[एकोनविंशोऽध्यायः]
भागसूचना
परीक्षित् का अनशनव्रत और शुकदेवजीका आगमन
श्लोक-१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
महीपतिस्त्वथ तत्कर्म गर्ह्यं
विचिन्तयन्नात्मकृतं सुदुर्मनाः।
अहो मया नीचमनार्यवत्कृतं
निरागसि ब्रह्मणि गूढतेजसि॥
मूलम्
महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः।
अहो म1या नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि॥ १ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—राजधानीमें पहुँचनेपर राजा परीक्षित् को अपने उस निन्दनीय कर्मके लिये बड़ा पश्चात्ताप हुआ। वे अत्यन्त उदास हो गये और सोचने लगे—‘मैंने निरपराध एवं अपना तेज छिपाये हुए ब्राह्मणके साथ अनार्य पुरुषोंके समान बड़ा नीच व्यवहार किया। यह बड़े खेदकी बात है॥ १॥
वीरराघवः
महीपतिरिति । अथ स्वपुरप्रवेशानन्तरं महीपतिः परीक्षिदात्मकृतं 2तदुरगनिधानरूपं गर्ह्यं कर्म चिन्तयन् सुदुर्मनाः आत्मनिन्दापरो बभूवेत्यर्थः । तदेव दर्शयति सार्धद्वयेन । अहो मया मूर्खवन्निरागसि 3निरपराधिनि गूढमनभिव्यक्तं तेजः सामर्थ्यं यस्मिन् ब्रह्मणि ब्राह्मणविषयेऽमीवं निकृष्टं कर्म कृतम् । अमीवं पापम् ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
ध्रुवं ततो मे कृतदेवहेलनाद्
दुरत्ययं व्यसनं नातिदीर्घात्।
तदस्तु कामं त्वघनिष्कृताय मे
यथा न कुर्यां पुनरेवमद्धा॥
मूलम्
ध्रुवं ततो मे कृतदेवहेलनात् दुरत्ययं4 व्यसनं नातिदीर्घात्।
तदस्तु कामं त्व5घनिष्कृताय मे यथा न कुर्यां पुनरेव6मद्धा॥ २ ॥
अनुवाद (हिन्दी)
अवश्य ही उन महात्माके अपमानके फलस्वरूप शीघ्र-से-शीघ्र मुझपर कोई घोर विपत्ति आवेगी। मैं भी ऐसा ही चाहता हूँ; क्योंकि उससे मेरे पापका प्रायश्चित्त हो जायगा और फिर कभी मैं ऐसा काम करनेका दुःसाहस नहीं करूँगा॥ २॥
वीरराघवः
ततो नी7चात्कृतात् देवहेलनरूपात् कर्मणो निमित्तात् न केवलं मया ब्राह्मणोऽवहेलितः, किन्तु साक्षाद्देवो भगवानेवेत्यभिप्रायेण देवहेलनादित्युक्तं, मे मम नातिदीर्घात् समनन्तरकालमेव दुरत्ययमतिवर्तितुमशक्यं व्यसनं दुःखं ध्रुवं नूनं भविष्यति । तत् स्वस्य हितमेव मन्यते तदिति तद्व्यसनं ममाघनिष्कृताय पापविशुद्धये कामं प्रकाममस्तु । किमनिष्टं प्रार्थयसे इत्यत्राह - यथा पुनरेवंविधमघं न कुर्याम्, अद्धा न कुर्यामेव । अद्धेति स्फुटावधारणयोर्द्योतकमव्ययं शिक्षार्थमस्त्विति भावः । अस्त्वद्धा अस्त्वेवेति वाऽन्वयः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
अद्यैव राज्यं बलमृद्धकोशं
प्रकोपितब्रह्मकुलानलो मे।
दहत्वभद्रस्य पुनर्न मेऽभूत्
पापीयसी धीर्द्विजदेवगोभ्यः॥
मूलम्
अद्यैव राज्यं बलमृ8द्धकोशं प्रकोपितब्रह्मकुलानलो मे।
दहत्वभद्रस्य पुनर्नमे9ऽभूत् पापीयसी धीर्द्विजदेवगो10भ्यः॥ ३ ॥
अनुवाद (हिन्दी)
ब्राह्मणोंकी क्रोधाग्नि आज ही मेरे राज्य, सेना और भरे-पूरे खजानेको जलाकर खाक कर दे—जिससे फिर कभी मुझ दुष्टकी ब्राह्मण, देवता और गौओंके प्रति ऐसी पापबुद्धि न हो॥ ३॥
वीरराघवः
अद्य इति । प्रकोपितं कोपं प्रापितं यत् ब्रह्मकुलं ब्राह्मणकुलं तत्कर्तृकनिग्रहात्मकोऽनलोऽग्निरद्यैव मम राज्यं बलं सैन्यं प्रभूतधनकोशञ्च दहतु । यथा पुनरभद्रस्य मम द्विजेभ्यो देवेभ्यो गोभ्यश्चापचिकीर्षायुक्ता चैवंविधा पापीयसी बुद्धिर्माभूत्तथा शिक्षार्थं दहत्विति भावः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
स चिन्तयन्नित्थमथाशृणोद् यथा
मुनेः सुतोक्तो निर्ऋतिस्तक्षकाख्यः।
स साधु मेने नचिरेण तक्षका-
नलं प्रसक्तस्य विरक्तिकारणम्॥
मूलम्
स11 चिन्तयन्नित्थ12मथाऽशृणोद्यथा मुनेः सुतोक्तो13 निर्ऋतिस्तक्षकाख्यः14।
स साधु मेने न चिरेण तक्षकान15लं प्रसक्तस्य विरक्तिकारणम्॥ ४ ॥
अनुवाद (हिन्दी)
वे इस प्रकार चिन्ता कर ही रहे थे कि उन्हें मालूम हुआ—ऋषिकुमारके शापसे तक्षक मुझे डसेगा। उन्हें वह धधकती हुई आगके समान तक्षकका डसना बहुत भला मालूम हुआ। उन्होंने सोचा कि बहुत दिनोंसे मैं संसारमें आसक्त हो रहा था, अब मुझे शीघ्र वैराग्य होनेका कारण प्राप्त हो गया॥ ४॥
वीरराघवः
इत्थं सञ्चिन्तयन् राजा यथा येन प्रकारेण तक्षकाख्यो निर्ऋतिर्मृत्युर्मुनेः सुतेनोक्त शापात्मकोक्त्या प्रचोदितस्तथैव शुश्राव, ततस्स राजा प्रसक्तस्य विषयेष्विति शेषः, विषयासक्तस्य स्वस्य विरक्तिकारणं हेतुगर्भमिदं विरक्तिकारणत्वात्तमचिरेण तक्षकरूपमनलं साधु यथा तथा मेने ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
अथो विहायेमममुं च लोकं
विमर्शितौ हेयतया पुरस्तात्।
कृष्णाङ्घ्रिसेवामधिमन्यमान
उपाविशत् प्रायममर्त्यनद्याम्॥
मूलम्
अथो विहायेमममुञ्च लो16कं वि17मर्शितौ हेयतया पुरस्तात्।
कृष्णाङ्घ्रिसेवामधि18मन्यमान उपाविशत् प्रायममर्त्यनद्याम्॥ ५ ॥
अनुवाद (हिन्दी)
वे इस लोक और परलोकके भोगोंको तो पहलेसे ही तुच्छ और त्याज्य समझते थे। अब उनका स्वरूपतः त्याग करके भगवान् श्रीकृष्णके चरणकमलोंकी सेवाको ही सर्वोपरि मानकर आमरण अनशनव्रत लेकर वे गंगातटपर बैठ गये॥ ५॥
वीरराघवः
अथो ततः इमममुञ्च लोकं विहाय । लोक्यत इति लोकः फलम्, सुखमिति यावत्, ऐहिकामुष्मिकसुखस्पृहां विहायेत्यर्थः । इमममुञ्च लोकं विशिनष्टि । स्वेन पुरस्तात्पूर्वमेव हेयतया विमर्शितौ विचारपूर्वकं हेयत्वेन निश्चितौ विचारपूर्वकं इमममुञ्च लोकं विहायेत्यन्वयः । ततः कृष्णस्य भगवतोऽङ्घ्रिसेवामधिमन्यमानो निरवधिकपुरुषार्थसाधनतया मन्यमानोऽमर्त्यनद्यां देवनद्यां गङ्गायां प्रायमनशनव्रतमुपाविशत् अनशनव्रतेन दीक्षितो बभूवेत्यर्थः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
