[त्रयोदशोऽध्यायः]
भागसूचना
विदुरजीके उपदेशसे धृतराष्ट्र और गान्धारीका वनमें जाना
श्लोक-१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः॥
मूलम्
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्।
ज्ञात्वाऽगाद्धास्तिनपुरं तयावाप्तविवि1त्सितः॥ १ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—विदुरजी तीर्थयात्रामें महर्षि मैत्रेयसे आत्माका ज्ञान प्राप्त करके हस्तिनापुर लौट आये। उन्हें जो कुछ जाननेकी इच्छा थी वह पूर्ण हो गयी थी॥ १॥
वीरराघवः
कुरुपाण्डवयुद्धात् प्रागेव मन्त्राय धृतराष्ट्रेण आहूतः तत्पुत्रेण पराभूतो विदुरः तीर्थयात्रायां निमित्तभूतायां सत्यां गतः तत्रात्मनः परमात्मनो गतिं या2थात्म्यं मैत्रेयादृषेर्ज्ञात्वा तया आत्मगत्या ज्ञानविषयभूतया अवाप्तविधित्सितः कृतकृत्यः । विवित्सितः इति पाठे विदितवेद्यः “येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमात्मनि खल्वरे दृष्टे श्रुते मते विदिते इदं सर्वं विज्ञातं भवति” (छान्दो. उ. 6-1-3) इति श्रुतेः । पुनर्हास्तिनपुरं प्रागात् प्राप्तः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यावतः कृतवान् प्रश्नान्क्षत्ता कौषारवाग्रतः।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह॥
मूलम्
यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह॥ २ ॥
अनुवाद (हिन्दी)
विदुरजीने मैत्रेय ऋषिसे जितने प्रश्न किये थे, उनका उत्तर सुननेके पहले ही श्रीकृष्णमें अनन्य भक्ति हो जानेके कारण वे उत्तर सुननेसे उपराम हो गये॥ २॥
वीरराघवः
तयाऽवाप्तविधित्सित इत्येतदेवोपपादयति । यावतः क्षत्ता विदुरः कौषारवो मैत्रेयः कुषारवगोत्रप्रसूतत्वात् । तस्याग्रतः यावतः प्रश्नान् कृतवान् तत्र कतिपयानामेव प्रश्नानामुत्तरैः गोविन्दे जाता एका अव्यभिचारिण्यनन्यप्रयोजना भक्तिर्यस्य तथाभूतः तेभ्योऽवशिष्टप्रश्नेभ्य उपरराम । अवशिष्टप्रश्नानामुत्तराणि न शुश्रावेत्यर्थः । जातैकभक्तिरित्यनेन कृतकृत्यत्वमुक्तम् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः।
धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा॥
मूलम्
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः3।
धृतराष्ट्रो युयुत्सुश्च सूतश्शारद्वतः पृथा॥ ३ ॥
वीरराघवः
तमागतं बन्धुं वि4दुरं ज्ञात्वा सहानुजो धर्मपुत्रो युधिष्ठिरः धृतराष्ट्रादयः सूतः सञ्जयः शारद्वतः कृपः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी।
अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः॥
मूलम्
गान्धारी द्रौपदी ब्रह्मन्! सुभद्रा चोत्तरा कृपी।
अन्याश्च जा5मयः पाण्डोर्ज्ञातयस्ससुताः स्त्रियः॥ ४ ॥
वीरराघवः
अन्याश्च जामयः अन्तःपुरस्त्रियः ससुताः पाण्डोः ज्ञातयश्च हे ब्रह्मन् ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम्।
अभिसंगम्य विधिवत् परिष्वङ्गाभिवादनैः॥
वीरराघवः
प्रहर्षेण प्रत्युज्जग्मुः अभिमुखं ययुः । यथा आगतं प्राणं तन्वः शरीराणि तद्वत् प्राणमागतमिव तं प्रत्युज्जग्मुरित्यर्थः । परिष्वङ्गाभिवादनैः विधिवत् यथोचितम् अभिसङ्गम्य ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः।
राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम्॥
मूलम्
मुमुचुः प्रेमबाष्पौघं वि9रहौत्कण्ठ्यकातराः।
राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम्॥ ६ ॥
अनुवाद (हिन्दी)
शौनकजी! अपने चाचा विदुरजीको आया देख धर्मराज युधिष्ठिर, उनके चारों भाई, धृतराष्ट्र, युयुत्सु, संजय, कृपाचार्य, कुन्ती, गान्धारी, द्रौपदी, सुभद्रा, उत्तरा, कृपी तथा पाण्डव-परिवारके अन्य सभी नर-नारी और अपने पुत्रोंसहित दूसरी स्त्रियाँ—सब-के-सब बड़ी प्रसन्नतासे, मानो मृत शरीरमें प्राण आ गया हो—ऐसा अनुभव करते हुए उनकी अगवानीके लिये सामने गये। यथायोग्य आलिंगन और प्रणामादिके द्वारा सब उनसे मिले और विरहजनित उत्कण्ठासे कातर होकर सबने प्रेमके आँसू बहाये। युधिष्ठिरने आसनपर बैठाकर उनका यथोचित सत्कार किया॥ ३—६॥
वीरराघवः
विरहप्रयुक्तौत्कण्ठ्येन कातराः प्रेमबाष्पौघमानन्दाश्रुसमूहं मुमुचुः । कृतः आसनपरिग्रहो येन तं विदुरं राजा युधिष्ठिरोऽर्हयामास पूजयामास ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने।
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम्॥
अनुवाद (हिन्दी)
जब वे भोजन एवं विश्राम करके सुखपूर्वक आसनपर बैठे थे तब युधिष्ठिरने विनयसे झुककर सबके सामने ही उनसे कहा॥ ७॥
वीरराघवः
ततो भुक्तवन्तं विश्रान्तमासने सुखमासीनं तं विदुरं स्वानां शृण्वतां सतां प्रश्रयेणावनतः प्राह ॥ ७ ॥
श्लोक-८
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान्।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः॥
मूलम्
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान्।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः॥ ८ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने कहा—चाचाजी! जैसे पक्षी अपने अंडोंको पंखोंकी छायाके नीचे रखकर उन्हें सेते और बढ़ाते हैं, वैसे ही आपने अत्यन्त वात्सल्यसे अपने करकमलोंकी छत्रछायामें हमलोगोंको पाला-पोसा है। बार-बार आपने हमें और हमारी माताको विषदान और लाक्षागृहके दाह आदि विपत्तियोंसे बचाया है। क्या आप कभी हम लोगोंकी भी याद करते रहे हैं?॥ ८॥
वीरराघवः
तदेवाऽऽह - अपीत्यादिभिश्चतुर्भिः । युष्पत्पक्षयोः परिग्रहरूपयोः छायायां समेधितान् नोऽस्मानपि स्मरथ स्परथ किम् ? आत्मनां तत्पक्षच्छायासमेधितत्वं स्मारयति । समातृकाः मात्रा सहिता वयं विषाम्यादिरूपात् विपद्गणा12द्यद्येन त्वया विमोचिताः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम्।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले॥
मूलम्
कया वृत्त्या वर्तितं व13श्चरद्भिः क्षितिमण्डलम्।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले॥ ९ ॥
अनुवाद (हिन्दी)
आपने पृथ्वीपर विचरण करते समय किस वृत्तिसे जीवन-निर्वाह किया? आपने पृथ्वीतलपर किन-किन तीर्थों और मुख्य क्षेत्रोंका सेवन किया?॥ ९॥
वीरराघवः
क्षितिमण्डल चरद्भिः कया वृत्त्या वर्तितम् ? इह भूतले कानि तीर्थानि भगवत्क्षेत्रमुख्यानि च भवद्भिस्सेवितानि ? ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो।
तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता॥
मूलम्
भवद्विधा भागवतास्तीर्थं14भूतास्स्वयं वि15भो!।
तीर्थीकुर्वन्ति तीर्थानि स्वान्त16स्थेन गदाभृता॥ १० ॥
अनुवाद (हिन्दी)
प्रभो! आप-जैसे भगवान्के प्यारे भक्त स्वयं ही तीर्थस्वरूप होते हैं। आपलोग अपने हृदयमें विराजमान भगवान्के द्वारा तीर्थोंको भी महातीर्थ बनाते हुए विचरण करते हैं॥ १०॥
वीरराघवः
कृतकृत्यानां भवतां न तीर्थयात्रया स्वप्रयोजनमस्तीत्यभिप्रायेण आह - भवद्विधा इति । हे विभो! भवादृशाः भागवताः स्वयमेव तीर्थभूताः पवित्रभूताः । अतस्तीर्थयात्राकृतं पवित्रत्वं नापेक्षितमिति भावः । तर्हि किमर्थं तीर्थान्यटन्ति ? तन्त्राऽऽह - तीर्थीकुर्वन्तीति । स्वान्तःस्थेन गदाभृता भगवता तीर्थान्यपि तीर्थीकुर्वन्तीति तीर्थान्यपि तीर्थीकर्तुं तानि पर्यटन्तीति भावः । वस्तुतः परिशुद्धान्येव गङ्गादितीर्थानि । तथाऽपि पापिभिः तेषु परिहृतानि पापान्यादाय तान्यपि पवित्रीकुर्वन्ति स्वगतानि तु स्वान्तरात्मतयाऽवस्थितो गदाभृत् क्षपयति । तस्य त्वघप्रतिभटत्वान्न तस्मिन् पापसमावेशप्रसक्तिरिति भावः । एतदभिप्रायेणैव गदाभृतेत्युक्तम् । तथा च नवमे “किञ्चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम्” (भाग. 9-9-5) इति गङ्ग्योक्तो भगीरथ आह “साधवो न्यासिनश्शान्ता धर्मिष्ठा लोकपावनाः । हरन्त्यघं तेऽङ्गसङ्गात्तेष्वास्ते ह्यघभिद्धरिः” (भाग. 9-9-6) इति ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
