१६ पृथ्वीधर्मसंवादः

[षोडशोऽध्यायः]

भागसूचना

परीक्षित् की दिग्विजय तथा धर्म और पृथ्वीका संवाद

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

ततः परीक्षिद् द्विजवर्यशिक्षया
महीं महाभागवतः शशास ह।
यथा हि सूत्यामभिजातकोविदाः
समादिशन् विप्र महद‍्गुणस्तथा॥

मूलम्

ततः परीक्षिद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह1
यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र! म2हद‍्गु3णस्तथा॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—शौनकजी! पाण्डवोंके महाप्रयाणके पश्चात् भगवान‍्के परम भक्त राजा परीक्षित् श्रेष्ठ ब्राह्मणोंकी शिक्षाके अनुसार पृथ्वीका शासन करने लगे। उनके जन्मके समय ज्योतिषियोंने उनके सम्बन्धमें जो कुछ कहा था, वास्तवमें वे सभी महान् गुण उनमें विद्यमान थे॥ १॥

वीरराघवः

तदेव4 सम्प्रस्थानं पाण्डुपुत्राणां ‘वक्ष्ये कृष्णकथोदय’मिति प्रतिज्ञातं पाण्डुपुत्रसंस्थानं परीक्षिज्जन्मोपेतमुपपाद्य 5“परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्” (भाग 1-7-12) इति प्रतिज्ञा6तं निर्वर्णयति । तत्र तज्जन्म पाण्डवपुत्रवृत्तान्ते एवान्तर्भाव्याभिहितं विलापनं द्वादशे स्कन्धे वक्ष्यति । इतः परं चतुरध्या7यैः कर्माणि वर्ण्यन्ते इति विवेकः । तत इति । ततः पितृनिर्गमनानन्तरं महान्तो गुणा यस्य स परीक्षित् । हे द्विज! जन्मसूत्यां जन्मदिने जातककोविदाः विप्राः यथा समादिशन् तथैव द्विजवर्यशिक्षया महाभागवतस्सन् महीं शशास पालयामास ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

स उत्तरस्य तनयामुपयेम इरावतीम्।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान्॥

मूलम्

स उत्तमस्य तनयामुपयेम इरावतीम्।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान्॥ २ ॥

अनुवाद (हिन्दी)

उन्होंने उत्तरकी पुत्री इरावतीसे विवाह किया। उससे उन्होंने जनमेजय आदि चार पुत्र उत्पन्न किये॥ २॥

वीरराघवः

स परीक्षिदुत्तरस्य मातुलस्य तनयामिरावतीमुपयेमे उदवाह । 8तस्यामिरावत्यां जनमेजयादींश्चतुरः सुतानुदपादयत् । अडभाव आर्षः, आगमशास्त्रस्यानित्यत्वाद्वा ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान्।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः॥

मूलम्

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान्।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षि9गोचराः॥ ३ ॥

अनुवाद (हिन्दी)

तथा कृपाचार्यको आचार्य बनाकर उन्होंने गंगाके तटपर तीन अश्वमेधयज्ञ किये, जिनमें ब्राह्मणोंको पुष्कल दक्षिणा दी गयी। उन यज्ञोंमें देवताओंने प्रत्यक्षरूपमें प्रकट होकर अपना भाग ग्रहण किया था॥ ३॥

वीरराघवः

शारद्वतं कृपं गुरुं कृत्वा वृत्वा गङ्गायां गङ्गातीरे त्रीनश्वमेधानाजहार, यत्र येष्वश्वमेघेषु देवा इन्द्रादयोऽक्षिगोचरा बभूवुः, तथाविधा नाजहारेत्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित्।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा॥

मूलम्

निजग्राहौजसा वी10रः कलिं दिग्विजये क्वचित्।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा॥ ४ ॥

अनुवाद (हिन्दी)

एक बार दिग्विजय करते समय उन्होंने देखा कि शूद्रके रूपमें कलियुग राजाका वेष धारण करके एक गाय और बैलके जोड़ेको ठोकरोंसे मार रहा है। तब उन्होंने उसे बलपूर्वक पकड़कर दण्ड दिया॥ ४॥

वीरराघवः

कदाचित् दिग्विजये निमित्ते चरन् वीरः परीक्षित् क्वचिदेशे यदा पादेन गोमिथुनं स्त्रीपुंसयोर्गवोर्युग्मं घ्नन्तं 11शूद्रमपि नृपचिह्नधरं कलिभोजसा पराभिभवसामर्थ्यात्मकेन निजग्राह निगृहीतवान् ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

शौनक उवाच

विश्वास-प्रस्तुतिः

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः।
नृदेवचिह्नधृक् शूद्रकोऽसौ गां यः पदाहनत्।
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम्॥

मूलम्

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः।
नृदेवचि12ह्नधृक् शू13द्रकोऽसौ गां यः पदाऽहनत्।
तत्कथ्यतां महाभाग! यदि कृ14ष्णकथाश्रयम्॥ ५ ॥

वीरराघवः

तत्र लब्धप्रश्नावसरः पृच्छति शौनकः - कस्य हेतोरिति । नृपः परीक्षिद्दिग्विजये कस्माद्धेतोः कलिं निजग्राहेत्येकः प्रश्नः । यो गां पदाऽहनत् तताड, असौ नृपचिह्नधा15री शूद्रः कः ? इत्यपरः । यद्यपि नृपलिङ्गधरं शूद्रं कलिमिति सामानाधिकरण्यनिर्देशेनैव कलिरेव नृ16पदेवचिह्नधृक् शूद्र इति ज्ञात एवेति प्रश्नानुपपत्तिः तथाऽपि क इत्यस्य किंगुणक इत्यभिप्रायः । अतः प्रश्नोपपत्तिः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

अथवास्य पदाम्भोजमकरन्दलिहां सताम्।
किमन्यैरसदालापैरायुषो यदसद्‍व्ययः॥

मूलम्

अथवाऽस्य पदाम्भोजमकरन्दलिहां सताम्।
किमन्यैरसदालापैरायुषो यदसद्‍व्ययः॥ ६ ॥

अनुवाद (हिन्दी)

शौनकजीने पूछा—महाभाग्यवान् सूतजी! दिग्विजयके समय महाराज परीक्षित् ने कलियुगको दण्ड देकर ही क्यों छोड़ दिया—मार क्यों नहीं डाला? क्योंकि राजाका वेष धारण करनेपर भी था तो वह अधम शूद्र ही, जिसने गायको लातसे मारा था? यदि यह प्रसंग भगवान् श्रीकृष्णकी लीलासे अथवा उनके चरणकमलोंके मकरन्द-रसका पान करनेवाले रसिक महानुभावोंसे सम्बन्ध रखता हो तो अवश्य कहिये। दूसरी व्यर्थकी बातोंसे क्या लाभ। उनमें तो आयु व्यर्थ नष्ट होती है॥ ५-६॥

