०१

[प्रथमोऽध्यायः]

भागसूचना

ध्यान-विधि और भगवान‍्के विराट्स्वरूपका वर्णन

श्लोक-१

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप।
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः॥

मूलम्

वरीयानेष ते प्रश्नः कृतो लोकहितं1 नृप!
आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! तुम्हारा लोकहितके लिये किया हुआ यह प्रश्न बहुत ही उत्तम है। मनुष्योंके लिये जितनी भी बातें सुनने, स्मरण करने या कीर्तन करनेकी हैं, उन सबमें यह श्रेष्ठ है। आत्मज्ञानी महापुरुष ऐसे प्रश्नका बड़ा आदर करते हैं॥ १॥

वीरराघवः

वेदान्तोपबृंहणपरेऽस्मिन् पुराणे उपोद्घातरूपप्रथमस्कन्धान्ते प्रसङ्गात् शुकागम उक्तः । स च शुकः श्रोतव्याद्यर्थान् अश्रोतव्यादींश्च प्रति राज्ञा पृष्टश्चेदानीं राज्ञः प्रश्नमभिनन्दति-वरीयानिति । हे नृप! राजन्! ते त्वया पुंसां श्रोतव्यादिषु श्रोतव्यमन्तव्यनिदिध्यासितव्येषु परः गोचरः श्रोतव्याद्यर्थतत्त्वविषयः । लोकहितमिति पाठे ‘प्रति’ इति शेषः । लोकहितं प्रति 2यः 3प्रकृतः एषः प्रश्नो वरीयान् श्रेष्ठः । कुत इत्यत आह । यद्यतः आत्मवित्सम्मतः आत्मज्ञानिनां संस्तुतः । ननु, नायमात्मविषयकश्रवणमननादिप्रश्नः “यच्छ्रोतव्यमथो जप्यं ब्रूहि यद्वा विपर्ययम्” (भाग 1-19-38) इति सामान्येन पृष्टत्वात् । अतः कथमात्मवित्सम्मत्या प्रश्नाभिनन्दनमिति चेत्, मैवम् । किमयं प्रष्टा आत्मविषयकश्रवणादीनां मुक्तिसाधनत्वं जानाति न वा ? ना4न्त्यः म्रियमाणस्य यत्कर्तव्यं यच्छ्रोतव्यमिति पुरुषविशेषकर्तृकप्रश्नायोगात् । न5 आद्यः सुतरां प्रश्नानुपपत्तेः6 । अतः सामान्याकारेण आत्मश्रवणादीनां मुक्तिसाधनत्वं जानतो विशेषत आत्मनः श्रवणादीनां च स्वरूपमजानतोऽयं प्रश्न इति प्रश्नस्य विशेषनिष्ठत्वात् आत्मवित्सम्मत्या7ऽभिनन्दनोपपत्तिः8 ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम्॥

मूलम्

श्रोतव्यादी9नि राजेन्द्र! नृणां सन्ति सहस्रशः।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम्॥ २ ॥

अनुवाद (हिन्दी)

राजेन्द्र! जो गृहस्थ घरके काम-धंधोंमें उलझे हुए हैं, अपने स्वरूपको नहीं जानते, उनके लिये हजारों बातें कहने-सुनने एवं सोचने, करनेकी रहती हैं॥ २॥

वीरराघवः

अथ “ब्रूहि यद्वा विपर्ययम्” (भाग. 1-19-38) इत्यस्य प्रश्नस्य श्लोकत्रयेणोत्तरमाह-श्रोतव्यादीनिति । हे राजेन्द्र! गृहमेधिनां नृणां श्रोतव्यादीनि सहस्रशः सन्ति । मुमुक्षोस्तु ब्रह्म एकमेवेत्यभिप्रायः । तदनुबन्धित्वेनो10पासनादीनां श्रवणम् अर्थसिद्धम् । गृहमेधिनां तद्गतपञ्चसूनापराणाम् । मेधः हिंसार्थः । यद्वा मेधा11 बुद्धिः गृहेषु मे12धा एषामस्तीति गृहमेधिनः गृहासक्ताः । यद्वा मेधः पशुः “उपनयनमेध्यापर अशासानामेधपतिभ्यामेधम्” (ऐत.ब्रा. 2-6) इति वैदिकप्रयोगात् । तत्सम्बन्धिव्यापारोऽपि उपचारान्मेधः स एषामस्तीति गृहमेधिनः । पशुर्हि यज्ञाङ्गभूतेन्द्रादीनां प्रीतिजनकः । तद्वदेतेऽपि केवलकर्मानुष्ठानासक्ताः तप्रीतिसम्पादका इति पशुसाम्यमुच्यते । केवलैहिकामुष्मिकफलासक्ता गृहस्था इति यावत् । अत एव आत्मतत्त्वं आत्मयाथात्म्यमपश्यतामजानतां गृहेषु सहस्रशः सन्तीत्यनेन “बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्” (भ.गी. 2-41) इति री13त्या संसारिकफलसाधनानाम् आनन्त्यं ता14रतम्यं चाभिप्रेतम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा॥

मूलम्

निद्रया ह्रियते नक्तं व्यवायेन न15वं वयः।
दिवा चार्थेहया राजन्! कुटुम्बभरणेन वा16॥ ३ ॥

अनुवाद (हिन्दी)

उनकी सारी उम्र यों ही बीत जाती है। उनकी रात नींद या स्त्री-प्रसंगसे कटती है और दिन धनकी हाय-हाय या कुटुम्बियोंके भरण-पोषणमें समाप्त हो जाता है॥ ३॥

वीरराघवः

एतैश्च वृथैव आयुर्याप्यत इत्याह - निद्रयेति । नक्तं रात्रौ यद्वयः तन्निद्रया व्यवायेन मिथुनीभावेन वा ह्रियते याप्यते । दिवा यद्वयः तदर्थेहया अर्थार्जनानुकूलचेष्टया, सम्पादिते चार्थे कुटुम्बभरणेन कुटुम्बपोषणेन च17कारवाकारौ अनुक्तसमुञ्चयार्थौ उक्तातिरिक्तव्यापारान्तरेणापीत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि।
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति॥

मूलम्

देहापत्यकलत्रादिष्वात्म18सैन्येष्वसत्स्वपि।
तेषां19 प्रमत्तो निधनं पश्यन्नपि न पश्यति॥ ४ ॥

अनुवाद (हिन्दी)

संसारमें जिन्हें अपना अत्यन्त घनिष्ठ सम्बन्धी कहा जाता है, वे शरीर, पुत्र, स्त्री आदि कुछ नहीं हैं, असत् हैं; परन्तु जीव उनके मोहमें ऐसा पागल-सा हो जाता है कि रात-दिन उनको मृत्युका ग्रास होते देखकर भी चेतता नहीं॥ ४॥

वीरराघवः

ननु नश्वरकुटुम्बाद्यर्थं कथमायुर्व्ययः स्यात् ? तत्राह - देहेति । आत्मसैन्येषु आत्मनः स्वस्य परिजनेषु असत्सु अन्तवत्स्वपि देहापत्यकलत्रादिषु प्रसक्तः । अन्येषां निधनम् । अन्तवत्वं दृष्टान्तत्वेन पश्यन्नपि तेषां देहादीनामन्तवत्वं स्वात्मनि न पश्यति नानुसन्धत्ते ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तस्माद‍्भारत सर्वात्मा भगवानीश्वरो हरिः।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम्॥

मूलम्

तस्माद‍्भारत! सर्वात्मा भगवानीश्वरो हरिः।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चे20च्छताऽभय21म्॥ ५ ॥

अनुवाद (हिन्दी)

इसलिये परीक्षित्! जो अभय पदको प्राप्त करना चाहता है, उसे तो सर्वात्मा, सर्वशक्तिमान् भगवान् श्रीकृष्णकी ही लीलाओंका श्रवण, कीर्तन और स्मरण करना चाहिये॥ ५॥

