१८ विप्रशापोपलम्भनम्

[अष्टादशोऽध्यायः]

भागसूचना

राजा परीक्षित् को शृंगी ऋषिका शाप

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः।
अनुग्रहाद् भगवतः कृष्णस्याद‍्भुतकर्मणः॥

मूलम्

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः।
अनुग्रहाद्भगवतः कृष्णस्याद‍्भुतकर्मणः॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—अद‍्भुत कर्मा भगवान् श्रीकृष्णकी कृपासे राजा परीक्षित् अपनी माताकी कोखमें अश्वत्थामाके ब्रह्मास्त्रसे जल जानेपर भी मरे नहीं॥ १॥

वीरराघवः

अथैतत्प्रबन्धपिपृच्छ्षिां उद्बोधयितुं पारीक्षितं वृत्तान्तं समासतः वदन्नुपसंहरति - इति दशभिः । यो वै परीक्षित् मातुरुदरे द्रौण्यस्त्रेण विप्लुष्टः दग्धोऽपि अद्भुतकर्मणः कृष्णस्य भगवतोऽनुग्रहात् न मृतः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात्।
न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः॥

मूलम्

ब्रह्मको1पोत्थिताद्यस्तु तक्षकात्प्राणविप्लवा2त्।
न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः॥ २ ॥

अनुवाद (हिन्दी)

जिस समय ब्राह्मणके शापसे उन्हें डसनेके लिये तक्षक आया, उस समय वे प्राणनाशके महान् भयसे भी भयभीत नहीं हुए; क्योंकि उन्होंने अपना चित्त भगवान् श्रीकृष्णके चरणोंमें समर्पित कर रखा था॥ २॥

वीरराघवः

यश्च ब्रह्मकोपेन ब्राह्मणशापात्मकेन उत्थितात् समुत्थितात् प्राणानां विप्लवः नाशः यस्मात्, उरुभयं यस्मात् तक्षकात् न सम्मुमोह मोहं न प्राप्तः, नाबिभेदित्यर्थः । कथम्भूतः ? भगवत्येव अर्पितः आशयः अन्तःकरणं येन तथाभूतस्सन् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम्॥

मूलम्

उत्सृज्य सर्वतस्सङ्गं विज्ञाता3जितसंस्थितिः।
वैयास4केर्जहौ शिष्यो गङ्गायां स्वं कलेबरम्॥ ३ ॥

अनुवाद (हिन्दी)

उन्होंने सबकी आसक्ति छोड़ दी, गंगातटपर जाकर श्रीशुकदेवजीसे उपदेश ग्रहण किया और इस प्रकार भगवान‍्के स्वरूपको जानकर अपने शरीरको त्याग दिया॥ ३॥

वीरराघवः

स राजा सर्वतः सर्वत्र देहतदनुबन्ध्यादिषु समुत्सृज्य वैयासकेः शुकस्य शिष्यो भूत्वा विज्ञातेऽजिते भगवति संस्थितिः निष्ठा यस्य सः स्वकलेवरं गतयां जहौ तत्याज ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम्।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम्॥

मूलम्

नोत्तम5श्लोकवार्तानां जु6षतां तत्कथामृतम्।
स्यात्सम्भ्रमोन्तकालेऽपि स्मरतां तत्पदाम्बुजम्॥ ४ ॥

अनुवाद (हिन्दी)

जो लोग भगवान् श्रीकृष्णकी लीलाकथा कहते रहते हैं, उस कथामृतका पान करते रहते हैं और इन दोनों ही साधनोंके द्वारा उनके चरण-कमलोंका स्मरण करते रहते हैं, उन्हें अन्तकालमें भी मोह नहीं होता॥ ४॥

वीरराघवः

मोहाभावमेव सहेतुकमुपपादयति - नेति । उत्तमश्लोकस्य भगवतः वार्ता येषां तेषां न भयं मोहः वा अस्तीत्यर्थः । कि7मु तस्योत्तमस्य उत्तमश्लोकस्य कथामृतं जुषतां सेवमानानां तत्पदाम्बुजं स्मरतां अन्तकालेऽपि सम्भ्रमः 8स्यात् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः।
यावदीशो महानुर्व्यामाभिमन्यव एकराट्॥

मूलम्

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः।
यावदीशो महानुर्व्या9माभिमन्यव एकराट्॥ ५ ॥

अनुवाद (हिन्दी)

जबतक पृथ्वीपर अभिमन्युनन्दन महाराज परीक्षित् सम्राट् रहे, तबतक चारों ओर व्याप्त हो जानेपर भी कलियुगका कुछ भी प्रभाव नहीं था॥ ५॥

वीरराघवः

सिंहावलोकनन्यायेन यस्य पालयतः क्षोणीं इत्यनेन अभिप्रेतमुपपादयति - तावदिति । इह लोके सर्वत्र प्रविष्टोऽपि कलिः यावदुव्यां अभिमन्युसुत एकराट् स्वतुल्यराजान्तररहितः ईश्वरः अधिपतिः बभूव तदाज्ञा वा यावदनुवृत्ता बभूव तावत् कलिः न प्रभवेत् न समर्थो बभूव ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम्।
तदैवेहानुवृत्तोऽसावधर्मप्रभवः कलिः॥

मूलम्

यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम्।
तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः॥ ६ ॥

अनुवाद (हिन्दी)

वैसे तो जिस दिन, जिस क्षण श्रीकृष्णने पृथ्वीका परित्याग किया, उसी समय पृथ्वीमें अधर्मका मूलकारण कलियुग आ गया था॥ ६॥

वीरराघवः

कदा प्रविष्टः इत्यत्राह - यस्मिन्नहनि यह्रोव क्षणे भगवान् कृष्णः गां भूमिं उत्ससर्ज तत्याज, तस्मिन्नेवाहनि क्षणे चा10सावधर्मप्रभवः कलिः अनुप्रवृत्तः प्रविष्टो बभूव ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक्।
कुशलान्याशु सिद्‍ध्यन्ति नेतराणि कृतानि यत्॥

मूलम्

ना11नुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक्।
कुशलान्याशु सिद्‍ध्यन्ति नेतराणि कृतानि यत्॥ ७ ॥

अनुवाद (हिन्दी)

भ्रमरके समान सारग्राही सम्राट् परीक्षित् कलियुगसे कोई द्वेष नहीं रखते थे; क्योंकि इसमें यह एक बहुत बड़ा गुण है कि पुण्यकर्म तो संकल्पमात्रसे ही फलीभूत हो जाते हैं, परन्तु पापकर्मका फल शरीरसे करनेपर ही मिलता है; संकल्पमात्रसे नहीं॥ ७॥

वीरराघवः

ननु कलिं कुतो न हतवानित्यत्राह - नेति । सम्राट् सार्वभौमः परीक्षित् कलिं नानुद्वेष्टि तन्मरणपर्यन्तं द्वेषं न कृतवानित्यर्थः । वर्तमानसामीप्ये लट् । कुतः यतः सारङ्गः इव भृङ्गवत् सारभुक् सारानुभविता सारग्राहीति यावत् सारङ्गो यथा कमलगतं सारं मकरन्दं गृह्णाति न तु तन्नाशयति तद्वत् कलिगतसारग्राहित्वात् न तं जघानेत्यर्थः । कोऽसौ तद्गत12सारः यज्जिघृक्षुस्तं ना13नुद्वेष्टीत्यत्राह - कुशलानीति । यत् यस्मिन् कलौ कृतानि कुशलानि भगवन्नामकीर्तनादिरूपाणि पुण्यकर्माणि आशु सिद्ध्यन्ति भगवत्प्राप्तिमावहन्ति इतराणि अकुशलकर्माणि पापानीति यावत् । तान्याशु न सिद्ध्यन्ति, न फलदानि भवन्ति । एतत्सारभुक् नानुद्वेष्टि । अनेन कृतादियुगेषु कुशलानां चिरेण फलदत्वं इतरेषां तु आश्विति सूचितम् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

किं नु बालेषु शूरेण कलिना धीरभीरुणा।
अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते॥

मूलम्

किं14 नु बालेषु शूरेण कलिना धी15रभीरुणा।
अप्रमत्तः प्रमत्तेषु यो वृ16को नृषु वर्तते॥ ८ ॥

अनुवाद (हिन्दी)

यह भेड़ियेके समान बालकोंके प्रति शूरवीर और धीर वीर पुरुषोंके लिये बड़ा भीरु है। यह प्रमादी मनुष्योंको अपने वशमें करनेके लिये ही सदा सावधान रहता है॥ ८॥

