१५ पाण्डवस्वर्गारोहणम्

[पञ्चदशोऽध्यायः]

भागसूचना

कृष्णविरहव्यथित पाण्डवोंका परीक्षित् को राज्य देकर स्वर्ग सिधारना

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञाऽऽविकल्पितः।
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः॥

मूलम्

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा1ऽऽविकल्पितः।
ना2नाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शि3तः॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—भगवान् श्रीकृष्णके प्यारे सखा अर्जुन एक तो पहले ही श्रीकृष्णके विरहसे कृश हो रहे थे, उसपर राजा युधिष्ठिरने उनकी विषादग्रस्त मुद्रा देखकर उसके विषयमें कई प्रकारकी आशंकाएँ करते हुए प्रश्नोंकी झड़ी लगा दी॥ १॥

वीरराघवः

एवमिति । इ4त्थं कृष्णस्य भगवतः सखा कृष्णोऽर्जुनो भ्रात्रा राज्ञा युधिष्ठिरेण नानाविधानां शङ्कानामास्पदं निमित्तं रूपं तेजोहीनं स्वकीयं रूपं प्रति विकल्पितः कृष्णस्य भगवतो विश्लेषेण वियोगेन कर्षि5तः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः।
विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम्॥

मूलम्

शो6केन शुष्यद्वदनहृत्सरोजो7 हतप्रभः8
विभुं तमेवानुध्या9यन्नाशक्नोत्प्रतिभाषितुम्॥ २ ॥

अनुवाद (हिन्दी)

शोकसे अर्जुनका मुख और हृदय-कमल सूख गया था, चेहरा फीका पड़ गया था। वे उन्हीं भगवान् श्रीकृष्णके ध्यानमें ऐसे डूब रहे थे कि बड़े भाईके प्रश्नोंका कुछ भी उत्तर न दे सके॥ २॥

वीरराघवः

तद्विश्लेषजशोकेन शुष्यद्वदनं हृदयकमलं च यस्य सः, अत एव हता प्रभा यस्य तथाभूतः तमेव विभुं श्रीकृष्णमभिध्यायन् प्रतिभाषितुं प्रतिवक्तुं नाशक्नोत् न शशाक ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः।
परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः॥

मूलम्

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः10
11रोक्षेण स12मुन्नद्ध प्रणयौत्कण्ठ्यकातरः॥ ३ ॥

वीरराघवः

ततः कृच्छ्रेण महता प्रयत्नेन शुचः शोकान् संस्तभ्य, नेत्रयोः नेत्रे । कर्मणि षष्ठी । पाणिना आमृज्य । यद्वा, संस्तभ्य मन इति 13शेषः । नेत्रयोश्शुचः शोकाश्रूणि पाणिना संमृज्य, परोक्षेणाति14समुन्नद्धः उत्कटः प्रणयः स्नेह औत्कण्ठ्यं प्रेमपूर्वकानुध्यानं विरहासहत्वदशा वा; ताभ्यां कातरः अधीरः ॥ ३॥

श्लोक-४

विश्वास-प्रस्तुतिः

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन्।
नृपमग्रजमित्याह बाष्पगद‍्गदया गिरा॥

मूलम्

सख्यं मैत्रीं सौ15हृदं च सारथ्यादिषु संस्मरन्।
नृपमग्रजमित्याह बाष्पगद‍्गदया गिरा॥ ४ ॥

अनुवाद (हिन्दी)

श्रीकृष्णकी आँखोंसे ओझल हो जानेके कारण वे बढ़ी हुई प्रेमजनित उत्कण्ठाके परवश हो रहे थे। रथ हाँकने, टहलने आदिके समय भगवान‍्ने उनके साथ जो मित्रता, अभिन्नहृदयता और प्रेमसे भरे हुए व्यवहार किये थे, उनकी याद-पर-याद आ रही थी; बड़े कष्टसे उन्होंने अपने शोकका वेग रोका, हाथसे नेत्रोंके आँसू पोंछे और फिर रुँधे हुए गलेसे अपने बड़े भाई महाराज युधिष्ठिरसे कहा॥ ३-४॥

वीरराघवः

बाष्पैः गद्गदया कुण्ठीभूतया गिरा अग्रजं नृपतिम् इतीत्थं वक्ष्यमाणया रीत्या आहेत्यन्वयः । कथम्भूतस्सन् ? सारथ्यादिषु कर्मसु सख्यादीन् संस्मरन् । तत्र सौहृदं हितैषित्वं मित्रत्वं प्रियैषिता समानशीलत्वं सखित्वम् । नियोगादिकरणार्हत्वं वा मित्रत्वम् ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

अर्जुन उवाच

विश्वास-प्रस्तुतिः

वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा।
येन मेऽपहृतं तेजो देवविस्मापनं महत्॥

मूलम्

वञ्चितोऽहं महाराज! हरिणा बन्धुरूपिणा।
येन मेऽपहृतं तेजो देवविस्माप16नं महत्॥ ५ ॥

अनुवाद (हिन्दी)

अर्जुन बोले—महाराज! मेरे ममेरे भाई अथवा अत्यन्त घनिष्ठ मित्रका रूप धारणकर श्रीकृष्णने मुझे ठग लिया। मेरे जिस प्रबल पराक्रमसे बड़े-बड़े देवता भी आश्चर्यमें डूब जाते थे, उसे श्रीकृष्णने मुझसे छीन लिया॥ ५॥

वीरराघवः

उक्तिमेवाऽऽह - वञ्चित इति त्रयोविंशत्या । हे महाराज! अहं बन्धुरूपिणा बन्धुरूपतां प्राप्तेन हरिणा आश्रितार्तिहरेण साक्षाद्भगवता वञ्चितोऽस्मि, रहितोऽस्मीत्यर्थः । येनेत्यादीनां यच्छब्दानां “तेनाहमस्मि मुषितः पुरुषेण भूम्ना” (भाग 1-15-13) इत्युपरिष्टादन्वयः । देवानामपि विस्माप17नम् आश्चर्यकरं यन्महत् मत्ते18जो येनापहृतं, देवेति यु19धिष्ठिरस्य सम्बोधनं वा ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः।
उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा॥

मूलम्

यस्य क्षणवियोगेन लोकोह्यप्रियदर्शनः।
उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा॥ ६ ॥

अनुवाद (हिन्दी)

जैसे यह शरीर प्राणसे रहित होनेपर मृतक कहलाता है, वैसे ही उनके क्षणभरके वियोगसे यह संसार अप्रिय दीखने लगता है॥ ६॥

वीरराघवः

यस्य च भगवतः क्षणमात्रवियोगेनापि अप्रियं दर्शनं यस्य तथाभूतोऽयं मत्प्रभृति लोको भवति, तथैव लोकः उक्थेन प्राणेन रहितः मृतकः शवः प्रोच्यते । अपिशब्दाद्द20र्शनायोग्यश्च प्रोच्यते, तद्वत् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यत्संश्रयाद् द्रुपदगेहमुपागतानां
राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम्।
तेजो हृतं खलु मयाभिहतश्च मत्स्यः
सज्जीकृतेन धनुषाधिगता च कृष्णा॥

मूलम्

यत्संश्रयाद् द्रुपदगे21हमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम्।
तेजो हृतं खलु मया22ऽभिहतश्च मत्स्यः सज्जी23कृतेन धनुषाऽ24धिगता च कृष्णा॥ ७ ॥

अनुवाद (हिन्दी)

उनके आश्रयसे द्रौपदी-स्वयंवरमें राजा द्रुपदके घर आये हुए कामोन्मत्त राजाओंका तेज मैंने हरण कर लिया, धनुषपर बाण चढ़ाकर मत्स्यवेध किया और इस प्रकार द्रौपदीको प्राप्त किया था॥ ७॥

वीरराघवः

यत्संश्रयात् इति । अस्मदीयशौ25र्यवीर्यादिकं यदधीनं तेन वञ्चितोऽस्मीति समुदायार्थः । द्रुपदगेहे द्रौपद्याः स्वयंवरमुखे स्वयंवरप्रारम्भे स्मरेण कामेन हेतुना दुष्टो मदो येषां तेषामुपागतानां राज्ञां तेजो मया यस्य भगवतः संश्रयाद्धेतोः अपहृतं खलु । तथा सज्जी26कृतेन समारोपितज्यागु27णकेन धनुषा मत्स्यो मत्स्याकारो यन्त्रविशेषश्चाभिहतः छिन्नः । कृष्णा द्रौपदी चाधिगता लब्धा च ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

यत्संनिधावहमु खाण्डवमग्नयेऽदा-
मिन्द्रं च सामरगणं तरसा विजित्य।
लब्धा सभा मयकृताद‍्भुतशिल्पमाया
दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते॥

मूलम्

यत्सन्निधावहमु खाण्डवमग्नयेऽदाम् इन्द्रं च सामरगणं तरसा विजित्य।
लब्धा सभा मयकृताद‍्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते॥ ८ ॥

अनुवाद (हिन्दी)

उनकी सन्निधिमात्रसे मैंने समस्त देवताओंके साथ इन्द्रको अपने बलसे जीतकर अग्निदेवको उनकी तृप्तिके लिये खाण्डव वनका दान कर दिया और मय दानवकी निर्माण की हुई, अलौकिक कलाकौशलसे युक्त मायामयी सभा प्राप्त की और आपके यज्ञमें सब ओरसे आ-आकर राजाओंने अनेकों प्रकारकी भेंटें समर्पित कीं॥ ८॥

वीरराघवः

यत्सन्निधौ इति । यस्य भगवतः सन्निधौ हेतुभूते अमरगणैस्सहितं इन्द्रं जवेन विजित्य, खाण्डवाख्यं वनमहमग्नये अदां दत्तवानस्मि । अहमु इति च्छेदः । उशब्दः निपातो विस्मयद्योतकः । अत्याश्चर्यमयं एवंविधं कर्म कृतवानस्मीति भावः । तथा मयकृतानि28 मयेन निर्मितानि29 अद्भुतानि आश्चर्यभूतानि शिल्पानि प्रतिमादीनि माया अन्यान्यप्याश्चर्याणि यस्यां सा सभा मया लब्धा अद्भुतानि शिल्पानि पाणिपादादिनैपुण्यानि यासु ता माया आश्चर्यरूपाः प्रतिमादयो यस्यामिति वा, तथा यत्सन्निधौ ते तव अध्वरे अश्वमेधे नृपतयो दिग्भ्यो बलिमुपाहरन्नाहृत्य समर्पयामासुः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे
आर्योऽनुजस्तव गजायुतसत्त्ववीर्यः।
तेनाहृताः प्रमथनाथमखाय भूपा
यन्मोचितास्तदनयन् बलिमध्वरे ते॥