वीरराघवः

विपर्ययप्रश्नस्योत्तरमुक्त्वा श्रोतव्यादिप्रश्नस्योतरमाह - तस्मादिति । हे भारत! भरतवंश्य! सर्वात्मा सर्वजीवानामन्तर्यामी “अन्तःप्रविष्टश्शास्ता जनानाम्” (तैत्ति. आ. 3-11) इति श्रुतिप्रत्यभिज्ञानात् । जनशब्दस्य 22चेतनमात्रे 23स्वारस्यात् । हरिः आश्रितदुरितहर्ता । अनेनोपासकानां स्वप्राप्तिविरोधिदुरितनिवर्तकत्वमुक्तं भवति । भगवानित्यनेन देवताविशेष उक्तः, “भगवानिति शब्दोऽयं" इ24ति स्मरणात् ईश्वर: कार्यकारणावस्थचेतनाचेतननियन्ता । अनेन कारणत्वमभिप्रेतम् “कारणं तु ध्येयः” (अथ शिखा. 3.3) इति श्रुतेः । ईदृशो हरिः । अभयं मोक्षं इच्छता कामयमानेन श्रोतव्य इत्यादि श्र25वणादिविषयीकर्तव्यः । स्वरूपरूपगुणविभूतिविशिष्टपरमात्मविषयकश्रवणादिकमेव मुमुक्षुणा कार्यं नान्यविषयकमित्यर्थः । “आत्मा वा अरे द्रष्टव्यः” (बृह. उ. 4-5-6) “तमेवैकमात्मानं जानथ । अन्या वाचो विमुञ्चथ” (मुण्ड. उ. 2-2-5) इति श्रुतेः । एवञ्च शारीरकशास्त्रार्थप्रतिज्ञापरा “अथातो ब्रह्मजिज्ञासा” (ब्र.सू. 1-1-1) इति प्रथमसूत्रार्थोऽनुसंहितो भवति । ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया।
जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः॥

मूलम्

एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया।
जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः॥ ६ ॥

अनुवाद (हिन्दी)

मनुष्य-जन्मका यही—इतना ही लाभ है कि चाहे जैसे हो—ज्ञानसे, भक्तिसे अथवा अपने धर्मकी निष्ठासे जीवनको ऐसा बना लिया जाय कि मृत्युके समय भगवान‍्की स्मृति अवश्य बनी रहे॥ ६॥

वीरराघवः

एतस्मादन्यत् कर्तव्यं नास्तीत्याह एतावानिति । साङ्ख्यं ज्ञानयोगः । योगः फलाभिसन्धिरहित कर्मयोगः “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्” (भ.गी. 3-3) इति भगवद्वचनात् । स्वधर्मो भगवच्छेषतैकवृत्तिः । तदुपासनमिति यावत् । तस्य परिनिष्ठया अविघ्नेन परिसमाप्त्या च । अन्ते देहावसाने नारायणस्मृतिः, साध्येति यत् एतावान् पर उत्कृष्टः जन्मलाभः फलम् । ज्ञानकर्मयेगानुगृहीत भगवदुपासना26साध्या नारायणस्मृतिरन्तकाले सम्पाद्येत्यर्थः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः॥

मूलम्

प्रायेण मुनयो राजन् निवृत्ता विधिषे27धतः।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः॥ ७ ॥

अनुवाद (हिन्दी)

परीक्षित्! जो निर्गुण स्वरूपमें स्थित हैं एवं विधि-निषेधकी मर्यादाको लाँघ चुके हैं, वे बड़े-बड़े ऋषि-मुनि भी प्रायः भगवान‍्के अनन्त कल्याणमय गुणगणोंके वर्णनमें रमे रहते हैं॥ ७॥

वीरराघवः

अत्र सदाचारं प्रमाणयति - प्रायेणेति । विधिनिषेधतः विधिनिषेधात्मकवेदबोधितात् काम्यात् कर्मणो निवृत्ताः । न त्वावश्यकात् पञ्चमहायज्ञाद्यनुष्ठानरूपात् ।28 कलञ्जभक्षणादिनिषेधात् वा निवृत्ताः । “सर्वापेक्षा च यज्ञादि श्रुतेरश्ववत्” (ब्र.सू.3-4-26) “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति” (बृह.उ.44-22) “क्रियावानेष ब्रह्मविदां वरिष्ठः” (मुण्ड.उ.3-14) “नाविरतो दुश्चरितान्नाशान्तो नासमाहित:” (कठ.उ.2-24) इति विधिनिषेधानुवर्तनाभावे त29दुपासनानिवृत्त्यभावप्रतिपादनात् । न च “तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” (बृह. उ. 3-5-5-9) इति बालस्य यत्कर्मकामचारादिकं तद्विदुषः उपादेयतया श्रुतमिति वक्तुं शक्यम् । “अनाविः कुर्वन्नन्वयात्” (ब्र.सू. 3-4-50) इत्यधिकरणे बालस्य यत् स्वमाहात्म्यानाविष्काररूपं कर्म तदेव विदुषः30 उपादेयं न तु कामचारादिकमिति सिद्धान्तितत्वात् । ब्राह्मणो विद्यावान् पाण्डित्यं निर्विद्य उपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा, वेदनं प्रतिलभ्य यत् स्वभावानाविष्काररूपं कर्म तदुपाददानो वर्तेतेति तस्यार्थः । मुनयः शुभाश्रयसंशीलनपराः । नत्विदं श्रवणानन्तरभावि मननं विद्यापाण्डित्यबाल्यप्राप्त्यनन्तरभाविनो मननान्तरस्यायुक्तदशास्वपि, शुभाश्रयसंशीलनरूपस्वा31ङ्गान्तरस्यापि विहितत्वान्नैर्गुण्यस्था: रजस्तम32स्तत्सङ्कीर्णसत्वरहिते ब्रह्मणिस्था: तदुपासका इत्यर्थः । हरेराश्रितदुरितहारिणो गुणानुकथने गुणानुवादे रमन्ते स्म । ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम्॥

मूलम्

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम्॥ ८ ॥

अनुवाद (हिन्दी)

द्वापरके अन्तमें इस भगवद्रूप अथवा वेदतुल्य श्रीमद‍्भागवत नामके महापुराणका अपने पिता श्रीकृष्णद्वैपायनसे मैंने अध्ययन किया था॥ ८॥

वीरराघवः

न केवलं पूर्व एव रमन्तेऽहमपि तत्रैव रम इत्याह - इदमिति द्वयेन । भगवत्प्रोक्तं भागवतं चतुरश्लोक्या मूलभूतायास्तत्प्रोक्तत्वात् । यद्वा भगवत्स्वरूपरूपादिप्रतिपादकत्वेन भागवतम् । ब्रह्म वेदस्तेन संमितं तुल्यम् । यद्वा ब्रह्म सम्यक् मितं प्रमितं येन तदिदं पुराणं कर्म । पितुर्द्वैपायनात् व्यासात् द्वापरादौ द्वापर आदिर्यस्य सः द्वापरादिः कलियुगादिः । तस्मिन् शन्तनुचक्रवर्तिसमकालत्वप्रसिद्धेः व्यासावतारस्य । अहमधीतवान् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया।
गृहीतचेता राजर्षे आख्यानं यदधीतवान्॥

मूलम्

परिनिष्ठो33ऽपि नैर्गुण्ये34 ह्युत्तमश्लोकलीलया।
गृहीतचेता35 राजर्षे आख्यानं यदधीतवान्॥ ९ ॥

अनुवाद (हिन्दी)

राजर्षे! मेरी निर्गुणस्वरूप परमात्मामें पूर्ण निष्ठा है। फिर भी भगवान् श्रीकृष्णकी मधुर लीलाओंने बलात् मेरे हृदयको अपनी ओर आकर्षित कर लिया। यही कारण है कि मैंने इस पुराणका अध्ययन किया॥ ९॥

वीरराघवः

ननु सिद्धस्य तव कुतोऽध्ययने प्रवृत्तिस्तत्राऽऽह - परिनिष्ठित इति । नैर्गुण्ये परिनिष्ठितः काष्ठां गतः अ36पि शास्त्रनैरपेक्ष्येण भगवदनुसन्धानप्रकारे स्थित इत्यर्थः । ईदृशोऽप्यहमुत्तमश्लोकलीलया भगवल्लीलया गृहीतचेताः आकृष्टचि37त्तः । राजर्षे! यदाख्यानं पुराणमधीतवानस्मि । तदभिधास्यामीत्युत्तरश्लोकेनान्वयः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

तदहं तेऽभिधास्यामि महापौरुषिको भवान्।
यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती॥

मूलम्

तदहं तेऽभिधास्यामि महापौ38रुषिको भवान्।
39स्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती॥ १० ॥

अनुवाद (हिन्दी)

तुम भगवान‍्के परमभक्त हो, इसलिये तुम्हें मैं इसे सुनाऊँगा। जो इसके प्रति श्रद्धा रखते हैं, उनकी शुद्ध चित्तवृत्ति भगवान् श्रीकृष्णके चरणोंमें अनन्यप्रेमके साथ बहुत शीघ्र लग जाती है॥ १०॥