या वै लसच्छ्रीतुलसीविमिश्र-
कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री।
पुनाति लोकानुभयत्र सेशान्
कस्तां न सेवेत मरिष्यमाणः॥
मूलम्
या वै लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री।
पु19नाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः॥ ६ ॥
अनुवाद (हिन्दी)
गंगाजीका जल भगवान् श्रीकृष्णके चरणकमलोंका वह पराग लेकर प्रवाहित होता है, जो श्रीमती तुलसीकी गन्धसे मिश्रित है। यही कारण है कि वे लोकपालोंके सहित ऊपर-नीचेके समस्त लोकोंको पवित्र करती हैं। कौन ऐसा मरणासन्न पुरुष होगा, जो उनका सेवन न करेगा?॥ ६॥
वीरराघवः
स्वगृहेऽन्यत्र वा प्रायमु20पविशतु, किं विशेषेण अमर्त्यनद्यामेव तदुपाविशदित्यत्र तां विशिंषन्नाह - या वा इति । लसन्त्या श्रीतुलस्या विमिश्रो यः कृष्णस्याङ्घ्रिरेणुस्ततोभ्यधिकस्य प्रशस्तस्याम्बुनोऽम्भसो नेत्री प्रवहन्ती याऽमर्त्यनदी उभयत्र इहामुत्र च सेशान् लोकपालैः सहितान् लोकान् जनान् पुनाति तां नदीं मरिष्यमाणः को वा पुमान्न सेवेत ? अपि तु सर्व इत्यभिप्रायेण तस्यामेव प्रायमुपाविशदित्यर्थः । लसच्छ्रीतुलसी श्रीकृष्णाङ्घ्रिरेणुना हेतुनाऽभ्यधिकं स्वाधिकरहितमम्बु तस्य नेत्रीति वाऽर्थः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
इति व्यवच्छिद्य स पाण्डवेयः
प्रायोपवेशं प्रति विष्णुपद्याम्।
दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो
मुनिव्रतो मुक्तसमस्तसङ्गः॥
मूलम्
इति व्यवच्छि21द्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम्।
द22ध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः॥ ७ ॥
अनुवाद (हिन्दी)
इस प्रकार गंगाजीके तटपर आमरण अनशनका निश्चय करके उन्होंने समस्त आसक्तियोंका परित्याग कर दिया और वे मुनियोंका व्रत स्वीकार करके अनन्यभावसे श्रीकृष्णके चरणकमलोंका ध्यान करने लगे॥ ७॥
वीरराघवः
स पाण्डवेयः परीक्षित् इत्थं विष्णुपद्यां गङ्गायां प्रायोपवेशं प्रति व्यवच्छिद्य विनिश्चित्य सङ्कल्प्य मुक्तः समस्तेषु देहतदनुबन्ध्यादिषु सङ्गो येन, मुनीनां व्रतं यस्य, न विद्यतेऽन्यो भावः 23चिन्ता यस्य सः मुकुन्दाङ्घ्रि दध्यौ ध्यातवान् ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तत्रोपजग्मुर्भुवनं पुनाना
महानुभावा मुनयः सशिष्याः।
प्रायेण तीर्थाभिगमापदेशैः
स्वयं हि तीर्थानि पुनन्ति सन्तः॥
मूलम्
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः।
प्रायेण तीर्थाभि24गमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः॥ ८ ॥
अनुवाद (हिन्दी)
उस समय त्रिलोकीको पवित्र करनेवाले बड़े-बड़े महानुभाव ऋषि-मुनि अपने शिष्योंके साथ वहाँ पधारे। संतजन प्रायः तीर्थयात्राके बहाने स्वयं उन तीर्थस्थानोंको ही पवित्र करते हैं॥ ८॥
वीरराघवः
तदा तत्र राज्ञस्सन्निधौ महानुभावास्सशिष्या मुनयः लोकं पुनानाः पवित्रीकुर्वन्तः आजग्मुः । भुवनं पुनाना इत्येतदेवोपपादयति - प्रायेण सन्तः साधवः तीर्थयात्राव्याजैः स्वयमेव तीर्थानि पुनन्ति । हि यथा च पुनन्ति तथोपपादितं पुरस्तात् “तीर्थीकुर्वन्ति तीर्थानि” (भाग. 1-13-10) इत्यत्र 25॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अत्रिर्वसिष्ठश्च्यवनः शरद्वा-
नरिष्टनेमिर्भृगुरङ्गिराश्च।
पराशरो गाधिसुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ॥
मूलम्
अत्रिर्वसिष्ठश्च्यवनश्शरद्वानरिष्टनेमिर्भृगुरङ्गिराश्च।
पराशरो गाधिसुतोऽथ राम उ26तथ्य इन्द्रप्र27मदेध्मवाहौ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
मेधातिथिर्देवल आर्ष्टिषेणो
भारद्वाजो गौतमः पिप्पलादः।
मैत्रेय और्वः कवषः कुम्भयोनि-
र्द्वैपायनो भगवान्नारदश्च॥
मूलम्
मेधातिथिर्देवल आर्ष्टि28षेणो भा29रद्वाजो गौतमः पिप्पलादः।
मैत्रेय और्वः कवषः30 कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च॥ १० ॥
वीरराघवः
केचै31ते मुनय इत्यत्र 32दर्शयति - अत्रिरिति सार्थद्वयेन । गाधिसुतो विश्वामित्रः रामो भार्गवः, कुम्भयोनिरगस्त्यः ॥ ९, १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अन्ये च देवर्षिब्रह्मर्षिवर्या
राजर्षिवर्या अरुणादयश्च।
नानार्षेयप्रवरान् समेता-
नभ्यर्च्य राजा शिरसा ववन्दे॥
मूलम्
अन्ये च देवर्षिब्र33ह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च।
ना34नार्षेयप्रवरा35न् समेतानभ्यर्च्य राजा शिरसा ववन्दे॥ ११ ॥
अनुवाद (हिन्दी)
उस समय वहाँपर अत्रि, वसिष्ठ, च्यवन, शरद्वान्, अरिष्टनेमि, भृगु, अंगिरा, पराशर, विश्वामित्र, परशुराम, उतथ्य, इन्द्रप्रमद, इध्मवाह, मेधातिथि, देवल, आर्ष्टिषेण, भारद्वाज, गौतम, पिप्पलाद, मैत्रेय, और्व, कवष, अगस्त्य, भगवान् व्यास, नारद तथा इनके अतिरिक्त और भी कई श्रेष्ठ देवर्षि, ब्रह्मर्षि तथा अरुणादि राजर्षिवर्योंका शुभागमन हुआ। इस प्रकार विभिन्न गोत्रोंके मुख्य-मुख्य ऋषियोंको एकत्र देखकर राजाने सबका यथायोग्य सत्कार किया और उनके चरणोंपर सिर रखकर वन्दना की॥ ९—११॥
वीरराघवः
अन्ये च देवर्षिश्रेष्ठा, ब्रह्मर्षिश्रेष्ठा, राजर्षिवर्या अरुणादयश्च ऋषयः । तानागतान्नानाविधार्षेयप्रवरान् समेतान् सङ्घीभूतानभ्यर्च्य राजा परीक्षित् शिरसा ववन्दे ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
सुखोपविष्टेष्वथ तेषु भूयः
कृतप्रणामः स्वचिकीर्षितं यत्।
विज्ञापयामास विविक्तचेता
उपस्थितोऽग्रेऽभिगृहीतपाणिः॥
मूलम्
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं य36त्।
विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभि37गृहीतपाणिः॥ १२ ॥
अनुवाद (हिन्दी)
जब सब लोग आरामसे अपने-अपने आसनोंपर बैठ गये, तब महाराज परीक्षित् ने उन्हें फिरसे प्रणाम किया और उनके सामने खड़े होकर शुद्ध हृदयसे अंजलि बाँधकर वे जो कुछ करना चाहते थे, उसे सुनाने लगे॥ १२॥
वीरराघवः
अथ तेषु सुखं यथा तथा उपविष्टेषु सत्सु पुनरपि कृतः प्रणामी येन स राजा उपस्थितस्तेषां समीपे तिष्ठन्नभिगृहीतपाणिः बद्धाञ्जलिः विवेकयुक्तं चेतो यस्य तथाभूतः स्वचिकीर्षितं कर्तुमिष्टं यत्तद्विज्ञापयामास ॥ १२ ॥
श्लोक-१३
मूलम् (वचनम्)
राजोवाच
विश्वास-प्रस्तुतिः
अहो वयं धन्यतमा नृपाणां
महत्तमानुग्रहणीयशीलाः।
राज्ञां कुलं ब्राह्मणपादशौचाद्
दूराद् विसृष्टं बत गर्ह्यकर्म॥
मूलम्
अहो! वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः।
राज्ञां कुलं ब्राह्मणपादशौ38चात् दूराद्विसृष्टं बत गर्ह्यकर्म॥ १३ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने कहा—अहो! समस्त राजाओंमें हम धन्य हैं। धन्यतम हैं; क्योंकि अपने शील-स्वभावके कारण हम आप महापुरुषोंके कृपापात्र बन गये हैं। राजवंशके लोग प्रायः निन्दित कर्म करनेके कारण ब्राह्मणोंके चरण-धोवनसे दूर पड़ जाते हैं—यह कितने खेदकी बात है॥ १३॥
वीरराघवः
तदेवाह - अहो इति चतुर्भिः । नृणां मध्ये वयमहो धन्यतमाः उत्तमाः खलु । धन्यतमत्वे हेतुं वदन्नात्मनो विशिनष्ट । महत्तमैर्भवद्भिरनुग्रहणीयमनुग्रहीतुं योग्यं शीलं येषाम् । यद्वा, महत्तमानुग्रहणीयं महत्तमानुग्रहलभ्यं शीलं येषां तथाभूताः । अनेवम्भूतं राजकुलं निन्दति राज्ञामिति । ब्राह्मणानां भवतां पादशौचात्पादसेवामूलकविशुद्धेर्दूराद्विसृष्टं दूरात् त्यक्तं यद्राज्ञां कुलं तत् गर्ह्यं निन्द्यं कर्म यस्य तथाभूतं भवति । बत इति खेदे ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
तस्यैव मेऽघस्य परावरेशो
व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम्।
निर्वेदमूलो द्विजशापरूपो
यत्र प्रसक्तो भयमाशु धत्ते॥
मूलम्
तस्यैव मे39ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम्।
निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते॥ १४ ॥
अनुवाद (हिन्दी)
मैं भी राजा ही हूँ। निरन्तर देह-गेहमें आसक्त रहनेके कारण मैं भी पापरूप ही हो गया हूँ। इसीसे स्वयं भगवान् ही ब्राह्मणके शापके रूपमें मुझपर कृपा करनेके लिये पधारे हैं। यह शाप वैराग्य उत्पन्न करनेवाला है। क्योंकि इस प्रकारके शापसे संसारासक्त पुरुष भयभीत होकर विरक्त हो जाया करते हैं॥ १४॥
वीरराघवः
ननु महत्तमानुग्रहणीयशीलस्य तव कथमधुना तन्निग्रहप्रवृत्तिरित्यत्र, तन्निग्रहोऽप्यनुग्रहरूप एवेत्याह - तस्य इति । तस्यैव महत्तमानुग्रहणीयशीलस्यैव अभीक्ष्णं पुनः पुनः गृहेषु व्यासक्तं चित्तं यस्य तस्य ममाऽघस्य प्रकृतब्रह्मविदपचाररूपस्य परिहास्क इति शेषः । निर्वेदमूलः देहतदनुबन्ध्यादिषु वैराग्ये च मूलो हेतुः द्विजशापरूपः परावरेशो भगवानेव प्रसक्तः प्रवृत्तः मामनुग्रहीतुं भगवत्सङ्कल्प एव द्विजशापव्याजेन प्रवृत्त इत्यर्थः । कथं तस्यानुग्रहरूपतेत्यत आह - यत्र यस्मिन्मयि प्रसक्तो द्विजशापरूपः परावरेशः आशु अभयं धत्ते आदधाति । ब्रह्मविदपचारपरिहारहेतुत्वान्निर्वेदमूलत्वात् सत्सङ्गद्वारा मुक्त्याधायकत्वाच्चानुग्रहरूप एवेत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृतचित्तमीशे।
द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः॥
मूलम्
तं मोपया40तं प्रतिय41न्तु विप्रा गङ्गा च देवी धृतचित्तमीशे।
द्विजोपसृष्टः कुहकस्तक्षको42 वा दशत्व43लं गायत विष्णुगाथाः॥ १५ ॥
अनुवाद (हिन्दी)
ब्राह्मणो! अब मैंने अपने चित्तको भगवान्के चरणोंमें समर्पित कर दिया है। आपलोग और माँ गंगाजी शरणागत जानकर मुझपर अनुग्रह करें, ब्राह्मणकुमारके शापसे प्रेरित कोई दूसरा कपटसे तक्षकका रूप धरकर मुझे डस ले अथवा स्वयं तक्षक आकर डस ले; इसकी मुझे तनिक भी परवा नहीं है। आपलोग कृपा करके भगवान्की रसमयी लीलाओंका गायन करें॥ १५॥
वीरराघवः
अस्त्वेवं 44प्रकृतं किं इत्या45ह - तम् इति । हे विप्राः! भवन्तः इयं देवी गङ्गा च ईशे भगवति धृतं चित्तं येन तथाभूतं तमुक्तविधं मां उपयान्तमनुवर्तिनं प्रतियन्तु हेयोपादेयशुश्रूषं जानन्त्वित्यर्थः । द्विजेनोपसृष्टः प्रचोदितः तक्षकः कुहकः विस्मापकः मा वञ्चयन्न46लं नितरां दशतु नाऽहं बिभेमीति भावः । किन्तु यूयं विष्णोर्गाथाः कथाः गायत कथयत अलं गायतेति वाऽन्वयः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
पुनश्च भूयाद्भगवत्यनन्ते
रतिः प्रसङ्गश्च तदाश्रयेषु।
महत्सु यां यामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः॥
मूलम्
पुनश्च भूयाद्भगवत्यनन्ते र47तिः प्रसङ्गश्च तदाश्रयेषु।
महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः॥ १६ ॥
अनुवाद (हिन्दी)
मैं आप ब्राह्मणोंके चरणोंमें प्रणाम करके पुनः यही प्रार्थना करता हूँ कि मुझे कर्मवश चाहे जिस योनिमें जन्म लेना पड़े, भगवान् श्रीकृष्णके चरणोंमें मेरा अनुराग हो, उनके चरणाश्रित महात्माओंसे विशेष प्रीति हो और जगत्के समस्त प्राणियोंके प्रति मेरी एक-सी मैत्री रहे। ऐसा आप आशीर्वाद दीजिये॥ १६॥
वीरराघवः
पुनश्च किञ्च । मम भगवत्यनन्ते अतिभक्तिस्तदाश्रयेषु भगवद्भक्तेषु सङ्गश्च स्यात् । एवमनुगृह्णीतेति भावः । किञ्च यां यां सृष्टिं यद्यज्जन्म प्राप्नोमि तत्र सर्वत्र जन्मनि महत्सु भवादृशेषु मैत्री आनुकूल्यमस्तु । द्विजेभ्यो वो नमः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
