०८ कुन्तीस्तुतिर्युधिष्ठिरानुतापः

[अष्टमोऽध्यायः]

भागसूचना

गर्भमें परीक्षित् की रक्षा, कुन्तीके द्वारा भगवान‍्की स्तुति और युधिष्ठिरका शोक

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

अथ ते सम्परेतानां स्वानामुदकमिच्छताम्।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः॥

मूलम्

अथ ते1 सम्परेतानां स्वानामुदकमिच्छताम्।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—इसके बाद पाण्डव श्रीकृष्णके साथ जलांजलिके इच्छुक मरे हुए स्वजनोंका तर्पण करनेके लिये स्त्रियोंको आगे करके गंगातटपर गये॥ १॥

वीरराघवः

अथ ते पाण्डवाः सम्परेतानां 2स्वानां उदकं तिलोदकम् । एतच्छ्राद्धादीनामप्युपलक्षणम् । इच्छतां प्रेतरूपेण कामयमानानां दातुं उदकं दातुं स्त्रियः द्रौपद्यादिस्त्रीः पुरस्कृत्य कृष्णेन सहिताः गङ्गां ययुः ॥ १ ॥

श्लोक-२

विश्वास-प्रस्तुतिः

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः।
आप्लुता हरिपादाब्जरजःपूतसरिज्जले॥

मूलम्

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः।
आप्लुता हरिपादाब्जरजःपू3तसरिज्जले॥ २ ॥

अनुवाद (हिन्दी)

वहाँ उन सबने मृत बन्धुओंको जलदान दिया और उनके गुणोंका स्मरण करके बहुत विलाप किया। तदनन्तर भगवान‍्के चरण-कमलोंकी धूलिसे पवित्र गंगाजलमें पुनः स्नान किया॥ २॥

वीरराघवः

तत्र ते सर्वे पाण्डवादयः भृशं पुनः पुनः विलप्य सम्परेतानां उदकं निनीय प्रदाय हरेः कृष्णस्य पादाब्जयोः रजसा पूते सरितः गङ्गायाः जले आप्लुताः स्ना4त्वा विशुद्धा बभूवुः इत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम्।
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः॥

मूलम्

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम्।
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः॥ ३ ॥

वीरराघवः

तत्र गङ्गातीरे आसीनं उपविष्टं सहानुजं कुरूणां पतिं धृतराष्ट्रं पुत्रशोकार्तामिति गान्धारीकृष्णयोः विशेषणम् । तत्र गान्धारी धृतराष्ट्रभार्या, पृथा कुन्ती, कृष्णा द्रौपदी, माधवः कृष्णः सान्त्वयामास इत्युत्तरेण अन्वयः । सहानुजम् इत्यत्र अनुजशब्दः पाण्डुसुतधर्मराजादीनां उपलक्षकः । तेषामपि अत्र शोकार्तत्वेन सान्त्वनीयत्वात्, न तु विदुरपरः तस्य पूर्वमेव धृतराष्ट्रेण निर्यापितत्वात् । यादवक्षयानन्तरं आगामिनः तदा अवस्थानासम्भवात्, एतच्च अस्मिन् तृतीये स्कन्धे स्फुटीभविष्यति ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

सान्त्वयामास मुनिभिर्हतबन्धूञ्छुचार्पितान्।
भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम्॥

मूलम्

सान्त्वयामास मुनिभिः हतब5न्धून् शुचार्पि6तान्।
भूतेषु कालस्य गतिं दर्शयन्नप्रतिक्रियाम्॥ ४ ॥

अनुवाद (हिन्दी)

वहाँ अपने भाइयोंके साथ कुरुपति महाराज युधिष्ठिर, धृतराष्ट्र, पुत्रशोकसे व्याकुल गान्धारी, कुन्ती और द्रौपदी—सब बैठकर मरे हुए स्वजनोंके लिये शोक करने लगे। भगवान् श्रीकृष्णने धौम्यादि मुनियोंके साथ उनको सान्त्वना दी और समझाया कि संसारके सभी प्राणी कालके अधीन हैं, मौतसे किसीको कोई बचा नहीं सकता॥ ३-४॥

वीरराघवः

हता बन्धवः येषां तान् अत एव शुचा शोकेन अर्पितान् अर्दितान् धृतराष्ट्रादीन् बन्धून् भूतेषु लोकेषु न विद्यते प्रतिक्रिया प्रत्युपायः यस्याः तां कालस्य गतिं जन्ममरणाद्यु7त्पादनरूपां दर्शयन् मुनिभिः सह सान्त्वयामास । माधव इति कर्तृपदं अनुषङ्गेण योजनीयम् । एव मुत्तरत्राऽपि ज्ञेयम् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम्।
घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः॥

मूलम्

साधयित्वाजातशत्रोः स्वं8 राज्यं कितवैर्हृतम्।
घा9तयित्वासतो रा10ज्ञः कचस्पर्शक्ष11तायुषः॥ ५ ॥

अनुवाद (हिन्दी)

इस प्रकार भगवान् श्रीकृष्णने अजातशत्रु महाराज युधिष्ठिरको उनका वह राज्य, जो धूर्तोंने छलसे छीन लिया था, वापस दिलाया तथा द्रौपदीके केशोंका स्पर्श करनेसे जिनकी आयु क्षीण हो गयी थी, उन दुष्ट राजाओंका वध कराया॥ ५॥

वीरराघवः

कितवैरक्षद्यूताद्युपायेन वञ्चकैः दुर्योधनादिभिः हृतं अजातशत्रोः युधिष्ठिरस्य स्वं12 राज्यं साधयित्वा राज्ञ्या द्रौपद्याः कचस्पर्शेन केशपाशग्रहणेनैव क्षतं क्षीणं आयुः येषां तान् असतः दुष्टान् दुश्शासनादीन् घातयित्वा अर्जुनादिभिरिति शेषः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः।
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्॥

मूलम्

याजयित्वाऽश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः।
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्॥ ६ ॥

अनुवाद (हिन्दी)

साथ ही युधिष्ठिरके द्वारा उत्तम सामग्रियोंसे तथा पुरोहितोंसे तीन अश्वमेध यज्ञ कराये। इस प्रकार युधिष्ठिरके पवित्र यशको सौ यज्ञ करनेवाले इन्द्रके यशकी तरह सब ओर फैला दिया॥ ६॥

वीरराघवः

उत्तमकल्पकैः मुख्यकल्पैः अन्यूनमन्त्रदक्षिणैः त्रिभिः अश्वमेधैः 13युधिष्ठिरं याजयित्वा पावनं पवित्रं तस्य युधिष्ठिरस्य यशः शतमन्योः शक्रस्य यश इव व्यतनोत् विस्तारयामास ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः।
द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः॥

मूलम्

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः।
द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः॥ ७ ॥

वीरराघवः

ततः पाण्डुपुत्रान्, चशब्दात् अन्यांश्च । आमन्त्र्य आपृच्छ्यं शैनेयः शिनेः नप्ता सात्यकिः शैनेयोद्धवाभ्यां सात्यक्युद्धवाभ्यां सहितः आत्मना पूजितैः द्वैपायनः आदिः मुख्यः येषां तैः विप्रैः प्रतिपूजितः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः।
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम्॥

मूलम्

गन्तुं कृतमतिर्ब्रह्मन्! द्वारकां रथमास्थितः।
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम्॥ ८ ॥

अनुवाद (हिन्दी)

इसके बाद भगवान् श्रीकृष्णने वहाँसे जानेका विचार किया। उन्होंने इसके लिये पाण्डवोंसे विदा ली और व्यास आदि ब्राह्मणोंका सत्कार किया। उन लोगोंने भी भगवान‍्का बड़ा ही सम्मान किया। तदनन्तर सात्यकि और उद्धवके साथ द्वारका जानेके लिये वे रथपर सवार हुए। उसी समय उन्होंने देखा कि उत्तरा भयसे विह्वल होकर सामनेसे दौड़ी चली आ रही है॥ ७-८॥

वीरराघवः

द्वारकां प्रति गन्तुं कृतमतिः निश्चितमतिः हे ब्रह्मन्! रथं आस्थितः अधिष्ठितः तदा अभिधावन्तीं 14भयेन विह्वलां उत्तरां अभिमन्युपत्नीं इत्थं विज्ञापयन्तीं इति शेषः । उपलेभे पथि ददर्श इत्यर्थः । यद्वा अभिधावन्तीं विज्ञापनपूर्वकं अनुवर्तमानां उपलेभ इत्यन्वयः ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

उत्तरोवाच

विश्वास-प्रस्तुतिः

पाहि पाहि महायोगिन‍्देवदेव जगत्पते।
नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्॥

मूलम्

पाहि पाहि मह्ययोगिन‍् देवदेव जगत्पते!।
ना15न्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्॥ ९ ॥

अनुवाद (हिन्दी)

उत्तराने कहा—देवाधिदेव! जगदीश्वर! आप महायोगी हैं। आप मेरी रक्षा कीजिये, रक्षा कीजिये। आपके अतिरिक्त इस लोकमें मुझे अभय देनेवाला और कोई नहीं है; क्योंकि यहाँ सभी परस्पर एक-दूसरेकी मृत्युके निमित्त बन रहे हैं॥ ९॥

वीरराघवः

विज्ञापनमेवाह - पाहीति द्वाभ्याम् । हे देवानामपि देव! हे जगत्पते निखिलजगत्त्रातः! हे महायोगिन् सूक्ष्मार्थदर्शिन्! पाहि पाहि । न विद्यते भयं यस्मात् तथाभूतं त्वत् त्वत्तः अन्यं न पश्ये । अदर्शने हेतुं वदन्ती अन्यान् विशिनष्टि - यत्र त्वद्व्यतिरिक्तेषु परस्परं मृत्युः मृत्युग्रस्ता इत्यर्थः । न हि स्वयं मृत्युवश्यः अन्यं मृत्योः त्रातुं प्रभुः इति भावः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

