०७ द्रौणिनिग्रहः

[सप्तमोऽध्यायः]

भागसूचना

अश्वत्थामाद्वारा द्रौपदीके पुत्रोंका मारा जाना और अर्जुनके द्वारा अश्वत्थामाका मानमर्दन

श्लोक-१

मूलम् (वचनम्)

शौनक उवाच

विश्वास-प्रस्तुतिः

निर्गते नारदे सूत भगवान् बादरायणः।
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः॥

मूलम्

निर्गते नारदे सूत! भगवान् बादरायणः।
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः॥ १ ॥

अनुवाद (हिन्दी)

श्रीशौनकजीने पूछा—सूतजी! सर्वज्ञ एवं सर्वशक्तिमान् व्यासभगवान‍्ने नारदजीका अभिप्राय सुन लिया। फिर उनके चले जानेपर उन्होंने क्या किया?॥ १॥

वीरराघवः

वासवीसुतम् आमन्त्य्र नारदो ययौ इत्युक्तम्, ततः उपरितनं व्यासवृत्तान्तं पृच्छति शौनकः - निर्गत इति । हे सूत! तदभिप्रेतं “किं वा भागवता धर्मा न प्रायेण निरूपिताः” (भाग 1-4-31) इत्युत्प्रेक्षितमेव । नारदस्याभिप्रेतं श्रुतवान् भगवान् मुनिः बादरायणो नारदे निर्गते सति ततः1 किमकरोत् ? ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः॥

मूलम्

ब्रह्मनद्यां2 सरस्वत्या3माश्रमः पश्चिमे तटे।
शम्याप्रास इति 4प्रोक्त ऋषीणां सत्त्रवर्धनः॥ २ ॥

अनुवाद (हिन्दी)

श्रीसूतजीने कहा—ब्रह्मनदी सरस्वतीके पश्चिम तटपर शम्याप्रास नामका एक आश्रम है। वहाँ ऋषियोंके यज्ञ चलते ही रहते हैं॥ २॥

वीरराघवः

इत्थमापृष्ट आह सूतः - ब्रह्मनद्यामित्यादिभिः सप्तभिः । ब्रह्मनद्यां ब्रह्मर्षिभिः सेवितायां नद्यां सरस्वत्याख्यायां पश्चिमे तटे शम्याप्रास इति प्रसिद्धो व्यासस्याश्रमः, स5 च ऋषीणां सत्त्वर्धनः सत्त्राणि वर्धन्तेऽस्मिन्निति तथा ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्॥

मूलम्

तस्मिन् स्व6 आश्रमे व्या7सो बदरीष8ण्डमण्डिते।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्व9यम्॥ ३ ॥

अनुवाद (हिन्दी)

वहीं व्यासजीका अपना आश्रम है। उसके चारों ओर बेरका सुन्दर वन है। उस आश्रममें बैठकर उन्होंने आचमन किया और स्वयं अपने मनको समाहित किया॥ ३॥

वीरराघवः

तस्मिन् बदरीणां वृक्षाणां ष10ण्डैः मण्डिते आश्रमे शम्याप्रासे व्यासः अप उपस्पृश्य आचम्य स्वयमात्मना मनः प्रणिदध्यौ, विषयान्तरेभ्यः प्रत्याहृत्य आत्मस्थमकरोदित्यर्थः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले।
अपश्यत्पुरुषं पूर्वं मायां च तदपाश्रयाम्॥

मूलम्

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले।
अपश्यत् पुरुषं पूर्वं11 मायां च तद12पाश्रया13म्॥

अनुवाद (हिन्दी)

उन्होंने भक्तियोगके द्वारा अपने मनको पूर्णतया एकाग्र और निर्मल करके आदिपुरुष परमात्मा और उनके आश्रयसे रहनेवाली मायाको देखा॥ ४॥

वीरराघवः

भगवद्भक्तियोगेन अमले मनसि सम्यक् प्रणिहिते समाहिते पूर्वं तावत् पुरुषं परमपुरुषमपश्यत् । ततः तदपाश्रयां पुरुषापाश्रयां त14दाधारां तच्छरीरभूतामिति यावत् । मायामपश्यत् ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते॥

मूलम्

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते॥ ५ ॥

अनुवाद (हिन्दी)

इसी मायासे मोहित होकर यह जीव तीनों गुणोंसे अतीत होनेपर भी अपनेको त्रिगुणात्मक मान लेता है और इस मान्यताके कारण होनेवाले अनर्थोंको भोगता है॥ ५॥

वीरराघवः

मायां विशिनष्टि - ययेति । परोऽपि मायाख्यप्रकृतेः विलक्षणोऽपि जीवो यया मायया मोहितः त्रिगुणात्मकं गुणत्रयपरिणामात्मकं शरीरमेव आत्मानं मनुते मन्यते, तत्कृतं देहात्मभ्रमकृतम् अनर्थं च तापत्रयस्वरूपं प्रतिपद्यते ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

अनर्थोपशमं साक्षाद‍्भक्तियोगमधोक्षजे।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्॥

मूलम्

अनर्थोपशमं साक्षाद‍्भक्तियोगमधोक्षजे।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्॥ ६ ॥

अनुवाद (हिन्दी)

इन अनर्थोंकी शान्तिका साक्षात् साधन है—केवल भगवान‍्का भक्तियोग। परन्तु संसारके लोग इस बातको नहीं जानते। यही समझकर उन्होंने इस परमहंसोंकी संहिता श्रीमद‍्भागवतकी रचना की॥ ६॥

वीरराघवः

किञ्च अनर्थोपशमं तापत्रयरूपानर्थोपशा15मकात्मकम् उपायम् अजानतो लोकस्य अधोक्षजे भक्तियोगमेवानर्थोपशमं विद्वान् सर्वज्ञानवान् व्यासः अपश्यदित्यनुषङ्गः । भगवद्भक्तियोगमेव अनर्थोपशमनोपायत्वेन निश्चितवानित्यर्थः । ततः सात्वतसंहितां श्रीभागवतरूपां संहितां चक्रे । संहिता सन्दर्भविशेषः, सात्वतशब्दस्तु पुरस्तादेव निरुक्तः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे।
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा॥

मूलम्

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे।
भक्तिरुत्पद्यते पुंसः16 शोकमोहभयापहा॥ ७ ॥

अनुवाद (हिन्दी)

इसके श्रवणमात्रसे पुरुषोत्तम भगवान् श्रीकृष्णके प्रति परम प्रेममयी भक्ति हो जाती है, जिससे जीवके शोक, मोह और भय नष्ट हो जाते हैं॥ ७॥

वीरराघवः

तामेव विशिनष्टि - यस्यामिति । यस्यां सात्वतसंहितायां श्रूयमाणायां शोकाद्यपहर्तरि परमपुरुषे कृष्णे भक्तिरुत्पद्यते । तत्र मोहो नाम “अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः” (विष्णु. पु. 6-7-11) इत्युक्तविधः । शोको बाह्यक्लेशः, दुःखमान्तरः, भयमागामिदुःखदर्शनजं प्रतिकूलं ज्ञानम् । पूरुष इति दीर्घश्छान्दसः ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम्।
शुकमध्यापयामास निवृत्तिनिरतं मुनिः॥

मूलम्

स संहितां भागवतीं कृत्वाऽनुक्रम्य चात्मजम्।
शुकमध्यापयामास निवृत्तिनिरतं मुनिः17॥ ८ ॥

अनुवाद (हिन्दी)

उन्होंने इस भागवत-संहिताका निर्माण और पुनरावृत्ति करके इसे अपने निवृत्तिपरायण पुत्र श्रीशुकदेवजीको पढ़ाया॥ ८॥

वीरराघवः

स व्यासोऽनुक्रम्य विवक्षितार्थान् क्रमविशेषेण विन्यस्य तदनुक्रमेणैव इमां संहितां कृत्वा सुतं शुकमध्यापयामास । प्रश्नावसरदानाय शुकं विशिनष्टि । निवृत्तिनिरतं सांसारिकधर्मवैमुख्यद्वारा केवलचित्तैकाग्र्यावहः18 शमदमादि[^v7]र्निवृत्तिः तत्र निरतं मुनिं परब्रह्मयाथात्म्यमननशीलम् ॥ ८ ॥

श्लोक-९

मूलम् (वचनम्)

शौनक उवाच

विश्वास-प्रस्तुतिः

स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः।
कस्य वा बृहतीमेतामात्मारामः समभ्यसत्॥

मूलम्

स वै निवृत्तिनिरतस्सर्वत्रोपेक्षको मुनिः।
कस्य वा बृहतीमेतामात्मारामस्समभ्यसत्॥ ९ ॥

अनुवाद (हिन्दी)

श्रीशौनकजीने पूछा—श्रीशुकदेवजी तो अत्यन्त निवृत्तिपरायण हैं, उन्हें किसी भी वस्तुकी अपेक्षा नहीं है। वे सदा आत्मामें ही रमण करते हैं। फिर उन्होंने किसलिये इस विशाल ग्रन्थका अध्ययन किया?॥ ९॥

वीरराघवः

तत्र लब्धावसरः पृच्छति शौनकः - स इति । वा इत्यवधारणे । निवृत्तिनिरतः मुनिः, अत एव सर्वत्र श्रोतव्येषु अध्येतव्येषु चोपेक्षकः आदररहितः आत्मारामः परमात्यैकपरः एवंविधः । कस्य वा हेतोरिति शेषः । कस्माद्धेतोः बृहतीं विपुलामेतां संहिताम् अभ्यसत् अधीतवान् । कथमेकाग्रचित्तो भगवन्मननपरः तद्विरोधिनीमेतां बृहतीं संहितां अभ्यसदिति प्रश्नाशयः ॥ ९ ॥

