[षष्ठोऽध्यायः]
भागसूचना
नारदजीके पूर्वचरित्रका शेष भाग
श्लोक-१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च।
भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः॥
मूलम्
एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च।
भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः॥ १ ॥
अनुवाद (हिन्दी)
श्रीसूतजी कहते हैं—शौनकजी! देवर्षि नारदके जन्म और साधनाकी बात सुनकर सत्यवतीनन्दन भगवान् श्रीव्यासजीने उनसे फिर यह प्रश्न किया॥ १॥
वीरराघवः
“अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः” (भाग 1-5-30) इत्युक्तम् । तत उपरितनं देवर्षिवृत्तान्त जिज्ञासुः पृच्छति व्यासः इत्याह सूतः एवमिति । इत्थं वर्णितं देवर्षेः जन्म कर्म च पौर्वदैहिकं निशम्य स सत्यवत्याः सुतो भगवान् श्रीव्यासः तं देवर्षिं हे ब्रह्मन्! शौनक! भूयः पुनः पप्रच्छ ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
व्यास उवाच
विश्वास-प्रस्तुतिः
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव।
वर्तमानो वयस्याद्ये ततः किमकरोद्भवान्॥
मूलम्
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव।
वर्तमानो वयस्याद्ये ततः किमकरोद्भवान्॥ २ ॥
अनुवाद (हिन्दी)
श्रीव्यासजीने पूछा—नारदजी! जब आपको ज्ञानोपदेश करनेवाले महात्मागण चले गये, तब आपने क्या किया? उस समय तो आपकी अवस्था बहुत छोटी थी॥ २॥
वीरराघवः
प्रश्नमेवाऽऽह - भिक्षुभिरिति । ते तव विज्ञानादेष्टृभिः विज्ञानोपदेष्टृभिः भिक्षुभिः सन्न्यासिभिः विप्रवसिते चातुर्मास्यान्ते अन्यत्र गते सति ततः पश्चात् भवानाद्ये वयसि वर्तमानः किं कृतवान् ? ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः।
कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम्॥
मूलम्
स्वायम्भुव! कया वृत्त्या वर्तितं ते परं वयः।
कथं चे1दमुदस्राक्षीः काले प्राप्ते कलेबरम्॥ ३ ॥
अनुवाद (हिन्दी)
स्वायम्भुव! आपकी शेष आयु किस प्रकार व्यतीत हुई और मृत्युके समय आपने किस विधिसे अपने शरीरका परित्याग किया?॥ ३॥
वीरराघवः
हे! स्वायम्भुव! ते त्वया परं वयः भिक्षुविप्रवासप्रभृतिवयः कया वृत्त्या वर्तितं नीतम् ? कथं वा प्राप्ते काले इदं कलेबरमुदस्राक्षीः उत्सृष्टवानसि ? प्राक्क2ल्पीयमपि कलेबरं वृत्तान्तकथनमुखेन प्रस्तुतत्वात् इदमिति सन्निहिततया परामृश्यते ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम।
न ह्येष व्यवधात्काल एष सर्वनिराकृतिः॥
अनुवाद (हिन्दी)
देवर्षे! काल तो सभी वस्तुओंको नष्ट कर देता है, उसने आपकी इस पूर्वकल्पकी स्मृतिका कैसे नाश नहीं किया?॥ ४॥
वीरराघवः
हे मुनिसत्तम! प्राक्कल्पविषयां पूर्वकल्पीयामेतां भिक्षूपदेशप्राप्तां भगवत्स्मृतिं एष कालो न व्यवधात् न तिरोहितवान् । अडभाव आर्षः । आगमशास्त्रस्यानित्यत्वाद्वा । न व्यवधात् किमिति प्रश्नो विवक्षितः । व्यवधायकत्वसूचनाय कालं विशिनष्टि । एष कालः सर्वनिराकृतिः सर्वविनाशकः ॥ ४ ॥
श्लोक-५
मूलम् (वचनम्)
नारद उवाच
विश्वास-प्रस्तुतिः
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम।
वर्तमानो वयस्याद्ये तत एतदकारषम्॥
मूलम्
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम।
वर्तमानो वयस्याद्ये तत एतदकार6षम्॥ ५ ॥
अनुवाद (हिन्दी)
श्रीनारदजीने कहा—मुझे ज्ञानोपदेश करनेवाले महात्मागण जब चले गये, तब मैंने इस प्रकार अपना जीवन व्यतीत किया—यद्यपि उस समय मेरी अवस्था बहुत छोटी थी॥ ५॥
वीरराघवः
एवमापृष्टः यथावत् स्ववृत्तान्तं वक्तुमारेभे नारदः - भिक्षुभिरिति । तत इत्यन्तस्य पूर्ववदेवार्थः । एतद्वक्ष्यमाणम् अकारषम् अकार्षम् कृतवानिति ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
