[नवमोऽध्यायः]
भागसूचना
युधिष्ठिरादिका भीष्मजीके पास जाना और भगवान् श्रीकृष्णकी स्तुति करते हुए भीष्मजीका प्राणत्याग करना
श्लोक-१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
इति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सया।
ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत्॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—इस प्रकार राजा युधिष्ठिर प्रजाद्रोहसे भयभीत हो गये। फिर सब धर्मोंका ज्ञान प्राप्त करनेकी इच्छासे उन्होंने कुरुक्षेत्रकी यात्रा की, जहाँ भीष्मपितामह शरशय्यापर पड़े हुए थे॥ १॥
वीरराघवः
ततः इतीत्थं प्रजाद्रोहान्द्रीतो युधिष्ठिरः स्व4र्ग्यान् धर्मान् बोद्धुमिच्छया विशसनं विशसिता हिंसिता यत्र बन्धवः तद्विशसनं कुरुक्षेत्रं, प्रायात् प्रतस्थे । विशसनं विशिनष्टि यत्र देवव्रतो भीष्मोऽपतत् भीष्मात् धर्मान् बोद्धुं प्रययावित्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा॥
मूलम्
तदा ते5 भ्रातरस्सर्वे सदश्वैस्स्वर्णभूषितैः।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा॥ २ ॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! उस समय उन सब भाइयोंने स्वर्णजटित रथोंपर, जिनमें अच्छे-अच्छे घोड़े जुते हुए थे, सवार होकर अपने भाई युधिष्ठिरका अनुगमन किया। उनके साथ व्यास, धौम्य आदि ब्राह्मण भी थे॥ २॥
वीरराघवः
तदा तस्य युधिष्ठिरस्य भ्रातरो भीमादयस्सर्वे सन्तोऽश्वा येषां तैः, स्वर्णभूषितै रथैरन्वगच्छन् । तथा हे विप्राः! व्यासधौम्यादयश्च अन्वगच्छन् ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
भगवानपि विप्रर्षे रथेन सधनञ्जयः।
स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः॥
मूलम्
भगवानपि विप्रर्षे! रथेन सधनञ्जयः।
स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः॥ ३ ॥
अनुवाद (हिन्दी)
शौनकजी! अर्जुनके साथ भगवान् श्रीकृष्ण भी रथपर चढ़कर चले। उन सब भाइयोंके साथ महाराज युधिष्ठिरकी ऐसी शोभा हुई, मानो यक्षोंसे घिरे हुए स्वयं कुबेर ही जा रहे हों॥ ३॥
वीरराघवः
हे विप्रर्षे! सधनञ्जयः सार्जुनो भगवान् श्रीकृष्णोऽपि रथेनान्वगच्छत् तदा स नृपो युधिष्ठिरो व्यरोचत यथा गुह्यकैर्यक्षैः कुबेरस्तद्वत् ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम्।
प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा॥
मूलम्
दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम्।
प्रणेमुः पाण्डवा भीष्मं सानुगा6स्सह चक्रिणा॥ ४ ॥
अनुवाद (हिन्दी)
अपने अनुचरों और भगवान् श्रीकृष्णके साथ वहाँ जाकर पाण्डवोंने देखा कि भीष्मपितामह स्वर्गसे गिरे हुए देवताके समान पृथ्वीपर पड़े हुए हैं। उन लोगोंने उन्हें प्रणाम किया॥ ४॥
वीरराघवः
दिवः स्वर्गात् च्युतममरमिव स्थितं भूमौ निपतितं भीष्मं दृष्ट्वा सानुगाः सभृत्याः पाण्डवाः चक्रिणा श्रीकृष्णेन सह प्रणेमुः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम।
राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम्॥
अनुवाद (हिन्दी)
शौनकजी! उसी समय भरतवंशियोंके गौरवरूप भीष्मपितामहको देखनेके लिये सभी ब्रह्मर्षि, देवर्षि और राजर्षि वहाँ आये॥ ५॥
वीरराघवः
तत्र भरतपुङ्गवं भरतवंश9श्रेष्ठं देवर्षिप्रभृतय आसन् आगत्य स्थितवन्तः ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
पर्वतो नारदो धौम्यो भगवान् बादरायणः।
बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः॥
मूलम्
पर्वतो नारदो धौम्यो भगवान् बादरायणः।
बृहदश्वो भरद्वाजस्सशिष्यो रेणुकासुतः॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसितः।
कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः॥
मूलम्
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्स10मदोऽसितः।
कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः॥ ७ ॥
वीरराघवः
तानेव कांश्चिदाह - पर्वत इति द्वाभ्याम् । रेणुकासुतो भार्गवो रामः । कौशिको विश्वामित्रः ॥ ६, ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः।
शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः॥
मूलम्
अन्ये च मुनयो ब्रह्मन्! ब्रह्मरातादयोऽमलाः।
शिष्यैरुपेता आजग्मुः क11श्यपाङ्गिरसादयः॥ ८ ॥
अनुवाद (हिन्दी)
पर्वत, नारद, धौम्य, भगवान् व्यास, बृहदश्व, भरद्वाज, शिष्योंके साथ परशुरामजी, वसिष्ठ, इन्द्रप्रमद, त्रित, गृत्समद, असित, कक्षीवान्, गौतम, अत्रि, विश्वामित्र, सुदर्शन तथा और भी शुकदेव आदि शुद्धहृदय महात्मागण एवं शिष्योंके सहित कश्यप, अंगिरापुत्र बृहस्पति आदि मुनिगण भी वहाँ पधारे॥ ६—८॥
वीरराघवः
हे ब्रह्मन्! अन्ये च, ब्रह्मरातः आदिर्येषां ते अमला मुनयः शिष्यैरुपेताः कश्यपादयश्च आजग्मुः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तान् समेतान् महाभागानुपलभ्य वसूत्तमः।
पूजयामास धर्मज्ञो देशकालविभागवित्॥
मूलम्
तान् समेतान् महाभागा12नुपलभ्य वसूत्तमः।
पूजयामास धर्मज्ञो देशकालविभागवित्॥ ९ ॥
अनुवाद (हिन्दी)
भीष्मपितामह धर्मको और देश-कालके विभागको—कहाँ किस समय क्या करना चाहिये, इस बातको जानते थे। उन्होंने उन बड़भागी ऋषियोंको सम्मिलित हुआ देखकर उनका यथायोग्य सत्कार किया॥ ९॥
वीरराघवः
तान् ब्रह्मर्षिप्रभृतीन् समेतान् समुदितानुपलभ्य अभिज्ञाय धर्मज्ञो देशकालाभिज्ञश्च वसूत्तमो भीष्मः यथार्ह पूजयामास पूर्वजन्मनि वसुत्वात् वसूत्तम इत्युक्तम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम्।
हृदिस्थं पूजयामास माययोपात्तविग्रहम्॥
मूलम्
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम्।
हृदिस्थं पूजयामास माययोपात्तविग्रहम्॥ १० ॥
अनुवाद (हिन्दी)
वे भगवान् श्रीकृष्णका प्रभाव भी जानते थे। अतः उन्होंने अपनी लीलासे मनुष्यका वेष धारण करके वहाँ बैठे हुए तथा जगदीश्वरके रूपमें हृदयमें विराजमान भगवान् श्रीकृष्णकी बाहर तथा भीतर दोनों जगह पूजा की॥ १०॥
वीरराघवः
तथा कृष्णं च तत्प्रभावाभिज्ञो हृ13दिस्थं पूजयामास ध्यानेन हृदिस्थं कृत्वा मानसैरुपचारैः पूजयामासेत्यर्थः । कथम्भूतम् ? आसीनमग्रत उपविष्टं जगदीश्वरं मायया सङ्कल्परूपज्ञानेन उपात्तो विग्रहो यस्य तम् ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान्।
अभ्याचष्टानुरागास्रैरन्धीभूतेन चक्षुषा॥
मूलम्
पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्ग14तान्।
अभ्या15चष्टानुरागास्रै16रन्धीभूतेन चक्षुषा॥ ११ ॥
अनुवाद (हिन्दी)
पाण्डव बड़े विनय और प्रेमके साथ भीष्मपितामहके पास बैठ गये। उन्हें देखकर भीष्मपितामहकी आँखें प्रेमके आँसुओंसे भर गयीं। उन्होंने उनसे कहा—॥ ११॥
वीरराघवः
तत्र उपासीनान् उपविष्टान् अनुवर्तमानान् प्रश्रयेण विनयेन प्रेम्णा च सङ्गतान् पाण्डुपुत्त्रान् अनुरागास्त्रैः अनुरागजैरश्रुबिन्दुभिः अन्धीभूतेन चक्षुषा अभ्याचष्ट ददर्श, उवाच च । चक्षेरुभयार्थकत्वात् अत्र तन्त्रेणोभयमपि विवक्षितम् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः।
जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः॥
मूलम्
अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः17।
जीवितुं नार्हथ क्लि18ष्टं विप्रधर्माच्युताश्रयाः॥ १२ ॥
अनुवाद (हिन्दी)
‘धर्मपुत्रो! हाय! हाय! यह बड़े कष्ट और अन्यायकी बात है कि तुमलोगोंको ब्राह्मण, धर्म और भगवान्के आश्रित रहनेपर भी इतने कष्टके साथ जीना पड़ा, जिसके तुम कदापि योग्य नहीं थे॥ १२॥
वीरराघवः
तत्रोक्तिमाह - अह्मे इति द्वादशभिः । हे धर्मनन्दन! अहो इदं कष्टं जीवनमन्याय्यमिति च्छेदः । सन्धिरार्षः। “ओत्” (अष्टा. 1-1-15) इति प्रकृतिभावौ19चित्यात् । यद्यस्माद्विप्रा धर्मोऽच्युतो भगवांश्चाश्रयो येषां ते । विप्राद्यनुवर्तिनो यूयं क्लिष्टं कृच्छ्रं यथा तथा जीवितुं नार्हथ ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः।
युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः॥
मूलम्
संस्थितेऽ20तिरथे पाण्डौ पृथा बालप्रजा वधूः।
युष्मत्कृते ब21हून् क्लेशान् प्राप्ता तोकवती मु22हुः॥ १३ ॥
अनुवाद (हिन्दी)
अतिरथी पाण्डुकी मृत्युके समय तुम्हारी अवस्था बहुत छोटी थी। उन दिनों तुमलोगोंके लिये कुन्तीरानीको और साथ-साथ तुम्हें भी बार-बार बहुत-से कष्ट झेलने पड़े॥ १३॥
वीरराघवः
अतिरथे पाण्डौ संस्थिते प्रेते सति बालाः प्रजाः पुत्राः यस्यास्सा वधूश्च पृथा कुन्ती तोकवती अपत्यवती सत्यपि युष्पदर्थे बहून् मुहुर्मुहुः क्लेशान् प्राप्ता हि ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
सर्वं कालकृतं मन्ये भवतां च यदप्रियम्।
सपालो यद्वशे लोको वायोरिव घनावलिः॥
मूलम्
सर्वं कालकृतं मन्ये भवतां च यदप्रियम्।
सपा23लो यद्वशे लोको वायोरिव घनावलिः॥ १४ ॥
अनुवाद (हिन्दी)
जिस प्रकार बादल वायुके वशमें रहते हैं, वैसे ही लोकपालोंके सहित सारा संसार कालभगवान्के अधीन है। मैं समझता हूँ कि तुमलोगोंके जीवनमें ये जो अप्रिय घटनाएँ घटित हुई हैं, वे सब उन्हींकी लीला हैं॥ १४॥
वीरराघवः
भवतां यदप्रियं दुःखमभूत् एतत्सर्वं कालकृतं कालोद्बुद्धदैवकृतं मन्ये । कोऽसौ कालः, यत्कृतं मदप्रियम् तत्राऽऽह - वायोर्वज्ञे24 मेनपङ्गिरिव यस्म वशे सर्वो लोको वर्तते स एव कालः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत्॥
मूलम्
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः।
कृष्णोऽस्त्री गाण्डिवं25 चापं सुहृत्कृष्णस्ततो विपत्॥ १५ ॥
अनुवाद (हिन्दी)
नहीं तो जहाँ साक्षात् धर्मपुत्र राजा युधिष्ठिर हों, गदाधारी भीमसेन और धनुर्धारी अर्जुन रक्षाका काम कर रहे हों, गाण्डीव धनुष हो और स्वयं श्रीकृष्ण सुहृद् हों—भला, वहाँ भी विपत्तिकी सम्भावना है?॥ १५॥
वीरराघवः
अत्यन्तासम्भावितमिदमभवदिति विस्मयते - यत्रेति । यत्र धर्मसुतादयः तत्र विपदिति तत् चित्रमित्यर्थः । आद्यः कृष्णशब्दोऽर्जुनपरः, द्वितीयस्तु भगवत्परः ; तद्विशेषणं सुहृदिति । धर्मसुतादीनां सुहृत् स्त्रीशब्देन कृष्णा स्त्री द्रौपदी विवक्षिता । धर्मसुतादीनामन्यतम एव सर्वविपक्षक्षपणक्षमे सति सम्भूय सर्वेषामवस्थानेऽपि विपदभवदिति एतदतिचित्रमिति, इदं सर्वं कालकृतमेवेति भावः । सुहृत् कृष्ण इत्यनेन सुहृदपि कृष्णः कालमेव अन्ववर्ततेति सूचितम् । “द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥” (भाग. 2-10-12) इत्युक्तविधस्य तत्रापि भवतामतीव सुहृदः कृष्णस्य विपन्निमित्तकर्मोद्बोधकालानुवर्तित्वादिवोपेक्षा सङ्गता नान्यथेत्याशयः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम्।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि॥
मूलम्
नह्यस्य कर्हिचिद्राजन्! पुमान् वेद वि26धित्सितम्।
यद्विजिज्ञासया युक्ता मुह्यन्ति27 कवयोऽपि हि॥ १६ ॥
अनुवाद (हिन्दी)
ये कालरूप श्रीकृष्ण कब क्या करना चाहते हैं, इस बातको कभी कोई नहीं जानता। बड़े-बड़े ज्ञानी भी इसे जाननेकी इच्छा करके मोहित हो जाते हैं॥ १६॥
वीरराघवः
ननु यद्वशे लोकः स28 कालोऽपि श्रीकृष्णायत्तसत्तादिमांश्चेत्तर्हि कालानुवृत्त्या किमस्य चिकीर्षितमित्यत्राह - नेति । हे राजन्! अस्य कृष्णस्य विधित्सितं चिकीर्षितं न कोऽपि पुमान् वेद । अवेद्यत्वज्ञापनाय विधित्सितं विशिनष्टि, यस्य विधित्सितस्य जिज्ञासया युक्ताः सहिताः विधित्सितं ज्ञातुं प्रवृत्ताः कवयो ब्रह्मादयोऽपि मुह्यन्ति ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो॥
अनुवाद (हिन्दी)
युधिष्ठिर! संसारकी ये सब घटनाएँ ईश्वरेच्छाके अधीन हैं। उसीका अनुसरण करके तुम इस अनाथ प्रजाका पालन करो; क्योंकि अब तुम्हीं इसके स्वामी और इसे पालन करनेमें समर्थ हो॥ १७॥
वीरराघवः
अस्त्येवं, प्रकृते किमित्यत्राऽऽह - तस्मादिति । तस्मात् सर्वलोकस्य कालायत्तसुखादिमत्त्वात् कमदिश्च कृष्णायत्तत्वात् कृष्णस्य कालायत्तनुवर्तितत्वाच्च, हे भरतर्षभ! इदं सुखदुःखादिकं सर्व दैवतन्त्रं दैवायत्तं व्यवस्य निश्चित्य दैवमत्र कालकर्माद्युद्बोधयिता । तदनुवर्ती चेश्वरः कृष्णो विवक्षितः । तस्य दैवस्यानुविहितः, तस्येति कर्तरि षष्ठी । तेन प्रवर्तितस्त्वं हे प्रभो! नाथ! अनाथाः प्रजाः पाहि पालय ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
एष वै भगवान्साक्षादाद्यो नारायणः पुमान्।
मोहयन्मायया लोकं गूढश्चरति वृष्णिषु॥
मूलम्
एष वै भगवान् साक्षादाद्यो नारायणः पुमान्।
मोहयन् मायया लोकं गूढश्चरति वृष्णिषु॥ १८ ॥
अनुवाद (हिन्दी)
ये श्रीकृष्ण साक्षात् भगवान् हैं। ये सबके आदिकारण और परम पुरुष नारायण हैं। अपनी मायासे लोगोंको मोहित करते हुए ये यदुवंशियोंमें छिपकर लीला कर रहे हैं॥ १८॥
वीरराघवः