अभिद्रवति मामीश शरस्तप्तायसो विभो।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्॥

मूलम्

अभिद्रवति मामीश! शरस्तप्तायसो विभो!
कामं दहतु16 मां नाथ! मा मे गर्भो निपात्यताम्॥ १० ॥

अनुवाद (हिन्दी)

प्रभो! आप सर्वशक्तिमान् हैं। यह दहकते हुए लोहेका बाण मेरी ओर दौड़ा आ रहा है। स्वामिन्! यह मुझे भले ही जला डाले, परन्तु मेरे गर्भको नष्ट न करे—ऐसी कृपा कीजिये॥ १०॥

वीरराघवः

ननु किं तव भयमुपस्थितं, यस्मात् त्वं मया रक्षणीया इत्यत्राह - अभिद्रवतीति । हे ईश! विभो! तप्तश्च असौ आयसः । अयसः विकारः शरः मां अभिद्रवति । 17अभिमुखं आगच्छति । हे नाथ! स शरः मां कामं यथेच्छं दहतु । मे मम गर्भश्च यथा मा निपात्यतां तथा अनुगृहाण इत्यर्थः ॥ १० ॥

श्लोक-११

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत॥

मूलम्

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत॥ ११ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—भक्तवत्सल भगवान् श्रीकृष्ण उसकी बात सुनते ही जान गये कि अश्वत्थामाने पाण्डवोंके वंशको निर्बीज करनेके लिये ब्रह्मास्त्रका प्रयोग किया है॥ ११॥

वीरराघवः

तस्या उत्तरायाः वचः अवधार्य आकर्ण्य भक्तवत्सलः भगवान् अबुध्यत अध्यवस्यत् । क्रिमिति ? अपाण्डवं पाण्डवाभावं कर्तुं इदं शररूपेण द्रवत् द्रौणेः अस्त्रं द्रौणिप्रयुक्तं ब्रह्मास्त्रं इति ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान्।
आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददुः॥

मूलम्

तर्ह्येवा18थ मु19निश्रेष्ठ! पाण्डवाः पञ्च सायकान्।
आत्मनोऽभिमुखान् दीप्तानालक्ष्यास्त्राण्युपाददुः॥ १२ ॥

अनुवाद (हिन्दी)

शौनकजी! उसी समय पाण्डवोंने भी देखा कि जलते हुए पाँच बाण हमारी ओर आ रहे हैं। इसलिये उन्होंने भी अपने-अपने अस्त्र उठा लिये॥ १२॥

वीरराघवः

20था भगवान् एवं अबुध्यत तर्हि तथै21व हे भृगुश्रेष्ठ! शौनक ! पाण्डवा अपि आत्मनः अभिमुखान् अभिमुखं आगच्छतः दीप्तान् पञ्च सायकान् शरान् आलक्ष्य अस्त्राणि उपाददुः जगृहुः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम्।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्वभुः॥

मूलम्

व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम्।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः॥ १३ ॥

अनुवाद (हिन्दी)

सर्वशक्तिमान् भगवान् श्रीकृष्णने अपने अनन्य प्रेमियोंपर—शरणागत भक्तोंपर बहुत बड़ी विपत्ति आयी जानकर अपने निज अस्त्र सुदर्शनचक्रसे उन निज जनोंकी रक्षा की॥ १३॥

वीरराघवः

तदा अनन्यविषयः आत्मा मनः येषां तेषां अ22नन्यरक्षकाणां पाण्डवानां तद् व्यसनं दुःखं आलोक्य विभुः कृष्णः स्वासाधारणेन सुदर्शनेन अस्त्रेण स्वानां पाण्डवानां रक्षां व्यधात् अकरोत् । सुदर्शनेन तान् सायकान् निरस्य पाण्डवान् ररक्ष इत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः।
स्वमाययाऽऽवृणोद‍्गर्भं वैराट्याः कुरुतन्तवे॥

मूलम्

अन्तस्स्थः सर्वभूतानां आत्मा योगेश्वरो हरिः।
स्वमाययाऽऽवृणोद‍्गर्भं वैराट्याः कुरुतन्तवे॥ १४ ॥

अनुवाद (हिन्दी)

योगेश्वर श्रीकृष्ण समस्त प्राणियोंके हृदयमें विराजमान आत्मा हैं। उन्होंने उत्तराके गर्भको पाण्डवोंकी वंशपरम्परा चलानेके लिये अपनी मायाके कवचसे ढक दिया॥ १४॥

वीरराघवः

ततः अन्तस्स्थः सर्वान्तरात्मतया अवस्थितः आत्मा अन्तः प्रविश्य धारकश्च भगवान् अत एव योगेश्वरः निरतिशयसूक्ष्मार्थदशीं उत्तरागर्भप्रविष्टापाण्डवास्त्रदर्शीत्यर्थः । हरिः कृष्णः । कुरुतन्तवे कुरुवंशविस्तारार्थं वैराट्याः विराटपुत्र्याः उत्तराया गर्भं स्वयं आत्मनैव आवृणोत् वैराट्या उदरं स्वयं प्रविश्य तद्गर्भे यथा ब्रह्मास्त्रेण न ह23सैत् तथाऽऽवृणोत् । गर्भमासा24द्य सुदर्शनेन अस्त्रं चिच्छेद इत्यर्थः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम्।
वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह॥

मूलम्

यद्यप्यस्त्रं ब्रह्मशि25रस्त्वमोघं चाप्रतिक्रियम्।
वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह!॥ १५ ॥

अनुवाद (हिन्दी)

शौनकजी! यद्यपि ब्रह्मास्त्र अमोघ है और उसके निवारणका कोई उपाय भी नहीं है, फिर भी भगवान् श्रीकृष्णके तेजके सामने आकर वह शान्त हो गया॥ १५॥

वीरराघवः

कथं अप्रतिभटं ब्रह्मास्त्रं सुदर्शनेनापि निरस्तं इति शौनकाभिप्रेतं दो26षं अनूद्य तं27 प्रतिक्षिपति - यद्यपीति । ब्रह्मशिरोनामास्त्रं अप्रतिक्रियं केनापि अनिवार्यम् । अत एव अमोघं अप्रतिहतं, तथापि हे भृगूद्वह! वैष्णवं विष्णोः सम्बन्धि तेजः तेजोरूपं सुदर्शनं आसाद्य सम्यक् अशाम्यत् सुदर्शनेतराप्रतिक्रियं ब्रह्मास्त्रम् । सुदर्शनमेव सर्वाप्रतिक्रियमिति भावः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते।
य इदं मायया देव्या सृजत्यवति हन्त्यजः॥

मूलम्

मा मंस्था ह्ये28तदाश्चर्यं सर्वाश्चर्यमयेऽच्युते।
य इदं मायया दे29व्या सृजत्यवति हन्त्यजः॥ १६ ॥

अनुवाद (हिन्दी)

यह कोई आश्चर्यकी बात नहीं समझनी चाहिये; क्योंकि भगवान् तो सर्वाश्चर्यमय हैं, वे ही अपनी निज शक्ति मायासे स्वयं अजन्मा होकर भी इस संसारकी सृष्टिरक्षा और संहार करते हैं॥ १६॥

वीरराघवः

तत्र विस्मयः न कार्य इत्याह - मेति । सर्वेभ्यः अपि आश्चर्येभ्यः आश्चर्यमये आश्चर्यशक्तिप्रचुरे अच्युते स्वाश्रितास्त्रभूषणगुणविभूत्यादीन् न च्यावयति न पृ30थक् करोतीत्यच्युतः । तथाभूते भगवति एतत्सुदर्शनेन ब्रह्मास्त्रं निरस्तं इत्येतदाश्चर्यं मा मंस्थाः न मन्यस्व । सर्वाश्चर्यमयत्वमेव व्यञ्जयितुं विशिनष्टि - यः भगवान् अच्युतः अजः स्वयं कर्मायत्तोत्पत्त्यादिषड्भावविकाररहितः । इदं चिदचिदात्मकं कृत्स्नं जगत् मायया देव्या देवस्य स्वस्य सम्बन्धिन्या मायया आश्चर्यशक्त्या सृजति अवति हन्ति च कृत्स्नजगत्सृष्टिस्थितिलयलीलस्य कियदेतत् सुदर्शननिरस्तं ब्रह्मास्त्रं इत्यतः नाश्चर्यं कार्यमित्यर्थः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया।
प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती॥

मूलम्

ब्रह्मतेजोविनिर्मुक्तैरात्मजैस्सह कृष्णया।
प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती॥ १७ ॥

अनुवाद (हिन्दी)

जब भगवान् श्रीकृष्ण जाने लगे, तब ब्रह्मास्त्रकी ज्वालासे मुक्त अपने पुत्रोंके और द्रौपदीके साथ सती कुन्तीने भगवान् श्रीकृष्णकी इस प्रकार स्तुति की॥ १७॥

वीरराघवः

ततः ब्रह्मतेजसा ब्रह्मास्त्रेण विनिर्मुक्तैः आत्मजैः युधिष्ठिरादिभिः कृष्णया द्रौपद्या च सह सती पृथा कुन्ती प्रयाणाभिमुखं कृष्णमिदं वक्ष्यमाणमाह ॥ १७ ॥

श्लोक-१८

मूलम् (वचनम्)

कुन्त्युवाच

विश्वास-प्रस्तुतिः

नमस्ये पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम्।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम्॥

मूलम्

नमस्ये पुरुषं त्वाऽऽद्यमीश्वरं प्रकृतेः परम्।
अलक्ष्यं सर्वभू31तानामन्तर्बहिर32वस्थितम्॥ १८ ॥

अनुवाद (हिन्दी)