एकात्मजा मे जननी योषिन्मूढा च किंकरी।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम्॥
मूलम्
एकात्मजा मे जननी योषिन्मूढा च किङ्करी।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम्॥ ६ ॥
अनुवाद (हिन्दी)
मैं अपनी माँका इकलौता लड़का था। एक तो वह स्त्री थी, दूसरे मूढ़ और तीसरे दासी थी। मुझे भी उसके सिवा और कोई सहारा नहीं था। उसने अपनेको मेरे स्नेहपाशसे जकड़ रखा था॥ ६॥
वीरराघवः
तदेवाऽऽह - एकात्मेत्यादिना कल्पान्त इत्यतः प्राक्तनेन ग्रन्थेन । एकोऽहम् आत्मजः पुत्रो यस्याः सा । मम जननी माता योषिदिति स्वभावोक्तिः । जननी इत्यनेनैव स्त्रीत्वोक्तः, अत एव मूढा किङ्करी अनेन पराधीनत्वमुक्तम् । अनन्यगतौ गतिः पोषणोपायः अनन्यपोषके मय्यात्मजे स्नेहानुबन्धनं स्नेहपारवश्यं चक्रे ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
सस्वतन्त्रा न कल्पाऽऽसीद्योगक्षेमं ममेच्छती।
ईशस्य हि वशे लोको योषा दारुमयी यथा॥
मूलम्
साऽस्वतन्त्रा न कल्पा7ऽऽसीद्योगक्षेमं ममेच्छती।
ईशस्य हि वशे लोको योषा दारुमयी यथा॥
अनुवाद (हिन्दी)
वह मेरे योगक्षेमकी चिन्ता तो बहुत करती थी, परंतु पराधीन होनेके कारण कुछ कर नहीं पाती थी। जैसे कठपुतली नचानेवालेकी इच्छाके अनुसार ही नाचती है, वैसे ही यह सारा संसार ईश्वरके अधीन है॥ ७॥
वीरराघवः
सा मम जननी अस्वतन्त्रा किङ्करीत्वात् । अत एव मम योगक्षेममिच्छत्यपि न कल्पा न समर्था बभूव । योगश्च क्षेमश्च तयोः समाहारः । योगः अलब्धलाभः, लब्धपरिरक्षणं रक्षितविवर्धनं, तस्य पात्रे प्रतिपादनं च क्षेमः ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया।
दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः॥
अनुवाद (हिन्दी)
मैं भी अपनी माँके स्नेहबन्धनमें बँधकर उस ब्राह्मण-बस्तीमें ही रहा। मेरी अवस्था केवल पाँच वर्षकी थी; मुझे दिशा, देश और कालके सम्बन्धमें कुछ भी ज्ञान नहीं था॥ ८॥
वीरराघवः
अहं च तदा पञ्चहायनः पञ्चवर्षवयस्को बालकः । अत एव दिग्देशकालाव्युत्पन्नः दिग्देशकालस्वभावानभिज्ञः तदवेक्षया मात्रवेक्षया तद्देहावसानप्रतीक्षणेन हेतुना इत्यर्थः । तस्मिन् ब्रह्मकुले ब्राह्मणगृहे उषितवानस्मि ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि।
सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः॥
मूलम्
एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि।
सर्पोऽदशत् पदा स्पृष्टः कृपणां कालचोदितः॥ ९ ॥
अनुवाद (हिन्दी)
एक दिनकी बात है, मेरी माँ गौ दुहनेके लिये रातके समय घरसे बाहर निकली। रास्तेमें उसके पैरसे साँप छू गया, उसने उस बेचारीको डस लिया। उस साँपका क्या दोष, कालकी ऐसी ही प्रेरणा थी॥ ९॥
वीरराघवः
एवं स्थिते कदाचिन्निशि गेहात् निर्गतां गां दुहन्तीं दोग्धुं प्रवृत्तां कृपणां मम मातरं पथि मार्गे पदा पादेन स्पृष्टः कालचोदितः कालशरीरकेण दैवेन चोदितः सर्पः अदशत् ददंश । सा अम्रियत इत्यर्थतो द्रष्टव्यम् ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
तदा तदहमीशस्य भक्तानां शमभीप्सतः।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम्॥
अनुवाद (हिन्दी)
मैंने समझा, भक्तोंका मंगल चाहनेवाले भगवान्का यह भी एक अनुग्रह ही है। इसके बाद मैं उत्तर दिशाकी ओर चल पड़ा॥ १०॥
वीरराघवः
तदाऽहं तन्मरणं भक्तानां शं सुखमभीप्सतः कामयमानस्य ईशस्य भगवतोऽनुग्रहरूपं मन्यमानः उत्तरां दिशं प्रति प्रातिष्ठं प्रस्थितवानस्मि ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्।
खेटखर्वटवाटीश्च वनान्युपवनानि च॥
मूलम्
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्।
खे12टखर्वटवाटीश्च वनान्युपवनानि च॥ ११ ॥
वीरराघवः