इति स्म राजाध्यवसाययुक्तः
प्राचीनमूलेषु कुशेषु धीरः।
उदङ्मुखो दक्षिणकूल आस्ते
समुद्रपत्न्याः स्वसुतन्यस्तभारः॥
मूलम्
इति स्म रा48जाऽध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः।
उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसु49तन्यस्तभारः॥ १७ ॥
अनुवाद (हिन्दी)
महाराज परीक्षित् परम धीर थे। वे ऐसा दृढ़ निश्चय करके गंगाजीके दक्षिण तटपर पूर्वाग्र कुशोंके आसनपर उत्तरमुख होकर बैठ गये। राज-काजका भार तो उन्होंने पहले ही अपने पुत्र जनमेजयको सौंप दिया था॥ १७॥
वीरराघवः
इतीत्थं निश्चययुक्तो राजा धीरः स्वसुते जनमेजये न्यस्तो निहितो राज्यभारो येन तथाभूतः समुद्रपत्न्या गङ्गायाः दक्षिणकूले दक्षिणतीरे प्राचीनमूलेषु प्राचीनाग्रेषु कुशेष्वास्ते स्म उपविष्टवान् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
एवं च तस्मिन्नरदेवदेवे
प्रायोपविष्टे दिवि देवसङ्घाः।
प्रशस्य भूमौ व्यकिरन् प्रसूनै-
र्मुदा मुहुर्दुन्दुभयश्च नेदुः॥
मूलम्
एवं च50 तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः।
प्रशस्य भूमौ व्यकिरन् प्रसूनैर्मु51दा मुहुर्दुन्दुभयश्च नेदुः॥ १८ ॥
अनुवाद (हिन्दी)
पृथ्वीके एकच्छत्र सम्राट् परीक्षित् जब इस प्रकार आमरण अनशनका निश्चय करके बैठ गये, तब आकाशमें स्थित देवतालोग बड़े आनन्दसे उनकी प्रशंसा करते हुए वहाँ पृथ्वीपर पुष्पोंकी वर्षा करने लगे तथा उनके नगारे बार-बार बजने लगे॥ १८॥
वीरराघवः
इत्थं तस्मिन्नरदेवानां देवे 52परीक्षिति प्रायोपविष्टे सति दिवि सर्वदेवसङ्घा तं प्रशस्य प्रस्तूय मुदा प्रसूनैः कुसुमैः मुहुर्मुहः पुनःपुनः भूमौ व्यकिरन्; दुन्दुभयश्च नेदुः दध्वनुः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
महर्षयो वै समुपागता ये
प्रशस्य साध्वित्यनुमोदमानाः।
ऊचुः प्रजानुग्रहशीलसारा
यदुत्तमश्लोकगुणाभिरूपम्॥
मूलम्
महर्षयो53 वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः।
ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभि54रूपम्॥ १९ ॥
अनुवाद (हिन्दी)
सभी उपस्थित महर्षियोंने परीक्षित् के निश्चयकी प्रशंसा की और ‘साधु-साधु’ कहकर उनका अनुमोदन किया। ऋषिलोग तो स्वभावसे ही लोगोंपर अनुग्रहकी वर्षा करते रहते हैं; यही नहीं, उनकी सारी शक्ति लोकपर कृपा करनेके लिये ही होती है। उन लोगोंने भगवान् श्रीकृष्णके गुणोंसे प्रभावित परीक्षित् के प्रति उनके अनुरूप वचन कहे॥ १९॥
वीरराघवः
ये समागता महर्षयस्ते सर्वे । उत्तमैः श्लोक्याः प्रशंसनीया गुणास्तैरभिरूपं राजानं प्रशस्य साधु साध्वित्यनुमोदमानाः ऊचुः । कुतो, यद्यतस्ते प्रजास्वनुग्रह एव शीलं स्वभावः स एव सारो येषान्ते तथाभूतत्वात्प्रश्स्यानुमोदमाना ऊचुरित्यर्थः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
न वा इदं राजर्षिवर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु।
येऽध्यासनं राजकिरीटजुष्टं
सद्यो जहुर्भगवत्पार्श्वकामाः॥
मूलम्
न वा इदं राजर्षिवर्य! चित्रं भ55वत्सु कृष्णं समनुव्रतेषु।
येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः॥ २० ॥
अनुवाद (हिन्दी)
‘राजर्षिशिरोमणे! भगवान् श्रीकृष्णके सेवक और अनुयायी आप पाण्डुवंशियोंके लिये यह कोई आश्चर्यकी बात नहीं है; क्योंकि आपलोगोंने भगवान्की सन्निधि प्राप्त करनेकी आकांक्षासे उस राजसिंहासनका एक क्षणमें ही परित्याग कर दिया, जिसकी सेवा बड़े-बड़े राजा अपने मुकुटोंसे करते थे॥ २०॥
वीरराघवः
उक्तिमेवाह - न वा इति । हे राजर्षिवर्य! नित्यं श्रीकृष्णमनुव्रतेषु अनुव56र्तिषु भवत्स्विदं विचित्रं न वै न भवति 57किं तत्, ये भवन्तो भगवतः पार्श्वं सामीप्यं कामयमानाः सन्तो राज्ञां किरीटैर्जुष्टं सेवितमध्यासनं सार्वभौमसिंहासनं सद्यो जह्रुस्तत्यजुरित्येतत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सर्वे वयं तावदिहास्महेऽद्य
कलेवरं यावदसौ विहाय।
लोकं परं विरजस्कं विशोकं
यास्यत्ययं भागवतप्रधानः॥
मूलम्
सर्वे वयं तावदिहास्महेऽद्य58 कलेवरं यावदसौ विहाय।
लो59कं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः॥ २१ ॥
अनुवाद (हिन्दी)
हम सब तबतक यहीं रहेंगे, जबतक ये भगवान्के परम भक्त परीक्षित् अपने नश्वर शरीरको छोड़कर मायादोष एवं शोकसे रहित भगवद्धाममें नहीं चले जाते’॥ २१॥
वीरराघवः
एवं राजानमुक्त्वाऽथ मि60थ आहुः - सर्व इति । यावत् भागवता एव प्रधाना नितरां सेव्या यस्य सोऽसौ राजा कलेबरं विहाय विरजस्कं शुद्धसत्त्वमयं; विशोकम्, इदमुपलक्षणम् । अपहतपाप्मत्वादिगुणाष्टकप्रादुर्भावदेशं परं लोकं नित्यविभूत्याख्यं यास्यति; तावत्सर्वे वयमिहैव राज्ञः सन्निधावेव आस्महे आसीमहि ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
आश्रुत्य तदृषिगणवचः परीक्षित्
समं मधुच्युद् गुरु चाव्यलीकम्।
आभाषतैनानभिनन्द्य युक्ताञ्
शुश्रूषमाणश्चरितानि विष्णोः॥
मूलम्
आश्रुत्य61 तदृषिगणवचः परीक्षित् समं मधुच्यु62द्गुरुचा63व्यलीकम्।
आ64भाषतैना65नभिन66न्द्य यु67क्तान् शुश्रूषमाणश्चरितानि विष्णोः॥ २२ ॥
अनुवाद (हिन्दी)
ऋषियोंके ये वचन बड़े ही मधुर, गम्भीर, सत्य और समतासे युक्त थे। उन्हें सुनकर राजा परीक्षित् ने उन योगयुक्त मुनियोंका अभिनन्दन किया और भगवान्के मनोहर चरित्र सुननेकी इच्छासे ऋषियोंसे प्रार्थना की॥ २२॥
वीरराघवः
