[चतुर्दशोऽध्यायः]
भागसूचना
अपशकुन देखकर महाराज युधिष्ठिरका शंका करना और अर्जुनका द्वारकासे लौटना
श्लोक-१
विश्वास-प्रस्तुतिः
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्॥
मूलम्
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया।
ज्ञा1तुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्॥ १ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—स्वजनोंसे मिलने और पुण्यश्लोक भगवान् श्रीकृष्ण अब क्या करना चाहते हैं—यह जाननेके लिये अर्जुन द्वारका गये हुए थे॥ १॥
वीरराघवः
सम्प्रस्थित इति । बन्धूनां यदूनां दिदृक्षया पुण्यश्लोकस्य पुण्ययशसः श्रीकृष्णस्य विचेष्टितं ज्ञातुं च जिष्णौ अर्जुने द्वारकायां सम्प्रस्थिते प्रस्थानपूर्वकं द्वारकायां प्रविष्टे सति । द्वारकायां बन्धूनां दिदृक्षया इति वा अन्वयः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
व्यतीताः कतिचिन्मासास्तदा नायात्ततोऽर्जुनः।
ददर्श घोररूपाणि निमित्तानि कुरूद्वहः॥
अनुवाद (हिन्दी)
कई महीने बीत जानेपर भी अर्जुन वहाँसे लौटकर नहीं आये। धर्मराज युधिष्ठिरको बड़े भयंकर अपशकुन दीखने लगे॥ २॥
वीरराघवः
कतिचिन्मासाः व्यतिक्रान्ताः बभूवुः । तथापि ततो द्वारकातः अर्जुनो नाऽऽगच्छत् । तदा कुरूद्वहः युधिष्ठिरः घोररूपाणि निमित्तानि दुःखनिमित्तानि अरिष्टानि ददर्श ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्॥
मूलम्
कालस्य च गतिं रौद्रां5 वि6पर्यस्तर्तुध7र्मिणः।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम्॥ ३ ॥
अनुवाद (हिन्दी)
उन्होंने देखा, कालकी गति बड़ी विकट हो गयी है। जिस समय जो ऋतु होनी चाहिये, उस समय वह नहीं होती और उनकी क्रियाएँ भी उलटी ही होती हैं। लोग बड़े क्रोधी, लोभी और असत्यपरायण हो गये हैं। अपने जीवन-निर्वाहके लिये लोग पापपूर्ण व्यापार करने लगे हैं॥ ३॥
वीरराघवः
विपरीताः ऋतूनां वसन्तादीनां धर्मा यस्य तस्य कालस्य रौद्रां8 घोरां गतिं च द्वितीयान्तानां ददर्शेति पूर्वेण दृष्ट्वेत्युत्तरेण वा अन्वयः । क्रोधादिप्रवण आत्मा मनो येषां नृणां पापीयसीं वार्तां जीवनार्थप्रवृत्तिम् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम्।
पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम्॥
अनुवाद (हिन्दी)
सारा व्यवहार कपटसे भरा हुआ होता है, यहाँतक कि मित्रतामें भी छल मिला रहता है; पिता-माता, सगे-सम्बन्धी, भाई और पति-पत्नीमें भी झगड़ा-टंटा रहने लगा है॥ ४॥
वीरराघवः
जिह्यप्रायं कौटिल्यप्रचुरं व्यवहृतं व्यवहारं शाठ्यमिश्रं मौर्ख्ययुक्तं सौहृदं च पित्रादीनां परस्परं कल्कनं रागादिदोषं च ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम्।
लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः॥
मूलम्
निमित्तान्यत्य11रिष्टानि काले त्वनुगते नृणाम्।
लोभाद्यधर्मप्रकृ12तिं दृष्ट्वोवाचानुजं नृपः॥ ५ ॥
अनुवाद (हिन्दी)
कलिकालके आ जानेसे लोगोंका स्वभाव ही लोभ, दम्भ आदि अधर्मसे अभिभूत हो गया है और प्रकृतिमें भी अत्यन्त अरिष्टसूचक अपशकुन होने लगे हैं, यह सब देखकर युधिष्ठिरने अपने छोटे भाई भीमसेनसे कहा॥ ५॥
वीरराघवः
तथा अत्यरिष्टानि निमित्तानि दुःखसूचकानि काले तु अनुगते निमित्ते निमित्तभूतविपरीतकालानुसा13रमित्यर्थः । नृणां लोभाद्यधर्मस्वभावं च दृष्ट्वा । लोभादीत्यादिशब्देन क्रोधादिसङ्ग्रहः । नृपः युधिष्ठिरः, अनुजं भीमं प्रोवाच ॥ ५ ॥
श्लोक-६
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षया।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्॥
मूलम्
स14म्प्रेषितो द्वारकायां जि15ष्णुर्बन्धुदिदृक्षया।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्॥ ६ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने कहा—भीमसेन! अर्जुनको हमने द्वारका इसलिये भेजा था कि वह वहाँ जाकर, पुण्यश्लोक भगवान् श्रीकृष्ण क्या कर रहे हैं—इसका पता लगा आये और सम्बन्धियोंसे मिल भी आये॥ ६॥
वीरराघवः
तदेवाऽऽह - सम्प्रेषित इति षोडशभिः । द्वारकायां ये बान्धवाः तेषां दिदृक्षया कृष्णस्य विचेष्टितं ज्ञातुं च जिष्णुः सम्प्रेषितः प्रस्थापितः ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
गताः सप्ताधुना मासा भीमसेन तवानुजः।
नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा॥
मूलम्
गतास्सप्ताऽधुना मासा भीमसेन तवानुजः।
नायाति कस्य वा हेतोः नाहं वेदे16दमञ्जसा॥ ७ ॥
अनुवाद (हिन्दी)
तबसे सात महीने बीत गये; किन्तु तुम्हारे छोटे भाई अबतक नहीं लौट रहे हैं। मैं ठीक-ठीक यह नहीं समझ पाता हूँ कि उनके न आनेका क्या कारण है॥ ७॥
वीरराघवः
हे भीमसेन! सप्त मासाः व्यतिक्रान्ताः अधुनापि कस्माद्धेतोः तव अनुजः अर्जुनः नायाति ? इदं अनागमननिमित्तं अहं अञ्जसा न वेद17 । ‘अञ्जसा’ इत्यव्ययं तत्त्वशीघ्रार्थयोर्वर्तते ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः।
यदाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति॥
मूलम्
अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः।
य18दाऽऽत्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति॥ ८ ॥
अनुवाद (हिन्दी)
कहीं देवर्षि नारदके द्वारा बतलाया हुआ वह समय तो नहीं आ पहुँचा है, जिसमें भगवान् श्रीकृष्ण अपने लीला-विग्रहका संवरण करना चाहते हैं?॥ ८॥
वीरराघवः
अपीत्यपिशब्दः सम्भावनाद्योतकः । देवर्षिणा नारदेन आदिष्टः सूचितः सः कालः अधुना उपस्थितोऽपि ? उपस्थितः स्यात् किमित्यर्थः । कोऽसौ यस्मिन् काले भगवान् कृष्णः आत्मनः स्वस्य आक्रीडं क्रीडार्थमङ्गं उत्सिसृक्षतित्यक्तुमिच्छति, स कालः आक्रीडं क्रीडार्थं मनुष्यसंस्थानमङ्गं शुद्धसत्त्वमयं अप्राकृतं शरीरं उत्सिसृक्षति भूमेः विश्लेषयितुं इच्छतीत्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः।
आसन् सपत्नविजयो लोकाश्च यदनुग्रहात्॥
मूलम्
य19स्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः।
आसन् सपत्नविजयो लोकाश्च यदनुग्रहात्॥ ९ ॥
अनुवाद (हिन्दी)
उन्हीं भगवान्की कृपासे हमें यह सम्पत्ति, राज्य, स्त्री, प्राण, कुल, संतान, शत्रुओंपर विजय और स्वर्गादि लोकोंका अधिकार प्राप्त हुआ है॥ ९॥
वीरराघवः
भगवन्तं विशिनष्टि - यस्मात् भगवतः हेतोः नः अस्माकं सम्पदादयः बभूवुः, यस्य चानुग्रहात् लोकाः पुण्यलोकाः भविष्यन्ति स भगवान् उत्सिसृक्षतीत्यन्वयः । सम्पदः भोग्यभोगोपकरणादिसमृद्धयः । सपत्नविजयः शत्रुविजयः ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
पश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान्।
दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम्॥
मूलम्
पश्योत्पातान्नरव्याघ्र! दिव्यान् भौमान् सदैहिकान्।
दा20रुणान् शंसतोऽदूरात् भयं नो21 बुद्धिमोहनम्॥ १० ॥
अनुवाद (हिन्दी)
भीमसेन! तुम तो मनुष्योंमें व्याघ्रके समान बलवान् हो; देखो तो सही—आकाशमें उल्कापातादि, पृथ्वीमें भूकम्पादि और शरीरोंमें रोगादि कितने भयंकर अपशकुन हो रहे हैं! इनसे इस बातकी सूचना मिलती है कि शीघ्र ही हमारी बुद्धिको मोहमें डालनेवाला कोई उत्पात होनेवाला है॥ १०॥
वीरराघवः
हे नरव्याघ्र! दिव्यान् दिवि भवान्, भौमान् भूमौ भवान् देहे च भवान् दारुणान् घोरान् अदूरात् समनन्तरमेव नः अस्माकं बुद्धिं मोहयतीति तथाभूतं भयं शंसतः सूचकान् उत्पातान् पश्य ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम्॥
मूलम्
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग! पुनः पुनः।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम्॥ ११ ॥
अनुवाद (हिन्दी)
प्यारे भीमसेन! मेरी बायीं जाँघ, आँख और भुजा बार-बार फड़क रही हैं। हृदय जोरसे धड़क रहा है। अवश्य ही बहुत जल्दी कोई अनिष्ट होनेवाला है॥ ११॥
वीरराघवः
तावत् दैहिकान् उत्पातान् दर्शयति - ऊर्विति । अङ्ग! हे भीम! मम वामोर्वादयः पुनः पुनः स्फुरन्ति चलन्ति । हृदये वेपथुः कम्पश्च भवति । तान्येतानि ऊर्वादिस्फुरणानि आरात् समनन्तरकालमेव मह्यं अप्रियं दास्यन्ति मम वि22प्रियसूचकानि भवन्तीत्यर्थः ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
शिवैषोद्यन्तमादित्यमभिरौत्यनलानना।
मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत्॥
अनुवाद (हिन्दी)
देखो, यह सियारिन उदय होते हुए सूर्यकी ओर मुँह करके रो रही है। अरे! उसके मुँहसे तो आग भी निकल रही है! यह कुत्ता बिलकुल निर्भय-सा होकर मेरी ओर देखकर चिल्ला रहा है॥ १२॥
वीरराघवः