एवं तमनुशास्य, लोकानुग्रहकाम्यया श्रीकृष्णयाथात्म्यमावेदयति - एष इति । एष श्रीकृष्णः साक्षात् भगवान् षाङ्गुण्यपरिपूर्णः आद्यो जगत्कारणभूतः परमपुरुषो नारायण एवं सन् मायया लोकं मोहयन् गूढः तिरोधापितस्वकीयवेषः वृष्णिषु यादवेषु चरति कश्चित् यादव इवानुकरोति ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
अस्यानुभावं भगवान् वेदगुह्यतमं शिवः।
देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप॥
मूलम्
अस्यानुभावं भगवान् वेदगुह्यतमं शिवः।
देवर्षिर्नारदस्साक्षाद्भगवान् कपिलो नृ30प॥ १९ ॥
अनुवाद (हिन्दी)
इनका प्रभाव अत्यन्त गूढ़ एवं रहस्यमय है। युधिष्ठिर! उसे भगवान् शंकर, देवर्षि नारद और स्वयं भगवान् कपिल ही जानते हैं॥ १९॥
वीरराघवः
त्वमेव इममित्थं जानासि, किमन्येऽपीत्यत्र आह - अस्येति । अस्य कृष्णस्य गुह्यतममनुभावं माहात्म्यं हे नृप! भगवान् उत्पत्तिप्रलयाद्यभिज्ञः शिवो वेद । तथा देवर्षिर्नारदो भगवान् कपिलश्च वेद ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम्।
अकरोः सचिवं दूतं सौहृदादथ सारथिम्॥
मूलम्
यं मन्यसे मातुलेयं प्रि31यं मित्रं सुहृत्तमम्।
अकरोस्सचिवं दूतं सौहृदादथ सारथिम्॥ २० ॥
अनुवाद (हिन्दी)
जिन्हें तुम अपना ममेरा भाई, प्रिय मित्र और सबसे बड़ा हितू मानते हो तथा जिन्हें तुमने प्रेमवश अपना मन्त्री, दूत और सारथितक बनानेमें संकोच नहीं किया है, वे स्वयं परमात्मा हैं॥ २०॥
वीरराघवः
शिवादयस्त्वेवं विदुः त्वं तु अन्यथा जानासि । तथाऽपि न तस्य तत्कृतं वैषम्यमस्तीत्याह - यमिति द्वाभ्याम् । यं कृष्णं मातुलेयं मातुलपुत्रं प्रियं प्रीतिविषयं च मित्रं स्वतुल्यं च, सुहृत्तमम् महोपकारकञ्च मन्यसे । यं च त्वं सचिवं मन्त्रिणं च कदाचिद्दूतं कदाचित् सौहृदातिशयात् सारथिं च अकरोः कृतवानसि । तस्यानुभावं भगवान् शिवो वेदेति पूर्वेणान्वयः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित्॥
मूलम्
सर्वात्मनः समदृशो32 ह्यद्वयस्यानहङ्कृतेः।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित्॥ २१ ॥
अनुवाद (हिन्दी)
इन सर्वात्मा, समदर्शी, अद्वितीय, अहंकाररहित और निष्पाप परमात्मामें उन ऊँचे-नीचे कार्योंके कारण कभी किसी प्रकारकी विषमता नहीं होती॥ २१॥
वीरराघवः
यद्यप्येवं मन्यसेऽकरोश्च तत्कृतं दौत्यसारथ्यादिक्रियाकृतं मतिवैषम्यं कदाचिदप्यस्य न विद्यते । मतिवैषम्याभावे हेतुं वदन् विशिनष्टि - सर्वात्मन इति । सर्वात्मनः मातुलेयादीन् मन्वानस्य दूतं सारथिश्च कुर्वतः तवाप्यन्तरात्मतया य33द्दूतत्वादिकारणाय त्वामप्यचोदयदिति भावः । अथाऽप्यनवद्यस्य नियाम्यगतावद्यासंस्पृष्टस्य । तत्र हेतुः अनहङ्कृतेर्देहात्मभ्रान्तिरहितस्य । किञ्चाद्वयस्य द्वितीयवस्तुरहितस्य स्व34व्याप्यस्वतन्त्रवस्तुरहितस्येत्यर्थः । अत एव समदृशः सर्वमपि प्रकृतिपुरुषाद्यात्मकम् उच्चावचं स्वशरीरतया स्वनियाम्यतया चैकरूपं पश्यतः । उक्तगुणविपरीतस्यैव हि पुंसो मतिवैषम्यमिति भावः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम्।
यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः॥
मूलम्
तथाऽप्येकान्तभक्तेषु पश्य भूपा35नुकम्पितम्।
यन्मेऽसूंस्त्यजतस्साक्षात् कृष्णो दर्शनमागतः॥ २२ ॥
अनुवाद (हिन्दी)
युधिष्ठिर! इस प्रकार सर्वत्र सम होनेपर भी देखो तो सही, वे अपने अनन्यप्रेमी भक्तोंपर कितनी कृपा करते हैं। यही कारण है कि ऐसे समयमें जबकि मैं अपने प्राणोंका त्याग करने जा रहा हूँ, इन भगवान् श्रीकृष्णने मुझे साक्षात् दर्शन दिया है॥ २२॥
वीरराघवः
सर्वात्मन इत्यनेन सर्वस्य तत्प्रीतिविषयत्वमवगतं शरीरं ह्यात्मनः प्रीतिविषयं यद्यपि सर्वं चिदचिदात्मकं जगच्छरीरभूतं प्रियं कृपाविषयं च, तथाऽपि क्षेत्रज्ञानुजिघृक्षया जगद्व्यापारे प्रवृत्तस्य स्वस्य वैषम्यनैर्धृष्यादिपरिहाराय व्या36जमात्रापेक्षिणः स्वानुवर्तिनो नितरां प्रियाः कृपणविषयाश्चेति तदेव दर्शयितुं भक्तस्य मुमूर्षोर्मम चक्षुर्विषय37तां गत इत्याह - तथाऽपीति । यद्यपि सर्वात्मा समदर्शी च तथाऽपि हे भूप! एकान्तभक्तेषु अनन्यप्रयोजनभक्तेषु अनुकम्पितं अनुकम्पाऽस्य सञ्जातेत्यनुकम्पितः । तारकादित्वादितच् । अनुकम्पायुक्तं पश्य अवेहि । तत्र लिङ्गमाह - यद्यस्मात् कृष्णोऽसून् प्राणान् त्यजतः त्यक्तुमुद्युक्तस्य मम साक्षाद्दर्शनं प्राप्तः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
भक्त्याऽऽवेश्य मनो यस्मिन् वाचायन्नाम कीर्तयन्।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः॥
मूलम्
भक्त्याऽऽवेश्य मनो यस्मिन् वाचा यन्नामकीर्तयन्।
त्यजन् कलेबरं योगी मुच्यते का38मकर्मभिः॥ २३ ॥
अनुवाद (हिन्दी)
भगवत्परायण योगी पुरुष भक्तिभावसे इनमें अपना मन लगाकर और वाणीसे इनके नामका कीर्तन करते हुए शरीरका त्याग करते हैं और कामनाओंसे तथा कर्मके बन्धनसे छूट जाते हैं॥ २३॥
वीरराघवः
किं त39व तद्दर्शनजं फलमित्यत्राऽऽह - भक्त्येति । यस्मिन् भक्त्या मनो निवेश्य वाचा यस्य भगवतो नाममात्रमेव कीर्तयन् कलेबरं त्यजन् योगी कामकर्मभिः काम्यन्त इति कामाः, शब्दादिविषयास्तेषां निमित्तभूतैः कर्मभिः पुण्यपापात्मकैः का40मैः कर्मभिश्चेति वा मुच्यते संसृतिबन्धान्मुच्यत इत्यर्थः । यच्छब्दस्य स कृष्ण इत्यध्याहृततच्छब्दवता पूर्वेणान्वयः, स देव इत्युत्तरेण वा । नामकीर्तनमेव कामकर्मविमोचनद्वारा निःश्रेयसफलकं; किमु साक्षाद्दर्शनमिति भावः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
स देवदेवो भगवान् प्रतीक्षतां
कलेवरं यावदिदं हिनोम्यहम्।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो ध्यानपथश्चतुर्भुजः॥
मूलम्
स देवदेवो भगवान् प्रतीक्षतां कलेबरं यावदिदं हिनोम्यहम्।
प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजो ध्यानपथश्चतुर्भुजः॥ २४ ॥
अनुवाद (हिन्दी)
वे ही देवदेव भगवान् अपने प्रसन्न हास्य और रक्तकमलके समान अरुण नेत्रोंसे उल्लसित मुखवाले चतुर्भुजरूपसे, जिसका और लोगोंको केवल ध्यानमें दर्शन होता है, तबतक यहीं स्थित रहकर प्रतीक्षा करें जबतक मैं इस शरीरका त्याग न कर दूँ॥ २४॥
वीरराघवः
