ब्र.सू. 4-2-17) इति सूत्रकारः तदोकः तस्य ब्रह्मप्रेप्सोः जीवस्य स्थानभूतं यत् हृदयकमलं तस्याग्रं सुषुम्राख्यनाडीद्वारं तस्य ज्वलनं प्रकाशनं भवति । अयं जीवः हार्द्दानुगृहीतः हृदयकमलस्थपरमात्मानुगृहीतः तेन परमात्मना प्रकाशितसुषुम्नाद्वारो विद्यायाः ब्रह्मविद्यायाः सामर्थ्यात् ब्रह्मविद्याङ्गभूतार्चिरादिगतिस्मृतियोगाच्च शताधिकया सुषुम्नया गच्छतीति सूत्रार्थः । एवम्भूतसुषुम्नया गतः विहायसा शीर्षकपालबहिष्ठाकाशेन वैश्वानरमचिश्शब्दवाच्यं अग्निं अतिवाहिकं दैवतं याति “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्” (भ.गी. 8-24), “अर्चिषमभिसम्भवन्ति” (छान्दो.उ. 5-10-1) इत्यनेन ऐकार्थ्यात् अस्यैव मोक्षमार्गत्वं सूचयति विधूतकल्क इति । “पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” (मुण्ड.उ. 3-1-3) “अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरम्” (छान्दो. उ. 8-13-1) इति हि श्रूयते, न हि धूमादिमार्गगतानां पुण्यपापप्रहाणं श्रूयते विधूतकल्क: निवृत्तपुण्यपापः अत्राहरादिप्रवेश उ139क्तः हरेरादित्यस्य उदस्तात् उपरिष्टात् स्थितं शैं140शुमारं चक्रं प्रयाति । हे नृप! शैं141शुमारचक्रस्वरूपं तु पञ्चमे स्क142न्धे वक्ष्यते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तद् विश्वनाभिं त्वतिवर्त्य विष्णो-
रणीयसा विरजेनात्मनैकः।
नमस्कृतं ब्रह्मविदामुपैति
कल्पायुषो यद् विबुधा रमन्ते॥

मूलम्

तद्विश्वनाभिं त्व143तिवर्त्य विष्णोरणीयसा विरजेनात्मनैकः144
नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते॥ २५ ॥

अनुवाद (हिन्दी)

भगवान् विष्णुका यह शिशुमार चक्र विश्व-ब्रह्माण्डके भ्रमणका केन्द्र है। उसका अतिक्रमण करके अत्यन्त सूक्ष्म एवं निर्मल शरीरसे वह अकेला ही महर्लोकमें जाता है। वह लोक ब्रह्मवेत्ताओंके द्वारा भी वन्दित है और उसमें कल्पपर्यन्त जीवित रहनेवाले देवता विहार करते रहते हैं॥ २५॥

वीरराघवः

विश्वनाभिं विश्वस्य ग्रहतारकानक्षत्रादेः कृत्स्नस्य आश्रयभूतं, विष्णोः स्थानमिति शेषः । विरजेन प्रणष्टपुण्यपापेन अणीयसा सूक्ष्मतरेण आत्मना लिङ्गशरीरेणैकः असहायः नमस्कृतं ब्रह्मविदां ब्रह्मविद्भिः नमस्कृतम् इदं शिं145शुमारचक्रविशेषणं तदतिवर्त्येत्यन्वयः । अनेन चन्द्रप्राप्तिरपि सिद्धा तस्याव्यवहितः शिं146शुमारः यत् यत्र कल्पायुषः विबुधा आ147कल्पान्तायुषः देवाः रमन्ते तं जनलोकमुपैति प्रयाति ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

अथो अनन्तस्य मुखानलेन
दन्दह्यमानं स निरीक्ष्य विश्वम्।
निर्याति सिद्धेश्वरजुष्टधिष्ण्यं
यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम्॥

मूलम्

148थो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम्।
निर्याति सि149द्धेश्वरजु150ष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम्॥ २६ ॥

अनुवाद (हिन्दी)

फिर जब प्रलयका समय आता है, तब नीचेके लोकोंको शेषके मुखसे निकली हुई आगके द्वारा भस्म होते देख वह ब्रह्मलोकमें चला जाता है, जिस ब्रह्मलोकमें बड़े-बड़े सिद्धेश्वर विमानोंपर निवास करते हैं। उस ब्रह्मलोककी आयु ब्रह्माकी आयुके समान ही दो परार्द्धकी है॥ २६॥

वीरराघवः

अथः अधस्तात् स्थितस्यानन्तस्य मुखानलेन अवान्तरप्रलये शेषमुखोद्भूतरुद्रगणफालानलेन दंदह्यमानमिति । मस्तकस्थायी इह मृत्युरिति उक्तरीत्या सत्त्वाभिप्रायो वर्तमाननिर्देशः । निरीक्ष्य त्रिकालज्ञानब151लादपरोक्षं दृष्ट्वेत्यर्थः । जनलोके स्थित्वा कल्पान्ते152 तत उपैतीति अयमर्थोऽनुपपन्नः । पुण्यपापवि153धूननस्योक्तत्वेन तत्रावस्थितिहेतुभूतकर्माभावात् तेषु लोकेषु स्थित्ययोगात् । अतो दोषं दृष्ट्वा द्वैपरार्ध्यं द्विपरार्धस्थायि सिद्धेश्वरैः जुष्टानि धिष्ण्यानि विमानानि यस्मिन् । तत् उ श्रेष्ठं पारमेष्ठ्यं चतुर्मुखसम्बन्धिस्थानं याति निर्यातीत्यर्थः वरुणेन्द्रादिप्राप्तिस्तु अर्थसिद्धा ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