वीरराघवः

ननु कलिना अभिभूतैः जनैः कुशलानि न कृतान्येव स्युः, येनाऽऽशु सिद्ध्येयुरित्यत्राह - किन्नु इति । बालेषु मूर्खेषु विषयभूतेषु शूरेण धीरेषु विवेकिषु तु भीरुणा कलिना किन्नु कृतं स्यात् ? न कोऽप्यनर्थः कृतः स्यादित्यर्थः । तदेव दृष्टान्तेन दर्शयन् विशिनष्टि - यः कलिर17विषु वृक इव प्रमत्तेष्वेव जनेषु अप्रमत्तो वर्तते ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया।
वासुदेवकथोपेतमाख्यानं यदपृच्छत॥

मूलम्

उपवर्णितमेतद्वः18 पुणयं पारीक्षितं मया।
वासुदेवकथोपेतं आख्यानं यदपृच्छत॥ ९ ॥

अनुवाद (हिन्दी)

शौनकादि ऋषियो! आपलोगोंको मैंने भगवान‍्की कथासे युक्त राजा परीक्षित् का पवित्र चरित्र सुनाया। आपलोगोंने यही पूछा था॥ ९॥

वीरराघवः

यत् यूयं मामपृच्छत तदेतत् वासुदेवस्य कथोपेतं अत एव शृण्वतां वदतां च पुण्यावहं एतत्परीक्षितः सम्बन्ध्याख्यानं मया वः युष्मभ्यं उपवर्णितम् ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

या याः कथा भगवतः कथनीयोरुकर्मणः।
गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः॥

मूलम्

या याः कथा भगवतः कथनीयोरुकर्मणः।
गुणकर्माश्र19याः पुम्भिः सं20सेव्यास्ता बुभूषुभिः॥ १० ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण कीर्तन करनेयोग्य बहुत-सी लीलाएँ करते हैं। इसलिये उनके गुण और लीलाओंसे सम्बन्ध रखनेवाली जितनी भी कथाएँ हैं, कल्याणकामी पुरुषोंको उन सबका सेवन करना चाहिये॥ १०॥

वीरराघवः

पिपृच्छिषां उद्बोधयितुमेव साकल्येन भगवत्कथानां श्रोतव्यतामाह - या इति । कथनीयान्यनुरूपाणि ब21हूनि कर्माणि चेष्टितानि यस्य तस्य भगवतो गुणाः कर्माणि च आश्रयाः वि22षयाः यासां ताः या या कथाः ताः बुभूषुभिः पुम्भिः संसेव्याः ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

23ऋषय ऊचुः

विश्वास-प्रस्तुतिः

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः।
यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः॥

मूलम्

सूत! जीव! समास्सौम्य! शाश्वतीर्विशदं यशः।
यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि नः॥ ११ ॥

अनुवाद (हिन्दी)

ऋषियोंने कहा—सौम्यस्वभाव सूतजी! आप युग-युग जीयें; क्योंकि मृत्युके प्रवाहमें पड़े हुए हमलोगोंको आप भगवान् श्रीकृष्णकी अमृतमयी उज्ज्वल कीर्तिका श्रवण कराते हैं॥ ११॥

वीरराघवः

यदुक्तं “उत्सृज्य सर्वतस्सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जही शिष्यः” (भाग 1-18-3) इति शुकोपदिष्टैतत्पुराणज24ज्ञानेन मुक्तः बभूवेति तद्वैयासक्युपदिष्टपुराणश्रवणद्वारा तज्जन्यज्ञानलिप्सुः पृच्छति शौनकः - सूतेति सप्तभिः । तावज्जन्ममरणाद्यनन्तदुःखावहदुस्सहसंसृतिक्षपणद्वारा निरतिशयानन्दरूपपरब्रह्मप्राप्तिहेतुं तत्कथामृतं पाययन्तं महोपकर्तारं सूतमाशास्ते सूतेति । हे सूत! हे सौम्य! त्वं शाश्वतीः समाः वत्सरान् जीव । “कालाध्वनोरत्यन्तसंयोगे” (अष्टा. 2-3-5) इति द्वितीया । कुत एवमाशास्य इत्यत्र तं विशिनष्टि - यस्त्वं कृष्णस्य विशदं विपुलं अमृततुल्यं यशः मर्त्यानां नः अस्मभ्यं शंससि कथयसि अतो हर्षातिशयादशास्य इति भावः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान्।
आपाययति गोविन्दपादपद्मासवं मधु॥

मूलम्

कर्मण्यस्मिन्ननाश्वासे25 धूमधूम्रात्मनां भवान्।
आपाययति गोविन्दपादपद्मासवं मधु॥ १२ ॥

अनुवाद (हिन्दी)

यज्ञ करते-करते उसके धूएँसे हमलोगोंका शरीर धूमिल हो गया है। फिर भी इस कर्मका कोई विश्वास नहीं है। इधर आप तो वर्तमानमें ही भगवान् श्रीकृष्णचन्द्रके चरणकमलोंका मादक और मधुर मधु पिलाकर हमें तृप्त कर रहे हैं॥ १२॥

वीरराघवः

तदेव व्यनक्ति - कर्मणीति । अनाश्वासे अविश्वसनीये निर्भयत्वानिमित्ते अस्मिन् यज्ञादिकर्मणि निष्ठानामिति शेषः धूमधूम्रात्मनां अज्ञानावृतमनसां यद्वा धूमेन यज्ञि26येन धूम्रः आत्मा शरीरं येषां केवलकर्मजडानामिति भावः । भवान् गोविन्दस्य पादपद्मयोः आसवं अमृतं मधु मधुरं पाययति ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः॥

मूलम्

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम्।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताऽऽशिषः॥ १३ ॥

अनुवाद (हिन्दी)

भगवत्-प्रेमी भक्तोंके लवमात्रके सत्संगसे स्वर्ग एवं मोक्षकी भी तुलना नहीं की जा सकती; फिर मनुष्योंके तुच्छ भोगोंकी तो बात ही क्या है॥ १३॥

वीरराघवः

यत एवमत एव स्वर्गमोक्षादयोऽपि न भगवत्सङ्गिसङ्गलेशेनापि तुल्याः इत्यभिप्रायेणाह - तुलयाम इति । भगवत्सङ्गिनः त्वादृशस्य यः सङ्गः तस्य लवेन लेशमात्रेणापि स्वर्गं अपुनर्भवं मोक्षं चापि न तुलयाम न तुल्यं मन्यामह इत्यर्थः । यतस्तेन स्वर्गमोक्षावेव न तुलयामः किं पुनः मर्त्यानां आशिषः अर्थकामादीन् तुलयाम इति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

को नाम तृप्येद् रसवित्कथायां
महत्तमैकान्तपरायणस्य।
नान्तं गुणानामगुणस्य जग्मु-
र्योगेश्वरा ये भवपाद्ममुख्याः॥

मूलम्

को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य।
नान्तं गुणानामगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः॥ १४ ॥

अनुवाद (हिन्दी)

ऐसा कौन रस-मर्मज्ञ होगा, जो महापुरुषोंके एकमात्र जीवनसर्वस्व श्रीकृष्णकी लीला-कथाओंसे तृप्त हो जाय? समस्त प्राकृत गुणोंसे अतीत भगवान‍्के अचिन्त्य अनन्त कल्याणमय गुणगणोंका पार तो ब्रह्मा, शंकर आदि बड़े-बड़े योगेश्वर भी नहीं पा सके॥ १४॥

वीरराघवः

ननु अश्रुतभगवद्गुणकर्मवत् किं पृच्छसि ? तत्राह - इति । महत्तमानां एकान्तं परं उत्कृष्टं अयनं प्राप्यः प्रापकः आधारश्च; ईयते इत्ययनं, यन्त्यनेन इत्ययनं, यन्त्यस्मिन्नित्ययनं इति त्रिधा व्युत्पन्नानां अयनशब्दानां तन्त्रेण निर्देशात् तस्य भगवतः कथायां विषयभूतायां रसज्ञश्चेत् को नाम पुमान् तृप्येत न कोऽपीत्यर्थः । ननु श्रुतानामेव भगवद्गुणानां कर्मणां पुनः श्रवणेन को वा रसः निष्पद्यते इत्याशङ्कां निराकुर्वन् भगवन्तं विशिनष्टि - यस्यागुणस्य हेयगुणरहितस्य गुणानां अन्तं अवधिं रुद्रचतुर्मुखादयः योगे27श्वराः अपि न जग्मुः । अश्रुतानामपि गुणकर्मणां आनन्त्यात् श्रुतानामपि नवनवायमानत्वाच्च न कोऽपि तृप्येदिति भावः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तन्नो भवान् वै भगवत्प्रधानो
महत्तमैकान्तपरायणस्य।
हरेरुदारं चरितं विशुद्धं
शुश्रूषतां नो वितनोतु विद्वन्॥

मूलम्

28न्नो भवान् वै भगवत्प्रधानः महत्तमैकान्तपरायणस्य।
हरेरुदारं29 चरितं विशुद्धं शुश्रूषतां नो वितनोतु वि30द्वन्॥ १५ ॥

अनुवाद (हिन्दी)