कुन्तीने कहा—आप समस्त जीवोंके बाहर और भीतर एकरस स्थित हैं, फिर भी इन्द्रियों और वृत्तियोंसे देखे नहीं जाते; क्योंकि आप प्रकृतिसे परे आदिपुरुष परमेश्वर हैं। मैं आपको नमस्कार करती हूँ॥ १८॥

वीरराघवः

तदेवाह - नमस्ये इति षड्विंशत्या । प्रयाणाभिमुखं कृष्णं आलोक्य तद्विश्लेषं असहमाना तं ततः निवर्तयितुं लौकिकोऽपि कश्चिद् गुणाढ्यः पुमान् आश्रितान् न हातु उत्सहते । परमकारणस्य सर्वान्तरात्मनः अचिन्त्यविविधविचित्रशक्तेः स्वेच्छोपात्ताप्राकृताश्चर्यदिव्यतनोः आश्रितवात्सल्यजलधेः आश्रितार्तिहरस्य निरतिशयसुखदस्य योगपरिशुद्धमनसैव गोचरस्य अविज्ञातचिकीर्षितस्य सर्वशरीरकस्य सर्वसुहृदः अचिन्त्यविविधविचित्रचेष्टितस्य अवितर्क्यावतारस्य तव पदाम्बुजं अन्तरेण नास्माकं शरणमस्ति । अतः कथं अनन्यात्मनः अस्मान् विहाय गन्तुं उद्युङ्क्ष इति विज्ञापयति । तत्र तावत् लौकिकपुरुषवैजात्यज्ञापनाय अनितरसाधारणैः धर्मैः विशिष्टं नमस्करोति नमस्य इति । आद्यं सर्वजगत्कारणं प्रकृतेः परं पुरुषं ईश्वरं त्वां नमस्ये नमस्करोमि नमस्कारेण पूजयामीत्यर्थः । नमश्शब्दात् “शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे” (अष्टा. 3-1-17) इत्यतः करण इत्यनुवर्तमाने “नमो वरिवश्चित्रङः क्यच्” (अष्टा. 3-1-19) इति करोत्यर्थे क्यचि आर्षत्वादात्मनेपदम्। साङ्ख्याभिमतपुरुषव्यावृत्त्यर्थं ईश्वरमित्युक्तम् । सापेक्षं ईश्वरत्वं ब्रह्मादिसाधारणमिति तद्व्यावृत्त्यर्थं सर्वभूतानां अन्तर्बहिश्च अवस्थितं इत्युक्तम् । अनेन “यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” (म. ना. उ. 9-5) इति श्रुतिरुपबृंहिता भवति । अनेन देवताविशेषत्वं च फलितम् । सर्वभूतानां ब्रह्मादिस्थावरान्तानां अन्तर्बहिश्च व्याप्य नियन्तृतया अवस्थितं इत्यर्थः । प्रकृतेः परत्वे हेतुः अलक्ष्य इति प्रकृतिवन्न लक्ष्यते न दृश्यते इत्यलक्ष्य33म् । यद्वा अन्तर्बहिश्च अवस्थितमपि अलक्ष्यमदृश्यम् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम्।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा॥

मूलम्

मायाज34वनिकाच्छ35न्नमज्ञाधोक्षजमव्ययम्।
न लक्ष्यसे मूढदृशा36 नटो नाट्यध37रो यथा॥ १९ ॥

अनुवाद (हिन्दी)

इन्द्रियोंसे जो कुछ जाना जाता है, उसकी तहमें आप विद्यमान रहते हैं और अपनी ही मायाके परदेसे अपनेको ढके रहते हैं। मैं अबोध नारी आप अविनाशी पुरुषोत्तमको भला कैसे जान सकती हूँ? जैसे मूढ़ लोग दूसरा भेष धारण किये हुए नटको प्रत्यक्ष देखकर भी नहीं पहचान सकते, वैसे ही आप दीखते हुए भी नहीं दीखते॥ १९॥

वीरराघवः

तत्र हेतुः मायाज38वनिकाच्छन्नं मायैव ज39वनिका नेपथ्यं तद्वत् तिरोधायकत्वात् । तया जीवाज्ञानरूपया हेतुभूतया छन्नं तिरोहितं इन्द्रियाविषयं इति यावत् । किं सर्वेषामप्यतीन्द्रियम् ? नेत्याह - अज्ञेति । अक्षजा इन्द्रियवृत्तयः अ40धः अक्षजा यस्मात् सः अधोक्षजः इन्द्रियवृत्त्यविषयः अज्ञानां अनुपासकानां अधोक्षजं अज्ञाधोक्षजम् । तत्र हेतुः अव्ययं इति - न व्येति विविधं विकारं गच्छतीत्यव्ययम् । वि41विधविकारभागेव ह्यज्ञाक्षजविषयः त्वं त्वव्ययत्वात् अज्ञाधोऽक्षज इत्यर्थः । अनेन एतत् सूच्यते योगविशुद्धमनसा अनुग्राह्य इति ; तथा च श्रूयते “न चक्षुषा पश्यति कश्चनैनं” (कठ. उ. 6-9), “न मांसचक्षुरभिवीक्षते तम्” “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” (कठ. उ. 3-12) “हृदा मनीषा मनसाऽभिक्लृ42प्तय एनं विदुः” (कठ. उ. 6-9) इत्यादि । तदेवाऽऽह न लक्ष्यसे मूढदृशेति योगापरिशुद्धधिया न लक्ष्यसे न दृश्यसे । ननु सर्वैरपि दृश्य एवासौ इत्यत्राह - नटो नाट्यधरो यथा । नटो यथा दृश्यते तथा दृश्यसे इत्यर्थः । यद्वा मूढदृशा 43अजानता पुंसा नाट्यधर: नटः यथा न लक्ष्यते अयं एवंविध इति न ज्ञायते । किन्तु नाट्योपयुक्तवेषविशिष्टतयैव दृश्यते, तद्वत् । अनेनाज्ञाघोक्षज इत्यनेन च योगपरिशुद्धमनोप्राह्यः अपरिशुद्धमनसा त्वग्राह्यः इति तत्र न लक्ष्यसे इत्यनेन अग्राह्यत्वं उपपादितम् ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

तथा परमहंसानां मुनीनाममलात्मनाम्।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः॥

मूलम्

तथा परमहंसानां मुनीनाममलात्मनाम्।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः॥ २० ॥

अनुवाद (हिन्दी)

आप शुद्ध हृदयवाले विचारशील जीवन्मुक्त परमहंसोंके हृदयमें अपनी प्रेममयी भक्तिका सृजन करनेके लिये अवतीर्ण हुए हैं। फिर हम अल्पबुद्धि स्त्रियाँ आपको कैसे पहचान सकती हैं॥ २०॥

श्लोक-२१

विश्वास-प्रस्तुतिः

कृष्णाय वासुदेवाय देवकीनन्दनाय च।
नन्दगोपकुमाराय गोविन्दाय नमो नमः॥

मूलम्

कृष्णाय वासुदेवाय देवकीनन्दनाय च।
नन्दगोपकुमाराय गोविन्दाय नमो नमः॥ २१ ॥

अनुवाद (हिन्दी)

आप श्रीकृष्ण, वासुदेव, देवकीनन्दन, नन्द गोपके लाड़ले लाल गोविन्दको हमारा बारंबार प्रणाम है॥ २१॥

श्लोक-२२

विश्वास-प्रस्तुतिः

नमः पङ्कजनाभाय नमः पङ्कजमालिने।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्‍घ्रये॥

मूलम्

नमः पङ्कजनाभाय नमः पङ्कजमालिने।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्‍घ्रये॥ २२ ॥

अनुवाद (हिन्दी)

जिनकी नाभिसे ब्रह्माका जन्मस्थान कमल प्रकट हुआ है, जो सुन्दर कमलोंकी माला धारण करते हैं, जिनके नेत्र कमलके समान विशाल और कोमल हैं, जिनके चरणकमलोंमें कमलका चिह्न है—श्रीकृष्ण! ऐसे आपको मेरा बार-बार नमस्कार है॥ २२॥

वीरराघवः

अथ परिशुद्धमनोग्राह्यत्वं वदन्ती, योगानधिकारिण्यः अपरिशुद्धमनसः स्त्रियः वयं कथं जानीम इत्याह - तथेति । तथा तथापी44त्यर्थः । मुनीनां सदा त्वत्स्वरूपमननशीलानां अमलात्मनां विशुद्धमनसां परमहंसानां भक्तियोगविधानार्थम् । अर्थशब्दोऽत्र विषयी45भूतपदार्थवाची । भक्तियोगविधानस्य भक्तियोगप्रपञ्चस्यार्थं विषयभूतं भक्तियोगदृश्यं त्वां स्त्रियो वयं कथं पश्येम हि जानीम हि । तर्हि किं जानासीत्यपेक्षायां नटं नाट्यधरं नाट्योपयुक्तनामरूपादिविशिष्टतयैव जानते न तु तत्त्वतः अयमेतज्जातिनामरूपगुणक इति । तद्वत् अस्मिन्नवतारे यानि कृष्णवासुदेवदेवकीनन्दनादिनामानि, यच्च पङ्कजनाभाद्यवयवोपेतं ता46न्येतान्येव सर्वेषां अवभासमानानि केवलं जानीम इत्यभिप्रायेण उक्तनामरूपविशिष्टं नमस्करोति कृष्णायेति । श्लोकद्वयं निगदेनैव व्याख्यातम् ॥ २०, २१, २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

यथा हृषीकेश खलेन देवकी
कंसेन रुद्धातिचिरं शुचार्पिता।
विमोचिताहं च सहात्मजा विभो
त्वयैव नाथेन मुहुर्विपद‍्गणात्॥

