[दशमोऽध्यायः]
भागसूचना
श्रीकृष्णका द्वारका-गमन
श्लोक-१
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
हत्वा स्वरिक्थस्पृध आततायिनो
युधिष्ठिरो धर्मभृतां वरिष्ठः।
सहानुजैः प्रत्यवरुद्धभोजनः
कथं प्रवृत्तः किमकारषीत्ततः॥
मूलम्
हत्वा स्वरिक्थस्पृध1 आततायिनो युधिष्ठिरो धर्मभृतां व2रिष्ठः।
सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमका3रषीत्ततः॥ १ ॥
अनुवाद (हिन्दी)
शौनकजीने पूछा—धार्मिकशिरोमणि महाराज युधिष्ठिरने अपनी पैतृक सम्पत्तिको हड़प जानेके इच्छुक आततायियोंका नाश करके अपने भाइयोंके साथ किस प्रकारसे राज्य-शासन किया और कौन-कौन-से काम किये, क्योंकि भोगोंमें तो उनकी प्रवृत्ति थी ही नहीं॥ १॥
वीरराघवः
धर्मेण राज्यं चकारेत्युक्तम्, तदेव विस्तरतो बुभुत्सुः उक्तानुवादपूर्वकं पृच्छति शौनकः - हत्वेति । स्वरिक्थस्पृधः स्वदायलिप्सून् । स्पृह4 इति पाठेऽपि स एवार्थः । हकारस्य धकार आर्षः । अत एवाऽऽततायिनो दुर्योधनादीन् हत्वा प्रत्यवरुद्धं प्रत्यधिगतं प्रतिप्राप्तं भोजनं राज्यं येन स धर्मभृतां वरिष्ठो युधिष्ठिरः । गविष्ठिर इति पाठे, गवि वचसि स्थिरो युधिष्ठिरः अनुजैर्भीमादिभिस्सह कथं प्रवृत्तः ? राज्यशासन इति शेषः । ततो राज्यशासनानन्तरं किमकार्षीदिति प्रश्नद्वयम् । रेफविश्लेष आर्षः ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
वंशं कुरोर्वंशदवाग्निनिर्हृतं
संरोहयित्वा भवभावनो हरिः।
निवेशयित्वा निजराज्य ईश्वरो
युधिष्ठिरं प्रीतमना बभूव ह॥
मूलम्
वंशं कुरोर्वंशदवाग्निनिर्हृ5तं संरोहयित्वा भवभा6वनो हरिः।
निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह7॥ २ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—सम्पूर्ण सृष्टिको उज्जीवित करनेवाले भगवान् श्रीहरि परस्परकी कलहाग्निसे दग्ध कुरुवंशको पुनः अंकुरितकर और युधिष्ठिरको उनके राज्यसिंहासनपर बैठाकर बहुत प्रसन्न हुए॥ २॥
वीरराघवः
तत्र तावत् कथं प्रवृत्त इति प्रश्नस्योत्तरं वि8वक्षुरुपोद्वाततया भगवतः कृतकृत्यत्वमाह - वंशमिति । वंशदवाग्निना वेणुवनसङ्घर्षणजदवाग्नितुल्येन कुलकलहेन दग्धं विनष्टं कुरोर्वशं संरोहयित्वा, परीक्षिद्रूपेणोत्पा9दयित्वा भवभावनः, भवो जगत् तं भावयति वर्धयतीति भवभावनः । हेतुगर्भं इदं, भवभावनत्वात्संरोहयित्वा । हरिः ईश्वरः श्रीकृष्णो युधिष्ठिरं निजराज्ये निवेशयित्वा प्रीतमना बभूव । कृतकृत्यत्वादिति भावः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
निशम्य भीष्मोक्तमथाच्युतोक्तं
प्रवृत्तविज्ञानविधूतविभ्रमः।
शशास गामिन्द्र इवाजिताश्रयः
परिध्युपान्तामनुजानुवर्तितः॥
मूलम्
निशम्य भीष्मोक्तमथाच्युतो10क्तं प्रवृत्तविज्ञानविधूतविभ्रमः।
शशास गामिन्द्र इवाजि11ताश्रयः प12रिध्युपान्तामनुजानुवर्तितः॥ ३ ॥
अनुवाद (हिन्दी)
भीष्मपितामह और भगवान् श्रीकृष्णके उपदेशोंके श्रवणसे उनके अन्तःकरणमें विज्ञानका उदय हुआ और भ्रान्ति मिट गयी। भगवान्के आश्रयमें रहकर वे समुद्रपर्यन्त सारी पृथ्वीका इन्द्रके समान शासन करने लगे। भीमसेन आदि उनके भाई पूर्णरूपसे उनकी आज्ञाओंका पालन करते थे॥ ३॥
वीरराघवः
प्रश्नस्योत्तरमाह - निशम्येति चतुर्भिः । भीष्मोक्तम् अच्युतोक्तञ्च निशम्य प्रवृत्तेन सुप्रतिष्ठितेन विज्ञानेन देहात्मविवेकादिरूपेण विधृतः विभ्रमो देहात्मादिभ्रमो यस्य । अनुजैर्भीमादिभिः अनुवर्तितो युधिष्ठिरः । इन्द्र इवाच्युत एवाश्रयो यस्य | अच्युतमाश्रयते सेवते भजत इति वा तथाभूतः । परिध्युपान्तां दिगन्तावधिं चतुस्समुद्रान्तां पृथिवीं शशास ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही।
सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा॥
अनुवाद (हिन्दी)
युधिष्ठिरके राज्यमें आवश्यकतानुसार यथेष्ट वर्षा होती थी, पृथ्वीमें समस्त अभीष्ट वस्तुएँ पैदा होती थीं, बड़े-बड़े थनोंवाली बहुत-सी गौएँ प्रसन्न रहकर गोशालाओंको दूधसे सींचती रहती थीं॥ ४॥
वीरराघवः
अजातशत्रौ राज्ञीत्येत त्काममित्यादि पू16र्वश्लोकद्वयेऽपि अपकर्षणीयम् । अजातशत्रौ युधिष्ठिरे राज्ञि सति पर्जन्यः कामं यथेष्टं ववर्ष । सर्वान् कामान् दोग्धि प्रपूरयतीति तथा, मह्यभूत् । गावः पयसा क्षीरेण ऊधस्वतीरूधस्वत्यः । भूम्न्यत्र मतुप् । पृथूधस इत्यर्थः । मुदा व्रजान् व्रजस्थान् प्रति सिषिचुः क्षीरं दुदुहुः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः।