वीरराघवः

17त्कलिविनिग्रहादिकं केवलमस्माभिः पृष्टमित्येव न18 वर्णय; कि19न्तु हे महात्मन्! यदि विष्णुकथाश्रयं भगवत्कथोपेतम् । अथवा अस्य विष्णोः पदाम्बुजमकरन्दास्वादिनां साधूनां कथाश्रयं स्यात्तर्हि कथ्यताम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम्।
इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि॥

मूलम्

क्षुद्रायुषां नृणामङ्ग! मर्त्याना20मृतमिच्छताम्।
इहोपहूतो भगवान् मृत्युश्शामित्रकर्मणि॥ ७ ॥

अनुवाद (हिन्दी)

प्यारे सूतजी! जो लोग चाहते तो हैं मोक्ष परन्तु अल्पायु होनेके कारण मृत्युसे ग्रस्त हो रहे हैं, उनके कल्याणके लिये भगवान् यमका आवाहन करके उन्हें यहाँ शामित्रकर्ममें नियुक्त कर दिया गया है॥ ७॥

वीरराघवः

तत्र हेतुं वदन् विष्णुतद्भक्तकथानाश्रयाणामश्रोतव्यत्वमवर्णनीयत्वञ्चाह - किमन्यैः इति । अङ्ग! हे सूत! यत् येभ्य आयुषोऽसद्व्ययो निरर्थकः क्षयो भवति तैः क्षुद्रायुषामल्पायुषामृतं कर्मफलमिच्छतां मर्त्यानां मरणशीलानां नृणां सम्बन्धिभिरन्यैर्विष्णुतद्भक्तज21नकथानाश्रयैरतोऽत एवासद्भिरालापैः किं वर्णितैः 22वा न किञ्चित्प्रयोजनं, किन्तु केवलमायुर्व्यय एवेति भावः । यद्वा, ऋतं सत्यं परं ब्रह्म इच्छतां तत्प्राप्तिं कामयमानानां मरणशीलानामल्यायुषां नृणामस्माकमन्यै रसदालापैः किम् ? न किञ्चित्प्रयोजनमस्ति, यतो येभ्यः केवलमायुषोऽसद्व्ययो भवतीत्यन्वयः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

न कश्चिन्म्रियते तावद् यावदास्त इहान्तकः।
एतदर्थं हि भगवानाहूतः परमर्षिभिः।
अहो नृलोके पीयेत हरिलीलामृतं वचः॥

मूलम्

न कश्चिन्म्रियते तावत् यावदास्त इहान्तकः।
एतदर्थं हि भगवाना23हूतः परमर्षिभिः।
अहो नृलोके पीयेत हरिलीलामृतं वचः॥ ८ ॥

अनुवाद (हिन्दी)

जबतक यमराज यहाँ इस कर्ममें नियुक्त हैं, तबतक किसीकी मृत्यु नहीं होगी। मृत्युसे ग्रस्त मनुष्यलोकके जीव भी भगवान‍्की सुधातुल्य लीला-कथाका पान कर सकें, इसीलिये महर्षियोंने भगवान् यमको यहाँ बुलाया है॥ ८॥

वीरराघवः

ननु क्षुद्रायुषां मर्त्यानामस्माकं यावत् त्वत्प्र24श्नवर्णनश्रवणं जीवनम25प्यवसातुं शक्यमित्यत्राह - इहेति । इह नैमिषक्षेत्रे शामित्रकर्मणि सत्रकर्मणि । शमितृशब्दः पशुसंज्ञपयितृवाची “शमयिता च भगवानस्तु" इति श्रुतेः । सचेह पापापनोदकभगवद्गुणानुभवितृपरः । तत्सम्बन्धे कर्मणि सत्रकर्मणि भ26गवदुणवर्णनश्रवणात्मकब्रह्मसत्र इत्यर्थः । भगवान् मृत्यु राहूतः । स चान्तको यावदिहास्ति तावदत्र न कश्चिन्प्रियते न मरणमेति । किमर्थमाहूत इत्यत्राह - एतदर्थमत्रावस्थितानामस्माकम् अमरणार्थमेव हि परमर्षिभिर्भगवान् मृत्युराहूत इत्यर्थः । मृ27त्यर्थः मृत्युरपि स्वव्यापारं विहाय भगवद्गुणश्रवणायेह न किञ्चिदपि हन्यादित्यभिप्रायेणाऽहूत इति भावः । “तत्कथ्यतां महाभाग!” इत्यादि श्लोकद्वयेन तद्भक्तकथाश्रवणस्यैव वर्णनीयत्वं श्रोतव्यत्वञ्चोक्तं, तदेव सहेतुकमुपपादयति अहो इति सार्धेन । नृलोके हरेर्लीला यस्मिन् प्रतिपाद्याः तद्धरिलीलं तदमृततुल्यं वचः पीयते पा28वकं श्रोतव्यमिति यावत् । ये पिबन्ति तानभिनन्दति अहो इति । तेषां भाग्यमेतावदिति वक्तुमशक्यमिति भावः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः॥

मूलम्

मन्दस्य मन्दप्रज्ञस्य व29योमन्दायुषश्च वै30
निद्रया ह्रियते नक्तं दिवा च31 व्यर्थकर्मभिः॥ ९ ॥

अनुवाद (हिन्दी)

एक तो थोड़ी आयु और दूसरे कम समझ। ऐसी अवस्थामें संसारके मन्दभाग्य विषयी पुरुषोंकी आयु व्यर्थ ही बीती जा रही है—नींदमें रात और व्यर्थके कामोंमें दिन॥ ९॥

वीरराघवः

कुतः ? यत् यस्मात् मन्दस्य मन्दचेष्टस्य मन्दा प्रज्ञा बुद्धिर्यस्य, मन्दमल्पमायुर्यस्य तस्य हरिलीलामृतं वचोऽशृण्वतः, वयः कौमारादि । केवलं नक्तं रात्रौ निद्रया ह्रियते ह्रस्यते । दिवाऽहनि तु व्यर्थैः पुरुषार्थशून्यैः कर्मभिः सांसारिककर्मभिः ह्रियते । हरिलीलामृतं वचः पिबतस्तु वयः सफलमिति भावः ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

यदा परीक्षित् कुरुजाङ्गलेऽवसत्
कलिं प्रविष्टं निजचक्रवर्तिते।
निशम्य वार्तामनतिप्रियां ततः
शरासनं संयुगशौण्डिराददे॥

मूलम्

यदा परीक्षित् कुरुजाङ्गलेऽ32शृणोत् कलिं प्रविष्टं निजचक्रवर्तिते।
निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौ33ण्डिराददे34॥ १० ॥

अनुवाद (हिन्दी)