मूलम्

यथा हृषीकेश! खलेन देवकी कंसेन रुद्धाति47चिरं शुचार्पिता।
विमोचिताहं च सहात्मजा विभो! त्वयैव नाथेन मुहुर्विपद‍्गणात्॥ २३ ॥

वीरराघवः

नन्वतारदशायां अयोगपरिशुद्धमनोभिः अपि सर्वैः दृश्यमानस्य भगवतः कथं अलक्ष्यत्वं अज्ञाधोक्षजमव्ययं, न लक्ष्यसे मूढदृशा इत्युक्तम् । “न मांसचक्षुरभिवीक्षते तं”, “न चक्षुषा पश्यति कश्चनैनं” (कठ. उ. 6-9) इत्यादिभिः श्रुतं चादृश्यत्वं इति चेन्न, सर्वैः देवमनुष्या[^v26]दिसाजात्येन दृश्यमानत्वेऽपि त्व48द्विलक्षणत्वेन अदृश्यत्वात् । विलक्षणदर्शनमेव हि अलक्ष्यं इत्यादिभिः प्रतिषिध्यते नटदृष्टान्तेनापि त49देवावगन्तव्यम् । जानन्त्या अपि कथं पश्येम हि स्त्रिय इत्युक्तिः लोकपरिपाट्यभिप्रायिका । यतस्त्वं साक्षात् प्रकृतेः परः परमपुरुष ईश्वरः तत एवास्यां अवतारदशायामपि स्व50भावमजहत् स्वासाधारणान् धर्मान् दर्शयसीत्यभिप्रायेणाह - यथेति । हे हृषीकेश! खलेन दुरात्मना कंसेन चिरं शुचा शोकेनार्पिता नि51धापिता शोकं प्रापिता इति यावत् । रुद्धा या च देवकी यथा विमोचिता तथा अहमपि सपुत्रा हे विभो! सर्वशक्ते! त्वयैव नाथेन विपदां गणात् मुहुः विमोचिता किं, कि52मित्यस्य नेत्यादिः विमोचितैवेत्यर्थः । अनेन स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षारूपं कृपालुत्वं, आश्रितानिष्टपरिहर्तृत्वं, निम्नोन्नतानादरेण आश्रितमात्रपक्षपातित्वञ्च प्रदर्शितमिति फलितम् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

विषान्महाग्नेः पुरुषाददर्शना-
दसत्सभाया वनवासकृच्छ्रतः।
मृधे मृधेऽनेकमहारथास्त्रतो
द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः॥

मूलम्

विषान्महाग्नेः पुरुषादद53र्शनात् असत्सभायाः वनवासकृच्छ्रतः।
मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः॥ २४ ॥

अनुवाद (हिन्दी)

हृषीकेश! जैसे आपने दुष्ट कंसके द्वारा कैद की हुई और चिरकालसे शोकग्रस्त देवकीकी रक्षा की थी, वैसे ही पुत्रोंके साथ मेरी भी आपने बार-बार विपत्तियोंसे रक्षा की है। आप ही हमारे स्वामी हैं। आप सर्वशक्तिमान् हैं। श्रीकृष्ण! कहाँतक गिनाऊँ—विषसे, लाक्षागृहकी भयानक आगसे, हिडिम्ब आदि राक्षसोंकी दृष्टिसे, दुष्टोंकी द्यूतसभासे, वनवासकी विपत्तियोंसे और अनेक बारके युद्धोंमें अनेक महारथियोंके शस्त्रास्त्रोंसे और अभी-अभी इस अश्वत्थामाके ब्रह्मास्त्रसे भी आपने ही हमारी रक्षा की है॥ २३-२४॥

वीरराघवः

कोऽसौ विपद्गणः यस्मात् त्वं विमोचिता इत्यत्राह - विषादिति । महाग्नेः लाक्षागृहाग्नेः पुरुषादानां राक्षसानां दर्शनात् द54र्शनजात् भयात् वनवासकृच्छ्रतः वनवासक्लेशात् मृधे मृधे प्रतियुद्धं महारथानां अस्त्रेभ्यः द्रौण्यस्रतः ब्रह्मास्त्रात् हे हरे! रक्षिताः स्म अभवाम । विषादिभ्यः रक्षणप्रकारः महाभारतात् अवगन्तव्यः, विस्तरभयात् नात्र लिख्यते ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

विपदः सन्तु नः शश्वत्तत्र तत्र जगद‍्गुरो।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्॥

मूलम्

विपदस्सन्तु नः55 शश्वत्तत्र तत्र ज56गद‍्गुरो!
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्॥ २५ ॥

अनुवाद (हिन्दी)

जगद‍्गुरो! हमारे जीवनमें सर्वदा पद-पदपर विपत्तियाँ आती रहें; क्योंकि विपत्तियोंमें ही निश्चितरूपसे आपके दर्शन हुआ करते हैं और आपके दर्शन हो जानेपर फिर जन्म-मृत्युके चक्‍करमें नहीं आना पड़ता॥ २५॥

वीरराघवः

यदेतत् विपद्गणनिवारकत्वं तदेतत् तव कियत् ? अर्थादेव तन्निवृत्तेः इत्यभिप्रायेणाह - विपद इति । हे जगद्गुरो! तत्र तत्र शश्वत् सदा ताः त्वया निरसनीयाः नः57 आश्रितानां विपदः सन्तु असतां न तन्निरासाय यत्नः त्वया कार्यः इति भावः । यत् यदि अपुनर्भवदर्शनं भवतः दर्शनं स्यात् । न विद्यते पुनर्भवस्य संसृतेः दर्शनं यस्मात् तत् तथाभूतं भवद्दर्शनं यदि स्यात्; सम्भावनायां लिङ् । सकलापमूलसंसृतिपरिहारक्षमं तद्यदि स्यात् । विपदः सन्तु नाम अर्थादेव तन्निवृत्तेः इति भावः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान्।
नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम्॥

मूलम्

जन्मैश्वर्यश्रुत58श्रीभिरेधमानमदः पुमान्।
नै59वार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम्॥ २६ ॥

अनुवाद (हिन्दी)

ऊँचे कुलमें जन्म, ऐश्वर्य, विद्या और सम्पत्तिके कारण जिसका घमंड बढ़ रहा है, वह मनुष्य तो आपका नाम भी नहीं ले सकता; क्योंकि आप तो उन लोगोंको दर्शन देते हैं जो अकिंचन हैं॥ २६॥

वीरराघवः

नन्वहमीश्वरश्चेत् तर्हि त्वमिव सर्वेऽपि मामेवंविधं किं न वदन्तीत्यत आह - जन्मेति । ऐश्वर्यशब्दः धनपरः, श्रुतशब्दः विद्यापरः जन्मेश्वर्यश्रुतानां सत्कुलप्रसवधनविद्यानां श्रीभिः समृद्धिभिः एधमानः मदः यस्य स पुमांस्त्वां अभिधातुं न च अर्हति । त्रिमदोन्मत्तत्वेन स्व60परयाथात्म्यविवेकाभावादिति भावः । अनर्हतामेव सूचयितुं विशिनष्टि अकिञ्चनगोचरं नास्ति किञ्चन येषां ते अकिञ्चनाः निष्कामाः तेषां गोचरम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये।
आत्मारामाय शान्ताय कैवल्यपतये नमः॥

मूलम्

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये।
आत्मारामाय शान्ताय कैवल्यपतये नमः॥ २७ ॥

अनुवाद (हिन्दी)

आप निर्धनोंके परम धन हैं। मायाका प्रपंच आपका स्पर्श भी नहीं कर सकता। आप अपने-आपमें ही विहार करनेवाले, परम शान्तस्वरूप हैं। आप ही कैवल्य मोक्षके अधिपति हैं। आपको मैं बार-बार नमस्कार करती हूँ॥ २७॥

वीरराघवः

अन्यैश्च चिदचिद्व्यावर्तकैः ईश्वरासाधारणधर्मैः विशिषन्ती नमस्करोति - नम इति । अकिञ्चनानां वित्ताय विद्लृ लाभे इति धातुः, विद्यते लभ्यते इति वित्तः तस्मै । निवृत्ताः गुणानां रजआदीनां वृत्तयः कामक्रोधादयः यस्य तस्मै । अनेन अविद्यावृत्तिः । शान्ताय ऊर्मिषट्करहिताय अशनायापिपासाशोकमोहजरामृत्यवः षडूर्मयः । अनेन बद्धजीवव्यावृत्तिः । तत्र हेतुः, आत्मारामाय, स्वानुभवैकपरा61य । कैवल्यं प्रकृतिसम्बन्धराहित्यं मोक्ष इति यावत् तस्य पतिः तस्मै मोक्षप्रदाय । अनेन मुक्तनित्यजीवव्यावृत्तिः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

मन्ये त्वां कालमीशानमनादिनिधनं विभुम्।
समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः॥

मूलम्

मन्ये त्वां कालमीशानमनादिनिधनं वि62भुम्।
समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः॥ २८ ॥

अनुवाद (हिन्दी)

मैं आपको अनादि, अनन्त, सर्वव्यापक, सबके नियन्ता, कालरूप, परमेश्वर समझती हूँ। संसारके समस्त पदार्थ और प्राणी आपसमें टकराकर विषमताके कारण परस्पर विरुद्ध हो रहे हैं, परंतु आप सबमें समानरूपसे विचर रहे हैं॥ २८॥

वीरराघवः

ननु ब्रह्मरुद्रेन्द्राद्यन्यतमः क63श्चिदुक्तविधः, नत्वहं इत्यत्राह - मन्य इति । ईशानं ब्रह्मादीनपि च64 वशीकुर्वाणं कालं त्वां मन्ये कालशरीरकं त्वां मन्ये इत्यर्थः । अत एव कालकृतजन्ममरणादिरहितम् । नन्वहमपि प्राकृतवद्वैषम्यादिमानेव; त65तः कालं विशिनष्टि । सर्वत्र समं चरन्तं कालयन्तं यत् यस्मात् का66लनिमित्तात् भूतानां मिथः कलिः कलहः भवति । समं चरन्तं इत्यनेन कालशरीरकस्य तव न वैषम्यनैर्नृण्यादिकं अस्तीति सूचितम्, यन्मिथः कलिरित्यनेन । अथापि तत्तज्जीवकर्मानुसारेण सुखदुःखादीन् प्रति नि67मित्तमात्रत्वमस्तीति सूचितम् ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