अपि नः सृहृदस्तात बान्धवाः कृष्णदेवताः।
दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते॥
अनुवाद (हिन्दी)
चाचाजी! आप तीर्थयात्रा करते हुए द्वारका भी अवश्य ही गये होंगे। वहाँ हमारे सुहृद् एवं भाई-बन्धु यादवलोग, जिनके एकमात्र आराध्यदेव श्रीकृष्ण हैं, अपनी नगरीमें सुखसे तो हैं न? आपने यदि जाकर देखा नहीं होगा तो सुना तो अवश्य ही होगा॥ ११॥
वीरराघवः
अपीति । हे तात! कृष्ण एव देवता येषां ते नोऽस्माकं सुहृदो बान्धवाश्च यदवः दृष्टाः अथवा स्वपुया द्वारकायां सुखमासत इति श्रुताः किम् ? ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत्।
यथानुभूतं क्रमशो विना यदुकुलक्षयम्॥
मूलम्
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत्।
यथाऽनुभूतं क्र19मशो विना यदुकुलक्षयम्॥ १२ ॥
अनुवाद (हिन्दी)
युधिष्ठिरके इस प्रकार पूछनेपर विदुरजीने तीर्थों और यदुवंशियोंके सम्बन्धमें जो कुछ देखा, सुना और अनुभव किया था, सब क्रमसे बतला दिया, केवल यदुवंशके विनाशकी बात नहीं कही॥ १२॥
वीरराघवः
इतीत्थं धर्मराजेनोक्तः विदुरो यदुकुलक्षयं विना अन्यत्सर्वं यथानुभूतं दृष्टं श्रुतं चा20नतिक्रम्य क्रमशः समवर्णयत् ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम्।
नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः॥
मूलम्
न21न्वप्रियं दुर्विषहं22 नृणां स्वयमुपस्थितम्।
ना23वेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः॥ १३ ॥
अनुवाद (हिन्दी)
करुणहृदय विदुरजी पाण्डवोंको दुःखी नहीं देख सकते थे। इसलिये उन्होंने यह अप्रिय एवं असह्य घटना पाण्डवोंको नहीं सुनायी; क्योंकि वह तो स्वयं ही प्रकट होनेवाली थी॥ १३॥
वीरराघवः
यदुकुलक्षयं कुतो नावर्णयदित्यत्राऽऽह - नन्विति । हे शौनक! दुर्विषहं सोढुमशक्यं स्वयमुपस्थितं स्वयमेवोपस्थास्यदप्रियं यदुकुलक्षयात्मकं नावेदयत् । कुतः ? यतस्सकरुणः दयावानत एव दुःखितान् दुःखिष्यमाणान् द्रष्टुमक्षमः असहिष्यमाणः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम्।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन्॥
मूलम्
कञ्चित्कालमथावात्सीत् सत्कृतो देववत्सु24खम्।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां प्री25तिमावहन्॥ १४ ॥
अनुवाद (हिन्दी)
पाण्डव विदुरजीका देवताके समान सेवा-सत्कार करते थे। वे कुछ दिनोंतक अपने बड़े भाई धृतराष्ट्रकी कल्याणकामनासे सब लोगोंको प्रसन्न करते हुए सुखपूर्वक हस्तिनापुरमें ही रहे॥ १४॥
वीरराघवः
अ26यं देववदीश्वरवत्सत्कृतो बहुमतः कञ्चित्कालं ज्येष्ठस्य भ्रातुः धृतराष्ट्रस्य श्रेयस्कृत् सर्वेषां धर्मराजादीनां प्रीतिमावहन् सुखमवात्सीत् उवास । श्रेयः क27र्तुं प्रीतिं वोढुं चावात्सीदित्यर्थः । भ्रातुः श्रेयस्कारणमत्र तस्य मरणज्ञापनपूर्वकं मुक्त्युपायप्रवर्तनरूपं विवक्षितम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
अबिभ्रदर्यमा दण्डं यथावदघकारिषु।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः॥
अनुवाद (हिन्दी)
विदुरजी तो साक्षात् धर्मराज थे, माण्डव्य ऋषिके शापसे ये सौ वर्षके लिये शूद्र बन गये थे*। इतने दिनोंतक यमराजके पदपर अर्यमा थे और वही पापियोंको उचित दण्ड देते थे॥ १५॥
पादटिप्पनी
- एक समय किसी राजाके अनुचरोंने कुछ चोरोंको माण्डव्य ऋषिके आश्रमपर पकड़ा। उन्होंने समझा कि ऋषि भी चोरोंमें शामिल होंगे। अतः वे भी पकड़ लिये गये और राजाज्ञासे सबके साथ उनको भी शूलीपर चढ़ा दिया गया। राजाको यह पता लगते ही कि ये महात्मा हैं—ऋषिको शूलीसे उतरवा दिया और हाथ जोड़कर उनसे अपना अपराध क्षमा कराया। माण्डव्यजीने यमराजके पास जाकर पूछा—‘मुझे किस पापके फलस्वरूप यह दण्ड मिला?’ यमराजने बताया कि ‘आपने लड़कपनमें एक टिड्डीको कुशकी नोकसे छेद दिया था, इसीलिये ऐसा हुआ।’ इसपर मुनिने कहा—‘मैंने अज्ञानवश ऐसा किया होगा, उस छोटेसे अपराधके लिये तुमने मुझे बड़ा कठोर दण्ड दिया। इसलिये तुम सौ वर्षतक शूद्रयोनिमें रहोगे।’ माण्डव्यजीके इस शापसे ही यमराजने विदुरके रूपमें अवतार लिया था।
वीरराघवः
कथं तस्य तद्भावनसामर्थ्यमिति शङ्काव्युदासाय सर्वप्राणिमृत्युकालज्ञः तद्दण्डधरश्च यो यमः स एवायं विदुर इति वदन् शङ्कान्तरं च निराह - अबिभ्रदिति । शापात् माण्डव्यशापाद्धेतोः यमः यावच्छूद्रत्वं विदुररूपं शूद्रभावं दधार तावद्वर्षशतमर्यमा सूर्योऽघकारिषु पापिषु यथाऽघं तत्पापानुरूपं दण्डमबिभ्रत् कारयामास । अनेन यम एव विदुरश्चेत् यमाधिकारं कः कृतवान् इत्याशङ्का व्युदस्ता । यमाधिकारं स्वाधिकारं च अयमैवाकरोदिति भावः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलंधरम्।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया॥
मूलम्
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कु30लंधरम्।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया31 श्रिया॥ १६ ॥
अनुवाद (हिन्दी)
राज्य प्राप्त हो जानेपर अपने लोकपालों-सरीखे भाइयोंके साथ राजा युधिष्ठिर वंशधर परीक्षित् को देखकर अपनी अतुल सम्पत्तिसे आनन्दित रहने लगे॥ १६॥
वीरराघवः
भ्रातुः श्रेयस्क्रियामेव प्रपञ्चयितुं तावत् तादात्विकं युधिष्ठिरादिसंस्थानप्रकारमाह - युधिष्ठिर इति द्वाभ्याम् । लब्धं राज्यं येन स युधिष्ठिरः कुलन्धरं कुलनिर्वाहकं पौत्रं परीक्षितं दृष्ट्वा इन्द्रादिलोकपालसदृशैः भ्रातृभिः प32रमया श्रिया च मुमुदे ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया।
अत्यक्रामदविज्ञातः कालः परमदुस्तरः॥
मूलम्
एवं गृहेषु सक्तानां प्रमत्तानां त33दीहया।
अत्यक्रामदविज्ञातः कालः परमदुस्तरः॥ १७ ॥
अनुवाद (हिन्दी)
इस प्रकार पाण्डव गृहस्थके काम-धंधोंमें रम गये और उन्हींके पीछे एक प्रकारसे यह बात भूल गये कि अनजानमें ही हमारा जीवन मृत्युकी ओर जा रहा है; अब देखते-देखते उनके सामने वह समय आ पहुँचा जिसे कोई टाल नहीं सकता॥ १७॥
वीरराघवः
एवं गृहेष्वासक्तानां तदीहया गार्हियचेष्टया प्रमत्तानाम् अविदितमृत्युकालानाम्, कर्तरि षष्ठी । तैः अविज्ञातः परमस्सर्वं वशीकुर्वन् अत एव दुस्तरः । कस्याप्यवश्यः कालोऽत्यक्रामत् अतिक्रान्तवान् । तदीहया अविज्ञात इति वाऽन्वयः । युधिष्ठिरादीनां विषयानुभवकालो व्यतिक्रान्तो बभूवेत्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत।
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम्॥
मूलम्
विदुरस्तद34भिप्रेत्य धृतराष्ट्रमभाषत।
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम्॥ १८ ॥
अनुवाद (हिन्दी)
परन्तु विदुरजीने कालकी गति जानकर अपने बड़े भाई धृतराष्ट्रसे कहा—‘महाराज! देखिये, अब बड़ा भयंकर समय आ गया है, झटपट यहाँसे निकल चलिये॥ १८॥
वीरराघवः
भ्रातुः श्रेयस्क्रियाप्रकारं प्रपञ्चयति - विदुर इत्यादिभिः दशभिः । तं कालातिक्रममभिप्रेत्य विदुरः धृतराष्ट्रमभाषत । तदेवाऽऽह - राजन्नित्यादिसार्धैर्नवभिः । हे! राजन्! इतः शीघ्रं निर्गम्यताम् त्वयेति शेषः । आगतमुपस्थितमिदं भयं पश्य आलोचय ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो।