मूलम्

30त्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे31 आर्योऽनुजस्तव ग32जायुतसत्त्ववीर्यः।
तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्त33दनयन् बलिमध्वरे ते॥ ९ ॥

अनुवाद (हिन्दी)

दस हजार हाथियोंकी शक्ति और बलसे सम्पन्न आपके इन छोटे भाई भीमसेनने उन्हींकी शक्तिसे राजाओंके सिरपर पैर रखनेवाले अभिमानी जरासन्धका वध किया था; तदनन्तर उन्हीं भगवान‍्ने उन बहुत-से राजाओंको मुक्त किया, जिनको जरासन्धने महाभैरव-यज्ञमें बलि चढ़ानेके लिये बंदी बना रखा था। उन सब राजाओंने आपके यज्ञमें अनेकों प्रकारके उपहार दिये थे॥ ९॥

वीरराघवः

तवानुजो ममार्योऽग्रजः गजानामयुतस्य सत्त्वं बलं त34त्तुल्यं वा वीर्यं च यस्य सः भीमः तव मखार्थं यज्ञार्थं यस्य भगवतः संश्रयाद्धेतोः नृपस्य जरासन्धस्य शिरोऽङ्घ्रिमिति प्राण्यङ्गत्वात् समाहारद्वन्द्वैक्ये35न शिरोऽङ्घ्री36 चाहनत् । तेन नृपेणाहृताः नृपाः ततो विमोचितास्सन्तो यत्प्रमथनाथस्य रुद्रस्य भैरवस्य वा मखाय मखार्थं संभृतं धनं 37तवाध्वरे बलिं करमनयन्नानीतवन्तः । नृपाणां शिरस्सु अङ्घ्रिर्यस्य तं जरासन्धमिति वा ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

पत्न्यास्तवाधिमखक्लृप्तमहाभिषेक-
श्लाघिष्ठचारुकबरं कितवैः सभायाम्।
स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या
यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः॥

मूलम्

पत्न्यास्तवाधि38मखक्लृप्तमहाभिषेकश्लाघिष्ठचारुकबरं कितवैस्सभायाम्।
स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या3940स्तत्स्त्रियोऽ41कृत हतेशविमुक्तकेशाः॥ १० ॥

अनुवाद (हिन्दी)

महारानी द्रौपदी राजसूय यज्ञके महान् अभिषेकसे पवित्र हुए अपने उन सुन्दर केशोंको, जिन्हें दुष्टोंने भरी सभामें छूनेका साहस किया था, बिखेरकर तथा आँखोंमें आँसू भरकर जब श्रीकृष्णके चरणोंमें गिर पड़ी, तब उन्होंने उसके सामने उसके उस घोर अपमानका बदला लेनेकी प्रतिज्ञा करके उन धूर्तोंकी स्त्रियोंकी ऐसी दशा कर दी कि वे विधवा हो गयीं और उन्हें अपने केश अपने हाथों खोल देने पड़े॥ १०॥

वीरराघवः

पत्न्या इति । तव पत्न्याः द्रौपद्याः अधिमखं राजसूयाख्ये य42ज्ञे । विभक्त्यर्थे अव्ययीभावः । क्लृप्तः कारितो यः महाभिषेकः तेन श्लाघिष्ठमत्यन्तश्लाघ्यम् चारु सुन्दरं कबरं धम्मिल्लं विकीर्य विक्षिप्य यैः दुश्शासनादिभिः स्पृष्टं तेषां स्त्रियः स्त्रीः हताः मृताः ईशाः पतयः यासां ताश्च विमुक्ताः केशाः यासां ताश्च तथाभूताः । यः अकृत कृतवान् स तवानुजो नृपशिरोऽङ्घ्रिमहन्निति पूर्वेणान्वयः । कथम्भूतायाः पत्न्याः ? पदयोर्दुश्शासनस्य भगवतो वा स्वस्य वा पदयोः प43तितान्यश्रूणि मुखाद्यस्याश्च तथाभूतायाः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्
दुर्वाससोऽरिविहितादयुताग्रभुग् यः।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
तृप्ताममंस्त सलिले विनिमग्नसङ्घः॥

मूलम्

यो नो जुगोप वन ए44त्य दुरन्तकृच्छ्राद्दुर्वाससोऽरिर45चितादयुताग्रभुग्यः।
शाकान्नशिष्टमुपयु46ज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नस47ङ्घः॥ ११ ॥

अनुवाद (हिन्दी)

वनवासके समय हमारे वैरी दुर्योधनके षड्यन्त्रसे दस हजार शिष्योंको साथ बिठाकर भोजन करनेवाले महर्षि दुर्वासाने हमें दुस्तर संकटमें डाल दिया था। उस समय उन्होंने द्रौपदीके पात्रमें बची हुई शाककी एक पत्तीका ही भोग लगाकर हमारी रक्षा की। उनके ऐसा करते ही नदीमें स्नान करती हुई मुनिमण्डलीको ऐसा प्रतीत हुआ मानो उनकी तो बात ही क्या, सारी त्रिलोकी ही तृप्त हो गयी है*॥ ११॥

पादटिप्पनी
  • एक बार राजा दुर्योधनने महर्षि दुर्वासाकी बड़ी सेवा की। उससे प्रसन्न होकर मुनिने दुर्योधनसे वर माँगनेको कहा। दुर्योधनने यह सोचकर कि ऋषिके शापसे पाण्डवोंको नष्ट करनेका अच्छा अवसर है, मुनिसे कहा—‘‘ब्रह्मन्! हमारे कुलमें युधिष्ठिर प्रधान हैं, आप अपने दस सहस्र शिष्योंसहित उनका आतिथ्य स्वीकार करें। किंतु आप उनके यहाँ उस समय जायँ जबकि द्रौपदी भोजन कर चुकी हो, जिससे उसे भूखका कष्ट न उठाना पड़े।’’ द्रौपदीके पास सूर्यकी दी हुई एक ऐसी बटलोई थी, जिसमें सिद्ध किया हुआ अन्न द्रौपदीके भोजन कर लेनेसे पूर्व शेष नहीं होता था; किन्तु उसके भोजन करनेके बाद वह समाप्त हो जाता था। दुर्वासाजी दुर्योधनके कथनानुसार उसके भोजन कर चुकनेपर मध्याह्नमें अपनी शिष्यमण्डलीसहित पहुँचे और धर्मराजसे बोले—‘‘हम नदीपर स्नान करने जाते हैं, तुम हमारे लिये भोजन तैयार रखना।’’ इससे द्रौपदीको बड़ी चिन्ता हुई और उसने अति आर्त होकर आर्तबन्धु भगवान् श्रीकृष्णकी शरण ली। भगवान् तुरंत ही अपना विलासभवन छोड़कर द्रौपदीकी झोंपड़ीपर आये और उससे बोले—‘‘कृष्णे! आज बड़ी भूख लगी है, कुछ खानेको दो।’’ द्रौपदी भगवान‍्की इस अनुपम दयासे गद‍्गद हो गयी और बोली,‘‘प्रभो! मेरा बड़ा भाग्य है, जो आज विश्वम्भरने मुझसे भोजन माँगा; परन्तु क्या करूँ? अब तो कुटीमें कुछ भी नहीं है।’’ भगवान‍्ने कहा—‘‘अच्छा, वह पात्र तो लाओ; उसमें कुछ होगा ही।’’ द्रौपदी बटलोई ले आयी; उसमें कहीं शाकका एक कण लगा था। विश्वात्मा हरिने उसीको भोग लगाकर त्रिलोकीको तृप्त कर दिया और भीमसेनसे कहा कि मुनिमण्डलीको भोजनके लिये बुला लाओ। किन्तु मुनिगण तो पहले ही तृप्त होकर भाग गये थे। (महाभारत)
वीरराघवः

यो न इति । यः अयुताग्रभुक् अयुतेन विप्राणामयुतेन सह अग्रे भुङ्क्ते इति तथा; अयुतस्याग्रे वा । तस्मादरिणा दुर्योधनेन विहितात् प्रेषितात् दुर्वाससः हेतोरागतात् दुरन्तकृच्छ्रात् अपारसङ्कटाद्यो भगवान् नः अस्मान् शाकात्मकान्नावशि48ष्टमवलेपमुपयुज्य भुक्त्वा जुगोप । यतः शाकावशिष्टमुपभुक्तवतो भगवतो हेतोः सलिले विनिमग्नः सङ्घः भूतसङ्घरूपो देहो यस्य स दुर्वासाः त्रिलोकीमपि49 तृप्ताममंस्त अमन्यत । तेन भगवता मुषितोऽस्मीत्यन्वयः । एषा चा50न्यत्र कथा सूच्यते “दुर्वासा मुनिवर्योऽथ दुर्योधनगृहं गतः । तं राजा पूजयामास, सार्घ्यपाद्यासनादिभिः ॥ निमन्त्रयामास स तं भोजनाय नराधिपः । तं बाढमिति चामन्त्र्य कृत्वा नित्यादिकाः क्रियाः ॥ बुभुजेऽन्नं बहुगुणं ब्राह्मणैस्सह धर्मवित् । अब्रवीच्च स राजानं भुक्त्वा तुष्टमना मुनिः ॥ वरं वरय भद्रं ते वरदोऽस्मि नराधिप! याचयाम्यद्य किमहं वरमेतं मुनीश्वरम् ॥ इति चिन्तां समापन्नो राजा दुर्योधनस्तदा । मुहूर्तं चिन्तयित्वाऽथ प्रतिपेदे मनोगतम् ॥ वनवासं गता ये तु पाण्डवाश्शंसितव्रताः । तेषामस्य मुनेश्शा51पं जनयेयं लवान्नृपः । मद्गृहे भुक्तवा52न् सर्वं यदा वाञ्छति भोजनम् । तन्न दातुं शक्नुवन्ति ते वने क्लेशभागिनः । तदा कोपपरीतात्मा शापं दास्यत्यसंशय53म् । इत्येवं दुरभिप्रायो वरं वव्रे सुदारुणम् । वने मे भ्रातरस्सन्ति पाण्डवा दुःखभागिनः । भोक्तव्यं त54द्गृहं गत्वा मद्गृहे भुक्तवान् यथा । तथेति मुनिरुक्त्वा तं गत्वाऽयाचत भोजनम् । अयुतब्राह्मणाग्रे मां भोजयाऽऽशु युधिष्ठिर! श्रुत्वैतद्वचनं राजा हृदि सञ्जातवेपथुः । भुक्तमस्माभिरधुना शिष्टमन्नं न विद्यते । तथा न ब्राह्मणास्सन्ति सामग्री च कदाचन । यद्यहं न ददाम्यत्रं शापं दास्यति कोपतः55 । तथाऽप्येनं निमन्त्र्यैवमुपायं मृगयेऽधुना । इत्येवं मनसा ध्या56यन् राजा मुनिमथाब्रवीत् । भगवन्नित्यकर्मादि कृत्वा स्नानादि कर्म च । शीघ्रमागमनं कार्य सिद्धं सर्वं तथा मम । तत ओमित्यनुज्ञाय गत्वा चाऽऽशु विवेश ह । तत्राघमर्षणं कुर्वन् दध्यौ तद्ब्रह्म निष्कलम् । एतस्मिन्नेव काले तु भगवान् यदुनन्दनः आजगाम कुरुश्रेष्ठ सन्निधौ क्लेशनाशनः । विषण्णवदनान् दृष्ट्वा पाण्डवान् मधुसूदनः । उवाच राजन्! किं दीर्घं ध्यायसे क्लेशभागिव । सो57ऽसौ न्यवेदयत्सर्वं मुनेरागमनादिकम् । श्रुत्वैतत् भगवान् कृ58ष्णो दुर्योधनविचेष्टितम् । श्रुत्वोवाचावशिष्टं तदन्नं किं किञ्चिदस्ति वै59 । शाकमात्रावशिष्टो मे पाक इत्यब्रवीन्नृपः । उवाच भगवान् शिष्टं पाकमानीयतामिति । आनीतं भक्षयामास राज्ञो दुःखोपशान्तये । दुर्वासास्तु मुनिर्मेने तृप्तं स्थावरजङ्गमम् ॥” इत्यादिका कथा वर्तते ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