न यत्र शोको न जरा न मृत्यु-
र्नार्तिर्न चोद्वेग ऋते कुतश्चित्।
यच्चित्ततोऽदः कृपयानिदंविदां
दुरन्तदुःखप्रभवानुदर्शनात्॥

मूलम्

न यत्र शोको न जरा न मृत्युर्नाऽऽर्ति150र्न चोद्वेग ऋ154ते कुतश्चित्।
यच्चि155त्ततोऽदः कृ156पयाऽनिदं विदां दुरन्तदुःखप्रभवानुदर्शनात्॥ २७ ॥

अनुवाद (हिन्दी)

वहाँ न शोक है न दुःख, न बुढ़ापा है न मृत्यु। फिर वहाँ किसी प्रकारका उद्वेग या भय तो हो ही कैसे सकता है। वहाँ यदि दुःख है तो केवल एक बातका। वह यही कि इस परमपदको न जाननेवाले लोगोंके जन्म-मृत्युमय अत्यन्त घोर संकटोंको देखकर दयावश वहाँके लोगोंके मनमें बड़ी व्यथा होती है॥ २७॥

वीरराघवः

चतुर्मुखलोकस्य स्वर्गाद्यपेक्षया चिरकालस्थायित्वम् अभिप्रयन्नाह - न यत्र इति । यत्र इत्यस्य तत्र दुरन्तदुःखप्रभवानुदर्शनादित्युपरितनेन अन्वयः । आर्तिः दुःखम्, उद्वेगो मनःक्षोभः, भयम् आगामिदुःखदर्शनजं ज्ञानम् । कुतश्चिदित्यस्य भयमित्यनेनान्वयः । कुतश्चित् शीतातपवातवर्षादिभ्यः । एवंविधेऽपि चतुर्मुखलोके ब्रह्मविदां निर्वेदमाह यच्चित्तत इति । यत् यस्मात् इत्यर्थः । अनिदंविदाम् इदंशब्दवाच्यपरिदृश्यमानप्रपञ्चविलक्षणपरब्रह्मविदाम् । क्रियया कर्मणा हेतुभूतेन दुरन्तदुःखप्रभवानुदर्शनात् । दुरन्तम् अपारं यद्दुःखं तस्य प्रभवः प्रभवति अस्मादिति प्रभवः दुखःहेतुभूतस्सं157सारः । तस्य अनुदर्शनम् उत्प्रेक्षणम् तस्मात् । चित्ततः चि158त्तेन । अदः दुरन्तदुःखमिति यच्चतुर्मुखलोकेऽपि ब्रह्मविद्भिः कर्महेतुकं दुरन्तदुःखं चित्तेन अनुमीयत इति यत्तत एव हेतोर्विशेषं प्रतिपद्येति उत्तरत्रान्वयः । अर्थान्तरपरत्वम् अनुपपन्नम् अध्याहारबाहुल्यात् । यस्य हिरण्यगर्भस्य चित्तत उपासनात् अदः तस्य स्थानम् उपासकैः लभ्यत इति शेष इति यदा योजना तदा उपासकैः लभ्यते इति अध्याहारः159 । अनिदंविदां हिरण्यगर्भोपासनरहितानां दुरन्तदुःखप्रभवानुदर्शनात् तदुपासकानामेव दुःखनिवृत्तिस्थानं ब्रह्मलोकाख्यं लभ्यते इति नोपपद्यते; हिरण्यगर्भस्थानस्यापि दुःखनिवृत्तिहेतुत्वाभावात् । चतुर्मुखलोकं गतस्य श्वे160ताख्यस्य राज्ञः पुनर्भवमागत्य प्रतिदिनं स्वीयशवभक्षणं प्रसिद्धम् ; आवृत्तेः दर्शनाच्च । ननु ब्रह्मलोकस्थ योगिनां न पुनरावृत्तिदुःखभयं तत्र मोक्ष्यमाणत्वनिश्चयादिति चेत् न । भूतलस्थयोगिनामपि मोक्ष्यमाणत्वनिश्चयात् न पुनरावृत्तिभयम् इति मुमुक्षूणां महीतलचतुर्मुखलोकयोः को विशेषः, “आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन!” (भ.गी. 8-16) इति हि स्मर्यते । तच्च द्वैपरार्ध्यमित्यनेन सूचितम् ; अतो यथोक्त एवार्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

ततो विशेषं प्रतिपद्य निर्भय-
स्तेनात्मनापोऽनलमूर्तिरत्वरन्।
ज्योतिर्मयो वायुमुपेत्य काले
वाय्वात्मना खं बृहदात्मलिङ्गम्॥

मूलम्

ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनापोऽनलमूर्ति161161त्वरन्।
ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम्॥ २८ ॥

अनुवाद (हिन्दी)

सत्यलोकमें पहुँचनेके पश्चात् वह योगी निर्भय होकर अपने सूक्ष्म शरीरको पृथ्वीसे मिला देता है और फिर उतावली न करते हुए सात आवरणोंका भेदन करता है। पृथ्वीरूपसे जलको और जलरूपसे अग्निमय आवरणोंको प्राप्त होकर वह ज्योतिरूपसे वायुरूप आवरणमें आ जाता है और वहाँसे समयपर ब्रह्मकी अनन्तताका बोध करानेवाले आकाशरूप आवरणको प्राप्त करता है॥ २८॥