स एव भगवान् कालः सर्वेषां नः समागतः॥
अनुवाद (हिन्दी)
हम सब लोगोंके सिरपर वह सर्वसमर्थ काल मँडराने लगा है, जिसके टालनेका कहीं भी कोई उपाय नहीं है॥ १९॥
वीरराघवः
किं तत् तत्राऽऽह - प्रतिक्रियेति । कुतश्चिदपि हेतोः कदाचिदपि यस्य भयस्य प्रतीकारः निवारणं नास्ति स एष भगवान् भगवन्नियाम्यः सर्वेषां नः अस्माकं कालः मृत्युकालः समागतः स38मुपस्थितः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि।
जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः॥
अनुवाद (हिन्दी)
कालके वशीभूत होकर जीवका अपने प्रियतम प्राणोंसे भी बात-की-बातमें वियोग हो जाता है; फिर धन, जन आदि दूसरी वस्तुओंकी तो बात ही क्या है॥ २०॥
वीरराघवः
गृहासक्तिं त्याजयितुं कालं विशिंषन्नाह - येन इति । अयं परिदृश्यमानो जनः येन मृ41त्युकालेन अभिपन्नः अभिपद्यमानः प्रियतमैः निरतिशयप्रियैः प्राणैरपि सद्यो विमुच्येत त्यज्येत । अन्यैः प्राणानुबन्धिभिः धनादिभिः मुच्येत इति किं वक्तव्यम् ? स कालस्समागत इत्यन्वयः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः।
आत्मा च जरया ग्रस्तः परगेहमुपाससे॥
मूलम्
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः।
आत्मा च जरया ग्रस्तः परगेहमुपाससे॥ २१ ॥
अनुवाद (हिन्दी)
आपके चाचा, ताऊ, भाई, सगे-सम्बन्धी और पुत्र—सभी मारे गये, आपकी उम्र भी ढल चुकी, शरीर बुढ़ापेका शिकार हो गया, आप पराये घरमें पड़े हुए हैं॥ २१॥
वीरराघवः
विरक्तिमुत्पादयितुं तस्यावस्थां वर्णयति - पित्रित्यादिभिश्चतुर्भिः । तव पित्रादयो हता मृताः । वयो यौवनञ्चापगतम् । आत्मा देहो जरया च प्रस्तः । तथाऽपि परेषां शत्रूणां गेहमुपाससे जीवनार्थमिति शेषः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अहो महीयसी जन्तोर्जीविताशा यया भवान्।
भीमापवर्जितं पिण्डमादत्ते गृहपालवत्॥
अनुवाद (हिन्दी)
ओह! इस प्राणीको जीवित रहनेकी कितनी प्रबल इच्छा होती है! इसीके कारण तो आप भीमका दिया हुआ टुकड़ा खाकर कुत्तेका-सा जीवन बिता रहे हैं॥ २२॥
वीरराघवः
जीविताशां त्याजयितुं विस्मयमान आह । अहो जन्तोः जीविताशा महीयसी बलीयसी, यया जीविताशया भवान् भीमेनावर्जितं परिभूय दत्तं पिण्डं कबलमादत्ते स्वीकरोति अ44त्तीति यावत् । गृहपालः श्वा तद्वत् ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः।
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत्॥
मूलम्
अग्निर्निसृष्टो दत्तश्च45 गरो दाराश्च दूषिताः।
हृतं क्षेत्रं धनं येषां त46द्दत्तैरसुभिः कियत्॥ २३ ॥
अनुवाद (हिन्दी)
जिनको आपने आगमें जलानेकी चेष्टा की, विष देकर मार डालना चाहा, भरी सभामें जिनकी विवाहिता पत्नीको अपमानित किया, जिनकी भूमि और धन छीन लिये, उन्हींके अन्नसे पले हुए प्राणोंको रखनेमें क्या गौरव है॥ २३॥
वीरराघवः
पिण्डस्य भीमापवर्जितत्वख्यापनाय भीमादीनां शत्रुत्वं प्रख्यापयन् तदपवर्जितपिण्डेन प्राणधारणम47तिहीनमित्याह - अग्निरिति । येषाम् इत्यस्याग्न्यादिभिः प्रत्येकमन्वयः । येषामग्निः निसृष्टः लाक्षागृहेष्विति शेषः । येषां गरो विषं दत्तम्, येषां च दाराः द्रौपदी दूषिताः, कचग्रहणवस्त्रापहरणादिभिः दूषिताः, येषां च धनं क्षेत्रं राज्यं च अपहृतं, सर्वं त्वयेति बोद्ध्यम् । तत्र त्वत्पुत्रैरिति कर्तृपदं बोध्यम् । तद्दत्तैः तदपवर्जितैः पिण्डदाना48यत्तत्वात् तद्दत्तैरित्युक्तम् । असुभिः प्राणैः कियत् नकिञ्चित् अ49तिहीनमिदं जी50वनमित्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः।
परैत्यनिच्छतो जीर्णो जरया वाससी इव॥
मूलम्
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः।
परैत्यनिच्छतो जीर्णो जरया वाससी इव॥ २४ ॥
अनुवाद (हिन्दी)
आपके अज्ञानकी हद हो गयी कि अब भी आप जीना चाहते हैं! परन्तु आपके चाहनेसे क्या होगा; पुराने वस्त्रकी तरह बुढ़ापेसे गला हुआ आपका शरीर आपके न चाहनेपर भी क्षीण हुआ जा रहा है॥ २४॥
वीरराघवः
वि51धिविधेयं प्रारब्धमनुभा52व्यमेवेति, तत्र जीविताशां त्याजयितुमेव विशिंषन्नाह - तस्येति । तस्य तद्दत्तासोः कृपणस्य जीवितुमिच्छोरप्यनिच्छतः देहत्यागमनिच्छतोऽपि तव दे53हः इति शेषः । जीर्णे वाससी इव जरया देहः परैत्यपगमिष्यत्येव ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः।
अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः॥
अनुवाद (हिन्दी)
अब इस शरीरसे आपका कोई स्वार्थ सधनेवाला नहीं है; इसमें फँसिये मत, इसकी ममताका बन्धन काट डालिये। जो संसारके सम्बन्धियोंसे अलग रहकर उनके अनजानमें अपने शरीरका त्याग करता है, वही धीर कहा गया है॥ २५॥
वीरराघवः
तर्हि ज्ञातिसन्निधावत्रैव परैत्वित्यत्राऽऽह - गतेति । गतः स्वार्थः स्वापेक्षितपुरुषार्थो यस्मात् तमिमं देहं यो जह्यात् त्यजेत् । कथम्भूतः विरक्तः देहादिषु स्पृ57हारहितः । मुक्तानि बन्धनानि संसृतिब58न्धकानि पुण्यपापात्मकानि येन अविज्ञाता ज्ञातिभिरज्ञाता गतिः देहत्यागलोकान्तरप्रा59प्तिरूपा यस्य सः स एव धीरः योगी उदाहृतः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान्।
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः॥
मूलम्
यः स्व60कात्परतो वेह जातनिर्वेद आत्मवान्।
हृदि कृत्वा हरिं गे61हात् प्रव्रजेत् स नरोत्तमः॥ २६ ॥
अनुवाद (हिन्दी)
चाहे अपनी समझसे हो या दूसरेके समझानेसे—जो इस संसारको दुःखरूप समझकर इससे विरक्त हो जाता है और अपने अन्तःकरणको वशमें करके हृदयमें भगवान्को धारणकर संन्यासके लिये घरसे निकल पड़ता है, वही उत्तम मनुष्य है॥ २६॥
वीरराघवः
किञ्च, स्वकात् स्व62स्मात् परतः अन्यस्मात् अन्योपदेशाद्वा इह जातो निर्वेदो वैराग्यं यस्य सः यः पुमान् आत्मवान् जितेन्द्रियः हरिमाश्रितानां संसृतिबन्धहरं भगवन्तं हृदि कृत्वा विधाय ध्यानेन सन्निधाप्य गेहात् प्रव्रजेत् नि63र्गच्छेत् स एव64 नरेषूत्तमः । त्वमेवं कुर्विति भावः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान्।
इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः॥
मूलम्
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान्।
इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः॥ २७ ॥
अनुवाद (हिन्दी)
इसके आगे जो समय आनेवाला है, वह प्रायः मनुष्योंके गुणोंको घटानेवाला होगा; इसलिये आप अपने कुटुम्बियोंसे छिपकर उत्तराखण्डमें चले जाइये’॥ २७॥
वीरराघवः
तदेवाऽऽह - अथ इति । अतः स्वैर्ज्ञातिभिः अज्ञाता गतिर्यस्य स भवानुदीचीं दिशं यातु । तत्र हेतुमाह - इतोऽर्वाक् इतोऽनन्तरं कालः प्रायशः पुंसां गुणानात्मगुणान् अक्रोधादीन् विकर्षत्यपनुदत इति तथाभूतः । नन्द्यादित्वाल्ल्युः । यद्वा इतोऽनन्तरका65लात् अर्वागधरः निकृष्टः कलिकाल इति यावत् । अर्वाक्त्वमेवाह गुणविकर्षण इति । गुणविकर्षणः उक्तार्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवं राजा विदुरेणानुजेन
प्रज्ञाचक्षुर्बोधित आजमीढः।
छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो
निश्चक्राम भ्रातृसंदर्शिताध्वा॥
मूलम्
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित66 आजमीढः।
छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा॥ २८ ॥
अनुवाद (हिन्दी)
जब छोटे भाई विदुरने अंधे राजा धृतराष्ट्रको इस प्रकार समझाया, तब उनकी प्रज्ञाके नेत्र खुल गये; वे भाई-बन्धुओंके सुदृढ़ स्नेह-पाशोंको काटकर अपने छोटे भाई विदुरके दिखलाये हुए मार्गसे निकल पड़े॥ २८॥