विद्वन्! आप भगवान‍्को ही अपने जीवनका ध्रुवतारा मानते हैं। इसलिये आप सत्पुरुषोंके एकमात्र आश्रय भगवान‍्के उदार और विशुद्ध चरित्रोंका हम श्रद्धालु श्रोताओंके लिये विस्तारसे वर्णन कीजिये॥ १५॥

वीरराघवः

यत एवं अतो महत्तमैकान्तपरायणस्य हरेरुदारं विपुलमाचरितं चेष्टितं विशुद्धं शृण्वतां वदताञ्च विशुद्ध्यावहं भगवानेव प्रधानः मु31ख्याश्रयः यस्य स भवान् हे विद्वन्! भगवद्गुणकर्मयाथात्म्याभिज्ञ! हरेरुदारं चरितं श्रोतुमिच्छतां नः अस्मभ्यं वितनोतु वि32स्तरतः कथयतु इति यावत् ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

स वै महाभागवतः परीक्षिद्
येनापवर्गाख्यमदभ्रबुद्धिः।
ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम्॥

मूलम्

स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः।
ज्ञानेन वैयास33किशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्॥ १६ ॥

वीरराघवः

सम्प्रति प्रष्टव्यं पृच्छति - स वा इति द्वाभ्याम् । स उक्तविधो महाभागवतः अनल्पबुद्धिः परीक्षित् येन वैयासकिशब्दितेन शुकोपदिष्टपुराणजेन ज्ञानेन गरुडध्वजस्य भगवतः पादमूलं भेजे प्रा34प्तः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तन्नः परं पुण्यमसंवृतार्थ-
माख्यानमत्यद‍्भुतयोगनिष्ठम्।
आख्याह्यनन्ताचरितोपपन्नं
पारीक्षितं भागवताभिरामम्॥

मूलम्

तन्नः परं पुण्यमसंवृ35तार्थमाख्यानमत्यद‍्भुतयोगनिष्ठम्।
आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम्॥ १७ ॥

अनुवाद (हिन्दी)

भगवान‍्के परम प्रेमी महाबुद्धि परीक्षित् ने श्रीशुकदेवजीके उपदेश किये हुए जिस ज्ञानसे मोक्षस्वरूप भगवान‍्के चरणकमलोंको प्राप्त किया, आप कृपा करके उसी ज्ञान और परीक्षित् के परम पवित्र उपाख्यानका वर्णन कीजिये; क्योंकि उसमें कोई बात छिपाकर नहीं कही गयी होगी और भगवत्प्रेमकी अद‍्भुत योगनिष्ठाका निरूपण किया गया होगा। उसमें पद-पदपर भगवान् श्रीकृष्णकी लीलाओंका वर्णन हुआ होगा। भगवान‍्के प्यारे भक्तोंको वैसा प्रसंग सुननेमें बड़ा रस मिलता है॥ १६-१७॥

वीरराघवः

तदाख्यानं पुराणं नः अस्मभ्यं आख्याहि कथय । कथम्भूतम् ? वदतां शृण्वताश्च परं पुण्यं निरतिशयपुण्यावहम् । यद्वा, परमुत्कृष्टं स्वतुल्याधिकपुराणान्तररहितं असंवृताः असङ्कुचिताः स्पष्टा वा अर्था मुमुक्षूणामुपादेयाः शास्त्रार्थाः प्रतिपाद्या यस्मिन् । अत्यद्भुता भगवद्भक्तियोगनिष्ठा यस्मात् । अनन्तस्य अपरिच्छिन्नस्वरूपस्वभावस्य भगवतः आचरितैः चेष्टितैः प्रतिपाद्यैः उपपन्नं 36अत एव भागवतानामभिरामं श्रीभागवतमिति भावः । भागवतशब्दस्य अन्यगामित्वव्युदासाय विशिनष्टि - पारीक्षितं परीक्षिता श्रुतम् ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

अहो वयं जन्मभृतोऽद्य हास्म
वृद्धानुवृत्त्यापि विलोमजाताः।
दौष्कुल्यमाधिं विधुनोति शीघ्रं
महत्तमानामभिधानयोगः॥

मूलम्

अहो वयं जन्मभृतोऽ37द्य हाऽऽस्म वृद्धानुवृत्त्याऽपि विलोमजाताः।
दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः॥ १८ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—अहो! विलोम* जातिमें उत्पन्न होनेपर भी महात्माओंकी सेवा करनेके कारण आज हमारा जन्म सफल हो गया। क्योंकि महापुरुषोंके साथ बातचीत करनेमात्रसे ही नीच कुलमें उत्पन्न होनेकी मनोव्यथा शीघ्र ही मिट जाती है॥ १८॥

पादटिप्पनी
  • उच्च वर्णकी माता और निम्न वर्णके पितासे उत्पन्न संतानको ‘विलोमज’ कहते हैं। सूत जातिकी उत्पत्ति इसी प्रकार ब्राह्मणी माता और क्षत्रिय पिताके द्वारा होनेसे उसे शास्त्रोंमें विलोम जाति माना गया है।
वीरराघवः

इत्थं भगवद्गुणानुवर्णने प्रवर्तितः तावत् आत्मानं कृतार्थं मन्यते - अहो इति । स्वभाग्यं शिरःकम्पेनाऽऽविष्करोति । किं तद्भाग्यमित्यत्र तदेव दर्शयति - वयं विलोमजाता अपि ब्राह्मण्यां क्षत्रियाज्जाता अपि वृद्धानां ज्ञानेन वयसा जन्मना च वृद्धानां भ38वतामनुवृत्त्या हेतुभूतया अधुना जन्मभृतः प्रशस्तदेहधृ39तः आस्म अभवाम । हेत्याश्चर्ये हर्षे वा । विलोमजानामपि हेत्वन्तरेण प्राशस्त्यमूलकः हर्षः आश्चर्यं च युक्तमेवै40तदित्यभिप्रायेणाह - दौष्कुल्यमिति । महत्तमानां त्वादृशानां अभिधानयोगः श्रवणव्याख्यानसम्बन्धः दौष्कुल्यं दुष्कुलप्रभवत्वप्रयुक्तं हीनत्वं आधिं मनःक्लेशं वा41ऽऽशु धुनोति निरस्यति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

कुतः पुनर्गृणतो नाम तस्य
महत्तमैकान्तपरायणस्य।
योऽनन्तशक्तिर्भगवाननन्तो
महद‍्गुणत्वाद् यमनन्तमाहुः॥

मूलम्

कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य।
योऽनन्तशक्तिर्भगवाननन्तो महद‍्गुणत्वाद्यमनन्तमाहुः॥ १९ ॥

अनुवाद (हिन्दी)

फिर उन लोगोंकी तो बात ही क्या है, जो सत्पुरुषोंके एकमात्र आश्रय भगवान‍्का नाम लेते हैं! भगवान‍्की शक्ति अनन्त है, वे स्वयं अनन्त हैं। वास्तवमें उनके गुणोंकी अनन्तताके कारण ही उन्हें अनन्त कहा गया है॥ १९॥

वीरराघवः

यतो महत्तमानामभिधानयोगः एव आधिं दौष्कुल्यं च विधुनोति, कुतः पुनः साक्षान्महत्तमैकान्तपरायणस्य भगवतो नाम गुणतः कीर्त्रयतः पुंसः दोष्कुल्यमाधिश्च सम्भाव्येत ? ननु कोऽसौ महत्तमैकान्तपरायणभूतः, के तस्य महिमानः, तन्नामग्रहणमात्रस्यैव क42थंतरां दौष्कुल्यादिपरिहारकत्वम् ? कथन्तरां तद्भताभिधानयोगस्य तत्त्वं इत्यतः तं विशिषन्नाह - यो भगवान् पूर्णषाड्गुण्यः यश्च अनन्तशक्तिः अनन्ताः शक्तयः यस्य तथाभूतः पावकस्य दाहकत्वशक्तिवन्नामाभिधातृगतदौष्कुल्याद्यपनोदकशक्तिरस्तीति भावः । यश्च स्वरूपेणानन्तः यश्च महद्गुणत्वात् अनन्तगुणत्वात् अनन्तमाहुः “सत्यं ज्ञानमनन्तम्” (तैत्ति. उ. 2-1-1) इत्यादयो वेदान्ताः । तस्य नाम गृणतः इत्यन्वयः । अनन्तः अनन्तगुणत्वाच्च इत्यनेन तस्मिन् स्वरूपतः गुणतश्च आनन्त्यं अनन्तपदप्रवृत्तिनिमित्तमिति सूचितम् । अनेन स्व43भक्ताभिधानयोगस्य दौष्कुल्याद्यपनोद44नोपयुक्तानेकगुणाश्रयत्वमुक्तम् । गुणानां महत्त्वं नाम आनन्त्यं अनितरसाधारण्यं च4546नितरसाधारणानवधिकगुणत्वात् इत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