फलन्त्योषधयः सर्वाः काममन्वृतु तस्य वै॥
मूलम्
नद्यस्समुद्रा गिरयः सवनस्पतिवीरुधः।
फलन्त्योषधयस्सर्वाः का17ममन्वृतु तस्य वै॥ ५ ॥
अनुवाद (हिन्दी)
नदियाँ, समुद्र, पर्वत, वनस्पति, लताएँ और ओषधियाँ प्रत्येक ऋतुमें यथेष्टरूपसे अपनी-अपनी वस्तुएँ राजाको देती थीं॥ ५॥
वीरराघवः
तस्य युधिष्ठिरस्य सम्बन्धिन्यः नद्यादयः स्वधर्मान्, न तत्यजुः इति शेषः । वनस्पतिभिः वीरुद्भिश्च सहिताः सर्वा ओषधयः । अन्वृतु ऋत्वनुकूलं फ18लानि फेलुः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित्॥
मूलम्
नाऽऽधयो व्याधयः क्लेशा दैवभूता19त्महेतवः।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित्॥ ६ ॥
अनुवाद (हिन्दी)
अजातशत्रु महाराज युधिष्ठिरके राज्यमें किसी प्राणीको कभी भी आधि-व्याधि अथवा दैविक, भौतिक और आत्मिक क्लेश नहीं होते थे॥ ६॥
वीरराघवः
अजातशत्रौ राज्ञि सति, जन्तूनां प्राणिनां कदाचिदप्याधयो मानसिका, व्याधयो दैहिकाश्च, क्लेशाः तानेवाह दैवभूतात्महेतवः । आधिदैविका आधिभौतिका आध्यात्मिका नाभवन् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः।
सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया॥
अनुवाद (हिन्दी)
अपने बन्धुओंका शोक मिटानेके लिये और अपनी बहिन सुभद्राकी प्रसन्नताके लिये भगवान् श्रीकृष्ण कई महीनोंतक हस्तिनापुरमें ही रहे॥ ७॥
वीरराघवः
किनकार्षीत्तत इत्यस्योत्तरं विवक्षिष्यन् पूर्वं प्रस्तुतस्य निवृत्तप्रयाणस्य भगवतो वृत्तान्तमाह - उषित्वा इत्यादिना यावदेकादशाध्यायसमाप्ति । सुहृदां युधिष्ठिरादीनां विशोकाय शोकाभावाय । स्वसुश्च स्वभगिन्याः सुभद्रायाः प्रियकाम्यया च हास्तिनपुरे कतिपयान् मासानुषित्वा अवस्थाय ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम्।
आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादितः॥
अनुवाद (हिन्दी)
फिर जब उन्होंने राजा युधिष्ठिरसे द्वारका जानेकी अनुमति माँगी तब राजाने उन्हें अपने हृदयसे लगाकर स्वीकृति दे दी। भगवान् उनको प्रणाम करके रथपर सवार हुए। कुछ लोगों (समान उम्रवालों)-ने उनका आलिंगन किया और कुछ (छोटी उम्रवालों)-ने प्रणाम॥ ८॥
वीरराघवः
तं युधिष्ठिरमामन्त्र्य पृष्ट्वा तेनाऽभ्यनुज्ञातः तं परिष्वज्याभिवाद्य च कैश्चिन्यूनवयस्कैः परिष्वक्तः आलिङ्गितोऽभिवादितश्च हरिः श्रीकृष्णो रथमारुरोह ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा।
गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ॥
मूलम्
सुभद्रा द्रौपदी कुन्ती वि24राटतनया तथा।
गान्धारी धृतराष्ट्रश्च युयुत्सुर्गोतमो यमौ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः॥
मूलम्
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः॥ १० ॥
अनुवाद (हिन्दी)
उस समय सुभद्रा, द्रौपदी, कुन्ती, उत्तरा, गान्धारी, धृतराष्ट्र, युयुत्सु, कृपाचार्य, नकुल, सहदेव, भीमसेन, धौम्य और सत्यवती आदि सब मूर्च्छित-से हो गये। वे शार्ङ्गपाणि श्रीकृष्णका विरह नहीं सह सके॥ ९-१०॥
वीरराघवः
तदा सुभद्राप्रभृतयः विमुह्यन्तो मो25हिताः । शार्ङ्गधन्वनः श्रीकृष्णस्य विरहं विश्लेषं न सेहिरे नासहन्त । मत्स्यसुता सत्यवती ॥ ९, १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
सत्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम्॥
मूलम्
स26त्सङ्गान्मुक्तदुःसङ्गो हातुं नोत्सहते बुधः।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम्॥ ११ ॥
वीरराघवः
युक्तश्चैतदित्यभिप्रायेणाऽऽह - सत्सङ्गादिति द्वाभ्याम् । सतां साधूनां सङ्गाद्धेतोर्मुक्तः दुस्सङ्गो दुरात्मसं27योगो येन स बुधः पुमान् अ28स्य रोचनं रुचिकरं कीर्त्यमानं यश एव सकृदाकर्ण्य हातुं नोत्सहते ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
तस्मिन्न्यस्तधियः पार्थाः सहेरन्विरहं कथम्।
दर्शनस्पर्शसंलापशयनासनभोजनैः॥
अनुवाद (हिन्दी)
भगवद्भक्त सत्पुरुषोंके संगसे जिसका दुःसंग छूट गया है, वह विचारशील पुरुष भगवान्के मधुर-मनोहर सुयशको एक बार भी सुन लेनेपर फिर उसे छोड़नेकी कल्पना भी नहीं करता। उन्हीं भगवान्के दर्शन तथा स्पर्शसे, उनके साथ आलाप करनेसे तथा साथ-ही-साथ सोने, उठने-बैठने और भोजन करनेसे जिनका सम्पूर्ण हृदय उन्हें समर्पित हो चुका था, वे पाण्डव भला, उनका विरह कैसे सह सकते थे॥ ११-१२॥
