१७ कलिनिग्रहः

[सप्तदशोऽध्यायः]

भागसूचना

महाराज परीक्षित् द्वारा कलियुगका दमन

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

तत्र गोमिथुनं राजा हन्यमानमनाथवत्।
दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम्॥

मूलम्

तत्र गोमिथुनं राजा हन्यमानमनाथवत्।
दण्डहस्तं च वृषलं द1दृशे नृपलाञ्छनम्॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकजी! वहाँ पहुँचकर राजा परीक्षित् ने देखा कि एक राजवेषधारी शूद्र हाथमें डंडा लिये हुए है और गाय-बैलके एक जोड़ेको इस तरह पीटता जा रहा है, जैसे उनका कोई स्वामी ही न हो॥ १॥

वीरराघवः

तत्रेति । तत्र प्राच्यां सरस्वत्यां पूर्वोक्तं अनाथवत् हन्यमानं गोमिथुनं नृपस्येव लाञ्छनानि यस्य, दण्डो हस्ते यस्य तं वृषलं च राजा परीक्षित् ददर्श ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम्।
वेपमानं पदैकेन सीदन्तं शूद्रताडितम्॥

मूलम्

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम्।
वेपमानं पदैकेन सीदन्तं शूद्रता2डितम्॥ २ ॥

अनुवाद (हिन्दी)

वह कमलतन्तुके समान श्वेत रंगका बैल एक पैरसे खड़ा काँप रहा था तथा शूद्रकी ताड़नासे पीड़ित और भयभीत होकर मूत्र-त्याग कर रहा था॥ २॥

वीरराघवः

तत्र गोमिथुने पुमांसं विशिनष्टि - वृषमिति । वृषं मृणालवत् धवलं, मेहन्तमिव मूत्रं मुञ्चन्तमिव बिभ्यतं उद्विजन्तं एकेन पादेन कम्पमानं शूद्रेण ताडितं अतः सीदन्तं क्लिश्यन्तम् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम्।
विवत्सां साश्रुवदनां क्षामां यवसमिच्छतीम्॥

मूलम्

गां च ध3र्मदुघां दीनां भृशं शूद्रपदाहताम्।
विवत्सां सा4श्रुवदनां क्षा5मां यवसमिच्छतीम्॥ ३ ॥

अनुवाद (हिन्दी)

धर्मोपयोगी दूध, घी आदि हविष्य पदार्थोंको देनेवाली वह गाय भी बार-बार शूद्रके पैरोंकी ठोकरें खाकर अत्यन्त दीन हो रही थी। एक तो वह स्वयं ही दुबली-पतली थी, दूसरे उसका बछड़ा भी उसके पास नहीं था। उसे भूख लगी हुई थी और उसकी आँखोंसे आँसू बहते जा रहे थे॥ ३॥

वीरराघवः

स्त्रियं विशिनष्टि - गामिति । धर्मदुघां घृतपयोरूप क्षरणद्रव्यदोग्ध्रीं शूद्रस्य पा6देन ताडितां अत एव भृशं दीनां वत्सरहितां अश्रुवदनां अश्रुसहितं वदनं यस्यास्तां, क्षा7मां कृ8शां यवसं तृणं इच्छन्तीं कामयमानां गां च, चकारात् वृषलञ्च पप्रच्छेत्यन्वयः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम्।
मेघगम्भीरया वाचा समारोपितकार्मुकः॥

मूलम्

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम्।
मेघगम्भीरया वाचा समारोपितकार्मुकः॥ ४ ॥

अनुवाद (हिन्दी)

स्वर्णजटित रथपर चढ़े हुए राजा परीक्षित् ने अपना धनुष चढ़ाकर मेघके समान गम्भीर वाणीसे उसको ललकारा॥ ४॥

वीरराघवः

कार्तस्वराः स्वर्णमयाः परिच्छदाः परिकराः यस्मिंस्तं रथमारूढः । समारोपितं सज्जीकृतं कार्मुकं धनुः येन सः परीक्षित् मेघगर्जितवत् गभीरया गिरा पप्रच्छ ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली।
नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः॥

मूलम्

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली।
नरदेवोऽसि वे9षेण नटवत् कर्मणाऽद्विजः॥ ५ ॥

अनुवाद (हिन्दी)

अरे! तू कौन है, जो बलवान् होकर भी मेरे राज्यके इन दुर्बल प्राणियोंको बलपूर्वक मार रहा है? तूने नटकी भाँति वेष तो राजाका-सा बना रखा है, परन्तु कर्मसे तू शूद्र जान पड़ता है॥ ५॥

वीरराघवः

प्रश्नमेवाह - कस्त्वं इत्यादिभिरेकादशभिः । तावत् वृषलं प्रति प्रश्नमाह द्वाभ्याम् । कस्त्वं त्वं कः इति प्रश्नः । किमर्थं पृच्छसीत्यत्राह अहमेव शरणं रक्षिता यस्य तस्मिन् अस्मिन् लोके बली सन् त्वं अबलान् दुर्बलान् बलात् हंसि अतः पृच्छामीति भावः । नृपोऽहमित्यत्राह - नटवत् वेषेण नरदेवोऽसि कर्मणा तु10 अद्विजः शूद्रः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यस्त्वं कृष्णे गते दूरं सह गाण्डीवधन्वना।
शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि॥

मूलम्

11स्त्वं कृष्णे गते दूरं सह गाण्डीवधन्वना।
शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि॥ ६ ॥

अनुवाद (हिन्दी)

हमारे दादा अर्जुनके साथ भगवान् श्रीकृष्णके परमधाम पधार जानेपर इस प्रकार निर्जन स्थानमें निरपराधोंपर प्रहार करनेवाला तू अपराधी है, अतः वधके योग्य है॥ ६॥

वीरराघवः

गाण्डीवधन्वना अर्जुनेन सह श्रीकृष्णे दूरं स्व12लोकं प्रति गते सति त्वमेव अशोच्यान् शोकानर्हान् रहसि प्रहरन् वधमर्हसि अतः शोच्योऽसि स्वजनेनेति शेषः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन्।
वृषरूपेण किं कश्चिद् देवो नः परिखेदयन्॥

मूलम्

त्वं वा मृणालधवलः13 पादैर्न्यूनः पदा चरन्।
वृषरूपेण किं कश्चिद् देवो नः परिखेदयन्॥ ७ ॥

अनुवाद (हिन्दी)

उन्होंने धर्मसे पूछा—कमल-नालके समान आपका श्वेतवर्ण है। तीन पैर न होनेपर भी आप एक ही पैरसे चलते-फिरते हैं। यह देखकर मुझे बड़ा कष्ट हो रहा है। बतलाइये, आप क्या बैलके रूपमें कोई देवता हैं?॥ ७॥

वीरराघवः

अथ वृषभं पृच्छति - त्वमिति । हे मृणालधवल! पादैः त्रिभिः न्यूनः चरन् त्वं वा कः ? नः अस्मान् वृषरूपेण परिखेदयन् किं वा कश्चित् देवः ? ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