सूतजीने कहा—जिस समय राजा परीक्षित् कुरुजांगल देशमें सम्राट्के रूपमें निवास कर रहे थे, उस समय उन्होंने सुना कि मेरी सेनाद्वारा सुरक्षित साम्राज्यमें कलियुगका प्रवेश हो गया है। इस समाचारसे उन्हें दुःख तो अवश्य हुआ; परन्तु यह सोचकर कि युद्ध करनेका अवसर हाथ लगा, वे उतने दुःखी नहीं हुए। इसके बाद युद्धवीर परीक्षित् ने धनुष हाथमें ले लिया॥ १०॥

वीरराघवः

इत्थमापृष्टः सहेतुकं कलिनिग्रहादिकं वर्णयति सूतः - यदा इत्यादिना यावत्सप्तदशाध्यायसमाप्ति । यदा परीक्षित् विजयार्थं गतः कु35रुजाङ्गलेषु च जनपदेषु वसन् निजचक्रेण स्वाज्ञाचक्रेण वर्तितेऽनुशिष्टे देशे स्वसेनाधिष्ठिते देशे वा प्रविष्टं कलिं तत्प्रवेशरूपामत्यन्तमप्रियां वार्तां निशम्याकर्ण्य ततः संयुगे युद्धे शौण्डिः36 प्रवीणो राजा शरासनं धनुराददे जग्राह । निजचक्रवर्तिते कुरुजाङ्गले वसन्निति वान्वयः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

स्वलंकृतं श्यामतुरङ्गयोजितं
रथं मृगेन्द्रध्वजमाश्रितः पुरात्।
वृतो रथाश्वद्विपपत्तियुक्तया
स्वसेनया दिग्विजयाय निर्गतः॥

मूलम्

स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रि37तः पुरात्।
वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः॥ ११ ॥

अनुवाद (हिन्दी)

वे श्यामवर्णके घोड़ोंसे जुते हुए , सिंहकी ध्वजावाले, सुसज्जित रथपर सवार होकर दिग्विजय करनेके लिये नगरसे बाहर निकल पड़े। उस समय रथ, हाथी, घोड़े और पैदल सेना उनके साथ-साथ चल रही थी॥ ११॥

वीरराघवः

ततः सुष्ठुलङ्कृतं श्यामैस्तुरङ्गैः संयोजित, मृगेन्द्रः सिंहाङ्कितो ध्वजो यस्मिंस्तं रथमाश्रितोऽधिष्ठितः र36थादिचतुरङ्गयुक्तया सेनया परिवृतो दिग्विजयाय निर्गतः । कुरुजाङ्गलादिष्विति शेषः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून्।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्॥

मूलम्

भद्राश्वं केतुमालञ्च भारतञ्चोत्तरान् कुरून्।
किम्पुरुषादीनि व38र्षाणि विजित्य जगृहे बलिम्॥ १२ ॥

अनुवाद (हिन्दी)

उन्होंने भद्राश्व, केतुमाल, भारत, उत्तरकुरु और किम्पुरुष आदि सभी वर्षोंको जीतकर वहाँके राजाओंसे भेंट ली॥ १२॥

वीरराघवः

भद्राश्चादिवर्षाणि निर्जित्य बलिं करं जगृहे ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्।
प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्॥

मूलम्

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्।
प्र39गीयमाणं च40 यशः कृष्णमाहात्म्यसूचक41म्॥ १३ ॥

अनुवाद (हिन्दी)

उन्हें उन देशोंमें सर्वत्र अपने पूर्वज महात्माओंका सुयश सुननेको मिला। उस यशोगानसे पद-पदपर भगवान् श्रीकृष्णकी महिमा प्रकट होती थी॥ १३॥

वीरराघवः

तत्र तत्र देशेषु स्वपूर्वेषां युधिष्ठिरादीनां महात्मनां कृष्णस्य भगवतो माहात्म्यस्य सूचकं प्रगीयमाणं यशः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः।
स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे॥

मूलम्

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः42
स्नेहश्च वृष्णिपार्थानां तेषां भक्तिञ्च केशवे॥ १४ ॥

अनुवाद (हिन्दी)

इसके साथ ही उन्हें यह भी सुननेको मिलता था कि भगवान् श्रीकृष्णने अश्वत्थामाके ब्रह्मास्त्रकी ज्वालासे किस प्रकार उनकी रक्षा की थी, यदुवंशी और पाण्डवोंमें परस्पर कितना प्रेम था तथा पाण्डवोंकी भगवान् श्रीकृष्णमें कितनी भक्ति थी॥ १४॥

वीरराघवः

अश्वत्थाम्नो ब्रह्मास्त्रतेजसा परित्रातमात्मानं च वृष्णीनां पार्थानाञ्च केशवे कृष्णे स्नेहमनुरागञ्च तथा तेषां तस्मिन् भक्तिञ्चोपशृण्वानः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

तेभ्यः परमसंतुष्टः प्रीत्युज्जृम्भितलोचनः।
महाधनानि वासांसि ददौ हारान् महामनाः॥

मूलम्

तेभ्यः परमसंतुष्टः प्रीत्यु43ज्जृम्भितलोचनः।
महाधनानि वासांसि ददौ हारान् मह्यमनाः॥ १५ ॥

अनुवाद (हिन्दी)

जो लोग उन्हें ये चरित्र सुनाते, उनपर महामना राजा परीक्षित् बहुत प्रसन्न होते; उनके नेत्र प्रेमसे खिल उठते। वे बड़ी उदारतासे उन्हें बहुमूल्य वस्त्र और मणियोंके हार उपहाररूपमें देते॥ १५॥

वीरराघवः

नितरां हृष्टः प्रीत्या उज्जृम्भिते लोचने यस्य सः महामना उदारबुद्धिर्वदान्यो राजा तेभ्यः श्रावयितृभ्यः महाधनानि बहुमूल्यद्रव्याणि वासांसि, हारान् मुक्ताहारांश्च ददौ ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

सारथ्यपारषदसेवनसख्यदौत्य-
वीरासनानुगमनस्तवनप्रणामान्।
स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो-
र्भक्तिं करोति नृपतिश्चरणारविन्दे॥

मूलम्

सारथ्यपा44रषदसेवनसख्यदौत्यवीरासनानुगमनस्तवन45प्रणामान्।
स्निग्धेषु पाण्डुषु जगत्प्र46णतिञ्च विष्णोर्भक्तिं करोति नृपतिश्चरणारविन्दे॥ १६ ॥

अनुवाद (हिन्दी)