वीरराघवः
तस्मिन् भगवति कृष्णे दर्शनादिभिर्निहिता धीः येषां ते पार्थाः तस्य विरहं कथं संहरन् ? न सहेरन्नेवेत्यर्थः ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः।
वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह॥
मूलम्
सर्वे तेऽनिमिषैर31क्षै स्तमनुद्रुतचेतसः।
वीक्षन्तः स्नेहसम्बद्धा32 विचेलु33स्तत्र तत्र ह॥ १३ ॥
अनुवाद (हिन्दी)
उनका चित्त द्रवित हो रहा था, वे सब निर्निमेष नेत्रोंसे भगवान्को देखते हुए स्नेहबन्धनसे बँधकर जहाँ-तहाँ दौड़ रहे थे॥ १३॥
वीरराघवः
ते पार्थादयस्सर्वे स्नेहश्च सम्बन्धश्च तयोस्समाहारः, तस्मात् स्नेहात् शरीरसम्बन्धाच्च, अनुद्रुतं अनुसृतं चेतो येषां, तथाभूतास्सन्तोऽनिमिषैर्निमेषरहितैः अनन्यपरैरक्षैः अक्षिभिः । अक्षशब्दः इन्द्रियवाच्यप्यौ34चित्यात् चक्षुःपरः । तमेव वीक्षन्तः तत्र तत्र चेलुः परिबभ्रमुः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते।
निर्यात्यगारान्नोऽभद्रमिति स्याद्बान्धवस्त्रियः॥
मूलम्
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते।
नि35र्यात्यगारान्नो36ऽभद्रमिति स्या37द्बान्धव38स्त्रियः॥ १४ ॥
अनुवाद (हिन्दी)
भगवान् श्रीकृष्णके घरसे चलते समय उनके बन्धुओंकी स्त्रियोंके नेत्र उत्कण्ठावश उमड़ते हुए आँसुओंसे भर आये; परंतु इस भयसे कि कहीं यात्राके समय अशकुन न हो जाय, उन्होंने बड़ी कठिनाईसे उन्हें रोक लिया॥ १४॥
वीरराघवः
तदा बान्धवाः कुन्तीप्रभृतयः स्त्रियः, अगारात् गृहात् देवकीसुते निर्याति निर्याते सति, अभद्रं न स्यादिति बुद्ध्या 39प्रेमपूर्वकानुध्यानात् उद्गलदपि बाष्यं न्यरुन्धन् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः।
धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा॥
अनुवाद (हिन्दी)
भगवान्के प्रस्थानके समय मृदंग, शङ्ख, भेरी, वीणा, ढोल, नरसिंगे, धुन्धुरी, नगारे, घंटे और दुन्दुभियाँ आदि बाजे बजने लगे॥ १५॥
वीरराघवः
मृदङ्गादयः समं युगपत् नेदुः दध्वनुः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया।
ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः॥
मूलम्
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया42।
व43वृषुः कुसुमैः कृष्णं44 प्रेमव्रीडा45स्मितेक्षणाः॥ १६ ॥
अनुवाद (हिन्दी)
भगवान्के दर्शनकी लालसासे कुरुवंशकी स्त्रियाँ अटारियोंपर चढ़ गयीं और प्रेम, लज्जा एवं मुसकानसे युक्त चितवनसे भगवान्को देखती हुई उनपर पुष्पोंकी वर्षा करने लगीं॥ १६॥
वीरराघवः
कुरूणां नार्यः कृष्णं द्रष्टुमिच्छवः प्रासादशिखरारूढाः । प्रेमादीन्यासां सन्तीति तथा । द्वन्द्वान्मत्वर्थीयः अर्श आद्यच्46 ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
सितातपत्रं जग्राह मुक्तादामविभूषितम्।
रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह॥
मूलम्
सितातपत्रं जग्राह मुक्तादामविभूषितम्।
रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह॥ १७ ॥
अनुवाद (हिन्दी)
उस समय भगवान्के प्रिय सखा घुँघराले बालोंवाले अर्जुनने अपने प्रियतम श्रीकृष्णका वह श्वेत छत्र, जिसमें मोतियोंकी झालर लटक रही थी और जिसका डंडा रत्नोंका बना हुआ था, अपने हाथमें ले लिया॥ १७॥
वीरराघवः
प्रियः प्रीतिविषयः । गुडाकेशः अर्जुनः प्रियतमस्य कृष्णस्य सितातपत्रं श्वेतच्छत्रं जग्राह । - कथम्भूतम् ? मुक्तानां दामभिस्सरैः विभूषितं, रत्नमयो दण्डो यस्य तत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते।
विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि॥
मूलम्
उद्धवस्सात्यकिश्चैव व्यजने परमाद्भुते।
विकीर्यमाणः47 कुसुमैरेजे मधुपतिः पथि॥ १८ ॥
अनुवाद (हिन्दी)
उद्धव और सात्यकि बड़े विचित्र चँवर डुलाने लगे। मार्गमें भगवान् श्रीकृष्णपर चारों ओरसे पुष्पोंकी वर्षा हो रही थी। बड़ी ही मधुर झाँकी थी॥ १८॥
वीरराघवः
उद्धवस्सात्यकिश्चोभौ परमे श्रेष्ठेऽद्भुते च व्यजने जगृहतुः । पथि कुसुमै र्विकीर्यमाणो मधुपति र्यदुपतिः । यदूना मेव मधव इति नामान्तरम् । तच्च नवमे स्फुटीभविष्यति । रेजे रराज ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः॥
मूलम्
अश्रूयन्ताऽऽशिषस्सत्यास्तत्र तत्र द्विजेरिताः।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः॥ १९ ॥