श्लोक-१०

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥

मूलम्

आत्मारामाश्च मुनयो नि19र्ग्रन्था अप्युरुक्रमे।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥

अनुवाद (हिन्दी)

श्रीसूतजीने कहा—जो लोग ज्ञानी हैं, जिनकी अविद्याकी गाँठ खुल गयी है और जो सदा आत्मामें ही रमण करनेवाले हैं, वे भी भगवान‍्की हेतुरहित भक्ति किया करते हैं; क्योंकि भगवान‍्के गुण ही ऐसे मधुर हैं, जो सबको अपनी ओर खींच लेते हैं॥ १०॥

वीरराघवः

नेयं संहिता भगवन्मननविरोधिनी, प्रत्युत तदुपयुक्तभगवत्स्वरू20परूपगुणविवरणरूपत्वात् अतोऽधीतवान् इत्युत्तरं वक्तुं ता21वद्भक्तेः स्वरूपगुणविषयकतामाह सूतः - आत्मारामा इति । यद्यपि मुनयः आत्मारामाः परमात्मैकनिष्ठाः, अत एव निर्ग्रन्थाः लौकिकार्थप्रबन्धधारणरहिताः । अनिर्ग्राह्या इति पाठे अशिक्षणीया अपरप्रेष्याः22 नि23रपेक्षाः इत्यर्थः । तथाऽपि ते उरुक्रमे भगवति अहैतुकम् अनन्यप्रयोजनां भक्तिं कुर्वन्ति । सविषयाया भक्तेः स्वरूपमाह - इत्थमिति । इत्थम्भूता एवंविधा गुणा यस्य तथाविधो हरिरिति, एवंविधां भक्तिं कुर्वन्तीत्यन्वयः । हरिः एवंविधगु24णकैतत्स्वरूपक इति इ25त्थं समनुध्यानात्मकत्वात् भक्तेः तत्र भजनीयस्वरूपगुणविषयकज्ञानस्य अपेक्षितत्वात् तद्विवरणरूपामिमां संहितामधीतवानिति भावः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः॥

मूलम्

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः26

अनुवाद (हिन्दी)

फिर श्रीशुकदेवजी तो भगवान‍्के भक्तोंके अत्यन्त प्रिय और स्वयं भगवान् वेदव्यासके पुत्र हैं। भगवान‍्के गुणोंने उनके हृदयको अपनी ओर खींच लिया और उन्होंने उससे विवश होकर ही इस विशाल ग्रन्थका अध्ययन किया॥ ११॥

वीरराघवः

तदेवाऽऽह - हरे रिति । हरेः गुणैः वेदान्तेभ्यः अवगतैः अनुभूयमानैः गुणैः आक्षिप्ता आकृष्टा मतिः यस्य स भगवान् बादरायणिः शुकः नित्यं विष्णुजनप्रियः अ27हर्दिवमाख्यानमध्यगात् अधीतवान् । हरेरिति हरेः गुणाक्षिप्तमतिः विष्णुजनप्रियः इतीदं विशेषणद्वयं हेतुगर्भम् । विष्णोर्जना भक्ताः प्रिया यस्येति बहुव्रीहिः । अयं भावः - यद्यपि अ28नुभाव्याः भगवद्गुणाः वेदान्तेभ्योऽवगताः, तथाऽपि “स्वाध्यायाद्योगमासीत योगात् स्वाध्यायवान् भवेत्” इत्युक्तरीत्या भगवद्गुणप्रतिपादकप्रबन्धसंशीलनस्य अवश्यापेक्षितत्वात् कार्त्स्न्येनास्ये प्रबन्धस्य भगवदुणप्रतिपादकत्वात् सावतारतद्गुणकसविभूतिकस29भक्ततद्गुणस्यैव भगवतोऽनुभाव्यत्वात् अवतारतद्गुणभक्ततद्गुणाना विशिष्य वेदान्तेभ्योऽनवगतानां वेदान्तावगतगुणेभ्योऽपि अतिशयितानाम् अस्मादाख्यानादवगमात् इदमध्यगादिति अनेन प्रबन्धप्रशस्त्यं सूचितम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्।
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्॥

मूलम्

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलाप30नम्।
सं31स्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदय32म्॥

अनुवाद (हिन्दी)

शौनकजी! अब मैं राजर्षि परीक्षित् के जन्म, कर्म और मोक्षकी तथा पाण्डवोंके स्वर्गारोहणकी कथा कहता हूँ; क्योंकि इन्हींसे भगवान् श्रीकृष्णकी अनेकों कथाओंका उदय होता है॥ १२॥

वीरराघवः

तदेवं “कस्मिन् युगे प्रवृत्तेयम्” (भाग 1-4-3) इत्यादिप्रश्नानामुत्तरमुक्तम् । अथ “तस्य पुत्त्रो महायोगी” (भाग 1-4-4) इत्यादिप्रश्नस्योत्तरं विवक्षिष्यंस्तावत् “अभिमन्युसुतं सूत! प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥” (भाग 1-4-9) इत्यादि प्रश्नानामुत्तरं सोपोद्धातं वक्तुं प्रतिजानीते परीक्षित इति । परीक्षितो राजर्षेः जन्म कर्माणि विलाप33नं विलयं च तेषां समाहारः, तदुपोद्वातरूपपाण्डुपुत्राणां संस्थानं स्थितिं वृत्तान्तमिति यावत् । तदेतत्सर्वं कृष्णस्य भगवतः कथायाः उदयः अनुप्रसक्तिः यस्मिन् तद्वक्ष्ये । संस्थां च कृष्णकथोदयामिति च पाठान्तरम् । तदा कृष्णकथोदयामिति संस्थाविशेषणं, संस्थाशब्दस्य यथोक्तएवार्थः । तत्र पाण्डुपुत्राणां सं34स्थानं परीक्षिज्जन्मकर्माद्युपोद्धातरूपा35 परीक्षिज्जन्मकर्मादिकं तु इतः प्रभृति प्रधानप्रतिपाद्यम् । तदुभयानुप्रसक्ता कृष्णकथा । सर्वोऽयं स्कन्धः कृ36त्स्नप्रबन्धोपोद्धातरूप इति विवेकः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

यदा मृधे कौरवसृञ्जयानां
वीरेष्वथो वीरगतिं गतेषु।
वृकोदराविद्धगदाभिमर्श-
भग्नोरुदण्डे धृतराष्ट्रपुत्रे॥

मूलम्

यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु।
वृकोदराविद्धगदाभिमर्शभग्नोरुदण्डे धृतराष्ट्रपुत्रे॥ १३ ॥

वीरराघवः

तावत्परीक्षितो जन्मकर्मादिकं वक्तुं पाण्डुपुत्राणां संस्थानमाह - यदेत्यादिना यावत्पञ्चदशाध्यायसमाप्ति । तत्र परीक्षितो जन्म उपोद्घात एवान्तर्भाव्य उच्यते, कर्मादिकं तु ततः उपरितनग्रन्थेनेति विवेकः । यदेत्यस्य “तदा” इति तृतीयेनान्वयः । मृधे युद्धे कौरवाणां सृञ्जयानां च वीरेषु वीरगतिं वीराणां गतिं स्व37र्गतिं गतेषु प्राप्तेषु सत्सु । धृतराष्ट्रपुत्रे दुर्योधने वृकोदरेण भीमेनापविद्धायाः प्रयुक्ताया गदाया अभिमर्शेन घातेन भग्नौ ऊरू एव दण्डौ यस्य तथाभूते सति ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

भर्तुः प्रियं द्रौणिरिति स्म पश्यन्
कृष्णासुतानां स्वपतां शिरांसि।
उपाहरद् विप्रियमेव तस्य
जुगुप्सितं कर्म विगर्हयन्ति॥

मूलम्

भर्तुः प्रियं38 द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि।
39पाहरद्विप्रियमे40व तस्य जु41गुप्सितं कर्म विगर्हयन्ति42॥ १४ ॥

अनुवाद (हिन्दी)

जिस समय महाभारतयुद्धमें कौरव और पाण्डव दोनों पक्षोंके बहुत-से वीर वीरगतिको प्राप्त हो चुके थे और भीमसेनकी गदाके प्रहारसे दुर्योधनकी जाँघ टूट चुकी थी, तब अश्वत्थामाने अपने स्वामी दुर्योधनका प्रिय कार्य समझकर द्रौपदीके सोते हुए पुत्रोंके सिर काटकर उसे भेंट किये, यह घटना दुर्योधनको भी अप्रिय ही लगी; क्योंकि ऐसे नीच कर्मकी सभी निन्दा करते हैं॥ १३-१४॥

वीरराघवः

द्रौणिः अश्वत्थामा स्वचिकीर्षितं भर्तुः धृतराष्ट्रस्य अप्रियमपि प्रियमिति पश्यन् मन्यमानः स्वपतां शयानानां कृष्णायाः द्रौपद्याः सुतानां शिरांसि अपाहरत् छित्वा आनीतवान् । इदं कर्मं तस्य धृतराष्ट्रस्य विप्रियमेव । यद्वा, तस्य अश्वत्थाम्नः कर्म विप्रियमेव सर्वलोकस्यापीति शेषः । अत एव जुगुप्सितं विगर्हयन्ते अधुनाऽपि वि43निन्दन्ति ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

माता शिशूनां निधनं सुतानां
निशम्य घोरं परितप्यमाना।
तदारुदद‍्बाष्पकलाकुलाक्षी
तां सान्त्वयन्नाह किरीटमाली॥