यत्तेजसाथ भगवान् युधि शूलपाणि-
र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे।
अन्येऽपि चाहममुनैव कलेवरेण
प्राप्तो महेन्द्रभवने महदासनार्धम्॥

मूलम्

यत्तेजसाऽ60थ भगवान् युधि शूलपाणिः विस्मापि61तस्सगिरिजो62ऽस्त्रम63दान्निजं मे।
अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम्॥ १२ ॥

अनुवाद (हिन्दी)

उनके प्रतापसे मैंने युद्धमें पार्वतीसहित भगवान् शंकरको आश्चर्यमें डाल दिया तथा उन्होंने मुझको अपना पाशुपत नामक अस्त्र दिया; साथ ही दूसरे लोकपालोंने भी प्रसन्न होकर अपने-अपने अस्त्र मुझे दिये। और तो क्या, उनकी कृपासे मैं इसी शरीरसे स्वर्गमें गया और देवराज इन्द्रकी सभामें उनके बराबर आधे आसनपर बैठनेका सम्मान मैंने प्राप्त किया॥ १२॥

वीरराघवः

यत्तेजसेति । यस्य भगवतः तेजसा मया हितेन हेतुना सः64 भगवान् शूलपाणिः शम्भुः किरातरूपो युद्धे विस्मापितः मयेति शेषः । विस्मयं प्रापितः । स च गिरिशो रुद्रः मे मह्यमस्त्रं पाशुपताख्यं ददौ । तथाऽप्यन्ये च शक्त्यादयो विस्मापिता इत्यर्थः । तथाऽहममुनैवाधुना तेजोहीनकलेबरेणैव महेन्द्रस्य भवने महदासनस्यार्धं प्राप्तः । इन्द्रासनस्यार्धं अधिष्ठितवानस्मीत्यर्थः । महदिति पृथक्पदम् । अन्यथा ‘आन्महत’ (अष्टा. 6-3-46) इत्यात्वापत्तिः । आर्षत्वात्, तदभावे महत्यासने इत्यप्यन्वेतुं शक्यम् ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

तत्रैव मे विहरतो भुजदण्डयुग्मं
गाण्डीवलक्षणमरातिवधाय देवाः।
सेन्द्राः श्रिता यदनुभावितमाजमीढ
तेनाहमद्य मुषितः पुरुषेण भूम्ना॥

मूलम्

तत्रैव मे विहरतो भुजदण्डयुग्मम् गाण्डीवलक्षणमरातिवधाय देवाः।
सेन्द्राः श्रिता यदनुभावित65माजमीढ! 66तेनाहमद्य मुषितः पुरुषेण भूम्ना॥ १३ ॥

अनुवाद (हिन्दी)

उनके आग्रहसे जब मैं स्वर्गमें ही कुछ दिनोंतक रह गया, तब इन्द्रके साथ समस्त देवताओंने मेरी इन्हीं गाण्डीव धारण करनेवाली भुजाओंका निवातकवच आदि दैत्योंको मारनेके लिये आश्रय लिया। महाराज! यह सब जिनकी महती कृपाका फल था, उन्हीं पुरुषोत्तम भगवान् श्रीकृष्णने मुझे आज ठग लिया?॥ १३॥

वीरराघवः

तत्रैव महेन्द्रभवने विहरतो मम गाण्डीवलक्षणं गाण्डीवेन सह लक्ष्यते इति तथा येन भगवता अनुभावितं प्रभावं प्रतिनीतं भुजदण्डयोर्युग्मं सेन्द्रा देवा अरातिवधाय कालकेयनिवातकवचाद्यसुरवधार्थं श्रिताः सहायत्वेन आश्रिताः हे! आजमीढ! तेन भूम्ना अपरिमितानन्दरूपेण परमपुरुषेण श्रीकृष्णेनाहं मुषितोऽस्मि, वञ्चितोऽस्मि । मां विहाय स्वलोकं जगामेत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

यद‍्बान्धवः कुरुबलाब्धिमनन्तपार-
मेको रथेन ततरेऽहमतार्यसत्त्वम्।
प्रत्याहृतं बहु धनं च मया परेषां
तेजास्पदं मणिमयं च हृतं शिरोभ्यः॥

मूलम्

यद‍्बान्धवः कुरुब67लाब्धिमनन्तपारमेको रथेन त68तरे69ऽहमता70र्यसत्त्वम्।
प्रत्याहृतं ब71हुधनं च मया परेषां ते72जःपदं मणिमयं च हृतं शिरोभ्यः॥ १४ ॥

अनुवाद (हिन्दी)

महाराज! कौरवोंकी सेना भीष्म-द्रोण आदि अजेय महामत्स्योंसे पूर्ण अपार समुद्रके समान दुस्तर थी, परंतु उनका आश्रय ग्रहण करके अकेले ही रथपर सवार हो मैं उसे पार कर गया। उन्हींकी सहायतासे, आपको याद होगा, मैंने शत्रुओंसे राजा विराटका सारा गोधन तो वापस ले ही लिया, साथ ही उनके सिरोंपरसे चमकते हुए मणिमय मुकुट तथा अंगोंके अलंकारतक छीन लिये थे॥ १४॥

वीरराघवः

यद्बान्धव इति यच्छब्दानां अध्याहृततच्छब्दवता लुठन्ति हृदयं मम माधवस्य इत्यनेन अन्वयः । यो भगवान् बान्धवः यस्य सः । अहमेक ए73वावार्य दुस्तरं सत्त्वं बलं यस्य तमनन्तपारं निरवधिकं कुरूणां बलरूपमब्धिं रथेन साधनेन ततरे तीर्णवानस्मि । आर्षत्वात् – ‘तृफलभजत्रपश्च’ (अष्टा. 6-4-122) इति एत्वाभ्यासलोपाभावः, आत्मनेपदञ्च । तथा यद्बान्धवेन मया परेषां शत्रूणां बहुधनं प्रत्याहृतं, तथा तेषां शिरोभ्यः तेजःपदं तेजसः पदं आश्रयं मणिमयं मण्यात्मकं च धनं प्रत्याहृतम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-
राजन्यवर्यरथमण्डलमण्डितासु।
अग्रेचरो मम विभो रथयूथपाना-
मायुर्मनांसि च दृशा सह ओज आर्च्छत्॥

मूलम्

यो भीष्मकर्णगु74रुशल्यचमूष्वदभ्रराजन्यवर्यरथमण्डलमण्डितासु।
अग्रेचरो मम वि75भो रथयूथपानामायुर्मनांसि च दृशा स76ह ओज आर्च्छत्॥ १५ ॥

अनुवाद (हिन्दी)

भाईजी! कौरवोंकी सेना भीष्म, कर्ण, द्रोण, शल्य तथा अन्य बड़े-बड़े राजाओं और क्षत्रिय वीरोंके रथोंसे शोभायमान थी। उसके सामने मेरे आगे-आगे चलकर वे अपनी दृष्टिसे ही उन महारथी यूथपतियोंकी आयु, मन, उत्साह और बलको छीन लिया करते थे॥ १५॥

वीरराघवः

इति । हे विभो! अदभ्राणाम् अनल्पवीर्याणां बहूनां राजन्यश्रेष्ठानां रथजालैः मण्डितासु भीष्मादीनां सेनासु यो भगवान् ममाग्रेचरः अवस्थितः दृशा दृष्टिमात्रेण रथयूंथपानामोजसा सह आयुर्मनांसि च आर्च्छत् हृतवान् । तेनाहं मुषितोऽस्मीति सम्बन्धः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

यद्दोष्षु मा प्रणिहितं गुरुभीष्मकर्ण-
नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः।
अस्त्राण्यमोघमहिमानि निरूपितानि
नो पस्पृशुर्नृहरिदासमिवासुराणि॥

मूलम्

यद्दोष्षु77 मा78 प्रणिहितं गुरुभीष्मकर्ण न79प्तृत्रिग80र्तशलसैन्धवबाह्लिकाद्यैः।
अस्त्राण्यमो81घमहिमानि निरूपितानि नो82पस्पृशुर्नृहरिदासमिवासुराणि॥ १६ ॥

अनुवाद (हिन्दी)

द्रोणाचार्य, भीष्म, कर्ण, भूरिश्रवा, सुशर्मा, शल्य, जयद्रथ और बाह्लीक आदि वीरोंने मुझपर अपने कभी न चूकनेवाले अस्त्र चलाये थे; परंतु जैसे हिरण्यकशिपु आदि दैत्योंके अस्त्र-शस्त्र भगवद‍्भक्त प्रह्लादका स्पर्श नहीं करते थे, वैसे ही उनके शस्त्रास्त्र मुझे छूतक नहीं सके। यह श्रीकृष्णके भुजदण्डोंकी छत्रछायामें रहनेका ही प्रभाव था॥ १६॥