अनुवाद (हिन्दी)
जहाँ-तहाँ ब्राह्मणोंके दिये हुए सत्य आशीर्वाद सुनायी पड़ रहे थे। वे सगुण भगवान्के तो अनुरूप ही थे; क्योंकि उनमें सब कुछ है, परन्तु निर्गुणके अनुरूप नहीं थे, क्योंकि उनमें कोई प्राकृत गुण नहीं है॥ १९॥
वीरराघवः
निर्गुणस्य सत्त्वादिप्राकृतगुणरहितस्य गुणात्मनः ज्ञा48नादिषाड्गुण्यस्वभावस्य “सत्त्वादयो न सन्तीशे” (विष्णु. पु. 1-9-44), “तेजोबलैश्वर्य” (विष्णु. पु. 6-5-85) इत्यादिवचनात् नानुरूपाः अवाप्तसमस्तकामत्वात् अनुरूपाः भक्तिस्नेहकारितत्वात्, तत्र तत्र द्विजेरिताः, अत एव सत्या आशिषः अश्रूयन्त ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अन्योन्यमासीत्संजल्प उत्तमश्लोकचेतसाम्।
कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः॥
मूलम्
अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम्।
कौ49रवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः॥ २० ॥
अनुवाद (हिन्दी)
हस्तिनापुरकी कुलीन रमणियाँ, जिनका चित्त भगवान् श्रीकृष्णमें रम गया था, आपसमें ऐसी बातें कर रही थीं, जो सबके कान और मनको आकृष्ट कर रही थीं॥ २०॥
वीरराघवः
उत्तमश्लोके कृष्णे एव चेतासि यासां तासां, कौरवेन्द्रपुरस्त्रीणां अन्योन्यं सर्वेषां श्रुतिमनोहरः सुखकरः श्रोत्राणि मनांसि च हरति वशीकरोतीति तथा वा सञ्जल्पः संवादः आसीत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
स वै किलायं पुरुषः पुरातनो
य एक आसीदविशेष आत्मनि।
अग्रे गुणेभ्यो जगदात्मनीश्वरे
निमीलितात्मन्निशि सुप्तशक्तिषु॥
मूलम्
स वै किलाऽयं पुरुषः50 पुरातनो य एक आसीदविशेष आत्मनि।
अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलिता51त्मन्निशि सुप्तशक्तिषु॥ २१ ॥
अनुवाद (हिन्दी)
वे आपसमें कह रही थीं—‘सखियो! ये वे ही सनातन परम पुरुष हैं, जो प्रलयके समय भी अपने अद्वितीय निर्विशेष स्वरूपमें स्थित रहते हैं। उस समय सृष्टिके मूल ये तीनों गुण भी नहीं रहते। जगदात्मा ईश्वरमें जीव भी लीन हो जाते हैं और महत्तत्त्वादि समस्त शक्तियाँ अपने कारण अव्यक्तमें सो जाती हैं॥ २१॥
वीरराघवः
सञ्जल्पमेवाह - स वै किल इत्यादिभिर्दशभिः । तावत् प्रलयदशायां कृत्स्नजगदुपादानत्वेन निमित्तत्वेन च य एकोऽवस्थितः, यश्च ततो “बहु स्यां प्रजायेय”, (तैत्ति. उ. 2-6) “नामरूपे व्याकरवाणि” (छान्दो. उ. 6-3-2) इति सङ्कल्पपूर्वकं नामरूपव्याकर्ता यश्च “तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतादृग्वेदः, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” (सुबा. उ. 2-1) इति वे52दादिभिः कर्तृत्वेन, तत्प्रवर्तकत्वेन च प्रसिद्धः, यश्च मुमुक्षुभिः ध्येयो दृश्यश्च 53वेदान्तवेद्यस्वरूपस्वभावः, यश्च जगत्सर्गस्थितिलयलीलः स एवायं कृष्ण इति जल्पन्ति चतुर्भिः । निशि प्रलयदशायां गुणेभ्यः सत्त्वादिगुणोन्मेषादग्रे पू54र्वं सुप्तशक्तिषु सतीषु कर्मरूपशक्तिषु सुप्तासु फलप्रदानाय अप्रवृत्तास्वित्यर्थः । आत्मनि स्वस्मिन् जगदात्मनि सूक्ष्मचिदचिद्रूपजगच्छरीरके कार्यदशायां जगदन्तरात्मनीति वा ईश्वरे नियन्तरि निमीलितात्मन् आत्मा मतिः निवृत्तसर्गादिसङ्कल्पे स्वस्मिन्नविशेषे सति विशेषाः पृथिव्यादिभूतानि “महदाद्या विशेषान्ता” इति प्रयोगात् तच्च प्रदर्शनार्थं कार्यवर्गरहिते सति नामरूपविभागरहिते सतीति वा 55एकोऽद्वितीयः एक अविभक्तचिदचिच्छरीरकतया एकः उपादानभूतः । अविभक्तनामरूपता हि उपादानता । अद्वितीयः निमित्तान्तररहितः । एक इत्यनेन उपादानत्वोक्तत्या निमित्तस्यैव धीस्थत्वात् अद्वितीय इत्यनेन निमित्तान्तरनिषेधः । एवंविधो य आसीत् स एवायं किल श्रीकृष्ण इत्यनेनान्वयः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
स एव भूयो निजवीर्यचोदितां
स्वजीवमायां प्रकृतिं सिसृक्षतीम्।
अनामरूपात्मनि रूपनामनी
विधित्समानोऽनुससार शास्त्रकृत्॥
मूलम्
स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्र56कृत्॥
अनुवाद (हिन्दी)
उन्होंने ही फिर अपने नाम-रूपरहित स्वरूपमें नामरूपके निर्माणकी इच्छा की तथा अपनी काल-शक्तिसे प्रेरित प्रकृतिका, जो कि उनके अंशभूत जीवोंको मोहित कर लेती है और सृष्टिकी रचनामें प्रवृत्त रहती है, अनुसरण किया और व्यवहारके लिये वेदादि शास्त्रोंकी रचना की॥ २२॥
वीरराघवः