मूलम्

माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना।
44दारुदद‍् बाष्पकलाकुलाक्षी तां सान्त्वय45न्नाह किरीटमाली॥ १५ ॥

अनुवाद (हिन्दी)

उन बालकोंकी माता द्रौपदी अपने पुत्रोंका निधन सुनकर अत्यन्त दुःखी हो गयी। उसकी आँखोंमें आँसू छलछला आये—वह रोने लगी। अर्जुनने उसे सान्त्वना देते हुए कहा॥ १५॥

वीरराघवः

यदैवं तदा माता द्रौपदी शिशूनां सुतानां घोरं निधनं मरणं निशा46म्य दृष्ट्वा परितप्यमाना बाष्पैः आकुले अक्षिणी यस्याः तथाभूता बभूवेति शे47षः । तदा तां द्रौपदीं सान्त्वयन् उपच्छन्दयन् किरीटमाली कि48रीटानां माला सेवमानानां अस्यास्तीति किरीटमाली अर्जुनः । व्रीह्यादेः आकृतिगणत्वात् “व्रीह्यादिभ्यश्च” (अष्टा. 5-2-116) इति मत्वर्थीय इनिः । इदं वक्ष्यमाणमाह ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

तदा शुचस्ते प्रमृजामि भद्रे
यद‍्ब्रह्मबन्धोः शिर आततायिनः।
गाण्डीवमुक्तैर्विशिखैरुपाहरे
त्वाऽऽक्रम्य यत्स्नास्यसि दग्धपुत्रा॥

मूलम्

49दा शुचस्ते प्र50मृजामि भद्रे! यद‍्ब्रह्मबन्धोः शिर आततायिनः।
गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाऽऽक्रम्य यत्स्ना51स्यसि दग्ध52पुत्त्रा॥ १६ ॥

अनुवाद (हिन्दी)

‘कल्याणि! मैं तुम्हारे आँसू तब पोछूँगा, जब उस आततायी* ब्राह्मणाधमका सिर गाण्डीव धनुषके बाणोंसे काटकर तुम्हें भेंट करूँगा और पुत्रोंकी अन्त्येष्टि क्रियाके बाद तुम उसपर पैर रखकर स्नान करोगी’॥ १६॥

पादटिप्पनी
  • आग लगानेवाला, जहर देनेवाला, बुरी नीयतसे हाथमें शस्त्र ग्रहण करनेवाला, धन लूटनेवाला, खेत और स्त्रीको छीननेवाला—ये छः ‘आततायी’ कहलाते हैं।
वीरराघवः

तदेवाऽऽह - हे भद्रे! ब्रह्मबन्धोः ब्राह्मणाधमस्य आततायिनः “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहर्ता च षडेते ह्या53ततायिनः” (वसि. स्मृ. 1-19) इति शस्त्रपाणेराततायित्वस्मरणात् आततायिन इत्युक्तम् । शस्त्रपाणिर्नाम शस्त्रधारणेन निरपराधिप्राणिघातुकः । तस्य शिरो गाण्डीवेन मुक्तैः विशिखैः बाणैः, यद्यदा आहरेयं यद्यदा च54 आहृतं शिरः पादेन आक्रम्य दग्धपुत्रा त्वं स्रा55स्यसि । तदा ते तव शुचः विमृजामि मार्जयामि ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

इति प्रियां वल्गुविचित्रजल्पैः
स सान्त्वयित्वाच्युतमित्रसूतः।
अन्वाद्रवद्दंशित उग्रधन्वा
कपिध्वजो गुरुपुत्रं रथेन॥

मूलम्

इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाऽच्युतमित्रसूतः।
56अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन॥ १७ ॥

अनुवाद (हिन्दी)

अर्जुनने इन मीठी और विचित्र बातोंसे द्रौपदीको सान्त्वना दी और अपने मित्र भगवान् श्रीकृष्णकी सलाहसे उन्हें सारथि बनाकर कवच धारणकर और अपने भयानक गाण्डीव धनुषको लेकर वे रथपर सवार हुए तथा गुरुपुत्र अश्वत्थामाके पीछे दौड़ पड़े॥ १७॥

वीरराघवः

इतीत्थं वल्गुभिः सुन्दरैः विचित्रैश्च जल्पैः भाषणैः प्रियां द्रौपदीं सान्त्वयित्वा, अच्युतः कृष्णो मित्रं सूतः सारथिश्च यस्य सारथीकृताच्युत इत्यर्थः । दंशितः कवचितः उग्रं धनुः गाण्डीवं यस्य । कपिध्वजः हनुमच्चिह्नितः ध्वजो यस्य सोऽर्जुनः । रथेन साधनेन गुरोः द्रोणाचार्यस्य पुत्रमश्वत्थामानम् अन्वाद्रवत् अन्वधावत् ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तमापतन्तं स विलक्ष्य दूरात्
कुमारहोद्विग्नमना रथेन।
पराद्रवत्प्राणपरीप्सुरुर्व्यां
यावद‍्गमं रुद्रभयाद्यथार्कः॥

मूलम्

तमापतन्तं स विल57क्ष्य दूरात् कुमारहोद्विग्नमना रथेन।
पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद‍मं रुद्रभयाद्य58थाऽर्कः॥ १८ ॥

अनुवाद (हिन्दी)

बच्चोंकी हत्यासे अश्वत्थामाका भी मन उद्विग्न हो गया था। जब उसने दूरसे ही देखा कि अर्जुन मेरी ओर झपटे हुए आ रहे हैं, तब वह अपने प्राणोंकी रक्षाके लिये पृथ्वीपर जहाँतक भाग सकता था, रुद्रसे भयभीत सूर्यकी* भाँति भागता रहा॥ १८॥

पादटिप्पनी
  • शिवभक्त विद्युन्माली दैत्यको जब सूर्यने हरा दिया तब सूर्यपर क्रोधित हो भगवान् रुद्र त्रिशूल हाथमें लेकर उनकी ओर दौड़े। उस समय सूर्य भागते-भागते पृथ्वीपर काशीमें आकर गिरे, इसीसे वहाँ उनका ‘लोलार्क’ नाम पड़ा है।
वीरराघवः

आपतन्तं तमर्जुनं दूरादेव विलक्ष्य प्रत्यभिज्ञाय कुमारहा कुमारघाती सोऽश्वत्थामा उद्विग्नं भीतं मनो यस्य तथाभूतः प्राणपरीप्सुः प्राणान् आप्तुमिच्छुः जिजीविषुरित्यर्थः । उर्व्यां भूमौ यावदमं यावदन्तुं शक्यं तावद्रथेन साधनेन पराद्रवत् पलायितवान् । को दक्षः यथा रुद्रभयात्, तद्वत् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

यदाशरणमात्मानमैक्षत श्रान्तवाजिनम्।
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः॥

मूलम्

यदाशरणमात्मानमै59क्षत श्रान्तवाजि60नम्।
अस्त्रं ब्रह्मशिरो मेने आ61त्मत्राणं द्विजात्मजः॥ १९ ॥

अनुवाद (हिन्दी)

जब उसने देखा कि मेरे रथके घोड़े थक गये हैं और मैं बिलकुल अकेला हूँ, तब उसने अपनेको बचानेका एकमात्र साधन ब्रह्मास्त्र ही समझा॥ १९॥

वीरराघवः

यदाऽशरणं रक्षकरहितं श्रान्ता वाजिनो यस्य तमात्मानमैक्षत पर्यालोचितवान् । तदा स द्विजात्मजो द्रौणिः । आत्मा त्रायते अनेनेत्यात्मत्राणं स्वरक्षणोपायं ब्रह्मशिरोनामकमस्त्रं मेनेऽबुध्यत । ब्रह्मशिरोऽस्त्रेण अर्जुनं हत्वा आत्मानं रक्षिष्यामि इत्यध्यवसितवानित्यर्थः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

अथोपस्पृश्य सलिलं संदधे तत्समाहितः।
अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते॥

मूलम्

अथोपस्पृश्य सलिलं सन्दधे62 तत् समाहितः।
अजानन्नु63पसंहारं प्राणकृच्छ्र उपस्थिते॥ २० ॥

अनुवाद (हिन्दी)

यद्यपि उसे ब्रह्मास्त्रको लौटानेकी विधि मालूम न थी, फिर भी प्राणसंकट देखकर उसने आचमन किया और ध्यानस्थ होकर ब्रह्मास्त्रका सन्धान किया॥ २०॥

वीरराघवः

अथ सलिलमुपस्पृश्य आचम्य समाहितः अस्त्रप्रयोगोपयुक्तमनःप्रणिधानयुक्तः संहारम् अस्त्रोपसंहारमजानन्नपि प्राणकृच्छ्रे प्राणापद्युपस्थितायां तद् ब्रह्मशिरोऽस्त्रं सन्दधे प्रयुयोज ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतोदिशम्।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह॥

मूलम्

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतोदिशम्।
प्रा64णापदमभिप्रेक्ष्य65 विष्णुं जिष्णुरुवाच ह॥ २१ ॥

अनुवाद (हिन्दी)

उस अस्त्रसे सब दिशाओंमें एक बड़ा प्रचण्ड तेज फैल गया। अर्जुनने देखा कि अब तो मेरे प्राणोंपर ही आ बनी है, तब उन्होंने श्रीकृष्णसे प्रार्थना की॥ २१॥

वीरराघवः

ततः सर्वतोदिशं सर्वदिक्षु प्रादुष्कृतं प्रादुर्भूतं प्रचण्डमुग्रं तेजः प्राणापदमभिप्रेक्ष्य प्राणविपत्तिकारित्वेन उत्प्रेक्ष्य जिष्णुरर्जुनो विष्णुं श्रीकृष्णमुवाच ॥ २१ ॥