वीरराघवः

यद्दोष्ण्विति । यस्य भगवतः दोष्षु बाहुषु प्रणिहितं प्रणिधापितं, त्वयेति शेषः । त्वया यद्भुजैकशरणत्वेन कृतं तं मामित्यर्थः । गुरुः द्रोणः तत्प्रभृतिभिः निरूपितानि प्रयुक्तानि अप्रतिहतमहिमानि अस्त्राणि नोपास्पृशन् । यथा आसुराण्यसुरेण कशिपुना कारितान्यस्रघातादीनि नृसिंहदासं प्रह्लादं नास्पृशंस्तद्वत् ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे
यत्पादपद्ममभवाय भजन्ति भव्याः।
मां श्रान्तवाहमरयो रथिनो भुविष्ठं
न प्राहरन् यदनुभावनिरस्तचित्ताः॥

मूलम्

सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः।
मां83 श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः॥ १७ ॥

अनुवाद (हिन्दी)

श्रेष्ठ पुरुष संसारसे मुक्त होनेके लिये जिनके चरणकमलोंका सेवन करते हैं, अपने-आपतकको दे डालनेवाले उन भगवान‍्को मुझ दुर्बुद्धिने सारथितक बना डाला। अहा! जिस समय मेरे घोड़े थक गये थे और मैं रथसे उतरकर पृथ्वीपर खड़ा था, उस समय बड़े-बड़े महारथी शत्रु भी मुझपर प्रहार न कर सके; क्योंकि श्रीकृष्णके प्रभावसे उनकी बुद्धि मारी गयी थी॥ १७॥

वीरराघवः

सौत्य इति । यस्य भगवतः पादपद्मं भव्याः साधवोऽभवाय मुक्तये भजन्ति । य आत्मद आत्मपर्यन्तवदान्यः “य आत्मदो बलदायक”, “एको बहूनां यो विदधाति कामान्” (श्वेता. उ. 6 -13) इति श्रुतेः । ईश्वर: सर्वनियन्ता कुबुद्धिना मे मया सौत्ये सारथ्ये निमित्ते वृतः श्रान्तैः वाह्रैस्सहितम् अत एव भुविष्ठमपि मां यस्य भगवतः प्रभावेण निरस्तं विमोहितं चित्तं येषां ते नृपा न प्राहरन् न प्रहृतवन्तः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

नर्माण्युदाररुचिरस्मितशोभितानि
हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति।
संजल्पितानि नरदेव हृदिस्पृशानि
स्मर्तुर्लुठन्ति हृदयं मम माधवस्य॥

मूलम्

84र्माण्युदाररु85चिरस्मितशो86भितानि हे! पार्थ! हेऽर्जुन! सखे! कुरुनन्दनेति।
सञ्जल्पितानि नरदेव! हृदि स्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य॥ १८ ॥

अनुवाद (हिन्दी)

महाराज! माधवके उन्मुक्त और मधुरमुसकानसे युक्त, विनोदभरे एवं हृदयस्पर्शी वचन और उनका मुझे ‘पार्थ, अर्जुन, सखा, कुरुनन्दन’ आदि कहकर पुकारना, मुझे याद आनेपर मेरे हृदयमें उथल-पुथल मचा देते हैं॥ १८॥

वीरराघवः

नर्माणीति । हे नरदेव! तस्य माधवस्य श्रीकृष्णस्य उदारेण रुचिरेण सुन्दरेण च स्मितेन शोभितानि नर्माणि परिहासवाक्यानि हे पार्थेत्यादिरूपाणि सम्बोधनात्मकानि जल्पितानि च स्मरतो मम हृदयं लुठन्ति छिन्दन्ति ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

शय्यासनाटनविकत्थनभोजनादि-
ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः।
सख्युः सखेव पितृवत्तनयस्य सर्वं
सेहे महान्महितया कुमतेरघं मे॥

मूलम्

शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋ87तवानिति विप्रलब्धः।
सख्युस्सखेव पितृवत्तनयस्य सर्वं सेहे महान्म88हितया कुमतेरघं मे॥ १९ ॥

अनुवाद (हिन्दी)

सोने, बैठने, टहलने और अपने सम्बन्धमें बड़ी-बड़ी बातें करने तथा भोजन आदि करनेमें हम प्रायः एक साथ रहा करते थे। किसी-किसी दिन मैं व्यंग्यसे उन्हें कह बैठता, ‘मित्र! तुम तो बड़े सत्यवादी हो!’ उस समय भी वे महापुरुष अपनी महानुभावताके कारण, जैसे मित्र अपने मित्रका और पिता अपने पुत्रका अपराध सह लेता है उसी प्रकार, मुझ दुर्बुद्धिके अपराधोंको सह लिया करते थे॥ १९॥

वीरराघवः

शय्येति । शय्यादिव्यापारेषु ऐक्यं साधारण्यं साम्यमिति यावत् तेन न विद्यते द्वयं द्वैविध्यम् । अन्यतरस्य व्यापारान्तरं यस्य तस्य कुमतेर्मे मम सख्युरधं सखेव तनयस्याधं पितृवत् पितेवे89त्युक्तप्रकारेण विप्रलब्धोऽधिक्षिप्तः । ऋभुमान् ऋभवो देवाः तद्वान् धनवानितिवत् देवानां स्वामीत्यर्थः । महामहितया महामहिमत्वात् महान् महितयेति पाठे महिता माहात्म्यं तेन महान् सर्वमघमपराधं सेहे सोढवान् । ऋतवानिति पाठे ऋतं सत्यं वाचिकं काकुगर्भं विवक्षितं त90त् त्वं सत्यवादी किलेत्येवमादिरूपेण विप्रलब्धोऽपीत्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन
सख्या प्रियेण सुहृदा हृदयेन शून्यः।
अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्
गोपैरसद‍्भिरबलेव विनिर्जितोऽस्मि॥

मूलम्

सोऽहं नृपेन्द्र! रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः।
अध्वन्युरुक्रमपरिग्रहमङ्ग! रक्षन् गोपैरसद‍्भिरबलेव विनिर्जितोऽस्मि॥ २० ॥

अनुवाद (हिन्दी)

महाराज! जो मेरे सखा, प्रिय मित्र—नहीं-नहीं मेरे हृदय ही थे, उन्हीं पुरुषोत्तम भगवान‍्से मैं रहित हो गया हूँ। भगवान‍्की पत्नियोंको द्वारकासे अपने साथ ला रहा था, परंतु मार्गमें दुष्ट गोपोंने मुझे एक अबलाकी भाँति हरा दिया और मैं उनकी रक्षा नहीं कर सका॥ २०॥

वीरराघवः

सोऽहमिति । स ऐक्याद्वयोऽहं हे नृपेन्द्र! सख्या मित्रेण प्रियेण निरतिशयप्रीतिविषयेण हृदयते गच्छतीति हृदयः अय गताविति धातुः । हृदयङ्गमेन सुहृदा हितैषिणा पुरुषोत्तमेन शून्यो रहितः अङ्ग! हे राजन्! अध्वनि उरुक्रमस्य श्रीकृष्णस्य परिग्रहं कलत्रमण्डलं रक्षन् गोपैरप्यसद्धिः दुर्जनैरबलेव योषिदिव निर्जितोऽस्मीति ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

तद्वै धनुस्त इषवः स रथो हयास्ते
सोऽहं रथी नृपतयो यत आनमन्ति।
सर्वं क्षणेन तदभूदसदीशरिक्तं
भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्॥

मूलम्

तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आ91नमन्ति।
सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूष्या92म्॥ २१ ॥

अनुवाद (हिन्दी)

वही मेरा गाण्डीव धनुष है, वे ही बाण हैं, वही रथ है, वही घोड़े हैं और वही मैं रथी अर्जुन हूँ, जिसके सामने बड़े-बड़े राजालोग सिर झुकाया करते थे। श्रीकृष्णके बिना ये सब एक ही क्षणमें नहींके समान सारशून्य हो गये—ठीक उसी तरह, जैसे भस्ममें डाली हुई आहुति, कपटभरी सेवा और ऊसरमें बोया हुआ बीज व्यर्थ जाता है॥ २१॥

वीरराघवः

तदिति । ये भगवता सह अवस्थानदशायां धनुरादयः त एव अधुनाऽपि रथी चाहं स एवाधुनाऽपि यतो येभ्यो धनुरादिभ्यो नृपतय आमनन्ति बलिष्ठं रथिनं मां मन्यन्त इत्यर्थः । यद्यप्येवं तथाऽपि तत्सर्वं धनुरादिकमीशरिक्तं श्रीकृष्णरहितं सत् क्षणेन असत् असत्प्रायमभूत् । यथा भस्मनि हुतं यथा च कुहकराद्धं दोषवद्विप्रस्य राद्धं राधनं दानादिसत्कारः यथा च ऊषे ऊषरभूमौ उप्तं बीजं तद्वत् ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

राजंस्त्वयाभिपृष्टानां सुहृदां नः सुहृत्पुरे।
विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः॥

मूलम्

राजंस्त्वयाभि93पृष्टानां सुहृदां नः सुहृत्पुरे।
विप्रशाप94विमूढानां निघ्नतां मुष्टिभिर्मिथः॥

वीरराघवः

हे राजन्! सुहृत्पुरे द्वारकायां त्वयाऽभिपृष्टानां नोऽस्माकं सुहृदां मध्ये चतुःपञ्चावशेषिताः, चत्वारः पञ्च वाऽवशिष्टाः । अन्ये तु सर्वेऽपि नष्टा इत्यर्थः । तत्र हेतुं वदन् विशिनष्टि । विप्राणां ऋषीणां शापेन विमोहितचित्तानाम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम्।
अजानतामिवान्योन्यं चतुः पञ्चावशेषिताः॥

मूलम्

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम्।
अजानतामिवान्योन्यं चतुः पञ्चावशेषिताः॥

अनुवाद (हिन्दी)

राजन्! आपने द्वारकावासी अपने जिन सुहृद्-सम्बन्धियोंकी बात पूछी है, वे ब्राह्मणोंके शापवश मोहग्रस्त हो गये और वारुणी मदिराके पानसे मदोन्मत्त होकर अपरिचितोंकी भाँति आपसमें ही एक-दूसरेसे भिड़ गये और घूँसोंसे मार-पीट करके सब-के-सब नष्ट हो गये। उनमेंसे केवल चार-पाँच ही बचे हैं॥ २२-२३॥

वीरराघवः

वारुणीं मदिरां सुरां पीत्वा, तेन उन्मथितं विभ्रान्तं चेतो येषाम्, अत एवान्योऽन्यं अजानतामिव मिथो मुष्टिभिर्निघ्नताम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम्।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः॥

मूलम्

प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम्।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः॥

अनुवाद (हिन्दी)

वास्तवमें यह सर्वशक्तिमान् भगवान‍्की ही लीला है कि संसारके प्राणी परस्पर एक-दूसरेका पालन-पोषण भी करते हैं और एक-दूसरेको मार भी डालते हैं॥ २४॥