स एव भूय इति । य एकोऽद्वितीयो भूत्वा भूयः निजवीर्यचोदितां “बहु स्याम्” (तैत्ति. उ. 2-6) इत्यादिस्वसङ्कल्पप्रेरितां स्वजीवमायां स्वशेषभूतजीवतिरोधायिकां प्रकृतिं, 57प्रति सिसृक्षतीं स्त्रष्टुमुन्मुखीं अनुससार । अन्तरात्मतया प्रविश्य नामरूपे व्याकरोदित्यर्थः । कथम्भूतः ? अनामरूपात्मनि, न विद्येते नामरूपे यस्य तस्मिन्नात्मनि जीवे रूपनामनी नामरूपे विधित्समानश्चिकीर्षुः शास्त्रकृद्वेदप्रवर्तको यः, स एवाऽयं श्रीकृष्णे वर्तते इत्यर्थः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
स वा अयं यत्पदमत्र सूरयो
जितेन्द्रिया निर्जितमातरिश्वनः।
पश्यन्ति भक्त्युत्कलितामलात्मना
नन्वेष सत्त्वं परिमार्ष्टुमर्हति॥
मूलम्
स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः।
पश्यन्ति भक्त्युत्कलितामलात्मना न58न्वेष सत्त्वं परिमार्ष्टुमर्हति॥ २३ ॥
अनुवाद (हिन्दी)
इस जगत्में जिसके स्वरूपका साक्षात्कार जितेन्द्रिय योगी अपने प्राणोंको वशमें करके भक्तिसे प्रफुल्लित निर्मल हृदयमें किया करते हैं, ये श्रीकृष्ण वही साक्षात् परब्रह्म हैं। वास्तवमें इन्हींकी भक्तिसे अन्तःकरणकी पूर्ण शुद्धि हो सकती है, योगादिके द्वारा नहीं॥ २३॥
वीरराघवः
स वा इति । निर्जितानीन्द्रियाणि अन्तर्बाह्यानि यैः निर्जितः मातरिक्षा प्राणो यैस्ते सूरयः भक्त्योत्कलितं संयुक्तं अत एवाऽमलं चेतस्तेन यस्य पदं स्वरूपं पश्यन्ति योऽयञ्च सत्त्वमन्तःकरणं परिमार्ष्टु शोधयितुं अर्हति स एवाऽयं कृष्णः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
स वा अयं सख्यनुगीतसत्कथो
वेदेषु गुह्येषु च गुह्यवादिभिः।
य एक ईशो जगदात्मलीलया
सृजत्यवत्यत्ति न तत्र सज्जते॥
मूलम्
स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गु59ह्यवादिभिः।
य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते॥ २४ ॥
अनुवाद (हिन्दी)
सखी! वास्तवमें ये वही हैं, जिनकी सुन्दर लीलाओंका गायन वेदोंमें और दूसरे गोपनीय शास्त्रोंमें व्यासादि रहस्यवादी ऋषियोंने किया है—जो एक अद्वितीय ईश्वर हैं और अपनी लीलासे जगत्की सृष्टि, पालन तथा संहार करते हैं, परन्तु उनमें आसक्त नहीं होते॥ २४॥
वीरराघवः
स इति । हे सखि! गुह्येषु वेदेषु वेदान्तेषु, गुह्येष्विति विशेषणात्, वे60दवादिभिः वेदान्तगुह्यरूपस्वरूपगुणयाथात्म्योपदेष्टृभिश्च अनुगीतासु गीयमाना सती विशुद्धा कथा यस्य य61श्चैक एव सन्नात्मनः स्वस्य लीलया लीलार्थं जगत् सृजति अवति रक्षति अत्ति संहरति, तत्र जगति न सज्जते । जगदन्तरात्मतया स्थितः तद्गतदोषैः न सज्जते च, न पक्षपातीति स एवाऽयं कृष्णः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
यदा ह्यधर्मेण तमोधियो नृपा
जीवन्ति तत्रैष हि सत्त्वतः किल।
धत्ते भगं सत्यमृतं दयां यशो
भवाय रूपाणि दधद्युगे युगे॥
मूलम्
यदा ह्यधर्मेण त62मोधियो नृपा जीवन्ति तत्रैष हि स63त्त्वतः किल।
धत्ते64 भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे॥ २५ ॥
अनुवाद (हिन्दी)
जब तामसी बुद्धिवाले राजा अधर्मसे अपना पेट पालने लगते हैं तब ये ही सत्त्वगुणको स्वीकार कर ऐश्वर्य, सत्य, ऋत, दया और यश प्रकट करते और संसारके कल्याणके लिये युग-युगमें अनेकों अवतार धारण करते हैं॥ २५॥
वीरराघवः
नन्वेवंविधश्चेत् किमर्थं यादवान्यतमरूपेण अवतिष्ठत इत्याशङ्कायां दुष्कृद्विनाशाय साधुपरित्राणाय च प्रतियुगमवतीर्यावतीर्य, अधुना एवंरूपेणावतीर्ण इत्यभिप्रायेण जल्पन्ति - यदेति । यदा तमोधियो नृपाः । तमोजुष इति च पाठः । तत्र तामसा अत एवाधर्मेण जीवन्ति तत्र तदैष उक्तविधो भगवान् भवाय दुष्कृद्विनाशपूर्वकं साधूनां अभ्युदयाय सत्त्वतः शुद्धसत्त्वमयानि रूपाणि युगे युगे दधद्विभ्राणः । भगमैश्चर्यं, सत्यं वाचिकं ऋतं पुण्यं कर्म दयां यशश्च धत्ते । स्वाभाविकैर्धर्मैरनपेत एव अवतिष्ठत इत्यर्थः । ऋतशब्दः पुण्यशब्दवाची । “एवं पुण्यस्य कर्मणो दूरादुन्धो वाति” (म. ना. उ. 9-7) इत्यत्र, “एवमनृतादात्मानं जुगुप्सेत्” (म. ना. उ. 8-2) इति पुण्यप्रतियोगित्वेन अनृतशब्दप्रयोगात् भगवत्कर्मणां65 पुण्यं, तन्नाम वदतां श्रोतॄणाञ्च पुण्यावहत्वम् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अहो अलं श्लाघ्यतमं यदोः कुल-
महो अलं पुण्यतमं मधोर्वनम्।
यदेष पुंसामृषभः श्रियः पतिः
स्वजन्मना चङ्क्रमणेन चाञ्चति॥