न जातु पौरवेन्द्राणां दोर्दण्डपरिरम्भिते।
भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः॥

मूलम्

न जातु कौ14रवेन्द्राणां दोर्दण्डपरिरम्भिते।
भूतले15ऽनुपतन्त्यस्मिन् विना ते16 प्राणिनां शुचः॥ ८ ॥

अनुवाद (हिन्दी)

अभी यह भूमण्डल कुरुवंशी नरपतियोंके बाहुबलसे सुरक्षित है। इसमें आपके सिवा और किसी भी प्राणीकी आँखोंसे शोकके आँसू बहते मैंने नहीं देखे॥ ८॥

वीरराघवः

कौरवेन्द्राणां दोर्दण्डैः17 परिरम्भिते आश्लिष्टे पालिते इति यावत् । अस्मिन् भूतले विना ते त्वां विना, केषाञ्चिदपि प्राणिनां शुचः शोकाश्रुबिन्दवः कदाचिदपि न पतन्ति ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

मा सौरभेयानुशुचो व्येतु ते वृषलाद् भयम्।
मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि॥

मूलम्

मा सौरभेयानु18शु19चो व्येतु ते वृषलाद्भयम्।
मा रोदीरम्ब! भद्रं ते खलानां मयि शास्तरि॥ ९ ॥

अनुवाद (हिन्दी)

धेनुपुत्र! अब आप शोक न करें। इस शूद्रसे निर्भय हो जायँ। गोमाता! मैं दुष्टोंको दण्ड देनेवाला हूँ। अब आप रोयें नहीं। आपका कल्याण हो॥ ९॥

वीरराघवः

हे सौरभेय! माऽनुशुचः शोकं मा कार्षीः । ते तव वृषलात् अस्मात् शूद्रात् भयं व्ये20तु नश्यतु । गामाश्वासयन्नाह - मेति । हे अम्ब! खलानां दुरात्मनां शास्तरि दण्डधरे मयि तिष्ठति सति त्वं मा रोदी: । रोदनं मा कार्षीः । ते तव भद्रं सुखमेव भविष्यति ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः॥

मूलम्

यस्य राष्ट्रे प्रजाः स21र्वास्त्रस्यन्ते साध्व्यसाधुभिः।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः॥ १० ॥

अनुवाद (हिन्दी)

देवि! जिस राजाके राज्यमें दुष्टोंके उपद्रवसे सारी प्रजा त्रस्त रहती है उस मतवाले राजाकी कीर्ति, आयु, ऐश्वर्य और परलोक नष्ट हो जाते हैं॥ १०॥

वीरराघवः

हे साध्वि! यस्य 22राष्ट्रे दुरात्मभिः सर्वाः प्रजाः त्रस्यन्ते बिभ्यति । असाधुभिरिति करणत्वविवक्षया तृतीया प्रयुक्ता, अतो न “भीत्रार्थानाम्” (अष्टा. 1-4-25) इत्यपादानत्वम् । तस्य मत्तस्य राज्ञः कीर्त्यादयो नश्यन्ति । भगो भाग्यं, गतिः पुण्यलोकगतिः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः।
अत एनं वधिष्यामि भूतद्रुहमसत्तमम्॥

मूलम्

एष रा23ज्ञां परो धर्मो ह्या24र्तानामार्तिनिग्रहः।
अत एनं व25धिष्यामि भूतद्रुहमसत्तमम्॥ ११ ॥

अनुवाद (हिन्दी)

राजाओंका परम धर्म यही है कि वे दुःखियोंका दुःख दूर करें। यह महादुष्ट और प्राणियोंको पीड़ित करनेवाला है। अतः मैं अभी इसे मार डालूँगा॥ ११॥

वीरराघवः

आर्तानां दुःखितानां आर्तिपरिहार इति यदेष राज्ञां परः उत्कृष्टो धर्मः । यतः एवं अतः भूतद्रोहकारिणं अत एव असत्तममेनं वधिष्यामि ॥। ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

कोऽवृश्चत् तव पादांस्त्रीन्सौरभेय चतुष्पद।
मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्॥

मूलम्

कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पदः26
मा भूवंस्त्वादृशा27 राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्॥ १२ ॥

अनुवाद (हिन्दी)

सुरभिनन्दन! आप तो चार पैरवाले जीव हैं। आपके तीन पैर किसने काट डाले? श्रीकृष्णके अनुयायी राजाओंके राज्यमें कभी कोई भी आपकी तरह दुःखी न हो॥ १२॥

वीरराघवः

पुनः वृष पृच्छन् आश्वासयति - इति सार्धैश्चतुर्भिः । हे सौरभेय! चतुष्पदः28 तव त्रीन् पादान् कोऽवृश्चत् अभि29नत् कृष्णानुवर्तिनां राज्ञां अस्माकं राष्ट्रे त्वादृशा दुःखिता मा भूवन् न सन्तु ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

आख्याहि वृष भद्रं वः साधूनामकृतागसाम्।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्॥

मूलम्

आख्याहि वृष! भद्रं वः साधूनामकृतागसाम्।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्॥ १३ ॥

अनुवाद (हिन्दी)

वृषभ! आपका कल्याण हो। बताइये, आप-जैसे निरपराध साधुओंका अंग-भंग करके किस दुष्टने पाण्डवोंकी कीर्तिमें कलंक लगाया है?॥ १३॥

वीरराघवः

हे वृष! वः भद्रमेव भविष्यति । किं त्वकृतागासां निरपराधिनां साधूनां युष्माकं आत्मवैरूप्यकारिणं पार्थानां कीर्तिं दूषयतीति तथा तं आख्याहि ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद‍्भयम्।
साधूनां भद्रमेव स्यादसाधुदमने कृते॥

मूलम्

30नेऽनागस्यघं युञ्जन् सर्वतोऽस्य च म31द‍्भयम्।
साधूनां भद्रमेव स्यादसाधुदमने कृते॥ १४ ॥

अनुवाद (हिन्दी)

जो किसी निरपराध प्राणीको सताता है, उसे चाहे वह कहीं भी रहे, मेरा भय अवश्य होगा। दुष्टोंका दमन करनेसे साधुओंका कल्याण ही होता है॥ १४॥

वीरराघवः

यः अनागसि निरपराधे जने द्रोहं युञ्जन्नास्ते तस्य सर्वतः सर्वत्र मत् मतः भयं भविष्यति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

अनागस्स्विह भूतेषु य आगस्कृन्निरङ्‍कुशः।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्॥

मूलम्

अनागस्स्विह भूतेषु य आगस्कृन्निरङ्‍कुशः।
आहर्ताऽस्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्॥ १५ ॥

अनुवाद (हिन्दी)