वीरराघवः

तन्मिथो निहननमपि प्रायशः ईश्वरस्य कृष्णस्य विचेष्टितम् एतत्सङ्कल्पमूलकमेवेति भावः । तदेव सदृष्टान्तमाह - यत् यथा यत्सङ्कल्पान्मिथो भूतानि भावयन्ति वर्धयामासुः तथा तत्सङ्कल्पादेव मिथो निघ्नन्ति विनिर्जघ्नुः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः।
दुर्बलान्बलिनो राजन‍्महान्तो बलिनो मिथः॥

मूलम्

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः।
दुर्बलान् बलिनो राजन‍् महान्तो बलिनो मिथः॥ २५ ॥

वीरराघवः

युक्तं चैतत् तस्य भूभाराव95तारायावतीर्णस्य इत्यभिप्रायेण स्वयमुदासीन एव सन् भूभारं - जलौकसाम् इति द्वाभ्याम् । तत्र विवक्षितार्थोपयोगितया दृष्टान्तमाह - जले जलौकसां मत्स्यादीनां मध्ये यथाऽणीयसः सूक्ष्मान् जलौकसो महान्तस्ते अदन्ति, भक्षयन्ति । यथा च दुर्बलांस्तान् बलिनो घ्नन्ति यथा च राजन्! महान्तो बलिनश्च ते मिथो निघ्नन्ति ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

एवं बलिष्ठैर्यदुभिर्महद‍्भिरितरान् विभुः ।
यदून् यदुभिरन्योन्यं भूभारान् संजहार ह॥

मूलम्

एवं बलिष्ठैर्यदुभिर्महद‍्भिरि96तरान् विभुः ।
यदून् यदुभिरन्योऽन्यं भूभारा97न् सञ्जहार ह98॥ २६ ॥

अनुवाद (हिन्दी)

राजन्! जिस प्रकार जलचरोंमें बड़े जन्तु छोटोंको, बलवान् दुर्बलोंको एवं बड़े और बलवान् भी परस्पर एक-दूसरेको खा जाते हैं, उसी प्रकार अतिशय बली और बड़े यदुवंशियोंके द्वारा भगवान‍्ने दूसरे राजाओंका संहार कराया। तत्पश्चात् यदुवंशियोंके द्वारा ही एकसे दूसरे यदुवंशीका नाश कराके पूर्णरूपसे पृथ्वीका भार उतार दिया॥ २५-२६॥

वीरराघवः

एवं विभुः बलिष्ठैः महद्भिश्च यदुभिरितरान् दुर्बलानन्यांश्च भूतान् ततोऽन्योन्यं युदभिर्यदूनेव मिथो भुवो भाररूपान् सञ्जहार संहृतवान् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

देशकालार्थयुक्तानि हृत्तापोपशमानि च।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे॥

मूलम्

देशकालार्थयुक्तानि हृत्तापोपशमानि च।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे॥ २७ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने मुझे जो शिक्षाएँ दी थीं, वे देश, काल और प्रयोजनके अनुरूप तथा हृदयके तापको शान्त करनेवाली थीं; स्मरण आते ही वे हमारे चित्तका हरण कर लेती हैं॥ २७॥

वीरराघवः

देशकालार्थः देशकालानुगुणं कर्तव्यं प्रयोजनं तद्युक्तानि तत्प्रकाशकानि शृण्वतां हृदयगतदुःखोपशमानि गोविन्दस्याभिहितानि । भावे क्तः । भाषणानि गीतादिरूपाणि स्मरतो मम चित्तं हरन्ति ॥ २७ ॥

श्लोक-२८

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम्।
सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः॥

मूलम्

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम्।
सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः99॥ २८ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—इस प्रकार प्रगाढ़ प्रेमसे भगवान् श्रीकृष्णके चरणकमलोंका चिन्तन करते-करते अर्जुनकी चित्तवृत्ति अत्यन्त निर्मल और प्रशान्त हो गयी॥ २८॥

वीरराघवः

इत्थमतिगाढेनापरेण सौहार्देन कृष्णस्य पादसरोरुहं चिन्तयतोऽर्जुनस्य अत एव विमला शान्ता रागाद्यकलुषिता च मतिर्बभूव ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

वासुदेवाङ्‍घ्र्यनुध्यानपरिबृंहितरंहसा।
भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः॥

मूलम्

वासुदेवाङ्‍घ्र्यनु100ध्यानपरिबृंहितरंहसा।
भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः॥ २९ ॥

अनुवाद (हिन्दी)

उनकी प्रेममयी भक्ति भगवान् श्रीकृष्णके चरणकमलोंके अहर्निश चिन्तनसे अत्यन्त बढ़ गयी। भक्तिके वेगने उनके हृदयको मथकर उसमेंसे सारे विकारोंको बाहर निकाल दिया॥ २९॥

वीरराघवः

वासुदेवस्य अङ्घ्र्योरनुध्यानेन परिबृंहितं वर्धितं रंहो वेगः प्रावर्ण्य यस्यास्तया वासुदेवभक्त्या अविच्छिन्नस्मृतिसन्तानरूपया प्रीत्यात्मिकया निर्मथिताः निरस्ताः अशेषाः कषायाः कषायवत् दुर्मोच्या101 रागादयो यस्यास्सा धिषणा बुद्धिर्यस्य सोऽर्जुनः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

गीतं भगवता ज्ञानं यत् तत् सङ्‍ग्राममूर्धनि।
कालकर्मतमोरुद्धं पुनरध्यगमद् विभुः॥

मूलम्

गीतं भगवता ज्ञानं यत्तत् सङ्‍ग्राममूर्धनि।
कालकर्मतमोरुद्धं पुनरध्य102गमद् प्र103भुः॥ ३० ॥

अनुवाद (हिन्दी)

उन्हें युद्धके प्रारम्भमें भगवान‍्के द्वारा उपदेश किया हुआ गीता-ज्ञान पुनः स्मरण हो आया, जिसकी कालके व्यवधान और कर्मोंके विस्तारके कारण प्रमादवश कुछ दिनोंके लिये विस्मृति हो गयी थी॥ ३०॥

वीरराघवः

सङ्ग्राममूर्धनि युद्धारम्भे यद्भगवता गीतं गीतोपनिषद्रूपेणोपदिष्टं ज्ञानं स्वात्मपरमात्मतत्प्राप्तिसाधनादियाथात्म्यगोचरं ज्ञानं तन्महता कालेन कर्मणा तमोगुणेन चावरुद्धं तिरोहितमपि विभुः तत्त्वावधारणसमर्थः । अत्र निर्मथिताशेषकषायत्वं हेतुः । पुनरप्यध्यगमत् अध्यवस्यत् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

विशोको ब्रह्मसम्पत्त्या संछिन्नद्वैतसंशयः।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः॥

मूलम्

विशोको ब्रह्मसम्पत्त्या संछिन्नद्वैतसंशयः।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः॥ ३१ ॥

अनुवाद (हिन्दी)

ब्रह्मज्ञानकी प्राप्तिसे मायाका आवरण भंग होकर गुणातीत अवस्था प्राप्त हो गयी। द्वैतका संशय निवृत्त हो गया। सूक्ष्मशरीर भंग हुआ। वे शोक एवं जन्म-मृत्युके चक्रसे सर्वथा मुक्त हो गये॥ ३१॥

वीरराघवः

ब्रह्मसम्पत्त्या प104तृगतौ । गत्यर्थो बुद्ध्यर्थः । ब्रह्मविषयकसम्यज्ज्ञानेन ह्यर्जुनः तदानीं मु105क्तः तेनोपलक्षितः यद्वा, तेन हेतुना छिन्नद्वैतसंशयः आत्मनि देहगतदेवादिभेदभ्रमरहित इति । गीतोपनिषत्पूर्वष्ट्वोक्तयुद्धमेवः ब्रह्मसम्पत्त्या इति मध्यम106षट्कार्थज्ञानोन्मेष उक्तः । यद्वा ब्रह्मसम्पत्त्या सत्छिन्नद्वैतसंशयः ब्रह्मज्ञानेन सञ्छिनदेवादिद्वैतस्वनिष्ठद्वैतसंशयः इत्यर्थः । अलिङ्गत्वादिति स्थूलदेहविरहानुसन्धानमुक्तम्, लीनप्रकृतिनैर्गुण्यात् विनष्टसूक्ष्मप्रकृतितया गुणत्रयविरहात्त107दननुसन्धानादित्यर्थः । देहे वर्तमानत्वात् अर्जुनस्यासम्भवः । अत एव पुनर्जन्मरहितः ततो विशोकः अभवदित्यर्थः । विशोकग्रहणम् अपगतपाप्मत्वादि गुणाष्टकयुक्तस्वरूपोपलक्षणम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च।
स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः॥

मूलम्

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च।
स्वःपथाय मतिं चक्रे निभृ108तात्मा युधिष्ठिरः॥ ३२ ॥

अनुवाद (हिन्दी)

भगवान‍्के स्वधामगमन और यदुवंशके संहारका वृत्तान्त सुनकर निश्चलमति युधिष्ठिरने स्वर्गारोहणका निश्चय किया॥ ३२॥

वीरराघवः

भगवतो मार्गं स्वर्लोकगमनप्रकारं यदुकुलसंस्थाम् अन्तं नाशं चेति यावत् । त109त् श्रुत्वा युधिष्ठिरः निभृतात्मा समाहितचि110त्तः स्वःपथाय स्वश्शब्दः सुखपरः - निरतिशयसुखरूपलोकमार्गाय मतिं चक्रे ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

पृथाप्यनुश्रुत्य धनञ्जयोदितं
नाशं यदूनां भगवद‍्गतिं च ताम्।
एकान्तभक्त्या भगवत्यधोक्षजे
निवेशितात्मोपरराम संसृतेः॥

मूलम्

पृथाऽप्य111नुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद‍्गतिं च ताम्।
एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः॥ ३३ ॥

अनुवाद (हिन्दी)

कुन्तीने भी अर्जुनके मुखसे यदुवंशियोंके नाश और भगवान‍्के स्वधामगमनकी बात सुनकर अनन्य भक्तिसे अपने हृदयको भगवान् श्रीकृष्णमें लगा दिया और सदाके लिये इस जन्म-मृत्युरूप संसारसे अपना मुँह मोड़ लिया॥ ३३॥

वीरराघवः

अर्जुनोदितं यदूनां नाशं, तां भगवतो गतिं च श्रुत्वा कुन्त्यपि भगवत्यधोक्षजे अनन्यप्रयोजनया भक्त्या निवेशित आत्मा मनः यया तथाभूता संसृतेरुपरराम । विरक्ता बभूव ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