यत एवमतो यावन्मत्प्रयाणं तावद्भगवान् प्रतीक्षतामिति प्रार्थयते - स इति । यावदिदं कलेबरं शरीरं हिनोमि त्यजामि या41वत् बिभर्मीति भावः । तावत्प्रसन्नेन प्रहासेन अरुणलोचनाभ्यां उल्लसत् मुखाम्बुजं यस्य स चतुर्भुजो भगवान् श्रीकृष्णः देवानामपि देवो ध्यानपथः ध्यानविषयभूतस्सन् प्रतीक्षतां चक्षुष्पथत्वं प्राप्त एव ध्यानपथोऽपि भवत्वित्यभिप्रायेण, ध्यानपथ इत्युक्तम् । यद्वा द्विभुजत्वेन ध्यानपथो भवतु इत्यभिप्रायेण तदुक्तिः । तत्रत्यानां द्विभुजत्वेन । चक्षुष्पथोऽपि स्वस्य चतुर्भुजत्वेन चक्षुष्पथः तेनैव रूपेण ध्यानपथोऽस्त्वित्यभिप्रायेण वा ध्यानपथोश्चतुर्भुज इत्युक्तम् ॥ २४ ॥
श्लोक-२५
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे।
अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम्॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—युधिष्ठिरने उनकी यह बात सुनकर शरशय्यापर सोये हुए भीष्मपितामहसे बहुत-से ऋषियोंके सामने ही नाना प्रकारके धर्मोंके सम्बन्धमें अनेकों रहस्य पूछे॥ २५॥
वीरराघवः
तद्भीष्मवचो निशम्य युधिष्ठिरः शरपअरे शयानं भीष्ममृषीणां शृण्वतां सतां नानाविधान् धर्मानपृच्छत् ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम्।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान्॥
मूलम्
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम्।
वैराग्यरागोपाधिभ्या माम्नातोभयलक्षणान्॥ २६ ॥
वीरराघवः
धर्मान् विशिनष्टि । पुरुषस्वभावः ज्ञत्वाज्ञत्वशक्तत्वाशक्तत्वादिरूपः तदनुरूपेण विहितान् कर्तव्यतया विधिचो44दितान् यथावर्णं यथाश्रमं ब्राह्मणादिवर्णानां ब्रह्मचर्याद्याश्रमाणां च योग्यान् योग्यार्थकयथाशब्दस्याव्ययीभावः । वैराग्यरागावकामकामौ तावेवोपाधी, ताभ्यामाम्नातानुभयलक्षणान् उभयविधान् प्रवृत्तिनिवृत्तिभेदभिन्नान् यथैकस्यैवाग्निहोत्रादिकर्मणः “अग्रिहोत्रं जुहोति, जुहुयात् स्वर्गकामः, यावज्जीवमग्निहोत्रं जुहुयात्” इति स्वर्गाधिकारजीवनाधिकाररूपाभ्यामुपाधिभ्यामेव भेदः, एवं वैराग्यरागोपाधिभ्यां प्रवृत्तिधर्मत्वेन निवृत्तिधर्मत्वेन च आम्नातान् वस्तुत एकरूपान् वर्णाश्रमादिधर्मानित्यर्थः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः॥
मूलम्
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः॥ २७ ॥
वीरराघवः
आम्नातानित्यनेन वैदिकधर्मानिपृच्छदिति सूचितम् । तथा स्मार्तधर्मानपृच्छदित्यभिप्रायेणाऽऽह - दानधर्मान् इति । राजधर्मा नीतिशास्त्रोक्ताः, मोक्षधर्माः पाञ्चरात्रादितन्त्रोक्ताः । तत्राप्यवान्तरभेदाभिप्रायेण पुरुषस्वभावभेदाभिप्रायेण च विभागश इत्युक्तम् । भगवद्धर्माः तच्छ्रवणकीर्तनादयः समासव्यासयोगतः सङ्क्षेपविस्ताराभ्यां युक्ताः शास्त्रेषु प्रतिपाद्यतयेति समासव्यासयोगाः। सार्वविभक्तिकस्तसिः । समासव्यासयोगान् । यद्वा, समासव्यासयोगात् सङ्क्षेपयोगात् विस्तरयोगात् च अपृच्छत् । सङ्क्षिप्तत्वेन विस्तृतत्वेन चापृच्छदित्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने।
नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित्॥
अनुवाद (हिन्दी)
तब तत्त्ववेत्ता भीष्मपितामहने वर्ण और आश्रमके अनुसार पुरुषके स्वाभाविक धर्म और वैराग्य तथा रागके कारण विभिन्नरूपसे बतलाये हुए निवृत्ति और प्रवृत्तिरूप द्विविध धर्म, दानधर्म, राजधर्म, मोक्षधर्म, स्त्रीधर्म और भगवद्धर्म—इन सबका अलग-अलग संक्षेप और विस्तारसे वर्णन किया। शौनकजी! इनके साथ ही धर्म, अर्थ, काम और मोक्ष—इन चारों पुरुषार्थोंका तथा इनकी प्राप्तिके साधनोंका अनेकों उपाख्यान और इतिहास सुनाते हुए विभागशः वर्णन किया॥ २६—२८॥
वीरराघवः
द्वितीयान्तानां वर्णयामास इत्युत्तरत्रान्वयः । हे मुने! सहोपायान् ससाधनान् धर्मार्थकाममोक्षानपि यथावत् नानाविधेष्वाख्यानेष्वितिहासेषु च यत्तत्वं त47द्विद्भीष्मो वर्णयामास ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः॥
मूलम्
ध48र्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः॥ २९ ॥
अनुवाद (हिन्दी)
भीष्मपितामह इस प्रकार धर्मका प्रवचन कर ही रहे थे कि वह उत्तरायणका समय आ पहुँचा जिसे मृत्युको अपने अधीन रखनेवाले भगवत्परायण योगी लोग चाहा करते हैं॥ २९॥
वीरराघवः
एवं पृष्टान् धर्मान् प्रवदतः योगिनः छन्दमृत्योः स्वच्छन्दानुसारी मृत्युर्यस्य तस्य भीष्पस्य यो वाञ्छित उत्तरायणः स कालः प्रत्युपस्थितः । यद्वा तस्य स कालः प्रत्युपस्थितः यश्छन्दमृत्योर्योगिनः वाञ्छितः स चापि कः ? उत्तरायण इत्यन्वयः ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तदोपसंहृत्य गिरः सहस्रणी-
र्विमुक्तसङ्गं मन आदिपूरुषे।
कृष्णे लसत्पीतपटे चतुर्भुजे
पुरःस्थितेऽमीलितदृग्व्यधारयत्॥
मूलम्
तदोपसंहृत्य गिर49स्सहस्रणीर्विमुक्तसङ्गं50 मन आदिपूरुषे।
कृष्णे लसत्पीतपटे चतुर्भुजे पुरःस्थितेऽमीलितदृग्व्यधारयत्॥ ३० ॥
अनुवाद (हिन्दी)
उस समय हजारों रथियोंके नेता भीष्मपितामहने वाणीका संयम करके मनको सब ओरसे हटाकर अपने सामने स्थित आदिपुरुष भगवान् श्रीकृष्णमें लगा दिया। भगवान् श्रीकृष्णके सुन्दर चतुर्भुज विग्रहपर उस समय पीताम्बर फहरा रहा था। भीष्मजीकी आँखें उसीपर एकटक लग गयीं॥ ३०॥
वीरराघवः
तदेति । यदा सः कालः प्रत्युपस्थितः तदा सहस्रणीः सहस्राणां कुरुपाण्डवादिरूपाणां नायकः सहस्रं स्ववं51श्यानां नयति सद्गतिं प्रापयतीति वा स भीष्मः गिर उपसंहृत्य विरम्य मुक्तः सङ्गो देहतदनुबन्ध्यादिसङ्गो यस्य तत् मनः पुरःस्थिते लसन्तौ विलसन्तौ पीतौ पि52शङ्गौ पटौ यस्य तस्मिन् कृष्णे व्यध्रारयत् । कथम्भूतः ? निमीलिते दृशौ दृष्टी येन सः निमेषणमप्यकुर्वन् कृष्णमेव पश्यन्, तद्विग्रहध्यानैकप्रवणं चित्तमकरोदित्यर्थः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
विशुद्धया धारणया हताशुभ-
स्तदीक्षयैवाशु गतायुधव्यथः।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-
स्तुष्टाव जन्यं विसृजञ्जनार्दनम्॥
मूलम्
विशुद्धया धारणया ह53ताशुभस्तदीक्षयैवाऽऽशु गतायुधव्य54थः।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस्तुष्टाव ज55न्यं विसृजञ्जनार्दनम्॥ ३१ ॥
अनुवाद (हिन्दी)
उनको शस्त्रोंकी चोटसे जो पीड़ा हो रही थी वह तो भगवान्के दर्शनमात्रसे ही तुरंत दूर हो गयी तथा भगवान्की विशुद्ध धारणासे उनके जो कुछ अशुभ शेष थे वे सभी नष्ट हो गये। अब शरीर छोड़नेके समय उन्होंने अपनी समस्त इन्द्रियोंके वृत्तिविलासको रोक दिया और बड़े प्रेमसे भगवान्की स्तुति की॥ ३१॥
वीरराघवः