एतावतालं ननु सूचितेन
गुणैरसाम्यानतिशायनस्य।
हित्वेतरान् प्रार्थयतो विभूति-
र्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः॥

मूलम्

एतावताऽलं न47नु सूचितेन गुणैरसाम्या48नतिशा49यनस्य।
हित्वेतरान्प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः॥ २० ॥

अनुवाद (हिन्दी)

भगवान‍्के गुणोंकी समता भी जब कोई नहीं कर सकता, तब उनसे बढ़कर तो कोई हो ही कैसे सकता है। उनके गुणोंकी यह विशेषता समझानेके लिये इतना कह देना ही पर्याप्त है कि लक्ष्मीजी अपनेको प्राप्त करनेकी इच्छासे प्रार्थना करनेवाले ब्रह्मादि देवताओंको छोड़कर भगवान‍्के न चाहनेपर भी उनके चरणकमलोंकी रजका ही सेवन करती हैं॥ २०॥

वीरराघवः

महद्गुणशब्दाभिप्रेतमेव विशदयन् तत्सङ्गृह्य दर्शयामीत्यभिप्रायेणाऽऽह - एतावतेति । गुणैर्न विद्यते साम्यं यस्य तैः न विद्यते अतिशायनं अतिशयः यस्य असाम्यश्चासौ अनतिशायनः तस्य निस्समाभ्यधिकगुणस्येत्यर्थः । सूचितेन दिङ्मात्रदर्शितेन एतावता महिम्ना अलं बहुना किं ? तद्दर्शनीयमिति भावः । कियता विभूतिर्लक्ष्मीः प्रार्थयमानानपि इतरान् ब्रह्मादीन् हित्वा अनभीप्सोः अकामयमानस्यापि यस्य भगवतः अङ्घ्रिरेेणुं जुषते सेवते इति इयता श्रियःपतित्वमेव तन्मात्रप्रदर्शनायालमित्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भः।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थः॥

मूलम्

अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः।
सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः॥ २१ ॥

अनुवाद (हिन्दी)

ब्रह्माजीने भगवान‍्के चरणोंका प्रक्षालन करनेके लिये जो जल समर्पित किया था, वही उनके चरणनखोंसे निकलकर गंगाजीके रूपमें प्रवाहित हुआ। यह जल महादेवजीसहित सारे जगत‍्को पवित्र करता है। ऐसी अवस्थामें त्रिभुवनमें श्रीकृष्णके अतिरिक्त ‘भगवान्’ शब्दका दूसरा और क्या अर्थ हो सकता है॥ २१॥

वीरराघवः

50न्यामपि तन्माहात्म्यदिशं दर्शयामीत्यभिप्रायेणाह - अथापीति द्वाभ्याम् । अथापि अपि च पुनरपि वेत्यर्थः । यस्य भगवतः वामपादाङ्गुष्ठनखावसृष्टं अर्वाक् प्रसृतं विरिञ्चेन ब्रह्मणा उपहृतं समर्पितं अर्हणाम्भः अर्घ्यजलं गङ्गात्मकं कर्तृ सेशं इन्द्रादिलोकपालैः सहितं जगत्पुनाति इत्येताव51ता सूचितेन महिम्ना अलमित्यर्थः । एवंविधमहागुणगणयुक्तात् श्रीनिवासात् तीर्थपदात् मुकुन्दात् अन्यः को वा लोके भगवत्पदार्थः भगवत्पदाभिधेयः ज्ञानशक्तिबलैश्वर्यवी52र्यतेजःप्रभृत्यसङ्ख्येयकल्याणगुणपौष्कल्यवदभिधायकेन भगवच्छब्देन प्रवृत्तिनिमित्तानामाश्रयः पुरुषोत्तमादन्यः को वा अभिधीयते ? न कोऽपीत्यर्थः । एतेन योऽनन्तशक्तिः भगवानित्यत्र कोऽसौ भगवान् ? इत्याकाङ्क्षा शामिता ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम्।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशमः स्वधर्मः॥

मूलम्

यत्रानुरक्तास्सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम्।
व्रजन्ति त53त्पारमहंस्यम54न्त्यं यस्मिन्नहिंसोपश55मस्स्वधर्मः॥ २२ ॥

अनुवाद (हिन्दी)

जिनके प्रेमको प्राप्त करके धीर पुरुष बिना किसी हिचकके देह-गेह आदिकी दृढ़ आसक्तिको छोड़ देते हैं और उस अन्तिम परमहंस-आश्रमको स्वीकार करते हैं, जिसमें किसीको कष्ट न पहुँचाना और सब ओरसे उपशान्त हो जाना ही स्वधर्म होता है॥ २२॥

वीरराघवः

यत्रेति । यत्र यस्मिन् भगवति मुकुन्दे अनुरागयुक्तास्सन्तः धीराः जितेन्द्रियाः सहसा अकस्मादेव देहे आदिशब्दात्तदनुबन्ध्यादिषु चोढं रूढमूलं सङ्गमपोह्य तत्पारमहंस्यं अन्त्यं तुरीयं परमहंसाश्रमं व्रजन्ति यस्मिन् पारमहं56स्याश्रमे अहिंसा उपशमश्च स्वानुरूपः धर्मः दयादिरस्ति ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अहं हि पृष्टोऽर्यमणो भवद‍्भि-
राचक्ष आत्मावगमोऽत्र यावान्।
नभः पतन्त्यात्मसमं पतत्त्रिण-
स्तथा समं विष्णुगतिं विपश्चितः॥

मूलम्

अहं हि पृष्टोऽर्य57मणो भवद‍्भिराचक्ष आत्मावगमोऽत्र यावान्।
नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः॥ २३ ॥

अनुवाद (हिन्दी)

सूर्यके समान प्रकाशमान महात्माओ! आपलोगोंने मुझसे जो कुछ पूछा है, वह मैं अपनी समझके अनुसार सुनाता हूँ। जैसे पक्षी अपनी शक्तिके अनुसार आकाशमें उड़ते हैं, वैसे ही विद्वान् लोग भी अपनी-अपनी बुद्धिके अनुसार ही श्रीकृष्णकी लीलाका वर्णन करते हैं॥ २३॥

वीरराघवः

एवंविधानन्तमाहात्म्यशालिनः भगवतः माहात्म्यं वर्णयितुमहं न प्रभुः अथापि यथामति वर्णयामीत्यभिप्रायेणाऽऽह - अहमिति । अर्यमणः! हे ज्ञानाधिकाः! ऋगतौ गत्यर्थाः बुद्ध्यर्था । अत्र भगवन्माहात्म्ये भवद्भिः पृष्टोऽहम् यद्वा हे! अर्यमणः! सूर्याः! त्रयीमूर्तयः यावान् आत्मनो बुद्धेः अवगमः प्रसरः यावन्महिमा मद्बुद्धिविषयो भवति तावन्तं महिमानमाचक्षे वर्णयामि । तथाहि - यथा पतत्त्रिणः पक्षिणः बाणा: वा आत्मसमं स्वबलानुरूपमेव नभः प्रतिपतन्ति उद्गच्छन्ति तथा विपश्चितोऽपि समं स्वबुद्धिबलानुरूपं विष्णुगतिं भगवन्महिमानं पतन्ति विषयोकुर्वन्ति । न हि पतत्त्रिणः नमसि उद्गच्छन्तो नभसोऽभावान्निवर्तन्ते किन्तु स्वबलक्षयात् निवर्तन्ते एवं विपश्चितोऽपि मतिक्षयादेव निवर्तन्ते न तु भगवन्महिम्नः क्षयादित्यर्थः । त58च्चोक्तमन्यत्रापि “इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्” इति ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

एकदा धनुरुद्यम्य विचरन् मृगयां वने।
मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम्॥

मूलम्

एकदा धनुरुद्यम्य विचरन् मृगयां वने।
मृगाननुगतश्श्रान्तः क्षुधितस्तृषितो भृशम्॥ २४ ॥

अनुवाद (हिन्दी)

एक दिन राजा परीक्षित् धनुष लेकर वनमें शिकार खेलने गये हुए थे। हरिणोंके पीछे दौड़ते-दौड़ते वे थक गये और उन्हें बड़े जोरकी भूख और प्यास लगी॥ २४॥

वीरराघवः

अथ तत्पृष्टं भागवताख्यं पुराणं परीक्षिच्छुकसंवादरूपं शुश्रावयिषुस्तावत् संवादप्रवृत्तिं, तदुपोद्वातरूपं परीक्षिच्छुकयोः सङ्गमं, परीक्षितः प्रायोपवेशं च तन्मूलं विप्रशापं तन्निमित्तं चाऽऽह - एकदा इत्यादिना यावत्स्कन्धसमाप्ति । तावच्छापनिमित्तमाह षड्भिः एकदेति । कदाचित् परीक्षित् धनुरुद्यम्य उद्धृत्य वने मृगयां चरन् मृगान् अनुसृत्य गतः श्रान्तः नितरां तृषितः क्षुधितः तृषा सञ्जाता क्षुत् अस्य सञ्जातेति तथा तारकादित्वात् इतच् ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