वीरराघवः
एवमित्थम् अनुजेन विदुरेण बोधित आजमीढः अजमीढवंशजः एतच्च नवमे स्फुटम् । प्रज्ञैव चक्षुर्यस्य अन्ध इति भावः । यद्वा अन्धत्वेऽपि प्रज्ञया चक्षुःस्थानीयया सर्वं साक्षात्कुर्वाणः राजा धृतराष्ट्रः, भ्रात्रा विदुरेण सन्दर्शितः अध्वा गन्तव्यदेशाध्वा यस्य सः अनेन विदुरोऽपि तेनैव सह निरगादिति सूच्यते । द्रढिम्नः नितरां दृढान् दृढमूलान् स्वेषु देह-तदनुबन्ध्यादिषु स्नेहा अनुरागाः त एव पाशाः पाशवत् ब67न्धहेतुत्वात् तान् छित्वा निश्चक्राम गृहादिति शेषः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
पतिं प्रयान्तं सुबलस्य पुत्री
पतिव्रता चानुजगाम साध्वी।
हिमालयं न्यस्तदण्डप्रहर्षं
मनस्विनामिव सत्सम्प्रहारः॥
मूलम्
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुज68गाम साध्वी।
हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामि69व स70त्सम्प्र71हारः॥ २९ ॥
अनुवाद (हिन्दी)
जब परम पतिव्रता सुबलनन्दिनी गान्धारीने देखा कि मेरे पतिदेव तो उस हिमालयकी यात्रा कर रहे हैं जो संन्यासियोंको वैसा ही सुख देता है जैसा वीर पुरुषोंको लड़ाईके मैदानमें अपने शत्रुके द्वारा किये हुए न्यायोचित प्रहारसे होता है। तब वे भी उनके पीछे-पीछे चल पड़ीं॥ २९॥
वीरराघवः
पतिमिति । सुबलस्य पुत्री गान्धारी न्यस्तः त्यक्तो दण्डो भूतद्रोहो यैः तेषां सर्वभूतसुहृदां योगिनां प्रहर्षं हर्षकरं हिमालयं प्रति यान्तं गच्छन्तं पतिमनुजगाम । युक्तं चैतदित्यभिप्रायेण तं72 विशिनष्टि पतिव्रता साध्वी चेति । मनस्विनामिवेति स धृतराष्ट्रनिर्गम इत्यध्याहारः । स निर्गमः मनस्विनां विवेकिनां सम्प्रहार इव स73न् अवस्थितः । मनस्विनामुद्बोधक इवावर्ततेत्यर्थः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
अजातशत्रुः कृतमैत्रो हुताग्नि-
र्विप्रान् नत्वा तिलगोभूमिरुक्मैः।
गृहं प्रविष्टो गुरुवन्दनाय
न चापश्यत्पितरौ सौबलीं च॥
मूलम्
अजातशत्रुः कृतमैत्रो74 हुताग्निर्विप्रान् नत्वा ति75लगोभू76मिरुक्मैः।
गृहं प्रविष्टो गुरुवन्दनाय न77 चापश्यत् पितरौ सौबलीं च॥ ३० ॥
अनुवाद (हिन्दी)
अजातशत्रु युधिष्ठिरने प्रातःकाल सन्ध्या-वन्दन तथा अग्निहोत्र करके ब्राह्मणोंको नमस्कार किया और उन्हें तिल, गौ, भूमि और सुवर्णका दान दिया। इसके बाद जब वे गुरुजनोंकी चरणवन्दनाके लिये राजमहलमें गये, तब उन्हें धृतराष्ट्र, विदुर तथा गान्धारीके दर्शन नहीं हुए॥ ३०॥
वीरराघवः
ततोऽजातशत्रुर्हुता अग्नयः आहवनीयादयो येन तथाभूतः अनेन रात्रावेव धृतराष्ट्रो निरगादिति सूचितम् । तिलादिभिः सत्कृत्य विप्रान् नत्वा पि78त्रोः कृतं मैत्रं येन सः अत एव गुर्वोः गान्धारीधृतराष्ट्रयोः वन्दनाय तयोर्गेहं प्रविष्टः । पितरौ धृतराष्ट्रविदुरौ सौबलीं गान्धारीं नापश्यत् न ददर्श । पितराविति द्विवचनेन विदुरो विवक्षितः, सौबल्याः गान्धार्याः पृथगुपादानात् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः।
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः॥
अनुवाद (हिन्दी)
युधिष्ठिरने उद्विग्नचित्त होकर वहीं बैठे हुए संजयसे पूछा—‘संजय! मेरे वे वृद्ध और नेत्रहीन पिता धृतराष्ट्र कहाँ हैं?॥ ३१॥
वीरराघवः
ततस्तत्र धृतराष्ट्रगृहेष्वासीनम् उपविष्टं सञ्जयं धृतराष्ट्रस्य गीतोपदेष्टारं अजातशत्रुः पप्रच्छ । कथम्भूतः ? उद्विग्नं भीतं मानसं यस्य तथाभूतः । प्रश्नमेवाह - गावल्गणे इत्यादिभिस्त्रिभिः । हे गावल्गणे! सञ्जय! नः अस्माकं तातः पिता नेत्रयोः नेत्राभ्यां हीनः रहितः वृद्धश्च क्व गतः ? हताः पुत्राः यस्याः सा अत एवाऽऽर्ता दुःखिता च मा81ता गान्धारी च क्व गता तथा पितृव्यः पितृभ्राता सुहृच्च विदुरः क्व गतः ? अपीत्यपिशब्दः सम्भावनाद्योतकः, प्रश्नद्योतको वा ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत्।
अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया।
आशंसमानः शमलं गङ्गायां दुःखितोऽपतत्॥
मूलम्
अम्बा च82 हतपुत्राऽऽर्ता पितृव्यः क्व ग83तस्सुहृत्।
अपि मय्यकृतप्रज्ञे हतबन्धुस्स84भार्यया।
आशंसमानश्शमलं गङ्गायां दुःखितोऽपतत्॥ ३२ ॥
अनुवाद (हिन्दी)
पुत्रशोकसे पीड़ित दुखिया माता गान्धारी और मेरे परम हितैषी चाचा विदुरजी कहाँ चले गये? ताऊजी अपने पुत्रों और बन्धु-बान्धवोंके मारे जानेसे दुःखी थे। मैं बड़ा मन्दबुद्धि हूँ—कहीं मुझसे किसी अपराधकी आशंका करके वे माता गान्धारीसहित गंगाजीमें तो नहीं कूद पड़े॥ ३२॥
वीरराघवः
हताः मया हताः बन्धवः पुत्रा यस्य सः अत एव दुःखितः भार्यया सहाकृतप्रज्ञे विवेकर85हिते मयि दोषं शमलमपराधमिति यावत् । आशंसमानः चिन्तयन् गङ्गायां अपतत् पतितवान् स्यात् पतितवान् किमिति वाऽर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून्।
अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः॥
मूलम्
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून्।
अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः॥ ३३ ॥
अनुवाद (हिन्दी)
जब हमारे पिता पाण्डुकी मृत्यु हो गयी थी और हमलोग नन्हे-नन्हे बच्चे थे, तब इन्हीं दोनों चाचाओंने बड़े-बड़े दुःखोंसे हमें बचाया था। वे हमपर बड़ा ही प्रेम रखते थे। हाय! वे यहाँसे कहाँ चले गये?’॥ ३३॥
वीरराघवः
वात्सल्ययुक्तत्वात् सापराधेष्वपि दोषमनवेक्ष्य अपकारमप्युपकारत्वेन चिन्तयन् पृच्छति । पितरि पाण्डौ उपरते मृते सति सर्वान् नः अस्मान् सुहृदः पुत्रान् शिशून् व्यसनतः आपद्भ्यः यावरक्षतां तौ पितृव्यौ पितृभ्रातरौ धृतराष्ट्रविदुरावितः क्व गतौ ? छत्रिन्यायेन विदुराभिप्रायाद्वा व्यसनतोऽरक्षतामित्युक्तम् ॥ ३३ ॥
श्लोक-३४
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः॥
मूलम्
कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शि86तः।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः॥ ३४ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—संजय अपने स्वामी धृतराष्ट्रको न पाकर कृपा और स्नेहकी विकलतासे अत्यन्त पीड़ित और विरहातुर हो रहे थे। वे युधिष्ठिरको कुछ उत्तर न दे सके॥ ३४॥
वीरराघवः
एवमुक्तस्सूतः सञ्जयः आत्मनः स्वस्य ईश्वरं प्रभुं धृतराष्ट्रमचक्षाणः अ87पश्यन् अत एव अतीव पीडितो दुःखितः तद्विरहेण कर्शितः क्षणादेव कृशीभूतस्सन् कृपया स्नेहवैकृतवैक्लव्यात् अधार्ष्ट्यात् च तावन्न प्रत्याह प्रत्युत्तरं वक्तुं न प्रबभूवेत्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना।
अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन्॥
मूलम्
विमृज्या88श्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना।
अजातशत्रुं प्रत्यूचे प्र89भोः पादावनुस्मरन्॥ ३५ ॥
अनुवाद (हिन्दी)
फिर धीरे-धीरे बुद्धिके द्वारा उन्होंने अपने चित्तको स्थिर किया, हाथोंसे आँखोंके आसूँ पोंछे और अपने स्वामी धृतराष्ट्रके चरणोंका स्मरण करते हुए युधिष्ठिरसे कहा॥ ३५॥
वीरराघवः
ततश्शनैः पाणिभ्यामश्रूणि विमृज्य आत्मना विवेकात्मिकया धिया आत्मानं सङ्कल्पविकल्पात्मकं मनो विष्टभ्य प्रतिबद्ध्य स्थिरीकृत्य प्रभोः धृतराष्ट्रस्य पादावनुस्मरन्नजातशत्रुं प्रत्यूचे ॥ ३५ ॥
श्लोक-३६
मूलम् (वचनम्)
सञ्जय उवाच
विश्वास-प्रस्तुतिः
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन।
गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः॥
मूलम्
ना90हं वे91द व्यवसितं पित्रोर्वः कुल92नन्दन!