वीरराघवः

आरूढानां मादृशामपि अस्य पुराणस्य उपादेयत्वात् कैमुत्यन्या[^v26]येन आरुरुक्षो; तव सुतरां इदमुपादेयमिति तुभ्यमुपदिशामीत्याह- 40दहमिति । तत्पुराणं ते तुभ्यमभिधास्यामि कथयिष्यामि चिरमशुश्रूषवे मह्यं कथमभिधास्यसि इत्यत आह- महापौ41रुषिक इति । महापु42रुषो भगवान् “वेदाहमेतं पुरुषं महान्तम्” (पु. सू. 1-7) इति श्रुतेः । स उपास्यत्वेन अस्यास्तीति महापौ43रुषिको महापुरुषभक्तो भवान् । न हि भगवद्भक्तानां रहस्यार्थोपदेशने चिरं शुश्रूषापेक्षेति भावः । यत्र पुराणे श्रद्दधतां श्रद्धां कुर्वतां मुकुन्दे मोक्षप्रदे भगवति सती अहैतुकी मतिर्भक्तिः स्यात् भ44वेत् ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एतन्निर्विद्यमानानामिच्छतामकुतोभयम्।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम्॥

मूलम्

एतन्निर्विद्यमानानामिच्छतामकुतोभयम्।
योगिनां नृप! नि45र्णीतं हरेर्नामानुकीर्तनम्॥ ११ ॥

अनुवाद (हिन्दी)

जो लोग लोक या परलोककी किसी भी वस्तुकी इच्छा रखते हैं या इसके विपरीत संसारमें दुःखका अनुभव करके जो उससे विरक्त हो गये हैं और निर्भय मोक्षपदको प्राप्त करना चाहते हैं, उन साधकोंके लिये तथा योगसम्पन्न सिद्ध ज्ञानियोंके लिये भी समस्त शास्त्रोंका यही निर्णय है कि वे भगवान‍्के नामोंका प्रेमसे संकीर्तन करें॥ ११॥

वीरराघवः

मुमुक्षूणां नातः परं अन्यत् मोक्षसाधनं इत्याह- एतदिति । तापत्रयादि46हेतुकनिर्वेदं प्राप्तानामकुतोभयं मोक्षमिच्छतां योगिनामनभिसंहितफलकर्म योगनिष्ठानां हे नृप! हरेर्नामानुकीर्तनं स्वरूपादि चिन्तनादेरप्युपलक्षणमिदं तन्नामानुकीर्तनं तत्स्वरूपादिचिन्तनं च इत्येतदेव मुक्तिसाधनं नान्यदि47त्यर्थः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह।
वरं मुहूर्तं विदितं घटेत श्रेयसे यतः॥

मूलम्

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह।
48रं मुहूर्तं विदितं घ49टेत श्रेयसे यतः॥ १२ ॥

अनुवाद (हिन्दी)

अपने कल्याण-साधनकी ओरसे असावधान रहनेवाले पुरुषकी वर्षों लम्बी आयु भी अनजानमें ही व्यर्थ बीत जाती है। उससे क्या लाभ! सावधानीसे ज्ञानपूर्वक बितायी हुई घड़ी, दो घड़ी भी श्रेष्ठ है; क्योंकि उसके द्वारा अपने कल्याणकी चेष्टा तो की जा सकती है॥ १२॥

वीरराघवः

अल्पमेव आयुरवशिष्टं किमहं साधयेयमिति मा शुच इत्याह- किमिति । प्रमत्तस्य देहापत्यकलत्रादिष्वासक्तस्य परोक्षैः अज्ञाततयैव गतैः बहुभिः हायनैः सं50वत्सरैः किम् ? किं प्रयोजनम् ? न किमपीत्यर्थः । विदितं वृथा यातीति ज्ञातं मूहर्तमेव वरम्, यतः येन विदितेन मुहूर्तेन श्रेयसे घटेत यत्नं कुर्यात् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

खट्‍वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः।
मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम्॥

मूलम्

खट्‍वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुषः।
मुहूर्तात्सर्व51मुत्सृज्य गतवानभयं हरिम्॥ १३ ॥

अनुवाद (हिन्दी)

राजर्षि खट्वांग अपनी आयुकी समाप्तिका समय जानकर दो घड़ीमें ही सब कुछ त्यागकर भगवान‍्के अभयपदको प्राप्त हो गये॥ १३॥

वीरराघवः

विदितस्य मुहूर्तस्य श्रेयोघटकत्वे इतिहासमाह - खड्वाङ्ग इति । खट्वाङ्गो हि देवपक्षे स्थित्वा दैत्यानजयत् । ततः प्रसन्नैर्देवैः वरं वृणीष्वेत्युक्ते तेनोक्तं प्रथमं ममायुः कथ्यतामिति । ततो देवैरुक्तं मुहूर्तमात्रमस्तीति । ततः 52शीघ्रं विमानेन भुवमागत्य हरिं शरणं गत इ53ति नवमस्कन्धे प्रसिद्धम् । खट्वाङ्गो नाम राजर्षिरायुष इयत्तां एतावत्तां ज्ञात्वा इहास्मिन् लोके सर्वं देहादिषु आत्मात्मीयत्वाद्यभिमानमुत्सृज्य हित्वाऽभयं भयप्रतिभटं हरिं गतवान् प्राप्तः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः।
उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम्॥

मूलम्

तवा54प्येतर्हि कौरव्य! सप्ताहं जीवितावधिः।
उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम्॥ १४ ॥

अनुवाद (हिन्दी)

परीक्षित्! अभी तो तुम्हारे जीवनकी अवधि सात दिनकी है। इस बीचमें ही तुम अपने परम कल्याणके लिये जो कुछ करना चाहिये, सब कर लो॥ १४॥

वीरराघवः

कैमुत्यन्यायेन आह - तवेति । अपिस्त्वर्थः तव तु इत्यर्थः । हे कौरव्य! तव तु एतर्हि इदानीमपि जीवितावधिः जीवितस्यावधिः परिमाणं सप्ताहं सप्तदिनपर्यन्तं तावत् तावता सप्ताहेन कालेन साम्परायिकं परलोकहितं एतत्सर्वं उपकल्पय सम्पादय ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अन्तकाले तु पुरुष आगते गतसाध्वसः।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम्॥

मूलम्

अन्तकाले55 तु पुरुष आगते गतसाध्वसः।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे56ऽनु ये च तम्॥ १५ ॥

अनुवाद (हिन्दी)

मृत्युका समय आनेपर मनुष्य घबराये नहीं। उसे चाहिये कि वह वैराग्यके शस्त्रसे शरीर और उससे सम्बन्ध रखनेवालोंके प्रति ममताको काट डाले॥ १५॥

वीरराघवः

तावद्वैराग्यमाह - अन्तकाल इति । अन्तकाले देहावसानकाले आगते प्राप्ते सति पुरुषः गतसाध्वसः निवृत्तभयः असङ्गोऽनासक्तिः । स57 एव शस्त्रं तेन देहे तं देहमनु अनुसृत्य ये वर्तमाना अपत्यकलत्रादयो देहानुबन्धिनः तेषु च स्पृहाम् आत्मात्मीयत्वाभिमानप्रयुक्तभोगेच्छां छिन्द्यात् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः।
शुचौ विविक्त आसीनो विधिवत्कल्पितासने॥

मूलम्

गृहात् प्रव्रजितो धीरः पुण्यतीर्थज58लाप्लुतः।
शुचौ विविक्त आसीनो विधिवत्कल्पितासने॥ १६ ॥

अनुवाद (हिन्दी)

धैर्यके साथ घरसे निकलकर पवित्र तीर्थके जलमें स्नान करे और पवित्र तथा एकान्त स्थानमें विधिपूर्वक आसन लगाकर बैठ जाय॥ १६॥

वीरराघवः

किञ्च गृहात् प्रव्रजितः निर्गतः ‘धीर’ इत्यादिना “आश्रयं भद्रमीक्षतः” (भाग 2-1-21) इत्यन्तेन अष्टाङ्गयोगसंक्षेपोक्तिः । धीरः जितेन्द्रियः अनेन ब्रह्मचर्यादिलक्षणो यम उक्तः । 59पुण्यतीर्थजलेषु आ60प्लुतः स्रात इ61त्यनेन 62स्नानदानादिनियमः उक्तः । शुचौ परिशुद्धे विविक्ते एकान्ते । विधिवञ्चै63लाजिनकुशोत्तर इति व्युत्क्रमेण कल्पिते आसने विधिवदासीनः ऋजुकायत्वस्वस्तिकासनत्वादीननतिक्रम्य उपविष्टः अनेन आसनरूपाङ्गमुक्तम् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

अभ्यसेन्मनसा शुद्धं त्रिवृद‍्ब्रह्माक्षरं परम्।
मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन्॥