वीरराघवः

ततो विशेषं पृथिवीमयमण्डकटाहं प्रतिपद्य व्याप्य इत्यर्थः । अनेन “पृथिवीमण्डं भिनत्ति” इति श्रुतिः व्याख्याता । विशेषशब्दः पृथिवीवाचकः “महदाद्या162 विशेषान्ताः” इति प्रयोगात् । अत्रापि “विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्” (भाग. 2-5-29) इति वक्ष्यमाणत्वाच्च । विशेषं प्रतिपद्य निर्यातीति अनुषङ्गः । यद्वा उत्तरत्र उपैतीत्यनेनान्वयः । तेनाऽऽत्मना स्वरूपेणोपलक्षितः आपः आवरणजलम् । प्रतिपद्य इत्यन्वयः । आवरणाग्निव्याप्तिमाह - अनलमूर्तिमिति । मूर्ती163भूतावरणाग्निं प्रतिपद्य, अत्वरन् त्वरामकुर्वन्, क्लेददाहादिशङ्काभावात् इत्यभिप्रायः । ज्योतिर्मयः अ164ग्निर्भूत्वा, अभ्रं भवतीतिवत् संश्लेषाभिप्रायो ज्योतिर्मयशब्दः । वायुम् आवरणवायुमुपेत्य काले पूर्वपूर्वा165वरणात्ययानन्तरकाले वाय्वात्मना वायुसंश्लिष्टरूपेण उपलक्षितो बृहत्स्वकार्यभूतवाय्वाद्यपेक्षया बृहत् । आत्मलिङ्ग स्वासाधारणशब्दलिङ्गकं स्वम् आवरणाकाशमुपेत्य आत्मलिङ्गम् इत्यत्र आत्मा स्वासाधारणगुणः शब्दः लिङ्गम् आत्मानात्मनोः प्रमाणं यस्य तत् इत्यर्थः । “लिङ्गं यद्द्द्रष्टृदृश्ययोः " (भाग. 2-5-25) इति वक्ष्यमाणत्वात् । इदमावरणान्तरेष्वपि तत्तद्गन्धादिगुणविशिष्टपृथिव्यादिसंश्लेषप्रदर्शनार्थमुक्तम् । एवम् “आकाशं भिनत्ति” (सुबा.उ.11) इत्यन्तः श्रुत्यर्थ उक्तः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

घ्राणेन गन्धं रसनेन वै रसं
रूपं तु दृष्ट्या श्वसनं त्वचैव।
श्रोत्रेण चोपेत्य नभोगुणत्वं
प्राणेन चाकूतिमुपैति योगी॥

मूलम्

घ्राणेन गन्धं रसनेन वै रसं रूपं तु166 दृष्ट्याश्व167सनं त्वचैव।
श्रोत्रेण चोपेत्य नभोगुण168त्वं प्राणे169न चाकूतिमुपैति योगी॥ २९ ॥

अनुवाद (हिन्दी)

इस प्रकार स्थूल आवरणोंको पार करते समय उसकी इन्द्रियाँ भी अपने सूक्ष्म अधिष्ठानमें लीन होती जाती हैं। घ्राणेन्द्रिय गन्धतन्मात्रामें, रसना रसतन्मात्रामें, नेत्र रूपतन्मात्रामें, त्वचा स्पर्शतन्मात्रामें, श्रोत्र शब्दतन्मात्रामें और कर्मेन्द्रियाँ अपनी-अपनी क्रियाशक्तिमें मिलकर अपने-अपने सूक्ष्मस्वरूपको प्राप्त हो जाती हैं॥ २९॥

वीरराघवः

गच्छतो मुक्तस्य सूक्ष्मदेहस्थैः इन्द्रियैः तत्तद्भूतगुणग्रहणमाह - घ्राणेन इति । ब्रह्मलोकपर्यन्तेष्वेव शब्दादिषु अनादरोऽभिप्रेतः । आवरणभूतगुणानां तु अनितरभोग्यत्वात् तत्तद्गतगन्धादीन् गृह्णातीत्यभिप्रायः । घ्राणेन स्वकीयघ्राणेन्द्रियेण । गन्धमावरणपृथिवीगुणभूतं गन्धम् । एवं च170 रसनेन्द्रियेण रसं, दृष्ट्या चक्षुरिन्द्रियेण रूपं तेजोगुणं, त्वचा त्वगिन्द्रियेण । एवकारः साङ्कर्याभावद्योतकः । श्वसनं वायुगुणं स्पर्शं, श्रोत्रेण श्रोत्रेन्द्रियेण, नभोगुणत्वं स्वार्थे त्व171प्रत्ययः । प्राणेनान्तःकरणेन । आकूतिम् अभिप्रायं “समानीव आकूतिः” इति श्रु172तिः । अत्र प्राणशब्देन इन्द्रियवृत्तिहेतुभूतमुख्यप्राणो न विवक्षितः, तेन आकूतिग्रहणासम्भवात् । अतोऽन्तःकरणं विवक्षितम् । अ173तः अन्तःकरणप्रसूतो हि अभिप्रायः । एवं घ्राणादिभिः गन्धादीनुपेत्य तत्तद्भूतभेदनदशायां तत्तद्गुणान् गृह्णनुपैतीत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

स भूतसूक्ष्मेन्द्रियसंनिकर्षं
मनोमयं देवमयं विकार्यम्।
संसाद्य गत्या सह तेन याति
विज्ञानतत्त्वं गुणसंनिरोधम्॥

मूलम्

स भूतसूक्ष्मेन्द्रियसंनिकर्षं174 मनोमयं देवमयं विकार्यम्।
संसाद्य ग175त्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम्॥ ३० ॥176