मूलम्
अहो अ66लं श्लाघ्यतमं यदोः कुलं अ67हो अलं पुण्यतमं मधोर्वनम्।
यदेव पुंसामृषभः श्रि68यः प69तिः स्व70जन्मना चङ्क्रमणेन चाञ्चति॥ २६ ॥
अनुवाद (हिन्दी)
अहो! यह यदुवंश परम प्रशंसनीय है; क्योंकि लक्ष्मीपति पुरुषोत्तम श्रीकृष्णने जन्म ग्रहण करके इस वंशको सम्मानित किया है। वह पवित्र मधुवन (व्रजमण्डल) भी अत्यन्त धन्य है जिसे इन्होंने अपने शैशव एवं किशोरावस्थामें घूम-फिरकर सुशोभित किया है॥ २६॥
वीरराघवः
यतो भगवानुक्तविधः श्रीमन्नारायण एवं श्रीकृष्णरूपेण यदुकुलेऽवतीर्य मधुवने विहृत्य द्वारका71मधिवसन् प्रजाः पालयन् अष्टभिर्महिषीभिरन्याभिश्च विहरति । अतो यदुकुलमधुवनद्वारकामहिष्यादीनां भाग्यं तपश्चैतावदिति वाचा मनसा वा अवगन्तुम् अशक्यमित्यभिप्रायेण जल्पन्ति - अहो इत्यादिभिः षङ्गिः । यदोः कुलं, अलं नितरां श्लाघ्यतमं, मधोः वनं अलं नितरां पुण्यतमञ्च । कुतः ? यद्यस्मात् पुंसां सe72त्त्वता ऋषभो नायकः श्रियो लक्ष्म्याः पतिरेष भगवान् श्रीकृष्णः स्वजन्मना यदुकुलं चङ्क्रमणेन पुनः पुनः सञ्चारेण मधुवनञ्चाञ्चति प्रशस्तं करोतीत्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
अहो बत स्वर्यशसस्तिरस्करी
कुशस्थली पुण्ययशस्करी भुवः।
पश्यन्ति नित्यं यदनुग्रहेषितं
स्मितावलोकं स्वपतिं स्म यत्प्रजाः॥
मूलम्
अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः।
पश्यन्ति नित्यं यदनुग्रहे73षितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः॥ २७ ॥
अनुवाद (हिन्दी)
बड़े हर्षकी बात है कि द्वारकाने स्वर्गके यशका तिरस्कार करके पृथ्वीके पवित्र यशको बढ़ाया है। क्यों न हो, वहाँकी प्रजा अपने स्वामी भगवान् श्रीकृष्णको जो बड़े प्रेमसे मन्द-मन्द मुसकराते हुए उन्हें कृपादृष्टिसे देखते हैं, निरन्तर निहारती रहती है॥ २७॥
वीरराघवः
अहो बतेति । कुशस्थली द्वारका । स्वर्यशसः कर्मणि षष्ठी । स्वर्लोकय74शसः तिरस्करी । भुवो भूमेः पुण्यं यशश्च करोत्यावहतीति तथा । तदेव व्यञ्जयितुं विशिंषन्ति । यत्प्रजाः यद्यस्यां कुशस्थल्यां प्रजा, यत् यस्मात् अनुग्रहेणोषितं अधिवसन्तं स्मितयुक्तोऽवलोको यस्य तं स्वपतिं आत्मनायकं नित्यं पश्यन्ति स्म । यदनुग्रहार्थं यत्प्रजाविषयकानुग्रहार्थं उषितमिति वा अन्वयः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
नूनं व्रतस्नानहुतादिनेश्वरः
समर्चितो ह्यस्य गृहीतपाणिभिः।
पिबन्ति याः सख्यधरामृतं मुहु-
र्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः॥
मूलम्
नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः।
पिबन्ति याः स75ख्यधरामृतं मुहुर्व्रजस्त्रियः सम्मुमुहुर्यदाशयाः76॥ २८ ॥
अनुवाद (हिन्दी)
सखी! जिनका इन्होंने पाणिग्रहण किया है उन स्त्रियोंने अवश्य ही व्रत, स्नान, हवन आदिके द्वारा इन परमात्माकी आराधना की होगी; क्योंकि वे बार-बार इनकी उस अधर-सुधाका पान करती हैं जिसके स्मरणमात्रसे ही व्रजबालाएँ आनन्दसे मूर्च्छित हो जाया करती थीं॥ २८॥
वीरराघवः
नूनमिति । अस्य कर्तरि षष्ठी । अनेन कृष्णेन गृहीताः पाणयो यासां ताभिः कर्त्रीभिर्व्रतैः उपवासादिभिः स्नानैः पुण्यज77लस्नानहोमैः आदिशब्देन दानादिभिश्च । व्रतादीनां समाहारद्वन्द्वेन एकत्वम् । एभिस्साधनैः नूनं ईश्वरः समर्चितः, पूर्वजन्मनीति शेषः । कुत एतदनुमीयत इत्यतो विशिंषन्ति । या अस्य गृहीतपाणयः स्त्रियः हे सखि! अधरामृतं मुहुर्मुहुः पिबन्ति अनाराधितेश्वराणां एतद्दुर्लभमिति भावः । कस्याधरामृतम् ? यस्मिन्नाशयो मनो यासां ता व्रजस्त्रियः सम्मुमुहुः । तस्य श्रीकृष्णस्य अधरामृतमित्यन्वयः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
या वीर्यशुल्केन हृताः स्वयंवरे
प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः।
प्रद्युम्नसाम्बाम्बसुतादयोऽपरा
याश्चाहृता भौमवधे सहस्रशः॥
मूलम्
या वीर्यशुल्केन हृतास्स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि78 शुष्मिणः।
प्रद्युम्नसा79म्बाम्बसुतादयोऽपरा याश्चाऽऽहृता भौमवधे सहस्रशः॥ २९ ॥
वीरराघवः