गा93न्धार्या वा94 महाबाहो मुचितोऽस्मि महात्मभिः॥ ३६ ॥95
अनुवाद (हिन्दी)
संजय बोले—कुलनन्दन! मुझे आपके दोनों चाचा और गान्धारीके संकल्पका कुछ भी पता नहीं है। महाबाहो! मुझे तो उन महात्माओंने ठग लिया॥ ३६॥
वीरराघवः
उक्तिमेवाऽऽह - नेति । हे कुरुनन्दन! वो युष्माकं पित्रोः विदुरधृतराष्ट्रयोः गान्धार्याश्च व्यवसितं निश्चितं नाहं वेद्मि । हे! महाबाहो! त्वमिव अहमपि महात्मभिः तैः मुषितोऽस्मि वञ्चितोऽस्मि ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
अथाजगाम भगवान् नारदः सहतुम्बुरुः।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्निव॥
अनुवाद (हिन्दी)
संजय इस प्रकार कह ही रहे थे कि तुम्बुरुके साथ देवर्षि नारदजी वहाँ आ पहुँचे। महाराज युधिष्ठिरने भाइयोंसहित उठकर उन्हें प्रणाम किया और उनका सम्मान करते हुए बोले—॥ ३७॥
वीरराघवः
अथ तस्मिन्नेव समये तुम्बुरुणा सहितो भगवान्नारदः तत्राऽऽजगाम । तमवलोक्य सानुजो युधिष्ठिरः प्रत्युत्थायाभिवाद्य अभ्यर्चयन्त्रेवाऽऽह ॥ ३७ ॥
श्लोक-३८
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः।
अम्बा वा हतपुत्राऽऽर्ता क्व गता च तपस्विनी॥
मूलम्
नाहं वेद गतिं पित्रोर्भगवन् क्व ग98तावितः।
अम्बा वा हतपुत्राऽऽर्ता क्व गता च99 तपस्विनी॥ ३८ ॥100
अनुवाद (हिन्दी)
युधिष्ठिरने कहा—‘भगवन्! मुझे अपने दोनों चाचाओंका पता नहीं लग रहा है; न जाने वे दोनों और पुत्र-शोकसे व्याकुल तपस्विनी माता गान्धारी यहाँसे कहाँ चले गये॥ ३८॥
वीरराघवः
उक्तिमेवाऽऽह - नाहमिति द्वाभ्याम् । भगवन्! पित्रोर्गतिं नाहं वेद अहं न जाने । तावितः क्व गतौ ? तथा हतपुत्रा आर्ता च तपस्विनी पतिव्रता च अम्बा क्व गता ? ॥ ३८ ॥
मूलम्
एतस्मिन्नन्तरे वि101प्रा नारदः प्रत्यदृश्यत ।
वीणां त्रितन्त्रीं ध्वनयन् भगवान् सहतुम्बुरुः ॥ १ ॥
मूलम्
राज्ञाऽऽरोपनीतार्ध्यं प्रत्युत्थानाभिवन्दितम् ।
परमासन आसीनं कौरवेन्द्रोऽभ्यभाषत ॥ २ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
कर्णधार इवापारे भगवान् पारदर्शकः।
अथाबभाषे भगवान् नारदो मुनिसत्तमः॥
अनुवाद (हिन्दी)
भगवन्! अपार समुद्रमें कर्णधारके समान आप ही हमारे पारदर्शक हैं।’ तब भगवान्के परमभक्त भगवन्मय देवर्षि नारदने कहा—॥ ३९॥
वीरराघवः
दिष्ट्येत्यानन्दद्योतकमव्ययम् । चादेः आकृतिगणत्वात् निपातसंज्ञायां “स्वरादिनिपातमव्ययम्” (अष्टा. 1-1-37) इत्यव्ययसंज्ञा । व्यसनार्णवे पितृविश्लेषजदुःखार्णवे मग्नानामस्माकम् । कर्तरि षष्ठी, नः अस्माभिः भगवांस्त्वं दिष्ट्या दृष्टः । त्वद्दर्शनेन व्यसनमपगतमेव, आनन्दश्च भविष्यतीति भावः । कथं दृष्टः ? अपारे दुष्प्रापतीरे समुद्रे तत्तारयिता कर्णधार इव नाविक इव न105स्त्वं पित्रोर्गतिं ब्रूहि । न वेद्मीति मावोच इत्यभिप्रायेण तं विशिनष्टि । पारदर्शनः सर्वस्यापि अवधिदर्शनः सर्वज्ञ इति यावत् । हे भार्गव! इत्थं धर्मपुत्रेण युधिष्ठिरेण पृष्टः सर्वज्ञः भगवान् मुनिश्रेष्ठो नारदः तमाबभाषे ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
मा कंचन शुचो राजन् यदीश्वरवशं जगत्।
लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः।
स संयुनक्ति भूतानि स एव वियुनक्ति च॥
मूलम्
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत्।
लोकास्सपाला यस्येमे वहन्ति बलिमीशितुः।106
स संयुनक्ति भूतानि स एव वियुनक्ति च॥ ४० ॥107
अनुवाद (हिन्दी)
‘धर्मराज! तुम किसीके लिये शोक मत करो; क्योंकि यह सारा जगत् ईश्वरके वशमें है। सारे लोक और लोकपाल विवश होकर ईश्वरकी ही आज्ञाका पालन कर रहे हैं। वही एक प्राणीको दूसरेसे मिलाता है और वही उन्हें अलग करता है॥ ४०॥
वीरराघवः
भाषणमेवाऽऽह - मा कञ्चनेति विंशत्या । यत्पृष्टं पित्रोर्गतिं ब्रूहित्वमिति तस्योत्तरं विवक्षुः तावत्तत्तज्जीवकर्मानुगुणसुखदुःखादिफलप्रदानप्रवृत्तेश्वरायत्तत्वात् कृत्स्नस्य जगतः तदन्तर्गतस्त्वं क108र्मायत्तत्वादिह तदनुबस्ध्यादि संश्लेषविश्लेषनिमित्तं शोकं माकुर्विति वैराग्योत्पादनाय आह चतुर्भिः । हे राजन्! कञ्चन देहं तदनुबन्धिनं वा कञ्चिदपि मा शुचः शोकं मा कार्षीः । कुतः ? यत् यस्मात् इदं जगत् ईश्वरवशं कर्मानुगुणफलदानप्रवृत्तेश्वरायत्तं तन्नियाम्यमित्यर्थः । कोऽसावीश्वर इत्यत्राऽऽह - सपाला इन्द्रादिलोकपालैः सहिताः लोकाः विरिञ्चिप्रभृत्यकिञ्चनपर्यन्ता इमे जनाः यस्य ईशितुः बलिं पूजां वहन्ति किङ्करा भवन्तीत्यर्थः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
यथा गावो नसि प्रोतास्तन्त्यां बद्धाः स्वदामभिः।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः॥
मूलम्
यथा गावो नसि प्रोतास्तन्त्यां109 ब110द्धाः स्वदामभिः।
वाक्तन्त्यां111 नामभिर्बद्धा वहन्ति बलिमीशितुः॥ ४१ ॥
अनुवाद (हिन्दी)
जैसे बैल बड़ी रस्सीमें बँधे और छोटी रस्सीसे नथे रहकर अपने स्वामीका भार ढोते हैं, उसी प्रकार मनुष्य भी वर्णाश्रमादि अनेक प्रकारके नामोंसे वेदरूप रस्सीमें बँधकर ईश्वरकी ही आज्ञाका अनुसरण करते हैं॥ ४१॥
वीरराघवः
बलिवहनमेव सदृष्टान्तमुपपादयति - यथेति । तन्ती112 तिरश्चीना महती रज्जुस्त113त्र बद्धाः क्षुद्ररजव उपदामानि यद्वा तन्ती114 नासारज्जुः तत्सम्बद्धा आकर्षणपाशा दामानि । यथा गावः चतुष्पादः नसि रन्ध्रीकृतायां नासिकायां प्रोताः संयुक्तरज्जवः त115तस्तन्त्यामुपदामभिः बद्धाः द्विपदे किं कुर्वन्ति । तथा वाक्तन्त्यां116 वेदाख्यतन्त्यां117 नामभिः वर्णाश्रमविशेषान्वयात्मकनामभिः उपदामस्थानीयैः बद्धाः सपाला लोकाः ईशितुः ईशस्य बलिं वहन्ति ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
यथा क्रीडोपस्कराणां संयोगविगमाविह।
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्॥
मूलम्
यथा क्रीडोपस्कराणां संयोगविगमाविह।
इच्छया क्रीडितुस्स्यातां तथैवेशेच्छया नृणाम्॥ ४२ ॥
अनुवाद (हिन्दी)
जैसे संसारमें खिलाड़ीकी इच्छासे ही खिलौनोंका संयोग और वियोग होता है, वैसे ही भगवान्की इच्छासे ही मनुष्योंका मिलना-बिछुड़ना होता है॥ ४२॥
वीरराघवः
किं देहतदनुबन्ध्यादीन् नित्यान् मत्वा शोचसि, किं वाऽनित्यान्, अथवा उभयथा अपि ? तथाऽपि न ते शोकविषया इति वक्तुं तावत् देहादिश्लेषविश्लेषौ क्रीडार्थं जगद्व्यापारे प्रवृत्ते118श्वरस्येच्छया तत्तत्कर्मानुगुण्येन सम्पद्येते इति सदृष्टान्तमाह । यथेह लोके कस्यचित् क्रीडितुः पुंस इच्छया क्रीडोपस्कराणां क्रीडासाधनानां संयोगवियोगावन्यथा च भवतः यथा क्रीडोपस्कराः क्रीडितुरिच्छया कदाचित् संश्लिष्य पुनस्तदिच्छयैव विश्लिष्टाश्च भवन्ति । तथा ईश्वरेच्छया नृणामपि संयोगवियोगौ स्याताम् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम्।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात्॥
मूलम्
यन्मन्यसे ध्रुवं लोकमध्रुवं वा119 न चोभयम्।
स120र्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात्॥ ४३ ॥
अनुवाद (हिन्दी)
तुमलोगोंको जीवरूपसे नित्य मानो या देहरूपसे अनित्य अथवा जडरूपसे अनित्य और चेतनरूपसे नित्य अथवा शुद्धब्रह्मरूपमें नित्य-अनित्य कुछ भी न मानो—किसी भी अवस्थामें मोहजन्य आसक्तिके अतिरिक्त वे शोक करनेयोग्य नहीं हैं॥ ४३॥
वीरराघवः