जो उद्दण्ड व्यक्ति निरपराध प्राणियोंको दुःख देता है, वह चाहे साक्षात् देवता ही क्यों न हो, मैं उसकी बाजूबंदसे विभूषित भुजाको काट डालूँगा॥ १५॥

वीरराघवः

योऽनागस्सु भूतेषु जनेषु निरङ्कुशः उत्पथः सन् आगस्कृत् द्रोहकृत् भवति, तस्य साक्षात् अमर्त्यस्य देवस्याप्यङ्गदयुक्तं भुजं आहर्ता अस्मि आहरिष्यमाणोऽस्मि ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम्।
शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह॥

मूलम्

राज्ञां हि परमो धर्मः स्वधर्मस्थानुपालनम्।
शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह॥ १६ ॥

अनुवाद (हिन्दी)

बिना आपत्तिकालके मर्यादाका उल्लंघन करनेवालोंको शास्त्रानुसार दण्ड देते हुए अपने धर्ममें स्थित लोगोंका पालन करना राजाओंका परम धर्म है॥ १६॥

वीरराघवः

स्वधर्मस्थानां अनुपालनमेव राज्ञः परमः धर्मः । कथम्भूतस्य ? इह लोके अनापदि उत्पथान् दुर्वृत्तान् अन्यान् असाधून् शासतः दण्डयतः । अनापद्युत्पथान् इत्यनेन आपदि दुर्वृत्तिः न दोषावहेति सूचितम् ॥ १६ ॥

श्लोक-१७

मूलम् (वचनम्)

धर्म उवाच

विश्वास-प्रस्तुतिः

एतद् वः पाण्डवेयानां युक्तमार्ताभयं वचः।
येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः॥

मूलम्

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः।
येषां गुणगणैः कृष्णः दौत्यादौ भगवान् कृ32तः॥ १७ ॥

अनुवाद (हिन्दी)

धर्मने कहा—राजन्! आप महाराज पाण्डुके वंशज हैं। आपका इस प्रकार दुःखियोंको आश्वासन देना आपके योग्य ही है; क्योंकि आपके पूर्वजोंके श्रेष्ठ गुणोंने भगवान् श्रीकृष्णको उनका सारथि और दूत आदि बना दिया था॥ १७॥

वीरराघवः

एवमुक्तवन्तमाह - वृष एतदिति त्रिभिः । तावद्वचोऽभिनन्दति एतदिति । पाण्डुवंशजानां युश्माकं एतत् आर्तानां न भयं यस्मात्तद्वचः युक्तमेव । पाण्डवेयान् विशिनष्टि - येषाम् पाण्डवेयानां गुणगुणैः हेतुभिः भगवान् कृष्णः दौत्यादौ कर्मणि वृतः दौत्यादिकमर्थं इत्यर्थः । येषां इति कर्तरि षष्ठी । यैः वृत इत्यर्थः । एवंविधगुणगणाश्रयाणां एतद्वचः युक्तमेवेति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ।
पुरुषं तं विजानीमो वाक्यभेदविमोहिताः॥

मूलम्

न वयं क्लेशबीजानि य33तः स्युः पुरुषर्षभ!।
पुरुषं तं विजानीमो वाक्यभेदविमोहिताः॥ १८ ॥

अनुवाद (हिन्दी)

नरेन्द्र! शास्त्रोंके विभिन्न वचनोंसे मोहित होनेके कारण हम उस पुरुषको नहीं जानते, जिससे क्लेशोंके कारण उत्पन्न होते हैं॥ १८॥

वीरराघवः

गाण्डीवधन्वना अर्जुनेन सह श्रीकृष्णे दूरं स्वलोकं प्रति गते सति त्वमेव शोकानर्हान् रहसि प्रहरन् वधमर्हसि । अतः शोच्योऽसि । स्वजने कोऽवृश्चदिति यत्पृष्टं तत्रोत्तरमाह हे पुरुषभ! यस्मात् पुंसः क्लेशबीजानि दुःखकारणानि स्युः तं पुरुषं वयं न जानीमः । तत्र हेतुं वदन् आत्मनो विशिनष्टि वाक्यभेदविमोहिताः क्लेशकारणानि वदतां वाक्यभेदैः नानाविधवाक्यैः विमोहिताः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

केचिद् विकल्पवसना आहुरात्मानमात्मनः।
दैवमन्ये परे कर्म स्वभावमपरे प्रभुम्॥

मूलम्

केचिद्वि34कल्पवसना आहुरात्मानमात्मनः35
दैवमन्ये परे कर्म स्वभावमपरे प्र36भुम्॥ १९ ॥

अनुवाद (हिन्दी)

जो लोग किसी भी प्रकारके द्वैतको स्वीकार नहीं करते, वे अपने-आपको ही अपने दुःखका कारण बतलाते हैं। कोई प्रारब्धको कारण बतलाते हैं, तो कोई कर्मको। कुछ लोग स्वभावको, तो कुछ लोग ईश्वरको दुःखका कारण मानते हैं॥ १९॥

वीरराघवः

वाक्यभेदानेव दर्शयति - केचिदिति सार्धेन । क्लेशकारणवादिनां मध्ये केचिदेवं वा, एवं वा इत्येवंविधः विकल्प एव वसनं वसनवत् निर्णेतव्यार्थापादकं येषां तथाभूता आत्मनः स्वस्य आत्मानमेव क्लेशकारणमाहुः । अन्ये दैवं अपरे तु कर्म प्राक्तनं कृतम् । इतरे तु स्वभावम् । अपरे तु प्रभुम् तत्र दैवम् जीवादृ37ष्टस्वभावः प्रकृतेः परिणामस्वभावः प्रभुः ईश्वरः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः।
अत्रानुरूपं राजर्षे विमृश स्वमनीषया॥

मूलम्

अप्रतर्क्याद38निर्देश्यादिति केष्वपि निश्चयः।
39त्रानुरूपं राजर्षे! विमृश स्वमनीषया॥ २० ॥

अनुवाद (हिन्दी)

किन्हीं-किन्हींका ऐसा भी निश्चय है कि दुःखका कारण न तो तर्कके द्वारा जाना जा सकता है और न वाणीके द्वारा बतलाया जा सकता है। राजर्षे! अब इनमें कौन-सा मत ठीक है, यह आप अपनी बुद्धिसे ही विचार लीजिये॥ २०॥

वीरराघवः

केचित्तु अप्रतर्क्यात् तर्कागोचरात् अनिर्देश्यात् वक्तुमशक्यात् कस्पाच्चित्कारणात् क्लेश इत्याहुः इति इत्थं केष्वपि निश्चयः नेत्यध्याहारः । यद्वा तत्तदभिमानानुसारेणैव निश्चय इत्यर्थः । तत्रैवं क्लेशकारणेषु विकल्पितेषु हे राजर्षे! यदनुरूपं प्रकृतक्लेशानुगु40णकारणं तत् स्वमनीषया सूक्ष्मया धिया विमृश विचारय ॥ २० ॥