जलाशयमचक्षाणः प्रविवेश तमाश्रमम्।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम्॥

मूलम्

जलाशयमचक्षाणः प्रविवेश त59माश्रमम्।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम्॥ २५ ॥

अनुवाद (हिन्दी)

जब कहीं उन्हें कोई जलाशय नहीं मिला, तब वे पासके ही एक ऋषिके आश्रममें घुस गये। उन्होंने देखा कि वहाँ आँखें बंद करके शान्तभावसे एक मुनि आसनपर बैठे हुए हैं॥ २५॥

वीरराघवः

क्वचिदपि जलाकरमपश्यं60स्तमाश्रमं प्रविवेश आङ्गिरसत्याश्रमं प्रविष्टवानित्यर्थः, तत्र मुनिमाङ्गिरसं ददर्श, कथम्भूतम् ? आसीनं उपविष्टं, शान्तं प्रसन्नं मीलिते लोचने येन तम् ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम्।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम्॥

मूलम्

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम्।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम्॥ २६ ॥

अनुवाद (हिन्दी)

इन्द्रिय, प्राण, मन और बुद्धिके निरुद्ध हो जानेसे वे संसारसे ऊपर उठ गये थे। जाग्रत्, स्वप्न, सुषुप्ति—तीनों अवस्थाओंसे रहित निर्विकार ब्रह्मरूप तुरीय पदमें वे स्थित थे॥ २६॥

वीरराघवः

प्रतिरुद्धानि निर्व्यापारितानि इन्द्रियाणि येन तं अत एवोपारतं बाह्यव्यापारादुपारतं स्थानत्रयात् जाग्रत्स्वप्रसुषुप्तिरूपावस्थात्रयात् परं स्वात्मानं प्राप्तं अनुसन्दधतं ब्रह्मभूतं ब्रह्मविषयकभावनया अन्वितं अविक्रियं द्वन्द्वप्रयुक्तविकाररहितम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च।
विशुष्यत्तालुरुदकं तथा भूतमयाचत॥

मूलम्

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च।
विशुष्यत्तालुरुदकं तथाभूतमयाचत॥ २७ ॥

अनुवाद (हिन्दी)

उनका शरीर बिखरी हुई जटाओंसे और कृष्ण मृगचर्मसे ढका हुआ था। राजा परीक्षित् ने ऐसी ही अवस्थामें उनसे जल माँगा, क्योंकि प्याससे उनका गला सूखा जा रहा था॥ २७॥

वीरराघवः

विप्रकीर्णाभिः विक्षिप्ताभिः जटाभिः छन्नं आवृतं रौरवेण रुरोर्मृगस्य सम्बन्धिना चर्मणा छन्नं एवंभूतं मुनिं वि61शुष्यत् तालु वदनं च यस्य तथाभूतो राजा उदकं जलमयाचत ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः।
अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह॥

मूलम्

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्य62सूनृतः।
अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह॥ २८ ॥

अनुवाद (हिन्दी)

जब राजाको वहाँ बैठनेके लिये तिनकेका आसन भी न मिला, किसीने उन्हें भूमिपर भी बैठनेको न कहा—अर्घ्य और आदरभरी मीठी बातें तो कहाँसे मिलतीं—तब अपनेको अपमानित-सा मानकर वे क्रोधके वश हो गये॥ २८॥

वीरराघवः

न लब्धं तृणं भूमिः आदिशब्दात् अन्यच्च उपवेशार्थं येन न सम्प्राप्तं अर्घ्यं सूनृतं च म63धुरवचश्च येन तथाभूतः अत एव अज्ञातं अवहेलितमिवात्मानं मन्यमानः राजा चुकोप ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः।
ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च॥

मूलम्

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः।
ब्राह्मणं प्रत्यभूत् ब्र64ह्मन्! मत्सरो मन्युरेव च॥ २९ ॥

अनुवाद (हिन्दी)

शौनकजी! वे भूख-प्याससे छटपटा रहे थे, इसलिये एकाएक उन्हें ब्राह्मणके प्रति ईर्ष्या और क्रोध हो आया। उनके जीवनमें इस प्रकारका यह पहला ही अवसर था॥ २९॥

वीरराघवः

क्षुत्तृड्भ्यां अर्दितः पीडितः आत्मा शरीरं यस्य तस्य राज्ञः अत एव अभूतपूर्वः पूर्वं भूतः भूतपूर्वः न भूतपूर्वः अभूतपूर्वः कदाचिदपि पूर्वं न जात इत्यर्थः । मत्सरः मन्युश्च हे ब्रह्मन्! ब्राह्मणं मुनिं प्रत्यभूत् बभूव । मन्युः क्रोधः अमर्ष इति यावत् । मत्सरो द्रोहः अपचिकीर्षेति यावत् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा।
विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागमत्॥

मूलम्

स तु65 ब्रह्मऋषेरंसे गतासुमुरगं रुषा।
विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागम66त्॥ ३० ॥

अनुवाद (हिन्दी)

वहाँसे लौटते समय उन्होंने क्रोधवश धनुषकी नोकसे एक मरा साँप उठाकर ऋषिके गलेमें डाल दिया और अपनी राजधानीमें चले आये॥ ३०॥

वीरराघवः

ततः स तु राजा निर्गच्छन् निर्गन्तुमुद्युक्तः रुषा ब्रह्मर्षेरंसे धनुष्कोट्या धनुषोऽग्रभागेन गतप्राणं सर्पं निधाय पुरं ययौ ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

एष किं निभृताशेषकरणो मीलितेक्षणः।
मृषा समाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभिः॥

मूलम्

एष किं निभृताशेषकरणो मीलितेक्षणः।
मृ67षासमाधिराह्येस्वित् किं नु68 स्यात् क्षत्रबन्धुभिः॥ ३१ ॥

अनुवाद (हिन्दी)

उनके मनमें यह बात आयी कि इन्होंने जो अपने नेत्र बंद कर रखे हैं, सो क्या वास्तवमें इन्होंने अपनी सारी इन्द्रियवृत्तियोंका निरोध कर लिया है अथवा इन राजाओंसे हमारा क्या प्रयोजन है, यों सोचकर इन्होंने झूठ-मूठ समाधिका ढोंग रच रखा है॥ ३१॥

वीरराघवः

किमर्थं निहितवान् इत्यत्र राज्ञः 69तात्पर्यमाविष्करोति - एष इति । किमेष मुनिः निभृतानि नियमितानि अशेषाणि करणानि इन्द्रियाणि येन मीलिते ईक्षणे लोचने येन तथाभूतः यथार्थसमाधिनिष्ठः; आहोस्वित् क्षत्रबन्धुभिरस्माकं किं प्रयोजनं विद्यते इति बुद्ध्या मृषा मि70थ्याभूतः समाधिः यस्य तथाभूतः एवमास्ते इत्यभिप्रायेण निधाय गत इत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत्॥

मूलम्

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः।
राज्ञाऽघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत्॥ ३२ ॥

अनुवाद (हिन्दी)

उन शमीक मुनिका पुत्र बड़ा तेजस्वी था। वह दूसरे ऋषिकुमारोंके साथ पास ही खेल रहा था। जब उस बालकने सुना कि राजाने मेरे पिताके साथ दुर्व्यवहार किया है, तब वह इस प्रकार कहने लगा—॥ ३२॥

वीरराघवः

ततः तस्य मुनेः पुत्रः अतितेजस्वी ब्राह्मतेजस्सम्पन्नः बालकः अर्धकैस्सह क्रीडन् तातं पितरं राज्ञा अघं प्रापितं अपराधविषयीकृतं श्रुत्वा तत्रैवेदं वक्ष्यमाणमब्रवीत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

अहो अधर्मः पालानां पीन्नां बलिभुजामिव।
स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव॥

मूलम्

अहो अधर्मः पालानां पी71ठ्नां बलिभुजामिव।
स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव॥ ३३ ॥

अनुवाद (हिन्दी)

‘ये नरपति कहलानेवाले लोग उच्छिष्टभोजी कौओंके समान संड-मुसंड होकर कितना अन्याय करने लगे हैं! ब्राह्मणोंके दास होकर भी ये दरवाजेपर पहरा देनेवाले कुत्तेके समान अपने स्वामीका ही तिरस्कार करते हैं॥ ३३॥

वीरराघवः

तदेवाऽऽह - अहो इति पञ्चभिः । बलिभुजां शुनां वायसानामिव वा पीव्नां वर्धितानां पालानां राज्ञां अहो अधर्मः पश्यत । कोऽसावधर्मः द्वारपानां शुनामिव दासभूतानां राज्ञां स्वामिनि ब्राह्मणे अघं अपराधं इति यदेष एवाधर्मः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