तत्र प्रस्थाने स्फीतान् समृद्धान् जनपदान् देशान् द्वितीयान्तानामतियात इत्युपरिष्टादन्वयः । पुराणि पट्टणानि ग्रामान् अ2ट्टरहितान् व्रजान् गोपालनिवासान् आकरान् रत्नाद्युत्पत्तिस्थानानि खेटान् कृषीवलग्रामान् खर्वटान् निषादादिग्रामान् वाटीः पुष्पवाटिकाः वनानि अरण्यरूपाणि उपवनानि कृत्रिमवनानि च ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्।
जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः॥
मूलम्
चि13त्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्।
जलाशयाञ्छिवजलान्नलिनीस्सुरसेविताः॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः।
नलवेणुशरस्तम्बकुशकीचकगह्वरम्*॥
वीरराघवः
तथा चित्रैः नानाविधैः धातुभिः गैरिकादिभिः विचित्रानद्रीन् पर्वतान् इभैर्गजैर्भग्नाः भि16न्नाः भुजाः शाखा येषां तान् द्रुमान्, शिवानि विशुद्धानि जलानि येषु तान् जलाशयान् सरांसि, तथा सुरैस्सेविताः क्रीडिताः नलिनीः पद्माकरान् कथम्भूताः चित्राः नानाविधाः स्वना येषां तैः, पत्ररथैः पत्राणि तद्रूपात्मकाः पक्षा रथाः रथवत् गमनसाधनानि येषां तैरित्यर्थः। पक्षिभिः सङ्कुला इति शेषः । भ्रमद्भिः भ्रमरैः श्रीः शोभा यासां ताः ॥ १२, १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
एक एवातियातोऽहमद्राक्षं विपिनं महत्।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्॥
मूलम्
एक एवाति17यातोऽहमद्राक्षं विपिनं महत्।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्॥ १४ ॥
अनुवाद (हिन्दी)
उस ओर मार्गमें मुझे अनेकों धन-धान्यसे सम्पन्न देश, नगर, गाँव, अहीरोंकी चलती-फिरती बस्तियाँ, खानें, खेड़े, नदी और पर्वतोंके तटवर्ती पड़ाव, वाटिकाएँ, वन-उपवन और रंग-बिरंगी धातुओंसे युक्त विचित्र पर्वत दिखायी पड़े। कहीं-कहीं जंगली वृक्ष थे, जिनकी बड़ी-बड़ी शाखाएँ हाथियोंने तोड़ डाली थीं। शीतल जलसे भरे हुए जलाशय थे, जिनमें देवताओंके काममें आनेवाले कमल थे; उनपर पक्षी तरह-तरहकी बोली बोल रहे थे और भौंरे मँडरा रहे थे। यह सब देखता हुआ मैं आगे बढ़ा। मैं अकेला ही था। इतना लम्बा मार्ग तै करनेपर मैंने एक घोर गहन जंगल देखा। उसमें नरकट, बाँस, सेंठा, कुश, कीचक आदि खड़े थे। उसकी लम्बाई-चौड़ाई भी बहुत थी और वह साँप, उल्लू, स्यार आदि भयंकर जीवोंका घर हो रहा था। देखनेमें बड़ा भयावना लगता था॥ ११—१४॥
वीरराघवः
अतियातोऽतिक्रान्तः एकोऽसहाय एवाहं नलादिभिर्गह्वरं महद्विपिनं वनम् अद्राक्षं दृष्टवानस्मि । तत्र नलो ग्रन्थिपर्णी, वेणवः स्थूलवंशाः । सशब्दा: कीचकाः । सूक्ष्माः सचित्राः शरस्तम्बाः अश्ववालाः । कुशाः प्रसिद्धाः । विपिनमेव विशिनष्टि । घोरमुग्रं दुष्प्रवेशम् । अत एव व्यालानां दृष्टगजानां अजगराख्यस18र्पविशेषाणां वा उलूकानां घू19कानां शिवानां शृगालविशेषाणां च अजिरं क्रीडास्थानम् । अतीव प्रतिभयाकारं प्रतिमुखं गच्छतां भयापादकम् ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः॥
मूलम्
परिश्रान्तेन्द्रियात्माऽहं तृट्परीतो बुभुक्षितः।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः॥ १५ ॥
अनुवाद (हिन्दी)
चलते-चलते मेरा शरीर और इन्द्रियाँ शिथिल हो गयीं। मुझे बड़े जोरकी प्यास लगी, भूखा तो था ही। वहाँ एक नदी मिली। उसके कुण्डमें मैंने स्नान, जलपान और आचमन किया। इससे मेरी थकावट मिट गयी॥ १५॥
वीरराघवः
तत्राहं परिश्रान्तानि इन्द्रियाणि आत्मा देहश्च यस्य । तृषा पिपासया परीतः व्याप्तः बुभुक्षितः क्षुधितश्च नद्याः ह्रदे स्नात्वा उपस्पृष्टः कर्तरि क्तः आचान्तः । पीत्वा जलमिति शेषः । गतः श्रमो यस्य तथाभूतः ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थितः।
आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम्॥
मूलम्
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थि20तः।