न वेद कश्चिद‍्भगवंश्चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम्।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्
द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम्॥

मूलम्

न वेद कश्चिद‍्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम्।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम्॥ २९ ॥

अनुवाद (हिन्दी)

भगवन्! आप जब मनुष्योंकी-सी लीला करते हैं, तब आप क्या करना चाहते हैं—यह कोई नहीं जानता। आपका कभी कोई न प्रिय है और न अप्रिय। आपके सम्बन्धमें लोगोंकी बुद्धि ही विषम हुआ करती है॥ २९॥

वीरराघवः

नन्वहमपि कांश्चिदनुगृह्णन् कांश्चिन्निगृह्णन् कथं वैषम्यादिरहित इत्यत आह - नेति । हे भगवन्! नृणां विडम्बनं अनुकारं ईहमानस्य कुर्वाणस्य तव चिकीर्षितं न कोऽपि वेद । क्वचित् निग्रहोऽपि अन्ततः अनुग्रहरूपतया फलतीति न वैषम्यादिकमस्ति । पूतनाशकटयमलार्जुनधेनुककेशिकुवलयापीड चाणूरमुष्टिकको68सलकंसादिविषयनिग्रहस्य अन्ततः तेषां निरतिशयपुरुषार्थरूपमुक्तिहेतुत्वदर्शनात् इति भावः । यत एवं अत एव त्वयि वैषम्यादिरहिते तदापादयता नृणां मतिरेव विषमेत्याह न यस्येति । कर्हिचिदपि दयितः प्रियः द्वेष्यश्च नास्ति । यस्मिन् नृणां मतिः विषमा रजस्तमोन्वयात् अयथार्था भवति । नृणां विडम्बनं ईहमानस्य इत्यनेन नरचेष्टानुकारमात्रमेव, न तु सर्वथा तत्सजातीयचेष्टितम् । “जन्म कर्म च मे दिव्यं” (भ.गी. 4-9) इति भगवतैवोक्तत्वात् इति सूचितम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः।
तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम्॥

मूलम्

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः।
ति69र्यङ्नृषिषु यादस्सु तदत्यन्तविडम्बनम्॥ ३० ॥

अनुवाद (हिन्दी)

आप विश्वके आत्मा हैं, विश्वरूप हैं। न आप जन्म लेते हैं और न कर्म ही करते हैं। फिर भी पशु-पक्षी, मनुष्य, ऋषि, जलचर आदिमें आप जन्म लेते हैं और उन योनियोंके अनुरूप दिव्य कर्म भी करते हैं। यह आपकी लीला ही तो है॥ ३०॥

वीरराघवः

बिडम्बनत्वमेव अन्यथानुपफ्त्या द्रढयति - जन्मेति । अजस्य जन्मरहितस्य कर्मायत्तोत्पत्तिरहितस्य अकर्तुः प्राचीनकर्मानुरूपप्रवृत्तबुद्ध्यधीनकर्मरहितस्य आत्मनः सर्वान्तरात्मनः तव तिर्यगादिषु जन्म तत्सजातीयं कर्म च इति यत् तदत्यन्तविडम्बनमेव । अन्यथा अजस्य अकर्तुः आत्मनश्च तन्न घटत इति भावः । तत्र तिर्यक्षु वराहादिषु ऋषिषु भा70र्गवदत्तात्रेयकार्दमादिषु नृषु राघवयादवादिषु यादस्सु मत्स्यकूर्मादिषु जलौकस्सु वि71डम्बनमात्रम् ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम्।
वक्त्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद‍्बिभेति॥

मूलम्

गोप्याददे त्वयि कृतागसि दाम तावत् या ते द72शाऽश्रुकलिलाञ्जनसम्भ्रमाक्षम्।
वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि य73द‍्बिभेति॥ ३१ ॥

अनुवाद (हिन्दी)

जब बचपनमें आपने दूधकी मटकी फोड़कर यशोदा मैयाको खिझा दिया था और उन्होंने आपको बाँधनेके लिये हाथमें रस्सी ली थी, तब आपकी आँखोंमें आँसू छलक आये थे, काजल कपोलोंपर बह चला था, नेत्र चंचल हो रहे थे और भयकी भावनासे आपने अपने मुखको नीचेकी ओर झुका लिया था! आपकी उस दशाका—लीला-छबिका ध्यान करके मैं मोहित हो जाती हूँ। भला, जिससे भय भी भय मानता है, उसकी यह दशा!॥ ३१॥

वीरराघवः

वि74डम्बनमात्रं चेदिदं न घटते इत्यभिप्रायेणाह - गोपीति । तावद्यथा त्वयि कृतं आगः अपराधः येन तथाभूते सति गोपी यशोदा दाम रज्जुं आददे त्वद्बन्धनार्थं परिज75गृहे, तदा अश्रुभिः कलिलं कलुषितं अञ्जनं ययोस्ते सम्भ्रमे भयसूचकाटोपयुक्ते अक्षिणी यस्य तद्वक्त्रं निनीय उन्नीय उ76न्नाम्य । अश्रुकलिलेत्यादिक्रियाविशेषणं वा, अश्रुकलिलाञ्जनसम्भ्रमाक्षं यथा तथा वक्त्रं निनीय प्रापय्य इत्यर्थः । यस्माद् य77तः भीरपि बिभेति तस्य तव भयभावनया भयाभिनयेन स्थितस्य या दशा सा मां विमोहयति । अत्र भीशब्देन सर्वेषां भयहेतुः मृत्युः लक्ष्यते “भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः” (तैत्ति. उ. 2-8) इत्युक्तविधस्या78सम्भावितभयस्य तवेत्यर्थः । तावद्विमोहयति मूढां करोति । पश्चात्तु नरचेष्टानुकारमात्रमिदमिति ज्ञापयतीति तावच्छब्दाशयः ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये।
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम्॥

मूलम्

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये।
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम्॥ ३२ ॥

अनुवाद (हिन्दी)

आपने अजन्मा होकर भी जन्म क्यों लिया है, इसका कारण बतलाते हुए कोई-कोई महापुरुष यों कहते हैं कि जैसे मलयाचलकी कीर्तिका विस्तार करनेके लिये उसमें चन्दन प्रकट होता है, वैसे ही अपने प्रिय भक्त पुण्यश्लोक राजा यदुकी कीर्तिका विस्तार करनेके लिये ही आपने उनके वंशमें अवतार ग्रहण किया है॥ ३२॥

वीरराघवः

यतो विडम्बनमात्रं न तु तात्त्विकं अत एव त्वदवतारप्रयोजननिमित्तं च इदमेवेति निश्चेतुं अशक्त्या79 तत्र नाना तर्कयन्तीत्याह - केचिदिति पञ्चभिः । केचित्व80दवतारप्रयोजननि81र्णयप्रवृत्तानां मध्ये अजमपि त्वां प्रियस्य भक्तस्य पुण्यश्लोकस्य यदोः कीर्तये तद्वंशे जातमाहुः । यदुवंशकीर्तिजननाय तत्र त्वां जातमाहुरित्यर्थः । यथा मलयस्य पर्वतस्य कीर्तये चन्दनं जातं वदन्ति तद्वत् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात्।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्॥

मूलम्

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात्।
82जस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्॥ ३३ ॥

अनुवाद (हिन्दी)

दूसरे लोग यों कहते हैं कि वसुदेव और देवकीने पूर्वजन्ममें (सुतपा और पृश्निके रूपमें) आपसे यही वरदान प्राप्त किया था, इसीलिये आप अजन्मा होते हुए भी जगत‍्के कल्याण और दैत्योंके नाशके लिये उनके पुत्र बने हैं॥ ३३॥

वीरराघवः

अपरे त्व83त्र साधुलोकस्य क्षेमाय सुरद्विषां वधाय च जा84तस्त्वं वसुदेवस्य देवक्याम् । ताभ्यां पूर्वजन्मनि याचितः अभ्यगात् । पुत्रत्वं प्राप्त इत्याहुः । वसुदेवस्य इत्यपादानस्यैव शेषत्वविवक्षया षष्ठी ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

भारावतारणायान्ये भुवो नाव इवोदधौ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः॥

मूलम्

भारावता85रणायान्ये भुवो नाव इवोदधौ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः॥ ३४ ॥

अनुवाद (हिन्दी)

कुछ और लोग यों कहते हैं कि यह पृथ्वी दैत्योंके अत्यन्त भारसे समुद्रमें डूबते हुए जहाजकी तरह डगमगा रही थी—पीड़ित हो रही थी, तब ब्रह्माकी प्रार्थनासे उसका भार उतारनेके लिये ही आप प्रकट हुए॥ ३४॥

वीरराघवः

अन्ये तु उदधौ अर्णवे नाव इव भूरिभारेण सीदन्त्याः क्लिश्यन्त्याः भुवः भारापहाराय आत्मभुवा च चतुर्मुखेनार्थितः भगवान् जा86त इत्याहुः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः।
श्रवणस्मरणार्हाणि करिष्यन्निति केचन॥

मूलम्

भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः।
श्रवणस्मरणार्हाणि करिष्य87न्निति केचन॥ ३५ ॥

अनुवाद (हिन्दी)