एषा शिवा शृगालविशेषः अनलवत् ज्वलदाननं यस्यास्सा आदित्यमभि आदित्याभिमुखं रौति । अङ्ग! भीम! अयं सारमेयः श्वा मम अभिमुखं अभीरुवत् अभीतवत् रोदिति रोदनं करोति ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे।
वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम॥
मूलम्
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे।
वाहांश्च पुरुषव्याघ्र! लक्षये रुदतो मम॥ १३ ॥
अनुवाद (हिन्दी)
भीमसेन! गौ आदि अच्छेे पशु मुझे अपने बायें करके जाते हैं और गधे आदि बुरे पशु मुझे अपने दाहिने कर देते हैं। मेरे घोड़े आदि वाहन मुझे रोते हुए दिखायी देते हैं॥ १३॥
वीरराघवः
शस्ताः प्रशस्ताः गवाश्वादयः पशवः मां सव्यं आत्म26नां सव्यपार्श्वस्थं कुर्वन्ति । अपरे अप्रशस्ताः खरमहिष्या27दयः तु दक्षिणं कुर्वन्ति । हे पुरुषव्याघ्र! मम वाहान् गजाश्वादीन् रुदतः रोदनं कुर्वाणान् लक्षये ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
मृत्युदूतः कपोतोऽयमुलूकः कम्पयन् मनः।
प्रत्युलूकश्च कुह्वानैरनिद्रौ शून्यमिच्छतः॥
अनुवाद (हिन्दी)
यह मृत्युका दूत पेड़ुखी, उल्लू और उसका प्रतिपक्षी कौआ रातको अपने कर्ण-कठोर शब्दोंसे मेरे मनको कँपाते हुए विश्वको सूना कर देना चाहते हैं॥ १४॥
वीरराघवः
अयमुलूको 31मृत्योर्दूतः तद्वदनिष्टकरः स च प्रत्युलूकच म32दभिमुखं अन्यश्च उ33लूकश्चानावेतौ अनिद्रौ निद्रारहितौ कुह्वानैः कुकुइत्येवंविधैः ह्रानैश्शब्दैः क्विति तच्छब्दानुकारः । इमं देशं शून्यमिच्छतः सूचयतः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः।
निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः॥
मूलम्
धूम्रा दि34शः परिधयः कम्पते भूः35 सहाद्रिभिः।
निर्घातश्च36 म37हानासीत् साकं च स्तनयित्नुभिः॥ १५ ॥
अनुवाद (हिन्दी)
दिशाएँ धुँधली हो गयी हैं, सूर्य और चन्द्रमाके चारों ओर बार-बार मण्डल बैठते हैं। यह पृथ्वी पहाड़ोंके साथ काँप उठती है, बादल बड़े जोर-जोरसे गरजते हैं और जहाँ-तहाँ बिजली भी गिरती ही रहती है॥ १५॥
वीरराघवः
दिशः धूम्राः परिधयश्च दृश्यन्ते इति शेषः । अद्रिभिः सह भूः पृथिवी कम्पते । स्तनयित्नुभिः मेघैः अ38कालिकैस्सह महान् निर्घातः अशनिनिर्घातश्च आसीत् ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः।
असृग् वर्षन्ति जलदा बीभत्समिव सर्वतः॥
मूलम्
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः।
असृक् वर्ष39न्ति जलदा बीभत्समिव सर्वतः॥ १६ ॥
अनुवाद (हिन्दी)
शरीरको छेदनेवाली एवं धूलिवर्षासे अंधकार फैलानेवाली आँधी चलने लगी है। बादल बड़ा डरावना दृश्य उपस्थित करके सब ओर खून बरसाते हैं॥ १६॥
वीरराघवः
खरः कठिनः स्पर्शः यस्य स वायुः धूल्या तमः विसृजन् विशेषेण सृजन् वाति । जलदाः मेषाः सर्वतो बीभत्समिव असृक् रुधिरं वमन्ति मुञ्जन्ति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि।
ससंकुलैर्भूतगणैर्ज्वलिते इव रोदसी॥
मूलम्
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि।
स40सङ्कुलैर्भूतगणैः ज्वलिते इव रोदसी॥ १७ ॥
अनुवाद (हिन्दी)
देखो! सूर्यकी प्रभा मन्द पड़ गयी है। आकाशमें ग्रह परस्पर टकराया करते हैं। भूतोंकी घनी भीड़में पृथ्वी और अन्तरिक्षमें आग-सी लगी हुई है॥ १७॥
वीरराघवः
हता प्रभा यस्य सः तथाभूतं सूर्यं पश्य । दिवि ग्रहाणां भृम्वङ्गारकादीनां परस्परं विमर्दं कलहं पश्य । सु नितरां सङ्कुलैः भूतानां पिशाचानां गणैः रोदसीत्यव्ययम् द्यावापृथिव्योर्वर्तते 41ज्वलिते इव दृश्येते ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च।
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति॥
मूलम्
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च।
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति॥ १८ ॥
अनुवाद (हिन्दी)
नदी, नद, तालाब और लोगोंके मन क्षुब्ध हो रहे हैं। घीसे आग नहीं जलती। यह भयंकर काल न जाने क्या करेगा॥ १८॥
वीरराघवः
नद्यः प्राक्सोतसः, नदाः प्रत्यक्स्रोतसः । सरांसि भूतानां मनांसि च क्षुभिताः सञ्चलिताः भवन्ति, शुष्का भवन्ति इति वा । अग्निः आहवनीयादिः आज्येन न ज्वलति । अयं कालः किं दुःखं विधास्यति, अहं तु न वेद्मीति भावः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे॥
मूलम्
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्र42जे॥ १९ ॥