ययाहरद् भुवो भारं तां तनुं विजहावजः।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम्॥

मूलम्

ययाऽहरद्भुवो भारं तां तनुं विजहावजः।
कण्टकं कण्टकेनेव द्वयं चापीशितुस्समम्॥ ३४ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने लोकदृष्टिमें जिस यादवशरीरसे पृथ्वीका भार उतारा था, उसका वैसे ही परित्याग कर दिया, जैसे कोई काँटेसे काँटा निकालकर फिर दोनोंको फेंक दे। भगवान‍्की दृष्टिमें दोनों ही समान थे॥ ३४॥

वीरराघवः

भगवन्मार्गमिति । भगवद्गतिमित्यनेन चोक्ता भगवतः स्वलोकं प्रति गतिः किं कृ112ष्णाख्यतनुत्यागपूर्विका उत तयैवेति शौनकाभिप्रेतं विशदयति - यया इति । अजो भगवान् यया तन्वा भुवो भारमहरत् तां तनुं विजहौ । मनुष्यसंस्थानं विजहौ । स्वासाधारणया चतुर्भुजादिमत्या तन्वा अवतीर्य पित्रोः प्रार्थनया यां मनुष्यसंस्थानस्थितां तनुं भूभारमपनेतुं जग्राह । तां तनुं तिरोधाय स्वासाधारणतन्वा जगामेत्यर्थः । मनुष्यसंस्थानस्य भूभारापनोदनौपाधिकत्वेन यावदुपाधितत्संस्था113नापनोद्यमपनुद्य, स्वासाधारणयैव जगामेति भावः । मनुष्यसंस्थानेनैव किं न जगामेत्याकाङ्क्षायां, तत्र दृष्टान्तमुखेनोत्तरमाह । यथा कण्टकविद्धचरणः पुमान् यावत्तदपनोदककण्टकान्तरं परिगृह्य तेन तदपनुद्य, ततः अपनुत्तमपनोदकमपि कण्टकद्वयं जहाति, तद्वत् ईशितुः भगवतः द्वयमपि, सममपनोद्यम् । दु114ष्कृततच्छरीरजालमपनोदकं मनुष्यसंस्थानं चोभयमपि समं हातव्यत्वेन समम्, अपनोदकशरीरस्यापि यावदुपाधि धार्यत्वादिति भावः । ईशितुरुभयमित्यनेन दुष्कृच्छरीरेष्वपि अन्तः प्रविश्य नियन्तुर्भगवतः तान्यपि शरीराणि भगवत एव स्वस्यैवेति सूचितम् । कण्टकदृष्टान्तेन चैतदभिप्रेतम् यथा उभयोः कण्टकयोः कण्टकत्वमविशिष्टम्; एवमुभयोरपि शरीरयोः स्वशरीरत्वमविशिष्टमिति ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नटः।
भूभारः क्षपितो येन जहौ तच्च कलेवरम्॥

मूलम्

यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः।
भूभारः क्षपितो येन जहौ तच्च कलेवरम्॥ ३५ ॥

अनुवाद (हिन्दी)

जैसे वे नटके समान मत्स्यादि रूप धारण करते हैं और फिर उनका त्याग कर देते हैं, वैसे ही उन्होंने जिस यादवशरीरसे पृथ्वीका भार दूर किया था, उसे त्याग भी दिया॥ ३५॥

वीरराघवः

इदमेव प्रसिद्धदृष्टान्तान्तरेणाप्याह - यथा इति । यथा नटः नाट्योपयुक्तानि वेषान्तराणि परिगृह्य, नाट्यानन्तरं स्वेनरूपेणैवावतिष्ठते, तथा च भगवानपि तत्तत्प्रयोजनाय मत्स्यादिरूपाणि यावत्प्रयोजनं धत्ते, तदन्ते पुनर्जह्यात् । हित्वा स्वकीयरूपेणैवावतस्थे, तथा येन शरीरेण भूभारः क्षपितः निरस्तः, तत्कलेबरं जहौ । तत्तिरोधाय स्वासाधारणेनैव जगामेत्यर्थः ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

यदा मुकुन्दो भगवानिमां महीं
जहौ स्वतन्वा श्रवणीयसत्कथः।
तदाहरेवाप्रतिबुद्धचेतसा-
मधर्महेतुः कलिरन्ववर्तत॥

मूलम्

यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः।
115दाऽहरेवाप्रतिबुद्धचेतसामध116र्महेतुः कलिरन्ववर्तत॥ ३६ ॥

अनुवाद (हिन्दी)

जिनकी मधुर लीलाएँ श्रवण करनेयोग्य हैं, उन भगवान् श्रीकृष्णने जब अपने मनुष्यके-से शरीरसे इस पृथ्वीका परित्याग कर दिया, उसी दिन विचारहीन लोगोंको अधर्ममें फँसानेवाला कलियुग आ धमका॥ ३६॥

वीरराघवः

यदा इति । श्रोतव्याः सत्याः कथाः यस्य सः भगवान् मुकुन्दः स्वतन्वा स्वासाधारणदिव्यमङ्गलविग्रहेणोपेतः महीं यदा यस्मिन्नहनि जहौ, तदाऽहरेव तस्मिन्नहन्येव अविवेकिनामभद्रहेतुः अशुभहेतुः कलिरन्ववर्तत ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

युधिष्ठिरस्तत्परिसर्पणं बुधः
पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि।
विभाव्य लोभानृतजिह्महिंसना-
द्यधर्मचक्रं गमनाय पर्यधात्॥

मूलम्

युधिष्ठिरस्तत्परिसर्पणं बुधः पुरे च117 राष्ट्रे च गृहे तथा118ऽऽत्मनि।
वि119भाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात्॥ ३७ ॥

अनुवाद (हिन्दी)

महाराज युधिष्ठिरसे कलियुगका फैलना छिपा न रहा। उन्होंने देखा—देशमें, नगरमें, घरोंमें और प्राणियोंमें लोभ, असत्य, छल, हिंसा आदि अधर्मोंकी बढ़ती हो गयी है। तब उन्होंने महाप्रस्थानका निश्चय किया॥ ३७॥

वीरराघवः

ततो युधिष्ठिरः पुरे राष्ट्रे गृहे आत्मनि जनानां देहेषु च तस्य कलेः परिसर्पणम् अनुवर्तनं बुधः जानन् तन्मूलकं लोभाद्यधर्माणां चक्रं जालमवलोक्य गमनाय गृहात् निर्गमनाय पर्यधात् परिहितः उद्युक्तो बभूव इत्यर्थः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

स्वराट् पौत्रं विनयिनमात्मनः सुसमं गुणैः।
तोयनीव्याः पतिं भूमेरभ्यषिञ्चद् गजाह्वये॥

मूलम्

स्व120राट् पौत्रं वि121नयिनमात्मनः122 सुसमं गुणैः।
तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये॥ ३८ ॥

अनुवाद (हिन्दी)

उन्होंने अपने विनयी पौत्र परीक्षित् को, जो गुणोंमें उन्हींके समान थे, समुद्रसे घिरी हुई पृथ्वीके सम्राट् पदपर हस्तिनापुरमें अभिषिक्त किया॥ ३८॥

वीरराघवः

ततः स्वराट् राजा युधिष्ठिरः गुणैः आत्मनः स्वस्य समं तुल्यं विनयिनं च पौत्रं परीक्षितं ह123स्तिनपुरे तोयनीव्याः समुद्रमेखलायाः भूमेः पतिमभ्यषिञ्चत् अभिषिक्तवान् । विनिमयमात्मनोऽनवमं इति पाठे विनिमयं विनिमयार्ह सदृशमनवममन्यूनमित्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

मथुरायां तथा वज्रं शूरसेनपतिं ततः।
प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः॥

मूलम्

मथु124रायां त125था वज्रं शूरसेनप126तिं ततः।
प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः॥ ३९ ॥

अनुवाद (हिन्दी)

उन्होंने मथुरामें शूरसेनाधिपतिके रूपमें अनिरुद्धके पुत्र वज्रका अभिषेक किया। इसके बाद समर्थ युधिष्ठिरने प्राजापत्य यज्ञ करके आहवनीय आदि अग्नियोंको अपनेमें लीन कर दिया अर्थात् गृहस्थाश्रमके धर्मसे मुक्त होकर उन्होंने संन्यास ग्रहण किया॥ ३९॥

वीरराघवः

तथा मथुरायां वज्राख्यं यदुकुलकुमारं शूरसेनानां जनपदानां पतिमभ्यषिञ्चत् । ततः प्राजापत्यां प्रजापतिदेवताकामिष्टिं निरूप्य कृत्वा ईश्वरः युधिष्ठिरः अग्नीन् आहवनीयादीन् अपिबत् । आत्मन्यारोपितवान् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम्।
निर्ममो निरहंकारः संछिन्नाशेषबन्धनः॥

मूलम्

विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम्।
नि127र्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः॥ ४० ॥

अनुवाद (हिन्दी)

युधिष्ठिरने अपने सब वस्त्राभूषण आदि वहीं छोड़ दिये एवं ममता और अहंकारसे रहित होकर समस्त बन्धन काट डाले॥ ४०॥

वीरराघवः

तत्र स्वगृह एवं तत् प्रसिद्धं दुकूलादिकं त्यक्त्वा वाचं जुहावेत्यन्वयः । कथम्भूतः ? निर्ममो देहाद्यनुबन्धिषु स्वकीयत्वाभिमानरहितः निरहङ्कारः, देहात्मभ्रमरहितः सञ्छिन्नान्यशेषाणि बन्धनानि प्रकृत्यादीनि येन तथाभूतः प्रकृत्यादिमोक्षमनुसंहितवानित्यर्थः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

वाचं जुहाव मनसि तत्प्राण इतरे च तम्।
मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत्॥

मूलम्

वाचं जुहाव मनसि तत्प्राण इतरे च128 तम्।
मृ129त्यावपानं सोत्सर्गं तं130 पञ्चत्वे ह्यजोहवीत्॥ ४१ ॥

अनुवाद (हिन्दी)

उन्होंने दृढ़ भावनासे वाणीको मनमें, मनको प्राणमें, प्राणको अपानमें और अपानको उसकी क्रियाके साथ मृत्युमें तथा मृत्युको पंचभूतमय शरीरमें लीन कर लिया॥ ४१॥