या इति । या इत्यस्यैताः इत्युत्तरेणान्वयः । शुष्मिणो मत्तान् चैद्यप्रमुखान् शिशुपालप्रभृतीन् स्वयंवरे प्रमथ्य मथनपूर्वकं विजित्य वीर्यमेव शुल्कमुपायनत्वेन देय 80तेन या आहृताः प्रद्युम्नसाम्बप्रसवादयः स्त्रियः । तत्र प्रद्युम्नप्रसवा रुक्मिणी । साम्बप्रसवा जाम्बवती । आदिशब्देन सत्यभामादिसङ्ग्रहः । तथाऽपरा अन्याश्च याः स्त्रियः भौमवधे नरकासुरवधे सहस्रशः षोडशसहस्रसङ्ख्याका आहृताः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
एताः परं स्त्रीत्वमपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते।
यासां गृहात्पुष्करलोचनः पति-
र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन्॥
मूलम्
एताः प81रं स्त्रीत्वम82पास्तपेशलं निरस्तशौ83चं बत साधु कुर्वते।
यासां गृ84हात्पुष्करलोचनः पतिर्नजात्वपैत्याहृ85तिभिर्हृदि स्पृशन्॥ ३० ॥
अनुवाद (हिन्दी)
ये स्वयंवरमें शिशुपाल आदि मतवाले राजाओंका मान मर्दन करके जिनको अपने बाहुबलसे हर लाये थे तथा जिनके पुत्र प्रद्युम्न, साम्ब, आम्ब आदि हैं, वे रुक्मिणी आदि आठों पटरानियाँ और भौमासुरको मारकर लायी हुई जो इनकी हजारों अन्य पत्नियाँ हैं, वे वास्तवमें धन्य हैं। क्योंकि इन सभीने स्वतन्त्रता और पवित्रतासे रहित स्त्रीजीवनको पवित्र और उज्ज्वल बना दिया है। इनकी महिमाका वर्णन कोई क्या करे। इनके स्वामी साक्षात् कमलनयन भगवान् श्रीकृष्ण हैं, जो नाना प्रकारकी प्रिय चेष्टाओं तथा पारिजातादि प्रिय वस्तुओंकी भेंटसे इनके हृदयमें प्रेम एवं आनन्दकी अभिवृद्धि करते हुए कभी एक क्षणके लिये भी इन्हें छोड़कर दूसरी जगह नहीं जाते॥ २९-३०॥
वीरराघवः
एता स्सर्वाः निरस्तं शौचं पवित्रता येन अपास्तपेशलं मार्दवं येन तथाभूतमपि स्त्रीत्वं परं केवलं साधु यथा तथा कुर्वते कुर्वन्ति । बत इत्याश्चर्ये । तदेव दर्शयितुं विशिंषन्ति । यासां स्त्रीणां गृ86हात्पतिर्जन्ममरणक्लेशात् रक्षणकर्ता पुष्करलोचनः कमलनयनः श्रीकृष्णः कदाचिदपि नापैति न त्यजति । कथम्भूतस्सन्? आहृ87तिभिः हे रुक्मिणि! एहीत्यादिभिरा88हृतैः हृदि स्पृशन् हृदयङ्गमस्सन् । सोऽयं श्रीकृष्णो यातीत्यर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
एवंविधा गदन्तीनां स गिरः पुरयोषिताम्।
निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः॥
अनुवाद (हिन्दी)
हस्तिनापुरकी स्त्रियाँ इस प्रकार बातचीत कर ही रही थीं कि भगवान् श्रीकृष्ण मन्द मुसकान और प्रेमपूर्ण चितवनसे उनका अभिनन्दन करते हुए वहाँसे विदा हो गये॥ ३१॥
वीरराघवः
वदन्तीनां जल्पन्तीनां पुरयोषितां एवंविधाः गिरः उक्तीः सस्मितेन निरीक्षणेनैवाभिनन्दन् स हरिर्ययौ ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः।
परेभ्यः शङ्कितः स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम्॥
मूलम्
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः।
परेभ्यःश्शङ्कितस्स्नेहात्प्रायुङ्क्त चतुरङ्गिणीम्॥ ३२ ॥
अनुवाद (हिन्दी)
अजातशत्रु युधिष्ठिरने भगवान् श्रीकृष्णकी रक्षाके लिये हाथी, घोड़े, रथ और पैदल सेना उनके साथ कर दी; उन्हें स्नेहवश यह शंका हो आयी थी कि कहीं रास्तेमें शत्रु इनपर आक्रमण न कर दें॥ ३२॥
वीरराघवः
तदा अजातशत्रुः परेभ्यः शत्रुभ्यः शङ्कितः स्नेहान्मधुद्विषः श्रीकृष्णस्य गोपीथाय रक्षणाय चतुरङ्गिणीं हस्त्यश्वरथपदातिरूपाण्यङ्गान्यस्याः सन्तीति तथा तां सेनां प्रायुङ्ग समयुङ्ग ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
अथ दूरागताञ्छौरिः कौरवान् विरहातुरान्।
संनिवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः॥
मूलम्
अथ दूरागतान् शौरिः कौरवान् वि91रहातुरान्।
संनिव92र्त्य दृ93ढं स्निग्धान् प्रायात् स्वनगरीं94 प्रियैः॥ ३३ ॥
अनुवाद (हिन्दी)
सुदृढ़ प्रेमके कारण कुरुवंशी पाण्डव भगवान्के साथ बहुत दूरतक चले गये। वे लोग उस समय भावी विरहसे व्याकुल हो रहे थे। भगवान् श्रीकृष्णने उन्हें बहुत आग्रह करके विदा किया और सात्यकि, उद्धव आदि प्रेमी मित्रोंके साथ द्वारकाकी यात्रा की॥ ३३॥
वीरराघवः
अथ विरहेण विश्लेषेणातुरान् दुःखितान् अत एव दूरमागतान् कौरवान् युधिष्ठिरादीन् दृढं स्निग्धमनुरागो येषां तान् सम्यक् सान्त्वनेन निवर्त्य प्रियैस्सह स्वनगरीं द्वारकां प्रायात् प्रययौ ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान्।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ॥
मूलम्
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान्।
ब्रह्मावर्तं कुरुक्षेत्रं म95त्स्यान् सारस्वता नथ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