अनुवाद (हिन्दी)

इस प्रकार योगी पंचभूतोंके स्थूल-सूक्ष्म आवरणोंको पार करके अहंकारमें प्रवेश करता है। वहाँ सूक्ष्म भूतोंको तामस अहंकारमें, इन्द्रियोंको राजस अहंकारमें तथा मन और इन्द्रियोंके अधिष्ठाता देवताओंको सात्त्विक अहंकारमें लीन कर देता है। इसके बाद अहंकारके सहित लयरूप गतिके द्वारा महत्तत्त्वमें प्रवेश करके अन्तमें समस्त गुणोंके लयस्थान प्रकृतिरूप आवरणमें जा मिलता है॥ ३०॥

वीरराघवः

अथ अहङ्कारमहत्प्र177कृतीनाम् अतिक्रममाह - इति । स योगी गत्या गमनेन विकार्यं स्वकार्यरूपेण परिणामिनम् अहङ्कारं संसाद्य इत्यन्वयः । विकार्यमेव विशिनष्टि । देवमयं दिग्वातादिदेवाधिष्ठेयेन्द्रियकारणं मनोमयं मनःकारणं भूतसूक्ष्मेन्द्रियसन्निकर्षं भूतान्याकाशादीनि तत्सूक्ष्माणि शब्दादीनि इन्द्रयाणि ज्ञानकर्मोभयेन्द्रियाणि ते178षां सन्निकर्षं कारणं भूतसूक्ष्मसन्निकर्षत्वेन्द्रियसन्निकर्षत्वाभ्यां द्विविधाहङ्कारभेदी तामससात्त्विकाहङ्कारी उक्तौ । मनोमयं देवमयमिति च सात्त्विकाहङ्कारकार्यप्रदर्शनम् । देवमयमित्येतावतैव सिद्धे तत्कार्यप्रदर्शने इन्द्रियसन्निकर्षत्वमनोमयत्वोक्तिः इन्द्रियसृष्टौ अनुग्राहकराजसाहङ्कारग्रहणाय । अत एव राजसाहङ्कारस्य न पृथक्कार्यप्रदर्शनं तस्य अनुग्राहकमात्रत्वेन पृथक्कार्याक्षमत्वात् एतच्चाग्रे स्फुटी भविष्यति । तेनातिक्रान्ताहङ्कारेण सह उपलक्षितः विज्ञानतत्त्वं महान्तं याति “विज्ञानसारथिर्यस्तु” (कठ. उ. 3-9) “बुद्धिंतु सारथिं” (कठ. उ. 3-3) “महान् वै बुद्धिलक्षणः” इति वचनानामेकार्थ्यात् गुणसाम्यावस्थप्रकृत्यतिक्रमणमाह- गुणसन्निरोधमिति । गुणानां सत्त्वरजस्तमसां सन्निरोधः साम्यं यस्मिन् तत्, प्रधानं याति इत्यर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तेनात्मनाऽऽत्मानमुपैति शान्त-
मानन्दमानन्दमयोऽवसाने।
एतां गतिं भागवतीं गतो यः
स वै पुनर्नेह विषज्जतेऽङ्ग॥

मूलम्

तेनात्मनाऽऽत्मानमुपैति शान्त179मानन्दमानन्दमयोऽवसाने।
एतां गतिं भागवतीं180 गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग181!॥ ३१ ॥

अनुवाद (हिन्दी)

परीक्षित्! महाप्रलयके समय प्रकृतिरूप आवरणका भी लय हो जानेपर वह योगी स्वयं आनन्दस्वरूप होकर अपने उस निरावरण रूपसे आनन्दस्वरूप शान्त परमात्माको प्राप्त हो जाता है। जिसे इस भगवन्मयी गतिकी प्राप्ति हो जाती है उसे फिर इस संसारमें नहीं आना पड़ता॥ ३१॥

वीरराघवः

अवसाने प्रकृतेरवधौ “गौरनाद्यन्तवती सा जनित्री” (मन्त्रि.उ. 4) “नित्या सततविक्रया” (परमसंहिता) इति प्रकृतेः नित्यत्वात् देशावधिः अवसानशब्दोक्तः स्वकीयभूतसूक्ष्मेन्द्रियाणां स्वकारणेषु लयोऽप्यवसानशब्दविवक्षितः । तेन आत्मना विरजसा स्वरूपेण उपलक्षितः शान्तमूर्मिषट्करहितमानन्दं निरतिशयानन्दस्वरूपम् आत्मानं परमात्मनम् । आनन्दमयः परमात्मसाम्यापत्त्या आनन्दमयः स्वयं निरतिशयानन्दप्रचुरः उपैति । आत्मानन्दशब्दाभ्यां “आत्मन आकाशः सम्भूतः” (तैत्ति. उ. 2-1-1), “आनन्दो ब्रह्मेति व्यजानात्” (तैत्ति. उ. 3-6) इति उपक्रमोपसंहारगतवाक्यद्वयं स्मारितम् । एवं “क्षयन्तमस्य रजसः पराके” “आदित्यवर्णं तमसः परस्तात्” (पु.सू. 2-1) “तदक्षरे परमे व्योमन्” (मना.उ. 1-2) इत्युक्तप्रकृतिपुरुषातीत परमाकाशस्था भगवत्प्राप्तिः अर्चिरादिना गतस्योक्ता । एवं “स एनान् ब्रह्म गमयति” (छान्दो. उ. 4-15-5) इत्यस्यार्थः उक्तः । अथ धूमाद्यर्चिरादिमार्गयोः प्रामाणिकत्वं कथयन् “एतेन प्रतिपद्यमानाः" (छान्दो. उ. 4-15-5) इत्यंशस्य अर्थमाह- एतामिति । भागवतीं भगवदुद्देश्यां गतिम् अर्चिरादिमार्गं यो गतः स पुनः इह प्र182कृतिमण्डले अङ्गं कर्माधीनदेहं प्रति न निषज्जते नासक्तो भवति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