उक्तं शिरस्त्रयमनुवादपूर्वकं प्रतिक्षिपति । यदि लोकं ध्रुवं स्थिरं मन्यसे यद्वा अधुवं अथवा उभयं; तत्र तावत् तृतीयः कल्पोऽसम्भवादेव निरस्त इत्यभिप्रायेणाऽऽह - न चोभयमिति । न हि द्व्यात्मकं वस्तु दृष्टं श्रुतं वे121त्यर्थः । परस्परविरुद्धयोः ध्रुवत्वाधुवत्वयोः एकत्र समावेशोऽसम्भवनिरस्त इति भावः तदभ्युपगम्यापि तेन सह इतरच्छिरोद्वयं प्रतिक्षिपति, सर्वथेति ध्रुवत्वेऽध्रुवत्वे च उभयविधत्वे च ते देहादयः तत्त्वमेवेति न शोच्याः; त122त्त्वादेव न शोच्याः । न हि वस्तुतो123 यावदात्मभावि124धर्मः केनाप्यपनेतुं शक्य इति भावः । एवं सति तच्छोकहेतुः केवलं देहात्मभ्रममूलकः देहादिषु अनुराग एव इत्यभिप्रायेण स्नेहादन्यत्र मोहजादिति । मोहजात् देहात्मभ्रमजात् स्नेहात् अन्यत्र अन्यस्मिन् शोकमोहहेतुत्वं नास्तीति शेषः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः।
कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना॥
मूलम्
तस्माज्जह्यङ्ग! वैक्लव्यमज्ञानकृतमात्मनः।
कथं त्व125नाथाः कृपणा व126र्तेरंस्ते च मां विना॥ ४४ ॥
अनुवाद (हिन्दी)
इसलिये धर्मराज! वे दीन-दुःखी चाचा-चाची असहाय अवस्थामें मेरे बिना कैसे रहेंगे, इस अज्ञानजन्य मनकी विकलताको छोड़ दो॥ ४४॥
वीरराघवः
तस्मात् अङ्ग! हे राजन्! अज्ञानकृतं देहात्मभ्रमकृतं आत्मनः स्वस्थ स्वमनसो वा वैक्लव्यं दैन्यं जहि अपनय । तदभिप्रेतं प्रश्नान्तरं सर्वज्ञत्वात् स्वयमेव आविष्कृत्य प्रतिवक्ति - कथमिति सार्धद्वयेन । तत्र कथमित्यर्धेन प्रश्नाविष्कारः, ततः श्लोकद्वयेन तस्य प्रतिवचनमिति विवेकः । मां विना अनाथा रक्षितृहीना, अत एव दीनास्ते कथं वर्तेरन् जीवेरन्निति शब्दोऽत्र अध्याहर्तव्यः । कथं जीवेरन्निति पृच्छसि चेदित्यर्थः ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः।
कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम्॥
मूलम्
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः।
कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथापरम्॥ ४५ ॥
अनुवाद (हिन्दी)
यह पांचभौतिक शरीर काल, कर्म और गुणोंके वशमें है। अजगरके मुँहमें पड़े हुए पुरुषके समान यह पराधीन शरीर दूसरोंकी रक्षा ही क्या कर सकता है॥ ४५॥
वीरराघवः
तावत् तत्तुल्ययोगक्षेमे स्वस्मिन् तद्रक्षकत्वाभिमानं त्यजेत्यभिप्रायेणाऽऽह - कालेति । कर्मादृष्टं, गुणाः सत्त्वादयः, पृथिव्यादिपञ्चभूतारब्धोऽयं देहः कालाद्यधीनः । अयमित्यनेन त्वद्देहोऽप्येवंविध एव इति सूचितम् । स्वयमेवंविधदेहः कथमन्यान् गोपायेत् रक्षेत् ? न रक्षेदेवेत्यर्थः । यथा स्वयं सर्पग्रस्तः अन्यान् तद्ग्रस्तान् न गोपायति तद्वत् ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
अहस्तानि सहस्तानामपदानि चतुष्पदाम्।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्॥
अनुवाद (हिन्दी)
हाथवालोंके बिना हाथवाले, चार पैरवाले पशुओंके बिना पैरवाले (तृणादि) और उनमें भी बड़े जीवोंके छोटे जीव आहार हैं। इस प्रकार एक जीव दूसरे जीवके जीवनका कारण हो रहा है॥ ४६॥
वीरराघवः
अस्त्वेवमथाऽपि जीविकावति गृहे स्थितानामस्माकं जीवनं सुशकम् । कथमितः गतानां तेषां जीवन स्वादित्यत आह - अहस्तानीति । अहस्तानि भूतानि सहस्तानां तेषां जीवनं यथालाभं यथायोग्यं औषधिफलमूलपशुमृगादीनि जीवनमित्यर्थः । तथा हस्तरहितानामपि चतुष्पदां अपदान्यविद्यमानपादादि129भूतानि जीवनं, तत्रापि अपदेष्वपि महतामजगरादीनां भूतानां फल्गूनि क्षुद्राणि भूतानि जीवनम् । किं बहुना जीवस्य सजीवस्य भूतस्य जीव एव जीवनम् । जीवनशब्दः भक्ष्यपरः ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
तदिदं भगवान् राजन्नेक आत्माऽऽत्मनां स्वदृक्।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा॥
मूलम्
तदिदं भगवान् राजन्नेक आत्माऽऽत्मनां स्वदृक्।
अन्तरोऽनन्तरो भाति प130श्य तं माययोरुधा131॥ ४७ ॥
अनुवाद (हिन्दी)
इन समस्त रूपोंमें जीवोंके बाहर और भीतर वही एक स्वयंप्रकाश भगवान्, जो सम्पूर्ण आत्माओंके आत्मा हैं, मायाके द्वारा अनेकों प्रकारसे प्रकट हो रहे हैं; तुम केवल उन्हींको देखो॥ ४७॥
वीरराघवः
सर्वत्र वने गृहे वा भगवानेव रक्षिता इत्यभिप्रायेण तदुपयुक्ततया भगवतः सार्वात्म्यं कृत्स्नजगतः तदात्मकतया तदनन्यत्वं चाह - तदिति । हे राजन्! तदीश्वरवशत्वेनोक्तमिदं परिदृश्यमानं चिदचिदात्मकं जगत् भगवानेक एव मृदयं घट इतिवत् स्वरूपाभेदशङ्का वारयितुं विशिनष्टि । आत्मनां देवमनुष्यादिदेहभृतां जीवानामात्माऽन्तः प्रविश्य प्रशासनधारकत्वाभ्यामवस्थितः । आत्मशब्दस्यैतदेव हि प्रवृत्तिनिमित्तम् । यदन्तः प्रविश्य प्रशासनधारकत्वाभ्यामवस्थानम् । अनेन शरीरात्मभावनिबन्धनं जगद्ब्रह्मणोः अनन्यत्वमित्युक्तं भवति । शरीरात्मभावनिबन्धनश्च अनन्यत्वव्यपदेशो दृष्टचरः । आत्मा देवो जातः मनुष्यो जात इति व्याप्यवस्तुगतदोषसंस्पर्शशङ्कां निराकुर्वन् विशिनष्टि । स्वदृक् आत्मनामात्मतयाऽवस्थितोऽपि स्वात्मयाथात्म्यदर्शी, अतः नास्य दोषसंस्पर्श इति भावः । तथा च श्रूयते - “अनश्नन्नन्यो अभिचाकशीति” (मुण्ड. उ. 3-1-1) इति न केवलमन्तरात्मैव, अपि तु अन्तरोऽप्यनन्तरो भाति । बहिश्च भाति । नन्वेकस्य कथं देवमनुष्यादिरूपेण बहुधाऽवस्थानमित्यत्राऽऽह पश्य तं माययोरुधेति । मायया देवमनुष्यादिरूपेण परिणतया शरीरभूतया जीवसंस्पृ132ष्टया प्रकृत्या तं भगवन्तं उरुधा बहुधा पश्य चिदचिदात्मकदेवादिशरीरभेदेन एक एव स्थित इति विजानीहीत्यर्थः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
सोऽयमद्य महाराज भगवान् भूतभावनः।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम्॥
मूलम्
सोऽयमद्य महाराज! भगवान् भूतभावनः।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम्॥ ४८ ॥
अनुवाद (हिन्दी)
महाराज! समस्त प्राणियोंको जीवनदान देनेवाले वे ही भगवान् इस समय इस पृथ्वीतलपर देवद्रोहियोंका नाश करनेके लिये कालरूपसे अवतीर्ण हुए हैं॥ ४८॥
वीरराघवः
न केवलं त्वत्पितरः स्वार्थमेव निर्गता, अपि तु युष्पाभिरपि एवमेव निर्गन्तव्यमिति भवतां प्रदर्शनार्थमपि इत्यभिप्रायेणाऽऽह - सोऽयमिति द्वाभ्याम् । हे! महाराज! सः निखिलजगदन्तरात्मा वशीकृतलोकत्रय कालशरीरकोऽयं भगवान् श्रीकृष्णः भूतानि स्वाज्ञानुवर्तीनि भावयत्यभ्युदययुक्तानि करोतीति तथा; हेतुगर्भमिदं साधुपरित्रातृत्वात् इति भावः । सुरद्विषां दुष्कृतामभावाय नाशाय कालरूपो मृत्युरूपोऽस्यां भुव्यवतीर्णः का133लरूपत्वेनावतीर्णः ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते।
तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वरः॥
मूलम्
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते।
तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः॥ ४९ ॥
अनुवाद (हिन्दी)
अब वे देवताओंका कार्य पूरा कर चुके हैं। थोड़ा-सा काम और शेष है, उसीके लिये वे रुके हुए हैं। जबतक वे प्रभु यहाँ हैं तबतक तुमलोग भी उनकी प्रतीक्षा करते रहो॥ ४९॥
वीरराघवः
तेन च देवकृत्यं देवार्थं कर्तव्यं कृत्यं प्रयोजनं तद्विपक्षक्षपणरूपं निष्यादितं अधुना त्वयं भगवानवशेषं कर्तव्यप्रयोजनावशेषं स्वकुलविनाशात्मकमिति गूढाभिसन्धिः । प्रतीक्षते । अतो यावदिह भू134र्लोके भगवानीश्वरः कृष्णः भवेद्व135र्तेत । तावदेव यूयमपि अवेक्षध्वम्, त136था पितृवन्निर्गच्छतेति भावः ॥ ४९ ॥
श्लोक-५०
विश्वास-प्रस्तुतिः
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया।
दक्षिणेन हिमवत ऋषीणामाश्रमं गतः॥
वीरराघवः
ब्रूहि त्वमिति प्रकृतप्रश्नस्योत्तरमाह - धृतराष्ट्र इति द्वाभ्याम् । स्वभार्यया गान्धार्या भ्रात्रा वा विदुरेण च सह धृतराष्ट्रो हिमवतो दक्षिणेन ऋषीणामाश्रमं गतः । हिमवतः दक्षिणपार्श्वानन्तरवर्तिनमाश्रमं गत इत्यर्थः । “एनबन्यतरस्यामदूरेऽपञ्चम्याः " (अष्टा. 5-3-35) इत्यवध्यवधिमतोः सामीप्ये एनप्प्रत्यये व्युत्पन्नमिदं दक्षिणेनेत्यव्ययम् ॥ ५० ॥
श्लोक-५१
विश्वास-प्रस्तुतिः
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात्।
सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते॥
मूलम्
स्रोतोभिस्सप्तभिर्या139 वै स्वर्धुनी सप्तधा व्य140धात्।
सप्तानां प्रीतये ना141ना सप्तस्रोतः142 प्रचक्षते॥ ५१ ॥
अनुवाद (हिन्दी)
धर्मराज! हिमालयके दक्षिण भागमें, जहाँ सप्तर्षियोंकी प्रसन्नताके लिये गंगाजीने अलग-अलग सात धाराओंके रूपमें अपनेको सात भागोंमें विभक्त कर दिया है, जिसे ‘सप्तस्रोत’ कहते हैं, वहीं ऋषियोंके आश्रमपर धृतराष्ट्र अपनी पत्नी गान्धारी और विदुरके साथ गये हैं॥ ५०-५१॥
वीरराघवः
कोऽसावाश्रम इत्यत्राऽऽह - स्रोतोभिरिति । यं सप्तस्त्रोत इति प्रचक्षते तमाश्रमं गत इत्यन्वयः । तत्र तन्नाम्नः प्रवृत्तौ निमित्तमाह - य143त्रेति । प्रसिद्धा स्वर्धुनी स्वर्गनदी गङ्गा सप्तानामृषीणां प्रीतये यतः सप्तभिः स्रोतोभिः प्रवाहैर्नाना बहुधा त144देवाऽऽह सप्तधा व्यधात् । सुविभक्ता बभूव । अतस्तं देशं सप्तस्रोत इत्याचक्षते । यमेवमाचक्षते तं गता इत्यर्थः ॥ ५१ ॥
श्लोक-५२
विश्वास-प्रस्तुतिः
स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः॥
मूलम्
स्नात्वानुऽ145सवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि।
अब्भक्ष उपशान्तात्मा स146 आस्ते विगतै147षणः॥ ५२ ॥
अनुवाद (हिन्दी)
वहाँ वे त्रिकाल स्नान और विधिपूर्वक अग्निहोत्र करते हैं। अब उनके चित्तमें किसी प्रकारकी कामना नहीं है, वे केवल जल पीकर शान्तचित्तसे निवास करते हैं॥ ५२॥
वीरराघवः
तत्र किं करिष्यति, कथं वा वर्तिष्यते इत्यत्राऽऽह - तत्रानुसवनं त्रिसन्ध्यं स्नात्वा अग्नीन् यथाविधि हत्वा चाब्भक्षः अप एव भक्षयन् उपशान्तः रा144गाद्यकलुषित आत्मा मनो यस्य विगता ईषणाः दारेषणा धनेषणा पुत्रेषणा यस्य तथाभूत आस्ते आसिष्यते ॥ ५२ ॥
श्लोक-५३
विश्वास-प्रस्तुतिः
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः।
हरिभावनया ध्वस्तरजःसत्त्वतमोमलः॥
मूलम्
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः।
हरिभावनया ध्वस्तरजस्सत्त्वतमोमलः॥ ५३ ॥
अनुवाद (हिन्दी)
आसन जीतकर प्राणोंको वशमें करके उन्होंने अपनी छहों इन्द्रियोंको विषयोंसे लौटा लिया है। भगवान्की धारणासे उनके तमोगुण, रजोगुण और सत्त्वगुणके मल नष्ट हो चुके हैं॥ ५३॥
वीरराघवः
जितमासनं येन सः चिरम् आसीनोऽपि क्लमरहित इत्यर्थः । जिताः श्वासाः प्राणादिवायवो येन सः । प्रत्याहृतानि शब्दादिविषयेभ्यो नियमितानि षडिन्द्रियाणि येन । हरिभावनया भगवद्रू148पानुस्मृत्या ध्वस्तानि निरस्तानि रजआदिगुणत्रयकार्याणि मुक्तिप्रतिबन्धकानि पु149ण्यापुण्यादिरूपाणि मलानि यस्य तथाभूतः ॥ ५३ ॥
श्लोक-५४
विश्वास-प्रस्तुतिः
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे॥
मूलम्
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे॥ ५४ ॥
वीरराघवः
विज्ञानात्मनि विज्ञानस्वरूपे क्षेत्रज्ञे प्रत्यगात्मनि अभिसंयोज्य पूर्वं प्रस्तुतानि इन्द्रियाणि इत्यर्थात् सिद्धम् । इन्द्रियाणि संयोज्य इन्द्रियैः अनाकृष्टचित्त इत्यर्थः । तमात्मानं क्षेत्रज्ञमाधारे धारके ब्रह्मणि विलाप्य विलीनं कृत्वा उपाधिविधूननेन ब्रह्मसमानाकारतया अनुसन्धायेति यावत् । तत्र दृष्टान्तमाह - घटाम्बरमिवाम्बरं इति । महाकाशे घटाकाशमिव ब्रह्मण्य150ज्ञानं प्रविलाप्य स्थाणुरिव आस्त इत्युत्तरेणान्वयः । अम्बरदृष्टान्तेन जीवब्रह्मणोः स्वरूपैक्यमनुसन्धायेति न भ्रमितव्यम् । घटाद्युपाध्यपगमेन घटाकाशस्य महाकाशसंश्लेषेऽपि स्वरूपभेदसद्भावात् । पञ्चीक151रणस्मरणात् आकाशेऽप्यंशभेदस्य वेदान्तिभिरवश्य152मङ्गीकृतत्वात् यदि153 आकाशेऽशभेदो नाभ्युपगम्येत तदा कृत्स्नस्याप्याकाशस्य घटाद्युपहितत्वप्रसङ्गः । न चेष्टापत्तिः, घटाकाशमहाकाशयोर्व्याप्यव्यापकता154याः वैपरीत्यापातात् कास्र्त्स्न्येन आकाशस्य घटोपहितत्वे हि तत्परिच्छिन्नस्य आकाशस्य व्याप्यत्वं सुस्पष्टम् । अतः संश्लेषदशायामपि घटाकाशमहाकाशयोः प्रदेशभेदः अस्त्येव । उपाध्यपगमेन समानाकारत्वमात्राभिप्रायक एवायं दृष्टान्त इत्यवगन्तव्यम् ॥ ५४ ॥
श्लोक-५५
विश्वास-प्रस्तुतिः
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः।
तस्यान्तरायो मैवाभूः संन्यस्ताखिलकर्मणः॥
मूलम्
ध्वस्तमायागुणोद155र्को निरुद्धकरणाशयः।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाच156लः।
तस्यान्तरायो मैवाभूः157 संन्यस्ताखिलकर्मणः॥ ५५ ॥
अनुवाद (हिन्दी)
उन्होंने अहंकारको बुद्धिके साथ जोड़कर और उसे क्षेत्रज्ञ आत्मामें लीन करके उसे भी महाकाशमें घटाकाशके समान सर्वाधिष्ठान ब्रह्ममें एक कर दिया है। उन्होंने अपनी समस्त इन्द्रियों और मनको रोककर समस्त विषयोंको बाहरसे ही लौटा दिया है और मायाके गुणोंसे होनेवाले परिणामोंको सर्वथा मिटा दिया है। समस्त कर्मोंका संन्यास करके वे इस समय ठूँठकी तरह स्थिर होकर बैठे हुए हैं, अतः तुम उनके मार्गमें विघ्नरूप मत बनना*॥ ५४-५५॥
पादटिप्पनी
- देवर्षि नारदजी त्रिकालदर्शी हैं। वे धृतराष्ट्रके भविष्य-जीवनको वर्तमानकी भाँति प्रत्यक्ष देखते हुए उसी रूपमें वर्णन कर रहे हैं। धृतराष्ट्र पिछली रातको ही हस्तिनापुरसे गये हैं, अतः यह वर्णन भविष्यका ही समझना चाहिये।
वीरराघवः
ध्वस्तः मायागुणानां रजआदीनां उदर्को रागद्वेषादिकार्यद्वारा उत्तरोदयो यस्य । निरुद्धानि करणानि इन्द्रियाणि आशयो वासना अन्तःकरणं वा येन । निवर्तिता अखिलाः सर्वे आहाराः अब्भक्षणादयोऽपि येन तथाभूतः स्थाणुरिवाचलो निश्चल आस्ते आसिष्यते । “प्रत्याहृतषडिन्द्रिय” इत्यनेन इन्द्रियाणां विषयेभ्य आकर्षणमात्रमुक्तम् । “निरुद्धकरणाशय” इत्यनेन तु पुनर्विषयेषु प्रवृत्तिप्रतिबन्ध उक्तः । अतो न पौनरुक्त्यम् । तथा ध्वस्तरजस्तमोमल इत्यनेन पुण्यपापाद्यभाव उक्तः । “ध्वस्तमायागुणोदर्क” इत्यनेन पुण्यापुण्यमूलकरागद्वेषाद्यभाव उक्तः । तथा तावदब्भक्ष158स्ततो निवर्तिताखिलाहार इति ॥ ५५ ॥
श्लोक-५६
विश्वास-प्रस्तुतिः
स वा अद्यतनाद् राजन्परतः पञ्चमेऽहनि।
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति॥
अनुवाद (हिन्दी)
धर्मराज! आजसे पाँचवें दिन वे अपने शरीरका परित्याग कर देंगे और वह जलकर भस्म हो जायगा॥ ५६॥
वीरराघवः
कथं चित्तमानयिष्यामीति युधिष्ठिराभिप्रायमालक्ष्य आह - तस्येति । संन्यस्तानि त्यक्तान्यखिलानि देहधारणार्थान्यपि कर्माणि येन तस्य धृतराष्ट्रस्यान्तरायो विघ्नभूतः त्वं मा भूः न भव । हे राजन्! स धृतराष्ट्रः अद्यतनाद्वर्तमानदिनादारभ्य परतः पञ्चमेऽहनि स्वं कलेवरं हास्यति वै नूनं त्यक्ष्यति । तच्चकलेबरं योगाग्निनैव भस्मीभविष्यतीति ॥ ५६ ॥
श्लोक-५७
विश्वास-प्रस्तुतिः
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे।
बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति॥
मूलम्
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे।
बहिःस्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति॥ ५७ ॥
अनुवाद (हिन्दी)
गार्हपत्यादि अग्नियोंके द्वारा पर्णकुटीके साथ अपने पतिके मृतदेहको जलते देखकर बाहर खड़ी हुई साध्वी गान्धारी भी पतिका अनुगमन करती हुई उसी आगमें प्रवेश कर जायँगी॥ ५७॥
वीरराघवः
तदा161 सहोटजे पर्णशालासहिते भर्तुः देहे अग्निभिर्दह्यमाने सति तस्य पत्नी साध्वी पतिव्रता गान्धारी बहिःस्थिता तमग्निमनुवेक्ष्यत्यनुप्रवेक्ष्यति ॥ ५७ ॥
श्लोक-५८
विश्वास-प्रस्तुतिः
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन।
हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः॥
मूलम्
विदुरस्तु तदाश्चर्यं निशा162म्य कुरुनन्दन!