अनुवाद (हिन्दी)
बछड़े दूध नहीं पीते, गौएँ दुहने नहीं देतीं, गोशालामें गौएँ आँसू बहा-बहाकर रो रही हैं। बैल भी उदास हो रहे हैं॥ १९॥
वीरराघवः
वत्साः स्तनं स्तन्यं न पिबन्ति मातरश्च वत्सान् प्रति न दुह्यन्ति स्तन्यमिति शेषः । गावः अश्रूणि मुखे यासां ताः रुदन्ति व्रजे गोष्ठे ऋषभा न हृष्यन्ति च ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च।
इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः।
भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः॥
मूलम्
दैवतानि रुदन्तीव स्वि43द्यन्ति44 ह्यु45च्चलन्ति च।
इमे जनपदा ग्रामा पुरोद्यानाकराश्रमाः।
भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः॥ २० ॥
अनुवाद (हिन्दी)
देवताओंकी मूर्तियाँ रो-सी रही हैं, उनमेंसे पसीना चूने लगता है और वे हिलती-डोलती भी हैं। भाई! ये देश, गाँव, शहर, बगीचे, खानें और आश्रम श्रीहीन और आनन्दरहित हो गये हैं। पता नहीं ये हमारे किस दुःखकी सूचना दे रहे हैं॥ २०॥
वीरराघवः
दैवतानि देवप्रतिमा रुदन्तीव स्विद्यन्ति गात्रप्रस्वेदं मुञ्चन्ति । उच्चलन्तीव उत्प्लुत्य पतन्तीव दृश्यन्ते । पुरादीनामाश्रमाः इमे जनपदा देशाः ग्रामाश्च भ्रष्टा श्रीः येभ्यः, निर्गतः आनन्दः येभ्यः तथाभूता दृश्यन्ते । नः अस्माकं किमघं 46दुःखं दर्शयिष्यन्ति वयं तु न विद्म इति भावः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः।
अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा॥
अनुवाद (हिन्दी)
इन बड़े-बड़े उत्पातोंको देखकर मैं तो ऐसा समझता हूँ कि निश्चय ही यह भाग्यहीना भूमि भगवान्के उन चरण-कमलोंसे, जिनका सौन्दर्य तथा जिनके ध्वजा, वज्र अंकुशादि-विलक्षण चिह्न और किसीमें भी कहीं भी नहीं हैं, रहित हो गयी है॥ २१॥
वीरराघवः
इदं तु अहमुद्रावयामि इत्याह - मन्य इति । एतैः महोत्पातैः इदं त्वहं मन्ये उद्भावयामि । किम् ? अनन्यपुरुषश्रीभिः न विद्यते अन्यपुरुषेषु श्रीः येषु तैः अन्यपुरुषेषु असम्भावितकान्तिभिः भगवतः श्रीकृष्णस्य पदैः पादविन्यासैः हीना रहिता अत एव ह49तं सौभगं सौन्दर्यं यस्यां तथाभूता भूः पृथ्वी नूनं भविष्यतीति ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा।
राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः॥
मूलम्
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा।
राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः॥ २२ ॥
अनुवाद (हिन्दी)
शौनकजी! राजा युधिष्ठिर इन भयंकर उत्पातोंको देखकर मन-ही-मन चिन्तित हो रहे थे कि द्वारकासे लौटकर अर्जुन आये॥ २२॥
वीरराघवः
इति इत्थं दृष्टानि ज्ञातानि अरिष्टानि येन तेन चेतसा राज्ञः तस्य युधिष्ठिरस्य चिन्तयतः सतः हे ब्रह्मन्! कपिध्वजः अर्जुनः यदुपुर्याः द्वारकायाः प्रत्यागमत् आगतवान् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
तं पादयोर्निपतितमयथापूर्वमातुरम्।
अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयोः॥
मूलम्
तं पादयोर्निपतितं अयथापूर्वमातुरम्।
अधोवदनमब्बिन्दून् सृ50जन्तं नयनाब्जयोः॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः।
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम्॥
मूलम्
विलोक्योद्विग्नहृदयो51 विच्छायमनुजं नृपः।
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम्॥ २४ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने देखा, अर्जुन इतने आतुर हो रहे हैं जितने पहले कभी नहीं देखे गये थे। मुँह लटका हुआ है, कमल-सरीखे नेत्रोंसे आँसू बह रहे हैं और शरीरमें बिलकुल कान्ति नहीं है। उनको इस रूपमें अपने चरणोंमें पड़ा देखकर युधिष्ठिर घबरा गये। देवर्षि नारदकी बातें याद करके उन्होंने सुहृदोंके सामने ही अर्जुनसे पूछा॥ २३-२४॥
वीरराघवः
तमागतं पादयोर्निपतितं अनुजं अर्जुनं नृपः युधिष्ठिरः विलोक्य उद्विग्नं भीतं हृदयं यस्य तथाभूतो नारदोक्तं संस्मरन् सुहृदां मध्ये पृच्छति स्म अपृच्छत् । कथम्भूतं? अयथापूर्वं पूर्ववत् अनवस्थितं आतुरं दुःखितं अधोवदनं अवाङ्मुखं नयनाब्जयोः अश्रुबिन्दून् सृजन्तं मुञ्चन्तं विच्छायं विगतकान्तिम् ॥ २३, २४ ॥
श्लोक-२५
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः॥
मूलम्