विशुद्धया धारणया भगवद्विग्रहानुध्यानात्मिकया हतं निरस्तमशुभं भगवत्प्राप्तिविलम्बावहं प्रारब्धं यस्य तदीक्षयैव भगवद्दर्शनेनैवाऽऽशु गता निरस्ता आयुधप्रहारजा व्यथा यस्य निवृत्ताः सर्वेषामिन्द्रियाणां वृत्तयो विभ्रमः देहात्मादिभ्रमश्च यस्य स भीष्मः जन्यं जननयोग्यं देहं विसृजन् त्यक्ष्यन् जनार्दनं सर्वजनदुःखहरं श्रीकृष्णं तुष्टाव ॥ ३१ ॥
श्लोक-३२
मूलम् (वचनम्)
श्रीभीष्म उवाच
विश्वास-प्रस्तुतिः
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाहः॥
मूलम्
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि।
स्वसु56खमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः॥ ३२ ॥
अनुवाद (हिन्दी)
भीष्मजीने कहा—अब मृत्युके समय मैं अपनी यह बुद्धि, जो अनेक प्रकारके साधनोंका अनुष्ठान करनेसे अत्यन्त शुद्ध एवं कामनारहित हो गयी है, यदुवंशशिरोमणि अनन्त भगवान् श्रीकृष्णके चरणोंमें समर्पित करता हूँ, जो सदा-सर्वदा अपने आनन्दमय स्वरूपमें स्थित रहते हुए ही कभी विहार करनेकी—लीला करनेकी इच्छासे प्रकृतिको स्वीकार कर लेते हैं, जिससे यह सृष्टिपरम्परा चलती है॥ ३२॥
वीरराघवः
स्तुतिमेवाऽऽह - इति इत्यादिभिरेकादशभिः । तावत्परमव्योमस्थं वेदान्तवेद्यं दिव्यात्मस्वरूपं प्रकृतावताररूपं तत्प्रयोजनं चानुसन्धाय तस्मिन् स्वमतिदार्ढ्यं प्रार्थयते इ57तीति । वक्ष्यमाणप्रकारेण मम मतिर्भगवति वितृष्णा अलम्बुद्धिरहिता सती उपकल्पिता प्रतिष्ठिता भवतु । यद्वा, इतिर्हेतौ । मतिर्वितृष्णा इति । यस्मात्तस्माद्भगवत्युपकल्पिता भवत्वित्यर्थः । कथम्भूते ? सात्वतपुङ्गवे सात्वतानां यादवानां पुङ्गवे श्रेष्ठे भागवतानां नायके वा विभूम्नि विलक्षणे भूम्नि वागादिभ्यः प्राणशब्दवाच्याज्जीवाच्च विलक्षणेऽपरिच्छित्रे भूमशब्दवाच्य इत्यर्थः “भूमात्वेव विजिज्ञासितव्यः यो वै भूमा तत्सुखं नाल्पे सुखमस्ति” (छान्दो. उ. 7-23-1) इति हि श्रूयते । तदाह - स्वसुखमुपगत इति । स्वं स्वाभाविकं सुखमुपगतवत्यपरिच्छिन्नस्वाभाविकानन्दशालिनीत्यर्थः । क्वचिदेशे विहर्तुं प्रकृतिं विग्रहमुपेयुषि यस्माद्भवप्रवाहः संसारप्रवाहो भवति यत्सङ्कल्पमूला क्षेत्रज्ञानां संसारप्रवृत्तिस्तस्मिन्नित्यर्थः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या॥
मूलम्
त्रिभुवनक58मनं तमालवर्णं रविकरगौरवराम्बरं दधाने।
वपुरलककुलावृताननाब्जं59 विजयसखे र60तिरस्तु मेऽनवद्या॥ ३३ ॥
अनुवाद (हिन्दी)
जिनका शरीर त्रिभुवन-सुन्दर एवं श्याम तमालके समान साँवला है, जिसपर सूर्यरश्मियोंके समान श्रेष्ठ पीताम्बर लहराता रहता है और कमल-सदृश मुखपर घुँघराली अलकें लटकती रहती हैं उन अर्जुन-सखा श्रीकृष्णमें मेरी निष्कपट प्रीति हो॥ ३३॥
वीरराघवः
प्रकृतं रूपमनुभूय मतिदार्ढ्यं प्रार्थयते - त्रिभुवनकमनं त्रिभुवनकमनीयं त्रिभुवनसुन्दरमिति यावत्, तद्वपुर्दधाने विजयसखेऽर्जुनसखे श्रीकृष्णेऽनवद्या निर्दुष्टा अनन्यप्रयोजनेति यावत् । मम रतिरनुरागोऽस्तु । कथम्भूतं वपुः ? तमालस्येव वर्णो नीलो यस्य । रवेः करः किरणसमुदाय इव गौरं वरं चाम्बरं यस्मिन् अलककुलै कुन्तलजालैरावृतमाननाब्जं यस्य तथाभूतम् ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
युधि तुरगरजोविधूम्रविष्वक्
कचलुलितश्रमवार्यलङ्कृतास्ये।
मम निशितशरैर्विभिद्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा॥
मूलम्
युधि तुरगरजोविधूम्रवि61ष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये।
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा॥ ३४ ॥
अनुवाद (हिन्दी)
मुझे युद्धके समयकी उनकी वह विलक्षण छबि याद आती है। उनके मुखपर लहराते हुए घुँघराले बाल घोड़ोंकी टापकी धूलसे मटमैले हो गये थे और पसीनेकी छोटी-छोटी बूँदें शोभायमान हो रही थीं। मैं अपने तीखे बाणोंसे उनकी त्वचाको बींध रहा था। उन सुन्दर कवचमण्डित भगवान् श्रीकृष्णके प्रति मेरा शरीर, अन्तःकरण और आत्मा समर्पित हो जायँ॥ ३४॥
वीरराघवः
युद्धदशावस्थितमनुसन्धाय प्रार्थयते - युधि इति । कृष्णे भगवति ममात्मा मनः अस्तु दृढं भ62वतु तिष्ठतु । कथम्भूते ? युधि युद्धे तुरगरजोभिः अश्वशफोत्थितरजोभिः विधूम्रैः विधूसरैः विष्वग्विलम्बमानैः कचैरलकैः लुलितैः स्नवद्भिः श्रमवारिभिः श्रमस्वेदबिन्दुभिश्चालङ्कतमास्यं यस्य निशितैश्शरैः विभिद्यमाना त्वक् यस्य, अत एव विलसन् क्षतजेन विलसन् कवचो यस्मिन् ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु॥
मूलम्
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं नि63वेश्य।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे र64तिर्ममाऽस्तु॥ ३५ ॥
अनुवाद (हिन्दी)
अपने मित्र अर्जुनकी बात सुनकर, जो तुरंत ही पाण्डव-सेना और कौरव-सेनाके बीचमें अपना रथ ले आये और वहाँ स्थित होकर जिन्होंने अपनी दृष्टिसे ही शत्रुपक्षके सैनिकोंकी आयु छीन ली, उन पार्थसखा भगवान् श्रीकृष्णमें मेरी परम प्रीति हो॥ ३५॥
वीरराघवः
युद्धप्रारम्भदशावस्थं रूपमनुसन्धाय प्रार्थयते - सपदि इति । युद्धप्रारम्भसमये सख्युरर्जुनस्य वचः “सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ॥” (भ.गी. 1-21) इत्यादिरूपं वचो निशम्य निजपरयोः पाण्डवकौरवयोः बलयोर्मध्ये रथं निवेश्य स्थापयित्वा स्थितवति, अक्ष्णैव दृष्टिमात्रेणैव परसैनिकानां दुर्योधनादीनामायुर्हृतवति, पार्थस्यार्जुनस्य सखा तस्मिन् मम रतिरस्तु ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया य-
श्चरणरतिः परमस्य तस्य मेऽस्तु॥
मूलम्
व्यवहि65तपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दो66षबुद्ध्या।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु॥ ३६ ॥
अनुवाद (हिन्दी)
अर्जुनने जब दूरसे कौरवोंकी सेनाके मुखिया हमलोगोंको देखा तब पाप समझकर वह अपने स्वजनोंके वधसे विमुख हो गया। उस समय जिन्होंने गीताके रूपमें आत्मविद्याका उपदेश करके उसके सामयिक अज्ञानका नाश कर दिया, उन परमपुरुष भगवान् श्रीकृष्णके चरणोंमें मेरी प्रीति बनी रहे॥ ३६॥
वीरराघवः
गीतोपनिषदुपदेशावस्थं रूपमनुसन्धाय प्रार्थयते - व्यवहिता इति । व्यवहितायाः नातिदूरस्थायाः पृतनायाः शत्रुसेनायाः मुखं पुरोभागमवलोक्य दोषबु67द्ध्या स्वजनवधाद्विमुखस्यार्जुनस्येति विशेष्यमध्याहर्तव्यम् । कुमतिं “दृष्ट्वेमं स्वजनं कृष्ण!” (भ.गी. 1-28) इत्यादिना तेनैवाविष्कृतां बन्धुहत्यया पापमाशङ्कमानां कुमतिमात्मविद्यया गी68तोपनिषदुपदेशेन योऽपहृतवान् तस्य परमस्य परो मा यस्मात् सः परमः, सर्वाभ्यधिकस्य भगवतश्चरणयो रतिर्ममास्तु ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थः।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीयः॥