आत्मनाऽऽत्मानमात्मस्थं यथाश्रुतमचिन्तयम्॥ १६ ॥
अनुवाद (हिन्दी)
उस विजन वनमें एक पीपलके नीचे आसन लगाकर मैं बैठ गया। उन महात्माओंसे जैसा मैंने सुना था, हृदयमें रहनेवाले परमात्माके उसी स्वरूपका मैं मन-ही-मन ध्यान करने लगा॥ १६॥
वीरराघवः
तस्मिन्निर्मनुजेऽरण्ये पिप्पलस्य अश्वत्थस्य उपस्थे मूले आश्रितः उपविष्टः । आत्मस्थं जीवात्मनि स्थितं, हृदयकमलस्थं वा आत्मानं परमात्मानं आत्मना मनसा अचिन्तयम् ध्यातवानस्मि ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः॥
मूलम्
ध्यायतश्चरणाम्भोजं भावनि21र्जितचेतसा।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः॥ १७ ॥
अनुवाद (हिन्दी)
भक्तिभावसे वशीकृत चित्तद्वारा भगवान्के चरण-कमलोंका ध्यान करते ही भगवत्-प्राप्तिकी उत्कट लालसासे मेरे नेत्रोंमें आँसू छलछला आये और हृदयमें धीरे-धीरे भगवान् प्रकट हो गये॥ १७॥
वीरराघवः
भावनिर्जितेन अभ्यासवशीकृतेन चेतसा चरणाम्भोजं ध्यायतः चिन्तयतः औत्कण्ठयात् प्रेमपूर्वकानुध्ययानाद्धेतोः अश्रूणामानन्दजनेत्रजलानां कला बिन्दवो ययोस्ते अक्षिणी यस्य तस्य मे मम हृदि शनैः हरिरासीत् आविरासीत् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने॥
मूलम्
प्रेमातिभ22रनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने॥ १८ ॥
अनुवाद (हिन्दी)
व्यासजी! उस समय प्रेमभावके अत्यन्त उद्रेकसे मेरा रोम-रोम पुलकित हो उठा। हृदय अत्यन्त शान्त और शीतल हो गया। उस आनन्दकी बाढ़में मैं ऐसा डूब गया कि मुझे अपना और ध्येय वस्तुका तनिक भी भान न रहा॥ १८॥
वीरराघवः
तदा प्रेमाधिक्येन हेतुना निर्भिन्नाः अभिव्यक्ताः पुलकाः रोमाञ्चाः यस्मिंस्तदङ्गं शरीरं यस्य सः, अतीव निर्वृतः सुखितः । आनन्दसम्प्लवे आनन्दप्र23वाहे लीनो मतः । हे मुने! उभयं देहमात्मानं च नापश्यम् न दृष्टवानस्मि ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
रूपं भगवतो यत्तन्मनःकान्तं शुचापहम्।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव॥
अनुवाद (हिन्दी)
भगवान्का वह अनिर्वचनीय रूप समस्त शोकोंका नाश करनेवाला और मनके लिये अत्यन्त लुभावना था। सहसा उसे न देख मैं बहुत ही विकल हो गया और अनमना-सा होकर आसनसे उठ खड़ा हुआ॥ १९॥
वीरराघवः
यदाविर्भूतं मनःकान्तं मनसोऽतीव प्रियम्, अत एव शुचापहं शुचायाः शोकस्यापहन्तृ भगवतो रूपं तत् पुनरपश्यन् वैक्लव्यात् अदर्शनकृतात् अधार्ष्ट्यात् दुःखितमनाः सहसा आशु उत्तस्थौ उत्थितवानस्मि । कैवल्यादिति पाठान्तरम्, तदाऽसहायत्वात् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः॥
मूलम्
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः॥ २० ॥
अनुवाद (हिन्दी)
मैंने उस स्वरूपका दर्शन फिर करना चाहा; किन्तु मनको हृदयमें समाहित करके बार-बार दर्शनकी चेष्टा करनेपर भी मैं उसे नहीं देख सका। मैं अतृप्तके समान आतुर हो उठा॥ २०॥
वीरराघवः
तद्रूपं भूयः पुनः द्रष्टुमिच्छुरहं हृदि मनः प्रणिधाय स्थिरीकृत्य वीक्षमाणः चिन्तयन्नपि नापश्यम् । अत एवातुर इव विषयातुर इव वितृप्तोऽभवमिति ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
एवं यतन्तं विजने मामाहागोचरो गिराम्।
गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव॥
अनुवाद (हिन्दी)
इस प्रकार निर्जन वनमें मुझे प्रयत्न करते देख स्वयं भगवान् ने, जो वाणीके विषय नहीं हैं, बड़ी गंभीर और मधुर वाणीसे मेरे शोकको शान्त करते हुए-से कहा॥ २१॥
वीरराघवः
एवं द्रष्टुं पुनःपुनः यतन्तं यत्नं कुर्वन्तं मामुद्दिश्य गिरामगोचरः “यतो वाचो निवर्तन्ते” (तैत्ति. उ. 2-4-5) इत्युक्तरीत्या वागविषयः, अपरिच्छेद्यत्वादिति भावः । अदृश्यस्सन् इति तात्पर्यम् । भगवान् इति विशेष्यमध्याहर्तव्यम् । गगने गम्भीरया वाचा शुचः शोकान् प्रशमयन्निवाऽऽह ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम्॥