वे सुनते कि भगवान् श्रीकृष्णने प्रेमपरवश होकर पाण्डवोंके सारथिका काम किया, उनके सभासद् बने—यहाँतक कि उनके मनके अनुसार काम करके उनकी सेवा भी की। उनके सखा तो थे ही, दूत भी बने। वे रातको शस्त्र ग्रहण करके वीरासनसे बैठ जाते और शिविरका पहरा देते, उनके पीछे-पीछे चलते, स्तुति करते तथा प्रणाम करते; इतना ही नहीं, अपने प्रेमी पाण्डवोंके चरणोंमें उन्होंने सारे जगत‍‍‍‍्को झुका दिया। तब परीक्षित् की भक्ति भगवान् श्रीकृष्णके चरणकमलोंमें और भी बढ़ जाती॥ १६॥

वीरराघवः

स्रिग्धेष्वनुरक्तेषु पाण्डुषु युधिष्ठिरादिषु विष्णोः श्रीकृष्णस्य सारथ्यादिकं जगत्कृतं प्रणामञ्च स्मृत्वेति शेषः, नृपतिः परीक्षित् विष्णोः चरणारविन्दे भक्तिं करोति स्म चकारेत्यर्थः । तत्र सारथ्यं प्रसिद्धम् । पार47षदं सभ्यत्वं, सेवनं भृत्यकर्म, दौत्यं दूतकर्म, वीरासनानुगमनं नृपासनाधिष्ठितं प्रत्यनुवर्तनम्, स्तवनं स्तुतिकर्म, प्रणामो नमस्कारः विष्णुक48र्तृकान्यविषयानेतान् स्मृत्वेत्यर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्।
नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे॥

मूलम्

49स्यैवं वर्तमानस्य पूर्वेषां वृत्ति50मन्वहम्।
नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे॥ १७ ॥

अनुवाद (हिन्दी)

इस प्रकार वे दिन-दिन पाण्डवोंके आचरणका अनुसरण करते हुए दिग्विजय कर रहे थे। उन्हीं दिनों उनके शिविरसे थोड़ी ही दूरपर एक आश्चर्यजनक घटना घटी। वह मैं आपको सुनाता हूँ॥ १७॥

वीरराघवः

तस्य परीक्षितः पूर्वेषां युधिष्ठिरादीनां वृत्तिमन्वहं वर्तमानस्य 51सतः तस्य नातिदूरे सन्निकृष्टदेशे यन्महदाश्चर्यमासीत् तत्कथयिष्यतो मे मत्तो निबोध शृणु ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम्।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम्॥

मूलम्

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम्।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम्॥ १८ ॥

अनुवाद (हिन्दी)

धर्म बैलका रूप धारण करके एक पैरसे घूम रहा था। एक स्थानपर उसे गायके रूपमें पृथ्वी मिली। पुत्रकी मृत्युसे दुःखिनी माताके समान उसके नेत्रोंसे आँसुओंके झरने झर रहे थे। उसका शरीर श्रीहीन हो गया था। धर्म पृथ्वीसे पूछने लगा॥ १८॥

वीरराघवः

धर्म इति । धर्मः धर्माधिदेवो वृषरूपधरः एकेन पदेन 52चरन् विच्छायां निस्तेजस्कां गां गोरूपधरां वत्सरहितां मातरमिव अश्रूणि वदने यस्यास्तां पृच्छति समापृच्छत् ॥ १८ ॥

श्लोक-१९

मूलम् (वचनम्)

धर्म उवाच

विश्वास-प्रस्तुतिः

कच्चिद‍्भद्रेऽनामयमात्मनस्ते
विच्छायासि म्लायतेषन्मुखेन।
आलक्षये भवतीमन्तराधिं
दूरे बन्धुं शोचसि कञ्चनाम्ब॥

मूलम्

कच्चिद‍्भद्रेऽनामय53मात्मनस्ते विच्छायासि म्लायते54षन्मुखेन।
आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब!॥ १९ ॥

अनुवाद (हिन्दी)

धर्मने कहा—कल्याणि! कुशलसे तो हो न? तुम्हारा मुख कुछ-कुछ मलिन हो रहा है। तुम श्रीहीन हो रही हो, मालूम होता है तुम्हारे हृदयमें कुछ-न-कुछ दुःख अवश्य है। क्या तुम्हारा कोई सम्बन्धी दूर देशमें चला गया है, जिसके लिये तुम इतनी चिन्ता कर रही हो?॥ १९॥

वीरराघवः

प्रश्नमेवाह - कच्चित् इत्यादिभिः षङ्भिः । हे भद्रे! तवात्मनो देहस्यानामयमारोग्यमस्ति कच्चित् ? ईषन्म्लायता हर्षक्षयमुपगतेन मुखेन विच्छाया निस्तेजस्का भवसि । अहन्तु भवतीं त्वामन्तरा हृदयमध्ये आधिः क्लेशो यस्यास्तथाभूतामालक्षये । म्ला55नविच्छायामुत्पश्यामि । हे अम्ब! कञ्चन दूरस्थं बन्धुं शोचसि ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

पादैर्न्यूनं शोचसि मैकपाद-
मात्मानं वा वृषलैर्भोक्ष्यमाणम्।
आहो सुरादीन् हृतयज्ञभागान्
प्रजा उतस्विन्मघवत्यवर्षति॥

मूलम्

पा56दैर्न्यूनं शोचसि मैकपादमा57त्मानं वा वृषलैर्भोक्ष्यमाणम्।
58हो सुरादीन् हृतयज्ञभागान् प्रजा उतस्विन्मघवत्यवर्षति॥ २० ॥

अनुवाद (हिन्दी)

कहीं तुम मेरी तो चिन्ता नहीं कर रही हो कि अब इसके तीन पैर टूट गये, एक ही पैर रह गया है? सम्भव है, तुम अपने लिये शोक कर रही हो कि अब शूद्र तुम्हारे ऊपर शासन करेंगे। तुम्हें इन देवताओंके लिये भी खेद हो सकता है, जिन्हें अब यज्ञोंमें आहुति नहीं दी जाती, अथवा उस प्रजाके लिये भी, जो वर्षा न होनेके कारण अकाल एवं दुर्भिक्षसे पीड़ित हो रही है॥ २०॥

वीरराघवः

किं59 वा पादैस्त्रिभिर्न्यनं एकः पादो यस्य तं माम्प्रति शोचसि ? उत वृषलैः शूद्रप्रायैः राजभिर्भोक्ष्यमाणं स्वात्मानं प्रत्येव शोचसि ? आहोस्वित् हृतः शून्यो य60ज्ञीयहविर्भागो येषां तान् देवान् प्रति ? उतस्वित् मघवतीन्द्रेऽवर्षति सति दु61र्भिक्षपीडिताः प्रजाः प्रति ? ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

अरक्ष्यमाणाः स्त्रिय उर्वि बालान्
शोचस्यथो पुरुषादैरिवार्तान्।
वाचं देवीं ब्रह्मकुले कुकर्म-
ण्यब्रह्मण्ये राजकुले कुलाग्र्यान्॥