मरुधन्वमतिक्रम्य सौवीराभीरयोः परान्।
आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभुः॥
मूलम्
मरुध96न्वमतिक्रम्य सौवीराभीरयोः97 परान्।
आनर्तान् भार्गवो98पागाच्छ्रान्तवाह्मे मनाग्विभुः॥ ३५ ॥
अनुवाद (हिन्दी)
शौनकजी! वे कुरुजांगल, पांचाल, शूरसेन, यमुनाके तटवर्ती प्रदेश ब्रह्मावर्त, कुरुक्षेत्र, मत्स्य, सारस्वत और मरुधन्व देशको पार करके सौवीर और आभीर देशके पश्चिम आनर्त देशमें आये। उस समय अधिक चलनेके कारण भगवान्के रथके घोड़े कुछ थक-से गये थे॥ ३४-३५॥
वीरराघवः
कुर्वादिमरुधन्वान्तान् देशानतिक्रम्य ततः सौवीराभीरयोः परान् पश्चादवस्थितान् आनर्तान् द्वारकाक्षे99त्रजनपदान् विभुर्हरिः श्रीकृष्णः उपागात् । कथम्भूतः ? हे भार्गव! मनाक् ईषत् श्रान्ता वाहा अश्वा यस्य ॥ ३४, ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः।
सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा॥
मूलम्
तत्र तत्र ह100 तत्रत्यै101र्हरिः प्रत्युद्यतार्हणः।
सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा॥ ३६ ॥102
अनुवाद (हिन्दी)
मार्गमें स्थान-स्थानपर लोग उपहारादिके द्वारा भगवान्का सम्मान करते, सायंकाल होनेपर वे रथपरसे भूमिपर उतर आते और जलाशयपर जाकर सन्ध्या-वन्दन करते। यह उनकी नित्यचर्या थी॥ ३६॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः॥ १०॥
वीरराघवः
तत्रत्यै103स्त104दा देशस्थैः तत्र तत्र प्रत्युद्यतं शिरसि आधाय अभिमुखमानीतमर्हणं पूजासाधनं यस्य तथाभूतः या105वत् आनर्तानुपागात्, तदा गविष्ठस्सूर्यः, गोभिः किरणैस्तिष्ठतीति व्युत्पत्तेः । पश्चाद्दिशं प्रति सायं भेजे प्राप्तः । गां भूमिं गतश्च, उदकं गतश्च - “सायमप्सु प्रविशति” इति श्रुतेः ॥ ३६ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां दशमोऽध्यायः ॥ १० ॥
-
H,V,W ह ↩︎
-
K,M गवि स्थिरः ↩︎
-
H,V कारुषी, K,M,W कार्षी ↩︎
-
W ध ↩︎
-
W र्ह ↩︎
-
K,M तापनो ↩︎
-
B omits ह ↩︎
-
W विवक्षुस्तदुपो ↩︎
-
W द्य ↩︎
-
H,K,M,V तोदितं ↩︎
-
W च्यु ↩︎
-
K,M प्रणिध्युपात्ता ↩︎
-
K,M जं ↩︎
-
K,M पयसात्यूधसो मुदा ↩︎
-
B हु: ↩︎
-
W पूर्वोक्तश्लो ↩︎
-
AF,GF कामता मृत्युरत्र वै ↩︎
-
W फलन्ति पफलुः ↩︎
-
AF,GF ता इहेतयः ↩︎
-
H,K,M,V ह ↩︎
-
H,V शोकनाशाय ↩︎
-
H,V न्याथाभ्य ↩︎
-
AF,GF तान्; K,M ताम् ↩︎
-
H,K,M,V विदुरोऽथ युधिष्ठिरः ↩︎
-
W मोह गताः ↩︎
-
K,M त ↩︎
-
W सङ्गो ↩︎
-
B,W य ↩︎
-
K,M तस्याभ्यस्त ↩︎
-
B,H,V स्पर्शना ↩︎
-
B नेत्रै ↩︎
-
W द्धाद्वि ↩︎
-
K,M रु ↩︎
-
W त्रौ ↩︎
-
AF,GF निर्यात्यागारतोऽभद्र ↩︎
-
K,M,W न्नाभद्र, H,V न्माभद्र ↩︎
-
H,V हृ ↩︎
-
AF,GF वाः स्त्रियः ↩︎
-
W adds औत्कण्ठ्यात् ↩︎
-
H,V चर्चर्या ↩︎
-
B स्तदा; H,V स्समम् ↩︎
-
H,V व: ↩︎
-
AF,GF ववर्षुः ↩︎
-
K,N,M,W ष्णे ↩︎
-
K,M ड ↩︎
-
W adds प्रेमादिपूर्वकमीक्षणं यासा वा इति वा । कृष्णे कुसुमैर्ववर्षुः ↩︎
-
K,M णैः ↩︎
-
W ज्ञानशक्त्यादि ↩︎
-
H,V पौ ↩︎
-
W षोऽद्वितीयो ↩︎
-
K,M तात्मा निशि ↩︎
-
W वेदाविष्कर्तृ ↩︎
-
W adds यश्च ↩︎
-
W प्राक् ↩︎
-
W adds य: ↩︎
-
K,M स्ति ↩︎
-
W adds विकृतिं ↩︎
-
H,V नत्वेष M नत्वेष ↩︎
-
K,M वेद ↩︎
-
W गुह्य ↩︎
-
W यश्चेश्वर एक ↩︎
-
K,M तमोऽधिका; WF तमोजुषो ↩︎
-
K,M सा ↩︎
-
H,K,M,V र्मं ↩︎
-
W त्कर्मणः पुण्यत्वं नाम ↩︎
-
H,V बत ↩︎
-
K,M त्व ↩︎
-
H,K,M,V प्रियश्रवाः ↩︎
-
N प्रिय: ↩︎
-
AF,GF सु ↩︎
-
A,B कायाम ↩︎
-
W सात्वतानां ↩︎
-
H,W होषितं, K,M हे क्षित ↩︎
-
W यश: तिरस्करेतीति तथा ↩︎
-
AF,GF सख्यमृताधरं ↩︎
-
K,M या ↩︎
-
W जलानां हुतैः होमैः ↩︎
-
H,K,M,V वि ↩︎
-
H,V,W साम्बप्रसवादयो, K,M साम्बप्रमुखात्मजाः परा ↩︎
-
B,W add द्रव्यं ↩︎
-
K,M पुरा ↩︎
-
K,M मवाप्तये समं ↩︎
-
K,M शोकं ↩︎
-
W गृहान् पु ↩︎
-
K,M कृ, W हु ↩︎
-
W गृहान् प ↩︎
-
W हु ↩︎
-
W राह्नानैः ↩︎
-
H,V व ↩︎
-
K,M पुण्य ↩︎
-
K,M विदुरान्वितान् ↩︎
-
H,V वृत्य ↩︎
-
H,K,M,V,W दृढ ↩︎
-
H,V रं हरि: ↩︎
-
K,M मा ↩︎
-
H,V धन्याव ↩︎
-
H,K,M,V सैन्धवान् ↩︎
-
H,V व! प्रागा ↩︎
-
W सत्र ↩︎
-
H,K,M,V च; W हि ↩︎
-
W स्थै ↩︎
-
This chapter does not end here in K&M. ↩︎
-
W स्थै ↩︎
-
W स्तद्दे ↩︎
-
W यदा ↩︎