एते सृती ते नृप वेदगीते
त्वयाभिपृष्टे ह सनातने च।
ये वै पुरा ब्रह्मण आह पृष्ट
आराधितो भगवान् वासुदेवः॥

मूलम्

एते सृती ते नृप! वेदगीते त्वयाभिपृष्टे ह183 सनातने च।
ये184 वै पुरा ब्रह्मण आह पृ185ष्ट आराधितो भगवान् वासुदेवः॥ ३२ ॥

अनुवाद (हिन्दी)

परीक्षित्! तुमने जो पूछा था, उसके उत्तरमें मैंने वेदोक्त द्विविध सनातन मार्ग सद्योमुक्ति और क्रममुक्तिका तुमसे वर्णन किया। पहले ब्रह्माजीने भगवान् वासुदेवकी आराधना करके उनसे जब प्रश्न किया था, तब उन्होंने उत्तरमें इन्हीं दोनों मार्गोंकी बात ब्रह्माजीसे कही थी॥ ३२॥

वीरराघवः

अथ मार्गद्वयमुक्तं निगमयति एते इति । एते सृती इमौ मार्गौ अर्चिरादिधूमादिमार्गौ वेदगीते । “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति" (छान्दो. उ. 5-10-1) “अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति” (छान्दो. उ. 5-10-3) इत्यादि वेदबोधिते । अत एव सनातते स्थिते । त एव सृती हे नृप! त्वयाऽभिपृष्टे च यच्छ्रोतव्यमित्यनेन अर्चिरादिमार्गस्येव धूमादिमार्गस्यापि पृष्टत्वात् चकारात् मया कथिते चे186त्यर्थः सनातनत्वं विशदयति । ये इति । ये वै ये सृती पुरा कल्पादौ ब्रह्मणे चतुर्मुखाय आराधितः सम्यगुपासनया प्रीतः वासुदेवः सर्वभूतान्तरात्मा भगवानाह उवाच तस्मात् सनातने इत्यर्थः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

नह्यतोऽन्यः शिवः पन्था विशतः संसृताविह।
वासुदेवे भगवति भक्तियोगो यतो भवेत्॥

मूलम्

न ह्यतोऽन्यः शिवः पन्था विश187तः संसृताविह।
वासुदेवे भगवति भक्तियोगो यतो भवेत्॥ ३३ ॥

अनुवाद (हिन्दी)

संसारचक्रमें पड़े हुए मनुष्यके लिये जिस साधनके द्वारा उसे भगवान् श्रीकृष्णकी अनन्य प्रेममयी भक्ति प्राप्त हो जाय, उसके अतिरिक्त और कोई भी कल्याणकारी मार्ग नहीं है॥ ३३॥

वीरराघवः

संसारिणोऽर्चिरादिप्राप्तौ भक्तियोगात् अन्य उपायो नास्ति अर्चिरादिगतिचिन्तापि भक्तियोगोपाय इत्याह न हि इति । अत अर्चिरादेः अन्यः अपरः संसृतौ संसारे शिवः पन्थाः कल्याणरूपो मार्गो न विश्रुतः विशेषेण न श्रुतः यतः अर्चिरादिमार्गचिन्तनात् वासुदेवे सर्वान्तरात्मनि भगवति परमात्मनि भक्तिः भवेत् तस्मात् तच्चिन्ता च कार्या । तथा च सूत्रकारः “योगिनः प्रतिस्मर्येते स्मार्ते चैते” (ब्र.सू. 4-2-21) इति । योगिनो योगनिष्ठान्प्रति स्मार्ते स्मृतिविषयभूते स्मर्तव्ये देवयानपितृयाना188ख्ये गती स्मर्यते योगाङ्गतयाः अनुदिनं “नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन !” (भ.गी. 8-27) इति स्मरणादिति सूत्रार्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

भगवान् ब्रह्म कात्स्‍न्‍‍‍र्येन त्रिरन्वीक्ष्य मनीषया।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत्॥

मूलम्

भगवान् ब्रह्म कात्स्‍न्‍‍‍र्येन त्रिरन्वीक्ष्य मनीषया।
तदध्य189वस्यत् कूटस्थो190 रतिरात्मन् यतो भवेत्॥ ३४ ॥

अनुवाद (हिन्दी)

भगवान् ब्रह्माने एकाग्र चित्तसे सारे वेदोंका तीन बार अनुशीलन करके अपनी बुद्धिसे यही निश्चय किया कि जिससे सर्वात्मा भगवान् श्रीकृष्णके प्रति अनन्य प्रेम प्राप्त हो वही सर्वश्रेष्ठ धर्म है॥ ३४॥