मूलम्

अभ्यसेन्मनसा शुद्धं त्रिवृद‍्ब्रह्माक्षरं परम्।
मनो यच्छेज्जितश्वासो ब्रह्मबीजमवि64स्मरन्॥ १७ ॥

अनुवाद (हिन्दी)

तत्पश्चात् परम पवित्र ‘अ उ म्’ इन तीन मात्राओंसे युक्त प्रणवका मन-ही-मन जप करे। प्राणवायुको वशमें करके मनका दमन करे और एक क्षणके लिये भी प्रणवको न भूले॥ १७॥

वीरराघवः

प्राणायामस्य जपगर्भत्वात्तावज्जप्य65मन्त्रमाह - अभ्यसेदिति । त्रिवृत् त्रयाणाम्, अकारोकारमकाराणां वृत् वर्तनं यस्मिन्नक्षरत्रयग्रथितमित्यर्थः । ब्रह्माक्षरं ब्रह्मप्रति66पादकमक्षरं प्रणवं मनसा अभ्यसेदावर्तयेत् । जितश्वासो जितप्राणो ब्रह्मबीजं प्रणवमविस्मरन् स्मरन्नेव मनो यच्छेत् नियच्छेत्67 । इदञ्च प्राणायामरूपमङ्गं उ68क्तम् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः।
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया॥

मूलम्

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः।
मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया॥ १८ ॥

अनुवाद (हिन्दी)

बुद्धिकी सहायतासे मनके द्वारा इन्द्रियोंको उनके विषयोंसे हटा ले और कर्मकी वासनाओंसे चंचल हुए मनको विचारके द्वारा रोककर भगवान‍्के मंगलमय रूपमें लगाये॥ १८॥

वीरराघवः

इन्द्रियप्रत्याहारमाह - नियच्छेदिति । विषयेभ्यः शब्दादिभ्यः । अक्षान् श्रोत्रादीन्द्रियाणि बुद्धिः सारथिर्यस्य स तथा भूतः प्रग्रहभूतेन मनसा नियच्छेत् “बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च” (कठ. उ. 1-3-3) इति श्रवणात् । धारणामाह मन इति । पुनश्च कर्मभिः तद्वासनाभिः आक्षिप्तं विक्षिप्तं मनः शुभार्थे शुभाश्रये भगवद्रूपे निश्चयात्मिकया बुद्ध्या धारयेत् स्थिरं कुर्यात् । शुभाश्रये मनसोऽवस्थापनं धारणम् । शुभाश्रयस्य पुनः पुनः चिन्तनं ध्यानम् । प्रत्ययान्तराव्यवहितत्वं समधिरिति भेदः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा।
मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत्।
पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति॥

मूलम्

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा।
मनो निर्विषयं यु69क्त्वा ततः किञ्च70न न स्मरेत्।
पदं तत्परमं विष्णोः मनो यत्र प्रसीदति॥ १९ ॥

अनुवाद (हिन्दी)

स्थिर चित्तसे भगवान‍्के श्रीविग्रहमेंसे किसी एक अंगका ध्यान करे। इस प्रकार एक-एक अंगका ध्यान करते-करते विषय-वासनासे रहित मनको पूर्णरूपसे भगवान‍्में ऐसा तल्लीन कर दे कि फिर और किसी विषयका चिन्तन ही न हो। वही भगवान् विष्णुका परमपद है, जिसे प्राप्त करके मन भगवत्प्रेमरूप आनन्दसे भर जाता है॥ १९॥

वीरराघवः

ध्यानमाह - तत्रेति । अव्युच्छिन्नेन समग्रशुभाश्रया71वियुक्तेन चेतसा चित्तेन एकावयवं प्रधानाङ्ग सु72खाकारं ध्यायेत् । अनेनास्य चिन्ताया: पूर्वभावित्वं सिद्धम् । पूर्णध्यानाशक्तः एकावयवं स्मरेदित्यर्थः । समाधिमाह मन इति । निर्विषयं बाह्यविषयानुभवरहितं मनो युक्त्वा समाधाय किञ्चन बाह्यविषया73दिकं न स्मरेदित्यर्थः । आनन्दसंप्लवे लीनत्वात् न किञ्चित् स्मर्तुं द्रष्टुं वा क्षमत इति चार्थः । शुभाश्रय74रूपमाह पदमिति । यत्र मनः प्रसीदति यस्मिन् स्वरूपे-चिन्त्यमाने मनो रागाद्यकलुषितं भवति तदेव विष्णोः परमं, परं75 मा यस्मात् तत्परमं सर्वोत्कृष्टं पदं स्वरूपमित्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम्॥

मूलम्

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम्॥ २० ॥

अनुवाद (हिन्दी)

यदि भगवान‍्का ध्यान करते समय मन रजोगुणसे विक्षिप्त या तमोगुणसे मूढ़ हो जाय तो घबराये नहीं। धैर्यके साथ योगधारणाके द्वारा उसे वशमें करना चाहिये; क्योंकि धारणा उक्त दोनों गुणोंके दोषोंको मिटा देती है॥ २०॥

वीरराघवः

कदचित् रागादिकालुष्य सम्भावनामाशङ्क्य आह - रजस्तमोभ्यामिति । रजसा आक्षिप्तं वि76क्षिप्तं तमसा विमूढम् आत्मनः स्वस्य मनः धारणया यच्छेत् । धारणामाहात्म्यमाह - या धारणा तत्कृतं राजस्तमोभ्यां कृतं मलं रागादिकं हन्ति निवर्तयति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः।
आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः॥

मूलम्

यस्यां77 सन्धार्यमाणायां योगिनो भक्तिलक्षणः।
आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः॥ २१ ॥

अनुवाद (हिन्दी)

धारणा स्थिर हो जानेपर ध्यानमें जब योगी अपने परम मंगलमय आश्रय (भगवान्)-को देखता है तब उसे तुरंत ही भक्तियोगकी प्राप्ति हो जाती है॥ २१॥

वीरराघवः

यस्यां धारणायां सन्धार्यमाणायां पा78कं पचतीतिवन्निर्देशः धारणायां क्रियमाणायामित्यर्थः । भक्ति लक्षणो योगः । ‘प्रीतिपूर्वमनुध्यानं भक्तिरित्यभिधीयते’ इत्युक्तलक्षण79रूपो योगः । भद्रं शुभमाश्रयम् । ईक्षतः ध्यातुराशु सम्पद्यते सम्पन्नो भवति एतादृशमाहात्म्यवती धारणा इत्यभिप्रायः ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम्॥

मूलम्

यथा सन्धार्यते ब्रह्मन्! धारणा यत्र सम्मता।
यादृशी वा हरेदाशु पुरुषस्य मनोमलम्॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित् ने पूछा—ब्रह्मन्! धारणा किस साधनसे किस वस्तुमें किस प्रकार की जाती है और उसका क्या स्वरूप माना गया है, जो शीघ्र ही मनुष्यके मनका मैल मिटा देती है?॥ २२॥

वीरराघवः

एवं सङ्ग्रहेण अष्टाङ्गयुक्ते योगे उपदिष्टे पुनर्विस्तरबुभुत्सया प80रीक्षित् पृच्छति - यथेति । य81त्रेति धारणाविषयप्रश्नः । यादृशीति धारणादशाविशेषप्रश्नः, यथेति यत्नक्रमप्रश्नः, ननु धारणाया एव दशाविशेषादीनां विशेषेण प्रश्नः न तु प्रधानभूतस्य ध्यानस्येति चेन्न । धारणापूर्वकत्वात् ध्यानस्य, धारणानुसारेणैव ध्यानाञ्च, तत्प्रश्नेनैव गतार्थत्वात् एवमुत्तर82त्रानुसन्धेयम् ॥ २२ ॥

श्लोक-२३

मूलम् (वचनम्)

श्रीशुक उवाच

विश्वास-प्रस्तुतिः

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः।
स्थूले भगवतो रूपे मनः सन्धारयेद्धिया॥

मूलम्

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः।
स्थूले भगवतो रूपे मनः सन्धारयेद्धिया॥ २३ ॥

अनुवाद (हिन्दी)

श्रीशुकदेवजीने कहा—परीक्षित्! आसन, श्वास, आसक्ति और इन्द्रियोंपर विजय प्राप्त करके फिर बुद्धिके द्वारा मनको भगवान‍्के स्थूलरूपमें लगाना चाहिये॥ २३॥

वीरराघवः

तत्र “एकं वा संयोगरूपचोदनाख्याविशेषात्” (पूर्व.मी. सू. 2-4-9) “नानाशब्दादिभेदात्” (ब्र.सू.3-3-58) इत्यादि न्यायेन उपास्यब्रह्मरूपाणां नानात्वेन उपासनानामपि नानात्वात् प्रथमं स83मस्तजगच्छरीरकस्योपासनमाह मुनिः जितासन इति । जितासनः आसनकृतायासरहितः । जितप्राणः स्व84वशीकृतप्राणः, जितसङ्गः जितान्तःकरणः, जितेन्द्रियः जितबाह्येन्द्रियः, स्थूले स्थविष्ठे भगवतो रूपे स्वीयं मनः सारथिभूतया धिया धारयेत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम्।
यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत्॥

मूलम्

विशे85षस्तस्य देहोऽयं स्थविष्ठश्च86 स्थवीयसाम्।
यत्रेदं दृ87श्यते विश्वं भूतं भव्यं भवञ्च स88त्॥ २४ ॥

अनुवाद (हिन्दी)

यह कार्यरूप सम्पूर्ण विश्व जो कुछ कभी था, है या होगा—सब-का-सब जिसमें दीख पड़ता है वही भगवान‍्का स्थूल-से-स्थूल और विराट् शरीर है॥ २४॥

वीरराघवः

चिदचिदात्मकप्रपञ्चस्य भगवच्छरीरकत्वकथनपूर्वकं तस्य धारणाविषयत्वमाह - विशेष इत्या89दिना । विशेष: कार्यकारणाकारः पृथिव्यादिभूतमयप्रपञ्चः तस्य देहः स्थवीयसां स्थूलतरानामपि मध्ये स्थविष्ठः स्थूलतरः यत्र देहे विश्वं समस्तं भूतं भव्यं 90भवञ्च भूतभविष्यद्वर्तमानकालगोचरं समष्टिव्यष्ट्यात्मकं पदार्थजातं दृश्यते अन्तर्गतत्वेनोपास्यते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

आण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते।
वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः॥

मूलम्

91ण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते92
वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः॥ २५ ॥

अनुवाद (हिन्दी)

जल, अग्नि, वायु, आकाश, अहंकार, महत्तत्त्व और प्रकृति—इन सात आवरणोंसे घिरे हुए इस ब्रह्माण्डशरीरमें जो विराट् पुरुष भगवान् हैं, वे ही धारणाके आश्रय हैं, उन्हींकी धारणा की जाती है॥ २५॥

वीरराघवः

एतच्छरीरकोऽनिरुद्धांशभूतः पुरुषो विषय इत्याह - 93ण्डकोश इति । सप्तावरणसंयुते पृथिव्यप्तेजोवाय्वाकाशाहङ्कारमहत्तत्त्वानि सप्तावरणानि । तैर्युक्तेऽण्डकोशाख्यशरीरे वैराजः विराट् अनिरुद्धः तदंशभूतः पुरुषः वैराजः । न चतुर्मुखः तस्यैवं पुरा धारणया आत्मयोनिरित्येतद्रूपोपासकत्वावगमात्, असौ वैराजः पुरुषः भगवान् धारणाश्रयः धारणाविषयः ।। २५ ।।

श्लोक-२६

विश्वास-प्रस्तुतिः

पातालमेतस्य हि पादमूलं
पठन्ति पार्ष्णिप्रपदे रसातलम्।
महातलं विश्वसृजोऽथ गुल्फौ
तलातलं वै पुरुषस्य जङ्घे॥

मूलम्

पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम्।
महातलं विश्वसृजो94ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे॥ २६ ॥

अनुवाद (हिन्दी)

तत्त्वज्ञ पुरुष उनका इस प्रकार वर्णन करते हैं—पाताल विराट् पुरुषके तलवे हैं, उनकी एड़ियाँ और पंजे रसातल हैं, दोनों गुल्फ—एड़ीके ऊपरकी गाँठें महातल हैं, उनके पैरके पिंडे तलातल हैं,॥ २६॥

वीरराघवः

एवं चतुर्दश भुवनात्मकाण्डकोशस्य तच्छरीरत्वं सामान्येनोक्त्वा अण्डकोशान्तर्गतपदार्थान् विभज्य पादाद्यवयवत्वेन उपासनामाह - पातालमिति । एतस्य वैराजपुरुषस्य पादमूलं पादस्याधोभागे95 पातालं प96ठन्ति वदन्ति । पादतलत्वेन पातालमुपास्यं वदन्तीत्यर्थः । एवमग्रेऽपि । पार्ष्णिश्च प्रपदञ्च पार्ष्णिप्रपदे पार्ष्णि: पादमूलं प्रपदं पादाग्रं एतदुभयं रसातलमित्यर्थः । विश्वसृजः विश्वस्रष्टुः द्वावपि गुल्फौ महातलम् । द्वे अपि जङ्घे तलातलम् ।। २६ ।।

श्लोक-२७

विश्वास-प्रस्तुतिः

द्वे जानुनी सुतलं विश्वमूर्ते-
रूरुद्वयं वितलं चातलं च।
महीतलं तज्जघनं महीपते
नभस्तलं नाभिसरो गृणन्ति॥

मूलम्

द्वे जानुनी सुतलं विश्वमूर्तेरूरुद्वयं वितलं चातलं च।
महीतलं तज्जघनं महीपते! नभस्तलं नाभिसरो गृणन्ति॥ २७ ॥

अनुवाद (हिन्दी)

विश्वमूर्ति भगवान‍्के दोनों घुटने सुतल हैं, जाँघें वितल और अतल हैं, पेड़ू भूतल है और परीक्षित्! उनके नाभिरूप सरोवरको ही आकाश कहते हैं॥ २७॥

वीरराघवः

विश्वमूर्तेः द्वे जानुनी सुतलम् । वि97तलमतलञ्च ऊरुद्वयम् । हे98 महीपते! महीतलं भूलो99कं तस्य जघनं कट्याः पुरोभागम् । नभःस्थलं भुवर्लोकं नाभिरेव सरस्तत्त्वेनोपास्यं गृणन्ति वदन्ति त100त्तत्त्वविद इति शेषः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

उरःस्थलं ज्योतिरनीकमस्य
ग्रीवा महर्वदनं वै जनोऽस्य।
तपो रराटीं विदुरादिपुंसः
सत्यं तु शीर्षाणि सहस्रशीर्ष्णः॥

मूलम्

उरःस्थलं ज्योतिरनीकमस्य ग्रीवां101 महर्वदनं वै जनोऽस्य।
तपो र102राटीं103 विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः॥ २८ ॥

अनुवाद (हिन्दी)

आदिपुरुष परमात्माकी छातीको स्वर्गलोक, गलेको महर्लोक, मुखको जनलोक और ललाटको तपोलोक कहते हैं। उन सहस्र सिरवाले भगवान‍्का मस्तकसमूह ही सत्यलोक है॥ २८॥

वीरराघवः

अस्य वैराजस्य उरस्स्थलं उरःप्रदेशं ज्योतिरनीकं ज्योतिश्चक्रं ग्रीवात्वेन महर्लोक उपास्य इत्यर्थः । अस्य वदनं जन104लोक: आदिपुंसः रराटीं105 ललाटं तपोलोकं विदुः सहस्रशीर्ष्णः सहस्रशिरसः शीर्षाणि शिरांसि सत्यं सत्यलोकं विदुरित्यर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

इन्द्रादयो बाहव आहुरुस्राः
कर्णौ दिशः श्रोत्रममुष्य शब्दः।
नासत्यदस्रौ परमस्य नासे
घ्राणोऽस्य गन्धो मुखमग्निरिद्धः॥

मूलम्

इन्द्रादयो बाहव आसुरु106स्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः।
नासत्यदस्रौ परमस्य नासे107 घ्राणो108ऽस्य गन्धो मुखमग्निरिद्धः॥ २९ ॥

अनुवाद (हिन्दी)

इन्द्रादि देवता उनकी भुजाएँ हैं। दिशाएँ कान और शब्द श्रवणेन्द्रिय हैं। दोनों अश्विनीकुमार उनकी नासिकाके छिद्र हैं; गन्ध घ्राणेन्द्रिय है और धधकती हुई आग उनका मुख है॥ २९॥

वीरराघवः

इन्द्रादयः उस्राः देवा: बाहव इत्याहु: अमुष्य कर्णौ श्रोत्रेन्द्रियाधिष्ठानभूतकर्णबिले दिशः तदधिष्ठेय109 श्रोत्रेन्द्रियं तु, शब्दः ध्वन्यात्मको वर्णात्मकश्च । एवमग्रेऽपि । परमस्य समाभ्यधिकरहितस्य ना110से नासापुटे नासत्यदस्रावश्विनौ गन्धः शान्तोग्रादिरूपेण नानाविधो गन्धः तदिन्द्रियम् । इद्धः दीप्तः अग्रिः तस्य मुखम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

द्यौरक्षिणी चक्षुरभूत्पतङ्गः
पक्ष्माणि विष्णोरहनी उभे च।
तद‍्भ्रूविजृम्भः परमेष्ठिधिष्ण्य-
मापोऽस्य तालू रस एव जिह्वा॥

मूलम्

द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च111
तद‍्भ्रूविजृम्भः परमेष्टिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा॥ ३० ॥

अनुवाद (हिन्दी)

भगवान् विष्णुके नेत्र अन्तरिक्ष हैं, उनमें देखनेकी शक्ति सूर्य है, दोनों पलकें रात और दिन हैं, उनका भ्रूविलास ब्रह्मलोक है। तालु जल है और जिह्वा रस॥ ३०॥

वीरराघवः

द्यौः द्युलोकः अक्षिणी नेत्रगोलके112 । तत्र चक्षुरिन्द्रियं पतङ्गः सूर्यः । विष्णोः वैराजस्य पक्ष्माणि उभेऽहनी अहोरात्रः113 । तस्य वैराजस्य भ्रूविजृम्भः भूविना114मः भ्रूविलास इति यावत् । परमेष्ठिधिष्ण्यं परमेष्ठिनः चतुर्मुखस्य स्थानम् । अस्य वैराजस्य तालु115 आपः तदभिमानी वरुणः अस्य जिल्हा रसः ए116व ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

छन्दांस्यनन्तस्य शिरो गृणन्ति
दंष्ट्रा यमः स्नेहकला द्विजानि।
हासो जनोन्मादकरी च माया
दुरन्तसर्गो यदपाङ्गमोक्षः॥

मूलम्

छन्दांस्यनन्तस्य शि117रो गृणन्ति दंष्ट्रा य118मः स्ने119हकला द्विजानि ।
हासो जनोन्मादकरी च120 माया दुरन्तसर्गो यदपाङ्गमोक्षः॥ ३१ ॥

अनुवाद (हिन्दी)

वेदोंको भगवान‍्का ब्रह्मरन्ध्र कहते हैं और यमको दाढ़ें। सब प्रकारके स्नेह दाँत हैं और उनकी जगन्मोहिनी मायाको ही उनकी मुसकान कहते हैं। यह अनन्त सृष्टि उसी मायाका कटाक्ष-विक्षेप है॥ ३१॥

वीरराघवः

अनन्तस्य त्रिविधपरिच्छेदशून्यस्य शिरः छन्दांसि गृणन्ति, दंष्ट्रा यमः द्विजानि, दन्ताः, नपुसंकत्वमार्षं स्नेहकलाः स्नेहस्य कला अंशा अस्मदादीनां स्नेहकला वैराजस्य दन्ता इत्यर्थः । तस्य हास: हसनं ज121नोन्मादकरी जनोन्मोहकरी । माया आश्चर्यशक्तिः । मायाशब्दस्य सर्वत्रानुगतं प्रवृत्ति निमित्तमाश्चर्यमेव ।122 तञ्च विस्मयनीयत्वरूपं, तञ्च नानाविधकार्यकरत्वात् । यस्यापाङ्गमोक्षः क123टाक्षः दुरन्तसर्गः अपारसर्गः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

व्रीडोत्तरोष्ठोऽधर एव लोभो
धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम्।
कस्तस्य मेढ्रं वृषणौ च मित्रौ
कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः॥

मूलम्

व्रीडोत्तरोष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथो124ऽस्य पृष्ठ125म्।
कस्तस्य मेढ्रं वृषणौ च मित्रौ126 कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः॥ ३२ ॥

अनुवाद (हिन्दी)

लज्जा ऊपरका होठ और लोभ नीचेका होठ है। धर्म स्तन और अधर्म पीठ है। प्रजापति उनके मूत्रेन्द्रिय हैं, मित्रावरुण अण्डकोश हैं, समुद्र कोख है और बड़े-बड़े पर्वत उनकी हड्डियाँ हैं॥ ३२॥

वीरराघवः

व्रीडा लज्जा, उत्तरोष्ठः अधर: अधरोष्ठ: लोभः, धर्मः स्तनः, अधर्मपथः अधर्ममार्गः, अस्य पृ127ष्ठः पृष्ठभागः तस्य वैराजस्य मेढ्रं कः128 प्रजापतिः । वृषणौ मि129त्रौ मित्रावरुणौ, समुद्राः कुक्षिः उदरं, गि130रयः तस्यास्थिसङ्घाः ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

नद्योऽस्य नाड्योऽथ तनूरुहाणि
महीरुहा विश्वतनोर्नृपेन्द्र।
अनन्तवीर्यः श्वसितं मातरिश्वा
गतिर्वयः कर्म गुणप्रवाहः॥

मूलम्

नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र!
131नन्तवीर्य132श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः॥ ३३ ॥

अनुवाद (हिन्दी)

राजन्! विश्वमूर्ति विराट् पुरुषकी नाड़ियाँ नदियाँ हैं। वृक्ष रोम हैं। परम प्रबल वायु श्वास है। काल उनकी चाल है और गुणोंका चक्‍कर चलाते रहना ही उनका कर्म है॥ ३३॥

वीरराघवः

नद्यः गङ्गायमुनादयोऽस्य नाड्यः तनूरुहाणि रोमाणि महीरुहाः वृक्षाः । विश्वतनोर्विश्वशरीरकस्य । हे नृपेन्द्र! अनन्तवीर्यश्वसितम् अनन्तवीर्यस्य अपारवीर्यस्य श्वसितं प्राणः मातरिश्वा वायुः गतिर्गमनं वयः कालः तस्य कर्मगुणप्रवाह: गुणानां सत्त्वरजस्तमसां प्रवाहः कार्यं प्राणिनां संसार इत्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

ईशस्य केशान् विदुरम्बुवाहान्
वासस्तु सन्ध्यां कुरुवर्य भूम्नः।
अव्यक्तमाहुर्हृदयं मनश्च
स चन्द्रमाः सर्वविकारकोशः॥

मूलम्

ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां133 कुरुवर्य भूम्नः।
अव्यक्तमाहुर्हृदयं मनश्च134 स चन्द्रमाः सर्वविकार कोशः॥ ३४ ॥

अनुवाद (हिन्दी)

परीक्षित्! बादलोंको उनके केश मानते हैं। सन्ध्या उन अनन्तका वस्त्र है। महात्माओंने अव्यक्त (मूलप्रकृति)-को ही उनका हृदय बतलाया है और सब विकारोंका खजाना उनका मन चन्द्रमा कहा गया है॥ ३४॥

वीरराघवः

ईशस्य भगवतः केशान् अम्बुवाहान् मेघान् विदुः । हे कुरुवर्य! भूमः विभोर्वासः वस्त्रं सन्ध्ये, सायंप्रातस्सन्ध्ये तस्य हृदयं हृदयकमलमव्यक्तं प्रधानमाहुः, सः प्रसिद्धः सर्वविकारकोशः सर्वौषधिविकारहेतुश्चन्द्रमाः तदीयं मनः इ135त्यर्थः । मनो हि सर्वविकाराश्रयभूतम् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

विज्ञानशक्तिं महिमामनन्ति
सर्वात्मनोऽन्तःकरणं गिरित्रम्।
अश्वाश्वतर्युष्ट्रगजा नखानि
सर्वे मृगाः पशवः श्रोणिदेशे॥

मूलम्

विज्ञानशक्तिं म136हिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्र137म्।
अश्वाश्वतर्युष्ट्रगजानखानि सर्वे मृगाः पशवः श्रोणिदेशे138॥ ३५ ॥

अनुवाद (हिन्दी)

महत्तत्त्वको सर्वात्मा भगवान‍्का चित्त कहते हैं और रुद्र उनके अहंकार कहे गये हैं। घोड़े, खच्चर, ऊँट और हाथी उनके नख हैं। वनमें रहनेवाले सारे मृग और पशु उनके कटिप्रेदशमें स्थित हैं॥ ३५॥

वीरराघवः

139तस्य विज्ञानशक्तिं व्यवसायशक्तिं तां महिं महत्तत्वम् आमनन्ति उपासते । सर्वात्मनः सर्वान्तर्यामिणः गिरित्रं रुद्रम् अन्तःकरणमहङ्कारम् । अत एव “रुद्रो वक्षसि चाभव” दिति विश्वरूपे140 कथितम् । अहङ्कारश्च अनात्मन्यात्माभिमानहेतुरिति मोहकस्य गिरित्रस्य तदात्मकत्वं युक्तम् । रासभाद्वडबायामुत्पन्नाऽश्वतरी अश्वाश्वतर्युष्ट्रगजास्तस्य नखानीत्यर्थः । सर्वे मृगाः पशवश्च तस्य श्रोणिदेशे उपास्याः तत्त्वेनानुसन्धेयाः इत्यर्थः ॥३५॥

श्लोक-३६

विश्वास-प्रस्तुतिः

वयांसि तद्‍व्याकरणं विचित्रं
मनुर्मनीषा मनुजो निवासः।
गन्धर्वविद्याधरचारणाप्सरः
स्वरस्मृतीरसुरानीकवीर्यः॥

मूलम्

वयां141सि तद्‍व्याक142रणं विचित्रं मनुर्मनीषा मनुजो निवासः।
गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृती143रसुरानीकवी144र्यः॥ ३६ ॥

अनुवाद (हिन्दी)

तरह-तरहके पक्षी उनके अद‍्भुत रचना-कौशल हैं। स्वायम्भुव मनु उनकी बुद्धि हैं और मनुकी सन्तान मनुष्य उनके निवासस्थान हैं। गन्धर्व, विद्याधर, चारण और अप्सराएँ उनके षड्ज आदि स्वरोंकी स्मृति हैं। दैत्य उनके वीर्य हैं॥ ३६॥

वीरराघवः

वयांसि वेदात्मकतित्तिर्यादयः पक्षिणः तस्य व्याकरणं “नामरूपे व्याकरवाणि” (छन्दो. उ.6-3-2) इति श्रुत्युक्तं 145शिल्पनैपुण्यं मनुर्मन्त्रः तस्य मनीषा बुद्धि: म146नुजः मनुष्यवर्गः तन्निवासस्थानं गन्धर्वादीनां द्वन्द्वैक्ये147 गन्धर्वादि148रप्सरोऽन्तो वर्गः । अस्य स्वरः षड्जादिस्वरः तेषां गानाद्यन्वयात् तत्स्वरत्वं युक्तम् । असुरानीकवर्यः असुरसमूहश्रेष्ठः प्रह्लादः तस्य स्मृतिः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

ब्रह्माननं क्षत्रभुजो महात्मा
विडूरुरङ्घ्रिश्रितकृष्णवर्णः।
नानाभिधाभीज्यगणोपपन्नो
द्रव्यात्मकः कर्म वितानयोगः॥

मूलम्

ब्रह्माननं149 क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः।
ना150नाभिधाभीज्य ग151णोपपन्नो द्र152व्यात्मकः कर्मवितानयोगः॥ ३७ ॥

अनुवाद (हिन्दी)

ब्राह्मण मुख, क्षत्रिय भुजाएँ, वैश्य जंघाएँ और शूद्र उन विराट् पुरुषके चरण हैं। विविध देवताओंके नामसे जो बड़े-बड़े द्रव्यमय यज्ञ किये जाते हैं, वे उनके कर्म हैं॥ ३७॥

वीरराघवः

ब्रह्मा ब्रह्मणः तस्य आननं महात्मा वैराजः । क्षत्रभुजः क्षत्रं क्षत्रियो भुजो यस्य सः । विट् वैश्यः ऊरू यस्य सः153 तथोक्तः । अङ्घ्रिश्रितकृष्णवर्णः अङ्घ्रौ श्रितः 154कृष्णवर्णः शूद्रो यस्य सः कृष्णवर्णस्तु155 तदङ्घित्वेनानुसन्धेय इत्यर्थः । नानाभिधाभीज्य156गणाः नानानामका अभीज्या यष्टव्या वसुरुद्रादयस्तेषां ग157णैरुपपन्नो युक्तः यो द्रव्यात्मको हविस्साध्यः वितानयोगः यज्ञादियोगः स तस्य आराधनरूपं कर्मेत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

इयानसावीश्वरविग्रहस्य
यः सन्निवेशः कथितो मया ते।
सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित्॥
परीक्षित्! विराट्भगवान‍्के स्थूलशरीरका यही स्वरूप है, सो मैंने तुम्हें सुना दिया। इसीमें मुमुक्षु पुरुष बुद्धिके द्वारा मनको स्थिर करते हैं; क्योंकि इससे भिन्न और कोई वस्तु नहीं है॥ ३८॥

मूलम्

इयानसावीश्वर विग्रहस्य यस्सन्निवेशः कथितो मया ते।
सन्धार्यतेऽस्मिन् व158पुषि स्थविष्ठे मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित्॥ ३८ ॥

परीक्षित्! विराट्भगवान‍्के स्थूलशरीरका यही स्वरूप है, सो मैंने तुम्हें सुना दिया। इसीमें मुमुक्षु पुरुष बुद्धिके द्वारा मनको स्थिर करते हैं; क्योंकि इससे भिन्न और कोई वस्तु नहीं है॥ ३८॥

वीरराघवः

ईश्वरविग्रहस्य वैराजविग्रहस्य यः सन्निवेश; अवयवसं159स्थानं म160या ते तुभ्यं कथितः । असौ इयानेतावानेव स्थविष्ठेऽस्मिन् वैराजसम्बन्धिनि वपुषि स्वकीयबुद्ध्या मुमुक्षुभिर्मनः सन्धार्यते यतः यस्मात् ईश्वरशरीरादन्यद्वहिर्भूतं नास्ति सर्वं तच्छरीरान्तर्भूतमित्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

स सर्वधीवृत्त्यनुभूतसर्व
आत्मा यथा स्वप्नजनेक्षितैकः।
तं सत्यमानन्दनिधिं भजेत
नान्यत्र सज्जेद् यत आत्मपातः॥

मूलम्

161 सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्रजनेक्षितैकः।
तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः॥ ३९ ॥162

अनुवाद (हिन्दी)

जैसे स्वप्न देखनेवाला स्वप्नावस्थामें अपने-आपको ही विविध पदार्थोंके रूपमें देखता है, वैसे ही सबकी बुद्धि-वृत्तियोंके द्वारा सब कुछ अनुभव करनेवाला सर्वान्तर्यामी परमात्मा भी एक ही है। उन सत्यस्वरूप आनन्दनिधि भगवान‍्का ही भजन करना चाहिये, अन्य किसी भी वस्तुमें आसक्ति नहीं करनी चाहिये। क्योंकि यह आसक्ति जीवके अधःपतनका हेतु है॥ ३९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः॥ १॥

वीरराघवः

एतदेवाऽऽह - इति । “दृश्यते श्रूयतेऽपि वा” (म.ना.उ.9-5) इति श्रुत्यर्थ उच्यते । सर्वधीवृत्तिभि: प्रत्यक्षानुमानादिसर्वविधज्ञानैरनुभूताः सर्वे ते पदार्थाः तेऽन्तर्बहिश्चाधिष्ठेयतया यस्य सः163 तथोक्तः । एवञ्च तदधिष्ठेयपदार्थानां तच्छरीरत्वमर्थसिद्धम् । तत्र दृष्टान्तमाह - यथा एक आत्मा जीवः स्वप्रजनेक्षिता स्वप्रजनद्रष्टा ह्यात्मा स्वकीयसुकृतदुष्कृतानुसारेण परमात्मसृष्टान् स्वेनैवानुभाव्यान् तत्कालमात्रावसानान् पदार्थानधिष्ठाय राज्याभिषेकशिरच्छेदादिसुखदुःखा164दिकमनुभवति तथा अत्रैकस्यानेकपदार्थेषु अधिष्ठातृत्वमात्रे दृष्टान्तः । एवं दृष्टश्रुतचेतनाचेतनशरीरकत्वेऽपि शरीरगतदोषासंस्पर्शित्वमाह सत्यमिति । सत्यं स्वरूपतो गुणतश्च निर्विकारम् । तस्य पुरुषार्थत्वमाह - आनन्दनिधिमिति । आनन्दाश्रयमित्यर्थः । आनन्दस्वरूपत्व165स्याप्युपलक्षणं “आनन्दं ब्रह्मणो विद्वान्” (तैत्ति. उ. 2-4) “विज्ञानमानन्दम्” (बृह.उ. 3-9-34) इत्युभयत्रापि श्रवणात् । भजेत उपासीत । यद्वा सत्यम् इत्यचिद्व्यावृत्तिः । आनन्दनिधिमिति क्षेत्रज्ञव्यावृत्तिः अन्यत्र न सज्जेदब्रह्मात्मकं स्वतन्त्रं वस्तु किञ्चित् परिकल्प्य तत्रासक्तो न भवेत्, यतस्तदासङ्गादात्मपातः । आत्मनः स्वस्य पातः संसारः स्यात् तस्मान्न सज्जेदित्यर्थः ॥ ३९ ॥

इति श्रीवत्सान्वयपयः पारावार राकासुधाकरस्य सर्वविद्यानिधेः चक्रवर्तिनः श्रीशैलगुरोः सुतेन तञ्चरणकमलपरिचर्याप्रसादिततत्सूक्तिसमधिगत श्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा लिखितायां श्रीमद्भागवतचन्द्रचन्द्रिकायां श्रीमद्भागवतव्याख्यायां द्वितीयस्कन्धे प्रथमोऽध्यायः ॥ १ ॥


  1. H,V,W तो ↩︎

  2. W adds कृत: ↩︎

  3. W Omits प्रकृतः ↩︎

  4. W न जानाते चेत् ↩︎

  5. W जानाति चेति ↩︎

  6. W पत्तिः ↩︎

  7. W तत्त्वाभि ↩︎

  8. A,B पत्ते: ↩︎

  9. M,Ma नीह ↩︎

  10. W न तू उपासकादीनां ↩︎

  11. W ध: ↩︎

  12. W ध: ↩︎

  13. W नी ↩︎

  14. W Omits तारतम्यं ↩︎

  15. A,B,C,G,I,N,W च वा ↩︎

  16. H,V,W च ↩︎

  17. W चकारों अ ↩︎

  18. AF,GF सौख्ये; M,Ma दैन्ये ↩︎

  19. M,Ma षु प्रसक्तो ↩︎

  20. AF,GF स्स्वेच्छया विभुः ↩︎

  21. H,V वम् ↩︎

  22. W adds अ ↩︎

  23. W adds अ ↩︎

  24. W इत्यादि ↩︎

  25. W न ↩︎

  26. A,B Omit श्रवणादि ↩︎

  27. H,M,Ma,V,W निषे ↩︎

  28. W adds निषिद्ध ↩︎

  29. W Omits तद् ↩︎

  30. W षां ↩︎

  31. W स्या ↩︎

  32. W स्सङ्की ↩︎

  33. A,B,C,G,I,M,Ma,N,W ष्ठितो ↩︎

  34. A,B,C,G,I,M,Ma,N,W ण्य उं ↩︎

  35. M,Ma तो ↩︎

  36. W चेताः ↩︎

  37. W न ↩︎

  38. M,Ma पु; W पू ↩︎

  39. H,M,Ma,V,W यत्र ↩︎

  40. A,B Omit तदहमिति ↩︎

  41. W पू ↩︎

  42. W पू ↩︎

  43. W पू ↩︎

  44. W Omits भवेत् ↩︎

  45. AF,GF त्ते! गी ↩︎

  46. W मिति ↩︎

  47. W ति भाव: ↩︎

  48. M,Ma एकं ↩︎

  49. H,M,Ma,V घटते; AF,GF यतते ↩︎

  50. A,B Omit संवत्सरैः ↩︎

  51. M,Ma ङ्ग ↩︎

  52. W adds अति ↩︎

  53. W omits इति……सिद्धम् । ↩︎

  54. H,V व त्वे ↩︎

  55. AF,GF लेऽपि ↩︎

  56. AF,GF हानायायिनीम् । ↩︎

  57. W तत् ↩︎

  58. AF,GF परि ↩︎

  59. W adds पुण्यतीर्थजलाप्लुतः ↩︎

  60. W Omits आप्लुतः ↩︎

  61. W omits इति ↩︎

  62. W स्रानादि ↩︎

  63. W च्चे ↩︎

  64. H,M,Ma,V नु ↩︎

  65. W प्यं ↩︎

  66. A,B पाद्य ↩︎

  67. W adds नियतं कुर्यात् ↩︎

  68. W Omits उक्तम् । ↩︎

  69. C,H,M,Ma,N,V,W ङ्क्त्वा ↩︎

  70. M,Ma,W श्चिन्न संस्म ↩︎

  71. W दि ↩︎

  72. W मुं ↩︎

  73. W यानुभव ↩︎

  74. W यस्वरू ↩︎

  75. B रो ↩︎

  76. W Omits विक्षिप्तं ↩︎

  77. B,C,N तः ↩︎

  78. A,B Omit पाकं….शः ↩︎

  79. W णो यो ↩︎

  80. W Omits परीक्षित् ↩︎

  81. A,B Omit यत्रेति ↩︎

  82. A,B रेष्व ↩︎

  83. A,B Omit समस्त ↩︎

  84. A Omits स्ववशीकृतप्राण: ↩︎

  85. H,V षय ↩︎

  86. H,V स्य ↩︎

  87. I व्यज्यते ↩︎

  88. M,Ma,W यत् ↩︎

  89. A,B Omit आदिना ↩︎

  90. A,B add च ↩︎

  91. H,I,V अ ↩︎

  92. AF,GF त: ↩︎

  93. A,B आ ↩︎

  94. M,Ma जस्सु ↩︎

  95. W ग: ↩︎

  96. A,B Omit पठन्ति ↩︎

  97. W Omits वि ↩︎

  98. A,B Omit हे….ते! ↩︎

  99. A,B र्लो ↩︎

  100. W Omits त….शेष:। ↩︎

  101. A,B,C,G,H,I,M,Ma,N,V वा ↩︎

  102. H,V ललाटं, I वराटी ↩︎

  103. M,Ma टि, W टं ↩︎

  104. W नो ↩︎

  105. W टं ↩︎

  106. M,Ma रस्य ↩︎

  107. AF,GF सा ↩︎

  108. M,Ma णं च; W णश्च ↩︎

  109. A,B यं ↩︎

  110. A,B Omit नासे ↩︎

  111. H,V Sस्य ↩︎

  112. W कं ↩︎

  113. W त्रम्। ↩︎

  114. A,B तान: ↩︎

  115. W लू ↩︎

  116. A,B Omit एव। ↩︎

  117. M,Ma गि ↩︎

  118. M,Ma र्यमेन्दुड्गुणा ↩︎

  119. AF,GF स्वेदकला द्विजालय: ↩︎

  120. AF,GF हि ↩︎

  121. A,B Omit जनोन्मादकरी ↩︎

  122. W adds तस्य ↩︎

  123. A,B Omit कटाक्ष: ↩︎

  124. AF,GF थ: स्वपृष्ठ:; H,V,W थश्च पृष्ठ: ↩︎

  125. C,N ष्ठः ↩︎

  126. M,Ma त्रः ↩︎

  127. W Omits पृष्ठ: ↩︎

  128. A Omits क: ↩︎

  129. A,B Omit मित्रौ ↩︎

  130. W अद्रयः ↩︎

  131. M,Ma अन्नं च वीर्यं च ↩︎

  132. A,B,C,G,I र्य: ↩︎

  133. M,Ma,W न्ध्ये ↩︎

  134. M,Ma स्तु ↩︎

  135. A,B सर्वविकाराश्रयइत्यर्थ: ↩︎

  136. M,Ma ति ↩︎

  137. M,Ma त्रः ↩︎

  138. C श: ↩︎

  139. A,B Omit तस्य ↩︎

  140. A,B पेण ↩︎

  141. M,Ma चा ↩︎

  142. M,Ma हृ ↩︎

  143. H,V,W तिह्य ; AF,GH तिर्वभा ↩︎

  144. W व ↩︎

  145. W adds अद्भुतं ↩︎

  146. W Omits मनुजः ↩︎

  147. W क्यम् ↩︎

  148. W द्यप्स ↩︎

  149. M,Ma न: ↩︎

  150. M,Ma स्वाहास्वधायीर्यगु ↩︎

  151. W गृ ↩︎

  152. M,Ma हृ ↩︎

  153. A,B Omit सः ↩︎

  154. W adds आश्रित: ↩︎

  155. W Omits तु ↩︎

  156. W गु ↩︎

  157. W गु ↩︎

  158. H,V पुरुषे ↩︎

  159. A,B सन्निवेश: ↩︎

  160. A,B Omit मया ते तुभ्यं ↩︎

  161. M add in foot note अत्र सर्ववित् आत्मा सत्यं आनन्दनिधिमिति पदचतुष्टयेन “आनन्दादयः प्रधानस्य” (ब्र.सू.3-3-11) इत्यत्रोक्तम् सर्वाधिकारि साधारणं उपसंहार्यं सच्चिदानन्द आत्मेति गुण चतुष्टयं सूचितमिति ज्ञातव्यम् । ↩︎

  162. This verse comes after the 6th verse in the second chapter of the second Skandha in M & Ma. स सर्वविद्धृद्यनुभूश्चसर्व आत्मा यथासृप्तजनेक्षितैकः । तं सत्यमानन्दनिधिं भजेत सर्वात्मनासोऽन्यत आत्मघातः ।। ↩︎

  163. W Omits सः ↩︎

  164. A,B खम ↩︎

  165. W Omits त्व ↩︎