वीरराघवः

तत्प्रकारमाह - वाचम् इत्यादिना । वाचं वागादिकर्मज्ञानोभयेन्द्रियव्यापारं मनसि जुहाव, मनोऽधीनममन्यत । मनसः इन्द्रियप्रकृतित्वाभावादित्यर्थः । तन्मनः प्राणे जुहाव; मनःप्रवृत्तिं प्राणाधीनां मेने, तथा प्राणसंवादादिषु दर्शनात् अत एव हि तस्य मुख्यप्राणत्वम् । प्राणादीनां लयानुसन्धानप्रकारमाह । इतरे च तं मृत्यावपानं सोत्सर्गमिति तं प्राणमितरे इतरस्मिन्नपाने तं सोत्सर्गमपानमुदान इति शेषः । उत्सर्गशब्दो वृत्तिपञ्चकप्रदर्शनार्थः । स्वस्ववृत्तिविशिष्टानामेव तेषु तेषु लयमनुसंहितवानित्यर्थः । ततस्तू131दानं मृत्यौ मृत्युसंज्ञके समाने तं समानं पञ्चत्वे प्राणादिपञ्चककारणे वायावित्यर्थः । त132दिति पाठे वस्तुजामित्यर्थः, अवस्थाविशेषवायुर्हि प्राणः । न वायुमात्रम्, स चैकोऽपि प्रा133णनादिवृत्तिपञ्चकविधः । अतः वृत्तिपञ्चकनिरोधेन प्राणस्य तत्कारणे वायौ लयानुसन्धानप्रकार उक्तः ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

त्रित्वे हुत्वाथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः।
सर्वमात्मन्यजुहवीद् ब्रह्मण्यात्मानमव्यये॥

मूलम्

त्रित्वे हुत्वाऽ134थ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः।
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये॥ ४२ ॥

अनुवाद (हिन्दी)

इस प्रकार शरीरको मृत्युरूप अनुभव करके उन्होंने उसे त्रिगुणमें मिला दिया, त्रिगुणको मूल प्रकृतिमें, सर्वकारणरूपा प्रकृतिको आत्मामें और आत्माको अविनाशी ब्रह्ममें विलीन कर दिया। उन्हें यह अनुभव होने लगा कि यह सम्पूर्ण दृश्यप्रपंच ब्रह्मस्वरूप है॥ ४२॥

वीरराघवः

एवं इन्द्रियवर्गप्राणतद्वृत्तिनिरोधानुसन्धानमुक्तम् । अथ वायुना सहितानि पञ्चभूतानि इन्द्रियव135र्गश्च अहङ्कारकार्यमिति तदुभयं त्रित्वे सात्त्विकराजसतामसरूपत्रिविधाहङ्कारे जुहावेत्यर्थः । सर्वत्र त्वप्रत्ययः स्वार्थिकः । यथायथमिन्द्रियाणां सात्त्विकाहङ्कारे लयः । भूतानां तामस इति विवेकः । तच्चाहङ्कारत्रयमेकत्वे एकस्मिन् प्रकृतितत्त्वे महत्तत्त्वद्वारा जुहावेत्यर्थः । सर्वं वागादिप्रकृत्यन्तमात्मनि जीवेऽजुहवीच्चे136तनाधीनाह्यचेतनप्रवृत्तिः, अत एव मुक्तम् न हि जीवः प्रकृतेः उपादानमात्मानं जीवमव्यये ब्रह्मण्यजुहोत् । जीवस्य ब्रह्माधीनवृत्तित्वात् तस्मिंस्तं स्था137पितवानित्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः।
दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत्॥

मूलम्

चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः।
दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत्॥ ४३ ॥

अनुवाद (हिन्दी)

इसके पश्चात् उन्होंने शरीरपर चीर-वस्त्र धारण कर लिया, अन्न-जलका त्याग कर दिया, मौन ले लिया और केश खोलकर बिखेर लिये। वे अपने रूपको ऐसा दिखाने लगे जैसे कोई जड, उन्मत्त या पिशाच हो॥ ४३॥

वीरराघवः

ततः चीरं वल्कलं वासो वस्त्रं यस्य सः, निराहारः बद्धवाङ्मौनी, मुक्ताः विक्षिप्ताः मूर्धजाः केशाः येन सः। जडादिवत् आत्मनः स्वस्थ रूपमाकारं दर्शयन् लोकस्येति शेषः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

अनपेक्षमाणो निरगादशृण्वन‍्बधिरो यथा।
उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः।
हृदि ब्रह्म परं ध्यायन‍्नावर्तेत यतो गतः॥

मूलम्

अनवे138क्षमाणो निरगादशृण्वन‍् बधिरो यथा।
उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः।
हृदि ब्रह्म परं ध्यायन‍्नावर्तेत यतो गतः॥ ४४ ॥

अनुवाद (हिन्दी)

फिर वे बिना किसीकी बाट देखे तथा बहरेकी तरह बिना किसीकी बात सुने, घरसे निकल पड़े। हृदयमें उस परब्रह्मका ध्यान करते हुए , जिसको प्राप्त करके फिर लौटना नहीं होता, उन्होंने उत्तर दिशाकी यात्रा की, जिस ओर पहले बड़े-बड़े महात्माजन जा चुके हैं॥ ४४॥

वीरराघवः

यथा बधिरः तद्वदशृण्वन्, अन्ध इवानवेक्षमाणः निरगात् । गृहादिति शेषः । पूर्वं गतां गतपूर्वां, यतो यां गतः पुनर्नावर्तेत तां, महात्मभिर्विरक्तैः गतपूर्वामुदीचीम् आशां दिशं हृदि परं ब्रह्म ध्यायन् प्रविवेश ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

सर्वे तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः।
कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि॥

मूलम्

सर्वे तमनु निर्जग्मुर्भ्रा139तरः कृतनिश्चयाः।
कलिनाऽधर्ममित्रेण दृ140ष्ट्वा स्पृष्टाः प्रजा भुवि॥ ४५ ॥

अनुवाद (हिन्दी)

भीमसेन, अर्जुन आदि युधिष्ठिरके छोटे भाइयोंने भी देखा कि अब पृथ्वीमें सभी लोगोंको अधर्मके सहायक कलियुगने प्रभावित कर डाला है; इसलिये वे भी श्रीकृष्णचरणोंकी प्राप्तिका दृढ़ निश्चय करके अपने बड़े भाईके पीछे-पीछे चल पड़े॥ ४५॥

वीरराघवः

तं युधिष्ठिरमनुसृत्य तद्भ्रातरस्सर्वे कृतनिश्चया गमनाय कृतो निश्चयो यैस्ते कृतविवेका वा निर्जग्मुः । ते भ्रातरः युधिष्ठिरादयो वा अधर्मः मित्त्रं यस्य तेन कलिना स्पृष्टाः प्रजाः भुवि दृष्ट्वा ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः।
मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम्॥

मूलम्

ते141 साधुकृतसर्वा142र्था ज्ञात्वाऽऽत्यन्तिकमात्मनः।
मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम्॥ ४६ ॥

अनुवाद (हिन्दी)

उन्होंने जीवनके सभी लाभ भलीभाँति प्राप्त कर लिये थे; इसलिये यह निश्चय करके कि भगवान् श्रीकृष्णके चरणकमल ही हमारे परम पुरुषार्थ हैं, उन्होंने उन्हें हृदयमें धारण किया॥ ४६॥

वीरराघवः

असाधुकृताः तुच्छीकृताः सर्वेऽर्थाः देहतदनुबन्ध्यादयो यैः तथाभूताः आत्मनो देहस्यात्यन्तिकं मरणं ज्ञात्वा भगवच्चरणाम्बुजं मनसा धारयामासुः युधिष्ठिरादयः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

तद्‍ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे।
तस्मिन् नारायणपदे एकान्तमतयो गतिम्॥

मूलम्

तद्‍ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे।
तस्मिन्नारायणपदे एकान्तम143तयो ग144तिम्॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अवापुर्दुरवापां ते असद‍्भिर्विषयात्मभिः।
विधूतकल्मषास्थाने विरजेनात्मनैव हि॥

मूलम्

अवापुर्दुरवापां145 ते असद‍्भिर्विषयात्मभिः।
विधूतकल्मषा146स्थानं विरजेनात्मनैव हि॥ ४८ ॥

अनुवाद (हिन्दी)

पाण्डवोंके हृदयमें भगवान् श्रीकृष्णके चरणकमलोंके ध्यानसे भक्ति-भाव उमड़ आया, उनकी बुद्धि सर्वथा शुद्ध होकर भगवान् श्रीकृष्णके उस सर्वोत्कृष्ट स्वरूपमें अनन्यभावसे स्थिर हो गयी; जिसमें निष्पाप पुरुष ही स्थिर हो पाते हैं। फलतः उन्होंने अपने विशुद्ध अन्तःकरणसे स्वयं ही वह गति प्राप्त की, जो विषयासक्त दुष्ट मनुष्योंको कभी प्राप्त नहीं हो सकती॥ ४७-४८॥

वीरराघवः

तस्य वैकुण्ठ147पदाम्बुजस्य ज्ञानेन उद्रिक्तया उ148त्कटया भक्त्या विशुद्धा धिषणा बुद्धिर्येषां ते नारायणपदवाच्ये परमपुरुषे एकान्ता ग149तिः मतिः येषां मतेरे150कान्तत्वं नाम विजातीयप्रत्ययाव्यवधानं विषयेषु शब्दादिषु प्रवण आत्मा मनः येषां तैः असद्धिः दुरात्मभिः दुःखेनाप्यवाप्तुमशक्यां गतिं मुक्त्यात्मिकामवापुः । तदेवोपपादयति - विधूतानि निरस्तानि कल्पषाणि भगवत्प्राप्तिप्रतिबन्धकानि पूर्वोत्तराधानि येषां ते विरजेन रजस्तमोरहितेन आत्मना स्वरूपेण स्थानं श्रीनारायणस्य प151दमवापुरित्यनुषङ्गः ॥ ४७, ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान्।
कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ॥

मूलम्

152विदुरोऽपि परित्यज्य प्रभासे देहमात्मवा153न्।
कृ154ष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ॥ ४९ ॥

अनुवाद (हिन्दी)

संयमी एवं श्रीकृष्णके प्रेमावेशमें मुग्ध भगवन्मय विदुरजीने भी अपने शरीरको प्रभासक्षेत्रमें त्याग दिया। उस समय उन्हें लेनेके लिये आये हुए पितरोंके साथ वे अपने लोक (यमलोक)-को चले गये॥ ४९॥