तत्समं वैषम्यरहितममृतस्राविगुर्वाशयगम्भीरमव्यलीकं निष्कपटञ्च मुनीनां वचनमाकर्ण्य एतान् युक्तान् हितानात्महिताचरणोद्युक्तानृषीनभिन68न्द्य विष्णोश्चरितानि श्रोतुकामः परीक्षिदभाषत ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
समागताः सर्वत एव सर्वे
वेदा यथा मूर्तिधरास्त्रिपृष्ठे।
नेहाथवामुत्र च कश्चनार्थ
ऋते परानुग्रहमात्मशीलम्॥
मूलम्
समागतास्सर्वत एव सर्वे वे69दा यथा मूर्तिधरास्त्रिपृ70ष्ठे।
नेहाथवा71ऽमुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशी72लम्॥ २३ ॥
अनुवाद (हिन्दी)
‘महात्माओ! आप सभी सब ओरसे यहाँ पधारे हैं। आप सत्यलोकमें रहनेवाले मूर्तिमान् वेदोंके समान हैं। आपलोगोंका दूसरोंपर अनुग्रह करनेके अतिरिक्त, जो आपका सहज स्वभाव ही है, इस लोक या परलोकमें और कोई स्वार्थ नहीं है॥ २३॥
वीरराघवः
तदेवाऽऽह - समागता इति । त्रिपृष्ठे सत्यलोके यथा मूर्तिधरा वेदाः तद्वदवभासमानाः सर्वे यूयं सर्वतः सर्वाभ्यो दिग्भ्यः इह समागताः । मदनुग्रहार्थं समागता इति भावः । तदेव व्यनक्ति । समागतानां वः परानुग्रहमात्मशीलं विना इहाऽमुत्र च लोकेऽर्थः प्रयोजनं कश्चिदपि नाऽस्ति हि । परेषु मादृशेषु अनुग्रहरूपमात्मशीलं स्वस्वभावं, स्ववृत्तं वा विनाऽन्यदा73गमनकारणं 74नास्ति होत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ततश्च वः पृच्छ्यमिमं विपृच्छे
विश्रभ्य विप्रा इतिकृत्यतायाम्।
सर्वात्मना म्रियमाणैश्च कृत्यं
शुद्धं च तत्रामृशताभियुक्ताः॥
मूलम्
ततश्च वः पृ75च्छ्यमिमं76 वि77पृच्छे विस्र78भ्य विप्रा! इतिकृत्यतायाम्।
सर्वात्मना म्रियमाणैश्च79 कृत्यं शुद्धञ्च च तत्रामृशताभियुक्ताः॥ २४ ॥80
अनुवाद (हिन्दी)
विप्रवरो! आपलोगोंपर पूर्ण विश्वास करके मैं अपने कर्तव्यके सम्बन्धमें यह पूछने योग्य प्रश्न करता हूँ। आप सभी विद्वान् परस्पर विचार करके बतलाइये कि सबके लिये सब अवस्थाओंमें और विशेष करके थोड़े ही समयमें मरनेवाले पुरुषोंके लिये अन्तःकरण और शरीरसे करनेयोग्य विशुद्ध कर्म कौन-सा है*॥ २४॥
पादटिप्पनी
- इस जगह राजाने ब्राह्मणोंसे दो प्रश्न किये हैं; पहला प्रश्न यह है कि जीवको सदा-सर्वदा क्या करना चाहिये और दूसरा यह कि जो थोड़े ही समयमें मरनेवाले हैं, उनका क्या कर्तव्य है? ये ही दो प्रश्न उन्होंने श्रीशुकदेवजीसे भी किये तथा क्रमशः इन्हीं दोनों प्रश्नोंका उत्तर द्वितीय स्कन्धसे लेकर द्वादशपर्यन्त श्रीशुकदेवजीने दिया है।
वीरराघवः
यतो भवदागमनमस्मदनुग्रहैकप्रयोजनम् । ततो हे विप्राः! वो युष्मान् विस्र81भ्य विश्वस्य इतिकृत्यतायां इतिकर्तव्यतायां प्रष्टव्यमिमं वक्ष्यमाणं पृच्छामि । कर्तव्यव्यापारप्रकारः इतिकृत्यता तस्यां निमित्तभूतायामितिकर्तव्यताज्ञानार्थं प्रष्टव्यं पृच्छामीत्यर्थः । पृ82च्छां दर्शयंस्तत्सम्यक् निर्णीय कथयतेत्याह । म्रियमाणैर्मुमूर्षुभिर्जनैः सर्वात्मना सर्वप्रकारेण करणत्रयेण कर्तव्यं शुद्धं संसृत्यनिमित्तं च यत्तत्कर्म तत्राऽभियुक्ताः तद्विमर्शनाभिमुख्ययुक्तास्सन्तो यूयमामृशत विमृश्य 83उपदिशत हेऽभियुक्ता! इति सम्बोधनं वा ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
तत्राभवद्भगवान् व्यासपुत्रो
यदृच्छया गामटमानोऽनपेक्षः।
अलक्ष्यलिङ्गो निजलाभतुष्टो
वृतश्च बालैरवधूतवेषः॥
मूलम्
तत्राभ84वद्भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः।
अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः॥ २५ ॥
अनुवाद (हिन्दी)
उसी समय पृथ्वीपर स्वेच्छासे विचरण करते हुए , किसीकी कोई अपेक्षा न रखनेवाले व्यासनन्दन भगवान् श्रीशुकदेवजी महाराज वहाँ प्रकट हो गये। वे वर्ण अथवा आश्रमके बाह्य चिह्नोंसे रहित एवं आत्मानुभूतिमें सन्तुष्ट थे। बच्चों और स्त्रियोंने उन्हें घेर रखा था। उनका वेष अवधूतका था॥ २५॥
वीरराघवः
तत्रैवं पृच्छतो राज्ञः सन्निधौ भगवान् व्यासस्य पुत्रः श्रीशुकोऽभवदागत्य तस्थौ । कथम्भूतः ? यदृच्छया गां भूमिमटमानः तत्र हेतुरनपेक्षः कृत्य85पेक्षारहितः । तत्र हेतुः निजलाभेन ब्रह्मात्मकस्वा86त्मानुभवेनैव तुष्टः अलक्ष्यमृषिरिति ज्ञातुमशक्यलिङ्ग रूपं यस्य सः । तत्र हेतुः अवधूतवेषः; अभिभाव्यवेशः87, अत एव बालैर्वृतः परिवृतः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
तं द्व्यष्टवर्षं सुकुमारपाद-
करोरुबाह्वंसकपोलगात्रम्।
चार्वायताक्षोन्नसतुल्यकर्ण-
सुभ्व्राननं कम्बुसुजातकण्ठम्॥
मूलम्
तं द्व्यष्टवर्षं सुकुमारपादकरोरुबाह्वंसकपोलगात्रम्।
चार्वाय88ताक्षोन्नसतुल्यक89र्णसुभ्व्राननं कम्बुसुजातकण्ठम्॥ २६ ॥
अनुवाद (हिन्दी)
सोलह वर्षकी अवस्था थी। चरण, हाथ, जंघा, भुजाएँ, कंधे, कपोल और अन्य सब अंग अत्यन्त सुकुमार थे। नेत्र बड़े-बड़े और मनोहर थे। नासिका कुछ ऊँची थी। कान बराबर थे। सुन्दर भौंहें थीं, इनसे मुख बड़ा ही शोभायमान हो रहा था। गला तो मानो सुन्दर शंख ही था॥ २६॥
वीरराघवः
तम् इति । तमागतं गू90ढं मषीसंवृतमणिवत् तिरोहितं वर्चो यस्य तथाभूतमपि तस्य शुकस्य चिह्नाभिज्ञा मुनयः स्वासनेभ्यः प्रत्युत्थिता बभूवुरित्यन्वयः । कथम्भूतम् ? द्व्यष्टवर्षं षोडशवर्षवयस्कमिव स्थितं, द्विरावृत्ता अ91ष्टौ वर्षाणि यस्य तमिति समासः, सुकुमाराः पादादयो यस्मिंस्तद् गात्रं92 यस्य, चारुणी सुन्दरे आयते विशाले अक्षिणी यस्मिन्, उदग्रा नासिका यस्मिन्, तुल्यौ समौ कर्णौ यस्मिन्, शोभने भ्रुवौ यस्मिन्, ततस्तेषां कर्मधारयः, तदाननं यस्य, कम्बुवत् शङ्खवत् वर्तुलः रेखात्रयोपेतश्च कण्ठो यस्य ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
निगूढजत्रुं पृथुतुङ्गवक्षस-
मावर्तनाभिं वलिवल्गूदरं च।