कोई महापुरुष यों कहते हैं कि जो लोग इस संसारमें अज्ञान, कामना और कर्मोंके बन्धनमें जकड़े हुए पीड़ित हो रहे हैं उन लोगोंके लिये श्रवण और स्मरण करनेयोग्य लीला करनेके विचारसे ही आपने अवतार ग्रहण किया है॥ ३५॥

वीरराघवः

केचन तु अस्मिन् लोके अविद्यादिभिः क्लिश्यमानानां जनानां श्रवणस्मरणाद्यर्हाणि चेष्टितानि करिष्यन् कर्तुं जात इत्याहुरित्यर्थः । अविद्या देहात्मभ्रमादेः निमित्तं अज्ञानम् । कामः तन्मूलकशब्दादिविषयाभिलाषः, कर्माणि तत्तदनुकूलव्यापारात्मकानि ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
स्मरन्ति नन्दन्ति तवेहितं जनाः।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम्॥

मूलम्

शृण्वन्ति गायन्ति गृ88णन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः।
त एव पश्यन्त्यचिरेण तावकम् भवप्रवाहोपरमं पदाम्बुजम्॥ ३६ ॥

अनुवाद (हिन्दी)

भक्तजन बार-बार आपके चरित्रका श्रवण, गान, कीर्तन एवं स्मरण करके आनन्दित होते रहते हैं; वे ही अविलम्ब आपके उस चरणकमलका दर्शन कर पाते हैं; जो जन्म-मृत्युके प्रवाहको सदाके लिये रोक देता है॥ ३६॥

वीरराघवः

अविद्यादिभिः क्लिश्यमानानां जनानां श्रवणाद्यर्हाणि इत्यनेन भगवच्चेष्टितानां क्लेशापह89र्तृत्वं सूचितम् । तच्च न साक्षात्, किन्तु संसृतिनिवर्तकभगवच्चरणारविन्दसाक्षात्कारावहभक्तियोगनिष्पादनद्वारा इत्यभिप्रायेण भगवच्चेष्टितश्रवणादिपराणां एतच्चरणाम्बुजसाक्षात्कारः नान्येषां इत्याह शृण्वन्तीति । ये जनाः तव ईहितं चेष्टितं शृण्वन्ति वक्तृसान्निध्ये गृणन्ति श्रोतृसान्निध्ये तदुभयासन्निधौ च स्वयं गायन्ति स्मरन्ति नन्दन्ति । स एव भवप्रवाहस्य संसारप्रवाहस्य उपरमः यस्मात् त90त्तावकं त्वदीयं पदाम्बुजं अचिरेण पश्यन्ति ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

अप्यद्य नस्त्वं स्वकृतेहित प्रभो
जिहाससि स्वित्सुहृदोऽनुजीविनः।
येषां न चान्यद‍्भवतः पदाम्बुजात्
परायणं राजसु योजितांहसाम्॥

मूलम्

अप्यद्य नस्त्वं स्वकृतेहित91! प्रभो! जिहाससि स्वित् सुहृदोऽनुजीविनः।
येषां न चान्यद‍्भवतः पदाम्बुजं परायणं राजसु यो92जितांहसाम्॥ ३७ ॥

अनुवाद (हिन्दी)

भक्तवाञ्छाकल्पतरु प्रभो! क्या अब आप अपने आश्रित और सम्बन्धी हमलोगोंको छोड़कर जाना चाहते हैं। आप जानते हैं कि आपके चरणकमलोंके अतिरिक्त हमें और किसीका सहारा नहीं है। पृथ्वीके राजाओंके तो हम यों ही विरोधी हो गये हैं॥ ३७॥

वीरराघवः

तदेवं संस्तुत्य अधुना प्रयाणं उपसंहर इति सूचयितुं त्वत्पदाम्भो93जैकशरणान् अस्मान् हातुं उत्सहसे किम् ? इति काक्वाऽऽह - अपीति षड्भिः । स्वकृते स्वार्थे त्वमपीहितः ईहितः किम् ? प्रवृत्तः किम् इत्यर्थः । यत् यस्मात् हे प्रभो! सुहृदः अनुजीविनः मृत्यांश्च नः अस्मान् अधुना जिहाससि स्वित् हातुं इच्छसि हि । त्यागानर्हतां सूचयितुं आत्मनो विशिनष्टि । येषां भगवतः पदाम्बुजात् अन्यत् परायणं श्रेयः प्रापकं प्राप्यं च नास्ति । अत एव राजसु राज्ञां मध्ये यो94जिताहसां यो95जितदुःखानां येषां अन्यत् परायणं नास्ति तानस्मानित्यन्वयः ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः।
भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः॥

मूलम्

के96 वयं नामरूपाभ्यां यदुभिस्सह पाण्डवाः।
भवतोऽ97दर्शनं यर्हि हृषीकाणामिवेशितुः॥ ३८ ॥

अनुवाद (हिन्दी)

जैसे जीवके बिना इन्द्रियाँ शक्तिहीन हो जाती हैं, वैसे ही आपके दर्शन बिना यदुवंशियोंके और हमारे पुत्र पाण्डवोंके नाम तथा रूपका अस्तित्व ही क्या रह जाता है॥ ३८॥

वीरराघवः

सर्वमिदं निर्हेतुकया त्वत्कृपयैव सम्पन्नं, नत्वस्मद्गतगुणनिरीक्षणेन इत्यभिप्रायेणाह - इति । नामरूपाभ्यां उपलक्षितस्य इति शेषः । मनुष्यसजातीयनामरूपाभ्यां उपलक्षितस्य तव दर्शनं हृषीकाणां इन्द्रियाणां ईशितुः करणाधिपस्य क्षेत्रज्ञस्य दर्शनमिव यर्हि यदा येषां जातं ते पाण्डवा वयं यदुभिस्सह के ? न केऽपि । न केनापि त्वद्दर्शनहेतुना गुणेन युक्ताः, किन्तु त्वत्कृपयैव इत्थं जातमिति भावः । ते वयं नामरूपाभ्यां क इति वा अन्वयः । 98न त्वद्दर्शनहेतुना ऋष्यादिनाम्ना तापसादिरूपेण चान्विता इत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

नेयं शोभिष्यते तत्र यथेदानीं गदाधर।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः॥

मूलम्

नेयं शोभिष्यते त99त्र यथेदानीं गदाधर!
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः॥ ३९ ॥

अनुवाद (हिन्दी)

गदाधर! आपके विलक्षण चरणचिह्नोंसे चिह्नित यह कुरुजांगल-देशकी भूमि आज जैसी शोभायमान हो रही है, वैसी आपके चले जानेके बाद न रहेगी॥ ३९॥

वीरराघवः

हे गदाधर! अधुना इयं भूमिः स्वैः स्वासाधारणैः लक्षणैः चिह्नः ध्वजवज्राङ्कुशादिरेखारूपैः वि100लक्षिता अभिज्ञैः त्वत्पदैः अङ्किता सती भाति तथा तत्र त्वद्गमनानन्तरकालेन शोभिष्यते हि ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः॥

मूलम्

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः101॥ ४० ॥

अनुवाद (हिन्दी)

आपकी दृष्टिके प्रभावसे ही यह देश पकी हुई फसल तथा लता-वृक्षोंसे समृद्ध हो रहा है। ये वन, पर्वत, नदी और समुद्र भी आपकी दृष्टिसे ही वृद्धिको प्राप्त हो रहे हैं॥ ४०॥

वीरराघवः

तव वीक्षितैरेव इमे जनपदा देशा अधुना स्वृद्धाः सुसमृद्धाः । स्वृद्धत्वमेवाह सु102पक्वौषध्यो वीरुधः गुल्मानि च येषु तथा वनानि च अद्रयश्च नद्यश्च उदन्वन्तः क103मलाकराश्च तद्वत् वर्धन्ते हि ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु॥

मूलम्

अथ विश्वेश! विश्वात्मन्! विश्वमूर्ते! स्वकेषु मे।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु॥ ४१ ॥

अनुवाद (हिन्दी)

आप विश्वके स्वामी हैं, विश्वके आत्मा हैं और विश्वरूप हैं। यदुवंशियों और पाण्डवोंमें मेरी बड़ी ममता हो गयी है। आप कृपा करके स्वजनोंके साथ जोड़े हुए इस स्नेहकी दृढ़ फाँसीको काट दीजिये॥ ४१॥

वीरराघवः

मदभिप्रायं जानास्येव इत्यभिप्रायेण सम्बोधयन्तीत्याह । अथशब्दः प्रश्नद्योतकः । हे विश्वेश! सर्वान्तःकरणनियन्तः! हे विश्वात्मन्! सर्वान्तरात्मन्! विश्वशरीरक! स्वकेषु पाण्डवेषु मे मयि विभक्तिव्यत्यय आर्षः । वृष्णिषु यादवेषु चेमं दृढं स्नेह एव पाशः तं छिन्धि104 । यद्वा वृष्णिषु पाण्डवेषु च त्वत्सनेहपाशः 105इत्यभिप्रायेण मे इत्युक्तम् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति॥

मूलम्

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्।
रतिमुद्वहता106दद्धा गङ्गेवौघमुदन्वति॥ ४२ ॥

अनुवाद (हिन्दी)

श्रीकृष्ण! जैसे गंगाकी अखण्ड धारा समुद्रमें गिरती रहती है, वैसे ही मेरी बुद्धि किसी दूसरी ओर न जाकर आपसे ही निरन्तर प्रेम करती रहे॥ ४२॥

वीरराघवः

तदेवं107 व्यञ्जयन्ती प्रार्थयते त्वयीति । हे मधुपते! यादवानामेव माधवा इति नामान्तरं तच्च नवमे स्फुटीभविष्यति । त्वय्यनन्यविषया त्वदितयविषया मम मतिः असकृत् अद्धा 108उदन्वति समुद्रे गङ्गाजलौघमिव उद्वहतात् । यथा गङ्गा समुद्रमप्राप्यैव 109स्वजलौघं वोढु110मक्षमा समुद्रं प्राप्यैव स्वजलौघं वहति, एवं त्वां अप्राप्य रन्तुं अक्षमा मे मतिः त्वय्येव रतिं उद्वहतात् इत्यर्थः ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य।
गोविन्द गोद्विजसुरार्तिहरावतार
योगेश्वराखिलगुरो भगवन्नमस्ते॥