वीरराघवः

विदुरोऽपि कञ्चित्कालं तीर्थान्यटित्वा पाण्डवादीनां गतिमाकर्ण्य आत्मवान् भगवति समाहितचित्तः प्रभासे देहं परित्यज्य कृष्णावेशेन कृष्ण155समाधानेन तच्चित्तः कृष्णैकविषयकचित्तः पितृभिः पितृदेवताभिस्सह स्वक्षयं स्वस्थानं बयौ । पुनर्यम एव भूत्वा स्वलोकं ययावित्यर्थः । ‘कृष्णोपवेश’ इति पाठे यदुकुलसंहाराय यत्र श्रीकृष्णः प्रविष्टः तस्मिन् देशे प्रभासे इत्यर्थः । पुनः अधःपतनाभावात् पाण्डवादीनां मुक्तत्वकथनं ते हि प्रारब्धकर्मावसाने विमोक्ष्यन्ते एव अतो न विरोधः ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम्।
वासुदेवे भगवति ह्येकान्तमतिराप तम्॥

मूलम्

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम्।
वासुदेवे भगवति ह्येकान्तमतिराप त156म्॥ ५० ॥

अनुवाद (हिन्दी)

द्रौपदीने देखा कि अब पाण्डवलोग निरपेक्ष हो गये हैं; तब वे अनन्यप्रेमसे भगवान् श्रीकृष्णका ही चिन्तन करके उन्हें प्राप्त हो गयीं॥ ५०॥

वीरराघवः

तदा द्रौपद्यपि पतीनामनपेक्षतामाज्ञाय ज्ञात्वा वासुदेवे भगवति एकान्ता विजातीयप्रत्ययान्तराव्यवहिता मतिर्यस्याः तथाभूता तं वासुदेवमवाप ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

यः श्रद्धयैतद् भगवत्प्रियाणां
पाण्डोः सुतानामिति सम्प्रयाणम्।
शृणोत्यलं स्वस्त्ययनं पवित्रं
लब्ध्वा हरौ भक्तिमुपैति सिद्धिम्॥

मूलम्

यः157 श्रद्धयैतद्भगवत्प्रि158याणा पाण्डोस्सुतानामि159ति सम्प्रयाणम्।
शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सि160द्धिम्॥ ५१ ॥

अनुवाद (हिन्दी)

भगवान‍्के प्यारे भक्त पाण्डवोंके महाप्रयाणकी इस परम पवित्र और मंगलमयी कथाको जो पुरुष श्रद्धासे सुनता है, वह निश्चय ही भगवान‍्की भक्ति और मोक्ष प्राप्त करता है॥ ५१॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः॥ १५॥

वीरराघवः

श्रीकृष्णादीनां प्रयाणश्रवणादिफलमाह - इति । इतीत्थम् अ161तितरां स्वस्त्ययनं शृण्वतां पठतां च शुभावहं पवित्रं च भगवतः प्रयाणं पाण्डोस्सुतानां सम्प्रयाणं च यः पुमान् श्रद्धया शृणोति सः हरौ भ162गवति भक्तिं लब्ध्वा सिद्धिं मुक्तिमुपैति ॥ ५१ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चदशोऽध्यायः ॥ १५ ॥

`

  1. B,H,I,K,M,V,W ज्ञा वि ↩︎

  2. AF,GF न शशाकास्य गदितुं ↩︎

  3. K,M,W र्षि ↩︎

  4. A,B omit इत्थं ↩︎

  5. A र्शि ↩︎

  6. K,M शोकाग्नि ↩︎

  7. K,M जं ↩︎

  8. K,M भम् ↩︎

  9. I स्मर ↩︎

  10. K,M जम् ↩︎

  11. K,M पारोक्ष्येण ↩︎

  12. AF,GF सुसन्नद्धं ↩︎

  13. W adds वा ↩︎

  14. W पि ↩︎

  15. H,V सुहृत्त्वं ↩︎

  16. W य ↩︎

  17. W य ↩︎

  18. W मम तेजो ↩︎

  19. A,B राज्ञः ↩︎

  20. A,B ददर्शनयो ↩︎

  21. K,M,W गेह उपा ↩︎

  22. B या नि ; K,M या वि ↩︎

  23. W ज्यी ↩︎

  24. AF,GF विजिता ↩︎

  25. A,B शौर्यादिकं ↩︎

  26. W ज्यी ↩︎

  27. W बा ↩︎

  28. A,B omit नि ↩︎

  29. A,B omit नि ↩︎

  30. H,K,M,V यत्सन्निधौ ↩︎

  31. B,H,I,V,W र्थ ↩︎

  32. K,M गदायुध ↩︎

  33. H,V स्समनयन्; K,M भ्युदनयन् ↩︎

  34. W तत्तुतुल्यवीर्य ↩︎

  35. W कत्वे ↩︎

  36. A,B ड्डि ↩︎

  37. W adds तत् ↩︎

  38. K,M पि ↩︎

  39. K,M ख्यो ↩︎

  40. H,K,M,N,V,W यै ↩︎

  41. K,M न्यकृत तत्सविमुक्तकेश्य: ↩︎

  42. W मखे ↩︎

  43. W पतितायाः अश्रूणि मुखे यस्याश्च ↩︎

  44. H,N,V,W मे ↩︎

  45. N,W विहि ↩︎

  46. W भु ↩︎

  47. AF,GF गात्रः ↩︎

  48. W शिष्टलेपमुपभुज्य ↩︎

  49. W धि ↩︎

  50. W चात्र ↩︎

  51. W श्शापजनने यत्नवान्नृपः ↩︎

  52. W सदृशं ↩︎

  53. W य: ↩︎

  54. B तद्गृहे गत्वा; W तद्गृहे ब्रह्मन्! ↩︎

  55. W नः ↩︎

  56. W ध्यात्वा ↩︎

  57. W सोऽस्मै ↩︎

  58. W कृत्स्नं ↩︎

  59. W वा ↩︎

  60. H,V स; W च ↩︎

  61. W य ↩︎

  62. K,M,W शो ↩︎

  63. AF,GF वरं ददन्मे ↩︎

  64. A,B omit सः ↩︎

  65. B न ↩︎

  66. “तेनाहमस्मि” इति वीरराघवाङ्गीकृतः पाठः । ↩︎

  67. H,V कु ↩︎

  68. K,M तरसा- तरमार्यसत्वः ↩︎

  69. H राह ↩︎

  70. B,I,N ती, W वा ↩︎

  71. B,H,V पुरु, K,M पुर ↩︎

  72. K,M तेजः परं ↩︎

  73. A,B एवातीर्यं अतार्य स ↩︎

  74. AF,GF कृप ↩︎

  75. K,M रथे ↩︎

  76. K,M सहसा य आर्च्छत्; AF,GF सह उज्जहार ↩︎

  77. V र्षु ↩︎

  78. W मां ↩︎

  79. H,K,M,N,V,W द्रौणि ↩︎

  80. H,V क ↩︎

  81. K,M मेय ↩︎

  82. W नोपास्पृशन् नृ, N नो पस्पशुर्नृ ↩︎

  83. K,M सं ↩︎

  84. GF कर्मा ↩︎

  85. K,M,W शोभनानि ↩︎

  86. K,M,W ऋभुमा ↩︎

  87. H,K,M,V,W म ↩︎

  88. H,K,M,V,W आमनन्ति ↩︎

  89. W वेति धीस्थ ↩︎

  90. A,B omit तत् ↩︎

  91. K,M,W षे ↩︎

  92. B,I,K,M नु ↩︎

  93. B पाव ↩︎

  94. K,M वात्मानं ↩︎

  95. W पहा ↩︎

  96. H,V रपरान् ↩︎

  97. K,M रं ↩︎

  98. कण्टकं कण्टकेनैव द्वयं चापीशितुस्समम् । This is the second half of V 34 and it is commented upon by श्रीविजयध्वजतीर्थ In M, it is a part of V 26, consisting 6 Padas. ↩︎

  99. Here ends 14th Chapter in K & M. ↩︎

  100. K,M भि ↩︎

  101. W चा ↩︎

  102. N ध्या ↩︎

  103. B,H,K,M,N,V,W विभुः ↩︎

  104. W पद ↩︎

  105. W यु ↩︎

  106. A,B omit म ↩︎

  107. W तदनु ↩︎

  108. K,M वृत्तात्मा ↩︎

  109. A,B omit तत् ↩︎

  110. A,B omit चित्त ↩︎

  111. B,H,V प्युप ↩︎

  112. A,B कृष्णस्य ↩︎

  113. A,B स्थानमपनुद्य ↩︎

  114. W दुष्कृच्छ ↩︎

  115. K,M तदा हरावप्रति ↩︎

  116. B,H,I,K,M,V,W भद्र ↩︎

  117. AF,GF स ↩︎

  118. H,N,V दा ↩︎

  119. H,V विलोक्य ↩︎

  120. B सम्राट् ↩︎

  121. B विनियत, WF विनिमय, K,M विनीतं त ↩︎

  122. K,M नेऽनवमं ↩︎

  123. W हास्तिन ↩︎

  124. H,K,M,V,W धु ↩︎

  125. K,M ततो ↩︎

  126. H,V सुतं ↩︎

  127. H,V निर्मोह ↩︎

  128. K,M परम् ↩︎

  129. K,M धृत्या ह्यपानं ↩︎

  130. K,M तत्परत्वे; WF तत्पञ्चत्वे ↩︎

  131. W स्तु तमुदानं ↩︎

  132. A,B omit तदिति……मित्यर्थः ↩︎

  133. W प्राणादिवृत्तिपञ्चकभेदात् पञ्चविधः ↩︎

  134. B,I,W च ↩︎

  135. W गण ↩︎

  136. A,B च्चेतनो ह्यचेतनप्रकृतिः ↩︎

  137. W समर्पित ↩︎

  138. A,B,G,K,M पे ↩︎

  139. AF,GF स्त्वरिताः ↩︎

  140. H,V दृष्टा: ↩︎

  141. W तेऽसा ↩︎

  142. AF,GF त्त्वा ↩︎

  143. AF,GF ग ↩︎

  144. K,M ऽपतन् ↩︎

  145. K,M पं ↩︎

  146. H,V षास्थाने; K,M षस्थानं ↩︎

  147. W ष्ठस्य पदा ↩︎

  148. A,B omit उत्कटया ↩︎

  149. W omits गतिः ↩︎

  150. A,B रैवयं ↩︎

  151. W स्थान ↩︎

  152. K,M omit this verse and it is not commented upon by श्रीविजयध्वजतीर्थ. ↩︎

  153. I न: ↩︎

  154. WF कृष्णोपवेशे ↩︎

  155. W ष्ण एव समा ↩︎

  156. K,M तत् ↩︎

  157. H यच्छ्रद्ध ↩︎

  158. H,K,M,V,W त्प्रयाणं ↩︎

  159. H,K,M,V मपि ↩︎

  160. K,M शान्तिम् ↩︎

  161. W नितरां ↩︎

  162. A,B omit भगवति ↩︎