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते।
मधुभो52जदशार्हार्ह सात्वतान्धकवृष्णयः॥ २५ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने कहा—‘भाई! द्वारकापुरीमें हमारे स्वजन-सम्बन्धी मधु, भोज, दशार्ह, आर्ह, सात्वत, अन्धक और वृष्णिवंशी यादव कुशलसे तो हैं?॥ २५॥
वीरराघवः
प्रश्नमेवाऽऽह - कच्चिदित्यादिना यावदध्यायसमाप्ति । कच्चिदिति इष्टप्रश्नद्योतकं अव्ययम् । तावत् सामान्यतः सर्वान् इष्टान् बन्धून् पृच्छति - कच्चिदिति । मध्वादयः यादवा53न्तरविशेषाः । तच्च नवमे स्फुटम् । नः अस्माकं स्वजनबन्धवः आनर्तपुर्यां द्वारकायां सुखं यथा तथा आसते कच्चित् आसते किम् ? तच्चमदिष्टमिति कच्चिच्छब्दं प्रयुञ्जानस्य भावः । एवं उत्तरत्रापि द्रष्टव्यम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
शूरो मातामहः कच्चित्स्वस्त्यास्ते वाथ मारिषः।
मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः॥
मूलम्
शूरो मातामहः कच्चित् स्वस्त्यास्ते वा54ऽऽथ मारिषः55।
मातुलस्सा56नुजः कच्चित् कुशल्यानकदुन्दुभिः॥ २६ ॥
अनुवाद (हिन्दी)
हमारे माननीय नाना शूरसेनजी प्रसन्न हैं? अपने छोटे भाईसहित मामा वसुदेवजी तो कुशलपूर्वक हैं?॥ २६॥
वीरराघवः
अथ उक्तविधार्जुनदर्शनेन कृष्णनिर्याणं सम्भाव्य तच्छ्रवणजो विषादः पश्चादेव भवत्वित्यभिप्रायेण तावत् क्रमशः विशेषेण पृच्छति - शूर इत्यादिना । अस्माकं मातामहः शूरः हे पार्थ! हे मारिष! सविसर्गपाठे शूरविशेषणं मारिषशब्दः सौम्यशब्दपर्यायः । स्वस्ति यथा तथा आस्ते कच्चित् ? तथा नो मातुल आनकदुन्दुभिः वसुदेवः सानुजः कुशली कुशलमस्यास्तीति तथाभूतः आस्ते कच्चित् ? वसुदेवस्यानुजास्तु देवभागो, देवश्रवाः, आनकः, सञ्जयः, शामकः, कङ्कः, स57मिको व58त्सरो वृकश्च इति नव ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
सप्तस्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः।
आसते सस्नुषः क्षेमं देवकीप्रमुखाः स्वयम्॥
मूलम्
सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः।
आसते सस्नुषः क्षेमं देवकीप्रमुखाः स्व59यम्॥ २७ ॥
अनुवाद (हिन्दी)
उनकी पत्नियाँ हमारी मामी देवकी आदि सातों बहिनें अपने पुत्रों और बहुओंके साथ आनन्दसे तो हैं?॥ २७॥
वीरराघवः
सप्तेति स्वसारः उग्रसेनस्येति शेषः । 60सप्त भगिन्यः । तस्य आनकदुन्दुभेः पत्न्यः मातुलान्यः अस्मन्मातुलस्य वसुदेवस्य स्त्रियः “इन्द्रवरुणभवशर्वरुद्र” (अष्टा. 4-1-49) इत्यानुगागमे ङीषि च मातुलानीति शब्दः व्युत्पादितः । आत्मजैस्सहिताः स्नुषाभिः सुतभार्याभिः सहिता देवकीप्रभृतयः देवकी, श्रुतदेवा, शान्तिदेवा, उपदेवा श्रीदेवा देवरक्षिता सहदेवाख्या: स्वयं क्षेमं यथा तथा आसते कच्चित् ? ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोऽस्य चानुजः।
हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः॥
मूलम्
कच्चिद्राजाऽऽहुको जीवत्यसत्पुत्रोऽस्य चानुजः।
हृ61दीकः ससुतोऽक्रूरः जयन्तगदसारणाः॥ २८ ॥
वीरराघवः
असन् दुरात्मा कंसः पुत्रो यस्य स आहुकः उग्रसेनो राजा जीवति कच्चित् ? अस्य आहुकस्य चानुजो देवकश्च जीवति कच्चिदित्यन्वयः । हृदीकस्य 62श्वफल्कस्य सुतः अक्रूरः, जयन्तादयो ये च सत्यजिदादयः वसुदेवपुत्राः ते सर्वे कुशलमासते कच्चित् ? ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
आसते कुशलं कच्चिद्ये च शत्रुजिदादयः।
कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः॥
अनुवाद (हिन्दी)
जिनका पुत्र कंस बड़ा ही दुष्ट था, वे राजा उग्रसेन अपने छोटे भाई देवकके साथ जीवित तो हैं न? हृदीक, उनके पुत्र कृतवर्मा, अक्रूर, जयन्त, गद, सारण तथा शत्रुजित् आदि यादववीर सकुशल हैं न? यादवोंके प्रभु बलरामजी तो आनन्दसे हैं?॥ २८-२९॥
वीरराघवः
सात्वतां भक्तांनां पतिः । सात्वच्छब्दः भ66क्तवाचकः । सात्वतशब्दस्तु यादववाचक इति विवेकः । भगवान् बलरामः सुखमास्ते कच्चित् ? ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः।
गम्भीररयोऽनिरुद्धो वर्धते भगवानुत॥
अनुवाद (हिन्दी)
वृष्णिवंशके सर्वश्रेष्ठ महारथी प्रद्युम्न सुखसे तो हैं? युद्धमें बड़ी फुर्ती दिखलानेवाले भगवान् अनिरुद्ध आनन्दसे हैं न?॥ ३०॥
वीरराघवः