मूलम्

अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो62 पुरुषादैरिवार्तान्।
वाचं देवीं ब्रह्मलोके कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्॥ २१ ॥

अनुवाद (हिन्दी)

देवि! क्या तुम राक्षस-सरीखे मनुष्योंके द्वारा सतायी हुई अरक्षित स्त्रियों एवं आर्तबालकोंके लिये शोक कर रही हो? सम्भव है, विद्या अब कुकर्मी-ब्राह्मणोंके चंगुलमें पड़ गयी है और ब्राह्मण विप्रद्रोही राजाओंकी सेवा करने लगे हैं, और इसीका तुम्हें दुःख हो॥ २१॥

वीरराघवः

यद्वा हे उर्वि! पुरुषादैराक्षसैरिव नृशंसैरार्तान् पीडितान् बालकान्, अरक्ष्यमाणाः स्त्रियः स्त्री: प्रति शोचसि किम् ? ब्रह्मकुले 63कुकर्मणि दुर्वृत्ते सति देवस्य विष्णोस्सम्बन्धिनीं वाचं त्रयीं प्रति ? उत राजकुलेऽब्रह्मण्ये ब्राह्मणेष्वसाधुनि सति कुलाग्य्रान् ब्राह्मणान् प्रति ? ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

किं क्षत्रबन्धून् कलिनोपसृष्टान्
राष्ट्राणि वा तैरवरोपितानि।
इतस्ततो वाशनपानवासः-
स्नानव्यवायोन्मुखजीवलोकम्॥

मूलम्

किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि।
इतस्ततो वा64ऽशनपानवा65सः स्नानव्यवायोन्मु66खजीवलोकम्॥ २२ ॥

अनुवाद (हिन्दी)

आजके नाममात्रके राजा तो सोलहों आने कलियुगी हो गये हैं, उन्होंने बड़े-बड़े देशोंको भी उजाड़ डाला है। क्या तुम उन राजाओं या देशोंके लिये शोक कर रही हो? आजकी जनता खान-पान, वस्त्र, स्नान और स्त्री-सहवास आदिमें शास्त्रीय नियमोंका पालन न करके स्वेच्छाचार कर रही है; क्या इसके लिये तुम दुःखी हो?॥ २२॥

वीरराघवः

किं वा कालेन उपसृष्टान् क्षत्रियाधमान् प्रति ? यद्वा तैः क्षत्रबन्धुभिरवरोपितान्युपद्रुतानि राष्ट्राणि प्रति ? उत इतस्ततः निषिद्धदे67शे जनेष्वशनाद्युन्मुखमशनाद्यभिलाषिणं जीवलोकं प्रति ? ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यद्वाम्ब ते भूरिभरावतार-
कृतावतारस्य हरेर्धरित्रि।
अन्तर्हितस्य स्मरती विसृष्टा
कर्माणि निर्वाणविलम्बितानि॥

मूलम्

यद्वाऽम्ब68! ते भूरिभरावतारकृतावतारस्य हरेर्धरित्रि!
अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि॥ २३ ॥

अनुवाद (हिन्दी)

मा पृथ्वी! अब समझमें आया, हो-न-हो तुम्हें भगवान् श्रीकृष्णकी याद आ रही होगी; क्योंकि उन्होंने तुम्हारा भार उतारनेके लिये ही अवतार लिया था और ऐसी लीलाएँ की थीं, जो मोक्षका भी अवलम्बन हैं। अब उनके लीला-संवरण कर लेनेपर उनके परित्यागसे तुम दुःखी हो रही हो॥ २३॥

वीरराघवः

यद्वा हे अम्ब! हे धरित्रि! तव भूरिभरस्यावताराय ह69रणाय कृतोऽवतारो येन तस्य हरेरधुना अन्तर्हितस्य श्रीकृष्णस्य । हरेरिति कर्तरि षष्ठी । तेन विसृष्टा त्यक्ता सती तस्य कर्माणि चेष्टितानि निर्वाणविलम्बितानि स्मरती त्वं शोचसि ? निर्वाणे मोक्षे विशेषेण लम्बितानि सन्निहितानि, साक्षात्कृतानीति यावत् । यद्वा निर्वाणं सुखं, विलम्बितं अधुनान्तरितं येभ्यस्तानि ॥ २४ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

इदं ममाचक्ष्व तवाधिमूलं
वसुन्धरे येन विकर्शितासि।
कालेन वा ते बलिनां बलीयसा
सुरार्चितं किं हृतमम्ब सौभगम्॥

मूलम्

इदं ममाऽऽचक्ष्व तवाधिमूलं वसुन्धरे! येन विकर्शितासि।
कालेन वा ते ब70लिनां बलीयसा सुरार्चितं किं हृ71तमम्ब! सौभगम्॥ २४ ॥

अनुवाद (हिन्दी)

देवि! तुम तो धन-रत्नोंकी खान हो। तुम अपने क्लेशका कारण, जिससे तुम इतनी दुर्बल हो गयी हो, मुझे बतलाओ। मालूम होता है, बड़े-बड़े बलवानोंको भी हरा देनेवाले कालने देवताओंके द्वारा वन्दनीय तुम्हारे सौभाग्यको छीन लिया है॥ २४॥

वीरराघवः

हे वसुन्धरे! तवाऽऽधेर्मूलमिदमुपस्थितं मह्यमाचक्ष्व आख्याहि, येन त्वं विकर्शिता कृशत्वं प्राप्तासि, तस्याऽऽधेर्मूलमित्यर्थः । हे अम्ब! सुरैरपि बहुमन्तव्यं तव सौभगं स्पृहणीयं सौन्दर्यं बलिनामपि बलीयसा कालेन किं वाऽपहृतम् ? ॥ २४ ॥

श्लोक-२५

मूलम् (वचनम्)

धरण्युवाच

विश्वास-प्रस्तुतिः

भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि।
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः॥

मूलम्

72वान् हि वेद तत्सर्वं यन्मां ध73र्मानुपृच्छसि।
चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः॥ २५ ॥

वीरराघवः

एवमुक्ता धरण्याह - भवान् इत्यादि दशभिः । तन्ममाधिमूलं सर्व 74नूनं भवान् वेद जानास्येव । कुतो यद् यस्मात् धर्मान् पृच्छसि अजानतो धर्मप्रश्नः नो75पपन्न इति भावः । अथाऽपि किं तदिति चेद्येन 76त्वं लोकांनां सुखावहैश्चतुर्भिः पादैर्वर्तसे अवर्तथाः । अधुना येन कारणेन विनैकपादेन वर्तसे तदेव ममापि आधिमूलमित्यर्थः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम्।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम्॥

मूलम्

सत्यं शौचं दया क्षा77न्तिस्त्यागस्सन्तोष आर्जवम्।
शमो दमस्तपस्साम्यं तितिक्षोपरतिः श्रुतम्॥ २६ ॥