मूलम्
हन्तास्मिन् जन्मनि भवान् 29मा मां30 द्रष्टुमिहार्हति।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम्॥ २२ ॥
अनुवाद (हिन्दी)
‘खेद है कि इस जन्ममें तुम मेरा दर्शन नहीं कर सकोगे। जिनकी वासनाएँ पूर्णतया शान्त नहीं हो गयीं हैं, उन अधकचरे योगियोंको मेरा दर्शन अत्यन्त दुर्लभ है॥ २२॥
वीरराघवः
उक्ति31मेवाऽऽह - हन्तेति चतुर्भिः । इह लोके अस्मिन् जन्मनि भवान् मां द्रष्टुं माऽर्हति नार्हतीति, माशब्दोऽयं नञ्पर्यायः । अतो “माङि लुङ्” (अष्टा. 3-3-175) इति लुङभावः । दर्शनानर्हत्वे हेतुं वदन् आत्मानं विशिनष्टि । अविपक्वोऽविनष्टः क32षायः दर्शनप्रतिबन्धकः पुण्यपापात्मकः कषायः कषायवत् दुरपनेयः कर्मोपाधिः येषां तेषां कुयोगिनामहं दुर्दर्शः दुःखेनापि द्रष्टुमशक्यः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
सकृद् यद् दर्शितं रूपमेतत्कामाय तेऽनघ।
मत्कामः शनकैः साधुः सर्वान्मुञ्चति हृच्छयान्॥
अनुवाद (हिन्दी)
निष्पाप बालक! तुम्हारे हृदयमें मुझे प्राप्त करनेकी लालसा जाग्रत् करनेके लिये ही मैंने एक बार तुम्हें अपने रूपकी झलक दिखायी है। मुझे प्राप्त करनेकी आकांक्षासे युक्त साधक धीरे-धीरे हृदयकी सम्पूर्ण वासनाओंका भलीभाँति त्याग कर देता है॥ २३॥
वीरराघवः
तर्हि सकृत् कथं दृष्टोऽसीत्यत्र आह - सकृदिति । हे अनघ! सकृद्रूपं मदीयं दर्शितमिति यत् तत्तव मत्कामाय मद्विषयकदिदृक्षायै । एतत् कामय ते इति पाठान्तरम् । तत्र ते तुभ्यं सकृद्दर्शितं रूपं एतत्कामय, द्रष्टुमिति शेषः । निवृत्तप्रेरणात् स्वार्थे36 णिजन्तात् कमेर्हेतुमण्णिचि, “णिचश्च” (अष्टा. 1-3-74) इति वैकल्पिकं परस्मैपदम् । किं काममात्रेणेत्यत आह मकामः मां द्रष्टुं कामयमानः साधुः साधुचरितः पुमान् शनैः सर्वान् हृच्छ्र37यान् हृद्गतान् रागादिदोषान् मुञ्चति निरस्यति ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
सत्सेवया दीर्घया ते जाता मयि दृढा मतिः।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि॥
अनुवाद (हिन्दी)
अल्पकालीन संतसेवासे ही तुम्हारी चित्तवृत्ति मुझमें स्थिर हो गयी है। अब तुम इस प्राकृतमलिन शरीरको छोड़कर मेरे पार्षद हो जाओगे॥ २४॥
वीरराघवः
यतः ते तव अदीर्घया अल्पकालिक्यै40व सतां सेवया मयि दृढा मतिः जाता 41ततः त्वमिममवद्यम्, लोक्यत इति लोको देहः तं शूद्रदेहमित्यर्थः । हित्वा त्यक्त्वा मज्जनतां मद्भृत्यतां गन्ता गमिष्यसि कल्पान्तरे इति शेषः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात्॥
मूलम्
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात्॥ २५ ॥
अनुवाद (हिन्दी)
मुझे प्राप्त करनेका तुम्हारा यह दृढ़ निश्चय कभी किसी प्रकार नहीं टूटेगा। समस्त सृष्टिका प्रलय हो जानेपर भी मेरी कृपासे तुम्हें मेरी स्मृति बनी रहेगी’॥ २५॥
वीरराघवः
मदनुग्रहाद्धेतोः कर्हिचित् प्रजासर्गनिरोधे प्रलयकालेऽपि त42व मयि निबद्धा निश्चितेयं मतिः स्मृतिश्च न विपद्येत न नश्येत्43 । कर्हिचिन्मयि निबद्धा मतिः प्रजासर्गनिरोधेऽपि म44यि स्मृतिश्च न विपद्येत इति वाऽन्वयः ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
एतावदुक्त्वोपरराम तन्महद्
भूतं नभोलिङ्गमलिङ्गमीश्वरम्।
अहं च तस्मै महतां महीयसे
शीर्ष्णावनामं विदधेऽनुकम्पितः॥
मूलम्
एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमी45श्वरम्।
अहं च तस्मै महतां महीयसे शीर्ष्णा46वनामं विदधेऽनुकम्पितः॥ २६ ॥
अनुवाद (हिन्दी)
आकाशके समान अव्यक्त सर्वशक्तिमान् महान् परमात्मा इतना कहकर चुप हो रहे। उनकी इस कृपाका अनुभव करके मैंने उन श्रेष्ठोंसे भी श्रेष्ठतर भगवान्को सिर झुकाकर प्रणाम किया॥ २६॥