ब्राह्मणैः क्षत्रबन्धुर्हि द्वारपालो निरूपितः।
स कथं तद‍्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति॥

मूलम्

ब्राह्मणैः क्षत्रबन्धुर्हि द्वा72रपालो निरूपितः।
स कथं तद‍्गृहे द्वा73स्स्थः सभाण्डं भो74क्तुमर्हति॥ ३४ ॥

अनुवाद (हिन्दी)

ब्राह्मणोंने क्षत्रियोंको अपना द्वारपाल बनाया है। उन्हें द्वारपर रहकर रक्षा करनी चाहिये, घरमें घुसकर स्वामीके बर्तनोंमें खानेका उसे अधिकार नहीं है॥ ३४॥

वीरराघवः

तदेवोपपादयति क्षत्रबन्धुर्हि ब्राह्मणैः द्वारपालत्वेन श्वेव नियोजितः सः द्वाःस्थः क्षत्रबन्धुः तद्गृहे ब्राह्मणगृहे श्वेव कथं सभाण्डमेकपात्रं यथा तथा भोक्तुमर्हति योग्यो भवेत् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम्।
तद‍्भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम्॥

मूलम्

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम्।
75द‍्भिन्नसे76तूनद्याहं शास्मि पश्यत मे बलम्॥ ३५ ॥

अनुवाद (हिन्दी)

अतएव उन्मार्गगामियोंके शासक भगवान् श्रीकृष्णके परमधाम पधार जानेपर इन मर्यादा तोड़नेवालोंको आज मैं दण्ड देता हूँ। मेरा तपोबल देखो’॥ ३५॥

वीरराघवः

उत्पथ77प्रतिपन्नानां शास्तरि दण्डयितरि कृष्णे भगवति स्वलोकं प्रति गते सति तान् भिन्नमर्यादान् अहमद्य शास्मि शिक्षये । मम बलं पश्यत ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालकः।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह॥

मूलम्

इत्युक्त्वा रोषताम्राक्ष ः वयस्यानृषिबालकः78
कौशिक्या79प उपस्पृश्य वाग्वज्रं विससर्ज ह॥ ३६ ॥

अनुवाद (हिन्दी)

अपने साथी बालकोंसे इस प्रकार कहकर क्रोधसे लाल-लाल आँखोंवाले उस ऋषिकुमारने कौशिकी नदीके जलसे आचमन करके अपने वाणी-रूपी वज्रका प्रयोग किया॥ ३६॥

वीरराघवः

वयस्यान् समानवयस्कान् बा80लकान् प्रति इत्थं उक्त्वा रोषेण ताम्रे अक्षिणी यस्य सः ऋषिबालकः कौशिक्याः नद्याः अपः उपस्पृश्य आचम्य वाग्वज्रं शापात्मकवानूपं वज्रं विससर्ज प्रायुङ्ग ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि।
दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम्॥

मूलम्

81ति लङ्घितमर्यादं तक्षकस्सप्तमेऽहनि।
82ङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे त83तद्रुहम्॥ ३७ ॥

अनुवाद (हिन्दी)

‘कुलांगार परीक्षित् ने मेरे पिताका अपमान करके मर्यादाका उल्लंघन किया है, इसलिये मेरी प्रेरणासे आजके सातवें दिन उसे तक्षक सर्प डस लेगा’॥ ३७॥

वीरराघवः

वाग्वज्रमेव दर्शयति - इति इत्थं उल्लङ्घिता मर्यादा येन तं मे ततद्रुहं ततः तातः पिता तस्यापकारिणं कुलनाशकं राजानं इतः सप्तमेऽहनि मया चोदितः प्रेरितः तक्षकः सर्पः ध84क्ष्यतीति ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम्।
पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह॥

मूलम्

ततोऽभ्येत्याश्रमं बालः गले सर्पकलेबरम्।
पितरं वी85क्ष्य दुःखार्तः मुक्तकण्ठो रुरोद ह॥ ३८ ॥

अनुवाद (हिन्दी)

इसके बाद वह बालक अपने आश्रमपर आया और अपने पिताके गलेमें साँप देखकर उसे बड़ा दुःख हुआ तथा वह ढाड़ मारकर रोने लगा॥ ३८॥

वीरराघवः

ततो बालः पितुराश्रममागत्य गले कण्ठे सर्पो यस्य तत्कलेबरं यस्य तं पितरं आलोक्य दुःखपीडितः मुक्तः कण्ठः येन सः उच्चैस्स्वरयुक्तः इत्यर्थः, रुरोद रोदनं कृतवान् ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम्।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वांसे मृतोरगम्॥

मूलम्

स वा86 आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलाप87नम्।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा स्वां88से मृतोरगम्॥ ३९ ॥

अनुवाद (हिन्दी)

विप्रवर शौनकजी! शमीक मुनिने अपने पुत्रका रोना-चिल्लाना सुनकर धीरे-धीरे अपनी आँखें खोली और देखा कि उनके गलेमें एक मरा साँप पड़ा है॥ ३९॥

वीरराघवः

ततो हे ब्रह्मन् ! स वै आङ्गिरसः सुतस्य विलापनं श्रुत्वा शनैर्नेत्रे उन्मील्य अंसे मृतमुरगं दृष्ट्वा ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

विसृज्य पुत्रं पप्रच्छ वत्स कस्माद्धि रोदिषि।
केन वा तेऽपकृतमित्युक्तः स न्यवेदयत्॥

मूलम्

विसृज्य पु89त्रं पप्रच्छ वत्स! कस्माद्धि90 रोदिषि?।
केन वा ते91ऽपकृतमित्युक्तस्स न्यवेदयत्॥ ४० ॥

अनुवाद (हिन्दी)

उसे फेंककर उन्होंने अपने पुत्रसे पूछा—‘बेटा! तुम क्यों रो रहे हो? किसने तुम्हारा अपकार किया है?’ उनके इस प्रकार पूछनेपर बालकने सारा हाल कह दिया॥ ४०॥

वीरराघवः

तं परिहृत्य पुत्रं पप्रच्छ । प्रश्नमेवाऽऽह - हे वत्स! कस्माद्धेतोः त्वमिति शेषः । विरोदिषि रोदनं करोषि, केन वा ते तव अपकृतम् ? भावे क्तः । इति इत्थमुक्तो बालकः सर्ववृत्तं न्यवेदयत् कथयामास ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

निशम्य शप्तमतदर्हं नरेन्द्रं
स ब्राह्मणो नात्मजमभ्यनन्दत्।
अहो बतांहो महदज्ञ ते कृत-
मल्पीयसि द्रोह उरुर्दमो धृतः॥

मूलम्

निशम्य शप्तमतदर्हं न92रेन्द्रम् स ब्राह्मणो नात्मजमभ्यनन्दत्।
अहो बतांहो महदज्ञ93 ते कृतम् अल्पीयसि द्रोह उरुर्द94मो धृतः॥ ४१ ॥

अनुवाद (हिन्दी)

ब्रह्मर्षि शमीकने राजाके शापकी बात सुनकर अपने पुत्रका अभिनन्दन नहीं किया। उनकी दृष्टिमें परीक्षित् शापके योग्य नहीं थे। उन्होंने कहा—‘ओह, मूर्ख बालक! तूने बड़ा पाप किया! खेद है कि उनकी थोड़ी-सी गलतीके लिये तूने उनको इतना बड़ा दण्ड दिया॥ ४१॥

वीरराघवः

ततो अतदर्हं शापानर्हं राजानं शप्तं आकर्ण्य ब्राह्मणः आङ्गिरसः पुत्रं नाभ्यनन्दत् तदेव दर्शयति - अहो इति सार्धैः सप्तभिः । हे अज्ञ! ते त्वया महदंहः पापं अहो कृतं बत किं तत् अल्पीयसि द्रोहे अल्पापराधे निमित्ते उरुः दमः दण्डः धृतः कृत इत्येतत् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

न वै नृभिर्नरदेवं पराख्यं
सम्मातुमर्हस्यविपक्वबुद्धे।
यत्तेजसा दुर्विषहेण गुप्ता
विन्दन्ति भद्राण्यकुतोभयाः प्रजाः॥

मूलम्

न वै नृभिर्नरदे95वं पराख्यम् स96म्मातुमर्हस्यविपक्वबुद्धे97!।
यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः॥ ४२ ॥

अनुवाद (हिन्दी)

तेरी बुद्धि अभी कच्ची है। तुझे भगवत्स्वरूप राजाको साधारण मनुष्योंके समान नहीं समझना चाहिये; क्योंकि राजाके दुस्सह तेजसे सुरक्षित और निर्भय रहकर ही प्रजा अपना कल्याण सम्पादन करती है॥ ४२॥

वीरराघवः

अपकृतेनापि राजा नापकार्य इत्याह - न वा इति । हे अविपक्वबुद्धे! नृभिः अपकृतैरपि नरदेवः नापकार्यः, अतस्त्वं नरदेवं पराख्यं 98परमपुरुषमिति सामर्थ्यलब्धोऽर्थः नरदेवनाम्नि रथाङ्गपाणाविति वक्ष्यमाणानुगुण्यात् नरदेव इत्याख्यामात्रमेव स तु साक्षादीश्वर एवेति भावः । तं सम्मातुमेवार्हसि न त्वपकर्तुम् । तत्र हेतुमाह यत् यस्मात् यद्विषयानपकारात् तस्य दुर्विषहेण शत्रुभिः असोढव्येन तेजसा गुप्ताः प्रजाः कुतश्चिदपि भयरहिताः भद्राणि मङ्गलानि सुखानीति यावत् विन्दन्ति लभन्ते । तस्मात् लोकसुखावहो नरदेवः न हन्तव्य इति भावः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

अलक्ष्यमाणे नरदेवनाम्नि
रथाङ्गपाणावयमङ्ग लोकः।
तदा हि चौरप्रचुरो विनङ्क्ष्य-
त्यरक्ष्यमाणोऽविवरूथवत् क्षणात्॥

मूलम्

99लक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग! लोकः।
100दा हि चो101रप्रचुरो विनङ्क्ष्यत्यरक्ष्यमा102णोऽविवरूथवत् क्षणात्॥ ४३ ॥

अनुवाद (हिन्दी)

जिस समय राजाका रूप धारण करके भगवान् पृथ्वीपर नहीं दिखायी देंगे, उस समय चोर बढ़ जायँगे और अरक्षित भेड़ोंके समान एक क्षणमें ही लोगोंका नाश हो जायगा॥ ४३॥

वीरराघवः

विपर्यये अनर्थमाह - अलक्ष्यमाण इति त्रिभिः । नरदेवाख्ये चक्रपाणौ विष्णौ अलक्ष्यमाणे अविद्यमाने सति, अङ्ग! हे पुत्र! तदा ह्ययं लोकः अरक्ष्यमाणः अत एव चोरभूयिष्ठस्सन् वृकप्रचुराविसङ्घ इव नक्ष्यति नष्टो भविष्यति ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

तदद्य नः पापमुपैत्यनन्वयं
यन्नष्टनाथस्य वसोर्विलुम्पकात्।
परस्परं घ्नन्ति शपन्ति वृञ्जते
पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः॥

मूलम्

तदद्य नः पापमुपैत्य103नन्वयम् य104न्नष्टनाथस्य व105सोर्विलुम्पकात्।
परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जनाः॥ ४४ ॥

अनुवाद (हिन्दी)

राजाके नष्ट हो जानेपर धन आदि चुरानेवाले चोर जो पाप करेंगे, उसके साथ हमारा कोई सम्बन्ध न होनेपर भी वह हमपर भी लागू होगा। क्योंकि राजाके न रहनेपर लुटेरे बढ़ जाते हैं और वे आपसमें मार-पीट, गाली-गलौज करते हैं, साथ ही पशु, स्त्री और धन-सम्पत्ति भी लूट लेते हैं॥ ४४॥

वीरराघवः

106श्यतु का 107हानिः इत्यत्राऽऽह - तदिति । तत्पापं अनन्वयं अस्मत्सन्ताननाशकं अद्य अधुना नः अस्मान् उपैति किं तत्पापं यद्विलुम्पकात् नरदेवविच्छेदकात् त्वत्तः हेतोः वसोः धनस्य नष्टनाथस्य रक्षकरहितस्य सतः पुरवः ब108हवः दस्यवः येषां ते जनाः परस्परं घ्नन्ति शपन्ति वाक्पारुष्यं कुर्वन्ति वृञ्जते च्छिन्दन्त्यर्थान् वृञ्जते ह109रन्तीत्येतत् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

तदाऽऽर्यधर्मश्च विलीयते नृणां
वर्णाश्रमाचारयुतस्त्रयीमयः।
ततोऽर्थकामाभिनिवेशितात्मनां
शुनां कपीनामिव वर्णसंकरः॥

मूलम्

तदाऽऽ110र्यधर्मश्च विलीयते नृणाम् वर्णाश्रमाचारयुतस्त्रयीमयः।
ततोऽर्थकामाभिनिवेशितात्मनाम् शुनां कपीनामिव वर्णसङ्करः॥ ४५ ॥

अनुवाद (हिन्दी)

उस समय मनुष्योंका वर्णाश्रमाचार-युक्त वैदिक आर्यधर्म लुप्त हो जाता है, अर्थ-लोभ और कामवासनाके विवश होकर लोग कुत्तों और बंदरोंके समान वर्णसंकर हो जाते हैं॥ ४५॥

वीरराघवः

किञ्च तदा नरदेवनाम्नि रथाङ्गपाणौ अलक्ष्यमाणे सति वर्णाश्रमाचारयुतः त्रय्या आगतः त्रयीमयः “तत आगत” (अष्टा. 4-3-74) इत्यधिकारे “मयट् च” (अष्टा. 4-3-82) इति मयट् वैदिक इत्यर्थः । नृणां आर्यधर्मः सतां धर्मश्च विलीयते नङ्क्ष्यति ततो धर्मलयात् अर्थकामयोः निवेशितः अभिनिविष्टः आत्मा मनः येषां 111नृणां शुनामिव च सङ्करो भविष्यति ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः।
साक्षान्महाभागवतो राजर्षिर्हयमेधयाट्।
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति॥

मूलम्

धर्मपालो नरपतिस्स तु सम्राट् बृहच्छ्रवाः।
साक्षान्महाभागवतः राजर्षिर्हयमेधयाट्। क्षुत्तृट्श्र112मयुतो दीनो नैवास्मच्छापमर्हति॥ ४६ ॥

अनुवाद (हिन्दी)

सम्राट् परीक्षित् तो बड़े ही यशस्वी और धर्मधुरन्धर हैं। उन्होंने बहुत-से अश्वमेध यज्ञ किये हैं और वे भगवान‍्के परम प्यारे भक्त हैं; वे ही राजर्षि भूख-प्याससे व्याकुल होकर हमारे आश्रमपर आये थे, वे शापके योग्य कदापि नहीं हैं॥ ४६॥

वीरराघवः

एवं सामान्यनरदेवस्य अनिग्राह्यत्वमुक्त्वा अथ प्रकृतं परीक्षितं निर्दिश्याऽऽह - धर्मपाल इति । स तु नरपतिः परीक्षित् धर्मपालः वर्णाश्रमधर्ममर्यादापालकः तथात्वेन विश्रुतः विपुलकीर्तिः सार्वभौमश्च तत्रापि महाभागवतः, अनेन ब्रह्मविदपकर्तॄणां नः गतिरेव नास्तीति भावः । राजर्षिः केवलं राजव्याजऋषिरेव न113, ह114यमेधयाट् हयमेधेन 115इष्टवान् ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना।
पापं कृतं तद‍्भगवान् सर्वात्मा क्षन्तुमर्हति॥

मूलम्

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना।
पापं कृतं त116द‍्भगवान् सर्वात्मा क्षन्तुमर्हति॥ ४७ ॥

अनुवाद (हिन्दी)

इस नासमझ बालकने हमारे निष्पाप सेवक राजाका अपराध किया है, सर्वात्मा भगवान् कृपा करके इसे क्षमा करें॥ ४७॥

वीरराघवः

क्षुत्तृङ्घ्यां यः श्रमः तेन युतः अत एव दीनश्च तथाभूतः सर्वथा अस्मच्छापं नार्हति एवमात्मजं अनभिनन्द्य तत्कृतात् अघात् आत्मनः अनर्थमाशङ्क्य भगवन्तं क्षमापयति - अपापेष्विति । सर्वात्मा सर्वान्तरात्मा शप्तृशप्तयोर117प्यन्तरात्मतया अवस्थितः इति भावः । भगवान् अपापेषु 118स्वभक्तेषु अनेन अपक्वबुद्धिना विवेकरहितेन बालेन कृतं पापमिदं क्षन्तुमर्हति ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि।
नास्य तत् प्रतिकुर्वन्ति तद‍्भक्ताः प्रभवोऽपि हि॥

मूलम्

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि।
नास्य तत्प्रतिकुर्वन्ति तद‍्भक्ताः प्रभवोपि हि॥ ४८ ॥

अनुवाद (हिन्दी)

भगवान‍्के भक्तोंमें भी बदला लेनेकी शक्ति होती है, परंतु वे दूसरोंके द्वारा किये हुए अपमान, धोखेबाजी, गाली-गलौज, आक्षेप और मार-पीटका कोई बदला नहीं लेते॥ ४८॥