वीरराघवः

कारणविशेषजिज्ञासायां तदुपपादयति - सत्यम् इत्यादि पञ्चभिः । सत्यादन्योऽन्ये च बहवो महत्त्वमिच्छद्भिर्जनैः प्रार्थनीया गुणाः नित्याः कदाचिदपि यस्मिन्न वियन्ति न व्य78यन्ति तेन गुणानां पात्रेण मुख्याश्रयेण श्रीनिवासेन श्रीकृष्णेन साम्प्रतमधुना रहितमतएव पाप्मना पापेन कलिना ईक्षितं लोकं प्रत्यहं शोचामीत्यन्वयः । तत्र सत्यं भूतहितस्वं वाचिकं वा । शौचं हेयप्रतिभटत्वम् । दया परदुःखासहिष्णुत्वम् । क्षान्तिः प79रापराधसहिष्णुता । त्यागः अनादरः पूर्णकामत्वप्रयुक्तः । तथा च श्रूयते “सर्वमिदमभ्याप्तो वा80क्यानादरः” (छान्दो. उ. 3-14-2) इति आत्मपर्यन्तवदान्यत्वम् वा त्यागः । सन्तोषः कर्हिचिदपि क्लेशराहित्यम् । आर्जवं मनोवाक्कायानामै81क्यरूपम्। शमो मनोनिग्रहः । दमो बाह्येन्द्रियनिग्रहः । तप आलोचनम्, जगद्व्यापारोपयुक्तम् । साम्यमरिमित्रादिराहित्यम् । तितिक्षा द्वन्द्वाप्रतिहतत्वम् । उपरतिर्वृथाव्यापारोपरतिः श्रुतं सर्वशास्त्रार्थयाथात्म्यवित्त्वम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च॥

मूलम्

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो ब82लं स्मृतिः।
स्वातन्त्र्यं कौशलं का83न्तिर्धैर्यं मार्दवमेव च॥ २७ ॥

वीरराघवः

ज्ञानमाश्रितानिष्टपरिहारेष्टप्रापणोपयुक्तम् । विरक्तिर्विषयेषु निस्पृहत्वम्, विषयानाकृष्टचित्तत्वं वा । ऐश्वर्यं स्वा84तिरिक्तसर्वनियन्तृत्वम् । शौर्यं युद्धेष्ववैमुख्यम् । तेजः अ85प्रधृष्यता । बलं प्रसिद्धम् । स्मृतिः सत्स्वपि विपुलेषु अ86पराधेषु उपकारस्मरणम् । स्वातन्त्र्यमन्यानपेक्षत्वम् । कौशलं नैपुण्यम् । कान्तिः “न तत्र सूर्यो भाति” (कठ. उ. 5-15) इति श्रुत्युक्तविधा दीप्तिः । धैर्यं वीर्यं, तच्च युद्धे स्वगृहे इव प्रवेशसामर्थ्यम् । मार्दवमक्रूरत्वम् । “स्वातन्त्र्यं सौभगं कान्तिः” इति पाठे सौभगं 87स्पृहणीयम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहंकृतिः॥

मूलम्

प्रागल्भ्यं प्रश्रयश्शीलं सह ओजो बलं भगः।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

एते चान्ये च भगवन‍‍्नित्या यत्र महागुणाः।
प्रार्थ्या महत्त्वमिच्छद‍्भिर्न वियन्ति स्म कर्हिचित्॥

मूलम्

88ते चान्ये च भ89गवन‍‍्नित्या यत्र महागुणाः।
प्रार्थ्या महत्त्वमिच्छद‍्भिर्न वि90यन्ति स्म कर्हिचित्॥ २९ ॥

वीरराघवः

प्रागल्भ्यम् सभासु धार्ष्ट्यम् । प्रश्रयो महत्सु विनयः । शीलं सद्वृत्तिः । सहः प्राणस्य स्वाभाविकसामर्थ्यम् । ओजः अ91न्नादिजनितम्, बलं धारणासामर्थ्यम् । भगो ज्ञानाद्युत्कर्षः । गाम्भीर्यं 92दु:खग्राह्याभिप्रायत्वम् । स्थैर्यं क्रोधनिमित्तैरविकारः । आस्तिक्यं शास्त्रार्थविश्वासः । कीर्तिर्यशः । मानः पूजार्हता । अनहङ्कृतिर्देहात्माभिमानराहित्यम् ॥ २८, २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्॥

मूलम्

तेनाऽहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्॥ ३० ॥

अनुवाद (हिन्दी)

पृथ्वीने कहा—धर्म! तुम मुझसे जो कुछ पूछ रहे हो, वह सब स्वयं जानते हो। जिन भगवान‍्के सहारे तुम सारे संसारको सुख पहुँचानेवाले अपने चारों चरणोंसे युक्त थे, जिनमें सत्य, पवित्रता, दया, क्षमा, त्याग, सन्तोष, सरलता, शम, दम, तप, समता, तितिक्षा, उपरति, शास्त्रविचार, ज्ञान, वैराग्य, ऐश्वर्य, वीरता, तेज, बल, स्मृति, स्वतन्त्रता, कौशल, कान्ति, धैर्य, कोमलता, निर्भीकता, विनय, शील, साहस, उत्साह, बल, सौभाग्य, गम्भीरता, स्थिरता, आस्तिकता, कीर्ति, गौरव और निरहंकारता—ये उनतालीस अप्राकृत गुण तथा महत्त्वाकांक्षी पुरुषोंके द्वारा वाञ्छनीय (शरणागतवत्सलता आदि) और भी बहुत-से महान् गुण उनकी सेवा करनेके लिये नित्य-निरन्तर निवास करते हैं, एक क्षणके लिये भी उनसे अलग नहीं होते—उन्हीं समस्त गुणोंके आश्रय, सौन्दर्यधाम भगवान् श्रीकृष्णने इस समय इस लोकसे अपनी लीला संवरण कर ली और यह संसार पापमय कलियुगकी कुदृष्टिका शिकार हो गया। यही देखकर मुझे बड़ा शोक हो रहा है॥ २५—३०॥

वीरराघवः

श्रीयते ब्रह्मादिभिरिति श्रीः लक्ष्मीः, तस्याः निवासः श्रीनिवासः तेन इत्यभिप्रेतम् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम्।
देवान् पितॄनृषीन् सर्वान् साधून् वर्णांस्तथाऽऽश्रमान्॥

मूलम्

आत्मानञ्चानुशोचामि भवन्तञ्चामरोत्तम93म्।
देवान् पितॄनृषीन् साधून् सर्वान्वर्णांस्तथाऽऽश्रमान्॥ ३१ ॥

अनुवाद (हिन्दी)