मूलम्
स्वनिग69ममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः।
धृतरथचरणोऽभ्ययाच्च70लद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः॥ ३७ ॥
अनुवाद (हिन्दी)
मैंने प्रतिज्ञा कर ली थी कि मैं श्रीकृष्णको शस्त्र ग्रहण कराकर छोड़ूँगा; उसे सत्य एवं ऊँची करनेके लिये उन्होंने अपनी शस्त्र ग्रहण न करनेकी प्रतिज्ञा तोड़ दी। उस समय वे रथसे नीचे कूद पड़े और सिंह जैसे हाथीको मारनेके लिये उसपर टूट पड़ता है, वैसे ही रथका पहिया लेकर मुझपर झपट पड़े। उस समय वे इतने वेगसे दौड़े कि उनके कंधेका दुपट्टा गिर गया और पृथ्वी काँपने लगी॥ ३७॥
श्लोक-३८
विश्वास-प्रस्तुतिः
शितविशिखहतो विशीर्णदंशः
क्षतजपरिप्लुत आततायिनो मे।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्दः॥
मूलम्
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् ग71तिर्मुकुन्दः॥
अनुवाद (हिन्दी)
मुझ आततायीने तीखे बाण मार-मारकर उनके शरीरका कवच तोड़ डाला था, जिससे सारा शरीर लहूलुहान हो रहा था, अर्जुनके रोकनेपर भी वे बलपूर्वक मुझे मारनेके लिये मेरी ओर दौड़े आ रहे थे। वे ही भगवान् श्रीकृष्ण, जो ऐसा करते हुए भी मेरे प्रति अनुग्रह और भक्तवत्सलतासे परिपूर्ण थे, मेरी एकमात्र गति हों—आश्रय हों॥ ३८॥
वीरराघवः
जिघांसया स्वस्योपर्याधावनदशायाम् अवस्थितं रूपमनुसन्दधानः तमेव तत्प्राप्त्युपायमध्यवस्यति । स्वनिगममित्यादिश्लोकद्वयमेकान्वयम् आततायिनः प्रहरतो मे मम तावत् शितैः विशिखैः बाणैः हतः ताडितः अत एव विशीर्णः शिथिलः दंशः कवचो यस्य सः । क्षतजेन रुधिरेण परिप्लुतः व्याप्तगात्रस्सन् स्वनिगम् आयुधं न गृहामीति स्वप्रतिज्ञामपहाय आयुधं ग्राहयामीत्येवंविधां मत्प्रतिज्ञां ऋतं स72त्यं कर्तुं स्वप्रतिज्ञामुपेक्ष्य भक्तप्रतिज्ञामेव यथार्थं73 कर्तुमित्यर्थः । रथस्थः ततोऽवप्लुतः धृतः रथचरणः सुदर्शनाख्यं चक्रं येन सः, चलन्ती गौः भमिर्यस्मात् । भूमिं चालयन् गतं गच्छदुत्तरीयं यस्य सः । इभं गजं हन्तुं हरिः सिंह इव बलात् मद्वधार्थमभिससार मदभिमुखमागतवान् स मुकुन्दो मो74क्षदो भगवान् मम गतिः स्वप्राप्त्युपायो भवतु ॥ ३७, ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षो-
र्यमिह निरीक्ष्य हता गताः सरूपम्॥
मूलम्
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि75 तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गतास्स76रूपम्॥ ३९ ॥
अनुवाद (हिन्दी)
अर्जुनके रथकी रक्षामें सावधान जिन श्रीकृष्णके बायें हाथमें घोड़ोंकी रास थी और दाहिने हाथमें चाबुक, इन दोनोंकी शोभासे उस समय जिनकी अपूर्व छवि बन गयी थी, तथा महाभारतयुद्धमें मरनेवाले वीर जिनकी इस छविका दर्शन करते रहनेके कारण सारूप्य मोक्षको प्राप्त हो गये, उन्हीं पार्थसारथि भगवान् श्रीकृष्णमें मुझ मरणासन्नकी परम प्रीति हो॥ ३९॥
वीरराघवः
सारथ्यदशावस्थितं रूपमनुसन्धायास्मिन् रतिदार्ढ्यं प्रार्थयते - विजयेति । विजयस्य अर्जुनस्य रथः कुटुम्बः कुटुम्बवद्रक्षणयोग्यो यस्य, आत्तं तोत्रं वेत्रं येन, धृता हयानामश्वानां रश्मयः प्रग्रहा येन तस्मिन् तच्छ्रिया तोत्रहयरश्मिग्रहणजशोभया ईक्षणीये अतीवेक्षितुमर्हे च भगवति मुमूर्षोर्मर्तुमुद्यतस्य मम रतिरस्तु । द्व77न्द्वयुद्धे यं निरीक्ष्य ये हतास्ते च स्वरूपं स्वाभाविकं रूपमपहतपाप्मत्वादिगुणाष्टकविशिष्टं रूपं मुक्तिमिति यावत् । गताः प्राप्ताः तस्मिन् भगवतीत्यन्वयः । सरूपमिति पाठे समानरूपं साधर्म्यमिति यावत् ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः
प्रकृतिमगन् किल यस्य गोपवध्वः॥
मूलम्
ललितगतिविलासवल्गुहासप्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमग78न् किल यस्य गोपवध्वः॥ ४० ॥
अनुवाद (हिन्दी)
जिनकी लटकीली सुन्दर चाल, हाव-भावयुक्त चेष्टाएँ, मधुर मुसकान और प्रेमभरी चितवनसे अत्यन्त सम्मानित गोपियाँ रासलीलामें उनके अन्तर्धान हो जानेपर प्रेमोन्मादसे मतवाली होकर जिनकी लीलाओंका अनुकरण करके तन्मय हो गयी थीं, उन्हीं भगवान् श्रीकृष्णमें मेरा परम प्रेम हो॥ ४०॥
वीरराघवः
न केवलं तन्निरीक्ष्य युद्धे हता एव स्वरूपं गता अपि तु तत्कामेन तमनुवर्तमाना अपीत्याशयेन आह - ललितेति । ललितया सुन्दरया गत्या विलासेन वल्गुहासेन सुन्दरतरहासेन मन्दस्मितेन प्रणयनिरीक्षणेन च कल्पितः उरुः अधिकः मानः बहुमानः यासां ता गोपवध्वः उन्मदेन उद्रिक्तकामेन अन्धाः स्वपरविवेकरहिताः कृ79ष्णमात्मानं मन्यमाना इत्यर्थः । अत एव कृतं भगवत्कृतं भगवतश्चेष्टितं पूतनानिरासादिकमिति यावत् । अनुकृतवत्यः अनुकुर्वत्यः सत्यः ए80वञ्च स्फुटीभविष्यति । यस्य प्रकृतिं स्वभावं साधर्म्यमगन् अगमन् किलेति प्रसिद्धिर्धोत्यते, तस्मिन् भगवति रतिरस्त्विति पूर्वेणान्वयः ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
मुनिगणनृपवर्यसंकुलेऽन्तः
सदसि युधिष्ठिरराजसूय एषाम्।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा॥
मूलम्
मुनिगणनृपवर्यसङ्कुलेऽन्तस्सदसि युधिष्ठिरराजसूय एषाम्।
अर्हणमु81पपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा॥ ४१ ॥
अनुवाद (हिन्दी)
जिस समय युधिष्ठिरका राजसूययज्ञ हो रहा था, मुनियों और बड़े-बड़े राजाओंसे भरी हुई सभामें सबसे पहले सबकी ओरसे इन्हीं सबके दर्शनीय भगवान् श्रीकृष्णकी मेरी आँखोंके सामने पूजा हुई थी; वे ही सबके आत्मा प्रभु आज इस मृत्युके समय मेरे सामने खड़े हैं॥ ४१॥
वीरराघवः
युधिष्ठिरराजसूयसभास्थं रूपमनुसन्धाय तस्य स्वचक्षुर्विषयतां प्रार्थयते - मुनीति । युधिष्ठिरराजसूये मुनीनां गणैः नृपश्रेष्ठैश्च सङ्कुलेऽन्तरसदसि सभामध्ये य एषां युधिष्ठिरकृतं मुनिगणाद्यभिमतं चार्हणमग्रपूजादिकम् उपपेदे प्राप्तः एष ईक्षणीयो मदन्तरात्मा श्रीकृष्णः मम दृशि गोचरो दृष्टिविषयस्सन् आविर्भवतु; यावत्तनुत्यागमवतिष्ठत्विति भावः । यद्वा आविरात्मा प्रकाशस्वरूपः दृशि गोचरोऽस्त्वित्यन्वयः ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम्।
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः॥
मूलम्