वीरराघवः

कथं वासुदेवे भक्तिरेव अर्चिरादिगतौ उपायः इत्यत्राह - भगवान् इति । “एवमेष महाशब्दो मैत्रेय भगवानिति” (विष्णु.पू. 6-5-76) इत्यादिप्रकारेण भगवच्छब्द शब्दितो वासुदेव एव ब्रह्म जगत्कारणं तद्भक्तिरेव मोक्षोपायः कथमित्यत्राह कार्त्स्येन इति । मनीषया बुद्ध्या कार्त्स्येन त्रिः अन्वीक्ष्य कृत्स्नप्रमाणजातं मुहुर्मुहुः आलोच्य “आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः" (भार. 13 App. 13-20) इतिवत् तदध्यवस्यत् निश्चित्य स्थितः । किमध्यवस्यत् इत्यत आह कूटस्थ इति । निर्विकारे परमात्मनि रतिः मुक्तौ आनन्दः निरतिशयानन्दपरमात्मानुभवजनितसर्वावस्थोचिताशेषशेषतैकरतिर्यतो भक्तियोगाद्भवेत् स एव भक्तियोगो मुक्त्युपायः इति निश्चित्य निपुणतरो लोकः स्थित इत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः॥

मूलम्

भगवान् सर्वभूतेषु लक्षितः स्वा191त्मना हरिः।
दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः॥ ३५ ॥

अनुवाद (हिन्दी)

समस्त चर-अचर प्राणियोंमें उनके आत्मारूपसे भगवान् श्रीकृष्ण ही लक्षित होते हैं; क्योंकि ये बुद्धि आदि दृश्य पदार्थ उनका अनुमान करानेवाले लक्षण हैं, वे इन सबके साक्षी एकमात्र द्रष्टा हैं ॥ ३५॥

वीरराघवः

ननु अतीन्द्रिये भगवति कथं भक्तिः उत्पद्यते कथन्तरां रतिरित्याशङ्क्य परिशुद्धमनोविषयत्वादुभयमपि सम्भवतीत्याशयेनाह - भगवान् इति । स्वात्मना योगपरिशुद्धमनसा सर्वभूतेषु भगवान् लक्षितः साक्षात्कारार्हः “मनसा तु विशुद्धेन” (व्यासस्मृतिः) “मनसाभिक्लृप्तः” (म.ना.उ. 1-11) इति श्रुतेः । तर्हि स किं घटादिवत्192 दृश्य एव इत्यत आह द्रष्टा सर्वज्ञः न केवलं योगपरिशुद्धमनोविषय ए193व, प्रमाणान्तरविषयोऽपीत्याह - 194दृश्यैरिति । दृश्यैः बुद्ध्यादिभिः महदादिभिः “महान्वै बुद्धिलक्षणः" इति वचनात् कार्यभूत195महदादिभिः द्रष्टा तत्कारणभूतोऽनुमीयते इत्यर्थः न केवलमनुमानविषय एव किन्तु शास्त्रविषयोऽपि इत्याह लक्षणैरनुमापकैरिति पदद्वयेन । लक्षयन्तीति लक्षणानि वेदान्तवाक्यानि “सत्यं ज्ञानमनन्तं ब्रह्म” (तैत्ति. उ. 2-1-1) “यतो वा इमानि भूतानि" (तैत्ति. उ. 3-1) इत्यादीनि । तथा तदुपजीव्यकारणत्वप्रतिपादकानि “सदेव सोम्येदमग्र आसीत्” (छान्दो. उ. 6-2-1) इत्यादीनि तैः अनुमापकैः स्मृतिवचनैः स्मृतीनां श्रुत्यनुमापकत्वात् श्रुतिस्मृतिभ्याम् उपलक्षितः अनेन केवलानुमानगम्यत्ववादिनो वैशेषिका निरस्ताः । तन्निरासप्र196कारस्तु “शास्त्रयोनित्वात्” (ब्र.सू. 1-1-3) इत्यधिकरणसाध्यः । बुद्ध्यादिकार्यवर्गैः उ197पलक्षितः जगत्कारणतया शास्त्रैः प्रतिपन्नः तत्स्वरूपं तु योगपरिशुद्धमनसा साक्षात्कुर्वन्तीत्यागमोत्थविवेकजन्यज्ञानद्वयविषयत्वमुक्तं भवति ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

तस्मात् सर्वात्मना राजन‍्हरिः सर्वत्र सर्वदा।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान‍्नृणाम्॥

मूलम्

तस्मात् सर्वात्मना राजन‍्! हरिः सर्वत्र सर्वदा।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान‍्नृणाम्॥ ३६ ॥

अनुवाद (हिन्दी)

परीक्षित्! इसलिये मनुष्योंको चाहिये कि सब समय और सभी स्थितियोंमें अपनी सम्पूर्ण शक्तिसे भगवान् श्रीहरिका ही श्रवण, कीर्तन और स्मरण करें॥ ३६॥

वीरराघवः

यच्छ्रोतव्यमित्यादिप्रश्नोत्तरमुपसंहरति - तस्मात् इति । स्पष्टोऽर्थः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवणपुटेषु सम्भृतम्।
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम्॥

मूलम्

पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु198 सम्भृतम्।
पुनन्ति ते विषयविदूषिताशयं व्रजन्ति 199तच्चरणसरोरुहान्तिकम्॥ ३७ ॥

अनुवाद (हिन्दी)

राजन्! संत पुरुष आत्मस्वरूप भगवान‍्की कथाका मधुर अमृत बाँटते ही रहते हैं; जो अपने कानके दोनोंमें भर-भरकर उनका पान करते हैं, उनके हृदयसे विषयोंका विषैला प्रभाव जाता रहता है, वह शुद्ध हो जाता है और वे भगवान् श्रीकृष्णके चरणकमलोंकी सन्निधि प्राप्त कर लेते हैं॥ ३७॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पुरुषसंस्थावर्णनं नाम द्वितीयोऽध्यायः॥ २॥