वीरराघवः
अलिङ्गं कर्मकृ47तदेहरहितं नभोलिङ्गम् आकाशशरीरकम् ईश्वरं सर्वनियन्तृ । ऐश्वरमिति पाठे ईश्वरशब्दवाच्यं तन्महत् सर्वव्यापकं भूतं स्वाधीनस48त्तादिमत् ब्रह्म “तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम्” (सुबा. उ. 2-1) इति श्रुतेः । एतावदुक्त्वा विरराम तूष्णीमास । ततो महतां तेजस्विनामपि महीयसे तस्मै महते भूताय तेनानुकम्पितोऽहमवनामं प्रणामं विदधे कृतवानस्मि ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
नामान्यनन्तस्य हतत्रपः पठन्
गुह्यानि भद्राणि कृतानि च स्मरन्।
गां पर्यटंस्तुष्टमना गतस्पृहः
कालं प्रतीक्षन् विमदो विमत्सरः॥
मूलम्
नामान्यनन्तस्य ह49तत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन्।
गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् वि50मदो विमत्सरः॥ २७ ॥
अनुवाद (हिन्दी)
तभीसे मैं लज्जा-संकोच छोड़कर भगवान्के अत्यन्त रहस्यमय और मंगलमय मधुर नामों और लीलाओंका कीर्तन और स्मरण करने लगा। स्पृहा और मद-मत्सर मेरे हृदयसे पहले ही निवृत्त हो चुके थे, अब मैं आनन्दसे कालकी प्रतीक्षा करता हुआ पृथ्वीपर विचरने लगा॥ २७॥
वीरराघवः
ततोऽनन्तस्य भगवतो नामान्यहं गतलज्जः पठन् भद्राणि लोकानां मङ्गलावहानि गुह्यानि वेदगुह्यानि जन्मानि कर्माणि च स्मरन् गां भूमिं पर्यटन् तुष्टं मनो यस्य, गता स्पृहा शब्दादिविषया यस्य, विगतो मत्सरो भूतविषयको यस्य, विगतः मदो देहपारवश्यरूपो यस्य सः । अपद इति पाठे अनिकेतः । कालं देहावसानकालं प्रतीक्षन्, आसमिति क्रियापदम् अध्याहार्यम् । यावत् कल्पावसानं जीवितवानस्मीत्यर्थः ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एवं कृष्णमतेर्ब्रह्मन्नसक्तस्यामलात्मनः।
कालः प्रादुरभूत्काले तडित्सौदामनी यथा॥
अनुवाद (हिन्दी)
व्यासजी! इस प्रकार भगवान्की कृपासे मेरा हृदय शुद्ध हो गया, आसक्ति मिट गयी और मैं श्रीकृष्णपरायण हो गया। कुछ समय बाद, जैसे एकाएक बिजली कौंध जाती है, वैसे ही अपने समयपर मेरी मृत्यु आ गयी॥ २८॥
वीरराघवः
हे ब्रह्मन् ! कृष्णे भगवत्येव मतिः यस्य, अत एवामलो विशुद्धः आत्मा मनो यस्य, अत एव शब्दादिविषयेषु असक्तस्य मम काले त53द्देहारम्भकप्रारब्धावसानकाले कालः मृत्युकालः प्रादुरभूदुपस्थितो बभूव । मृत्युकालस्य क्षणिकत्वद्योतनाय दृष्टान्तमाह - सौदामनी सुदाम्नः पर्वतस्य अदूरभवा सौदामनी चातुरर्थिके54ऽणि “अन्” (अष्टा. 6-4-167) इति प्रकृतिभावे अ55ण्णन्तत्वात् ङीप् । सौदामिनी इत्यपपाठः ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम्।
आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः॥
अनुवाद (हिन्दी)
मुझे शुद्ध भगवत्पार्षद-शरीर प्राप्त होनेका अवसर आनेपर प्रारब्धकर्म समाप्त हो जानेके कारण पांचभौतिक शरीर नष्ट हो गया॥ २९॥
वीरराघवः
तदा तां प्रसिद्धां सर्वजीवलयाधारभूतामित्यर्थः । शुद्धामप्राकृतां भागवतीम् अनिरुद्धाख्यां तनुं प्रति मयि प्रयुज्यमाने संश्लिष्यमाणे लयं प्राप्तुमुद्युक्ते सतीत्यर्थः । आरब्धकर्मनिर्वाणः तद्देहावस्थितिनिमित्तस्य प्रारब्धकर्मणः निर्वाणम् अवसानं यस्य स पाञ्चभौतिको देहो न्यपतत् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः।
शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः॥
अनुवाद (हिन्दी)
कल्पके अन्तमें जिस समय भगवान् नारायण एकार्णव (प्रलयकालीन समुद्र)-के जलमें शयन करते हैं, उस समय उनके हृदयमें शयन करनेकी इच्छासे इस सारी सृष्टिको समेटकर ब्रह्माजी जब प्रवेश करने लगे, तब उनके श्वासके साथ मैं भी उनके हृदयमें प्रवेश कर गया॥ ३०॥
वीरराघवः