मूलम्

श्रीकृष्ण! कृष्णसख! वृ111ष्ण्यृषभावनिध्रु112ग्राजन्यवंशदहना113नपवर्गवीर्य!
गोविन्द! गोद्विजसुरार्तिहरावतार! योगे114श्वराखिलगुरो! भगवन्नमस्ते॥ ४३ ॥

मूलम् (वचनम्)

सूत उवाच

अनुवाद (हिन्दी)

श्रीकृष्ण! अर्जुनके प्यारे सखा यदुवंशशिरोमणे! आप पृथ्वीके भाररूप राजवेशधारी दैत्योंको जलानेके लिये अग्नि-स्वरूप हैं। आपकी शक्ति अनन्त है। गोविन्द! आपका यह अवतार गौ, ब्राह्मण और देवताओंका दुःख मिटानेके लिये ही है। योगेश्वर! चराचरके गुरु भगवन्! मैं आपको नमस्कार करती हूँ॥ ४३॥

वीरराघवः

स्वाभिप्रेतविज्ञप्त्यनुमता “अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादनी” (भा. सं.) इत्युक्तविधाञ्जलिरेव उपायः, ततोऽन्यः अस्तीत्यभिप्रायेण केवलमि115तरसाधारणगुणविशिष्टं सम्बोध्य नमस्करोति - श्रीकृष्णेति । हे श्रीकृष्ण! सर्वलोकसुखकर! कृष्णोऽर्जुनः तस्य सखा कृष्णसखः । तत्सम्बोधनम् । वृष्णीनामृषभ! श्रेष्ठ! अवनिद्रुहां अवन्युपलक्षितलोकोपद्रवकारिणां राजन्यानां वंशस्य दहनः116 यथा वेणूनां दहनः अग्निः नाशकः तद्वद्राजन्यकुलनाशक117! अनपवर्गं अनन्तं वीर्यं यस्य हे गोविन्द! गवां द्विजानां सुराणां च आर्तिहरः अवतारः यस्य योगेश्वर! सूक्ष्मदर्शिन्! अखिलगुरो! हितोपदेष्टः! ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

पृथयेत्थं कलपदैः परिणूताखिलोदयः।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया॥

मूलम्

पृथयेत्थं कलपदैः परिणू118ताखिलोदयः।
मन्दं जहास वैकुण्ठो मो119हयन्निव मायया॥ ४४ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—इस प्रकार कुन्तीने बड़े मधुर शब्दोंमें भगवान‍्की अधिकांश लीलाओंका वर्णन किया। यह सब सुनकर भगवान् श्रीकृष्ण अपनी मायासे उसे मोहित करते हुए-से मन्द-मन्द मुसकराने लगे॥ ४४॥

वीरराघवः

इत्थं कलानि मधुराणि पदानि वचांसि तैः पृथया कुन्त्या कर्त्र्या परिणूतः परिगीतः अखिलः उदयः महिमा यस्य स वैकुण्ठः श्रीकृष्णः मायया हासात्मिकया आश्चर्यशक्त्या लोकं मोहयन्निव मन्दं ईषत् जहास हसितवान् मन्दमिति क्रियाविशेषणम् ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम्।
स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः॥

मूलम्

तां बाढमित्युपामन्त्र्य प्र120विश्य गजसाह्वयम्।
स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः121॥ ४५ ॥

अनुवाद (हिन्दी)

उन्होंने कुन्तीसे कह दिया—‘अच्छा ठीक है’ और रथके स्थानसे वे हस्तिनापुर लौट आये। वहाँ कुन्ती और सुभद्रा आदि देवियोंसे विदा लेकर जब वे जाने लगे, तब राजा युधिष्ठिरने बड़े प्रेमसे उन्हें रोक लिया॥ ४५॥

वीरराघवः

तावत् स्वपुरं यातुमुद्युक्तो भगवांस्तां पृथां अन्याः स्त्रीश्च बाढं ओं इत्युपामन्त्र्य अङ्गीकारपूर्वकं अनुज्ञाप्य प्रेम्णा राज्ञा युधिष्ठिरेण च निवारितः गजसाह्वयं हस्तिनापुरमेव पुनः प्राविशत् । प्रविश्येति पाठे प्रविश्य तत्रैव कचित्कालं उवासेति शेषः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद‍्भुतकर्मणा।
प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः॥

मूलम्

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद‍्भुतकर्मणा।
प्रबोधितोऽपीतिहासैर्ना122बुध्यत शुचार्पि123तः॥ ४६ ॥

अनुवाद (हिन्दी)

राजा युधिष्ठिरको अपने भाई-बन्धुओंके मारे जानेका बड़ा शोक हो रहा था। भगवान‍्की लीलाका मर्म जाननेवाले व्यास आदि महर्षियोंने और स्वयं अद‍्भुत चरित्र करनेवाले भगवान् श्रीकृष्णने भी अनेकों इतिहास कहकर उन्हें समझानेकी बहुत चेष्टा की; परंतु उन्हें सान्त्वना न मिली, उनका शोक न मिटा॥ ४६॥

वीरराघवः

तदा ईश्वरेहाज्ञैः ईश्वरचेष्टाभिज्ञैः व्यासाद्यैः अद्भुतं कर्म चेष्टितं यस्य तेन श्रीकृष्णेन भगवता च इतिहासैः प्रतिबोधितोपि धर्मसुतः अत एव शुचार्पितः 124ना125बुध्यत कालस्य गतिः ईदृशीति न विजज्ञे ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम्।
प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः॥

मूलम्

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम्।
प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः॥ ४७ ॥

वीरराघवः

किन्तु हे विप्राः! बन्धुषु स्नेहमोहयोः वशं प्राप्तः । अत एव प्राकृतेन देहे तदनुबन्ध्यादिप्रवणेन आत्मना मनसा सुहृदां वधमेव चिन्तयन् धर्मसुतः राजा युधिष्ठिरः अब्रवीत् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः।
पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः॥

मूलम्

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः।
पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः॥ ४८ ॥

अनुवाद (हिन्दी)

शौनकादि ऋषियो! धर्मपुत्र राजा युधिष्ठिरको अपने स्वजनोंके वधसे बड़ी चिन्ता हुई। वे अविवेकयुक्त चित्तसे स्नेह और मोहके वशमें होकर कहने लगे—भला, मुझ दुरात्माके हृदयमें बद्धमूल हुए इस अज्ञानको तो देखो; मैंने सियार-कुत्तोंके आहार इस अनात्मा शरीरके लिये अनेक अक्षौहिणी* सेनाका नाश कर डाला॥ ४७-४८॥

पादटिप्पनी
  • २१,८७० रथ, २१,८७० हाथी, १,०९,३५० पैदल और ६५,६०० घुड़सवार—इतनी सेनाको अक्षौहिणी कहते हैं। (महाभारत)
वीरराघवः

तदेवाह यावत्समाप्ति । अहो दुरात्मनः मम हृदि रूढं अज्ञानं पश्यत । तदेव दर्शयति पारक्यस्य श्वशृगालादिभक्ष्यस्य देहस्यैव देहसुखार्थमेव मे मया बह्व्यः अक्षौहिणीः अक्षौहिण्यः हताः ॥ ४८ ॥

श्लोक-४९

विश्वास-प्रस्तुतिः

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः।
न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः॥

मूलम्

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुहः।
न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः॥ ४९ ॥

अनुवाद (हिन्दी)

मैंने बालक, ब्राह्मण, सम्बन्धी, मित्र, चाचा-ताऊ, भाई-बन्धु और गुरुजनोंसे द्रोह किया है। करोड़ों बरसोंसे भी नरकसे मेरा छुटकारा नहीं हो सकता॥ ४९॥

वीरराघवः

बालादिद्रुहः बालादिहन्तुः मम वर्षायुतानां अयुतैरपि निरयान्मोक्षः न हि भवेत् ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम्।
इति मे न तु बोधाय कल्पते शासनं वचः॥

मूलम्

नैनो राज्ञः प्रजाभर्तुर्ध126र्मयुद्धे वधो द्विषाम्।
इति मे न तु बोधाय कल्पते शा127सनं वचः॥ ५० ॥

अनुवाद (हिन्दी)

यद्यपि शास्त्रका वचन है कि राजा यदि प्रजाका पालन करनेके लिये धर्मयुद्धमें शत्रुओंको मारे तो उसे पाप नहीं लगता, फिर भी इससे मुझे संतोष नहीं होता॥ ५०॥

वीरराघवः

ननु “शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्” (भ.गी. 18-43) “धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते” (भ.गी. 2-31) इत्यादिशास्त्रैः धर्म्ययुद्धस्य धर्मत्वावबोधनात् त्वं128 हतान् प्रति किं शोचसे इत्यत आह नेति । प्रजाभर्तुः प्रजापोषणाधिकृतस्य राज्ञः युद्धे द्विषां वधः धर्मादनपेतः नैनः न पापं, किन्तु धर्म एवेति यदनुशासनात्मकं वचः भगवद्वचः तन्मम बोधाय विवेकाय न कल्पते विवेकं जनयितुमसमर्थमित्यर्थः । धर्म129युद्धस्य धर्मत्वेऽपि तदनुबन्धितया महतः पापस्यैव प्राप्तत्वात् इति भावः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः।
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम्॥

मूलम्

स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहो130त्थितः।
कर्मभिर्गृ131हमेधीयैर्नाहं कल्पो132 व्यपोहितुम्॥ ५१ ॥

अनुवाद (हिन्दी)

स्त्रियोंके पति और भाई-बन्धुओंको मारनेसे उनका मेरे द्वारा यहाँ जो अपराध हुआ है। उसका मैं गृहस्थोचित यज्ञ-यागादिकोंके द्वारा मार्जन करनेमें समर्थ नहीं हूँ॥ ५१॥

वीरराघवः

ननु धर्मार्थं यतमानस्यावर्जनीयतया प्रसक्तमपि पापं वर्णाश्रमधर्मैरपोहितुं शक्यमेव । “धर्मेण पापमपनुदति” (म. ना. उ. 17-6) इति शास्त्रात् इत्यत आह स्त्रीणामिति । मया हता बन्धवः पतयः यासां तासां स्त्रीणां योऽसौ द्रोह: 133पापात्मकः इह धर्मयुद्धे प्रवृत्ते मय्युत्थितः तमहं गृहमेधीयैः गृहाश्रमिणः कर्तव्यैः धर्मैः व्यपोहितुं न कल्पः134 न प्रभुः । बहुकालानुभाव्यफलो विपुलो द्रोहः अल्पकालनिर्वर्त्यैः गृहमेधीयैः कर्मभिः नापोहितुं कल्पः135 कर्मणा कर्मनिर्हारश्च अयुक्त इति भावः ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम्।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति॥

मूलम्

यथा पङ्केन प136ङ्काम्भः सुरया वा सुराकृतम्।
भूतहत्यां तथैवै137कां न य138ज्ञैर्मार्ष्टुमर्हति॥ ५२ ॥

अनुवाद (हिन्दी)

जैसे कीचड़से गँदला जल स्वच्छ नहीं किया जा सकता, मदिरासे मदिराकी अपवित्रता नहीं मिटायी जा सकती, वैसे ही बहुत-से हिंसाबहुल यज्ञोंके द्वारा एक भी प्राणीकी हत्याका प्रायश्चित्त नहीं किया जा सकता॥ ५२॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नामाष्टमोऽध्यायः॥ ८॥

वीरराघवः

एतदेव सदृष्टान्तमुपपादयति यचेति । पङ्काङ्गं सपङ्कमङ्गं पङ्केनैव यथा मार्ष्टुं शोधयितुं नार्हति लोकः, यथा च सुराकृतं सुराकृ139तदोषदूषितं भाण्डं पु140नः सुरयैव मार्ष्टुं नार्हति तथा यज्ञैरेकामपि भूतहत्यां न मार्ष्टुमर्हति । पङ्काङ्क इति पाठे पङ्काङ्कितपादाद्यवयवः पुमान् पङ्केनैव आत्मानं मार्ष्टुं नार्हति तद्वदित्यर्थः । पङ्काङ्कमिति द्वितीयान्तपाठे पङ्कस्याङ्को यस्मिंस्तदङ्गं पङ्केन मार्ष्टुं नार्हति तद्वत् ॥ ५२ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां अष्टमोऽध्यायः ॥ ८ ॥


  1. AF,GF तेषां प ↩︎

  2. W adds मृतानां ↩︎

  3. W पूते ↩︎

  4. W स्नाताः आप्लुत्य शुद्धा बभू ↩︎

  5. K,M पुत्रान् ↩︎

  6. H,V र्दि ↩︎

  7. W द्यापादन ↩︎

  8. K,M,N,W स्व ↩︎

  9. H,V अजीहनद्याज्ञसेन्याः ↩︎

  10. W राज्ञ्या: ↩︎

  11. K,M ह ↩︎

  12. W स्व ↩︎

  13. W adds तं ↩︎

  14. W adds अनुधावन्तीं ↩︎

  15. AF,GF नान्यत्र त्वभयं ↩︎

  16. AF,GF ति ↩︎

  17. W मदभि ↩︎

  18. B,W व च ↩︎

  19. H,K,M,V भृगु ↩︎

  20. W यदा ↩︎

  21. W दै ↩︎

  22. A,B अत्र च ↩︎

  23. W हन्येत ↩︎

  24. W च्छा ↩︎

  25. B शिर अमो ↩︎

  26. W चोद्यं ↩︎

  27. W तत् प्रतिवक्ति ↩︎

  28. H,V ए ↩︎

  29. H,V दै ↩︎

  30. W विहतां ↩︎

  31. K,M भावाना ↩︎

  32. K,M रपि ध्रुवम् ↩︎

  33. W क्ष्यः ↩︎

  34. H,V,W य ↩︎

  35. K,M नो मयाऽधोक्षज! मर्त्यया ↩︎

  36. H,V शां ↩︎

  37. K,M व ↩︎

  38. W य ↩︎

  39. W य ↩︎

  40. W अधः अधोभूताः ↩︎

  41. A,B विविधविकारभाज एवाज्ञाक्षजविषयत्वात् अज्ञाधोक्षज इत्यर्थः । ↩︎

  42. W प्तो य ↩︎

  43. W adds नटयाथात्म्यं ↩︎

  44. B,W ही ↩︎

  45. W य ↩︎

  46. W तान्येव सर्वेषां समानानि ↩︎

  47. B,H,V सु ↩︎

  48. W ष्यत्वादि ↩︎

  49. W एतदेवतम् ↩︎

  50. W स्वस्वभा ↩︎

  51. A,B नित्यार्पिता ↩︎

  52. A,B किमेतस्य नेत्यादि ↩︎

  53. K,M दंशना ↩︎

  54. A,B omit दर्शनजात् ↩︎

  55. H,I,V ताः ↩︎

  56. K,M जगत्पते ↩︎

  57. A,B omit न: ↩︎

  58. N ति ↩︎

  59. H,V न चार्हत्यभि ; K,M नार्ह इत्यभि ↩︎

  60. A,B ईश्वर ↩︎

  61. W दा ↩︎

  62. K,M परम् ↩︎

  63. W कश्चित्व ↩︎

  64. W स्व ↩︎

  65. W इत्यतः ↩︎

  66. W कालान्नि ↩︎

  67. A,B भिन्नतया निमित्तमिति सूचितम् । ↩︎

  68. A,B तो ↩︎

  69. H,V तिर्यङ्नरर्षि ; W तिर्यग् ऋषिनृ ; KM तिर्यङ्नृपशु; AF, GF तिर्यङ्नृष्वपि ↩︎

  70. W भार्गवात्रेय ↩︎

  71. W omits विडम्बनमात्रं ↩︎

  72. AF, GF मृषाऽश्रु ↩︎

  73. K,M य बि ↩︎

  74. A,B न चेदं घटते ↩︎

  75. W जग्राह ↩︎

  76. A,B उत्ताम्य ↩︎

  77. W त्वत्तः ↩︎

  78. A,B स्वाभयस्य ↩︎

  79. W क्तास्तन्नाना ↩︎

  80. A,B त्त ↩︎

  81. W निर्णयाय ↩︎

  82. W अर्भत्व ↩︎

  83. W स्य ↩︎

  84. W अजस्त्वं ↩︎

  85. H,N,V त ↩︎

  86. W जज्ञे ↩︎

  87. AF,GF ष्य इति ↩︎

  88. AE,GF वदन्त्य ↩︎

  89. W हन्तृत्वं ↩︎

  90. W तस्मात्ता ↩︎

  91. K,M,W त: ↩︎

  92. W यज्जि ↩︎

  93. W म्बु ↩︎

  94. W जितांहसां ↩︎

  95. W जितदुःखानां ↩︎

  96. K,M ते ↩︎

  97. K,M,W दर्शनं ↩︎

  98. A,B किन्त्वदर्शना ऋष्यादिनाम्रा तापसादिरूपेण वा अन्विता इत्यर्थः । Here W’s version is adopted as shown above ↩︎

  99. H,V धात्री; W भूमिः ↩︎

  100. W विलक्षितानि तैः ↩︎

  101. K,M ताः ↩︎

  102. W सुपक्वा ओषध्यः ↩︎

  103. W जला ↩︎

  104. W adds अथ छिन्धि किम् ? ↩︎

  105. W adds स्वयि तु मत्स्नेहपाश: ↩︎

  106. AF,GF तां तद्वत् ↩︎

  107. W व ↩︎

  108. W adds तत्त्वतः ↩︎

  109. W adds न ↩︎

  110. W खुं क्षमा ↩︎

  111. K,M वृष्णिवृषावनि ↩︎

  112. H,V द्रु ↩︎

  113. K,M नामरवन्द्य ↩︎

  114. H,V गी ↩︎

  115. W मनितरसाधा ↩︎

  116. W नं ↩︎

  117. W कं ↩︎

  118. K,M गी ↩︎

  119. K,M मोहयन् योग ↩︎

  120. W प्राविशत् ↩︎

  121. Here this chapter ends is K & M. ↩︎

  122. W र्नान्वबुध्यत् ↩︎

  123. AP,GF र्दि ↩︎

  124. W adds बन्धुनाशजशुचार्पितः ↩︎

  125. W नान्वबुध्यत् ↩︎

  126. K,M धर्मो ; H,V धर्मे ↩︎

  127. K,M शाम्यतं ↩︎

  128. W तत्र ↩︎

  129. W र्म्य ↩︎

  130. K,M हान्वितः ↩︎

  131. K,M र्हय ↩︎

  132. H,V,W ल्यो ↩︎

  133. W adds तद्विषयको यो द्रोहः ↩︎

  134. W ल्य: ↩︎

  135. W ल्यः ↩︎

  136. AF,GF पङ्कोत्थं ; W पङ्काङ्गं; WF पङ्काङ्कं, पङ्काङ्कंः ↩︎

  137. H,V वैनां; K,M वैतां ↩︎

  138. H,K,M,V यज्ञो मा ↩︎

  139. W कलित ↩︎

  140. A,B यतः ↩︎