[द्वादशोऽध्यायः]
भागसूचना
परीक्षित् का जन्म
श्लोक-१
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा।
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः॥
अनुवाद (हिन्दी)
शौनकजीने कहा—अश्वत्थामाने जो अत्यन्त तेजस्वी ब्रह्मास्त्र चलाया था, उससे उत्तराका गर्भ नष्ट हो गया था; परंतु भगवान्ने उसे पुनः जीवित कर दिया॥ १॥
वीरराघवः
यद्यपि परीक्षिज्जन्मकर्मादिकं पुरस्तादेव पृष्टम्, यद्यपि च, तदुक्तमेव तदुपोद्वातरूपोऽयं व6चःक्रमः किमकार्षीत् तत इति । प्रकृतप्रश्नस्य उत्तरं चाश्रुतम् । एवञ्च अन्तरा पुनस्तत्प्रश्नानुपपत्तिः, तथाऽपि किमकारिषीत्तत इति पृष्टस्य राज्यशासनानन्तरभाविनः युधिष्ठिरवृत्तान्तस्य परीक्षिज्जन्मानन्तरकालिकत्वात् तदनन्तरमेव तच्छुश्रूषुः तावत् “स्वयमेवाऽऽवृणोद्गर्भं वैराट्याः कुरुतन्तवे” (भाग. 1-8-14) इति प्रक्रा7न्तापरिसमापितं सावशेषं शुश्रूषुः पृच्छति शौनकः - अश्वत्थाम्नेति । अश्वत्थाम्नोपयुक्तेन प्रयुक्तेन उरु अधिकं दुस्सहं प्रभूतञ्च तेजो यस्य तेन ब्रह्मशीर्ष्णा ब्रह्मशिरोनामकेन अस्त्रेण तावत् उत्तरायाः गर्भः हतः । ततः पुनः ईशेन कृष्णेन आजीवितः इत्युक्तानुवादः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः।
निधनं च यथैवासीत्स प्रेत्य गतवान् यथा॥
वीरराघवः
तत उपरितनं तस्य उत्तरातनयस्य महात्मनः यज्जन्मादि तदिदं हे महाबुद्धे! श्रोतुमिच्छामि निधनं मरणं यथैवासीत् प्रेत्य मृत्वा यथा गतवान् यां गतिं प्राप्तवान् तदिदमित्यन्वयः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे।
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः॥
अनुवाद (हिन्दी)
उस गर्भसे पैदा हुए महाज्ञानी महात्मा परीक्षित् के, जिन्हें शुकदेवजीने ज्ञानोपदेश दिया था, जन्म, कर्म, मृत्यु और उसके बाद जो गति उन्हें प्राप्त हुई, वह सब यदि आप ठीक समझें तो कहें; हमलोग बड़ी श्रद्धाके साथ सुनना चाहते हैं॥ २-३॥
वीरराघवः
यदि गदितुं मन्यसे वक्तुमिष्टं योग्यं च मन्यसे चेत् तर्हि श्रद्दधानानां नः अस्माकं ब्रूहि । कुतः वः तज्जन्मादिशुश्रूषा श्रद्धा बभूव इत्यतः तं विशिनष्टि । यस्य परीक्षितः शुकः ज्ञानं परमात्मयाथात्म्यज्ञानं अदात् उपदिष्टवान् । महाभागवतत्वात् तज्जन्मादिशुश्रूषा नः समभवदिति भावः । अत्र जन्मैव प्राधान्येन पृच्छ्यते । तस्य कर्मादिकं तु युधिष्ठिरा12दिवृत्तान्तानन्तरकालिकत्वात् तच्छ्रवणानन्तरमेव विशेषतः प्रष्टव्यमपि जन्मकालिकजातकद्वारा सामान्यतः बुभुत्सुना जन्मना सहोपात्तम् । अत एवोत्तरेऽपि जातकद्वारैव तत्कर्मादिकं प्रदर्श्यत इत्यवगन्तव्यम् ॥ ३ ॥
श्लोक-४
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः।
निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया॥
अनुवाद (हिन्दी)
सूतजीने कहा—धर्मराज युधिष्ठिर अपनी प्रजाको प्रसन्न रखते हुए पिताके समान उसका पालन करने लगे। भगवान् श्रीकृष्णके चरणकमलोंके सेवनसे वे समस्त भोगोंसे निःस्पृह हो गये थे॥ ४॥
वीरराघवः
परीक्षितः जन्मप्रकारं वक्तुं तावत् तादात्विकं युधिष्ठिरावस्थानप्रकारमाह - अपीपलदिति त्रिभिः । अपीपलत् अपालयत् कथम्भूतः ? कृष्णस्य पादयोरनुसेवया अनुध्यानेन हेतुना सर्वेभ्यः कामेभ्यः निर्गता स्पृहा यस्य तथाभूतः कृष्णपादानुसेवकत्वात् निस्पृहः सन्नित्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
सम्पदः क्रतवो लोका महिषी भ्रातरो मही।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम्॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! उनके पास अतुल सम्पत्ति थी, उन्होंने बड़े-बड़े यज्ञ किये थे तथा उनके फलस्वरूप श्रेष्ठ लोकोंका अधिकार प्राप्त किया था। उनकी रानियाँ और भाई अनुकूल थे, सारी पृथ्वी उनकी थी, वे जम्बूद्वीपके स्वामी थे और उनकी कीर्ति स्वर्गतक फैली हुई थी॥ ५॥
श्लोक-६
विश्वास-प्रस्तुतिः
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे॥
मूलम्
किं ते का18माः सुरस्पा19र्हा मुकुन्दमनसो द्विजाः20।
अ21धिजह्रुर्मुदं राज्ञः क्षुधितस्य यथे22तरे॥ ६ ॥
अनुवाद (हिन्दी)
उनके पास भोगकी ऐसी सामग्री थी, जिसके लिये देवतालोग भी लालायित रहते हैं। परन्तु जैसे भूखे मनुष्यको भोजनके अतिरिक्त दूसरे पदार्थ नहीं सुहाते, वैसे ही उन्हें भगवान्के सिवा दूसरी कोई वस्तु सुख नहीं देती थी॥ ६॥
वीरराघवः
तत्सेवया स्पृहाभावहेतुत्वमेव सदृष्टान्तमाह - सम्पद इति द्वाभ्याम् । यथा क्षुधितस्य अशनायायुक्तस्य पुंस इतरे स्रक्चन्दनादयः न मुदमावहन्ति किन्त्वशनमेव । तथा हे द्विज! ये सम्पदादयः ते ते कामाः सुरस्पा23र्हाः सुराणामपि स्पृहणीया अपि मुकुन्द एव मनो यस्य तस्य राज्ञो युधिष्ठिरस्यमुदमधिजह्नः किम् ? सम्पादितवन्तः किम् ? न सम्पादितवन्त एवेत्यर्थः । तत्र सम्पदः भोग्यभोगोपकरणादिसमृद्धयः स्वर्गादिसुखसाधनानि अश्वमे24धादीनि, लोकाः करप्रदाः जनाः, महिष्यः पत्न्यः, भ्रातरः दिग्विजयिनो भीमादयः, मही निष्कण्टका पृथ्वी त्रिदिवं गतं त्रिदिवपर्यन्तव्याप्तं यशश्च ॥ ५,६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा॥
अनुवाद (हिन्दी)
शौनकजी! उत्तराके गर्भमें स्थित वह वीर शिशु परीक्षित् जब अश्वत्थामाके ब्रह्मास्त्रके तेजसे जलने लगा, तब उसने देखा कि उसकी आँखोंके सामने एक ज्योतिर्मय पुरुष है॥ ७॥
वीरराघवः
अथ परीक्षितः जन्म वक्तुं तावत् तस्य मात्रुदरावस्थानदशामाह - मातुरिति सार्धैः पञ्चभिः । हे भृगुनन्दन ! वीरः उत्तरातनयः मातुः गर्भगतः उदरगतः ब्रह्मास्त्रतेजसा दह्यमानः कञ्चित्पुरुषं ददर्श ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम्।
अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम्॥
श्लोक-९
विश्वास-प्रस्तुतिः
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम्।
क्षतजाक्षं गदापाणिमात्मनः सर्वतोदिशम्।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः॥
मूलम्
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम्।
क्ष30तजाक्षं गदापाणिमा31त्मनः सर्वतोदिशम्।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः॥ ९ ॥
अनुवाद (हिन्दी)
वह देखनेमें तो अँगूठेभरका है, परन्तु उसका स्वरूप बहुत ही निर्मल है। अत्यन्त सुन्दर श्याम शरीर है, बिजलीके समान चमकता हुआ पीताम्बर धारण किये हुए है, सिरपर सोनेका मुकुट झिलमिला रहा है। उस निर्विकार पुरुषके बड़ी ही सुन्दर लम्बी-लम्बी चार भुजाएँ हैं। कानोंमें तपाये हुए स्वर्णके सुन्दर कुण्डल हैं, आँखोंमें लालिमा है, हाथमें लूकेके समान जलती हुई गदा लेकर उसे बार-बार घुमाता जा रहा है और स्वयं शिशुके चारों ओर घूम रहा है॥ ८-९॥
वीरराघवः
कथम्भूतम् ? अङ्गुष्ठपरिमिता मात्रा उन्नाहः यस्य, न विद्यते मलं देहजं यस्य, स्फुरत्पुरट: हिरण्मयः मौलिः किरीटं यस्य, अपीच्यं हृष्टपुष्टाङ्गतया स्पृहणीयं दर्शनं यस्य, तरिदिव अम्बरं वस्त्रं यस्य, आश्रितान् न च्यावयतीति तथा, श्रीमन्तः वृत्तत्वादिगुणैः शोभावन्तः दीर्घाः आजानुलम्बिनः चत्वारः बाहवः यस्य, अग्नितापनिर्मली - कृतकाञ्चनमये कुण्डले यस्य, क्षतजे रक्ते अक्षिणी यस्य, गदा पाणौ यस्य तं परिभ्रमन्तं उल्कस्य अङ्गारस्येव आभा यस्यास्तां गदां मुहुर्मुहुः परितोदिशं सर्वतोदिशं भ्रामयन्तं आत्मानं धारकम् ॥ ८,९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः।
विधमन्तं संनिकर्षे पर्यैक्षत क इत्यसौ॥
मूलम्
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः32।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ॥ १० ॥
अनुवाद (हिन्दी)
जैसे सूर्य अपनी किरणोंसे कुहरेको भगा देते हैं, वैसे ही वह उस गदाके द्वारा ब्रह्मास्त्रके तेजको शान्त करता जा रहा था। उस पुरुषको अपने समीप देखकर वह गर्भस्थ शिशु सोचने लगा कि यह कौन है॥ १०॥
वीरराघवः
गो33पतिः सूर्यः नीहारमिव स्वगदया ब्रह्मास्त्रतेजो विधमन्तं नाशयन्तं सन्निकर्षे स्थितं एवंविधं पुरुषं कोसाविति पर्यैक्षत पर्यालोचितवान् । यतः पर्यैक्षत तत एव प्रवृत्तिनिमित्तात् परीक्षिच्छब्दवाच्यश्च स34र्वभूतैरिति भावः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
विधूय तदमेयात्मा भगवान्धर्मगुब् विभुः।
मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः॥
अनुवाद (हिन्दी)
इस प्रकार उस दस मासके गर्भस्थ शिशुके सामने ही धर्मरक्षक अप्रमेय भगवान् श्रीकृष्ण ब्रह्मास्त्रके तेजको शान्त करके वहीं अन्तर्धान हो गये॥ ११॥
वीरराघवः
तद्ब्रह्मास्त्रतेजो विधूय निरस्य अमेयात्मा अपरिच्छिन्नस्वरूपस्वभावः धर्मगोप्ता विभुः भगवान् हरिः दशमे मासि तस्य गर्भस्थशिशोः मिषतः पश्यतः सः तत्रैवान्तर्हितवान् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ततः सर्वगुणोदर्के सानुकूलग्रहोदये।
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा॥
मूलम्
ततः सर्वगुणोदर्के सानुकूल37ग्रहोदये।
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा॥ १२ ॥
अनुवाद (हिन्दी)
तदनन्तर अनुकूल ग्रहोंके उदयसे युक्त समस्त सद्गुणोंको विकसित करनेवाले शुभ समयमें पाण्डुके वंशधर परीक्षित् का जन्म हुआ। जन्मके समय ही वह बालक इतना तेजस्वी दीख पड़ता था, मानो स्वयं पाण्डुने ही फिरसे जन्म लिया हो॥ १२॥
वीरराघवः
ततः सर्वगुणोदर्के सर्वगुणाधिके, तदेवाह सानुकूल38ग्रहोदये आनुकूल्येन सहितानां ग्रहाणां भृग्वङ्गिरआदीनां उदयः यस्मिन् लग्ने इति विशेष्यं अध्याहर्तव्यम् । सानुकूला39 ग्रहा यस्मिन् तस्मिन्नुदये लग्ने वा पाण्डोः वंशधरः वंशवर्धनः पुनः ओजसा पाण्डुरिव पाण्डुसदृशो जज्ञे ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः।
जातकं कारयामास वाचयित्वा च मङ्गलम्॥
अनुवाद (हिन्दी)
पौत्रके जन्मकी बात सुनकर राजा युधिष्ठिर मनमें बहुत प्रसन्न हुए। उन्होंने धौम्य, कृपाचार्य आदि ब्राह्मणोंसे मंगलवाचन और जातकर्म-संस्कार करवाये॥ १३॥
वीरराघवः
ततः प्रीतं हृष्टं मनः यस्य स राजा युधिष्ठिरः धौम्यकृपादिभिः विप्रैः 42सुमङ्गलं स्वाऽऽशिवं वाचयित्वा जातकं जातकर्म कारयामास ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान्।
प्रादात्स्वन्नं२ च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्॥
मूलम्
हिरण्यं गां महीं ग्रामान् ह43स्त्यश्वान्नृपतिर्वरान्।
प्रादात् स्वन्नं44 च विप्रेभ्यः प्रजातीर्थे स तीर्थवित्॥ १४ ॥
अनुवाद (हिन्दी)
महाराज युधिष्ठिर दानके योग्य समयको जानते थे। उन्होंने प्रजातीर्थ* नामक कालमें अर्थात् नाल काटनेके पहले ही ब्राह्मणोंको सुवर्ण, गौएँ, पृथ्वी, गाँव, उत्तम जातिके हाथी-घोड़े और उत्तम अन्नका दान दिया॥ १४॥
पादटिप्पनी
- नालच्छेदनसे पहले सूतक नहीं होता, जैसे कहा है—‘यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम्। छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते॥’ इसी समयको ‘प्रजातीर्थ’ काल कहते हैं। इस समय जो दान दिया जाता है, वह अक्षय होता है। स्मृति कहती है—‘पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयम्।’ अर्थात् ‘पुत्रोत्पत्ति’ और व्यतीपातके समय दिया हुआ दान अक्षय होता है।
वीरराघवः
ततः नृपतिः युधिष्ठिरः हिरण्यादीन् अन्यांश्च वरान् कामान् यथायोग्यं यथाभिलाषं च कामं प्रादात् अर्थिभ्यः प्रायच्छत् । स तीर्थवित् दानपात्रवित् राजा प्रजातीर्थे पौत्रोत्पत्तिनिमित्तदानकाले स्वन्नं सुमृष्टं अन्नं च विप्रेभ्यः प्रादात् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम्।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ॥
मूलम्
तमूचुर्ब्राह्मणास्तुष्टाः राजानं प्रश्रयान्वि45तम्।
एष ह्यस्मिन् प्रजातन्तौ पु46रूणां पौ47रवर्षभ48॥ १५ ॥
वीरराघवः
हिरण्यादिभिः तुष्टाः ब्राह्मणाः तं प्रश्रयेण विनयेन अवनतं नम्रं राजानं ऊचुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना॥
अनुवाद (हिन्दी)
ब्राह्मणोंने सन्तुष्ट होकर अत्यन्त विनयी युधिष्ठिरसे कहा—‘पुरुवंशशिरोमणे! कालकी दुर्निवार गतिसे यह पवित्र पुरुवंश मिटना ही चाहता था, परन्तु तुमलोगोंपर कृपा करनेके लिये भगवान् विष्णुने यह बालक देकर इसकी रक्षा कर दी॥ १५-१६॥
वीरराघवः
तदेवाऽऽह - एषहीति सार्धद्वयेन । पु51रूणां भवतां प्रजातन्तौ प्रजासन्ताने निमित्ते शुक्ले गर्भपिण्डे संस्था52मुपेयुषि सति हि यस्मात् एषः जातः अप्रतिघातेन प्रतिहतिरहितेन दैवेन प्रभविष्णुना समर्थीभवनशीलेन विष्णुना वो53ऽनुग्र54हार्थोऽयं रातः रक्षितः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः।
भविष्यति न संदेहो महाभागवतो महान्॥
अनुवाद (हिन्दी)
इसीलिये इसका नाम विष्णुरात होगा। निस्सन्देह यह बालक संसारमें बड़ा यशस्वी, भगवान्का परम भक्त और महापुरुष होगा’॥ १७॥
वीरराघवः
तस्मात् विष्णुना रातत्वरूप58प्रवृत्तिनिमित्त59नाम्ना वाचकेन शब्देन लोके विष्णुरात इति प्रसिद्धः बृहच्छ्रवाः विपुलकीर्तिः गुणैः महान् महाभागवतश्च भविष्यति नात्र सन्देहः ॥ १७ ॥
श्लोक-१८
मूलम् (वचनम्)
युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः॥
मूलम्
अप्येष वंश्यान् राजर्षी60न् पुण्यश्लोकान् महात्मनः।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः61॥ १८ ॥
अनुवाद (हिन्दी)
युधिष्ठिरने कहा—महात्माओ! यह बालक क्या अपने उज्ज्वल यशसे हमारे वंशके पवित्रकीर्ति महात्मा राजर्षियोंका अनुसरण करेगा?॥ १८॥
वीरराघवः
विप्रैः एवं उक्तः युधिष्ठिरः तस्य भाविनः गुणान् बुभुत्सुः पृच्छति - अपीति । अपि स्वित् इत्येतद्दृवं समुदितं प्रश्नद्योतकं हे सत्तमाः! एष जातः शिशुः साधुवादेन साधूनां उपदेशेन हेतुना महात्मनः पुण्यश्लोकान् वंश्यान् राजर्षीन् पाण्डवादीन् अनुवर्तिता स्वित् यशसा अनुवर्तिष्यति किम् ? पाण्डवादिवत् यशस्वी भविष्यति ? इति प्रश्नः । साधूनां वादः यस्मिन्विषयभूते तेन यशसा अनुवर्तिता स्वित् इति वान्वयः ॥ १८ ॥
श्लोक-१९
मूलम् (वचनम्)
ब्राह्मणा ऊचुः
विश्वास-प्रस्तुतिः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः।
ब्रह्मण्यः सत्यसंधश्च रामो दाशरथिर्यथा॥
मूलम्
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः।
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा॥ १९ ॥
अनुवाद (हिन्दी)
ब्राह्मणोंने कहा—धर्मराज! यह मनुपुत्र इक्ष्वाकुके समान अपनी प्रजाका पालन करेगा तथा दशरथनन्दन भगवान् श्रीरामके समान ब्राह्मणभक्त और सत्यप्रतिज्ञ होगा॥ १९॥
वीरराघवः
एवं आपृष्टाः जातककोविदाः ब्राह्मणाः तस्य भाविनः गुणान् वर्णयन्ति - पार्थेत्यादिभिः दशभिः । न केवलं अनितरसाधारणैकगुणं एकमेवानुवर्तिता अपितु तत्तदसाधारणगुणान् सर्वानपीत्याहुः । हे पार्थ! मानवः मनोः वैवस्वतस्य सुतः इक्ष्वाकुरिव साक्षात् प्रजाविता प्रजानां अविता रक्षिता । यथा दाशरथिः दशरथपुत्रः श्रीरामः तद्वत् ब्रह्मण्यः ब्रह्मकुले साधुः सत्ये वाचिके सन्धा दृढाभिरु62चिः यस्य तथाभूतश्च ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम्॥
मूलम्
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः।
य63शोवितनिता स्वानां दौष्यन्तिरिव यज्वनाम्॥ २० ॥
अनुवाद (हिन्दी)
यह उशीनरनरेश शिबिके समान दाता और शरणागतवत्सल होगा तथा याज्ञिकोंमें दुष्यन्तके पुत्र भरतके समान अपने वंशका यश फैलायेगा॥ २०॥
वीरराघवः
एष दाता आत्मपर्यन्तदाता शरण्यः शरणं रक्षणोपायं अर्हतीति श64रण्यः । यथौशीनरः उशीनरसुतः शिबिः चक्रवर्ती, तद्वत् दाता शरण्यश्च । दौष्यन्तिरिव भरत इव यज्वनां यष्टृृणां यशोवितनिता यशसो विस्तारयिता ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः॥
मूलम्
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः॥ २१ ॥
अनुवाद (हिन्दी)
धनुर्धरोंमें यह सहस्रबाहु अर्जुन और अपने दादा पार्थके समान अग्रगण्य होगा। यह अग्निके समान दुर्धर्ष और समुद्रके समान दुस्तर होगा॥ २१॥
वीरराघवः
धन्विनां धनुष्मतां अग्रणीः श्रेष्ठः तत्र द्वयोरपि अर्जुनयोः कार्तवीर्यपार्थयोः तुल्य: 65इत्यर्थः । हुताशः अग्निरिव दुर्धर्षः प्रसोढुं अशक्यः समुद्र इव दुस्तरः अगाधाशयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव॥
मूलम्
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव॥ २२ ॥
अनुवाद (हिन्दी)
यह सिंहके समान पराक्रमी, हिमाचलकी तरह आश्रय लेनेयोग्य, पृथ्वीके सदृश तितिक्षु और माता-पिताके समान सहनशील होगा॥ २२॥
वीरराघवः
सिंह इव विक्रान्तः । कर्तरि क्तः । पराक्रमी पादविक्षेपवान् वा । हिमवानिव निषेव्यः भूतानां उपजीव्यः । असौ शिशुः वसुधेव भूमिरिव तितिक्षुः प्रसहिष्णुः पितराविव मातापितराविव सहिष्णुः 66परापराधसहिष्णुः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
पितामहसमः साम्ये प्रसादे गिरिशोपमः।
आश्रयः सर्वभूतानां यथा देवो रमाश्रयः॥
मूलम्
पितामह समस्साम्ये प्रसादे गिरिशोपमः।
आश्रयस्सर्वभूतानां यथा देवो रमाश्रयः॥ २३ ॥
अनुवाद (हिन्दी)
इसमें पितामह ब्रह्माके समान समता रहेगी, भगवान् शंकरकी तरह यह कृपालु होगा और सम्पूर्ण प्राणियोंको आश्रय देनेमें यह लक्ष्मीपति भगवान् विष्णुके समान होगा॥ २३॥
वीरराघवः
साम्ये सर्वभूतसमत्वे पितामहेन ब्रह्मणा समः तुल्यः प्रसादे ज्ञानप्रसादे अनुग्रहे वा गिरिशोपमः रुद्रतुल्यः । सर्वभूतानां पुरुषार्थलिप्सूनां आश्रयः आश्रयितुं योग्यः । यथा रमाश्रयः श्रीनिवासः देवः तद्वत् ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः।
रन्तिदेव इवोदारो ययातिरिव धार्मिकः॥
अनुवाद (हिन्दी)
यह समस्त सद्गुणोंकी महिमा धारण करनेमें श्रीकृष्णका अनुयायी होगा, रन्तिदेवके समान उदार होगा और ययातिके समान धार्मिक होगा॥ २४॥
वीरराघवः
सर्वे सद्गुणाः निर्दुष्टगुणाः तत्कृतं य69त् माहात्म्यं यस्मिन् कृष्णं भगवन्तं अनुव्रतः अनुवर्तिता कृष्णतुल्यसद्गुणमाहात्म्ययुक्त इत्यर्थः । रन्तिदेव इव उदारः त्यागी ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
धृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः॥
मूलम्
धृत्या70 बलिसमः कृष्णे प्रह्राद इव स71द्ग्रहः।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः॥ २५ ॥
अनुवाद (हिन्दी)
धैर्यमें बलिके समान और भगवान् श्रीकृष्णके प्रति दृढ़ निष्ठामें यह प्रह्लादके समान होगा। यह बहुतसे अश्वमेधयज्ञोंका करनेवाला और वृद्धोंका सेवक होगा॥ २५॥
वीरराघवः
धृत्या धैर्येण बलिसमः वैरोचनितुल्यः प्रह्लाद इव कृष्णे भगवति भक्त इति शेषः । सद्ग्रहः सतां ग्राहकश्चैष शिशुः अश्वमेधानां आहर्ता अनुष्ठाता वृद्धानां ज्ञानेन वयसा स्थानेन वृद्धानां पर्युपासकः यथोचितसेवकः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम्।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात्॥
मूलम्
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम्।
निग्रहीता कलेरे72ष भुवो धर्मस्य कारणात्॥ २६ ॥
अनुवाद (हिन्दी)
इसके पुत्र राजर्षि होंगे। मर्यादाका उल्लंघन करनेवालोंको यह दण्ड देगा। यह पृथ्वीमाता और धर्मकी रक्षाके लिये कलियुगका भी दमन करेगा॥ २६॥
वीरराघवः
राजर्षीणां जनमेजयादीनां जनयिता उत्पथगामिनां धर्ममार्गातिवर्तिनां शास्ता । भुवः पृथिव्याः हेतोः धर्मस्य कारणात् निमित्तात् धर्मार्थं चेत्यर्थः । एष कलेः निग्रहीता क73लिं निग्रहीष्यति ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः॥
मूलम्
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जि74तात्।
प्रपश्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः॥
अनुवाद (हिन्दी)
ब्राह्मणकुमारके शापसे तक्षकके द्वारा अपनी मृत्यु सुनकर यह सबकी आसक्ति छोड़ देगा और भगवान्के चरणोंकी शरण लेगा॥ २७॥
वीरराघवः
द्विजपुत्रेण उपसर्पितात् शापद्वारा नियोजितात् तक्षकात् आत्मनः स्वस्य मृत्युं मरणं उपश्रुत्य आकर्ण्य मुक्तः देहतदनुबन्धिषु सङ्गः येन तथाभूतः हरेः पदं स्थानं प्रपत्स्यते प्राप्स्यति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम्॥
मूलम्
जिज्ञासितात्मयाथात्म्यो75 मुनेर्व्याससुतादसौ।
हित्वेदं नृप! गङ्गायां यास्यत्यद्धाऽकुतोभयम्॥ २८ ॥
अनुवाद (हिन्दी)
राजन्! व्यासनन्दन शुकदेवजीसे यह आत्माके यथार्थ स्वरूपका ज्ञान प्राप्त करेगा और अन्तमें गंगातटपर अपने शरीरको त्यागकर निश्चय ही अभयपद प्राप्त करेगा॥ २८॥
वीरराघवः
मु76क्तसङ्गः हरेः पदं प्रपत्स्यति इत्येतदेवोपपादयति । व्याससुतात् मुनेः शुकात् जिज्ञासितं विचारितं निर्णीतमिति यावत् । आत्मयाथात्म्यं प्रत्यगात्मपरमात्मस्वरूपस्वभावत्वं, देहतदनुबन्ध्यसङ्गहेतुभूतं येन सोऽसौ परीक्षित् । हे नृप! इदं शरीरं गङ्गायां त्यक्त्वा नास्ति कुतश्चित् भयं यस्मात् तद्धरेः पदं धाम अद्धा स्फुटं यास्यति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
इति राज्ञ उपादिश्य विप्रा जातककोविदाः।
लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान्॥
मूलम्
इति राज्ञ उपादिश्य विप्रा जातककोविदाः।
लब्धा77पचितयस्सर्वे प्रतिजग्मुः स्वकान् गृहान्॥ २९ ॥
अनुवाद (हिन्दी)
ज्यौतिषशास्त्रके विशेषज्ञ ब्राह्मण राजा युधिष्ठिरको इस प्रकार बालकके जन्मलग्नका फल बतलाकर और भेंट-पूजा लेकर अपने-अपने घर चले गये॥ २९॥
वीरराघवः
इत्थं राज्ञे युधिष्ठिराय तद्गणकर्मादिकं उपादिश्य आवेद्य 78जातकं 79अधिकृत्य प्रवृत्ते ज्योतिश्शास्त्रे कोविदाः अतिनिपुणा विप्रास्सर्वे लब्धा अपचितिः बहुमतिः यैस्तथाभूताः स्व80कान् गृहान् प्रति जग्मुः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः।
गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह॥
मूलम्
स एष लोके81 विख्यातः परीक्षि82दिति य83त्प्रभुः।
ग84र्भे दृष्टमनु85ध्यायन् प86रीक्षेत नरेष्विह॥ ३० ॥
अनुवाद (हिन्दी)
वही यह बालक संसारमें परीक्षित् के नामसे प्रसिद्ध हुआ; क्योंकि वह समर्थ बालक गर्भमें जिस पुरुषका दर्शन पा चुका था, उसका स्मरण करता हुआ लोगोंमें उसीकी परीक्षा करता रहता था कि देखें इनमेंसे कौन-सा वह है॥ ३०॥
वीरराघवः
स जातककोविदैः अनुवर्णितभाविगुण एष उत्तरासुतः परीक्षिदिति लोके विख्यातः । कुतः यत् यस्मात् प्रभुः अयं उत्तरासुतः गर्भे मातुः उदरे दृष्टं पुरुषं ध्यायन् इह लोके नरेषु तं पुरुषं पर्यैक्षत परीक्षितवान् अन्वेषितवान् इति यावत् । परीक्ष्य श्रीकृष्णं अध्यवस्यत् इत्यर्थः । ततः प्रवृत्तिनिमित्तात् परीक्षिच्छब्दवाच्यः विख्यात इत्यर्थः । पूर्वं पर्यैक्षत क इत्यसाविति गर्भावस्थायां परीक्षणमपि तच्छब्दप्रवृत्तिनिमित्तमिति सूचितम् । परिपूर्वात् ईक्षते: शतरि परीक्षदिति रूपम् । परीक्षिदिति च प्रायिकः पाठो दृश्यते । तदा “हृसृरुहियुषिभ्यः इति” (उणादि, 1-97) इत्यौणादिकसूत्रे ईक्षतेर्ग्रहणाभावेऽपि बाहुलकात् इत्प्रत्यये हरित्सरिदादिशब्दवत् सा87ध्यः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः।
आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम्॥
अनुवाद (हिन्दी)
जैसे शुक्लपक्षमें दिन-प्रतिदिन चन्द्रमा अपनी कलाओंसे पूर्ण होता हुआ बढ़ता है, वैसे ही वह राजकुमार भी अपने गुरुजनोंके लालन-पालनसे क्रमशः अनुदिन बढ़ता हुआ शीघ्र ही सयाना हो गया॥ ३१॥
वीरराघवः
स परीक्षिदिति प्रसिद्धः राजपुत्रः । एकः तच्छब्दः प्रसिद्धिद्योतकः अपरस्तु प्रकृतपरामर्शक इत्यतः न पौनरुक्त्यम् । पितृभिः वर्धयितृभिः हेतुभूतैः अन्वहं आशु ववृधे यथा शुक्ले पक्षे आपूर्यमाणाभिः वृद्धिं गताभिः काष्ठाभिः कलाभिः उडुपः चन्द्रः वर्धते तद्वत् इत्यर्थः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया।
राजालब्धधनो दध्यावन्यत्र करदण्डयोः॥
अनुवाद (हिन्दी)
इसी समय स्वजनोंके वधका प्रायश्चित्त करनेके लिये राजा युधिष्ठिरने अश्वमेधयज्ञके द्वारा भगवान्की आराधना करनेका विचार किया, परन्तु प्रजासे वसूल किये हुए कर और दण्ड (जुर्माने)-की रकमके अतिरिक्त और धन न होनेके कारण वे बड़ी चिन्तामें पड़ गये॥ ३२॥
वीरराघवः
अथ कि93मकार्षीदिति प्रश्नस्योत्तरं सोपोद्घातमाह - यक्ष्यमाण इत्यादिना यावत्पञ्चदशाध्यायसमाप्ति । ज्ञातिद्रोहजिहासया ज्ञातिवधप्रयुक्तदोषपरिजिहीर्षया अश्वमेधेन “तरति ब्रह्महत्यां योऽश्वमेधेन यजते” (तैत्ति. सं. 5-3-12) इति ब्रह्महत्यादीनामपि परिहारकतया श्रुतेन “ब्रह्महत्याश्वमेधाभ्यां न94 परं पुण्यपापयोः” इति निरतिशयपुण्यत्वेन च प्रसिद्धेन अश्वमेधेन यक्ष्यमाणः भगवन्तं आराधयितुकामः राजा युधिष्ठिरः अन्यत्र करदण्डयोः करः स्वामिग्राह्यः, दण्डः प्रसिद्धः तयोरन्यत्र ताभ्यां विना इत्यर्थः । अलब्धधनः उपायान्तरेण अप्राप्तधनः मनो दध्यौ चिन्तितवान् । करदण्डाभ्यां लब्धं धनं न95 यागार्हम्। उपायान्तरेण तु न प्राप्तं धनं अतः कथं यक्ष्यामीति चिन्तव्याकुलो बभूवेत्यर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः।
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः॥
अनुवाद (हिन्दी)
उनका अभिप्राय समझकर भगवान् श्रीकृष्णकी प्रेरणासे उनके भाई उत्तर दिशामें राजा मरुत्त और ब्राह्मणोंद्वारा छोड़ा हुआ* बहुत-सा धन ले आये॥ ३३॥
पादटिप्पनी
- पूर्वकालमें महाराज मरुत्तने ऐसा यज्ञ किया था, जिसमें सभी पात्र सुवर्णके थे। यज्ञ समाप्त हो जानेपर उन्होंने वे पात्र उत्तर दिशामें फिंकवा दिये थे। उन्होंने ब्राह्मणोंको भी इतना धन दिया कि वे उसे ले जा न सके; वे भी उसे उत्तर दिशामें ही छोड़कर चले आये। परित्यक्त धनपर राजाका अधिकार होता है, इसलिये उस धनको मँगवाकर भगवान्ने युधिष्ठिरका यज्ञ कराया।
वीरराघवः
तस्य युधिष्ठिरस्य अभिप्रेतं आलक्ष्य अच्युतेन आहूतेन श्रीकृष्णेन चोदिताः आदिष्टाः आहूतो भगवानिति वक्ष्यमाणत्वात् भ्रातरः भीमादयः उदीच्यां दिशि प्रहीणं पराजितैः राजभिः त्यक्तं धनं भूरिशः आजहुः ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः।
वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम्॥
मूलम्
तेन सम्भृतसम्भारो ध98र्मपुत्रो युधिष्ठिरः।
वाजिमेधैस्त्रि99भिर्भीतो य100ज्ञैः समयजद्धरिम्॥ ३४ ॥
अनुवाद (हिन्दी)
उससे यज्ञकी सामग्री एकत्र करके धर्मभीरु महाराज युधिष्ठिरने तीन अश्वमेधयज्ञोंके द्वारा भगवान्की पूजा की॥ ३४॥
वीरराघवः
तेन धनेन सम्भूताः सञ्चिताः सम्भाराः यागसाधनानि यस्य स अत एव लब्धकामो युधिष्ठिरः त्रिभिः वाजिमेधैः भीतः मन्त्रतन्त्रद्रव्यलोपादिभ्यः भीतः निश्छिद्रं यथा तथेति भावः । हरिं सम्यगाराधितवान् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम्।
उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया॥
मूलम्
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम्।
उवास कतिचिन्मासान् सुहृदां101 प्रियकाम्यया॥ ३५ ॥
अनुवाद (हिन्दी)
युधिष्ठिरके निमन्त्रणसे पधारे हुए भगवान् ब्राह्मणोंद्वारा उनका यज्ञ सम्पन्न कराकर अपने सुहृद् पाण्डवोंकी प्रसन्नताके लिये कई महीनोंतक वहीं रहे॥ ३५॥
वीरराघवः
भगवान् कृष्णोऽपि राज्ञा आहूतः द्विजैः नृपं युधिष्ठिरं याजयित्वा सुहृदां प्रीतिं कर्तुं इच्छया कतिचित् मासानुवास ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
ततो राज्ञाभ्यनुज्ञातः कृष्णया सह बन्धुभिः।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः॥
मूलम्
ततो राज्ञाभ्य102नुज्ञातः कृष्णया सह बन्धुभिः।
ययौ द्वारवतीं ब्र103ह्मन् सार्जुनो यदुभिर्वृतः॥ ३६ ॥104
अनुवाद (हिन्दी)
शौनकजी! इसके बाद भाइयोंसहित राजा युधिष्ठिर और द्रौपदीसे अनुमति लेकर अर्जुनके साथ यदुवंशियोंसे घिरे हुए भगवान् श्रीकृष्णने द्वारकाके लिये प्रस्थान किया॥ ३६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः॥ १२॥
वीरराघवः
ततो बन्धुभिस्सह राज्ञा युधिष्ठिरेण कृष्णया द्रौपद्या चानुज्ञातः अर्जुनेन सहितः यदुभिः च परिवृतो हे ब्रह्मन्! द्वारवतीं ययौ ॥ ३६ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वादशोऽध्यायः ॥ १२ ॥
-
K,M ना विसृष्टेन ↩︎
-
W युक्ते ↩︎
-
H,V र्षो ↩︎
-
H,V र्भः कृष्णे ↩︎
-
K,M नोज्जी ↩︎
-
W प्रपञ्चः प्रवृत्तः ↩︎
-
B,W क्रम्या ↩︎
-
W द्धे! ↩︎
-
K,M गृणीहि नः ↩︎
-
H,K,M,N,V,W मि ↩︎
-
AF,GF स त्वं वा; K.M वक्तुं वा ↩︎
-
W रवृ ↩︎
-
AF,GF अपालय ↩︎
-
B,H,I,K,M,V,W नु ↩︎
-
K,M विप्रा ↩︎
-
H,V महिष्यः ↩︎
-
B,K,M,N म्बु ↩︎
-
K,M कामातुरस्यार्थाः ↩︎
-
H,V स्पृह्या; W स्यार्हा ↩︎
-
B,H,V,W ज! ↩︎
-
K,M नाधि ↩︎
-
H,V था परे ↩︎
-
W स्था ↩︎
-
W मेघराजसूया ↩︎
-
AF,GF था ↩︎
-
AF,GF नस्तु ↩︎
-
AF,GF कम् ↩︎
-
M आ ↩︎
-
H,V,W टि ↩︎
-
AF,GF शङ्खचक्रगदा ↩︎
-
W मात्मानं परि ↩︎
-
W तिम् ↩︎
-
W गोपतिं सूर्यमिव नीहारं ↩︎
-
W बभूवेति ↩︎
-
H,V पश्यतो ↩︎
-
B,H,K,M,N,V,W स्य ↩︎
-
W ल्य ↩︎
-
W ल्य ↩︎
-
W ल्या ↩︎
-
AF,GF र्जातिक्रिया ↩︎
-
W सु ↩︎
-
W adds समं ↩︎
-
H,V हयांश्च नृप ↩︎
-
AF,GF यं ↩︎
-
B,K,M,W न ↩︎
-
B,K,M कु; W पू ↩︎
-
B कौ ↩︎
-
AF,GF भ: ↩︎
-
K,M कुले ↩︎
-
AF,GF योऽ ↩︎
-
W पू ↩︎
-
W स्थामन्तमु ↩︎
-
W वो युष्पाकमनु ↩︎
-
W ग्रहार्थाय ↩︎
-
I भविष्यति ↩︎
-
I महाभाग! ↩︎
-
H,V तोत्तमः ↩︎
-
W पात् ↩︎
-
W त्तात् ↩︎
-
AF,GF र्षि: ↩︎
-
H,V मः ↩︎
-
W सन्धिः ↩︎
-
AF,GF यथोचितविधाता च ↩︎
-
A,B omit शरण्यः ↩︎
-
W adds ताभ्यां तुल्यः ↩︎
-
W omits पर ↩︎
-
AF,GF रम्यं ↩︎
-
B,H,V वौदार्ये ↩︎
-
A,B omit यत् ↩︎
-
K,M त्या ↩︎
-
AF,GF निर्भर: ↩︎
-
H,V श्चै ↩︎
-
A,B omit कलिं ↩︎
-
B,W र्पि ↩︎
-
B,I र्ध्यो ↩︎
-
A,B omit मुक्तसङ्गः हरेः पदं प्रपत्स्यति इति ↩︎
-
B ब्धो ↩︎
-
W adds जातके ↩︎
-
W adds उत्पन्नं ↩︎
-
W स्वगृहान् ↩︎
-
K,M,N,W क ↩︎
-
W क्ष ↩︎
-
K,M यः प्रभुः ↩︎
-
H,N,V गर्भ, I पूर्व ; W पूर्व ; K,M सर्पदृष्टि ↩︎
-
H,V भि ↩︎
-
W पर्यैक्षत ↩︎
-
W व्युत्पाद्यः ↩︎
-
H,V ह्या ↩︎
-
H,V राट् ↩︎
-
H,V घां ↩︎
-
B,H,I,V राजा लब्ध ↩︎
-
B,H,I,V दध्यौ नान्यत्र ↩︎
-
W यदकार्षीत्तत इत्यस्य ↩︎
-
W नापरं ↩︎
-
W यागानर्हं ↩︎
-
K,M नो ↩︎
-
K,M च्याः भूरिशो दिशः ↩︎
-
B,H,K,M,V,W लब्धकामो ↩︎
-
AF,GF स्त्रिभीराजा ↩︎
-
B यज्ञेशमय ↩︎
-
K,M दः प्रिय ; W दः प्रीति ↩︎
-
K,M ह्य ↩︎
-
B कृष्णः ↩︎
-
Here ends XI Chapterm K&M. ↩︎