वीरराघवः

अस्तु । योगपरिशुद्धमनोग्राह्यत्वं योगारम्भो वा कथं स्यात् इत्यत200 आह - पिबन्ति इति । भगवत आत्मनः परमात्मन: कथामृतं ये पिबन्ति ते विषयविदूषिताशयं पुनन्तीति अन्वयः । कथामृतं वा कथं लभ्यते इत्यत आह सतामिति । सतामिति कर्तरि षष्टी । सद्भिः कर्णपुटेषु सम्भृतं पूरितम् । अनेन सत्सेवया प्रथमं भवितव्यमित्युक्तं भवति । सत्सेवया प्राप्तहरिकथाश्रवणेन विषयैः शब्दादिभिः विदूषितं कलुषितम् आशयं अन्तःकरणं पुनन्ति । सत्सेवादि भक्तियोगान्तस्य फलमाह व्रजन्तीति तस्य भगवतश्चरणसरोरुहयोरन्तिकं समीपं व्रजन्ति प्राप्नुवन्ति । प्रथमं सत्सेवा, ततः श्रवणं, ततो योगारम्भः, ततः आगमोत्थविवेकादिसाधन201सप्तकजन्यज्ञानाभ्यासाऽनुगृहीता प्रत्यक्षतापन्ना भक्तिः इत्ययं क्रमोऽत्र उक्तः ॥ ३७ ॥

इति श्रीमद्भागवते द्वितीयस्कन्धे श्री वीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥


  1. M,Ma ह्य ↩︎

  2. M,Ma ष्यन् ↩︎

  3. AF,G श्र ↩︎

  4. A,B Omit रूपं ↩︎

  5. W ल्प ↩︎

  6. A,B परिल्भय ↩︎

  7. W पतिः ↩︎

  8. W adds स्थ ↩︎

  9. W णा ↩︎

  10. W थ्ये ↩︎

  11. A,B Omit तदीय ↩︎

  12. W Omits सृष्टि ↩︎

  13. W र्थ्ययोर्ला ↩︎

  14. M,Ma श ↩︎

  15. W क्षोर्हृदये ↩︎

  16. W देषु ↩︎

  17. W र्थानामनु ↩︎

  18. W रत्वं ↩︎

  19. H,V ते ↩︎

  20. M,Ma तत्तत् ↩︎

  21. AF,GF त्वत्र ↩︎

  22. W adds विभाग ↩︎

  23. W यक ↩︎

  24. A,B वृ ↩︎

  25. W यति ↩︎

  26. W स्वा ↩︎

  27. A,B Omit वि ↩︎

  28. W दीनि ↩︎

  29. W च ↩︎

  30. A,B Omit तत् ↩︎

  31. W ग्ये ↩︎

  32. A,B ति ↩︎

  33. AF,GF च ↩︎

  34. M,Ma पर्णपात्रै: ↩︎

  35. M,Ma स्रलाभे ↩︎

  36. W दा ↩︎

  37. A,B षये ↩︎

  38. W त्र्या ↩︎

  39. A,B,C,G,I,N ने ↩︎

  40. AF,GF फल ↩︎

  41. H,V तो व्य ↩︎

  42. M,Ma वधूतसुहन्न कृष्ण: ? ↩︎

  43. H,V,W य ↩︎

  44. W adds परभृतः ↩︎

  45. A Omits निरुद्धा: ↩︎

  46. W य ↩︎

  47. A,B Omit कार्या ↩︎

  48. A,B Omit धन ↩︎

  49. AF,GF यार्थो ↩︎

  50. AF,GF सु ↩︎

  51. A,B त्वस्य औप ↩︎

  52. A,B यकः ↩︎

  53. A,B Omit मि ↩︎

  54. M,Ma,W स्तं ↩︎

  55. M,Ma शुत्वम ↩︎

  56. B,I,W कुर्यात् ↩︎

  57. W पाकान् ↩︎

  58. (This V. beginning with स सर्व….. and occuring here in M&Ma is to be found along with commentary at the end of 1st Chapter of this Skandha) ↩︎