अपने लिये, देवताओंमें श्रेष्ठ तुम्हारे लिये, देवता, पितर, ऋषि, साधु और समस्त वर्णों तथा आश्रमोंके मनुष्योंके लिये मैं शोकग्रस्त हो रही हूँ॥ ३१॥

वीरराघवः

आत्मानं मां भवन्तञ्च अनुशोचामि इत्यर्थः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-
कामास्तपः समचरन् भगवत्प्रपन्नाः।
सा श्रीः स्ववासमरविन्दवनं विहाय
यत्पादसौभगमलं भजतेऽनुरक्ता॥

मूलम्

ब्रह्मादयो ब94हुतिथं यदपाङ्गमोक्षका95मास्तपस्समचरन् भगवत्प्रपन्नाः96
सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता॥ ३२ ॥

वीरराघवः

तदेव विशदयति ब्रह्मादय इति । चतुर्मुखप्रभृतयो यस्याः अपाङ्गमोक्षः ईषत् तिर्यक् प्रसारः तद्विषयत्वमात्मानं कामयमानाः बहुतिथं बहुकालं तपः समचरन् चक्रुः सा श्रीरपि कमलवनं स्वनिवासं विहाय भगवन्तमेव प्रपन्ना च सती यस्य पादयोः सौभगं सौन्दर्यमेवालं नितरां भजते सेवते ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तस्याहमब्जकुलिशाङ्‍कुशकेतुकेतैः
श्रीमत्पदैर्भगवतः समलंकृताङ्गी।
त्रीनत्यरोच उपलभ्य ततो विभूतिं
लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते॥

मूलम्

तस्याऽहमब्जकुलिशाङ्‍कुशकेतुकेतैः श्रीमत्पदैर्भगवतस्समलङ्कृताङ्गी।
त्रीनत्यरोच उ97पलभ्य त98तो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते॥ ३३ ॥

अनुवाद (हिन्दी)

जिनका कृपाकटाक्ष प्राप्त करनेके लिये ब्रह्मा आदि देवता भगवान‍्के शरणागत होकर बहुत दिनोंतक तपस्या करते रहे, वही लक्ष्मीजी अपने निवासस्थान कमलवनका परित्याग करके बड़े प्रेमसे जिनके चरणकमलोंकी सुभग छत्रछायाका सेवन करती हैं, उन्हीं भगवान‍्के कमल, वज्र, अंकुश, ध्वजा आदि चिह्नोंसे युक्त श्रीचरणोंसे विभूषित होनेके कारण मुझे महान् वैभव प्राप्त हुआ था और मेरी तीनों लोकोंसे बढ़कर शोभा हुई थी; परन्तु मेरे सौभाग्यका अब अन्त हो गया! भगवान‍्ने मुझ अभागिनीको छोड़ दिया! मालूम होता है मुझे अपने सौभाग्यपर गर्व हो गया था, इसीलिये उन्होंने मुझे यह दण्ड दिया है॥ ३२-३३॥

वीरराघवः

तस्य भगवतः अब्जादीनां केतूनां चिह्नानां केतैराश्रयभूतैः पदैः पादविन्यासैरलङ्कृतमङ्गं यस्यास्सा, अहं ततः अत एव विभूतिं लक्ष्मीमप्युपलभ्य त्वयाप्येवं भाग्यं न लब्धमित्या99क्षिप्य विभूतिं सर्वसमृद्धिं प्राप्येति वा । त्रीनपि लोकानत्यरोचे त्रिलोकीमतिक्रम्य ततोऽप्यधिकं दीप्तिमत्यस्मि । एवमुत्स्मयन्तीं गर्वितां मां स भगवान् तदन्ते अवतारप्रयोजनान्ते व्यसृजत् तत्याज ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

यो वै ममातिभरमासुरवंशराज्ञा-
मक्षौहिणीशतमपानुददात्मतन्त्रः।
त्वां दुःस्थमूनपदमात्मनि पौरुषेण
सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम्॥

मूलम्

यो वै ममातिभरमासुरवंशराज्ञामक्षौहिणीशतमपानुददात्मतन्त्रः।
त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम्॥ ३४ ॥

अनुवाद (हिन्दी)

तुम अपने तीन चरणोंके कम हो जानेसे मन-ही-मन कुढ़ रहे थे; अतः अपने पुरुषार्थसे तुम्हें अपने ही अन्दर पुनः सब अंगोंसे पूर्ण एवं स्वस्थ कर देनेके लिये वे अत्यन्त रमणीय श्यामसुन्दर विग्रहसे यदुवंशमें प्रकट हुए और मेरे बड़े भारी भारको, जो असुरवंशी राजाओंकी सैकड़ों अक्षौहिणियोंके रूपमें था, नष्ट कर डाला। क्योंकि वे परम स्वतन्त्र थे॥ ३४॥

वीरराघवः

यो वा इति ममातीव भाररूपमासुरवंशेऽ100सुरसम्पद्युक्तवंशे जातानां राज्ञामक्षौहिणीनां शतमपानुदत् अपनीतवान् । तथा यश्चाऽऽत्मतन्त्रः स्वतन्त्रः ऊनपदमूनं पदं पादद्वयं यस्य तमतएव दुःस्थं दुःखितं त्वामात्मनि स्वस्मिन्यत्पौरुषं सामर्थ्यं तेन सम्पादयन् पादचतुष्टयसम्पन्नं कर्तुमिच्छुर्यदुषु रमणीयमङ्ग शरीरमबिभ्रद्धृतवान् ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

का वा सहेत विरहं पुरुषोत्तमस्य
प्रेमावलोकरुचिरस्मितवल्गुजल्पैः।
स्थैर्यं समानमहरन्मधुमानिनीनां
रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः॥

मूलम्

का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः।
स्थैर्यं समानमहरन्मधुमानिनीनां रो101मोत्सवो मम यदङ्घ्रिविटङ्कितायाः॥ ३५ ॥

अनुवाद (हिन्दी)

जिन्होंने अपनी प्रेमभरी चितवन, मनोहर मुसकान और मीठी-मीठी बातोंसे सत्यभामा आदि मधुमयी मानिनियोंके मानके साथ धीरजको भी छीन लिया था और जिनके चरणकमलोंके स्पर्शसे मैं निरन्तर आनन्दसे पुलकित रहती थी, उन पुरुषोत्तम भगवान् श्रीकृष्णका विरह भला कौन सह सकती है॥ ३५॥

वीरराघवः

यश्च प्रेमपूर्वकावलोकनेन रुचिरेण सुन्दरेण स्मितेन सुन्दरैर्भाषिणैश्च मधुमानिनीनां यादवस्त्रीणां स्थैर्यमितरावश्यत्वं सम्यक् हृतवान् यस्य चाङ्घ्रिभ्यां विटङ्किताया अलङ्कृताया मम रोमोत्सवो रोमोद्गमो बभूव । तस्य पुरुषोत्तमस्य श्रीकृष्णस्य विरहं का वा मादृशी सहेत ? न का102पीत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा।
परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम्॥