श्लोक-२२

मूलम् (वचनम्)

अर्जुन उवाच

विश्वास-प्रस्तुतिः

कृष्ण कृष्ण महाबाहो भक्तानामभयंकर।
त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः॥

मूलम्

कृष्ण! कृष्ण! महाभा66ग! भक्तानामभयंकर!।
त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः॥ २२ ॥

पादटिप्पनी

अर्जुनने कहा—श्रीकृष्ण! तुम सच्चिदानन्द-स्वरूप परमात्मा हो। तुम्हारी शक्ति अनन्त है। तुम्हीं भक्तोंको अभय देनेवाले हो। जो संसारकी धधकती हुई आगमें जल रहे हैं, उन जीवोंको उससे उबारनेवाले एकमात्र तुम्हीं हो॥ २२॥

वीरराघवः

तदेवाऽऽह - कृष्ण! कृष्णेत्यादि पञ्चभिः । प्रादुष्कृतं तेजो याथात्म्यात् त67दुपसंहारानभिज्ञः तदुभयज्ञापनाय भगवन्तं कृष्णं प्रष्टुकामो नाहमपि वेद्मीति मा वोच इत्यभिप्रायेण तावत् भगवन्तं स्वाभाविकैः धर्मैः स्तौति चतुर्भिः । हे कृष्ण! कृष्ण! “कृषिर्भूवाचकश्शब्दोणश्च निर्वृतिवाचकः68” इ69ति निरुक्तकृष्णशब्दोपस्थापितसर्वलोकसुखावहत्वरूपगुणानुसन्धानकृतसम्भ्रमात् द्विरुक्तिः । हे महाबाहो! “बाहू राजन्यः कृतः” (पु. सू. 1-5) इत्युक्तरीत्या राजन्यकुलप्रभवबाहो! भक्तानाम् अभयं करोतीति तथाभूतः, तस्य सम्बोधनम् । दह्यमानानां ता70पत्रयेण दह्यमानानां जनानां संसृतेरपवर्गः पारभूतः संसारात् विमोचक इति यावत् । त्वमेक एव कृत्स्नजगत्सुखावहस्य, तत्रापि भक्तानामभयङ्करस्य संसृतिरूपमहाभयक्षेपणक्षमस्य तव कियानेतदुपस्थितभयापनयने प्रयास इति भावः ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

त्वमाद्यः पुरुषःसाक्षादीश्वरः प्रकृतेः परः।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि॥

मूलम्

त्वमाद्यः पुरुषस्साक्षादीश्वरः प्रकृतेः परः।
मायां व्युदस्य चिच्छक्त्या कै71वल्ये स्थित आत्मनि॥ २३ ॥

अनुवाद (हिन्दी)

तुम प्रकृतिसे परे रहनेवाले आदिपुरुष साक्षात् परमेश्वर हो। अपनी चित्-शक्ति (स्वरूप-शक्ति)- से बहिरंग एवं त्रिगुणमयी मायाको दूर भगाकर अपने अद्वितीय स्वरूपमें स्थित हो॥ २३॥

वीरराघवः

नन्वेवंविधस्त्वीश्वरो नाहमित्यत आह - त्वमिति । त्वमेव साक्षादीश्वरः यत्किञ्चिदीशितव्य72वस्त्वपेक्षया सर्वोऽपि लोक ईश्वर एवेत्यनितरसाधारणैः धर्मैः अभिप्रेतमीश्वरमितरस्मात् व्यावर्तयति । आद्यः आदौ भवः निखिलजगत्कारणत्वेनावस्थितः पुरुषः सर्वान्तरात्मतया सर्वप्रशासितृत्वेन सर्वहृदयान्तर्वर्तीत्यर्थः । अथापि प्रकृतेः परः “भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च” (भ.गी. 7-4) “अपरेयमितस्त्वन्याम्” (भ.गी. 7-5) इत्यादिश्लोकद्वयोक्तप्रकृतिद्वयाद्विलक्षणः पुरुषशब्देन “पूस्संज्ञे वै शरीरेऽस्मिन् शयनात् पुरुषो हरिः” इति निरुक्तेन सर्वान्तरात्मत्वं सर्वाधारत्वं च फलितम् । प्रकृतेः परः इत्यनेन प्रकृतिगतधर्मास्पर्शश्च । नन्वीश्वरश्च सर्वाधारकश्चेत् तस्य किं धारकम् ? देहाद्विलक्षणस्यापि जीवस्य देवोऽहं मनुष्योऽहम् इति देहधर्मस्पर्शदर्शनात् कथं तस्य प्रकृतिधर्मा- स्पर्शश्चेत्यतो विशिनष्टि - चिच्छक्त्या शक्तिशब्दः सर्वत्र कार्योपयोग्यपृथक्सद्धविशेषणवाची । चिच्छक्त्या ज्ञानशक्त्या नित्याविर्भूतापरिच्छिन्नधर्मभूतज्ञानशक्त्या मायां प्रकृतिं चेतनाचेतनात्मिकां व्युदस्य; मायाशब्दोऽत्र उपचारात् मायाधर्मपरः । मायाधर्मान् व्युदस्य मायाधर्मैरस्पृष्ट इत्यर्थः । केवल एव कैवल्यः | स्वार्थे ष्यञ् । केवले आत्मनि स्थितः “स्वे महिम्नि प्रतिष्ठितः” (मैत्रा. उ. 6-25) इत्युक्तरीत्या आधारान्तरानपेक्ष इत्यर्थः । जीवस्तु कर्मणा सङ्कुचितज्ञानत्वात् देहात्मभ्र73मेण देहधर्मानात्मन्यध्यस्यति । ईश्वरस्तु चिच्छक्त्या तान् व्युदस्य तत्तज्जीवान्तरात्मतया तत्तज्जीवकर्मानुरूपं फलं प्रयच्छन् अनितरधार्योऽवतिष्ठत इति भावः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

स एव जीवलोकस्य मायामोहितचेतसः।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्॥

मूलम्

स एव74 जीवलोकस्य मायामोहितचेतसः।
वि75धत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्॥ २४ ॥

अनुवाद (हिन्दी)

वही तुम अपने प्रभावसे माया-मोहित जीवोंके लिये धर्मादिरूप कल्याणका विधान करते हो॥ २४॥

वीरराघवः

तदेवाऽऽह - स एवेति । उक्तविध ईश्वर एव त्वम् । मायया देहात्मभ्रमस्वतन्त्रात्मभ्रमादिरूपमायाकार्येण मोहितं चेतो यस्य तस्य जीवलोकस्य धर्मादिलक्षणं धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयरूपं श्रेयः, तद्विपर्ययरूपम् अश्रेयश्च तत्तत्कर्मानुगुण्येन स्वेन स्वेन वीर्येण स्वाभाविकेनाप्रच्युतेन माहात्म्येन उपलक्षितः विधत्से प्रयच्छसि ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

तथायं चावतारस्ते भुवो भारजिहीर्षया।
स्वानां चानन्यभावानामनुध्यानाय चासकृत्॥

मूलम्

76थाऽयं चावतारस्ते भुवो भारजिहीर्षया।
स्वानां चानन्यभावानामनुध्यानाय चासकृत्॥ २५ ॥

अनुवाद (हिन्दी)

तुम्हारा यह अवतार पृथ्वीका भार हरण करनेके लिये और तुम्हारे अनन्य प्रेमी भक्तजनोंके निरन्तर स्मरण-ध्यान करनेके लिये है॥ २५॥

वीरराघवः

न केवलमन्तरात्मतया एवं विधत्से, अपितु अवतारमुखेनापि इत्यभिप्रा77येण आह - तथेति । भुवो भारभूतानां दुष्कृतां जिहीर्षया संहारेच्छ्या अनन्यभावानाम् अनन्यप्रयोजनभक्तियोगर्निष्ठानां स्वानां स्वकीयानामसकृदनुध्यानाय चायं तवावतारः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

किमिदं स्वित्कुतो वेति देवदेव न वेद्‍म्यहम्।
सर्वतोमुखमायाति तेजः परमदारुणम्॥

मूलम्

किमिदं स्वित्कुतो वेति देवदेव! न वेद्‍म्यहम्।
सर्वतोमुखमायाति तेजः परमदारुणम्॥ २६ ॥

अनुवाद (हिन्दी)

स्वयम्प्रकाशस्वरूप श्रीकृष्ण! यह भयंकर तेज सब ओरसे मेरी ओर आ रहा है। यह क्या है, कहाँसे, क्यों आ रहा है—इसका मुझे बिलकुल पता नहीं है!॥ २६॥

वीरराघवः

एवं संस्तुत्य प्रकृतं पृच्छति - किमिति । इदं तेजः किंस्विदिति याथात्म्यप्रश्नः । कुतो वेति हेतुप्रश्नः । कुतो वा आगच्छति, कुतश्च शमिष्यतीत्यर्थः । स्वस्य तु एतदज्ञानमावेदयति न वेद्ययहमिति । तर्हि किं जानासीत्यत्राऽऽह | सर्वतोमुखं परमदारुणं तेजः आ78यातीत्येतावदेव वेद्मीत्यर्थः ॥ २६ ॥

श्लोक-२७

मूलम् (वचनम्)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्।
नैवासौ वेद संहारं प्राणबाध उपस्थिते॥

मूलम्

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्।
नैवासौ वेद संहारं प्राणबाध उपस्थिते॥ २७ ॥

अनुवाद (हिन्दी)

भगवान‍्ने कहा—अर्जुन! यह अश्वत्थामाका चलाया हुआ ब्रह्मास्त्र है। यह बात समझ लो कि प्राणसंकट उपस्थित होनेसे उसने इसका प्रयोग तो कर दिया है, परन्तु वह इस अस्त्रको लौटाना नहीं जानता॥ २७॥

वीरराघवः

इत्थं संस्तुतो विज्ञापितश्च भगवान् सर्वज्ञ आह - वेत्थेति द्वाभ्याम् । प्राणबाध उपस्थिते सति द्रोणपुत्रस्येति कर्तरि षष्ठी । तेन प्रदर्शितं प्रयुक्तं ब्राह्यमस्त्रमिदं तेजो वेत्थ जानीहि । असौ द्रोणपुत्रः संहारं प्रयुक्तब्रह्मास्त्रोपसंहारं न वेद न जानाति ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा॥

मूलम्

नह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवक79र्शनम्।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्य80स्त्रतेजसा॥ २८ ॥

अनुवाद (हिन्दी)

किसी भी दूसरे अस्त्रमें इसको दबा देनेकी शक्ति नहीं है। तुम शस्त्रास्त्रविद्याको भलीभाँति जानते ही हो, ब्रह्मास्त्रके तेजसे ही इस ब्रह्मास्त्रकी प्रचण्ड आगको बुझा दो॥ २८॥

वीरराघवः

तर्हि कथमिदमुपसंहर्तव्यमित्यत्राऽऽह - नेति । अस्य द्रोणपुत्रप्रदर्शितस्य ब्रह्मास्त्रस्य प्रत्यवम81र्शकं प्रतिभटमस्त्रं ततोऽन्यतमं किश्चिदपि न विद्यते अतोऽस्त्रज्ञः ब्रह्मास्त्रप्रयोगोपसंहाराभिज्ञः त्वमस्त्रतेजसा ब्रह्मास्त्रतेजसैव उन्नद्धमुद्रिक्तम् अस्त्रतेजः ब्रह्मास्त्रतेजः जहि, त्वमपि ब्रह्मास्त्रेणैव तदभिभावयेत्यर्थः ॥ २८ ॥

श्लोक-२९

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा।
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे॥

मूलम्

श्रुत्वा भगवता प्रोक्तं फा82ल्गुनः परवीरहा।
स्पृष्ट्वाऽपस्तं परिक्रम्य ब्राह्मं ब्राह्माय83 सन्दधे॥ २९ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—अर्जुन विपक्षी वीरोंको मारनेमें बड़े प्रवीण थे। भगवान‍्की बात सुनकर उन्होंने आचमन किया और भगवान‍्की परिक्रमा करके ब्रह्मास्त्रके निवारणके लिये ब्रह्मास्त्रका ही सन्धान किया॥ २९॥

वीरराघवः

इत्थं भगवता प्रोक्तमस्त्रोपसंहारोपायं श्रुत्वा परवीरहा फ84ल्गुनोऽर्जुनः अप आचम्य तं कृष्णं परिक्रम्य प्रदक्षिणीकृत्य ब्राह्माय ब्रह्मास्त्राय प्रतिभटं ब्राह्ममेवास्त्रं सन्दधे प्रयुयोज ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्॥

मूलम्

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्॥ ३० ॥

अनुवाद (हिन्दी)

बाणोंसे वेष्टित उन दोनों ब्रह्मास्त्रोंके तेज प्रलयकालीन सूर्य एवं अग्निके समान आपसमें टकराकर सारे आकाश और दिशाओंमें फैल गये और बढ़ने लगे॥ ३०॥

वीरराघवः

ततः तयोरुभयोरस्त्रयोः तेजसी शरैः व्याप्तेऽन्योन्यं संहत्य सङ्गत्य रोदसी द्यावापृथिव्यौ खमाकाशं च आवृत्य आवेष्ट्य अर्कवह्नी इव ववृधाते वृद्धिं गते ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

दृष्ट्वास्त्रतेजस्तु तयोस्त्रीँल्लोकान् प्रदहन्महत्।
दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत॥

मूलम्

दृष्ट्वाऽस्त्रतेजस्तु तयोस्त्रीन् लोकान् प्रदहन्महत्।
दह्यमानाः प्रजास्सर्वाः सांवर्तक ममंसत॥ ३१ ॥

अनुवाद (हिन्दी)

तीनों लोकोंको जलानेवाली उन दोनों अस्त्रोंकी बढ़ी हुई लपटोंसे प्रजा जलने लगी और उसे देखकर सबने यही समझा कि यह प्रलयकालकी सांवर्तक अग्नि है॥ ३१॥

वीरराघवः

किञ्च ततः त्रीन् लोकान् प्रदहत् तयोः द्रौण्यर्जुनयोः अस्त्रतेजः तत्प्रयुक्तास्त्रतेजो दृष्ट्वा तेन दह्यमानाः सर्वाः प्रजाः सांवर्तकं प्रलयाग्निममंसत अमन्यन्त ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम्।
मतं च वासुदेवस्य संजहारार्जुनो द्वयम्॥

मूलम्

प्रजोपप्ल85वमाल86क्ष्य लोकव्यतिकरं च तम्।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम्॥ ३२ ॥

अनुवाद (हिन्दी)

उस आगसे प्रजाका और लोकोंका नाश होते देखकर भगवान‍्की अनुमतिसे अर्जुनने उन दोनोंको ही लौटा लिया॥ ३२॥

वीरराघवः

लोकव्यतिकरं लोकोपमर्दनरूपं प्रजोपद्रवं वासुदेवस्य मतमभिप्रायं च आलक्ष्यार्जुनः द्वयं ब्रह्मास्त्रद्वयं सञ्जहार उपसंहृतवान् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

तत आसाद्य तरसा दारुणं गौतमीसुतम्।
बबन्धामर्षताम्राक्षः पशुं रशनया यथा॥

मूलम्

तत आसाद्य तरसा दारुणं गौतमीसुतम्।
बबन्धामर्षताम्राक्षः पशुं रशनया यथा॥ ३३ ॥

अनुवाद (हिन्दी)

अर्जुनकी आँखें क्रोधसे लाल-लाल हो रही थीं। उन्होंने झपटकर उस क्रूर अश्वत्थामाको पकड़ लिया और जैसे कोई रस्सीसे पशुको बाँध ले, वैसे ही बाँध लिया॥ ३३॥

वीरराघवः

तत आसाद्य समीपमेत्य दारुणमुग्नं गौतम्याः द्रोणपत्न्याः कृप्याः सुतं द्रौणिम् अमर्षेण क्रोधेन ताम्रे अक्षिणी यस्य सः अर्जुनः । तरसा बलेन बबन्ध यथा रज्ज्वा पशुं तद्वत् ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

शिबिराय निनीषन्तं दाम्ना बद्‍ध्वा रिपुं बलात्।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः॥

मूलम्

शिबिराय निनीषन्तं दा87म्ना बद्‍ध्वा रिपुं बलात्।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः॥ ३४ ॥

अनुवाद (हिन्दी)

अश्वत्थामाको बलपूर्वक बाँधकर अर्जुनने जब शिविरकी ओर ले जाना चाहा, तब उनसे कमलनयन भगवान् श्रीकृष्णने कुपित होकर कहा—॥ ३४॥

वीरराघवः

रिपुं द्रौणिं बलात् रज्ज्वा बद्ध्वा शिबिराय राजनिवेशा88य शिबिरं प्रति निनीषन्तं नेतुमिच्छन्तम् अर्जुनं भगवानम्बुजेक्षणः कृष्णः प्रकुपित आह धर्मपरीक्षार्थमिति भावः ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि।
योऽसावनागसः सुप्तानवधीन्निशि बालकान्॥

मूलम्

मै89नं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि।
योऽसावनागसस्सुप्तानवधीन्निशि बालकान्॥ ३५ ॥

अनुवाद (हिन्दी)

‘अर्जुन! इस ब्राह्मणाधमको छोड़ना ठीक नहीं है, इसको तो मार ही डालो। इसने रातमें सोये हुए निरपराध बालकोंकी हत्या की है॥ ३५॥

वीरराघवः

तदेवाऽऽह - नैनमिति पञ्चभिः । हे पार्थ! इमं ब्रह्मबन्धुं त्रातुं जीवयितुं नैवार्हसि किन्तु जहि । “आततायिनमायान्तं हन्यादेवाविचारयन्” (मनु. स्मृ. 8-350) इति स्मृतेरिति भावः । तदेवाऽऽह - योऽसौ ब्रह्मबन्धुः निशि बालकान् तत्रापि सुप्तानवधीत् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्॥

मूलम्

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्॥ ३६ ॥

अनुवाद (हिन्दी)

धर्मवेत्ता पुरुष असावधान, मतवाले, पागल, सोये हुए , बालक, स्त्री, विवेकज्ञानशून्य, शरणागत, रथहीन और भयभीत शत्रुको कभी नहीं मारते॥ ३६॥

वीरराघवः

धर्मवित् पुमान् मत्तादिरूपं रिपुं न हन्ति । एवं तु धर्मस्थितिरित्यर्थः । तत्र मत्तं मधुना, प्रमत्तमनवहितं, उन्मत्तं पित्तादिना, जडं केवलमज्ञम् ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥

मूलम्

स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥ ३७ ॥

अनुवाद (हिन्दी)

परन्तु जो दुष्ट और क्रूर पुरुष दूसरोंको मारकर अपने प्राणोंका पोषण करता है, उसका तो वध ही उसके लिये कल्याणकारी है; क्योंकि वैसी आदतको लेकर यदि वह जीता है तो और भी पाप करता है और उन पापोंके कारण नरकगामी होता है॥ ३७॥

वीरराघवः

योऽघृणः निष्कृपावान् अत एव खलो दुरात्मा यः पुमान् परेषां प्राणैः स्वप्राणान् प्रपुष्णाति तस्य वधः तस्यैव श्रेयस्करः अन्यथा यस्मात् अकृतप्रायश्चित्तात् दोषात् पुमान् अधः नरके पतति ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा॥

मूलम्

प्रतिश्रुतं च भवता पाञ्चाल्यै90 शृण्वतो मम।
आहरिष्ये शिरस्तस्य यस्ते मानिनि! पुत्रहा॥ ३८ ॥

अनुवाद (हिन्दी)

फिर मेरे सामने ही तुमने द्रौपदीसे प्रतिज्ञा की थी कि ‘मानवती! जिसने तुम्हारे पुत्रोंका वध किया है, उसका सिर मैं उतार लाऊँगा’॥ ३८॥

वीरराघवः

किञ्च मम शृण्वतस्सतो भवता पाञ्चाल्यै द्रौपद्यै प्रतिश्रुतं प्रतिज्ञातं किमिति ? हे मानिनि! यस्तव पुत्रहन्ता तस्य शिर आहरिष्ये आहरिष्यामीति ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा।
भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः॥

मूलम्

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा।
भर्तुश्च विप्रियं वीर! कृतवान् कुलपांसनः॥ ३९ ॥

अनुवाद (हिन्दी)

इस पापी कुलांगार आततायीने तुम्हारे पुत्रोंका वध किया है और अपने स्वामी दुर्योधनको भी दुःख पहुँचाया है। इसलिये अर्जुन! इसे मार ही डालो॥ ३९॥

वीरराघवः

तत् तस्मादसौ पापात्मा आतताय्यात्मनस्तव बन्धुहा कुमारघाती हे वीर! भर्तुः धृतराष्ट्रस्य विप्रियमिदं कर्म कृतवान् । कुलपांसनः कुलदूषकश्चातो वध्यताम् ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान्॥

मूलम्

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः।
नैच्छद्धन्तुं गुरुसुतं य91द्यप्यात्महनं महान्॥ ४० ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने अर्जुनके धर्मकी परीक्षा लेनेके लिये इस प्रकार प्रेरणा की, परन्तु अर्जुनका हृदय महान् था। यद्यपि अश्वत्थामाने उनके पुत्रोंकी हत्या की थी, फिर भी अर्जुनके मनमें गुरुपुत्रको मारनेकी इच्छा नहीं हुई॥ ४०॥

वीरराघवः

इत्थं धर्मं परीक्षता धर्मपरीक्षार्थमेवं ब्रु92वता कृष्णेन चोदितोऽपि इ93त्यर्थः पार्थोऽर्जुन आत्मजहनमपि सुतहनमपि तं गुरुसुतं द्रौणिं हन्तुं नैच्छत् । यतोऽर्जुनो महान् गुरुकृतोपकाराभिज्ञः ॥ ४० ॥

श्लोक-४१

विश्वास-प्रस्तुतिः

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान्॥

मूलम्

94थोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान्॥ ४१ ॥

अनुवाद (हिन्दी)

इसके बाद अपने मित्र और सारथि श्रीकृष्णके साथ वे अपने युद्ध-शिविरमें पहुँचे। वहाँ अपने मृत पुत्रोंके लिये शोक करती हुई द्रौपदीको उसे सौंप दिया॥ ४१॥

वीरराघवः

ततो गोविन्दः प्रियः सारथिश्च यस्य सोऽर्जुनः स्वशिबिरमागत्य हतानात्मजान् प्रति शोचन्त्यै प्रियायै द्रौपद्यै तं द्रौणिं न्यवेदयत् ॥ ४१ ॥

श्लोक-४२

विश्वास-प्रस्तुतिः

तथाऽऽहृतं पशुवत् पाशबद्ध-
मवाङ्‍मुखं कर्मजुगुप्सितेन।
निरीक्ष्य कृष्णापकृतं गुरोः सुतं
वामस्वभावा कृपया ननाम च॥

मूलम्

तथाऽऽहृतं पशुवत् पाशबद्धमवाङ्‍मुखं कर्मजुगुप्सितेन।
निरीक्ष्य कृष्णापकृतं गुरोस्सुतं वामस्वभावा कृपया ननाम च95॥ ४२ ॥

अनुवाद (हिन्दी)

द्रौपदीने देखा कि अश्वत्थामा पशुकी तरह बाँधकर लाया गया है। निन्दित कर्म करनेके कारण उसका मुख नीचेकी ओर झुका हुआ है। अपना अनिष्ट करनेवाले गुरुपुत्र अश्वत्थामाको इस प्रकार अपमानित देखकर द्रौपदीका कोमल हृदय कृपासे भर आया और उसने अश्वत्थामाको नमस्कार किया॥ ४२॥

वीरराघवः

तथा आहृतमानीतं पशुना तुल्यं पशुवत् पाशेन बद्धम् । पशुर्यथा पाशेन बध्यते तद्वद्बद्धम् । कर्मणः स्वकृतस्य जुगुप्सितेन जुगुप्साशब्दात् स्वार्थसन्नन्तात् भावे क्तः । निन्दया हेतुना अवाङ्मखम्। अ96धोमुखम् अपकृतमपकारिणम् अर्जुनेनापकृतं वा, गुरोस्सुतमश्वत्थामानं निरीक्ष्य दृष्ट्वा द्रौपदी वामस्वभावा हेतुगर्भमिदं सुस्वभावत्वात् ननाम ॥ ४२ ॥

श्लोक-४३

विश्वास-प्रस्तुतिः

उवाच चासहन्त्यस्य बन्धनानयनं सती।
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः॥

मूलम्

उवाच चासहन्त्यस्य बन्धनानयनं सती।
मुच्यतां मुच्यतामेष97 ब्राह्मणो नितरां गुरुः॥ ४३ ॥

अनुवाद (हिन्दी)

गुरुपुत्रका इस प्रकार बाँधकर लाया जाना सती द्रौपदीको सहन नहीं हुआ। उसने कहा—‘छोड़ दो इन्हें, छोड़ दो। ये ब्राह्मण हैं, हमलोगोंके अत्यन्त पूजनीय हैं॥ ४३॥

वीरराघवः

अस्य गुरुसुतस्य बन्धनेन आनयनं बन्धनपूर्वकमानयनं बन्धनमानयनं च वा अस्य अर्जुनस्य वा अर्जुनकर्तृकबन्धनानयनमिति वा । असहन्ती सती द्रौपदी उवाच । उक्तिमेवाऽऽह - मुच्यतामित्यादिभिः सार्धैः पञ्चभिः । एष द्रौणिर्मुच्यतां मुच्यताम्; त्वरया द्विरुक्तिः । मोचनीयत्वे हेतुं दर्शयन्ती विशिनष्टि । ब्राह्मणस्तत्रापि गुरुः ॥ ४३ ॥

श्लोक-४४

विश्वास-प्रस्तुतिः

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्॥

मूलम्

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्॥ ४४ ॥

वीरराघवः

न ह्येष गुरुः अपित्वस्यायं पितेत्यत्र98 आह - सरहस्य इति । भवता यस्यानुग्रहात् रहस्येन सहितो धनुर्वेदः सविसर्गोपसंयमः प्रयोगोपसंहारसहितोऽस्त्रग्रामः अस्त्रसमुदायश्च शिक्षितः ॥ ४४ ॥

श्लोक-४५

विश्वास-प्रस्तुतिः

स एष भगवान् द्रोणः प्रजारूपेण वर्तते।
तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी॥

मूलम्

स एष99 भगवान् द्रोणः प्रजारूपेण वर्तते।
तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी॥ ४५ ॥

अनुवाद (हिन्दी)

जिनकी कृपासे आपने रहस्यके साथ सारे धनुर्वेद और प्रयोग तथा उपसंहारके साथ सम्पूर्ण शस्त्रास्त्रोंका ज्ञान प्राप्त किया है, वे आपके आचार्य द्रोण ही पुत्रके रूपमें आपके सामने खड़े हैं। उनकी अर्धांगिनी कृपी अपने वीर पुत्रकी ममतासे ही अपने पतिका अनुगमन नहीं कर सकीं, वे अभी जीवित हैं॥ ४४-४५॥

वीरराघवः

स भगवान् द्रोण एवैष प्रजारूपेण वर्तते । एतच्छब्दो द्रोणस्यैवाकारान्तरेण अवस्थितिपरामर्शकः “आत्मा वै पुत्रः” (कौषी. उ. 2-11) इति श्रुतेरिति भावः । पुत्त्रविषयापकारेण पितैवापक्रियते इति भावः । ननु स स्वर्गतः इत्यत्राऽऽह - तस्येति । तस्य द्रोणस्यात्मनः शरीरस्यार्धम् अर्धांशरूपा तत्पत्नी कृपी वीरसूः पुत्रवती स100ती आस्ते, नान्वगात् न साऽनुमरणं कृतवती । अर्धमिति । समांशाभिप्रायेण नपुंसकनिर्देशः । “अर्थो वा एष आत्मनो यत्पत्नी” (तैत्ति. ब्रा. 3-3-3) इति श्रुत्यभिप्रायेणार्धमित्युक्तम् । द्रोणस्य स्वर्गतत्वेऽपि तदर्धशरीरभूता तत्पत्न्यपक्रि101यत एवेति भावः ॥ ४५ ॥

श्लोक-४६

विश्वास-प्रस्तुतिः

तद् धर्मज्ञ महाभागभवद‍्भिर्गौरवं कुलम्।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः॥

मूलम्

तद्धर्मज्ञ! महाभाग! भवद‍्भिर्गौरवं कुलम्।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः॥ ४६ ॥

अनुवाद (हिन्दी)

महाभाग्यवान् आर्यपुत्र! आप तो बड़े धर्मज्ञ हैं। जिस गुरुवंशकी नित्य पूजा और वन्दना करनी चाहिये उसीको व्यथा पहुँचाना आपके योग्य कार्य नहीं है॥ ४६॥

वीरराघवः

तत् तस्मात् हे धर्मज्ञ! मदुक्तधर्माभिज्ञ! हे महाभाग! गुर्वपमानराहित्यरूपमहाभाग्ययुक्त! भवद्भिः गुरूणां बहुमन्तृभिः गौरवं कुलं गुरोः सम्बन्धि कुलं वृजिनं दुःखं प्राप्तुं प्रापयितुं, भवद्भिर्हेतुभिः वृजिनं प्राप्तुमिति वा नार्हति, किन्त्वभीक्ष्णशः पौनःपुन्येन पूज्यं वन्दनीयं च भवद्भिरित्यनुषङ्गः ॥ ४६ ॥

श्लोक-४७

विश्वास-प्रस्तुतिः

मा रोदीदस्य जननी गौतमी पतिदेवता।
यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः॥

मूलम्

मा रोदीद102स्य जननी गौतमी पतिदेवता।
यथाऽहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः॥

अनुवाद (हिन्दी)

जैसे अपने बच्चोंके मर जानेसे मैं दुःखी होकर रो रही हूँ और मेरी आँखोंसे बार-बार आँसू निकल रहे हैं, वैसे ही इनकी माता पतिव्रता गौतमी न रोयें॥ ४७॥

वीरराघवः

एतद्विष103यापकृत्या कृपी नितरामहमिव दुःखिता स्यात्, तत्तवानुचितमित्यभिप्रायेण आह । मृता वत्साः पुत्त्रा यस्यास्सा अत एव आर्ताऽहं मुहुर्मुहुरश्रुमुखी यथा रोदिमि तथाऽस्य ब्राह्मणस्य जननी पतिरेव देवता यस्यास्सा गौतमी गौतमस्य दुहिता कृपी मा रोदीत् ॥ ४७ ॥

श्लोक-४८

विश्वास-प्रस्तुतिः

यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः।
तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम्॥

मूलम्

यैः कोपितं ब्रह्मकुलं राजन्यैरजि104तात्मभिः।
तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पि105तम्॥

अनुवाद (हिन्दी)

जो उच्छृंखल राजा अपने कुकृत्योंसे ब्राह्मणकुलको कुपित कर देते हैं, वह कुपित ब्राह्मणकुल उन राजाओंको सपरिवार शोकाग्निमें डालकर शीघ्र ही भस्म कर देता है’॥ ४८॥

वीरराघवः

किञ्च इदं कर्म अस्मत्कुलस्याप्यनर्थकारीत्याह - यैरिति । अजितात्मभिः अजितः क्रोधपरवश आत्मा मनो येषां तैः यै राजन्यैः ब्रह्मकुलं विप्रकुलं कोपितं, कोपविषयीकृतम्, अत एव शुचा शोकेन अर्पितं प्रापितं दुःखितं सदित्यर्थः । तेषां राजन्यानां कुलं सानुबन्धमनुबन्धसहित माशु दहति । अत्र प्रदहनक्रियाकर्तृ ब्रह्मकुलं, कर्म तु राजन्यकुलम् ॥ ४८ ॥

श्लोक-४९

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्।
राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः॥

मूलम्

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्।
राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः!॥ ४९ ॥

अनुवाद (हिन्दी)

सूतजीने कहा—शौनकादि ऋषियो! द्रौपदीकी बात धर्म और न्यायके अनुकूल थी। उसमें कपट नहीं था, करुणा और समता थी। अतएव राजा युधिष्ठिरने रानीके इन हितभरे श्रेष्ठ वचनोंका अभिनन्दन किया॥ ४९॥

वीरराघवः

हे द्विजाः! इत्थं धर्म्यं धर्मादनपेतं, न्याय्यं न्यायात् नीतेः अनपेतं, सकरुणं करुणायुक्तं निर्व्यलीकम् अनृताप्रियरहितं समम् अविषममनुरूपं महत् आशयगम्भीरं च राज्ञ्या द्रौपद्या वचो निशम्य धर्मसुतो युधिष्ठिरः प्रत्यनन्दत् ॥ ४९ ॥

श्लोक-५०

विश्वास-प्रस्तुतिः

नकुलः सहदेवश्च युयुधानो धनञ्जयः।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः॥

मूलम्

नकुलस्सहदेवश्च युयुधानो धनञ्जयः।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः॥ ५० ॥

अनुवाद (हिन्दी)

साथ ही नकुल, सहदेव, सात्यकि, अर्जुन, स्वयं भगवान् श्रीकृष्ण और वहाँपर उपस्थित सभी नर-नारियोंने द्रौपदीकी बातका समर्थन किया॥ ५०॥

वीरराघवः

तथा नकुलादयः ये चान्ये तद्व्यतिरिक्ताः पुरुषाः, याश्च स्त्रियः सर्वे ते प्रत्यनन्दन्निति वचनविपरिणामेन पूर्वेणान्वयः ॥ ५० ॥

श्लोक-५१

विश्वास-प्रस्तुतिः

तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः।
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्ताञ्शिशून् वृथा॥

मूलम्

तत्राऽऽहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः।
न भर्तुर्ना106त्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा॥ ५१ ॥

अनुवाद (हिन्दी)

उस समय क्रोधित होकर भीमसेनने कहा, ‘जिसने सोते हुए बच्चोंको न अपने लिये और न अपने स्वामीके लिये, बल्कि व्यर्थ ही मार डाला, उसका तो वध ही उत्तम है’॥ ५१॥

वीरराघवः

तत्र भीमस्त्वमर्पित आह - किमिति । तस्य ब्रह्मबन्धोः द्रौणेः वध एव श्रेयान् स्मृतः । कुतः ? यतोऽयं भर्तुः धृतराष्ट्रस्य आत्मनः स्वस्य चार्थे प्रयोजनाय न सुप्तान् शिशून् हतवान्, किन्तु वृथैव हतवानिति ॥ ५१ ॥

श्लोक-५२

विश्वास-प्रस्तुतिः

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः।
आलोक्य वदनं सख्युरिदमाह हसन्निव॥

मूलम्

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः।
आलोक्य वदनं सख्युरिदमाह ह107सन्निव॥ ५२ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णने द्रौपदी और भीमसेनकी बात सुनकर और अर्जुनकी ओर देखकर कुछ हँसते हुए-से कहा॥ ५२॥

वीरराघवः

भीमस्य द्रौपद्याश्च गदितं व108चः श्रुत्वा चतुर्भुजो भगवान् श्रीकृष्णः सख्युरर्जुनस्य वदनमालोक्य स्म109यन् ईषद्धसन्निवेदं वक्ष्यमाणमाह ॥ ५२ ॥

श्लोक-५३

मूलम् (वचनम्)

श्रीकृष्ण उवाच

विश्वास-प्रस्तुतिः

ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः।
मयैवोभयमाम्नातं परिपाह्यनुशासनम्॥

मूलम्

ब्रह्मबन्धुर्न हन्तव्य110 आततायी वधार्हणः111
मयैवोभयमाम्नातं परिपाह्यनुशासनम्॥ ५३ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्ण बोले—‘पतित ब्राह्मणका भी वध नहीं करना चाहिये और आततायीको मार ही डालना चाहिये’—शास्त्रोंमें मैंने ही ये दोनों बातें कही हैं। इसलिये मेरी दोनों आज्ञाओंका पालन करो॥ ५३॥

वीरराघवः

तदेवाऽऽह - ब्रह्मबन्धुरिति द्वाभ्याम् । ब्रह्मबन्धुरिति हेतुगर्भम् । ब्रह्मबन्धुत्वादयं न हन्तव्यः । आततायीत्यपि हेतुगर्भम्। आततायित्वादयं वधार्हणः वधमर्हतीति वधार्हणः । नन्द्यादित्वात् कर्तरि ल्युः । मयैवमुभयमाम्नातं वधार्हत्वमर्हत्वं चेत्युभयमपि सहेतुकमिति अनुशासनं मदनुशासनम् । न ब्राह्मणं हन्यात् । “आततायिनमायान्तं हन्यादेवाविचारयन्” (मनु. स्मृ. 8-350) इत्यादिशास्त्रानुमतमिदमुभयं पाहि, पालय नातिक्रमस्व, यथैतदुभयं पालितं स्यात्तथा कुर्वित्यर्थः ॥ ५३ ॥

श्लोक-५४

विश्वास-प्रस्तुतिः

कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च॥

मूलम्

कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्।
प्रियञ्च भीमसेनस्य पाञ्चाल्या मह्यमेव च॥ ५४ ॥

अनुवाद (हिन्दी)

तुमने द्रौपदीको सान्त्वना देते समय जो प्रतिज्ञा की थी उसे भी सत्य करो; साथ ही भीमसेन, द्रौपदी और मुझे जो प्रिय हो, वह भी करो॥ ५४॥

वीरराघवः

तत्रान्यतरकरणेऽन्यदकृतं स्यात्, तत् तवानुचितमित्यभिप्रायेणाऽऽह - कुर्वति । प्रियां द्रौपदीं सान्त्वयता त्वया यत्प्रतिश्रुतं प्रतिज्ञातं शिरश्छिन्द्यामिति तदपि सत्यं यथार्थं कुरु; भीमादीनां प्रियं च कुरु ॥ ५४ ॥

श्लोक-५५

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्॥

मूलम्

अर्जुनस्सहसाऽऽ112ज्ञाय हरेर्हार्दमथासिना।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्॥ ५५ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—अर्जुन भगवान‍्के हृदयकी बात तुरंत ताड़ गये और उन्होंने अपनी तलवारसे अश्वत्थामाके सिरकी मणि उसके बालोंके साथ उतार ली॥ ५५॥

वीरराघवः

तत एवमुक्तोऽर्जुनो भावज्ञो हरेर्हार्दं हृद्गगतमभिप्रायमाज्ञाय असिना खड्गेन साधनेन द्विजस्य द्रोणेः मूर्धन्यं मूर्ध्नि धारितं मणिं मूर्धजैः केशैः सहितं यथा तथा जहार हृतवान् ॥ ५५ ॥

श्लोक-५६

विश्वास-प्रस्तुतिः

विमुच्य रशनाबद्धं बालहत्याहतप्रभम्।
तेजसा मणिना हीनं शिबिरान्निरयापयत्॥

मूलम्

विमुच्य रश113नाब114द्धं बालहत्याहतप्रभम्।
तेजसा मणिना हीनं शिबिरान्निरयापयत्॥ ५६ ॥

अनुवाद (हिन्दी)

बालकोंकी हत्या करनेसे वह श्रीहीन तो पहले ही हो गया था, अब मणि और ब्रह्मतेजसे भी रहित हो गया। इसके बाद उन्होंने रस्सीका बन्धन खोलकर उसे शिविरसे निकाल दिया॥ ५६॥

वीरराघवः

ततो रश115नां विमुच्य पूर्वमेव बालानां हत्यया हता प्रभा यस्य तं तेजसा तेजःपदेन मणिना च हीनं रहितं सुतरां हतप्रभं शिबिरान्निरयापयत् बहिः निस्सारयामास ॥ ५६ ॥

श्लोक-५७

विश्वास-प्रस्तुतिः

वपनं द्रविणादानं स्थानान्निर्यापणं तथा।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः॥

मूलम्

116पनं द्रविणादानं स्थानान्निर्यापणं तथा।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः॥ ५७ ॥

अनुवाद (हिन्दी)

मूँड देना, धन छीन लेना और स्थानसे बाहर निकाल देना—यही ब्राह्मणाधमोंका वध है। उनके लिये इससे भिन्न शारीरिक वधका विधान नहीं है॥ ५७॥

वीरराघवः

नन्वेवमपि स्वप्रतिश्रुतं भीमगदितं च न कृतमेवेत्याशङ्कमानं शौनकं प्रत्याह सूतः - वपनमिति । वपनं मुण्डनं द्रविणादानं धनापहरणं स्थानान्निर्यापणं चेत्येष एव हि ब्रह्मबन्धूनां वधः, अन्यो दैहिकः शिरःपाण्यादिच्छेदरूपः नास्ति हि । तत्त्रैतत् त्रयमपि कृतमेव, तेनैव वधोऽपि कृतप्राय एवेति भावः ॥ ५७ ॥

श्लोक-५८

विश्वास-प्रस्तुतिः

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया।
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम्॥

मूलम्

पुत्त्रशोकातुरास्सर्वे पाण्डवास्सह कृष्णया।
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम्॥ ५८ ॥117

अनुवाद (हिन्दी)

पुत्रोंकी मृत्युसे द्रौपदी और पाण्डव सभी शोकातुर हो रहे थे। अब उन्होंने अपने मरे हुए भाई बन्धुओंकी दाहादि अन्त्येष्टि क्रिया की॥ ५८॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः॥ ७॥

वीरराघवः

ततस्सर्वे पाण्डवा युधिष्ठिरादयः कृष्णया द्रौपद्या सह शोकपीडिताः सन्तो मृतानां स्वानां पुत्रबन्धूनां यत् कर्तव्यं निर्हरणादिकं तच्चक्रुः ॥ ५८ ॥ इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां सप्तमोऽध्यायः ॥ ७ ॥


  1. A,B omit ततः ↩︎

  2. H,K,M,V द्याः ↩︎

  3. H,K,M,V त्या आ ↩︎

  4. H,V ख्यात ↩︎

  5. A,B सर्वर्षी ↩︎

  6. H,V मुख्याश्रमे ↩︎

  7. W रम्ये ↩︎

  8. K,M ख ↩︎

  9. K,M चिरम् ↩︎

  10. A,B ख ↩︎

  11. B,I,K,M र्ण ↩︎

  12. B,H,N,V दु ↩︎

  13. I यम् ↩︎

  14. A,B तदाधेयां ↩︎

  15. A,B शमना ↩︎

  16. K,M,W सां ↩︎

  17. H,K,M,V,W निम् ↩︎

  18. A वहश ↩︎

  19. K,M निर्ग्राह्या ↩︎

  20. A,B omit रूप ↩︎

  21. A,B तद्भक्तेः ↩︎

  22. A,B क्षा: ↩︎

  23. A,B omit निरपेक्षाः ↩︎

  24. A,B गुणकचित्स्वरूप ↩︎

  25. A,B omit इत्थं ↩︎

  26. K,M यम् ↩︎

  27. A,B महदिदमा ↩︎

  28. A,B omit अनुभाव्याः ↩︎

  29. ‘A’s version सभक्ति तद्गुणभगवतोऽस्यैवानुभाव्यत्वादवतारतद्गुणानां विशिष्य वेदान्तेभ्योऽवगतानां is replaced by W’s version which is more correct. ↩︎

  30. H,N,V य ↩︎

  31. H,V,W संस्थानं पा ↩︎

  32. K,M याम्; WF यात् ↩︎

  33. A,B य ↩︎

  34. A,B संस्था ↩︎

  35. A,B पं ↩︎

  36. A,B कृष्ण ↩︎

  37. A,B omit स्वर्गतिं ↩︎

  38. B ये ↩︎

  39. H,K,M,V अ ↩︎

  40. M मेतदस्य ↩︎

  41. N तज्जुगु ↩︎

  42. K,M न्ती ↩︎

  43. A,B विनिन्दयन्ति ↩︎

  44. K,M य ; W तदा तु तद्बा ↩︎

  45. W यन् प्रा ↩︎

  46. A,B श ↩︎

  47. A,B omit शेष: ↩︎

  48. A,B किरीटानां राजान्तरकिरीटानां आज्ञा एव माला अस्यास्तीति ↩︎

  49. K,M तन्मा ↩︎

  50. H वि ↩︎

  51. H,V स्था ↩︎

  52. K,M नेत्रजैर्जलैः ↩︎

  53. A,B आ ↩︎

  54. A,B वा हृतं ↩︎

  55. A,B स्था ↩︎

  56. K,M अभ्यद्र ↩︎

  57. K,M लोक्य ↩︎

  58. K,M द्यथाऽऽर्किः ; H,N,V,W द्यथा कः ↩︎

  59. H,V मवैक्षत् ↩︎

  60. K,M,W ह ↩︎

  61. H,V ह्या ↩︎

  62. H,K,M,V धेऽस्रं ↩︎

  63. I,K,M,W न्नपि ↩︎

  64. K,M प्रापतत् तदभि ↩︎

  65. B त्य ↩︎

  66. B,H,I,V,W बाहो ↩︎

  67. W’s Version is prefered to A’s Version - तदुपसंहाराणामज्ञस्तदुपज्ञापनाय ↩︎

  68. भट्टविरचितविष्णुसहस्रनामभाष्ये उद्धृतः ↩︎

  69. A,B इत्युक्त ↩︎

  70. A,B omit तापत्रयेण….जनानां ↩︎

  71. H,V केवले ↩︎

  72. A,B व्यत्वापे ↩︎

  73. A भ्रमे देह ↩︎

  74. K,M ष ↩︎

  75. K,M विधित्सुः ↩︎

  76. K,M य ↩︎

  77. A,B प्रेत्य ↩︎

  78. A,B आयाति एता ↩︎

  79. B,K,M कर्षणम् ; W मर्शकम् ↩︎

  80. H,V ऽस्थ ↩︎

  81. A,B कर्षकं ↩︎

  82. A,B,G,I,K,M,N फा ↩︎

  83. I स्त्रं ↩︎

  84. A,B फा ↩︎

  85. H,I,V द्र ↩︎

  86. H,V लोक्य ↩︎

  87. B,H,I,K,M,N,V,W रज्ज्वा ↩︎

  88. A,B शमयं ↩︎

  89. B,W नै ↩︎

  90. H,V ल्याः ↩︎

  91. W अप्यात्मजहनं ↩︎

  92. A,B कृतवता ↩︎

  93. A,B omit इत्यर्थः ↩︎

  94. H,V ततोऽभ्येत्य ↩︎

  95. K,M omit च ↩︎

  96. A,B omit अधोमुखं ↩︎

  97. H व ↩︎

  98. A,B त ↩︎

  99. B व ↩︎

  100. A,B omit सती ↩︎

  101. A,B क्रियेतैवेति ↩︎

  102. H,V त्त ↩︎

  103. A,B यात् कृत्यात् ↩︎

  104. K,M,N कृ ↩︎

  105. AF, GF र्दि ↩︎

  106. H,V,W रा ↩︎

  107. W स्मय ↩︎

  108. A,B वाक्यं ↩︎

  109. A,B omit स्मयन् ↩︎

  110. B व्यो ह्या ↩︎

  111. AF,GF कः ↩︎

  112. AF,GF ज्ञात्वा ↩︎

  113. B स ↩︎

  114. H,V बन्धं ↩︎

  115. B स ↩︎

  116. K,M बन्धनं ↩︎

  117. This comes at the beginning of VIII chapter in K&M ↩︎