एवं प्रा60कृतीयशरीरपातावधिवृत्तान्तः कथितः । अथ तदुपरितनवृत्तान्तमाह - कल्पान्त इत्यादिना । तदा कल्पान्ते इदं जगत् आदाय स्वस्मिन् प्रविलाप्य उदन्वतः प्रलयार्णवस्य अम्भसि शयाने अनिरुद्धाख्ये भगवति शिशयिषोः तन्नाभिपद्मे शिशयिषोः विभोः चतुर्मुखस्य अन्तःप्राणम् अनुविविशे अनुप्रविष्टवानस्मि । सन्नर्थस्त्वविवक्षितः ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः।
मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे॥
मूलम्
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः।
मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे॥ ३१ ॥
अनुवाद (हिन्दी)
एक सहस्र चतुर्युगी बीत जानेपर जब ब्रह्मा जगे और उन्होंने सृष्टि करनेकी इच्छा की, तब उनकी इन्द्रियोंसे मरीचि आदि ऋषियोंके साथ मैं भी प्रकट हो गया॥ ३१॥
वीरराघवः
सहस्रयुगावसाने उत्थाय नाभिकमलात् इति शेषः । इदं व्यष्ट्यात्मकं जगत् सिसृक्षोः चतुर्मुखस्य प्राणेभ्यः प्राणादिभ्यः मरीचिस61हिता ऋषयो वशिष्ठादयः अहं नारदश्च जज्ञिरे उद्बभूवुः । अहं च जज्ञे इति पुरुषविपरिणामेन अन्वयः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः।
अनुग्रहान्महाविष्णोरविघातगतिः क्वचित्॥
मूलम्
अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः।
अनुग्रहान्म62हाविष्णोर63विघातगतिः क्वचित्॥ ३२ ॥
अनुवाद (हिन्दी)
तभीसे मैं भगवान्की कृपासे वैकुण्ठादिमें और तीनों लोकोंमें बाहर और भीतर बिना रोक-टोक विचरण किया करता हूँ। मेरे जीवनका व्रत भगवद्भजन अखण्डरूपसे चलता रहता है॥ ३२॥
वीरराघवः
ततो महाविष्णोः अनुग्रहात् क्वचिदप्यविधाता अप्रतिहता गतिः यस्य अस्कन्दितम् अखण्डितं व्रतं ब्रह्मचर्यं यस्य सः अहं त्रिलोकान् अन्तर्बहिश्च पर्येमि परितः सञ्चरामि ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्॥
मूलम्
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्॥ ३३ ॥
अनुवाद (हिन्दी)
भगवान्की दी हुई इस स्वरब्रह्मसे* विभूषित वीणापर तान छेड़कर मैं उनकी लीलाओंका गान करता हुआ सारे संसारमें विचरता हूँ॥ ३३॥
पादटिप्पनी
- षड्ज, ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत और निषाद्—ये सातों स्वर ब्रह्मव्यंजक होनेके नाते ही ब्रह्मरूप कहे गये हैं।
वीरराघवः
देवेन भगवता ब्रह्मणा वा दत्ताः स्वराः निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाख्याः सप्त, ते64 एव ब्रह्म । तेन विभूषितां स्वरैः सन्निधापितेन ब्रह्मणा भगवता वा65 विभूषितामिमां पाणिस्थां वीणां मूर्छयित्वा वादयित्वा मूर्छा वीणादिवादनम् “वादने मूर्च्छना मता” इति वैजयन्तीकोशात् (3-9-131) हरिकथां गायमानोऽहम् एवं चरामि ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि॥
मूलम्
प्रगायतस्स्व66वीर्याणि तीर्थपादः प्रियश्रवाः।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि॥ ३४ ॥
अनुवाद (हिन्दी)
जब मैं उनकी लीलाओंका गान करने लगता हूँ, तब वे प्रभु, जिनके चरणकमल समस्त तीर्थोंके उद्गमस्थान हैं और जिनका यशोगान मुझे बहुत ही प्रिय लगता है, बुलाये हुएकी भाँति तुरन्त मेरे हृदयमें आकर दर्शन दे देते हैं॥ ३४॥
वीरराघवः
प्रियं भक्तानां प्रीत्यावहं श्रवः यशो यस्य । तीर्थों पवित्रौ गङ्गादितीर्थाश्रयौ वा पादौ यस्य, तीर्थं पादे यस्येति वा । स भगवान् स्ववीर्याणि यशांसि प्रगायतो मम चेतसि आहूत इव शीघ्रं दर्शनं याति दृष्टो भवतीत्यर्थः ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम्॥
मूलम्
ए67तद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः।
भवसिन्धुप्लवो 68दृष्टो हरिचर्यानुवर्णनम्॥ ३५ ॥
अनुवाद (हिन्दी)
जिन लोगोंका चित्त निरन्तर विषयभोगोंकी कामनासे आतुर हो रहा है, उनके लिये भगवान्की लीलाओंका कीर्तन संसारसागरसे पार जानेका जहाज है, यह मेरा अपना अनुभव है॥ ३५॥