मूलम्

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा।
परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम्॥ ३६ ॥

अनुवाद (हिन्दी)

धर्म और पृथ्वी इस प्रकार आपसमें बातचीत कर ही रहे थे कि उसी समय राजर्षि परीक्षित् पूर्ववाहिनी सरस्वतीके तटपर आ पहुँचे॥ ३६॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः॥ १६॥

वीरराघवः

इत्थं तयोः पृथिवीधर्मयोः कथयतोर्मिथः सम्भाषमाणयोस्सतोः तदा परीक्षिन्नाम राजर्षिः प्राचीं सरस्वतीं प्रभासतीर्थं प्राप्तो गतः ॥ ३६ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघववदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां षोडशोऽध्यायः ॥ १६ ॥


  1. W सः ↩︎

  2. H,V महा ↩︎

  3. K,M गुणांस्त ↩︎

  4. W वं संस्थानं ↩︎

  5. W adds अथ परीक्षित: कर्माणि ↩︎

  6. W ज्ञातानि वर्णयति ↩︎

  7. W ध्याय्या ↩︎

  8. W adds ततः ↩︎

  9. N क्ष ↩︎

  10. K,M धीरः ↩︎

  11. W adds ताडयन्तम् ↩︎

  12. H,V रूप ↩︎

  13. H,K,M,N,V,W शूद्रः कोऽसौ ↩︎

  14. H,K,M,V,W विष्णु ↩︎

  15. W धर: ↩︎

  16. W नृदेव ↩︎

  17. W धृतकलिनिग्र ↩︎

  18. A omits न ↩︎

  19. A किं ↩︎

  20. K,M नां मृति ↩︎

  21. A अनाकथाश्रय; W जन्मकथानात्र ↩︎

  22. W adds श्रुतै: ↩︎

  23. AF,GF नुपहूतो महर्षिभिः ↩︎

  24. W त्पृष्ट ↩︎

  25. W मध्यवस्थातुं न शक्य ↩︎

  26. A भगवद्गुणात्मक ↩︎

  27. A मृत्य्वर्थः ; W omits मृत्यर्थः ↩︎

  28. W पातव्यं ↩︎

  29. K,M प्रायो ↩︎

  30. H,V यत् ↩︎

  31. K,M चाप्यर्थ ↩︎

  32. I ऽवसत्; H,K,M,N,V,W वसन् ↩︎

  33. H,V,W शौण्ड आ, K,M रोविरा ↩︎

  34. H,V धे ↩︎

  35. A कुरूणां जाङ्गलेषु स जनपदे ↩︎

  36. W ण्डः ↩︎ ↩︎

  37. H,K,M,V,W स्थि ↩︎

  38. K,M,W सर्वाणि ↩︎

  39. AF,GF गीयमानं च पुरतः ↩︎

  40. K,M पुरतः ↩︎

  41. H,V,W नम् ↩︎

  42. H,V,W सा ↩︎

  43. H,V त्यो ↩︎

  44. K,M पार्षद, H,V,W पारिषद ↩︎

  45. H,V नानि शृण्वन्; K,M न प्रणामैः; N न प्रणामम् ↩︎

  46. K,M त्प्रणतस्य, H,V त्प्रणतिं स्म ↩︎

  47. B,W रि ↩︎

  48. W कर्तृकान् पाण्डुविषया ↩︎

  49. H,V तस्यानु ↩︎

  50. K,M त ↩︎

  51. W adds अनुवर्तमानस्य ↩︎

  52. W adds पादेन ↩︎

  53. H,V य आत्म ↩︎

  54. H,K,M,V,W ता यन्मु पादन्यूनं ↩︎

  55. W म्लानिविच्छायाभ्या ↩︎

  56. H पादन्यूनं ↩︎

  57. AF,GF युतात्मानं वृष, B,H,K,M,V,W मुतात्मानं वृष ↩︎

  58. K,M अथो; N अहो ↩︎

  59. W किञ्च ↩︎

  60. A,W यज्ञिय ↩︎

  61. W दुर्भिक्षे पीडिता: ↩︎

  62. H,V हो ↩︎

  63. W adds विप्रकुले ↩︎

  64. H,V वा शयनासनान्नापानव्यवा ↩︎

  65. AF,GF वाससोत व्यवा ↩︎

  66. K,M त्सुख ↩︎

  67. W देशजने ↩︎

  68. K,M थ ↩︎

  69. W अपहरणाय ↩︎

  70. K,M बलिनाऽवलीढं ↩︎

  71. K,M प्रभुणाद्य ↩︎

  72. AF,GF भवानेवहि तद्वेद यन्मां ; W भवान्नु वेद ↩︎

  73. W धर्मान् हि पृ ↩︎

  74. W adds नु ↩︎

  75. W अनुपपन्न: ↩︎

  76. B,W add कारणेन ↩︎

  77. K,M दानं त्या ↩︎

  78. W च्यवन्ति ↩︎

  79. W सापराध ↩︎

  80. W ऽवाक्या ↩︎

  81. W ऐकरूप्यं ↩︎

  82. K,M धृतिः ↩︎

  83. AF,GF कान्ति सौभाग्यं मार्दवं क्षमा; K,M कान्तिः सौभगं मार्दवं क्षमा ↩︎

  84. W स्वव्यतिरिक्त ↩︎

  85. A,B धृष्टता ↩︎

  86. A,B अहं प्रजापतीनाञ्च सर्वेषामीश्वरः प्रभुः मम विष्णुरचिन्त्यात्मेति ब्रह्मवचनं उपकारविषयस्मरणम् ↩︎

  87. W adds सौभाग्यं ↩︎

  88. K,M इमे ↩︎

  89. H,V बहवो यस्मिन् नित्या महा ↩︎

  90. K,M च यन्ति स्म ↩︎

  91. A,B इन्द्रियादिजनितबन्धनधारणसामर्थ्यं ↩︎

  92. W दुरवगाहाभि ↩︎

  93. H,K,M म! ↩︎

  94. AF,GF यदनिशं ↩︎

  95. AF,GF कामास्तपोव्रतधरा भग K,M कामा यथोक्तविधिना भग ↩︎

  96. B,H,N,V,W न्ना ↩︎

  97. H मुपलभ्य; K,M मुपलब्ध ↩︎

  98. AF,GF तपोविभृति K,M तपो विभूति: ↩︎

  99. W त्यधिक्षिप्य; B त्यभिक्षिप्य ↩︎

  100. W आसुर ↩︎

  101. H,V रोमोदृमो ↩︎

  102. W काऽपि सहेतेत्यर्थः ↩︎