श्लोक-२१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

एवं धर्मे प्रवदति स सम्राड् द्विजसत्तम।
समाहितेन मनसा विखेदः पर्यचष्ट तम्॥

मूलम्

एवं धर्मे प्रवदति स सम्राड् द्विजसत्तम41!।
समाहितेन मनसा वि42खेदः प43र्यचष्ट तम्॥ २१ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—ऋषिश्रेष्ठ शौनकजी! धर्मका यह प्रवचन सुनकर सम्राट् परीक्षित् बहुत प्रसन्न हुए , उनका खेद मिट गया। उन्होंने शान्तचित्त होकर उनसे कहा—॥ २१॥

वीरराघवः

इत्थं धर्मे प्रवदति सति हे द्विजसत्तमाः! स सम्राट् सार्वभौमः परीक्षित् विगतखेदः समाहितेन मनसा तं धर्मस्याभिप्रायं प्रत्यचष्ट । च44क्षिङ् दर्शनेऽपि वर्तते दृष्टवान् आलोच्य निर्णीतवान् इत्यर्थः ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक्।
यदधर्मकृतः स्थानं सूचकस्यापि तद‍्भवेत्॥

मूलम्

धर्मं ब्रवीषि धर्मज्ञ! धर्मोऽसि वृषरूपधृ45क्।
यदधर्मकृतः46 स्थानं सूचकस्यापि तद‍्भवेत्॥ २२ ॥

अनुवाद (हिन्दी)

परीक्षित् ने कहा—धर्मका तत्त्व जाननेवाले वृषभदेव! आप धर्मका उपदेश कर रहे हैं। अवश्य ही आप वृषभके रूपमें स्वयं धर्म हैं। (आपने अपनेको दुःख देनेवालेका नाम इसलिये नहीं बताया है कि) अधर्म करनेवालेको जो नरकादि प्राप्त होते हैं, वे ही चुगली करनेवालेको भी मिलते हैं॥ २२॥

वीरराघवः

निर्णीतमेव तदभिप्रायं प्रत्याह - धर्ममित्यादिभिः षङ्भिः । तत्र क्लेशबीजावहे पुरुषे सन्निहितेऽपि यदुक्तं क्लेशबीजानि यतः स्युः तं पुरुषं न जानीम इति तत्र तदभिप्रायं निर्णीतमाह धर्ममिति । हे धर्मज्ञ! साक्षात् त्वं वृषरूपधृक् धर्म एवासि । अत एव आपद्यपि पुरुषं तं न विजानीम इति धर्ममेव ब्रवीषि । अधर्मकारिणि पुरुषे सन्निहिते47 यत् अधर्मसूचकं वचः तद्ध48र्म्यमेव इत्यर्थः । यत् यस्मात् अधर्मकृतः अधर्मकारिणः स्थानं प्राप्यं स्थानं यत् सूचकस्यापि 49तत् स्थानं भवेत्; ‘पतितः पतितः’ इत्युक्त्वा पतिष्यतीति शास्त्रादिति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अथवा देवमायाया नूनं गतिरगोचरा।
चेतसो वचसश्चापि भूतानामिति निश्चयः॥

मूलम्

अथवा देवमायाया नूनं गतिरगोचरा।
चे50तसो वचसश्चापि भूतानामिति निश्चयः॥ २३ ॥

अनुवाद (हिन्दी)

अथवा यही सिद्धान्त निश्चित है कि प्राणियोंके मन और वाणीसे परमेश्वरकी मायाके स्वरूपका निरूपण नहीं किया जा सकता॥ २३॥

वीरराघवः

अथ “विमृश स्वमनीषया” इति यदुक्तं तदभिप्रायमाह - अथवेति । देवमायायाः ईश्वरसङ्कल्पस्य “माया वयुनं ज्ञानम्” (वे. नि. 3-9) इति ज्ञानपर्यायोऽत्र मायाशब्दः “मायया सततं वेत्ति प्राणिनां च शुभाशुभम्” (भार. 13 Appn. 15. 2805 pr) इति प्रयोगाच्च । गतिः भूतानां चेतसो वचसश्च अगोचरा अविषयीभूतेति वा निश्चयः । न जानीम इति विमृशस्वेति च वदता त्वया अयं पापकृदिति सूचनं अधर्मः ईश्वरसङ्कल्पश्च वा51ङ्मनसयोरगोचर इति वा दर्शितमित्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

तपः शौचं दया सत्यमिति पादाः कृते कृताः।
अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव॥

मूलम्

तपः शौचं दया सत्यं इति पादाः कृ52ते कृताः।
अधर्मां53शैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव॥

अनुवाद (हिन्दी)

धर्मदेव! सत्ययुगमें आपके चार चरण थे—तप, पवित्रता, दया और सत्य। इस समय अधर्मके अंश गर्व, आसक्ति और मदसे तीन चरण नष्ट हो चुके हैं॥ २४॥

वीरराघवः

धर्मोऽसीत्यनेन त्वं साक्षात् धर्माधिदेवता एवेत्युक्तं यत एवं अत एव तव पादा अपि न लौकिकवृषभपादसजातीयाः, अपि तु विशिष्टा ए54वेति वदंस्तद्व्यञ्जकान् दर्शयति तप इति । धर्माधिदेवस्य तव पादाः तप आदयश्चत्वारः प्रकीर्तिताः । तत्र त्रयः पादाः अधर्मस्यां55शैः त्रिभिः स्मयादिभिर्भग्नाः । तत्र स्वस्मिन् उत्कर्षधी: स्मयः । स च तपोनाशहेतुः, सङ्गः शौचविरोधी, मदः दयाविरोधी, चित्तविकार: विवेकाक्षमत्वरूपः । मदेनार्तानां आर्तिमपश्यत्र दयां कुरुते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः।
तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः॥

मूलम्

इदानीं धर्म! पादस्ते सत्यं निर्वर्तये56द्यतः।
तं जिघृक्षत्यधर्मोऽयं अनृतेनैधितः कलिः॥ २५ ॥

अनुवाद (हिन्दी)

अब आपका चौथा चरण केवल ‘सत्य’ ही बच रहा है। उसीके बलपर आप जी रहे हैं। असत्यसे पुष्ट हुआ यह अधर्मरूप कलियुग उसे भी ग्रास कर लेना चाहता है॥ २५॥

वीरराघवः

अथ वृषलं तच्चिकीर्षितं च निश्चित्याह - इदानीमिति । हे धर्म! य57स्तव तु58रीयपा59दः सत्यं त60द्यतो निर्वर्तयेत् यस्माद्धेतोः निष्प61द्येत तमिदानीं अनृतेनैधितः प्रवृद्धो62ऽयं अध63र्मिरूपः कलिः जिघृक्षति ग्रहीतुमिच्छति । तपआदीनां क्रमेण नि64र्वर्तकाः स्मयसङ्गमदानृतानां अ65भावाः । सन्त्यपि हि तपआदीनि विस्मयादिभि66र्भज्यन्ते ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