वीरराघवः
तदेवमापृष्टं यथावत् अनुवर्ण्य अथ सर्वथा त्वं हरिचरित्राण्येव अनुवर्णय इत्यभिप्रायेण तापत्रयातुरजनानां भगवदुणवर्णनानुश्रवणम् अन्तरेण तापत्रयविधातुकं नोपायान्तरमस्तीत्याह - एतदिति द्वाभ्याम् । असकृत् मात्रास्पर्शेच्छया मात्राः शब्दादिविषयाः तासां स्पर्शेच्छया अनुभवतृष्णया आतुरं पीडितं चित्तं येषां तेषां जनानां भवसिन्धोः प्लवः पूरः । स हि यस्मात् कारणात् अदृष्टो नष्टो भवति, त69देतदेव किम् ? हरिचर्याया अनुवर्णनमिति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
यमादिभिर्योगपथैः कामलोभहतो मुहुः।
मुकुन्दसेवया यद्वत्तथाऽऽत्माद्धा न शाम्यति॥
मूलम्
यमादिभिर्योगपथैः70 कामलोभहतो मुहुः।
मुकुन्दसेवया यद्वत् तथाऽऽत्माऽद्धा न शाम्यति॥ ३६ ॥
अनुवाद (हिन्दी)
काम और लोभकी चोटसे बार-बार घायल हुआ हृदय श्रीकृष्णसेवासे जैसी प्रत्यक्ष शान्तिका अनुभव करता है, यम-नियम आदि योगमार्गोंसे वैसी शान्ति नहीं मिल सकती॥ ३६॥
वीरराघवः
मुहुः कामलोभाभ्यां हत आत्मा मनः यद्वत् यथा मुकुन्दसेवया गुणानुश्रवणादिरूपया अद्धा स्फुटं शाम्यति कामादिरहितो भवति, तथा यमादिभिः योगमार्गैः न शाम्यति ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम्॥
मूलम्
सर्वं तदिदमाख्यातं यत् पृष्टोऽहं त्वयानघ!
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम्॥ ३७ ॥
अनुवाद (हिन्दी)
व्यासजी! आप निष्पाप हैं। आपने मुझसे जो कुछ पूछा था, वह सब अपने जन्म और साधनाका रहस्य तथा आपकी आत्मतुष्टिका उपाय मैंने बतला दिया॥ ३७॥
वीरराघवः
प्रश्नस्य उत्तरमुपसंहरति - सर्वमिति । हे अनघ! त्वया अहं यत् प्रतिपृष्टः तदेतत् सर्वमाख्यातम् । आख्यातमेव सङ्गृह्य दर्शयति । मे मम जन्मकर्मणोः रहस्यं तथा भवतः तव आत्मा मनः तुष्यते येन, तच्च तत्सर्वम् आख्यातमित्यन्वयः ॥ ३७ ॥
श्लोक-३८
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
एवं सम्भाष्य भगवान्नारदो वासवीसुतम्।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः॥
मूलम्
एवं सम्भाष्य भगवान् नारदो वासवीसुतम्।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मु71निः॥ ३८ ॥
अनुवाद (हिन्दी)
श्रीसूतजी कहते हैं—शौनकादि ऋषियो! देवर्षि नारदने व्यासजीसे इस प्रकार कहकर जानेकी अनुमति ली और वीणा बजाते हुए स्वच्छन्द विचरण करनेके लिये वे चल पड़े॥ ३८॥
वीरराघवः
व्यासनारदसंवादमुपसंहरति सूतः एवमिति । एवम् इत्थं सम्भाष्य भगवान् नारदो मुनिः वासवीसुतम् उपरिचरवसुवीर्यजायाः सत्यवत्याः सुतं व्यासं आमन्त्र्य आपृच्छ्य, वीणां रणयन् ध्व72नयन् यादृच्छिकः स्वेच्छानुचारी ययौ ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः।
गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत्॥
मूलम्
अहो देवर्षिर्धन्योऽयं य73त् कीर्तिं शार्ङ्गधन्वनः।
गायन् मा74द्यन्निदं तन्त्र्या रमयत्यातुरं जगत्॥ ३९ ॥
अनुवाद (हिन्दी)
अहा! ये देवर्षि नारद धन्य हैं; क्योंकि ये शार्ङ्गपाणि भगवान्की कीर्तिको अपनी वीणापर गा-गाकर स्वयं तो आनन्दमग्न होते ही हैं, साथ-साथ इस त्रितापतप्त जगत्को भी आनन्दित करते रहते हैं॥ ३९॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः॥ ६॥
वीरराघवः
देवर्षिं स्तौति - अहो इति । धन्यत्वं स्वस्य परस्य च सुखापादकत्वम् । तदेवाऽऽह यो देवर्षिः शार्ङ्गधन्वनो भगवतः कीर्तिं गायन तन्त्र्या वीणया माद्यन् मदं प्राप्नुवन् स्वयं वीणास्वनजहर्षमग्नस्सन् इत्यर्थः ; आतुरं तापत्रयातुरं जगदपि रमयति सुखयति ॥ ३९ ॥ इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां श्रीभागवतचन्द्रचन्द्रिकायां व्याख्यायां षष्ठोऽध्यायः ॥ ६ ॥
-
K,M वे ↩︎
-
I,W मुनि ↩︎
-
H,K,M,V व ↩︎
-
H,V दा ↩︎
-
H,K,V रिषम्; W र्षम् ