११ श्रीकृष्णद्वारकाप्रवेशः

[एकादशोऽध्यायः]

भागसूचना

द्वारकामें श्रीकृष्णका राजोचित स्वागत

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान्।
दध्मौ दरवरं तेषां विषादं शमयन्निव॥

मूलम्

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान्।
दध्मौ द1रवरं तेषां विषादं शमयन्निव॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—श्रीकृष्णने अपने समृद्ध आनर्त देशमें पहुँचकर वहाँके लोगोंकी विरह-वेदना बहुत कुछ शान्त करते हुए अपना श्रेष्ठ पांचजन्य नामक शंख बजाया॥ १॥

वीरराघवः

स भगवान् स्वृद्धान् समृद्धान् स्वका नानर्तान् जनपदा नुपव्रज्य तत्रत्यानां विषादं स्वविश्लेषजं शमयन्निव दरवरं शङ्खश्रेष्ठं पाञ्चजन्यं दध्मौ ध्वनयामास ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

स उच्चकाशे धवलोदरो दरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा।
दाध्मायमानः करकञ्जसम्पुटे
यथाब्जषण्डे कलहंस उत्स्वनः॥

मूलम्

स उच्चकाशे धवलोदरो दरोऽप्युरुक्रमस्याधरशोणशोणिमा।
दा2ध्मायमानः करकञ्जसम्पुटे यथाऽब्जख3ण्डे कलहंस उत्स्वनः॥ २ ॥

अनुवाद (हिन्दी)

भगवान‍्के होठोंकी लालीसे लाल हुआ वह श्वेतवर्णका शंख बजते समय उनके करकमलोंमें ऐसा शोभायमान हुआ, जैसे लाल रंगके कमलोंपर बैठकर कोई राजहंस उच्चस्वरसे मधुर गान कर रहा हो॥ २॥

वीरराघवः

तदा स दाध्मायमानो दरवरः स्वतो धवल मुदरं यस्य तथाभूतोऽपि दामोदरस्य भगवतोऽधर4शोणेन शोणिमा यस्य सः । स भगवत्करकमलयो स्सम्पुट उच्चकाशे5 यथाऽब्जख6ण्डे रक्तकमलसमूहे उत्खन उच्चैस्खनो यस्य स हंस स्तद्वत् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तमुपश्रुत्य निनदं जगद‍्भयभयावहम्।
प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः॥

मूलम्

तमुपश्रुत्य निनदं जगद‍्भ7यभयावहम्।
प्रत्युद्ययुः प्रजास्सर्वा भर्तृदर्शनलालसाः॥ ३ ॥

अनुवाद (हिन्दी)

भगवान‍्के शंखकी वह ध्वनि संसारके भयको भयभीत करनेवाली है। उसे सुनकर सारी प्रजा अपने स्वामी श्रीकृष्णके दर्शनकी लालसासे नगरके बाहर निकल आयी॥ ३॥

वीरराघवः

जगतो भयं येभ्यः तेषां भय मावहतीति तथा, तं निनदमुपश्रुत्य सर्वाः प्रजाः भर्तुर्भगवतो दर्शने लालसाः आसक्तचित्ताः प्रत्युद्ययुः प्रत्याजग्मुः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

तत्रोपनीतबलयो रवेर्दीपमिवादृताः।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा॥

मूलम्

8त्रोपनीतबलयो रवेर्दीपमि9वाऽऽदृताः।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा॥ ४ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण आत्माराम हैं, वे अपने आत्मलाभसे ही सदा-सर्वदा पूर्णकाम हैं, फिर भी जैसे लोग बड़े आदरसे भगवान् सूर्यको भी दीपदान करते हैं, वैसे ही अनेक प्रकारकी भेंटोंसे प्रजाने श्रीकृष्णका स्वागत किया॥ ४॥

वीरराघवः

तत्राऽऽदृता आदरयुक्ता रवेर्दीपमिवात्मानं जगच्च प्रकाशयतः प्रकाशान्तरानपेक्षस्य सूर्यस्य दीपमिव उपनीतः बलिः पूजार्थं द्रव्यं याभि स्ताः ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद‍्गदया गिरा।
पितरं सर्वसुहृदमवितारमिवार्भकाः॥

मूलम्

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद‍्गदया गिरा।
पितरं सर्वसुहृद10मवितारमिवार्भकाः॥ ५ ॥

अनुवाद (हिन्दी)

सबके मुखकमल प्रेमसे खिल उठे। वे हर्षगद‍्गद वाणीसे सबके सुहृद् और संरक्षक भगवान् श्रीकृष्णकी ठीक वैसे ही स्तुति करने लगे, जैसे बालक अपने पितासे अपनी तोतली बोलीमें बातें करते हैं॥ ५॥

वीरराघवः

प्रीत्या उत्फुल्लानि विकसितानि मुखाम्बुजानि यासां तथाभूताः प्रजाः हर्षेण गद्गदया कुण्ठितया गिरा तं प्रोचुः । रविदृष्टान्ताभिप्रेतं व्यञ्जयन् विशिनष्टि । निजलाभेन नित्यनिरवधिकस्वानन्दानुभवलाभेन पूर्णकाम मवाप्तसमस्तकाम मात्मारामं स्वानुभवैकनिष्ठं, बल्यनपेक्षमिति भावः । के कमिवोचुः । सर्वेषु पुत्रेषु सुहृदं सौहार्दयुक्तमवितारं रक्षितारं पितर मर्भकाः शिशवः पुत्रा इव ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं
विरिञ्चवैरिञ्‍च्यसुरेन्द्रवन्दितम्।
परायणं क्षेममिहेच्छतां परं
न यत्र कालः प्रभवेत् परः प्रभुः॥

मूलम्

नताः स्म ते11 नाथ स12दाङ्घ्रिपङ्कजं विरिञ्च13वैरिञ्‍च्य14सुरेन्द्रवन्दितम्।
परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत् परः15 प्रभुः16॥ ६ ॥

अनुवाद (हिन्दी)

‘स्वामिन्! हम आपके उन चरणकमलोंको सदा-सर्वदा प्रणाम करते हैं जिनकी वन्दना ब्रह्मा, शंकर और इन्द्रतक करते हैं, जो इस संसारमें परम कल्याण चाहनेवालोंके लिये सर्वोत्तम आश्रय हैं, जिनकी शरण ले लेनेपर परम समर्थ काल भी एक बालतक बाँका नहीं कर सकता॥ ६॥

वीरराघवः

उक्त मेवाहुः - नता इति चतुर्भिः । हे नाथ! तवाङ्घ्रिपङ्कजं प्रति नताः स्म । कथम्भूतम् ? वि17रिञ्चिना ब्र18ह्मणा, वैरिञ्चयैः सनकादिभिः सुरेन्द्रैरिन्द्रादिभिश्च वन्दितं नमस्कृतं इह क्षेमं निश्श्रेयसमिच्छतां परमुत्कृष्टं परायणं क्षेमसाधनभूतं, परमिति क्षेमविशेषणं वा । यत्र पदारविन्दे परेषां ब्रह्मादीनामपि प्रभुः तानपि वशीकुर्वन्, कालोऽपि न प्रभवेत् न समर्थो भवेत्, यत्र त्वयि विषये परः प्रभुः कालोऽपि न प्रभवेत् तस्य तव पदाम्बुजमिति वाऽन्वयः । “सर्वस्य वशी, सर्वस्येशानः” (बृह. उ. 4-4-22), “न तस्येशे कश्चन” (म. ना. उ. 1-10) इत्यादि श्रुत्यर्थोत्रानुसन्धेयः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

भवाय नस्त्वं भव विश्वभावन
त्वमेव माताथ सुहृत्पतिः पिता।
त्वं सद‍्गुरुर्नः परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम॥

मूलम्

भवाय नस्त्वं भव विश्वभावन! त्वमेव माताऽ19थ सुहृत्पतिः पिता।
त्वं सद‍्गुरुर्नः परमञ्च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम॥

अनुवाद (हिन्दी)

विश्वभावन! आप ही हमारे माता, सुहृद्, स्वामी और पिता हैं; आप ही हमारे सद‍्गुरु और परम आराध्यदेव हैं। आपके चरणोंकी सेवासे हम कृतार्थ हो रहे हैं। आप ही हमारा कल्याण करें॥ ७॥

वीरराघवः

हे विश्वभावन! विश्वं जगत् भावयति सत्तास्थितिप्रवृत्तिमत्करोतीति तथाभूत! त्वं नोऽस्माकं भवायाभ्युदयाय भव । “माता पिता भ्राता निवासः शरणं सुहृद् गतिर्नारायणः” (सुबा. उ. 6-1), “तं देवतानां परमञ्च दैवतम्” (श्वेता. उ. 5-7), “पतिं पतीनां परमं परस्तात्” (श्वेता. उ. 6-7), “न तस्य कश्चित्पतिरस्ति लोके नचेशिता नैव च तस्य लिङ्गम्” (श्वेता. उ. 6-9), “यो वै वेदांश्च प्रहिणोति" (श्वेता. उ. 6-18) इत्यादिश्रुत्यर्थ मनुसन्धायोचुः । त्वमेव मातेत्यादि लौकिकस्तु बन्धुरेक एव, त्वं तु सर्वविधबन्धुरिति भावः । यस्य तवानुवृत्त्या सेवया वयं कृतिनः 20कृतकृत्या बभूविम, स त्वं नो भवाय भवेत्यन्वयः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

अहो सनाथा भवता स्म यद्वयं
त्रैविष्टपानामपि दूरदर्शनम्।
प्रेमस्मितस्निग्धनिरीक्षणाननं
पश्येम रूपं तव सर्वसौभगम्॥

मूलम्

अहो सनाथा भवता स्म यद्वयं त्रैवि21ष्टपानामपि दूरदर्शनम्।
प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम्॥ ८ ॥

अनुवाद (हिन्दी)

अहा! हम आपको पाकर सनाथ हो गये; क्योंकि आपके सर्वसौन्दर्यसार अनुपम रूपका हम दर्शन करते रहते हैं। कितना सुन्दर मुख है। प्रेमपूर्ण मुसकानसे स्निग्ध चितवन! यह दर्शन तो देवताओंके लिये भी दुर्लभ है॥ ८॥

वीरराघवः

अहो इति । भवता त्वया वय महो सनाथाः स्म इ22ति यत्सुखप्रदनाथवन्तो बभूविम । कुतः ? यत् यस्मात् तव रूपं पश्येम । कथम्भूतम् ? त्रैविष्टपानां देवानामपि दूरदर्शनं दु23र्दर्शनं प्रेमपूर्वक24स्मित25स्निग्धे सानुरागे ईक्षणे च यस्मिंस्तदाननं यस्य तत्सौभगं सुन्दरम् ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्दिदृक्षया।
तत्राब्दकोटिप्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत॥

मूलम्

यर्ह्यम्बुजाक्षा26पससार भो27 भवान् कुरून् मधून् वाऽथ सुहृद्दिदृक्षया।
तत्राब्दकोटिप्रतिमः क्षणो28 भवेत् र29विं विनाक्ष्णोरिव नस्तवाच्युत॥ ९ ॥

अनुवाद (हिन्दी)

कमलनयन श्रीकृष्ण! जब आप अपने बन्धु-बान्धवोंसे मिलनेके लिये हस्तिनापुर अथवा मथुरा (व्रजमण्डल) चले जाते हैं, तब आपके बिना हमारा एक-एक क्षण कोटि-कोटि वर्षोंके समान लम्बा हो जाता है। आपके बिना हमारी दशा वैसी हो जाती है, जैसे सूर्यके बिना आँखोंकी॥ ९॥

वीरराघवः

भो अम्बुजाक्ष! भवान् सुहृद्दिदृक्षया यदा कुरून् मधून् वा जनपदानपससार जगाम, तत्र तदा हे अच्युत! नोऽस्माकं त्वामपश्यतां, रवेर्विना रविं वि30ना अक्ष्णोः क्षणकालोऽब्दकोटिप्रतिमः संवत्सरकोटिकालतुल्यो भवेत् ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः।
शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरीम्॥

मूलम्

इति चोदीरिता वाचः प्रजानां भक्तव31त्सलः।
शृ32ण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरी33म्॥ १० ॥

अनुवाद (हिन्दी)

भक्तवत्सल भगवान् श्रीकृष्ण प्रजाके मुखसे ऐसे वचन सुनते हुए और अपनी कृपामयी दृष्टिसे उनपर अनुग्रहकी वृष्टि करते हुए द्वारकामें प्रविष्ट हुए॥ १०॥

वीरराघवः

इतीत्थं प्रजानामुदीरिता वाचः शृण्वानो भक्तवत्सलो भगवा नवलोकनेनानुग्रहं वितन्वन्, पुरं प्राविशत् । पूरशब्दोऽयं न तु पुरशब्दः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव॥

मूलम्

मधुभोजदशार्हार्ह कुकुरान्धकवृष्णिभिः।
आत्मतुल्यबलैर्गुप्तां ना34गैर्भोगवतीमिव॥ ११ ॥

अनुवाद (हिन्दी)

जैसे नाग अपनी नगरी भोगवती (पातालपुरी)-की रक्षा करते हैं, वैसे ही भगवान‍्की वह द्वारकापुरी भी मधु, भोज, दशार्ह, अर्ह, कुकुर, अन्धक और वृष्णिवंशी यादवोंसे, जिनके पराक्रमकी तुलना और किसीसे भी नहीं की जा सकती, सुरक्षित थी॥ ११॥

वीरराघवः

कथम्भूतां पुरम् ? मध्वादयो यादवावान्तरविशेषाः तैरात्मतुल्यबलैः कृष्णतुल्यबलैर्नागैः काद्रवेयादिभिः भोगवतीमिव गुप्तां रक्षितां भोगवतीं नाम नागानां पुरीम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम्॥

मूलम्

सर्वर्तु सर्वविभव35 पुण्यवृक्षलताश्रमैः।
उद्यानोपवनारामैर्वृ36तपद्माकरश्रियम्॥ १२ ॥

अनुवाद (हिन्दी)

वह पुरी समस्त ऋतुओंके सम्पूर्ण वैभवसे सम्पन्न एवं पवित्र वृक्षों एवं लताओंके कुंजोंसे युक्त थी। स्थान-स्थानपर फलोंसे पूर्ण उद्यान, पुष्पवाटिकाएँ एवं क्रीडावन थे। बीच-बीचमें कमलयुक्त सरोवर नगरकी शोभा बढ़ा रहे थे॥ १२॥

वीरराघवः

सर्वर्तुषु युगप37न्निर्वृत्तेषु य स्सर्वो विभवः फलपुष्पादिसमृद्धिर्येषां ते पुण्या वृक्षाश्च मन्दारपारिजातादयः, लताः तदधस्तनाः आश्रमाश्च येषु तैः । उद्यानोपवनारामैः वृतानां पद्माकराणां श्रीः शोभा यस्याम् । तत्रोद्यानम् राज्ञां क्रीडास्थानम् । उपवनं वनसमीपस्थम्, आरामः कृतकः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम्।
चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम्॥

मूलम्

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम्।
चित्रध्वजपताकाग्रै रन्तःप्रतिहतातपाम्॥ १३ ॥

अनुवाद (हिन्दी)

नगरके फाटकों, महलके दरवाजों और सड़कोंपर भगवान‍्के स्वागतार्थ बंदनवारें लगायी गयी थीं। चारों ओर चित्र-विचित्र ध्वजा-पताकाएँ फहरा रही थीं, जिनसे उन स्थानोंपर घामका कोई प्रभाव नहीं पड़ता था॥ १३॥

वीरराघवः

गोपुराकाराणां द्वाराणां मार्गेषु कृतानि कौतुकानि मङ्गलार्थानि तोरणानि जम्ब्वाम्रपल्लवादिनिर्मितानि यस्यां चित्राणां ध्वजानां पताकानां चाग्रैरन्तः प्रतिहतो निरस्त आतपो यस्याम् ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

सम्मार्जितमहामार्गरथ्यापणकचत्वराम्।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः॥

मूलम्

सम्मार्जितमहामार्ग रथ्यापणकचत्वराम्।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः॥ १४ ॥

अनुवाद (हिन्दी)

उसके राजमार्ग, अन्यान्य सड़कें, बाजार और चौक झाड़-बुहारकर सुगन्धित जलसे सींच दिये गये थे और भगवान‍्के स्वागतके लिये बरसाये हुए फल-फूल, अक्षत-अंकुर चारों ओर बिखरे हुए थे॥ १४॥

वीरराघवः

सम्मार्जिता महामार्गादियो यस्याम् । महामार्गा राजवीथयः रथ्या उपवीथयः आपणका38नि वणिजां क्रयविक्रयादिगृहाणि चत्व39राणि गजाश्वादिशालाः । गन्धोदकैः सिक्तां, फलादिभिरुप्तां विकीर्णाम् ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः।
अलंकृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः॥

मूलम्

द्वारि द्वारि गृहाणाञ्च दध्यक्षतफलेक्षुभिः।
अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः॥ १५ ॥

अनुवाद (हिन्दी)

घरोंके प्रत्येक द्वारपर दही, अक्षत, फल, ईख, जलसे भरे हुए कलश, उपहारकी वस्तुएँ और धूप-दीप आदि सजा दिये गये थे॥ १५॥

वीरराघवः

प्रतिद्वारं दध्यादिभिर्जलपूर्णकुम्भैः धूपैः दीपैश्चालङ्कृताम्, एवम्भूतां पुरमिति पूर्वेणान्वयः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः।
अक्रूरश्चोग्रसेनश्च रामश्चाद‍्भुतविक्रमः॥

मूलम्

निशम्य प्रे40ष्ठमायान्तं वसुदेवो महामनाः।
अक्रूरश्चोग्रसेनश्च रामश्चाद‍्भुतविक्रमः॥ १६ ॥

वीरराघवः

प्रेष्ठं निरतिशयप्रियतमं भगवन्तमायान्तं निशम्याऽऽकर्ण्य महामना वसुदेवः अक्रूरादयश्च ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः।
प्रहर्षवेगोच्छशितशयनासनभोजनाः॥

मूलम्

प्रद्युम्नश्चारुदे41ष्णश्च सा42म्बो जाम्बवतीसुतः।
प्रहर्षवेगोच्छ43शित शयनासनभोजनाः॥ १७ ॥

वीरराघवः

प्रकृष्टो हर्षस्तस्य वेगेन औत्कण्ठ्येन उच्छ्वसितानि व्युदस्तानि त्यक्तानि इति यावत् । शयनादीनि यैस्तथाभूतास्सन्तः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः।
प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः॥

मूलम्

वारणेन्द्रं पुरस्कृत्य ब्रा44ह्मणैः स45सुमङ्गलैः।
शङ्खतूर्यनिनादेन ब्रह्मघोषेणचाऽऽदृताः।
प्र46त्युज्जग्मू रथैर्हृ47ष्टाः प्रणयागतसाध्वसाः॥ १८ ॥

अनुवाद (हिन्दी)

उदारशिरोमणि वसुदेव, अक्रूर, उग्रसेन, अद‍्भुत पराक्रमी बलराम, प्रद्युम्न, चारुदेष्ण और जाम्बवतीनन्दन साम्बने जब यह सुना कि हमारे प्रियतम भगवान् श्रीकृष्ण आ रहे हैं, तब उनके मनमें इतना आनन्द उमड़ा कि उन लोगोंने अपने सभी आवश्यक कार्य—सोना, बैठना और भोजन आदि छोड़ दिये। प्रेमके आवेगसे उनका हृदय उछलने लगा। वे मंगलशकुनके लिये एक गजराजको आगे करके स्वस्त्ययनपाठ करते हुए और मांगलिक सामग्रियोंसे सुसज्जित ब्राह्मणोंको साथ लेकर चले। शंख और तुरही आदि बाजे बजने लगे और वेदध्वनि होने लगी। वे सब हर्षित होकर रथोंपर सवार हुए और बड़ी आदरबुद्धिसे भगवान‍्की अगवानी करने चले॥ १६—१८॥

वीरराघवः

वारणेन्द्रं गजेन्द्रं पुरस्कृत्य पुरोऽवस्थाप्य ससुमङ्गलैः स्वस्तिवाचनसहितैः ब्राह्मणैः शङ्खानां तूर्याणाञ्च निनादेन ब्रह्मघोषेण 48च सह आदृताः आदरयुक्ताः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः।
लसत्कुण्डलनिर्भातकपोलवदनश्रियः॥

मूलम्

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः।
49सत्कुण्डलनि50र्भात कपोलवदनश्रियः॥ १९ ॥

अनुवाद (हिन्दी)

साथ ही भगवान् श्रीकृष्णके दर्शनके लिये उत्सुक सैकड़ों श्रेष्ठ वारांगनाएँ, जिनके मुख कपोलोंपर चमचमाते हुए कुण्डलोंकी कान्ति पड़नेसे बड़े सुन्दर दीखते थे, पालकियोंपर चढ़कर भगवान‍्की अगवानीके लिये चलीं॥ १९॥

वीरराघवः

हे ब्रह्मन्! प्रणयेन हेतुना आगतं साध्वसं भयं येषां तथाभूतास्सन्तो रथैर्गमनसाधनैः प्रत्युज्जग्मुरभिमुखं ययुः । तथा वारमुख्याः गणिकाश्रेष्ठाश्च लसद्भ्यां कुण्डलाभ्यां निर्भातौ कपोलौ येषु तेषां वदनानां श्रीः शोभा यासां ताः तद्दिदृक्षया यानैर्गमनसाधनैः प्रत्युज्जग्मुः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

नटनर्तकगन्धर्वाः सूतमागधवन्दिनः।
गायन्ति चोत्तमश्लोकचरितान्यद‍्भुतानि च॥

मूलम्

नटनर्तकगन्धर्वाः स्सूतमागधवन्दिनः।
गायन्ति51 चोत्तमश्लोक चरितान्यद‍्भुतानि च॥ २० ॥

अनुवाद (हिन्दी)

बहुत-से नट, नाचनेवाले, गानेवाले, विरद बखाननेवाले सूत, मागध और वंदीजन भगवान् श्रीकृष्णके अद‍्भुत चरित्रोंका गायन करते हुए चले॥ २०॥

वीरराघवः

नटादयोऽद्भुतानि उत्तमश्लोकस्य भगवतश्चरितानि जगुः । तत्र नटा अभिनेतारः । नर्तकाः स्त्रीणां नृत्यशिक्षकाः । गन्धर्वा गायकाः । सूताः पौराणिकाः । मागधा वंशावलिपाठकाः । वन्दिनः मङ्गलवादिनः, स्तोत्रपाठकाश्च ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम्।
यथाविध्युपसंगम्य सर्वेषां मानमादधे॥

मूलम्

भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम्।
यथावि52ध्युपसङ्गम्य सर्वेषां मानमादधे॥ २१ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने बन्धु-बान्धवों, नागरिकों और सेवकोंसे उनकी योग्यताके अनुसार अलग-अलग मिलकर सबका सम्मान किया॥ २१॥

श्लोक-२२

विश्वास-प्रस्तुतिः

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः।
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः॥

मूलम्

प्र53ह्वाभिवा54दनाश्लेषकरस्पर्शस्मितेक्षणैः।
आश्वास्य चा55श्वपाकेभ्यो वरैश्चाभिमतैर्विभुः॥ २२ ॥

वीरराघवः

तत्र भगवान् यथाविधि नमस्कारालिङ्गनकरस्पर्शस्मितावलोकनादिभिर्यथायोग्यं वसुदेवादिभि रुपसङ्गम्य सर्वेषां पौराणा मनुवर्तिनां भृत्यानाञ्च मान मादधे, सम्मानं चकार । विभुः भगवान् श्वपाकपर्यन्तेभ्यः - चतुर्थ्यन्तमिदं आश्वास्योपच्छन्द्य, अभिमतैर्वरैर्मानिमादधे इत्यन्वयः ॥ २१, २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि।
आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम्॥

मूलम्

स्वयञ्च गुरुभिर्विप्रैः सदारैः स्थविरैरपि।
आशीर्भिर्युज्यमानोऽन्यैर्व56न्दिभिश्चाविशत्पुर57म्॥ २३ ॥

अनुवाद (हिन्दी)

किसीको सिर झुकाकर प्रणाम किया, किसीको वाणीसे अभिवादन किया, किसीको हृदयसे लगाया, किसीसे हाथ मिलाया, किसीकी ओर देखकर मुसकरा भर दिया और किसीको केवल प्रेमभरी दृष्टिसे देख लिया। जिसकी जो इच्छा थी, उसे वही वरदान दिया। इस प्रकार चाण्डालपर्यन्त सबको संतुष्ट करके गुरुजन, सपत्नीक ब्राह्मण और वृद्धोंका तथा दूसरे लोगोंका भी आशीर्वाद ग्रहण करते एवं वंदीजनोंसे विरुदावली सुनते हुए सबके साथ भगवान् श्रीकृष्णने नगरमें प्रवेश किया॥ २२-२३॥

वीरराघवः

स्वयञ्च सदारैर्गुरुभिः स्थविरैर्वृद्धेर्विप्रैरनैर्वन्दिभिश्च कृ58ताभि राशीर्भिश्च युज्यमानः पुरमाविशत् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः।
हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः॥

मूलम्

राजमार्गं गते कृष्णे द्वारकायाः59 कुलस्त्रियः।
हर्म्याण्यारुरुहुर्विप्र60! तदीक्षणमहोत्सवाः॥ २४ ॥

अनुवाद (हिन्दी)

शौनकजी! जिस समय भगवान् राजमार्गसे जा रहे थे, उस समय द्वारकाकी कुल-कामिनियाँ भगवान‍्के दर्शनको ही परमानन्द मानकर अपनी-अपनी अटारियोंपर चढ़ गयीं॥ २४॥

वीरराघवः

द्वारकायाः राजमार्गं कृष्णे गते सति तत्र तत्र स्त्रियः तस्य कृष्णस्येक्षणे महानुत्सवो हर्षो यासां ताः । हे विप्र! हर्म्याणि सौधान्यारुरुहुः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम्।
नैव तृप्यन्ति हि दृशः श्रियोधामाङ्गमच्युतम्॥

मूलम्

नित्यं निरीक्षमाणानां यद61पि द्वारकौकसाम्।
62 वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम्॥ २५ ॥

वीरराघवः

नित्यं निरीक्षमाणानामपि कुतो दिदृक्षा बभूवेत्यत्राह - नित्यमिति । यत् यस्मात् नित्यं श्रियो धामाङ्ग लक्ष्मीनिवासदेहम् । ‘श्रियो धामान’मिति च पाठः । अच्युतं नित्यं निरीक्षमाणानामपि द्वारकौकसां, द्वारका ओकः स्थानं यासां, तासां स्त्रीणां दृशो न वितृप्यन्ति । तस्मात्तदीक्षणमहोत्सवा हर्म्याणि आरुरुहुरित्यर्थः । हिशब्देन अतृप्तेः प्रसिद्धिर्द्योत्यते ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम्।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्॥

मूलम्

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम्।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्॥ २६ ॥

अनुवाद (हिन्दी)

भगवान‍्का वक्षःस्थल मूर्तिमान् सौन्दर्यलक्ष्मीका निवासस्थान है। उनका मुखारविन्द नेत्रोंके द्वारा पान करनेके लिये सौन्दर्य-सुधासे भरा हुआ पात्र है। उनकी भुजाएँ लोकपालोंको भी शक्ति देनेवाली हैं। उनके चरणकमल भक्त परमहंसोंके आश्रय हैं। उनके अंग-अंग शोभाके धाम हैं। भगवान‍्की इस छविको द्वारकावासी नित्य-निरन्तर निहारते रहते हैं, फिर भी उनकी आँखें एक क्षणके लिये भी तृप्त नहीं होतीं॥ २५-२६॥

वीरराघवः

उचिता चैषा ह्यतृप्तिरित्यभिप्रायेणाह - श्रिय इति । यस्येत्यस्य उरोमुखबाहुपदाम्बुजैः प्रत्येकमन्वयः । यस्योरः श्रियो निवासः स्थानम्, उरोलावण्यानुभवाय तदेव63 वासमाश्रितवती श्रीरित्यभिप्रायः । यस्य मुखं, दृशां पश्यञ्चनचक्षुषां पानपात्रं, तल्लावण्यरसपानपात्रं, यस्य च हि बाहवो लोकपालानां पानपात्रं, तल्लावण्यरसपानपात्र, यस्य च पदाम्बुजं, सारडङ्गाणां, सारं गच्छतां सारग्राहिणां मुनीनां तल्लावण्यपानपात्रं, सारं गायन्तीति सारङ्गाः, सारतमार्थवक्तार इति च । तमच्युतं नित्यं निरीक्षमाणानामपि दृशो न वितृप्यन्तीति युक्तमेवेत्यर्थः ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

सितातपत्रव्यजनैरुपस्कृतः
प्रसूनवर्षैरभिवर्षितः पथि।
पिशङ्गवासा वनमालया बभौ
घनो यथार्कोडुपचापवैद्युतैः॥

मूलम्

सितातपत्रव्यजनै रुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि।
पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः॥ २७ ॥

अनुवाद (हिन्दी)

द्वारकाके राजपथपर भगवान् श्रीकृष्णके ऊपर श्वेतवर्णका छत्र तना हुआ था, श्वेत चँवर डुलाये जा रहे थे, चारों ओरसे पुष्पोंकी वर्षा हो रही थी, वे पीताम्बर और वनमाला धारण किये हुए थे। इस समय वे ऐसे शोभायमान हुए , मानो श्याम मेघ एक ही साथ सूर्य, चन्द्रमा, इन्द्रधनुष और बिजलीसे शोभायमान हो॥ २७॥

वीरराघवः

सितेति । पथि सितातपत्रञ्च व्यजने च तैरुपस्कृतः सितातपत्रेणावृतः, व्यजनाभ्याञ्च वीज्यमान इत्यर्थः । पिशङ्गे वाससी यस्य स भगवान् वनमालया बभौ । कथम् ? यथा अर्कादिभिः युगपत्समुदितैः घनो नीलाम्बुदस्तद्वत् । अभूतोपमैषा । नर्ह्यर्कोडुपयोः सहावस्थानमस्ति । तत्रार्कादिस्थानीया मु64कुटवनमालावस्त्रभूषणादयः, विद्युदेव वैद्युतम् । उडुपश्चन्द्रः । यद्वा उडुपग्रहणं गुरुशुक्रयोः, अन्येषां नक्षत्राणामप्युपलक्षणम् । तत्रोडुपस्थानीयं सितातपत्रं गुरुशुक्रस्थानीये व्यजने नक्षत्रस्थानीयानि प्रसूनानि, इन्द्रम65णिस्थानीया वनमाला, विद्युत्स्थानीयं पिशङ्गवस्त्रम्, अर्कस्थानीयं तु मु66कुटमिति सितातपत्राद्युपस्कृतत्वादि विशेषणसामर्थ्यात् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा॥

मूलम्

प्रविष्टस्तु गृहं पि67त्रोः परिष्वक्तः स्व68मातृभिः।
ववन्दे शिरसा सप्त देवकीप्रमुखा मु69दा॥ २८ ॥

वीरराघवः

ततस्तु पित्रोर्देवकी वसुदेवयोर्गृहं प्रविष्टो भगवान् मातृभिर्देवकीरोहिण्यादिभिः परिष्वक्तः आलिङ्गितः देवकीप्रमुखा मातृृर्मुदा शिरसा मनसा ववन्दे ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः॥

मूलम्

ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः॥ २९ ॥

अनुवाद (हिन्दी)

भगवान् सबसे पहले अपने माता-पिताके महलमें गये। वहाँ उन्होंने बड़े आनन्दसे देवकी आदि सातों माताओंको चरणोंपर सिर रखकर प्रणाम किया और माताओंने उन्हें अपने हृदयसे लगाकर गोदमें बैठा लिया। स्नेहके कारण उनके स्तनोंसे दूधकी धारा बहने लगी, उनका हृदय हर्षसे विह्वल हो गया और वे आनन्दके आँसुओंसे उनका अभिषेक करने लगीं॥ २८-२९॥

वीरराघवः

ता देवक्यादयः पुत्रं कृष्णमङ्कमारोप्य स्नेहेन स्रुतौ 70पयोधरौ स्तनौ यासां, हर्षेण विह्वलित आत्मा मनो यासां तथाभूताः नेत्रजलैरानन्दबाष्यैः सिषिचुः ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

अथाविशत् स्वभवनं सर्वकाममनुत्तमम्।
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश॥

मूलम्

अथाविशत् स्व71भवनं सर्वकाममनुत्तमम्।
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश॥ ३० ॥

अनुवाद (हिन्दी)

माताओंसे आज्ञा लेकर वे अपने समस्त भोग-सामग्रियोंसे सम्पन्न सर्वश्रेष्ठ भवनमें गये। उसमें सोलह हजार पत्नियोंके अलग-अलग महल थे॥ ३०॥

वीरराघवः

अथ ततः, स्वभवनं स्वगृहं प्राविशत् । कथम्भूतम् ? सर्वे कामाः काम्यमानाः भोग्यभोगोपकरण72स्थानादयो यस्मिन्, नास्त्युत्तमं यस्मात् यत्र पत्नीनां षोडशसहस्राणि प्रासादास्तथाभूतम् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

पत्न्यः पतिं प्रोष्य गृहानुपागतं
विलोक्य संजातमनोमहोत्सवाः।
उत्तस्थुरारात् सहसाऽऽसनाशयात्
साकं व्रतैर्व्रीडितलोचनाननाः॥

मूलम्

पत्न्यः प73तिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः।
उत्तस्थुरारात् सहसाऽऽसनाश74यात् सा75कं व्रतैर्व्रीडितलोचनाननाः॥ ३१ ॥

अनुवाद (हिन्दी)

अपने प्राणनाथ भगवान् श्रीकृष्णको बहुत दिन बाहर रहनेके बाद घर आया देखकर रानियोंके हृदयमें बड़ा आनन्द हुआ। उन्हें अपने निकट देखकर वे एकाएक ध्यान छोड़कर उठ खड़ी हुईं; उन्होंने केवल आसनको ही नहीं; बल्कि उन नियमोंको* भी त्याग दिया, जिन्हें उन्होंने पतिके प्रवासी होनेपर ग्रहण किया था। उस समय उनके मुख और नेत्रोंमें लज्जा छा गयी॥ ३१॥

पादटिप्पनी
  • जिस स्त्रीका पति विदेश गया हो, उसे इन नियमोंका पालन करना चाहिये।
    क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्।
    हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका॥
    जिसका पति परदेश गया हो, उस स्त्रीको खेल-कूद, शृंगार, सामाजिक उत्सवोंमें भाग लेना, हँसी-मजाक करना और पराये घर जाना—इन पाँच कामोंको त्याग देना चाहिये। (याज्ञवल्क्यस्मृति)
वीरराघवः

तदा प्रोष्य प्रवासं कृत्वा गृहानुपागतं प्रियं दूराद्विलोक्य पत्न्यो रुक्मिण्यादयः सञ्जातो मनसि महान् उत्सवो हर्षो यासां, व्रीडिते लोचने येषु तान्याननानि यासां तथाभूताः व्रतैः सहासनाशयात् सहसा आशु उत्तस्थुः । तत्र व्रतेभ्यः उत्थानं नाम भर्त्रागमनार्थं व्रतत्यागः, आसना दुत्थानं प्रसिद्धम् । आशया दभिप्रायादुत्थानं दिदृक्षौत्कण्ठ्यत्यागः दर्शनस्य जातत्वात् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

तमात्मजैर्दृष्टिभिरन्तरात्मना
दुरन्तभावाः परिरेभिरे पतिम्।
निरुद्धमप्यास्रवदम्बु नेत्रयो-
र्विलज्जतीनां भृगुवर्य वैक्लवात्॥

मूलम्

तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम्।
निरुद्धमप्या76स्रवदम्बु नेत्रयोर्विल77ज्जतीनां भृगुवर्य वै78क्लवात्॥ ३२ ॥

अनुवाद (हिन्दी)

भगवान‍्के प्रति उनका भाव बड़ा ही गम्भीर था। उन्होंने पहले मन-ही-मन, फिर नेत्रोंके द्वारा और तत्पश्चात् पुत्रोंके बहाने शरीरसे उनका आलिंगन किया। शौनकजी! उस समय उनके नेत्रोंमें जो प्रेमके आँसू छलक आये थे, उन्हें संकोचवश उन्होंने बहुत रोका। फिर भी विवशताके कारण वे ढलक ही गये॥ ३२॥

वीरराघवः

तमिति । दुरन्तोऽगाधो भावः स्नेहो यासां ताः पत्न्यः समागतं तं पतिम् आत्मजैर्दृष्टिभिरन्तरात्मना च परिरेभिरे आलिङ्गितवत्यः । श79रीरपरिरम्भस्य रहःकालिकत्वात्तं न साक्षात् चक्रुः, अपितु पुत्रैः प्रद्युम्नादिपुत्रद्वारेणेत्यभिप्रायेण पुत्रैरित्युक्तम् । मनसा चक्षुषा च समं साक्षादेव चक्रुरित्यभिप्रायेण अन्तरात्मना दृष्टिभिश्चेत्युक्तम् । हे भृगुवर्य! विलज्जतीनां तासाम्, अत एव नेत्रयोः अम्बु निरुद्धमपि वि80क्लबादधा81र्ष्ट्यात् अस्रवत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

यद्यप्यसौ पार्श्वगतो रहोगत-
स्तथापि तस्याङ्घ्रियुगं नवं नवम्।
पदे पदे का विरमेत तत्पदा-
च्चलापि यच्छ्रीर्न जहाति कर्हिचित्॥

मूलम्

यद्यप्यसौ पार्श्वगतोरहोगतस्त82त्राऽऽपि तस्याङ्घ्रियुगं नवं नवम्।
पदे पदे का विरमेत तत्पदाच्चलापि य83च्छ्रीर्न जहाति कर्हिचित्॥ ३३ ॥

अनुवाद (हिन्दी)

यद्यपि भगवान् श्रीकृष्ण एकान्तमें सर्वदा ही उनके पास रहते थे, तथापि उनके चरण-कमल उन्हें पद-पदपर नये-नये जान पड़ते। भला, स्वभावसे ही चंचल लक्ष्मी जिन्हें एक क्षणके लिये भी कभी नहीं छोड़तीं, उनकी संनिधिसे किस स्त्रीकी तृप्ति हो सकती है॥ ३३॥

वीरराघवः

व्रतैस्साक मासनाशया दुत्तस्थुः तमात्मजैरित्यादिना च तासां तद्विरहासहिष्णुत्वं सूचितम् । तदेवोपपादयति - यद्यपि इति । यद्यप्यसौ भगवान् कृष्णस्तासां पार्श्वगतः, रहोगतश्च, तथाऽपि तस्याङ्घ्रियुगं तासां नवं नवमेवाभूत् । य84तस्तत्पदात्तस्य पदारविन्दात् का विरमेत ? विश्लिष्यावस्थातुमुत्सहेत ? न कापीत्यर्थः । तदेव दर्शयितुं विशिनष्टि । चला, इतरत्र चञ्चला श्रीर्लक्ष्मीरपि कदापि य85त् यदङ्घ्रिं न जहाति, तत्पदात्का विरमेतेत्यन्वयः । तदापीति पाठान्तरम् । तत्र यद्यपि पार्श्वगतो रहोगतश्च, तदाऽपि तस्याङ्घ्रियुगं नवं नवं, किं पुनः कदाचि दन्तरितं नवं नवमिति कैमुत्यन्यायसिद्धमिति भावः । उत्तरार्धं तु यथोक्तार्थमेव ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

एवं नृपाणां क्षितिभारजन्मना-
मक्षौहिणीभिः परिवृत्ततेजसाम्।
विधाय वैरं श्वसनो यथानलं
मिथो वधेनोपरतो निरायुधः॥

मूलम्

एवं नृपाणां क्षितिभारजन्मनामक्षौहिणीभिः परिवृत्त86तेजसाम्।
विधाय वैरं श्वसनो यथाऽनलं मिथो वधे87नोपरतो निरायुधः॥ ३४ ॥

अनुवाद (हिन्दी)

जैसे वायु बाँसोंके संघर्षसे दावानल पैदा करके उन्हें जला देता है, वैसे ही पृथ्वीके भारभूत और शक्तिशाली राजाओंमें परस्पर फूट डालकर बिना शस्त्र ग्रहण किये ही भगवान् श्रीकृष्णने उन्हें कई अक्षौहिणी सेनासहित एक-दूसरेसे मरवा डाला और उसके बाद आप भी उपराम हो गये॥ ३४॥

वीरराघवः

अथोपरितनं वृत्तान्तं सङ्गृह्य विवक्षुरुक्तवृत्तान्तं समासतोऽनुवदति एवम् इति । क्षितेर्भूमेर्भारस्य जन्मादयो येभ्यः अक्षौहिणीभिः परिवृतं परितो व्याप्तं तेजः शौर्यं येषां तेषां नृपाणां कौरवाणां पाण्डवानाञ्च मिथः वैरं श्वसनो वायु रनलमग्निमिव विधाय वर्धयित्वा स्वयं निरायुध एव तेषां मिथो वधेन वधाद्य उपरत: उपरराम उपसंहृतवान् स एष इत्युत्तरेणान्वयः स्वयं निरायुध एव सन् तेषां मिथो वधं कारयन् यः स्वयं तूष्णीम् अवस्थित इत्यर्थः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा॥

मूलम्

स एष88 नरलोकेऽस्मिन् अवतीर्णः स्वमायया।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा॥ ३५ ॥

अनुवाद (हिन्दी)

साक्षात् परमेश्वर ही अपनी लीलासे इस मनुष्यलोकमें अवतीर्ण हुए थे और सहस्रों रमणी-रत्नोंमें रहकर उन्होंने साधारण मनुष्यकी तरह क्रीडा की॥ ३५॥

वीरराघवः

स एष इति । स एषः स्वमायया आत्मीयसङ्कल्पेन अस्मिन्नरलोकेऽवतीर्णो भगवान् स्त्रिय एव रत्नानि तेषां कूटस्थः समुदायस्थितः रेमे चिक्रीडे । यथा प्राकृतः स्त्रीवश्यस्तद्वत् । प्राकृतो यथेत्यनेन स्त्रीवश्यत्वानुकारमात्रमेव न तु परमार्थतस्तदस्तीति सूचितम् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

उद्दामभावपिशुनामलवल्गुहास-
व्रीडावलोकनिहतो मदनोऽपि यासाम्।
सम्मुह्य चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः॥

मूलम्

उद्दामभावपिशुनामलवल्गुहास व्रीडावलोकनि89हतो90 मदनोऽपि यासाम्।
सम्मुह्य चापमजहात् प्रमदोत्तमास्ता यस्येन्द्रियं विमञ्चितुं कुहकैर्न शेकुः॥ ३६ ॥

वीरराघवः

तदेव व्यञ्जयितुं विशिनष्टि - उद्दामेति । ताः प्रमदोत्तमाः कुहकैर्वचनोपायैर्यस्येन्द्रियं प्रमथितुं न शेकुः न प्राभवन् तमपीत्युत्तरेणान्वयः । सुतरां पारवश्यत्वाभावसूचनायास्य प्रमदोत्तमा विशिनष्टि । यासां उद्दामभावादिभिर्निहत सन् मदनोऽपि सम्मुह्य मोहं प्राप्य स्वयं चापं धनु रजहात्तत्याज, ताः प्रमदोत्तमाः इत्यन्वयः । उद्दाम उदारोऽगाध इति यावत् । भावोऽभिप्राय स्तेन पिशुनः चित्ताकर्षसूचकः अमलः सुन्दरश्च हासस्तेन च व्रीडापूर्वकावलोकनेन च निहतः अभिभूतः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम्।
आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः॥

मूलम्

91मयं मन्यते लोको ह्यस92ङ्गमपि सङ्गिनम्।
आत्मौपम्येन मनुजं व्या93पृण्वानं यतोऽबुधः॥ ३७ ॥

अनुवाद (हिन्दी)

जिनकी निर्मल और मधुर हँसी उनके हृदयके उन्मुक्त भावोंको सूचित करनेवाली थी, जिनकी लजीली चितवनकी चोटसे बेसुध होकर विश्वविजयी कामदेवने भी अपने धनुषका परित्याग कर दिया था—वे कमनीय कामिनियाँ अपने काम-विलासोंसे जिनके मनमें तनिक भी क्षोभ नहीं पैदा कर सकीं, उन असंग भगवान् श्रीकृष्णको संसारके लोग अपने ही समान कर्म करते देखकर आसक्त मनुष्य समझते हैं—यह उनकी मूर्खता है॥ ३६-३७॥

वीरराघवः

एवंविधं तं यः स्त्रीवश्यं मन्यते सोऽज्ञ इत्याह - तम् इति । मनुजं व्यापृण्वानं मनुजवच्चेष्टमानं मनुष्यभावेन स्वयाथात्म्यमाच्छादयन्तमित्यर्थः । वस्तुतो निस्सङ्गमपि सङ्गिनमिव भासमानं तमिमं भगवन्तं यो लोको जन आत्मौपम्येन स्वतुल्यत्वेन मन्यते, सोऽयं लोकः अतो हेतो बुधः नितरामज्ञः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

एतदीशनमीशस्य प्रकृतिस्थोऽपि तद‍्गुणैः।
न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया॥

मूलम्

94तदीशनमीशस्य प्रकृतिस्थोऽपि तद‍्गुणैः।
न युज्यते सदाऽऽत्मस्थैर्यथा बुद्धिस्तदाश्रया॥ ३८ ॥

अनुवाद (हिन्दी)

यही तो भगवान‍्की भगवत्ता है कि वे प्रकृतिमें स्थित होकर भी उसके गुणोंसे कभी लिप्त नहीं होते, जैसे भगवान‍्की शरणागत बुद्धि अपनेमें रहनेवाले प्राकृत गुणोंसे लिप्त नहीं होती॥ ३८॥

वीरराघवः

अथ विषयैरनाकृष्टत्वमीश्वरस्य नाश्चर्यमित्यभिप्रायेणेश्वरत्वं निर्वक्ति - एतत् इति । प्रकृतिस्थोऽपि मूलप्रकृतिव्यापकोऽपि तद्गुणैस्सत्त्वादिभिरात्मस्थैर्जीवगतैरविद्यास्मितारागद्वेषादिभिश्च गुणैस्सदा न युज्यते इति, यदेतदेव ईश्वरस्येशनमित्यन्वयः । सदेत्यनेन मुक्तव्यावृत्तिः, स हि पूर्वं तैर्युक्तः । हेयगुणास्पर्शोदाहरणमाह यथेति । तदाश्रया ईश्वराश्रया बुद्धिस्तज्ज्ञानं यथा सत्त्वादिभिर्न युज्यते । नहि “स्वाभाविकी ज्ञानबलक्रिया च” इत्युक्तविधं स्वतस्सर्वगतस्य 95ज्ञानं सत्त्वरजस्तमोन्वयाधीन सम्यक्त्वासम्यक्त्वयुक्तं स एवं सर्वप्रकारेण 96चिदचिद्गतहेयरहित इति य97त्तदेव हि ईश्वस्येश्वरत्वमित्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा॥