इयं च भूर्भगवता न्यासितोरुभरा सती।
श्रीमद‍्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका॥

मूलम्

इयं च भूर्भगवता न्यासितोरुभरा सती।
श्रीमद‍्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका॥ २६ ॥

अनुवाद (हिन्दी)

ये गौ माता साक्षात् पृथ्वी हैं। भगवान‍्ने इनका भारी बोझ उतार दिया था और ये उनके राशि-राशि सौन्दर्य बिखेरनेवाले चरणचिह्नोंसे सर्वत्र उत्सवमयी हो गयी थीं॥ २६॥

वीरराघवः

अथ गां तत्क्लेशहेतु निश्चित्याऽऽह - इयमिति द्वाभ्याम् । इयं गौः साक्षात् भूः पृथ्वी भगवता श्रीकृष्णेन न्यासित अपनीतः उरुभरः यस्यास्तथाभूता श्रीमद्भिः अब्जादिवि67ग्रहैः श्रीः शोभा येषामस्तीति तैः तस्य भगवतः पादन्यासैः सर्वत्र कृतं कौतुकं उत्सवः यस्यास्सा बभूव ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिताधुना।
अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति॥

मूलम्

शोचत्य68श्रुकला साध्वी दुर्भगेवोज्झिता69धुना।
अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति॥ २७ ॥

अनुवाद (हिन्दी)

अब ये उनसे बिछुड़ गयी हैं। वे साध्वी अभागिनीके समान नेत्रोंमें जल भरकर यह चिन्ता कर रही हैं कि अब राजाका स्वाँग बनाकर ब्राह्मणद्रोही शूद्र मुझे भोगेंगे॥ २७॥

वीरराघवः

अधुना तु भगवतोज्झिता त्यक्ता सती साध्वी भूः अत एव भाग्यहीनेव अब्रह्मण्या ब्रह्मकुलासाधवो नृपव्याजाः नृपवेषमात्रधराः शूद्राः मां भोक्ष्यन्तीतिहेतोः अश्रूणां कलाः बिन्दवः यस्याः तथाभूता शोचति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

इति धर्मं महीं चैव सान्त्वयित्वा महारथः।
निशातमाददे खड्गं कलयेऽधर्महेतवे॥

मूलम्

इति धर्मं महीञ्चैव सान्त्वयित्वा महारथः।
निशातमाददे खड्गं कलयेऽधर्महेतवे॥ २८ ॥

अनुवाद (हिन्दी)

महारथी परीक्षित् ने इस प्रकार धर्म और पृथ्वीको सान्त्वना दी। फिर उन्होंने अधर्मके कारणरूप कलियुगको मारनेके लिये तीक्ष्ण तलवार उठायी॥ २८॥

वीरराघवः

इति इत्थं, धर्मं महीं च सान्त्वयित्वा महारथः परीक्षित् अधर्महेतवे कलये तद्वधार्थं निशातं तीक्ष्णं खड्गं आदधे उद्धृतवान् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम्।
तत्पादमूलं शिरसा समगाद् भयविह्वलः॥

मूलम्

तं जिघांसुमभिप्रेत्य70 विहाय नृपलाञ्छनम्।
तत्पादमूलं शिरसा समगात् भयविह्वलः॥ २९ ॥

अनुवाद (हिन्दी)

कलियुग ताड़ गया कि ये तो अब मुझे मार ही डालना चाहते हैं; अतः झटपट उसने अपने राजचिह्न उतार डाले और भयविह्वल होकर उनके चरणोंमें अपना सिर रख दिया॥ २९॥

वीरराघवः

तं परीक्षितं जिघांसुं हन्तुं इच्छुं अभिप्रेत्य आलक्ष्य कलिः नृपलाञ्छनानि किरीटादीनि विहाय अपनीय भयेन विह्वलगात्रः 71शिरसा तस्य परीक्षितः पादयोर्मूलं समगात् पपातेत्यर्थः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

पतितं पादयोर्वीक्ष्य कृपया दीनवत्सलः।
शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव॥

मूलम्

पतितं पादयोर्वीरः72 कृपया दीनवत्सलः।
शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव॥ ३० ॥

अनुवाद (हिन्दी)

परीक्षित् बड़े यशस्वी, दीनवत्सल और शरणागतरक्षक थे। उन्होंने जब कलियुगको अपने पैरोंपर पड़े देखा तो कृपा करके उसको मारा नहीं, अपितु हँसते हुए-से उससे कहा॥ ३०॥

वीरराघवः

पादयोः पतितं273कलिं वीरः दीनवत्सलः शरणम74र्हति शरण्यः श्लोक्यः प्र75शस्तो राजा कृपया नावधीत् न हतवान् किन्तु हसन्निव इदं वक्ष्यमाणमाह ॥ ३० ॥

श्लोक-३१

मूलम् (वचनम्)

राजोवाच

विश्वास-प्रस्तुतिः

न ते गुडाकेशयशोधराणां
बद्धाञ्जलेर्वै भयमस्ति किंचित्।
न वर्तितव्यं भवता कथंचन
क्षेत्रे मदीये त्वमधर्मबन्धुः॥

मूलम्

न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै76 भयमस्ति किञ्चित्।
न वर्तितव्यं भवता क77थञ्चन क्षेत्रे म78दीये त्वमधर्मबन्धुः॥ ३१ ॥

अनुवाद (हिन्दी)

परीक्षित् बोले—जब तू हाथ जोड़कर शरण आ गया, तब अर्जुनके यशस्वी वंशमें उत्पन्न हुए किसी भी वीरसे तुझे कोई भय नहीं है। परन्तु तू अधर्मका सहायक है, इसलिये तुझे मेरे राज्यमें बिलकुल नहीं रहना चाहिये॥ ३१॥

वीरराघवः

तदेवाह - नेत्यादिभिश्चतुभिः । गुडाकेशयशोधराणां अर्जुनकीर्तिवर्धनानां अस्माकं सन्निधाविति शेषः बद्धाञ्जलेस्ते तव किञ्चिदपि भयं नास्ति, अस्मदीये क्षेत्रे कथञ्चन भवता न वर्तितव्यं, कुतः यतः त्वं अधर्मस्य बन्धुः अनुबन्धी ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

त्वां वर्तमानं नरदेवदेहे-
ष्वनु प्रवृत्तोऽयमधर्मपूगः।
लोभोऽनृतं चौर्यमनार्यमंहो
ज्येष्ठा च माया कलहश्च दम्भः॥

मूलम्

त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपू79गः।
लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः॥ ३२ ॥

अनुवाद (हिन्दी)

तेरे राजाओंके शरीरमें रहनेसे ही लोभ, झूठ, चोरी, दुष्टता, स्वधर्म-त्याग, दरिद्रता, कपट, कलह, दम्भ और दूसरे पापोंकी बढ़ती हो रही है॥ ३२॥

वीरराघवः

तदेव प्रपञ्चयति - त्वामिति । नरदेवानां देहेषु वर्तमानं त्वां अनुसृत्य प्रवृत्तः भवति अयमध80र्मसमुदायः, कोऽसावधर्मयूथः इत्यत्राह - लोभ इति । अनार्यं शाठ्यं अंहः पापं, ज्येष्ठा अलक्ष्मीः, माया मायागुणकार्यम् रागद्वेषादिकं अपह्नवो वा, दम्भः वञ्चनम्॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

न वर्तितव्यं तदधर्मबन्धो
धर्मेण सत्येन च वर्तितव्ये।
ब्रह्मावर्ते यत्र यजन्ति यज्ञै-
र्यज्ञेश्वरं यज्ञवितानविज्ञाः॥

मूलम्

न वर्तितव्यं त81दधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये।
ब्रह्मावर्ते यत्र यजन्ति यज्ञैः यज्ञेश्वरं य82ज्ञवितानविज्ञाः॥ ३३ ॥

अनुवाद (हिन्दी)

अतः अधर्मके साथी! इस ब्रह्मावर्तमें तू एक क्षणके लिये भी न ठहरना; क्योंकि यह धर्म और सत्यका निवासस्थान है। इस क्षेत्रमें यज्ञविधिके जाननेवाले महात्मा यज्ञोंके द्वारा यज्ञपुरुषभगवान‍्की आराधना करते रहते हैं॥ ३३॥

वीरराघवः

तत् तस्मात् हे अधर्मबन्धो! धर्मेण सत्येन च वर्तितव्ये अस्मिन् ब्रह्मावर्ते क्षेत्रे त्वया न वर्तितव्यम् । “सरस्वतीदृषद्वत्योः देवनद्योर्यदन्तरं तद्ब्रह्मावर्तम्” । तथा यत्र यज्ञवितानविज्ञाः यज्ञानु83शासनकोविदाः यज्ञैः यज्ञेश्वरं परमपुरुषं आराधयन्ति तत्र ब्रह्मावर्ते न वर्तितव्यम् भवतेत्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

यस्मिन् हरिर्भगवानिज्यमान
इज्यामूर्तिर्यजतां शं तनोति।
कामानमोघान् स्थिरजङ्गमाना-
मन्तर्बहिर्वायुरिवैष आत्मा॥

मूलम्

यस्मिन् हरिर्भगवानिज्यमान इ84ज्यामूर्तिर्यजतां शं तनोति।
कामानमोघान् स्थिरजङ्गमानां अन्तर्बहिर्वायुरि85वैष आत्मा॥ ३४ ॥

अनुवाद (हिन्दी)

इस देशमें भगवान् श्रीहरि यज्ञोंके रूपमें निवास करते हैं, यज्ञोंके द्वारा उनकी पूजा होती है और वे यज्ञ करनेवालोंका कल्याण करते हैं। वे सर्वात्मा भगवान् वायुकी भाँति समस्त चराचर जीवोंके भीतर और बाहर एकरस स्थित रहते हुए उनकी कामनाओंको पूर्ण करते रहते हैं॥ ३४॥

वीरराघवः

किम्बहुना! यस्मिन् देशे हरिः भगवान् इज्या आराध्या इन्द्रादयः ते मूर्तिः शरीरं यस्य सः । यज्ञैः इज्यमानो वायुरिव स्थावराणां जङ्गमानाञ्च भूतानामन्तर्बहिश्च व्याप्य इति शेषः । आत्मा अन्तः प्रविश्य प्रशासनध86रणे कुर्वन् यजतां आराधयितॄणां अमोघान् कामान् इष्टार्थांश्च शं सुख मोक्षाख्यं च तनोति प्रयच्छति । तत्र सर्वत्रापि न भवता वर्तितव्यम् ॥ ३४ ॥

श्लोक-३५

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम्॥

मूलम्

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम्॥ ३५ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—परीक्षित् की यह आज्ञा सुनकर कलियुग सिहर उठा। यमराजके समान मारनेके लिये उद्यत, हाथमें तलवार लिये हुए परीक्षित् से वह बोला—॥ ३५॥

वीरराघवः

इत्थं परीक्षिता अनुशिष्टः कलिः जातवेपथुः सञ्जातगात्रकम्पः उद्यतः उद्धृतः असिः खङ्गः येन तं दण्डपाणिं यममिवोद्यन्तं उक्तं इदं वक्ष्यमाणमाह ॥ ३५ ॥

श्लोक-३६

मूलम् (वचनम्)

कलिरुवाच

विश्वास-प्रस्तुतिः

यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम्॥

मूलम्

यत्र क्व87चन वत्स्यामि सार्वभौम! तवाज्ञया।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम्॥ ३६ ॥

अनुवाद (हिन्दी)

कलिने कहा—सार्वभौम! आपकी आज्ञासे जहाँ कहीं भी मैं रहनेका विचार करता हूँ, वहीं देखता हूँ कि आप धनुषपर बाण चढ़ाये खड़े हैं॥ ३६॥

वीरराघवः

तदेवाह - यत्रेति द्वाभ्याम् । हे सार्वभौम! तवाऽज्ञया यत्र क्व88चित् वत्स्यामि यत् स्थानं भवान्निर्दिशति, तत्र क्वचित् वत्स्यामि । किन्तु तत्र त्वामेव गृहीतशरासनं आलक्षये ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि।
यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम्॥

मूलम्

तन्मे धर्मभृतां श्रेष्ठ! स्थानं निर्देष्टुमर्हसि।
यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम्॥ ३७ ॥

अनुवाद (हिन्दी)

धार्मिकशिरोमणे! आप मुझे वह स्थान बतलाइये, जहाँ मैं आपकी आज्ञाका पालन करता हुआ स्थिर होकर रह सकूँ॥ ३७॥

वीरराघवः

अतः त्वामेवंविधं न यत्र लक्षये हे धर्मभृतां श्रेष्ठ! तव अनुशासनं आतिष्ठन् अनुपालयन् नियमेन वत्स्ये, तत्स्थानं निर्देष्टुं त्वमर्हसि ॥ ३७ ॥

श्लोक-३८

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ।
द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः॥

मूलम्

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ।
द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः॥ ३८ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—कलियुगकी प्रार्थना स्वीकार करके राजा परीक्षित् ने उसे चार स्थान दिये—द्यूत, मद्यपान, स्त्री-संग और हिंसा। इन स्थानोंमें क्रमशः असत्य, मद, आसक्ति और निर्दयता—ये चार प्रकारके अधर्म निवास करते हैं॥ ३८॥

वीरराघवः

इत्थं अभ्यर्थितो राजा ततः तस्मै कलये वासस्थानानि ददौ । तान्येवाऽऽह – द्यूतमिति । येषु स्थानेषु द्यूतादिरूपः चतुर्विधः अधर्मः तानि ददौ इत्यर्थः । तत्र द्यूतं अक्षैः देवनं, पानं मद्यपानं, स्त्रियः स्त्रीणां सङ्गः, सूना भूतहिंसा ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

पुनश्च याचमानाय जातरूपमदात्प्रभुः।
ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम्॥

मूलम्

पुनश्च याचमानाय जातरूपमदात्प्र89भुः।
ततोऽनृतं मदं कामं रजो वैरञ्च पञ्चमम्॥ ३९ ॥

अनुवाद (हिन्दी)

उसने और भी स्थान माँगे। तब समर्थ परीक्षित् ने उसे रहनेके लिये एक और स्थान—‘सुवर्ण’ (धन)—दिया। इस प्रकार कलियुगके पाँच स्थान हो गये—झूठ, मद, काम, वैर और रजोगुण॥ ३९॥

वीरराघवः

पुनश्च स्थानान्तरं याचमानाय कलये प्रभुः परीक्षित् जातरूपं सुवर्णं स्थानमदात् । ततः पुनरपि स्थानान्तराणि याचमानाय अनृतादीनि पञ्च येषु तानि स्थानानि ददौ रजः क्रोधः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः।
औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत्॥

मूलम्

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः।
औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत्॥ ४० ॥

अनुवाद (हिन्दी)

परीक्षित् के दिये हुए इन्हीं पाँच स्थानोंमें अधर्मका मूल कारण कलि उनकी आज्ञाओंका पालन करता हुआ निवास करने लगा॥ ४०॥

वीरराघवः

प्रभवति अस्मात् इति प्रभवः अधर्मप्रभवः कलिः औत्तरेयेण परीक्षिता दत्तानि अमूनि पञ्च स्थानानि अनृतादीनि पूर्वोक्तानि द्यूतादीनि च तस्यौत्तरेयस्य आज्ञानुवर्ती सः कलिः न्यवसत् ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित्।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः॥

मूलम्

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित्।
विशेषतो धर्मशीलः राजा लोकपतिर्गुरुः॥ ४१ ॥

अनुवाद (हिन्दी)

इसलिये आत्मकल्याणकामी पुरुषको इन पाँचों स्थानोंका सेवन कभी नहीं करना चाहिये। धार्मिक राजा, प्रजावर्गके लौकिक नेता और धर्मोपदेष्टा गुरुओंको तो बड़ी सावधानीसे इनका त्याग करना चाहिये॥ ४१॥

वीरराघवः

यतो द्यूतादीनि कलेरावासस्थानानि अथ अतः बुभूषुः भवितुमिच्छुः आत्मसत्तां लब्धुमिच्छुः पुमान् एतानि द्यूतादीनि न सेवेत । बुभूषुरित्यनेन एतानि सेवमानोन्ततः स्थावरतां प्राप्नुवन् असत्प्रायो भवेदिति सूचितम् । राजा तु विशेषतः एतानि न सेवेत । कुतः ? यतोऽयं धर्मशीलः धर्म एव शीलं वृत्तं यस्य सः । तच्च कुतः लोकपतिः लोकानां 90पतिः पालयिता, अन्यथा राजानमवलोक्य प्रजा अपि तथा कु91र्वत्यः नश्येयुरिति भावः । एतच्च राज्ञः अनुचितमित्यभिप्रायेण विशिनष्टि । गुरुः हितोपदेष्टा ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति।
प्रतिसंदध आश्वास्य महीं च समवर्धयत्॥

मूलम्

वृषस्य नष्टांस्त्रीन् पादान् तपश्शौचं दयामिति।
प्रतिसंदध आ92श्वास्य महीं च समवर्धयत्॥ ४२ ॥

अनुवाद (हिन्दी)

राजा परीक्षित् ने इसके बाद वृषभरूप धर्मके तीनों चरण—तपस्या, शौच और दया जोड़ दिये और आश्वासन देकर पृथ्वीका संवर्धन किया॥ ४२॥

वीरराघवः

ततः वृषस्य वृषरूपधर्मस्य नष्टान् तपआदिरूपान् त्रीन् पादान् प्रतिसन्दधे संयोजयामास परीक्षिदिति शेषः । तथा महीं चाश्चास्य सान्त्वयित्वा सम्यगवर्धयत् पुपोष ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम्।
पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता॥

मूलम्

स एष ए93तर्ह्यध्यास्त आसनं पार्थिवोचितम्।
पितामहेनोपन्यस्तं राज्ञाऽरण्यं विविक्षता॥ ४३ ॥

अनुवाद (हिन्दी)

वे ही महाराजा परीक्षित् इस समय अपने राजसिंहासनपर, जिसे उनके पितामह महाराज युधिष्ठिरने वनमें जाते समय उन्हें दिया था, विराजमान हैं।॥ ४३॥

वीरराघवः

इति । स उक्तविधप्रभावः एष परीक्षित् एतर्हि अधुना अनतिकाले विप्रकृष्टकाले अरण्यं विविक्षता प्रवेष्टुमिच्छता पितामहेन राज्ञा युधिष्ठिरेण उपन्यस्तं प्रदत्तं पार्थिवस्य सार्वभौमस्योचितं सिंहासनं अध्यास्ते । “वर्तमानवद्वे"ति भूते लट् ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन्।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः॥

मूलम्

आस्तेऽधुना स94 राजर्षिः कौरवेन्द्र95श्रियोल्लसन्।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः॥ ४४ ॥

अनुवाद (हिन्दी)

वे परम यशस्वी सौभाग्यभाजन चक्रवर्ती सम्राट् राजर्षि परीक्षित् इस समय हस्तिनापुरमें कौरव-कुलकी राज्यलक्ष्मीसे शोभायमान हैं॥ ४४॥

वीरराघवः

कौरवश्रेष्ठः श्रिया सार्वभौमश्रिया उल्लसन् प्रकाशमानः विपुलकीर्तिः चक्रवर्ती चक्रं भूमण्डलं वर्तयति पालयतीति तथाभूतः । राजर्षिः महाराजः परीक्षित् गजाह्वये पुरे अधुना वर्तमानसन्निकृष्टे भूतकाले आस्ते आस्त ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः।
यस्य पालयतः क्षोणीं यूयं सत्राय दीक्षिताः॥

मूलम्

इत्थम्भूतानुभावोऽयं अभिमन्युसुतो नृपः।
यस्य पालयतः क्षो96णीं यूयं सत्राय दीक्षिताः॥ ४५ ॥

अनुवाद (हिन्दी)

अभिमन्युनन्दन राजा परीक्षित् वास्तवमें ऐसे ही प्रभावशाली हैं, जिनके शासनकालमें आपलोग इस दीर्घकालीन यज्ञके लिये दीक्षित हुए हैं*॥ ४५॥