अथ श्रीकृष्णपुत्रान् पृच्छति सर्ववृष्णीनां महारथः प्रद्युम्नः सुखमास्ते कच्चित् ? तथा भगवान् गम्भीरवेगः अनिरुद्धश्च वर्धते उत ? ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः।
अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः॥
मूलम्
सुषेणश्चारुदे69ष्णश्च साम्बो जाम्बवतीसुतः।
अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः॥ ३१ ॥
अनुवाद (हिन्दी)
सुषेण, चारुदेष्ण, जाम्बवतीनन्दन साम्ब और अपने पुत्रोंके सहित ऋषभ आदि भगवान् श्रीकृष्णके अन्य सब पुत्र भी प्रसन्न हैं न?॥ ३१॥
वीरराघवः
जाम्बवतीसुत इति साम्बस्य विशेषणम् । सुषेणादयः अन्ये च ऋषभादयः कार्ष्णिप्रवराः श्रीकृष्णसुतश्रेष्ठाः सपुत्राः अपि सुखमासते इत्युपरिष्टादन्वयः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः॥
मूलम्
तथैवानुचराश्शौरेः श्रुतदे70वोद्धवादयः।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः॥ ३२ ॥
वीरराघवः
तथैव शौर: भगवतोऽनुचराः श्रुतदेवोद्धवादयः ये चान्ये सात्वतर्षभाः यादवश्रेष्ठाः सुनन्दादयः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः।
अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः॥
मूलम्
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः।
अपि स्मरन्ति कुशलं अस्माकं ब71द्धसौहृदाः॥ ३३ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णके सेवक श्रुतदेव, उद्धव आदि और दूसरे सुनन्द-नन्द आदि प्रधान यदुवंशी, जो भगवान् श्रीकृष्ण और बलरामके बाहुबलसे सुरक्षित हैं, सब-के-सब सकुशल हैं न? हमसे अत्यन्त प्रेम करनेवाले वे लोग कभी हमारा कुशल-मंगल भी पूछते हैं?॥ ३२-३३॥
वीरराघवः
कृ72ष्णरामभुजा एव आश्रयाः येषां ते सर्वेऽपि स्वस्ति आसते ? बद्धसौहृदाः 73ते सर्वे अस्माकमपि कुशलं स्मरन्ति किं इत्यर्थः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः।
कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः॥
मूलम्
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः।
कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः॥ ३४ ॥
अनुवाद (हिन्दी)
भक्तवत्सल ब्राह्मणभक्त भगवान् श्रीकृष्ण अपने स्वजनोंके साथ द्वारकाकी सुधर्मा सभामें सुखपूर्वक विराजते हैं न?॥ ३४॥
वीरराघवः
अथ भगवतः कुशलं पृच्छति भगवान् कृष्णोऽपि पुरे सुधर्मायां सुहृद्भिः वृतः सुखमास्ते कच्चित् ? ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
मङ्गलाय च लोकानां क्षेमाय च भवाय च।
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान्॥
मूलम्
मङ्गलाय च74 लोकानां क्षेमाय च भवाय च।
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान्॥ ३५ ॥
वीरराघवः
ब्रह्मण्यो भक्तवत्सल इति विशेषणद्वयाभिप्रेतं 75व्यञ्जयन् पृच्छति - मङ्गलायेति । लोकानां 76जनानां म77ङ्गलार्थं अनन्तस्य सखा आद्यः पुमान् परमपुरुषः यदुकुलाम्भोधावास्ते कच्चित् ? अनन्तसख इत्यनेन बलरामसहितः आस्ते किमिति पृष्टं भवति । क्षेमः लब्धसुखपरिपालनम् । भवः योगः सचालब्धसुखलाभरूपः । तदुभयविधाय मङ्गलायेत्यर्थः ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः।
क्रीडन्ति परमानन्दं महापौरुषिका इव॥
अनुवाद (हिन्दी)
वे आदिपुरुष बलरामजीके साथ संसारके परम मंगल, परम कल्याण और उन्नतिके लिये यदुवंशरूप क्षीरसागरमें विराजमान हैं। उन्हींके बाहुबलसे सुरक्षित द्वारकापुरीमें यदुवंशीलोग सारे संसारके द्वारा सम्मानित होकर बड़े आनन्दसे विष्णुभगवान्के पार्षदोंके समान विहार कर रहे हैं॥ ३५-३६॥
वीरराघवः
तदेव प्रपञ्चयति - यद्वह्विति त्रिभिः । यस्य कृष्णस्य भगवतः बाहुदण्डगुप्तायां स्वपुर्यां द्वारकायां अर्चिताः सर्वैः लोकैः बहुमताः यदवः परमानन्दं यथा तथा क्रीडन्ति । महापौरुषिका इव यक्षा इव ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
यत्पादशुश्रूषणमुख्यकर्मणा
सत्यादयो द्व्यष्टसहस्रयोषितः।
निर्जित्य संख्ये त्रिदशांस्तदाशिषो
हरन्ति वज्रायुधवल्लभोचिताः॥
मूलम्
यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः।
निर्जित्य संख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः॥ ३७ ॥
अनुवाद (हिन्दी)
सत्यभामा आदि सोलह हजार रानियाँ प्रधानरूपसे उनके चरणकमलोंकी सेवामें ही रत रहकर उनके द्वारा युद्धमें इन्द्रादि देवताओंको भी हराकर इन्द्राणीके भोगयोग्य तथा उन्हींकी अभीष्ट पारिजातादि वस्तुओंका उपभोग करती हैं॥ ३७॥
वीरराघवः
यस्य भगवतः पादयोः शुश्रूषणं परिचरणं मुख्यं कर्म तेन हेतुना सत्यभामादयः षोडशसहस्रयोषितः सङ्ख्ये युद्धे त्रिदशान् देवान् निर्जित्य, 80वज्रमायुधं यस्य स इन्द्रः वल्लभः प्रियः यासां तासां शच्यादीनां उचिताः आशिषः अभीष्टार्थाः पारिजातादयः भगवता आहृता इति शेषः । तदित्यव्ययम् । सामान्याभिप्रायमेकत्वं नपुंसकत्वं वा । ता आशिषः हरन्ति स्वीकुर्वन्ति ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीरा ह्यकुतोभया मुहुः।
अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात्
सभां सुधर्मां सुरसत्तमोचिताम्॥
मूलम्
यद्बाहुद81ण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः।
अर्धिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम्॥ ३८ ॥
अनुवाद (हिन्दी)
यदुवंशी वीर श्रीकृष्णके बाहुदण्डके प्रभावसे सुरक्षित रहकर निर्भय रहते हैं और बलपूर्वक लायी हुई बड़े-बड़े देवताओंके बैठने योग्य सुधर्मा सभाको अपने चरणोंसे आक्रान्त करते हैं॥ ३८॥
वीरराघवः
यस्य भगवतः बाहुदण्ड ए82वाभ्युदयो येषां ते तदुपजीविनः तद्भृत्याः यदुप्रवीराः न विद्यते कुतोऽपि भयं येषां तथाभूतास्सन्तः सुरसत्तमानां इन्द्रादीनां उचितां83 तां निर्जित्य बलादाहृतां सुधार्माख्यां सभां अङ्घ्रिभिः मुहुर्मुहुरधिक्रमन्ति अ84ध्याक्रमन्ति ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे।
अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः॥
मूलम्
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे।
अलब्धमानोऽवज्ञातः किं वा ता85त! चिरोषितः॥ ३९ ॥
अनुवाद (हिन्दी)
भाई अर्जुन! यह भी बताओ कि तुम स्वयं तो कुशलसे हो न? मुझे तुम श्रीहीन-से दीख रहे हो; वहाँ बहुत दिनोंतक रहे, कहीं तुम्हारे सम्मानमें तो किसी प्रकारकी कमी नहीं हुई? किसीने तुम्हारा अपमान तो नहीं कर दिया?॥ ३९॥
वीरराघवः
त86तः तस्य निस्तेजस्कत्वादिहेतून् विकल्पयन् पृच्छति - हे तात! तव अनामयं आरोग्यं कच्चित् ? मे मम 87भ्रष्टं तेजः यस्मात् तथाभूतो विभासि लक्ष्यसे । हे तात! त्वं तत्र चिरमुषितः । हेतुगर्भमिदम् । चिरमुषितत्वादलब्धो मानः सम्मानः येन तथाभूतः किम् ? अथवा तैरवज्ञातः अवमतः किम् ? ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
कच्चिन्नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः।
न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम्॥
अनुवाद (हिन्दी)
कहीं किसीने दुर्भावपूर्ण अमंगल शब्द आदिके द्वारा तुम्हारा चित्त तो नहीं दुखाया? अथवा किसी आशासे तुम्हारे पास आये हुए याचकोंको उनकी माँगी हुई वस्तु अथवा अपनी ओरसे कुछ देनेकी प्रतिज्ञा करके भी तुम नहीं दे सके?॥ ४०॥
वीरराघवः
अभावैरिति च्छेदः । न विद्यते भावः सद्भावः येषान्तैः आशया अर्थिभ्यः या90चकेभ्यः यत्प्रतिश्रुतं दास्यामीति प्रतिज्ञातं तत् तेभ्यः किं वा न दत्तम् ? ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्।
शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः॥
मूलम्
क91च्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्।
शरणो92पसृतं सत्त्वं नाऽत्याक्षीः शरणप्रदः॥ ४१ ॥
अनुवाद (हिन्दी)
तुम सदा शरणागतोंकी रक्षा करते आये हो; कहीं किसी भी ब्राह्मण, बालक, गौ, बूढ़े, रोगी, अबला अथवा अन्य किसी प्राणीका, जो तुम्हारी शरणमें आया हो, तुमने त्याग तो नहीं कर दिया?॥ ४१॥
वीरराघवः
ब्राह्मणादीन् अ93न्यं च शरणोपसृतं शरणागतं सत्त्वं जन्तुं शरणप्रदः रक्षकस्त्वं नात्याक्षीः कच्चित् ? ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम्।
पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि॥
मूलम्
कच्चित्त्वं नागमो गम्यां गम्यां वासत्कृतां स्त्रियम्।
पराजितो वाऽथ भवान् नोत्तमैर्ना94समैः पथि॥ ४२ ॥
अनुवाद (हिन्दी)
कहीं तुमने अगम्या स्त्रीसे समागम तो नहीं किया? अथवा गमन करनेयोग्य स्त्रीके साथ असत्कारपूर्वक समागम तो नहीं किया? कहीं मार्गमें अपनेसे छोटे अथवा बराबरीवालोंसे हार तो नहीं गये?॥ ४२॥
वीरराघवः
अगम्यां स्त्रियं त्वं नागमः न गतवान् कच्चित् ? गम्यामप्यसत्कृतां वा नागमः कच्चित् ? अथ ननु भवान् पथ्युत्तमैः अधमै95र्वा जनैः पराजितो वा किम् ? ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान्।
जुगुप्सितं कर्म किंचित्कृतवान्न यदक्षमम्॥
मूलम्
अपिस्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान्।
जुगुप्सितं कर्म किंचित् कृ96तवान्न यदक्षमम्॥ ४३ ॥
अनुवाद (हिन्दी)
अथवा भोजन करानेयोग्य बालक और बूढ़ोंको छोड़कर तुमने अकेले ही तो भोजन नहीं कर लिया? मेरा विश्वास है कि तुमने ऐसा कोई निन्दित काम तो नहीं किया होगा, जो तुम्हारे योग्य न हो॥ ४३॥
वीरराघवः
सम्भोज्यान् सह भोक्तुं योग्यान् वृद्धान् बालकांश्च । परीत्यव्ययं वर्जनार्थम् । परित्यज्य त्वमभङ्कथाः अपि, भुक्तवान् किम् ? नः अस्माकं अक्षमं असह्यं किञ्चित् निन्दितं कर्म कृतवान् किम् ? ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना।
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक्॥
मूलम्
कच्चित्प्रेष्ठतमेनाथ97 हृदयेनात्मबन्धुना।
शून्योऽस्मि98 रहितो नित्यं मन्यसे तेऽन्यथा न99 रुक्॥ ४४ ॥
अनुवाद (हिन्दी)
हो-न-हो अपने परम प्रियतम अभिन्नहृदय परम सुहृद् भगवान् श्रीकृष्णसे तुम रहित हो गये हो। इसीसे अपनेको शून्य मान रहे हो। इसके सिवा दूसरा कोई कारण नहीं हो सकता, जिससे तुमको इतनी मानसिक पीड़ा हो॥ ४४॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरवितर्को नाम चतुर्दशोऽध्यायः॥ १४॥
वीरराघवः
हृदयेन हृदयङ्गमेन नित्यं प्रियतमेन आत्मबन्धुना श्रीकृष्णेन रहितः अत एव शून्यो निरानन्दोऽस्मीति मन्यसे कच्चित् ? अन्यथा उक्तहेतूनां अन्यतमस्याप्यभावे ते तव रुक् रोगः आधिः न स्यात् । यद्वा रुक् दीप्तिः अन्यथा न प्रागिव नास्ति । अतः केनचित् उक्तान्यतमेन हेतुना भवितव्यमित्यर्थः ॥ ४४ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुर्दशोऽध्यायः ॥ १४ ॥
-
K,M ज्ञातुं मायामनुष्यस्य वासुदेवस्य चेहितम्; AF,GF ज्ञातुं मायामनुष्यस्य वासुदेवस्य चेष्टितम्। ↩︎
-
K,M स्तदा तु शतशो नृपः ↩︎
-
AF,GF पाण्डुसुतो नृपः ↩︎
-
K,M भृगूद्वह! ↩︎
-
W द्रीं ↩︎
-
W विपरीतर्तुधर्मणः ↩︎
-
AF,GF धर्मणः ↩︎
-
W द्रीं ↩︎
-
K,M साध्य ↩︎
-
K,M कल्कितां ↩︎
-
K,M प्य ↩︎
-
H,V भृ ↩︎
-
A,B सारिणीत्य ↩︎
-
H,V सम्प्रोषितो; K.M सम्प्रेषिते ↩︎
-
V विष्णु; K,M जिष्णौ ↩︎
-
H,V द्मी ↩︎
-
W द्मि ↩︎
-
K,M यदात्म ↩︎
-
K,M येषां नः ↩︎
-
H,K,M,V घोरमाशंसतो ↩︎
-
AF,GF मे ↩︎
-
W विप्रियप्राप्तिसू ↩︎
-
AF,GF ममाग्रे ↩︎
-
H,K,M,V,W रोदि ; N रौति ह्य ↩︎
-
K,M,W त ↩︎
-
W त्मानं ↩︎
-
W षा ↩︎
-
K,M तोग्नावु ↩︎
-
K,M, हुङ्कारैः ; AF,GF कुह्वानो रौद्रोऽसौ शून्यमिच्छति ↩︎
-
B,I र्विश्वं वै; H,V विश्वं द्राक् ↩︎
-
W adds घूकः ↩︎
-
W त ↩︎
-
W उलूकः तावेतौ ↩︎
-
AF,GF दीप्ताः ↩︎
-
K,M कुः ↩︎
-
AF,GF स्सु ↩︎
-
A,B,G,I महांस्तात ↩︎
-
W आ ↩︎
-
W म ↩︎
-
H,V,W सु ; K,M सुसङ्कुले तु भगणे ↩︎
-
W adds ते ↩︎
-
W बने ↩︎
-
K,M खि ↩︎
-
W न्तीवोच्च ↩︎
-
B,H,V प्रच ↩︎
-
W adds अघमूलकं ↩︎
-
K,M स्त्री ↩︎
-
H,V,W र्ग ↩︎
-
W गतं ↩︎
-
K,M,N,W मुञ्चन्त ↩︎
-
H,V यं ↩︎
-
H,V भोजकदाशार्हास्सा ; B,N,W भोजदशार्हार्हाः ; AF,GF भोजदशाहस्ति कुकुरान्धक ↩︎
-
W वावान्तर ↩︎
-
K,M चाथ; H,V पार्थ! ↩︎
-
W ष! ↩︎
-
H,V श्चा ↩︎
-
W शमीको ↩︎
-
W वत्सको ↩︎
-
K,M स्त्रियः ↩︎
-
W adds उग्रसेनस्य ↩︎
-
H,V,W हृदिकस्य सुतो ↩︎
-
B स्व ↩︎
-
B शुक्र ; H,V सत्य ↩︎
-
H,V सुखी ↩︎
-
H,V,W पतिः ↩︎
-
W भगवद्भक्त ↩︎
-
H,V यो गम्भीररयो युद्धे ↩︎
-
K,M र्त ↩︎
-
H,V धे ↩︎
-
K,M सेनो ↩︎
-
H,V बन्धु ↩︎
-
W कृष्णरामयो: भुजावेव आश्रयौ ↩︎
-
W adds दृढसौहृदाः ↩︎
-
H,V हि ↩︎
-
A,B omit व्यञ्जयन् ↩︎
-
A,B add भक्त ↩︎
-
W मङ्गलाद्यर्थं ↩︎
-
B,K,M दण्डैर्गु ↩︎
-
AF,GF जि ↩︎
-
W adds याः ↩︎
-
H,V दण्डप्रभवोपजी, W दण्डप्रभवोऽनु ↩︎
-
W एव प्रभुः ↩︎
-
A ता ↩︎
-
A,B omit अध्याक्रमन्ति ↩︎
-
H.V तत्र ↩︎
-
A,B omit ततः ↩︎
-
W adds तु ↩︎
-
K,M भावै: ↩︎
-
K,M दत्तं युक्त ↩︎
-
W याचमानेभ्यः ↩︎
-
AF,GF रुदन्तं ↩︎
-
K,M ज्यो ↩︎
-
W पञ्च ↩︎
-
K,M नधिमैः ; W वधिरैः ↩︎
-
W रै ↩︎
-
AF,GF कृतं वा यत् ; K,M कृतवानसद, W कृतवान्नः किम ↩︎
-
H,V ङ्ग! ↩︎
-
K,M सि ↩︎
-
K,M हि ↩︎