  59. AF,GF हेऽन्तर्हृदो व ↩︎

  60. W व ↩︎

  61. W ना ↩︎

  62. W नाप्र ↩︎

  63. W त इत्य ↩︎

  64. W Omits कञ्जरथाङ्गे ↩︎

  65. M,Ma हार ↩︎

  66. W त ↩︎

  67. W ख ↩︎

  68. W हिरण्मय ↩︎

  69. AF,GF यं ↩︎

  70. W गी ↩︎

  71. H,V र ↩︎

  72. I,M,Ma क्ष ↩︎

  73. M,Ma याऽश्चि ↩︎

  74. A,B हृदयप ↩︎

  75. A,B रास्था ↩︎

  76. H,M,Ma,V,W लैः ↩︎

  77. W न ↩︎

  78. W न ↩︎

  79. W Omits तत्र….वक्राः । ↩︎

  80. H,V व; AF,GF त ↩︎

  81. A Omits यत् ↩︎

  82. A Omits ये ↩︎

  83. AF,GF यन् ↩︎

  84. AF,GF चाऽऽत्मनि ↩︎

  85. H,V त ↩︎

  86. W स ↩︎

  87. A,B तथा ↩︎

  88. H,V प ↩︎

  89. “पू”, “त्स्वरूपमिति साधीयान् पाठः कचिल्लश्यते ↩︎

  90. W परावरे ↩︎

  91. W विक्षनियन्तरि ↩︎

  92. W Omits द्रष्टरि ↩︎

  93. W ष्ट ↩︎

  94. W क्त ↩︎

  95. B,I,M,Ma,W स्थि ↩︎

  96. H,V,M,Ma,W ज्जेत् ↩︎

  97. C,N णं ↩︎

  98. W ज्जेत ↩︎

  99. A सदं भृ B ख मृद्धा ↩︎

  100. M,Ma नश्च बु ↩︎

  101. W Omits नियच्छेत्……जीवमात्मनि ↩︎

  102. W णकृ ↩︎

  103. AF,GF राः ↩︎

  104. W दिदेवा ↩︎

  105. A,B Omit नु ↩︎

  106. W सर्वनियन्त्रित्यर्थ: ↩︎

  107. A,B त ↩︎

  108. H,W गूह्यर्हपदं; M,Ma गुह्यपुरमु ↩︎

  109. A,B वेदा ↩︎

  110. W Omits इति ↩︎

  111. W दय्ये ↩︎

  112. A,B Omit प्रकार ↩︎

  113. A,B रत्वेन ↩︎

  114. A,B Omit साक्षात्काराताऽऽपन्नं ↩︎

  115. W Omits वि ↩︎

  116. A,B रव्य ↩︎

  117. A,B Omit स्व ↩︎

  118. H,N,V स्वयनोऽ ; M,Ma श्रपथोऽ ↩︎

  119. AF,GF स्वन्नथ; M,Ma स्वत्यथ ↩︎

  120. AF,GF रान् ↩︎

  121. H,V पाते ↩︎

  122. A,B र्ध ↩︎

  123. W दिर्ग ↩︎

  124. W ना ↩︎

  125. W ना ↩︎

  126. W दिग ↩︎

  127. W गी ↩︎

  128. M,Ma मनन्तिब ↩︎

  129. M,Ma त्मा; W त्मना। ↩︎

  130. AF,GF तत् ↩︎

  131. W गी ↩︎

  132. A,B Omit अन्त: ↩︎

  133. W adds वा ↩︎

  134. W क्तियोगनिष्ठव्यतिरिक्तानां ↩︎

  135. W त्मस्व ↩︎

  136. AF,GF दे ↩︎

  137. AF,GF योऽर्चि ↩︎

  138. A,B,C,G,I,M,Ma,N शै ↩︎

  139. W वेदितव्यः ↩︎

  140. A,B शे ↩︎

  141. A,B शे ↩︎

  142. W Omits स्कन्धे ↩︎

  143. M,Ma प्रतिपद्य ↩︎

  144. M,Ma कम् ↩︎

  145. A,B शि ↩︎

  146. A,B शि ↩︎

  147. W Omits आ ↩︎

  148. W धो ↩︎

  149. AF,GF विश्ने ↩︎

  150. I यु ↩︎ ↩︎

  151. W वत्त्वाद ↩︎

  152. A,B न्तरे ↩︎

  153. W निर्धू ↩︎

  154. W भयं ↩︎

  155. M,Ma श्चित्ततोद: ↩︎

  156. M,Ma,W क्रिय ↩︎

  157. A,B सं ↩︎

  158. A,B चिन्तनात् ↩︎

  159. W र्यम् ↩︎

  160. W Omits श्वेताख्यस्य ↩︎

  161. M,Ma र्ध्नि च ↩︎ ↩︎

  162. A,B दयो ↩︎

  163. A,B र्ति ↩︎

  164. A,B वायु ↩︎

  165. A,B र्वका ↩︎

  166. H,V,W च ↩︎

  167. M,Ma स्पर्श ↩︎

  168. M,Ma णं तत् ↩︎

  169. M,Ma येण नाऽऽवृत्ति ↩︎

  170. W Omits च ↩︎

  171. W त्व: आर्षः ↩︎

  172. A,B तम् ↩︎

  173. A,B Omit अत: ↩︎

  174. M,Ma र्षात् ↩︎

  175. M,Ma म ↩︎

  176. According to M&Ma editins, the three VV. beginning with सभूत………are found in the following order:- सभूतसूक्ष्मेन्द्रियसन्निकर्षात् सनातनोऽसौ भगवाननादिः । मनोमयं देवमयं विकार्य संसाद्य मत्या सह तेन याति ॥ ३० ॥ विज्ञानतत्त्वं गुणसन्निरोधं तेनात्मनाऽऽत्मानमुपैति शान्तिम् । आनन्दमान्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे ॥ ३१ ॥ ततां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ! एते सृती ते नृप ! वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च । ये वै पूरा ब्राह्मण आह पृष्ट आरधितो भगवान् वासुदेवः ॥३२॥ ↩︎

  177. A,B त्त्रिवृ ↩︎

  178. A,B एतेषां ↩︎

  179. M,Ma न्ति ↩︎

  180. M,Ma तो ↩︎

  181. W ङ्गम् ↩︎

  182. A,B तत्प्र ↩︎

  183. H,I,V,W च; M,Ma ऽथ ↩︎

  184. AF,GF यद् ↩︎

  185. I,W तृ ↩︎

  186. W इ ↩︎

  187. M,Ma,W शृ ↩︎

  188. W णा ↩︎

  189. M,Ma पश्यद्धि कूटस्थे ↩︎

  190. W स्थे ↩︎

  191. M,Ma चाऽऽ ↩︎

  192. A,B add उपलक्षित: ↩︎

  193. A एवं ↩︎

  194. A,B Omit दृश्यैरिति दृश्ये: ↩︎

  195. W तैर्म ↩︎

  196. A,B Omit प्रकार ↩︎

  197. W Omits उप ↩︎

  198. AF,GF न ↩︎

  199. M,Ma add ते ↩︎

  200. W त्र ↩︎

  201. A संपज्जन्य ↩︎