वीरराघवः

साक्षान्मद्विषयापराधः कथञ्चिन्मच्छरणवरणादिना सह्यः स्यात् मद्भक्तविषयापराधस्तु न कथञ्चिदपि, किन्तु तैरेव सह्यः इत्येवंविधं भगवदभिप्रायमालोच्य तानेव क्षमापयति - तिरस्कृता इति । तिरस्कृताः परिभूता अपि विप्रलब्धाः प्रतारिता अपि शप्ता अपि क्षिप्ता निन्दिता अपि हताः ताडिता अपि तद्भक्ताः भगवद्भक्ताः प्रभवोऽपि प्रत्यपकर्तुं समर्था अपि अस्य तिरस्कारकर्तुः न119 तिरस्कारादिकर्तृृन् प्रतिकुर्वन्ति, किन्तु केवलं क्षाम्यन्ति ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत्॥

मूलम्

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत्॥ ४९ ॥

अनुवाद (हिन्दी)

महामुनि शमीकको पुत्रके अपराधपर बड़ा पश्चात्ताप हुआ। राजा परीक्षित् ने जो उनका अपमान किया था, उसपर तो उन्होंने ध्यान ही नहीं दिया॥ ४९॥

वीरराघवः

इति इत्थं स महामुनिः पुत्रकृतेन अघेन अनुतप्तः 120राज्ञां स्वयं विप्रकृतोऽपि121 तद्राजकृतं अघं अपराधं नैवाचिन्तयत् न चिन्तितवान् ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः।
न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रयः॥

मूलम्

प्रायशस्साधवो लोके परैर्द्वन्द्वेषु योजिताः।
न व्य122थन्ति न हृष्यन्ति यत आत्माऽगुणाश्रयः॥ ५० ॥

अनुवाद (हिन्दी)

महात्माओंका स्वभाव ही ऐसा होता है कि जगत‍्में जब दूसरे लोग उन्हें सुख-दुःखादि द्वन्द्वोंमें डाल देते हैं, तब भी वे प्रायः हर्षित या व्यथित नहीं होते; क्योंकि आत्माका स्वरूप तो गुणोंसे सर्वथा परे है॥ ५०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नामाष्टादशोऽध्यायः॥ १८॥

वीरराघवः

कुतो नाचिन्तयदित्यत्राऽऽह - प्रायश इति । लोके परैः अन्यैः द्वन्द्वेषु शीतोष्णसुखदुःखादिषु योजिताः संयोजिता अपि साधवः प्रायेण न व्यथन्ति न हृष्यन्ति च यथा सुखे योजिताः न हृष्यन्ति तथा दुःखे योजिता अपि न व्यथन्तीत्यर्थः कुतः यतः आत्मा तेषां मनः गुणाश्रयः शीलाश्रयः । यद्वा अगुणाश्रय इति च्छेदः । गुणकार्यरागद्वेषाद्यनाश्रयः ॥ ५० ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टादशोऽध्यायः ॥ १८ ॥


  1. H,K,M,V शाप ↩︎

  2. K,M वे ↩︎

  3. K,M नार्जित ↩︎

  4. H,V सि ↩︎

  5. B मः श्लो ↩︎

  6. AF,GF कुर्वतां ↩︎

  7. A,B किमुत्तमस्योत्तम ↩︎

  8. A,B add एव ↩︎

  9. H,V र्व्यां आ ↩︎

  10. W वा ↩︎

  11. AF,GF नाभि ↩︎

  12. W तः सारः ↩︎

  13. W नाद्वेडित्य ↩︎

  14. K,M किमु बा ↩︎

  15. K,M शूर H,V ऽधीर ↩︎

  16. AF,GF नृपोः W वृकोऽविषु ↩︎

  17. A,B रधीरेषु वृक इव भ्रमते तेष्विव जनेषु सर्वतः वर्तते ॥ ८ ॥ ↩︎

  18. AF,GF द्धि ↩︎

  19. H,V श्रिताः ↩︎

  20. H,K,M,V सेव्यास्तास्ता ↩︎

  21. W बहुलानि ↩︎

  22. A,B omit विषया: ↩︎

  23. B शौनक उवाच ↩︎

  24. W जन्य ↩︎

  25. H,V स्ये ↩︎

  26. W ज्ञी ↩︎

  27. W गी ↩︎

  28. H,K,M,V ततो ↩︎

  29. B,W राच ↩︎

  30. AF,GF विद्वान् ↩︎

  31. A,B मुख्य श्रेष्ठ: ↩︎

  32. A,B विस्तारयतु ↩︎

  33. H,V सि ↩︎

  34. W प्राप ↩︎

  35. A वि ↩︎

  36. W adds युक्तम् ↩︎

  37. K,M महात्मन् ↩︎

  38. A,B भागवतानाम ↩︎

  39. W भृत ↩︎

  40. A,B वेत्य ↩︎

  41. W चा ↩︎

  42. A,B कथ ↩︎

  43. A,B omit स्व ↩︎

  44. A,B दकत्वयु ↩︎

  45. A,B वा ↩︎

  46. A,B न तु साधारणोऽनवधिक ↩︎

  47. AF,GF बत ↩︎

  48. AF,GF म्यैरति, K,M म्येऽनति ↩︎

  49. K शायनेस्य; M शायितेऽस्य ↩︎

  50. A,B अन्य प्रति ↩︎

  51. A,B वत्सूचि ↩︎

  52. A,B omit वीर्य ↩︎

  53. K,M,W य, AF,GF ते पार ↩︎

  54. K,M सत्यं ↩︎

  55. K,M रमञ्च; W राम ↩︎

  56. W हंस्ये आश्र ↩︎

  57. K,M स्य गुणान् ↩︎

  58. W तथा चोक्त ↩︎

  59. H,V तदा, K,M स आश्र ↩︎

  60. W श्यमानस्त ↩︎

  61. W विशुष्यन्ती तालुनी वदनं च यस्य ↩︎

  62. B,N र्घ, W र्थ ↩︎

  63. W वाक् च ↩︎

  64. H,V राज्ञो ↩︎

  65. K,M तस्य ब्रह्मर्षे ↩︎

  66. B,H,I,V तः ↩︎

  67. K,M मुधा ↩︎

  68. K,M,W नः ↩︎

  69. W adds तत् ↩︎

  70. W मिथ्याभिभूतः ↩︎

  71. K,M पृथ्व्या ↩︎

  72. B,H,I,V गृह ↩︎

  73. H,V द्वार्स्थ ↩︎

  74. AF,GF भड्ग ↩︎

  75. K,M,W तान् भिन्न ↩︎

  76. B सेतुमद्या ↩︎

  77. W थं ↩︎

  78. K,M,N,W कान् ↩︎

  79. K,M,W क्य ↩︎

  80. W बालान् ↩︎

  81. H,K,M,V इतो W इत्युल्लङ्घि, AF,GF अतो ↩︎

  82. A,B,G,I,N दङ्घ्यति ↩︎

  83. K,M पितृ ↩︎

  84. A,B दक्ष्यति ↩︎

  85. AF,GF प्रेक्ष्य ↩︎

  86. AF,GF वैवाङ्गि ↩︎

  87. K,M पितम् ↩︎

  88. B,H,I,K,M,V चांसे; W ऽथांसे ↩︎

  89. B,I तं च ↩︎

  90. K,M द्विरो ↩︎

  91. H,K,M,V ते विप्रकृतं; B तेऽप्यपकृतं; N,W ते प्रतिकृतं ↩︎

  92. W नृपेन्द्र ↩︎

  93. I द्य ↩︎

  94. K,M श्रमो ↩︎

  95. K,M देवोऽपराध्यः ↩︎

  96. K,M तं शप्तुमर्ह ↩︎

  97. AF,GF द्धि: ↩︎

  98. W adds नरदेवाख्यं ↩︎

  99. K,M अरक्ष ↩︎

  100. H,V तथा ↩︎

  101. A,B,G,I,N चौ ↩︎

  102. H,V माणाविवरूधवत् AF,GF माणो हि विरुद्धलक्षणात् ↩︎

  103. W त्व ↩︎

  104. AF,GF नष्टस्य नाथस्य ↩︎

  105. K,M पशोर्विलुम्पकाः ↩︎

  106. W नश्यतु ↩︎

  107. W adds नो ↩︎

  108. W बहुला ↩︎

  109. W हरन्ति वेत्येतत् ↩︎

  110. AF,GF ऽऽशुधर्मस्सुवि, I ऽऽर्यधर्मः प्रवि ↩︎

  111. W adds तेषां ↩︎

  112. K,M श्रमान्वितो ↩︎

  113. W omits न ↩︎

  114. W omits हयमेधयाट् ↩︎

  115. W adds यात् ↩︎

  116. H,V यद्भ ↩︎

  117. W रुभयोरप्य ↩︎

  118. W adds निरपराधेषु ↩︎

  119. W तत्तत्कृततिरस्कारादिकं प्रति न प्रतिकुर्वन्ति ↩︎

  120. W adds पश्चात्तप्तः ↩︎

  121. W पकृतोऽपि ↩︎

  122. B व्यथन्ते ↩︎