पादटिप्पनी
  • ४३ से ४५ तकके श्लोकोंमें महाराज परीक्षित् का वर्तमानके समान वर्णन किया गया है। ‘वर्तमानसामीप्ये वर्तमानवद्वा’ (पा० सू०३। ३। १३१) इस पाणिनि-सूत्रके अनुसार वर्तमानके निकटवर्ती भूत और भविष्यके लिये भी वर्तमानका प्रयोग किया जा सकता है। जगद‍्गुरु श्रीवल्लभाचार्यजी महाराजने अपनी टीकामें लिखा है कि यद्यपि परीक्षित् की मृत्यु हो गयी थी, फिर भी उनकी कीर्ति और प्रभाव वर्तमानके समान ही विद्यमान थे। उनके प्रति अत्यन्त श्रद्धा उत्पन्न करनेके लिये उनकी दूरी यहाँ मिटा दी गयी है। उन्हें भगवान‍्का सायुज्य प्राप्त हो गया था, इसलिये भी सूतजीको वे अपने सम्मुख ही दीख रहे हैं। न केवल उन्हींको, बल्कि सबको इस बातकी प्रतीति हो रही है। ‘आत्मा वै जायते पुत्रः’ इस श्रुतिके अनुसार जनमेजयके रूपमें भी वही राजसिंहासनपर बैठे हुए हैं। इन सब कारणोंसे वर्तमानके रूपमें उनका वर्णन भी कथाके रसको पुष्ट ही करता है।
अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः॥ १७॥

वीरराघवः

न केवलं उक्त एव तस्य प्रभावः, किन्तु इत्थंभूता अन्ये च प्रभावाः यस्य, तथाभूतोऽयमभिमन्योः सुतः नृपः परीक्षित् अत एवाधुना तस्याभावेऽपि तद्भयात् कलेः अत्र देशे प्रवेशाभावादेव भवतां इदं सत्रं प्रवर्तत इत्याह - यस्येति । यस्य परीक्षितः क्षोणीं पालयतः अत्रापि वर्तमानसामीप्ये भूते लटः शत्रादेशः, पालितवतः सतः । अपनीतेऽपि घनसारे तत्पेटिकायां तद्वासनानुवृत्तिवत् तदाज्ञाचक्रानुवृत्तेरेव हेतोः यूयं सत्राय कृतसङ्कल्पाः वर्तध्वे, अन्यथा कलिना अभिभूतं सत्रमिदं न प्रवर्तेत इत्यर्थः ॥ ४५ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तदशोऽध्यायः ॥ १७ ॥


  1. H,V ददर्श ↩︎

  2. K,M पीडितम् ↩︎

  3. H घ ↩︎

  4. B,H,M,W अ I आ ↩︎

  5. K,M,W कृशां ↩︎

  6. W वामपादेन ↩︎

  7. W कृषां ↩︎

  8. W कर्शितां ↩︎

  9. B वेशेन ↩︎

  10. W त्वं ↩︎

  11. A कस्त्वं; K,M स त्वं ↩︎

  12. W स्वर्लोकं ↩︎

  13. W ल! ↩︎

  14. A,G पौ ↩︎

  15. K,M निपत W न पत ↩︎

  16. K,M त्वां ↩︎

  17. A,B ण्डप ↩︎

  18. B,I त्र ↩︎

  19. H शोचो ↩︎

  20. W अत्येतु ↩︎

  21. K,M मातर्हिस्यन्ते साध्वसा ↩︎

  22. W adds राज्ञः ↩︎

  23. B,K,M,W राज्ञः ↩︎

  24. H,V आ ↩︎

  25. H,V हनि ↩︎

  26. A,G,I द! ↩︎

  27. B शो ↩︎

  28. A,B द! ↩︎

  29. W च्छि ↩︎

  30. K,M गले ↩︎

  31. K,M त ↩︎

  32. B,K,M,W वृत्तः ↩︎

  33. AF,GF यतस्व ↩︎

  34. K,M द्वैकल्पवचसा ↩︎

  35. AF,GF ना ↩︎

  36. AF,GF विभुम् ↩︎

  37. W दृष्टमिति भावः ↩︎

  38. K,M दनिर्वाच्या ↩︎

  39. H,V तत्रा ↩︎

  40. W गुणं कारणं ↩︎

  41. H,I,V माः! ↩︎

  42. K,M विदित्वा ↩︎

  43. H,K,M,V प्रत्यचष्ट ↩︎

  44. W चक्षि: ↩︎

  45. H,V धृत् ↩︎

  46. AF,GF तं ↩︎

  47. W तेऽप्यधर्म ↩︎

  48. A,B द्धर्म ↩︎

  49. W adds धर्मसूचकस्यापि ↩︎

  50. AF,GF वचसो मनसश्चापि ↩︎

  51. W वाङ्मनसागोचरः ↩︎

  52. N,W प्रकीर्तिता: ↩︎

  53. H,K,M,V “र्मा ङ्गै ↩︎

  54. W श्चेति ↩︎

  55. W स्याङ्गैः ↩︎

  56. K,M से यतः ↩︎

  57. W यत्तव ↩︎

  58. W तुरीयं ↩︎

  59. W पादं ↩︎

  60. W यद्यतो ↩︎

  61. W ष्पाद्ये ↩︎

  62. W त्तोऽ ↩︎

  63. W धर्म ↩︎

  64. W निवर्तका: ↩︎

  65. W भावाः ↩︎

  66. W भिः न व्यज्यन्ते ↩︎

  67. W चिह्नैः ↩︎

  68. K,M न्त्य ↩︎

  69. B,H,I,V ता सती ↩︎

  70. K,M क्ष्य ↩︎

  71. W adds चलद्गात्रः ↩︎

  72. H,V र्धी ↩︎

  73. W adds तं ↩︎

  74. A,B मर्हः ↩︎

  75. W प्रशस्यः ↩︎

  76. AF,GF स्ते; K,M भों! ↩︎

  77. K,M कथञ्चित् ↩︎

  78. H,V,W ऽस्मदीये ↩︎

  79. H,K,M,V यूथ: ↩︎

  80. W धर्मि ↩︎

  81. K,M यदधर्म, V तव धर्म ↩︎

  82. K,M ब्रह्मवितानयज्ञाः ↩︎

  83. W नुष्ठान ↩︎

  84. B,I,W इज्यात्ममूर्ति ; K इष्टात्ममूर्ति ; M इच्छात्ममूर्ति ↩︎

  85. K,M रिवेश आ, W रिवैक आ ↩︎

  86. W धारणे ↩︎

  87. AF,GF क्वचाथ; B,H,I,K,M,V क्ववाच ↩︎

  88. W क्वापि ↩︎

  89. H,V द्विभुः ↩︎

  90. W adds जनानां ↩︎

  91. A,B कुर्वन्त्यः ↩︎

  92. AF,GF आस्थाय ↩︎

  93. AF,GF एतदध्यास्त ↩︎

  94. H,V Sथ ↩︎

  95. K,M न्द्रः श्रि ↩︎

  96. I क्षौणीं ↩︎