हर्षशोकयुतस्तस्मात् गन्ता तीर्थनिषेवकः॥ ५८ ॥
अनुवाद (हिन्दी)
धर्मराज! विदुरजी अपने भाईका आश्चर्यमय मोक्ष देखकर हर्षित और वियोग देखकर दुःखित होते हुए वहाँसे तीर्थ-सेवनके लिये चले जायँगे॥ ५८॥
वीरराघवः
हे कुरुनन्दन! ततस्तदाश्चर्यं निशाम्य दृष्ट्वा विदुरः हर्षशोकाभ्यां भ्रातुः मुक्तिविश्लेषजाभ्यां युक्तः तस्माद्देशात् ती163र्थनिषेवकः सेवितुमिच्छन् गन्ता गमिष्यति ॥ ५८ ॥
श्लोक-५९
विश्वास-प्रस्तुतिः
इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः॥
मूलम्
इत्युक्त्वाऽथा164रुहत् स्वर्गं नारदस्सहतुम्बुरुः।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाऽजहा165च्छुचः॥ ५९ ॥
अनुवाद (हिन्दी)
देवर्षि नारद यों कहकर तुम्बुरुके साथ स्वर्गको चले गये। धर्मराज युधिष्ठिरने उनके उपदेशोंको हृदयमें धारण करके शोकको त्याग दिया॥ ५९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः॥ १३॥
वीरराघवः
इतीत्थम् उक्त्वा सहतुम्बुरुः भगवान् नारदः स्वर्गमारुहत् स्वर्गं प्रति ऊर्ध्वं जगामेत्यर्थः । युधिष्ठिरस्तु तस्य नारदस्य वचः हृदि कृत्वा निधाय शुचः शोकान् अजहात् तत्याज ॥ ५९ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां त्रयोदशोऽध्यायः ॥ १३ ॥
-
W धि ↩︎
-
A,B omit याथात्म्यं ↩︎
-
AF,GF गः ↩︎
-
A,B omit विदुरं ↩︎
-
B या ↩︎
-
K,M णान् ↩︎
-
K,M तान् ↩︎
-
K,M वन्द ↩︎
-
K,M मिश्र औ ↩︎
-
AF,GF सत्कृतं तु ↩︎
-
K,M स्वानां च; H,V स्वानां वि ↩︎
-
A,B णात्वया ↩︎
-
K,M वै चर ↩︎
-
N र्थीं ↩︎
-
H,K,M,V प्र ↩︎
-
K,M त्म ↩︎
-
K,M स्तावत् ↩︎
-
K,M दै ↩︎
-
K,M भ्रमता ↩︎
-
A,B चानुक्रमशः ↩︎
-
K,M तत्व ↩︎
-
AF,GF ह्यं ↩︎
-
AF,GF न्य ↩︎
-
B,H,K,V त्स्वकैः ↩︎
-
I सुख ↩︎
-
A,B अथ ↩︎
-
A,B कुर्वन् ↩︎
-
B,H,K,M,V घमघ ↩︎
-
K,M द्बभा ↩︎
-
AF,GF कुलोद्वहम् ↩︎
-
W म ↩︎
-
A,B परया ↩︎
-
K,M गृहे ↩︎
-
H,V,W म ↩︎
-
AF,GF यां न पश्येऽहं ↩︎
-
B,H,I,K,M,V,W ष ↩︎
-
AF,GF व ↩︎
-
A omits समुपस्थितः ↩︎
-
H,K,M,V चेहा ↩︎
-
H,V,W मुच्ये ↩︎
-
A,B omit मृत्यु ↩︎
-
I था ↩︎
-
N,W भीमेनाव ↩︎
-
A,B omit अत्ति ↩︎
-
B स्तु ↩︎
-
K,M तदन्नै ↩︎
-
W मत्यन्तं निही ↩︎
-
A,B नायित ↩︎
-
W निहीन ↩︎
-
W जीवित ↩︎
-
W किं विधे ↩︎
-
A,B भूय ↩︎
-
A,B हृदः ↩︎
-
W दं ↩︎
-
K,M मु ↩︎
-
AF,GF म ↩︎
-
W राग ↩︎
-
W बन्धाधायकानि ↩︎
-
W प्राप्तिप्रकाररूपा ↩︎
-
K,M स्वतः प ↩︎
-
AF,GF सम्यक् प्र ↩︎
-
A,B omit स्वस्मात् ↩︎
-
A,B omit निर्गच्छेत् ↩︎
-
W ष ↩︎
-
W कालः ↩︎
-
H,V तश्चा ; W तो ह्या ↩︎
-
W बन्धन ↩︎
-
W गता च ↩︎
-
K,M मवसत् संविहारम् ↩︎
-
B सन् स ↩︎
-
AF,GF सारम् ↩︎
-
A,B तां ↩︎
-
A,B omit सन् अव ↩︎
-
AF,GF त्रसत्कियो वि ↩︎
-
AF,GF वसु ↩︎
-
H,K,M,V वस्त्र ↩︎
-
AF,GF परं न पश्यत् ↩︎
-
A,B omit पित्रोः ↩︎
-
K,M द्ग ↩︎
-
AF,GF यातोऽसौ ↩︎
-
W अम्बा ↩︎
-
B,H,K, M,V,W वा ↩︎
-
K,M गतो इतः ; AF,GF गत स्सुकृत् ↩︎
-
H,K,M,V स्स्व ↩︎
-
W हीने ↩︎
-
B र्षि ↩︎
-
A,B अपश्यमानः ↩︎
-
H,V ज्य पाणिनाऽश्रूणि ↩︎
-
H,V भर्तुः ↩︎
-
H,V अहं व्यवसितं राजन्! ; K,M अहं च व्यंसितो राजन् ↩︎
-
B वेद्मि ↩︎
-
H,V रु ↩︎
-
H,V न वेद्मि साध्व्या गान्धार्या ; K,M न वेद साध्व्या गान्धार्या ↩︎
-
W श्च ↩︎
-
AF,GF अहं व्यवसितं रात्रौ पित्रोस्ते कुलनन्दन! न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ ↩︎
-
B,I,W न्मुनिम् ↩︎
- ↩︎
-
H,V गतः पिता ↩︎
-
W सा ↩︎
-
II Instead of this verse, the following two verses are seen in K & M. ↩︎
-
AF,GF विप्र! ↩︎
-
H,V पाहि मां ; K,M सीदतां ↩︎
-
H,K,M,V नः। ↩︎
-
W तमाब, M omits this line and it is not commented by श्रीविजयध्वजतीर्थ ↩︎
-
W अत ↩︎
-
K & M omit this line and it is not commmented by श्रीविजयध्वजतीर्थ ↩︎
-
This line (with in brackets in N) is not commented by श्रीवीरराघव. ↩︎
-
W कर्मायतदेह ↩︎
-
H,V,W न्त्र्यां ↩︎
-
B,I,W बद्धाश्च; H,V बद्धोप ↩︎
-
H,V,W न्त्र्यां ↩︎
-
W न्ती ↩︎
-
W स्तद् ↩︎
-
W न्त्री नाम ना ↩︎
-
W सन्तस्तन्त्र्या ↩︎
-
W न्त्र्यां ↩︎
-
W न्त्र्यां ↩︎
-
W त्तस्येश्च ↩︎
-
K,M चाथ वोभयम् ↩︎
-
H,V सर्वथाऽपि न ↩︎
-
W चे ↩︎
-
A,B omit तत्वादेव न शोच्याः ↩︎
-
A,B नो ↩︎
-
W षी ↩︎
-
B ह्य ↩︎
-
H,V वर्तेरन् बत मामृते; B,K,M वर्तेरन् वनमाश्रिताः; W जीवेरन् बत मां विना ↩︎
-
K,M दो द्वि ↩︎
-
K,M अणूनि तात! ↩︎
-
W नि ↩︎
-
H,V पश्य त्वं; K,M पश्यंस्त्वं ↩︎
-
K,M तां ↩︎
-
A,B सॄ ↩︎
-
A,B omit कालरूपत्वेनावतीर्णः ↩︎
-
W भूमौ ↩︎
-
A,B द्वर्तते ↩︎
-
A,B ततः ↩︎
-
AF,GF सु ↩︎
-
H,V वै; AF,GF हिमवत्पार्श्वे ↩︎
-
H,V र्याऽज्ञ; B,K,M र्यत्र ↩︎
-
K,M ऽभ्यगात्; AF,GF भवत् ↩︎
-
B,K,M,W नाम्ना ↩︎
-
AF,GF ताः ↩︎
-
W या वै ↩︎
-
K,M त्रिषवणं ↩︎
-
B तत्रास्ते ↩︎
-
W तेषण:; K.M तेक्षणः ↩︎
-
W द्रूप धुवानु ↩︎
-
A,B omit पुण्या ↩︎
-
A,B ण्यात्मानं ↩︎
-
A,B करणात् आका ↩︎
-
W श्याङ्गीकार्यत्वात् ↩︎
-
W दा ↩︎
-
B तायां; W ता भाव ↩︎
-
K,M द्रेको ↩︎
-
B,H,K,M,V,W धुना ↩︎
-
H,K,M,V भूत् ↩︎
-
W क्षण ↩︎
-
K,M राजा ↩︎
-
K,M ह; W वै ↩︎
-
W तः ↩︎
-
K,M,N श ↩︎
-
W तीर्थानि निषेवकः ↩︎
-
AF,GF चा ↩︎
-
K,M ह ↩︎