मूलम्

तं मेनिरे98ऽबला मू99ढाः स्त्रैणञ्चानुव्रतं रहः।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा॥ ३९ ॥100

अनुवाद (हिन्दी)

वे मूढ़ स्त्रियाँ भी श्रीकृष्णको अपना एकान्तसेवी, स्त्रीपरायण भक्त ही समझ बैठी थीं; क्योंकि वे अपने स्वामीके ऐश्वर्यको नहीं जानती थीं—ठीक वैसे ही जैसे अहंकारकी वृत्तियाँ ईश्वरको अपने धर्मसे युक्त मानती हैं॥ ३९॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नामैकादशोऽध्यायः॥ ११॥

वीरराघवः

यथैवमज्ञो लोक स्त मुक्तविधमीश्वरमात्मतुल्यं मन्यते तथा ताः स्त्रियोऽप्यज्ञानादात्मवश्य ममन्यन्तेत्याह - तम् इति । संसारिणामिन्द्रियप्रसूता मतयो यथेश्वरं न जानन्ति, किन्तु मौढ्यादन्यथा मे101निरे । एवं मूढास्ता अबलाः स्त्रियोऽपि तं भगवन्तं रहः स्त्रैणं स्त्रीसमूह मनुव्रतं स्त्रीसमूहानुवर्तिनं मेनिरे । तत्र हेतुः भर्तुरप्रमाणविदः । प्रमीयत इति प्रमाणं स्वरूपम् । तत्स्वरूपमजानत्यः ॥ ३९ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां एकादशोऽध्यायः ॥ ११ ॥


  1. AF,GF शङ्ख ↩︎

  2. H,V द ↩︎

  3. B,H,N,V,W ष ↩︎

  4. W रे ↩︎

  5. W adds नितरां चकाशे ↩︎

  6. W ष ↩︎

  7. H,K,M द्भवभयापहम्; v द्भवभयावहम् ↩︎

  8. K,M नत्वोप ↩︎

  9. H,V मिवोद्यताः ↩︎

  10. AF,GF दंस ↩︎

  11. H,V हे ↩︎

  12. H,V,W तवा ↩︎

  13. H,V,W ञ्चि ↩︎

  14. A,B,G,I,N,W ञ्च्य ↩︎

  15. B,K,M,N र ↩︎

  16. AF,GF भो! ↩︎

  17. W विरिञ्चेन ↩︎

  18. W चतुर्मुखेन ↩︎

  19. H,K,M,V ऽऽत्म ↩︎

  20. W adds कृतार्थाः ↩︎

  21. B पिं ↩︎

  22. W निरतिशयसुख ↩︎

  23. W दुर्दर्शं ↩︎

  24. W कं ↩︎

  25. W तं ↩︎

  26. K,M क्षाञ्चति माधवो ↩︎

  27. H नो ↩︎

  28. H,V णोऽभवत् ↩︎

  29. H,K,M,V,W रवे र्विनाक्ष्णामिव ↩︎

  30. W विनेव अक्ष्णां ↩︎

  31. H,V पालकः ↩︎

  32. H,V शृण्वन्ननु ↩︎

  33. I,W रम् ↩︎

  34. W भो ↩︎

  35. H,K,M,V,W वैः ↩︎

  36. K.M र्धृत; H,V र्वृतां ↩︎

  37. W पत्प्रवृत्तेषु ↩︎

  38. W का: ↩︎

  39. W राः ↩︎

  40. K,M कृष्ण ↩︎

  41. H,V,W थे ↩︎

  42. H,V ये च साम्बगदादय: ; AF,GF चारुसाम्बगदादय: ↩︎

  43. H,K,M,V,W च्छृसि ↩︎

  44. B पाणिभिः ↩︎

  45. AF,GF तु ↩︎

  46. AF,GF प्रतिजग्मू ↩︎

  47. H,V ब्रह्मन्! ↩︎

  48. W adds वेदघोषेण ↩︎

  49. K,M चल ↩︎

  50. AF,GF निर्भिन्न ↩︎

  51. AF,GF न्त उ ↩︎

  52. H,V विधि समा ↩︎

  53. AF,GF बान्धवानथ आश्लिष्य ↩︎

  54. K,M वन्द ↩︎

  55. K,M आ ↩︎

  56. K,M र्बन्धभि ↩︎

  57. AF,GF रीम् ↩︎

  58. W कर्तृभिः ↩︎

  59. H,V यां ↩︎

  60. B,H,K,M,V प्राः ↩︎

  61. K,M द्य ↩︎

  62. B नैव ↩︎

  63. W वा ↩︎

  64. W म ↩︎

  65. W धनुः ↩︎

  66. W म ↩︎

  67. AF,GF कृष्ण: ↩︎

  68. K,M,W च ↩︎

  69. B,H,V स्त ↩︎

  70. W adds प्रस्रवन्तौ ↩︎

  71. M स ↩︎

  72. W णभोगस्था ↩︎

  73. W प्रियं ↩︎

  74. AF,GF श्रया , K,M श्रयाः ↩︎

  75. K,M साकम्पितव्रीडित; AF,GF सकञ्चुका व्रीडित ↩︎

  76. K,M प्य ↩︎

  77. H,V लज्जितानां ↩︎

  78. H,V वि ↩︎

  79. W शा ↩︎

  80. W वै ↩︎

  81. W दाढर्यात् ↩︎

  82. H,K,M,V तासां तथाप्यङ्घ्रि; WF स्तदा ↩︎

  83. H,K,M,V यं श्री ↩︎

  84. W यत एव मतस्त ↩︎

  85. W यं ↩︎

  86. AF,GF द्ध ↩︎

  87. AF,GF धायो ↩︎

  88. H,V वं ↩︎

  89. K,M वि ↩︎

  90. B तोऽमद ↩︎

  91. K,M मन्यते तन्मयं; W तमिमं ↩︎

  92. B,H,V सक्त ↩︎

  93. K,M प्रावृण्वान मतोऽ, H,V,W व्यावृण्वान मतोऽ ↩︎

  94. K,M यत्तदी ↩︎

  95. W adds तस्य ↩︎

  96. W adds अपि ↩︎

  97. W एतदेव ↩︎

  98. K,M रे खला: ↩︎

  99. B,H,V मौढ्यात् ↩︎

  100. Here ends the 10th chapter of the 1st Skandha in K&M. ↩︎

  101. W मन्वते ↩︎