दिगम्बरं वक्त्रविकीर्णकेशं
प्रलम्बबाहुं स्वमरोत्तमाभम्॥
मूलम्
निगूढजन्नुं पृथुतुङ्गवक्षसमावर्तनाभिं वलिवल्गूदरञ्च।
दिगम्बरं व93क्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम्॥ २७ ॥
अनुवाद (हिन्दी)
हँसली ढकी हुई, छाती चौड़ी और उभरी हुई, नाभि भँवरके समान गहरी तथा उदर बड़ा ही सुन्दर, त्रिवलीसे युक्त था। लंबी-लंबी भुजाएँ थीं, मुखपर घुँघराले बाल बिखरे हुए थे। इस दिगम्बर वेषमें वे श्रेष्ठ देवताके समान तेजस्वी जान पड़ते थे॥ २७॥
वीरराघवः
निगूढे मांसलत्वेनाप्रकाशे जत्रुणी अंसद्वयसन्धिगतास्थिनी यस्य, पृथु विशालं तुङ्गमुन्नतं वक्षो यस्य, आवर्ता आवर्तवद्वर्तुला विविक्ता94 न्युक्ता च नाभिर्यस्य, वलिभिस्त्रिभिर्वल्गु सुन्दरमुदरं यस्य, दिगम्बरं दिगेवाम्बरं वस्त्रं यस्य, ची95रधरत्वेन प्रशस्ताम्बररहितमित्यर्थः । उपरिवाससा रहितं वा । अन्यथा मोक्षधर्मादिषूक्तप्रकारविरोधात् । वक्रा विकीर्णाश्च । केशा यस्य, प्रलम्बौ आजानुलम्बौ बाहू यस्य, स्वमरोत्तमस्य अमरश्रेष्ठस्येव आभा यस्य ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
श्यामं सदापीच्यवयोऽङ्गलक्ष्म्या
स्त्रीणां मनोज्ञं रुचिरस्मितेन।
प्रत्युत्थितास्ते मुनयः स्वासनेभ्य-
स्तल्लक्षणज्ञा अपि गूढवर्चसम्॥
मूलम्
श्यामं स96दापीच्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रु97चिरस्मितेन।
प्रत्युत्थिता98स्ते मुनयः स्वासनेभ्यस्तल्लक्षणज्ञा अपि गूढवर्चसम्॥ २८ ॥
अनुवाद (हिन्दी)
श्याम रंग था। चित्तको चुरानेवाली भरी जवानी थी। वे शरीरकी छटा और मधुर मुसकानसे स्त्रियोंको सदा ही मनोहर जान पड़ते थे। यद्यपि उन्होंने अपने तेजको छिपा रखा था, फिर भी उनके लक्षण जाननेवाले मुनियोंने उन्हें पहचान लिया और वे सब-के-सब अपने-अपने आसन छोड़कर उनके सम्मानके लिये उठ खड़े हुए॥ २८॥
वीरराघवः
अपीच्यं कमनीयं वयो यस्मिंस्तस्याङ्गस्य 99लक्ष्म्या कान्त्या सुन्दरस्मितेन च सदा स्त्रीणां मनोज्ञं स्पृहणीयम् ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
स विष्णुरातोऽतिथय आगताय
तस्मै सपर्यां शिरसाऽऽजहार।
ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका
महासने सोपविवेश पूजितः॥
मूलम्
स विष्णुरातोऽ100तिथय101 आगताय तस्मै सपर्यां शिरसाऽऽ102जहार।
ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः॥ २९ ॥
अनुवाद (हिन्दी)
राजा परीक्षित् ने अतिथिरूपसे पधारे हुए श्रीशुकदेवजीको सिर झुकाकर प्रणाम किया और उनकी पूजा की। उनके स्वरूपको न जाननेवाले बच्चे और स्त्रियाँ उनकी यह महिमा देखकर वहाँसे लौट गये; सबके द्वारा सम्मानित होकर श्रीशुकदेवजी श्रेष्ठ आसनपर विराजमान हुए॥ २९॥
वीरराघवः
अथ स विष्णुरातः परीक्षित् आगतायातिथये तस्मै श्रीशुकाय शिरसा, नम्रणेति शेषः । सपर्यां पूजां जहार चकार; शिरसा प्रणामपूर्वकं पूजां चक्रे इत्यर्थः । तदा तमनुसृत्य आगता अज्ञा बालकाः प्रतिनिवृत्ता बभूवुः । ततः स पूजितः शुकः महासने महति राज्ञा समर्पिते आसने उपविवेश ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
स संवृतस्तत्र महान् महीयसां
ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः।
व्यरोचतालं भगवान् यथेन्दु-
र्ग्रहर्क्षतारानिकरैः परीतः॥
मूलम्
स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदे103वर्षिसङ्घैः।
व्यरोचताऽलं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः॥ ३० ॥
अनुवाद (हिन्दी)
ग्रह, नक्षत्र और तारोंसे घिरे हुए चन्द्रमाके समान ब्रह्मर्षि, देवर्षि और राजर्षियोंके समूहसे आवृत श्रीशुकदेवजी अत्यन्त शोभायमान हुए। वास्तवमें वे महात्माओंके भी आदरणीय थे॥ ३०॥
वीरराघवः
तत्र आसने उपविष्टस्स महीयसामपि महान् माहात्म्ययुक्तो भगवान् शुको ब्रह्मर्षिप्रभृतीनां सङ्घैरलं नितरां व्यरोचत । यथा ग्रहादीनां निकरैः समूहैः परिवृतश्चन्द्रस्तद्वत् । ग्रहा अङ्गारकादयः । ऋक्षाण्यश्चिन्यादीनि नक्षत्राणि । तदुभयेतराणि नक्षत्राणि ताराः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
प्रशान्तमासीनमकुण्ठमेधसं
मुनिं नृपो भागवतोऽभ्युपेत्य।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-
र्नत्वा गिरा सूनृतयान्वपृच्छत्॥
मूलम्
प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य।
प्रणम्य मूर्ध्नाऽवहितः कृताञ्जलिर्नत्वा गिरा सूनृतयाऽन्वपृच्छत्॥ ३१ ॥
अनुवाद (हिन्दी)
जब प्रखरबुद्धि श्रीशुकदेवजी शान्तभावसे बैठ गये, तब भगवान्के परम भक्त परीक्षित् ने उनके समीप आकर और चरणोंपर सिर रखकर प्रणाम किया। फिर खड़े होकर हाथ जोड़कर नमस्कार किया। उसके पश्चात् बड़ी मधुर वाणीसे उनसे यह पूछा॥ ३१॥
वीरराघवः
प्रशान्तं सात्त्विकवेषम् अकुण्ठा आवरणरहिता मेघा धीर्यस्य तम् । यद्यपि “नित्यमसिच् प्रजामेधयोः” (अष्टा. 5-4-122) इत्यत्र नञ् दुस्सुभ्य एव" (अष्टा. 5-4-121) इति नियमः तथापि आर्षत्वादसिच् । आसीनमुपविष्टं मुनिं शुकमभिमुखं समीपमागत्य महाभागवतो नृपः परीक्षित् मूर्ध्ना प्रणम्य बद्धाञ्जलिरवहितः तदुक्तिश्रवणोपयुक्तावधानयुक्तः सूनृतया मधुरया गिराऽन्वपृच्छत् ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
परीक्षिदुवाच
विश्वास-प्रस्तुतिः
अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः।
कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः॥
मूलम्
अहो अद्य वयं ब्रह्मन्! सत्सेव्याः क्षत्त्रबन्धवः।
कृपयाऽतिथिरूपेण भवद्भिस्तीर्थकाः कृताः॥ ३२ ॥
अनुवाद (हिन्दी)
परीक्षित् ने कहा—ब्रह्मस्वरूप भगवन्! आज हम बड़भागी हुए; क्योंकि अपराधी क्षत्रिय होनेपर भी हमें संत-समागमका अधिकारी समझा गया। आज कृपापूर्वक अतिथिरूपसे पधारकर आपने हमें तीर्थके तुल्य पवित्र बना दिया॥ ३२॥
वीरराघवः
तदेवाऽऽह - अहो इति । यावत्समाप्ति तावत् तत्समागमनेनात्मनः कृतार्थतामाविष्करोति अहो इति । हे ब्रह्मन्! वयं क्षत्रबन्धवोऽप्यद्याहो! सत्सेव्यास्सन्तः, सन्तः सेव्याः येषां तथाभूताः अभूम । यद्वा सतां 104सेव्या अनुग्राह्या अभूम । तत्र हेतुमाह - कृपया भवद्भिरतिथिरूपेण अतिथिव्याजेन वयं तीर्थकाः कृताः पवित्रीकृताः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः॥
मूलम्
येषां संस्मरणात्पुं105सां सद्यश्शुध्यन्ति वै गृहाः।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः॥ ३३ ॥
अनुवाद (हिन्दी)
आप-जैसे महात्माओंके स्मरणमात्रसे ही गृहस्थोंके घर तत्काल पवित्र हो जाते हैं; फिर दर्शन, स्पर्श, पादप्रक्षालन और आसन-दानादिका सुअवसर मिलनेपर तो कहना ही क्या है॥ ३३॥
वीरराघवः
कथमतिथिरूपेणास्मदागमनरूपेण व स्तीर्थोभूतता इत्यत्र तत्कैमुत्यन्यायेन दर्शयति - येषाम् इति । येषां भवतां स्मरणादेव सद्यः पुंसां स्मर्तॄणां गृहाः शुध्यन्ति, किं पुनर्भवतां दर्शनादिभिः शुद्ध्यन्तीति वक्तव्यम्! पादशौचं पादजलम् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
सांनिध्यात्ते महायोगिन्पातकानि महान्त्यपि।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः॥
मूलम्
सान्निध्यात्ते महायोगिन्! पातकानि महान्त्यपि।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः॥ ३४ ॥
अनुवाद (हिन्दी)
महायोगिन्! जैसे भगवान् विष्णुके सामने दैत्यलोग नहीं ठहरते, वैसे ही आपकी सन्निधिसे बड़े-बड़े पाप भी तुरंत नष्ट हो जाते हैं॥ ३४॥
वीरराघवः
यत एवमतो हे महायोगिन्! तव सान्निध्यादेव हेतोः पुंसां मादृशानां महान्त्यपि सर्वाणि पातकानि सद्य एव नश्यन्ति, यथा विष्णोः सुरेतरा असुरा नश्यन्ति तद्वत् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः।
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः॥
मूलम्
अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः।
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्त106बान्धवः॥ ३५ ॥
अनुवाद (हिन्दी)
अवश्य ही पाण्डवोंके सुहृद् भगवान् श्रीकृष्ण मुझपर अत्यन्त प्रसन्न हैं; उन्होंने अपने फुफेरे भाइयोंकी प्रसन्नताके लिये उन्हींके कुलमें उत्पन्न हुए मेरे साथ भी अपनेपनका व्यवहार किया है॥ ३५॥
वीरराघवः
किञ्च भगवतः श्रीकृष्णस्य अनुग्रहकारितं भगवद्दर्शनादिकमन्यथा तद्दुर्लभमित्याह - अपि इति द्वाभ्याम् । तावत्तदनुग्रहस्त्वस्माकं सुलभ इति सम्भावयामीत्यभिप्रायेणाह - अपि इति । अपिशब्दः सम्भावनाद्योतकः । मे भगवान् कृष्णः प्रीतः प्रसन्नः स्यात् । तत्र हेतुं वदन् तं विशिनष्टि । पाण्डुसुताः प्रिया यस्य सः पाण्डुसुतानाञ्च प्रियः । अस्तु पाण्डुसुतप्रियः त्वत्प्रियस्तु कथमित्यत्रोभयत्रानुगतं हेतुं वदन् विशिनष्टि पितुर्भगिनी पितृष्वसा कुन्ती, तस्या अपत्यानि पि107तृष्वस्त्रेयाः तेषां प्रीत्यर्थं तद्गोत्रस्य पैतृष्वस्त्रेयसन्तानस्य आप्तबान्धवः पितृष्वसुः प्रियस्तत्प्रीत्यर्थं तत्पुत्रेषु पुनस्तत्प्रीत्यर्थं तत्पुत्रादिष्वित्येवं यावत्सन्तान108प्रिय इत्यर्थः । आत्तबान्धव इति पाठे आत्ता उपात्ताः परिगृहीताः बान्धवाः येन इष्टबान्धव इत्यर्थः । भगवत्प्रसादेन त्वद्दर्शनं जातं, तत्प्रसादस्तु तत्पितृष्वसुः सन्तानप्रभवत्वादिति भावः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम्।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः॥
मूलम्
अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम्।
नितरां म्रियमाणानां संसिद्धस्य वनी109यसः॥ ३६ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णकी कृपा न होती तो आप-सरीखे एकान्त वनवासी अव्यक्तगति परम सिद्ध पुरुष स्वयं पधारकर इस मृत्युके समय हम-जैसे प्राकृत मनुष्योंको क्यों दर्शन देते॥ ३६॥
वीरराघवः
अन्यथा भगवतः प्री110त्यभावेऽव्यक्तगतेः सांसारिकैः अलक्ष्यगतेर्वनीयसः अतिशयेन वनवासिनः संसिद्धस्य कृतकृत्यस्य ते तव दर्शनं नृणां संसारिणां तत्रापि नितरां म्रियमाणानां नोऽस्माकं कथं स्यात् । वनमस्यास्तीति वनी, वनवान् वनवासी प्रकृतऋषिसङ्घापेक्षयाऽतिशयेन वनीति वनीयान् तस्य वतीयसः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम्।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा॥
मूलम्
अतः पृच्छामि संसिद्धिं111 योगिनां परमं गुरुम्।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा112॥ ३७ ॥
अनुवाद (हिन्दी)
आप योगियोंके परम गुरु हैं, इसलिये मैं आपसे परम सिद्धिके स्वरूप और साधनके सम्बन्धमें प्रश्न कर रहा हूँ। जो पुरुष सर्वथा मरणासन्न है, उसको क्या करना चाहिये?॥ ३७॥
वीरराघवः
यतो दुर्लभमपि त्वद्दर्शनमभूदतो योगिनामपि परमं गुरुं त्वां संसिद्धिं पृच्छामि । संसिद्धिशब्दो मुक्तिसाधनोपचरितः । मुक्तिसाधनं पृच्छामीत्यर्थः । तदेव विशदयति । इह लोके पुरुषस्य मुमुक्षोः सर्वदा तत्रापि म्रियमाणस्य यत्कर्तव्यं मनोवाक्कायैः कर्तव्यं, मुक्तिसाधनतयेति शेषः । तत्पृच्छामीत्यन्वयः । तत् ब्रूहीत्युत्तरेणान्वयः ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो।
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम्॥
मूलम्
यच्छ्रोतव्यमथो ज113प्यं यत्कर्तव्यं नृभिः प्र114भो!
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम्॥ ३८ ॥
अनुवाद (हिन्दी)
भगवन्! साथ ही यह भी बतलाइये कि मनुष्यमात्रको क्या करना चाहिये। वे किसका श्रवण, किसका जप, किसका स्मरण और किसका भजन करें तथा किसका त्याग करें?॥ ३८॥
वीरराघवः
कर्तव्यमेव विभज्य पृच्छंस्तद्विपर्ययमकर्तव्यं च ब्रूहीत्याह - यत् इति । हे प्रभो! नृभिर्मुमुक्षुभिः, तत्रापि मुमूर्षुभि: यच्छ्रोतव्यादिक, यच्च विपर्ययमश्रोतव्यादि च तत्सर्वं ब्रूहि कथय । यत्कर्तव्यमित्युपात्तत115च्छ्रोतव्यादिकरण116 व्यतिरिक्तक117रणाभावे प्रश्नः स्मर्तव्यं मन्तव्यं भजनीयं प्रीतिपूर्वकमनुध्येयम्, अतो न पौनरुक्तत्यम् । अथो अपिचेत्यर्थः ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम्।
न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित्॥
मूलम्
नूनं भगवतो ब्रह्मन्! गृहेषु गृहमेधिनाम्।
न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित्॥ ३९ ॥
अनुवाद (हिन्दी)
भगवत्स्वरूप मुनिवर! आपका दर्शन अत्यन्त दुर्लभ है; क्योंकि जितनी देर एक गाय दुही जाती है, गृहस्थोंके घरपर उतनी देर भी तो आप नहीं ठहरते॥ ३९॥
वीरराघवः
यावत्तनुत्यागं एतत्पृष्टं प्रतिवदताऽनियतावस्थानेनापि त्वया अवस्थातव्यमित्यभिप्रायेण तदवस्थानमनियतत्वेन स्तौति - नूनम् इति । हे ब्रह्मन्! गृहमेधिनां गृहाश्रमिणां गृहेषु क्वचिदपि भगवतस्तवावस्थानं गोदोहमपि गौर्दुह्यते यावता कालेन तावान् कालो गोदोहनशब्देन विवक्षितः । तावत्कालमपि न लक्ष्यते हि118 ॥ ३९ ॥
श्लोक-४०
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः॥
मूलम्
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः॥ ४० ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—जब राजाने बड़ी ही मधुर वाणीमें इस प्रकार सम्भाषण एवं प्रश्न किये, तब समस्त धर्मोंके मर्मज्ञ व्यासनन्दन भगवान् श्रीशुकदेवजी उनका उत्तर देने लगे॥ ४०॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां प्रथमस्कन्धे शुकागमनं नामैकोनविंशोऽध्यायः॥ १९॥
॥ इति प्रथमः स्कन्धः समाप्तः॥
॥ हरिः ॐ तत्सत्॥
Misc Detail
॥ श्रीगणेशाय नमः॥
वीरराघवः
एवम् इति । इत्थं राज्ञा आभाषितः । अहो अद्य वयं ब्रह्मन्नित्यादिनोक्तः पृष्टः, अतः पृच्छामि संसिद्धिमित्यादिना पृष्टश्च स भगवान् धर्मज्ञः मुमुक्षूणां मुमूर्षूणां कर्तव्यधर्मयाथात्म्याभिज्ञो बादरायणिः श्रीशुकः श्लक्ष्णया विशुद्धया स119मृद्धया गिरा प्रत्यभाषत प्रश्नानामुत्तराण्युवाचेत्यर्थः ॥ ४० ॥
इति श्रीवत्सान्वयपयः पारावारराकासुधाकरस्य सर्वविद्यानिधेः चक्रवर्तिनः श्रीशैलगुरोस्सुतेन तच्चरणकमलपरिचर्याप्रसादिततत्सूक्तिसमधिगत श्रीमद्भागवतार्थहृदयेन श्रीवैष्णवदासेन श्रीवीरराघवविदुषा लिखितायां श्रीमद्भागवतचन्द्रचन्द्रिकाख्यायां श्रीमद्भागवतव्याख्यायां प्रथमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥ ॥ प्रथमः स्कन्धः समाप्तः ॥
-
W मयाऽपीवम ↩︎
-
W adds स्वकृतं ↩︎
-
W निरपराधे ↩︎
-
V य ↩︎
-
B,H,I,V ह्यघ, K,M अघ ↩︎
-
AF,GF व सद्य: ↩︎
-
W अमी वात्कृ ↩︎
-
AF,GF मूर्जं, V मृद्धि ↩︎
-
AF,GF मेऽस्तु ↩︎
-
K,M तासु ↩︎
-
H,I,V सचिन्त ↩︎
-
AF,GF ष्ट ↩︎
-
K,M क्ताद्विकृतिं त ↩︎
-
H,K,M,V ख्यात् ↩︎
-
K,M द ↩︎
-
H,V लोकौ ↩︎
-
K,M विमृश्य तौ, N विमर्शितो ↩︎
-
H,K,M,V भि ↩︎
-
K,M पुनात्यशेषानुभयत्र लोकान् ↩︎
-
W मनुपविश्य ↩︎
-
K,M स्थाय ↩︎
-
I दधौ ↩︎
-
W adds भावना ↩︎
-
K,M धि ↩︎
-
W adds इत्यर्थः ↩︎
-
H,V,W उचथ्य ↩︎
-
AF,GF प्रमतिः सुबाहुः ; K,M प्रमतीध्यवाहौ ↩︎
-
H र्ष्णि, V र्षि ↩︎
-
B,H,V भ ↩︎
-
AF,GF य: ↩︎
-
W च ते ↩︎
-
W adds तान् । ↩︎
-
AF,GF महर्षि ↩︎
-
AF,GF नानर्षिसङ्घान् पुरतः स ↩︎
-
H,V,W रांस्तान् स ↩︎
-
AF,GF महत् ↩︎
-
K,M र्घ्य ↩︎
-
K,M शौचमाराद् ; B,W शौचादारात् ↩︎
-
K,M मेऽस्त्वद्य परावरेशे ↩︎
-
K,M विष्टं ↩︎
-
K,M यान्तु ↩︎
-
H,V काख्यो ↩︎
-
V त्य ↩︎
-
W प्रकृते ↩︎
-
W त्यत्राऽऽह ↩︎
-
A,B त्व ↩︎
-
H,V रतिप्रस ↩︎
-
H,K,M,V राजा व्यवसाय ↩︎
-
B,K,M,W सुते न्यस्त ↩︎
-
H,V तु तस्मिन्न; W बतास्मिन्न ↩︎
-
W र्मुहुर्मुहु ↩︎
-
W adds तस्मिन् ↩︎
-
AF,GF यस्ते समु, B,H,V यस्तं समु ↩︎
-
H,K,M,V नु ↩︎
-
AF,GF भवेत् धुवं कृष्णमनु ↩︎
-
W वर्तितेषु ↩︎
-
W adds हि ↩︎
-
B,I,K.M थ ↩︎
-
K,M अजं ↩︎
-
W इदं ↩︎
-
AF,GF त्य तदृषिगणस्य वचः; B त्यर्षिगण, H,V त्य तदृषिवचः ↩︎
-
I,K श्च्युद् ↩︎
-
K,M शापव्य ↩︎
-
V,W अभाष ↩︎
-
N ता ↩︎
-
B,K,M,W व ↩︎
-
B,K,M,W युक्त:; H,N,V युक्तम् ↩︎
-
W ष ↩︎
-
K,M देवा ↩︎
-
AF,GF पिष्टे ↩︎
-
B,I नामुत्र; K,M वोऽमुत्र ↩︎
-
K,M शीलाः ↩︎
-
A,B था ↩︎
-
A,B add पृच्छामि ↩︎
-
K,M प्रश्न ↩︎
-
B दं ↩︎
-
H,V हि पृच्छे ↩︎
-
A,B श्र ↩︎
-
K,M स्तु ↩︎
-
Here ends the 19th Chapter and the remaining Slokas of this Adhyaya form the 20th chapter in K & M. ↩︎
-
A,B श्र ↩︎
-
W पृच्छ्यमेव ↩︎
-
W adds तत् ↩︎
-
H,V गम ↩︎
-
W त्या ↩︎
-
W स्वानुभवे ↩︎
-
W ष: ↩︎
-
K,M रुणाक्षो ↩︎
-
K,M कर्णं शुभा ↩︎
-
A,B गूढमपि सं ↩︎
-
W अष्ट द्व्यष्ट ↩︎
-
B,W add शरीरं ↩︎
-
B,H,K,M,N,V,W वक्र ↩︎
-
W क्त ↩︎
-
W चीवर ↩︎
-
I सदाऽपीव्य, AF,GF सदा पीन ↩︎
-
H,V रुचिरं स्मयेन ↩︎
-
K,M ता मुनयश्चासने, W ता मुनयः स्वासने ↩︎
-
W adds शरीरस्य ↩︎
-
AF,GF मुनये ↩︎
-
K,M येऽभ्यागताय ↩︎
-
B,I,N,W जहार ↩︎
-
H,V सुर ↩︎
-
W adds वः ↩︎
-
K पुंसः ↩︎
-
K,M,W प्त ↩︎
-
W पैतृष्वसेया ↩︎
-
W नं प्रियः ↩︎
-
K,M री ↩︎
-
B प्रीतत्वाभावे ↩︎
-
K,M द्धं ↩︎
-
H,K,M,V दा ↩︎
-
K,M,N जायं ↩︎
-
K,M सदा ↩︎
-
W श्रोत्रादि ↩︎
-
W ण ↩︎
-
W करणव्यापारप्रशूनः ↩︎
-
W adds न दृश्यते हि ↩︎
-
W मृद्व्या ↩︎