तमिममहमजं शरीरभाजां हृदि हृ82दि धि83ष्ठितमात्मकल्पितानाम्।
प्रतिदृ84शमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः॥ ४२ ॥
अनुवाद (हिन्दी)
जैसे एक ही सूर्य अनेक आँखोंसे अनेक रूपोंमें दीखते हैं, वैसे ही अजन्मा भगवान् श्रीकृष्ण अपने ही द्वारा रचित अनेक शरीरधारियोंके हृदयमें अनेक रूपसे जान पड़ते हैं; वास्तवमें तो वे एक और सबके हृदयमें विराजमान हैं ही। उन्हीं इन भगवान् श्रीकृष्णको मैं भेद-भ्रमसे रहित होकर प्राप्त हो गया हूँ॥ ४२॥
वीरराघवः
अथ सर्वान्तरात्मानमनुसन्धाय उक्तविधं भगवन्तं प्राप्तोऽस्मीत्याह - तम् इति । तमुक्तविधमात्मना भगवता स्वेनैव तत्तत्कर्मानुरूपं कल्पितानां देहभाजां हृदि हृदि प्रतिहृदयं वस्तुत एकमेव प्रतिदृशं नैकधा अ85नेकधा अवस्थितमर्क सूर्यमिव धिष्ठितमधिष्ठितं समधिगतोऽस्मि स86म्प्राप्तोऽस्मि । कथम्भूतः ? विधूतः भेदमोहः अब्रह्मात्मकस्वतन्त्रवस्तुभेदज्ञानात्मको मोह एकरूपे आत्मनि देवमनुष्यादिभेदमोहश्च यस्य तथाभूतः यथा दिविष्ठः सूर्यः एक एव सन् प्रतिदृशं दृशा दृशा वारिगतेनापि न87यनेनात्माभिमुखं ज88लादौ भासमानः जलादिगतमृद्धिह्रासादिदोषागोचरः व्याप्यवस्तुगतदोषसङ्गरहितोऽर्कस्तमिव हृदि हृदि धिष्ठितमिति दृष्टान्तार्थः । अन्यथाऽर्कदृष्टान्तो न घटते । अतोऽयं निर्दोषत्वे दृष्टान्तः “वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेव दर्शनाच्च" (ब्र. सू. 3-2-20) इति हि सूत्रम् । तत्र हि - “न स्थानतोऽपि परस्योभयलिङ्गम्” (ब्र. सू. 3-2-11) इत्यनेन पृथिव्यादिष्वन्तरात्मतयाऽवस्थितस्यापि परमात्मनो निरस्तनिखिलदोषत्वसमस्तकल्याणगुणाकरत्वरूपोभयलिङ्गश्रवणात् पृथिव्यादिगतदोषसंस्पर्शाभावमभिधाय “अत एव तूपमा सू89र्यकादिवत्” (ब्र. सू. 3-2-18) इत्यनेन यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभा90त्त्वमत एव जलदर्पणादिप्रतिबिम्बितसूर्यादिवत् परमात्मा तत्र तत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते । “आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथाऽत्मैको ह्यनेकस्था जलाधारेष्विवांशुमान् ॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” इत्यादिष्वित्यभिधाय पुनः “अम्बुवदग्रहणात्तु न तथात्वम्” (ब्र. सू. 3-2-19) इत्यनेन सूत्रेण अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते न परमार्थतः तत्रस्थाः । इह तु “यः पृथिव्यां ति91ष्ठन् योऽप्सु तिष्ठन् य आत्मनि तिष्ठन्” 92(बृह. उ. 3-7-22) इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते । अतः सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गः तत्र तत्र स्थित्यभावादेव अतो न तथात्वं दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमिति परिचोद्य “वृद्धिह्रासभाक्त्वम्” (ब्र. सू. 3-2-20) इत्यादिसूत्रेण पृथिव्यादिस्थानान्तर्भावात् स्थानिनः परब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगतवृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निरस्यते । कथमित्यवगम्यते उभयदृष्टान्तसामञ्जस्यादेवमिति निश्चीयते । “आकाशमेकं हि यथा घटादिषु पृथग्भवेत् … ॥ जलाधारेष्विवांशुमान्" इति दोषवत्स्वनेकेषु 93अवस्थितेस्तस्य आकाशस्य वस्तुतोऽनवस्थितस्यांशुमतश्च 94उभयस्य दृष्टान्तस्य उपादानं हि परमात्मनः पृथिव्यादिगतदोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिषु यथा वृद्धिह्रासभाक्षु पृ95थक् पृथक् संयुज्यमानमप्याकाशं वृद्धिहासादिदोषैः न स्पृश्यते । यथा च जलाधारेषु विषमेषु दृश्यमानोऽप्यंशुमान् तद्गतवृद्धिह्रासादिभिः न स्पृश्यते, तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेषु अचेतनेषु चेतनेषु च स्थितः तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टः सर्वत्र वर्तमानोऽप्येक एव अस्पृष्टदोषग96न्धः कल्याणगु97णाकर एव । यथा जलादिषु वस्तुतः अनवस्थितस्याप्यंशुमतो हेत्वभावात् जलादिदोषानभिष्वङ्गः तथा पृथिव्यादिषु अवस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावाच्च न दोषगन्ध इति भाषितम् ॥ ४२ ॥
श्लोक-४३
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः।
आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत्॥
मूलम्
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः।
आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत्॥ ४३ ॥
अनुवाद (हिन्दी)
सूतजी कहते हैं—इस प्रकार भीष्मपितामहने मन, वाणी और दृष्टिकी वृत्तियोंसे आत्मस्वरूप भगवान् श्रीकृष्णमें अपने-आपको लीन कर दिया। उनके प्राण वहीं विलीन हो गये और वे शान्त हो गये॥ ४३॥
वीरराघवः
इत्थं भगवति कृष्णे परमात्मनि मनोवाग्दृष्टीनां वृत्तिभिः व्यापारैरात्मानं प्रत्यगात्मानमावेश्य तेन संयुक्तमनुसन्धायेत्यर्थः स भीष्मोऽन्तः श्वासः अन्तर्लीनः प्राणवायुः यस्य सः तथाभूतः उपारमत् शरीरं विहाय अर्चिरादिगत्या परमपुरुषं प्राप्त इत्यर्थः ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये॥
मूलम्
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिना98त्यये॥ ४४ ॥
अनुवाद (हिन्दी)
उन्हें अनन्त ब्रह्ममें लीन जानकर सब लोग वैसे ही चुप हो गये, जैसे दिनके बीत जानेपर पक्षियोंका कलरव शान्त हो जाता है॥ ४४॥
वीरराघवः
तदा भीष्पं निष्कले निर्दोषि ब्रह्मणि सम्पद्यमानं सर्वोपाधिविधूननपूर्वकं ब्रह्म प्राप्नु99वन्तं प्र100त्यभिज्ञाय सर्वे तत्रत्यास्तूष्णीं बभूवुर्यथा दिनात्यये रात्रौ वयांसि पक्षिणस्तद्वत् ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
तत्र दुन्दुभयो नेदुर्देवमानववादिताः।
शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः॥
अनुवाद (हिन्दी)
उस समय देवता और मनुष्य नगारे बजाने लगे। साधुस्वभावके राजा उनकी प्रशंसा करने लगे और आकाशसे पुष्पोंकी वर्षा होने लगी॥ ४५॥
वीरराघवः
तत्र तदा देवैर्मानवैश्च वादिता दुन्दुभयो नेदुः दध्वनुः साधवो भागवताश्शशंसुरहो भीष्मस्य भाग्यं माहात्म्यं चानितरसाधारणमिति तुष्टुवुः । राज्ञां पुष्पवृष्टयः राजभिः कारिताः पुष्पवृष्टयः खादुपरिदेशात् पेतुः प103तिता इत्यर्थः ॥ ४५ ॥
श्लोक-४६
विश्वास-प्रस्तुतिः
तस्य निर्हरणादीनि सम्परेतस्य भार्गव।
युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत्॥
मूलम्
तस्य निर्हरणादीनि सम्परेतस्य भार्गव!
युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत्॥ ४६ ॥
अनुवाद (हिन्दी)
शौनकजी! युधिष्ठिरने उनके मृत शरीरकी अन्त्येष्टि क्रिया करायी और कुछ समयके लिये वे शोकमग्न हो गये॥ ४६॥
वीरराघवः
हे भार्गव! सम्परेतस्य परलोकं प्राप्तस्य भीष्मस्य निर्हरणादीनि दाहादिकर्माणि कारयित्वा युधिष्ठिरो मुहूर्तं दुःखितो बभूव ॥ ४६ ॥
श्लोक-४७
विश्वास-प्रस्तुतिः
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः।
ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः॥
मूलम्
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः।
ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः॥ ४७ ॥
अनुवाद (हिन्दी)
उस समय मुनियोंने बड़े आनन्दसे भगवान् श्रीकृष्णकी उनके रहस्यमय नाम ले-लेकर स्तुति की। इसके पश्चात् अपने हृदयोंको श्रीकृष्णमय बनाकर वे अपने-अपने आश्रमोंको लौट गये॥ ४७॥
वीरराघवः
तथा मुनयो हृष्टाः कृष्णं तस्य कृष्णस्य गुह्यं स्व104रूपरूपयाथात्म्यं वेदान्तवेद्यं तत्प्रकाशकैः नामभिस्तुष्टुवुः । ततस्ते मुनयः कृष्ण एव हृदयं येषां तथाभूताः पुनराश्रमान् प्रययुः ॥ ४७ ॥
श्लोक-४८
विश्वास-प्रस्तुतिः
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम्।
पितरं सान्त्वयामास गान्धारीं च तपस्विनीम्॥
मूलम्
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम्।
पितरं सान्त्वयामास गान्धारीं च तपस्विनीम्॥ ४८ ॥
अनुवाद (हिन्दी)
तदनन्तर भगवान् श्रीकृष्णके साथ युधिष्ठिर हस्तिनापुर चले आये और उन्होंने वहाँ अपने चाचा धृतराष्ट्र और तपस्विनी गान्धारीको ढाढस बँधाया॥ ४८॥
वीरराघवः
ततः कृष्णेन सहितो युधिष्ठिरो हस्तिनापुरं गत्वा पितरं धृतराष्ट्रं तपस्विनीं पतिव्रतां गान्धारीं च सान्त्वयामास ॥ ४८ ॥
श्लोक-४९
विश्वास-प्रस्तुतिः
पित्रा चानुमतो राजा वासुदेवानुमोदितः।
चकार राज्यं धर्मेण पितृपैतामहं विभुः॥
मूलम्
पित्रा चानुमतो राजा वासुदेवानुमोदितः।
चकार राज्यं धर्मेण पितृपैतामहं विभुः॥ ४९ ॥
अनुवाद (हिन्दी)
फिर धृतराष्ट्रकी आज्ञा और भगवान् श्रीकृष्णकी अनुमतिसे समर्थ राजा युधिष्ठिर अपने वंशपरम्परागत साम्राज्यका धर्मपूर्वक शासन करने लगे॥ ४९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः॥ ९॥
वीरराघवः
ततः पित्रा धृतराष्ट्रेणानुज्ञातः वासुदेवेन भगवताऽनुमोदितश्च विभुर्युधिष्ठिरः पित्रादिक्रमप्राप्तं राज्यं धर्मेण चकार शशास ॥ ४९ ॥ इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां नवमोऽध्यायः ॥ ९ ॥
-
W बुभुत्सया ↩︎
-
H,K,M,V,W विशसनं ↩︎
-
K,M,W या ↩︎
-
A,B स्वाज्ञातधर्मान् ↩︎
-
H,K,M,V तद् ↩︎
-
W जाः ↩︎
-
H,V तथा देवर्षिसत्तमाः ↩︎
-
B माः ↩︎
-
A,B श्य ↩︎
-
H,V त्स्न ↩︎
-
H,V का ↩︎
-
K,M ग उ ↩︎
-
A,B ह्यभिसंपू ↩︎
-
K,M न्न ↩︎
-
H,V भ्य ↩︎
-
I श्रै ↩︎
-
H,K,M,V,W न! ↩︎
-
AF,GF कृच्छ्रं ↩︎
-
A,B वत्वात् ↩︎
-
AF,GF विरथे ↩︎
-
K,M बहुक्ले ↩︎
-
K,M यथा ↩︎
-
H,K,M,V,W का ↩︎
-
A,B श ↩︎
-
H,V वश्चापः ↩︎
-
B चिकित्सितम् ↩︎
-
N न्ते ↩︎
-
W सकलोऽपि ↩︎
-
AF,GF मुनिः ↩︎
-
H,V कृष्णं ↩︎
-
K,M शोऽप्यद्व ↩︎
-
W अवस्थाय दूतत्वादिकरणाय त्वामपि चोदयत इति भावः । ↩︎
-
A,B omit स्व ↩︎
-
AF,GF ता ↩︎
-
A,B कर्ममात्रा ↩︎
-
W यं ↩︎
-
AF,GF सर्व ↩︎
-
A,B तत् यद्दर्शनर्ज फलमाह ↩︎
-
A,B omit कामै: ↩︎
-
A,B विमुक्तो भवामीति भावः । ↩︎
-
H आ ↩︎
-
B,H,K,M,N,V,W मनु ↩︎
-
A,B बोधि ↩︎
-
AF,GF मुनि: ↩︎
-
B,H,V धर्म ↩︎
-
A,B तद्भी ↩︎
-
H,K,M,V,W धर्मान् ↩︎
-
K,M रं स ↩︎
-
AF,GF ङ्गो ↩︎
-
A,B व ↩︎
-
A,B omit पिशङ्गौ ↩︎
-
AF,GF हृ ↩︎
-
I श्रमः ↩︎
-
K,M जल्पं ↩︎
-
K,M सुख उप ↩︎
-
A,B इति ↩︎
-
B ग ↩︎
-
H,V,W ब्जे ↩︎
-
AF,GF म ↩︎
-
K,M विध्यत्कच ↩︎
-
W अव ↩︎
-
H,K,V प्र ↩︎
-
AF,GF न ↩︎
-
K,M सि ↩︎
-
AE,GF धर्म ↩︎
-
A,B वशात् ↩︎
-
A,B गीतोपदेशेन ↩︎
-
K,M य ↩︎
-
K,M द्बलाग्रे हरि ↩︎
-
K,M मुदे मु ↩︎
-
A,B सत्या ↩︎
-
A,B र्थां ↩︎
-
A,B omit मोक्षदो ↩︎
-
K,M जितश्रमेक्षणीये ↩︎
-
B,I,K,M,W स्स्वस्व ↩︎
-
A,B इह युद्धे ↩︎
-
K,M गुः ↩︎
-
W कृष्णं सामान्यं ↩︎
-
A,B एतच्च ↩︎
-
K,M मभि ↩︎
-
AF,GF विदधे स्थित ↩︎
-
K,M वि ↩︎
-
AF,GF दि ↩︎
-
A,B omit अनेकधा ↩︎
-
A,B omit सम्प्राप्तोऽस्मि ↩︎
-
A,B नयनेनाभि ↩︎
-
Here W’s version is preferred to A’s version तत्त्वादौ ↩︎
-
B सूर्याकाशादिवत् ↩︎
-
A,B भाक्त्वमपि तत एव ↩︎
-
A,B omit तिष्ठन् योऽप्सु ↩︎
-
काण्वपाठसम्बन्धिविज्ञानपर्यायस्थाने इदं वाक्यम् उपलभ्यते । बृह. उ. 3-7-22 ↩︎
-
W वस्तुतोऽवस्थितस्य आ ↩︎
-
A,B omit उभयस्य ↩︎
-
A,B पृथम्युज्य ↩︎
-
A,B गन्ध ↩︎
-
A,B गुणक ↩︎
-
AF,GF वा ↩︎
-
A,B प्त ↩︎
-
A,B अभिज्ञाय ↩︎
-
B दानव, K,M गन्धर्व ↩︎
-
AF,GF राजन्!; K,M ब्रह्मन्! ↩︎
-
W पतितवत्यः ↩︎
-
A,B स्वरूपया ↩︎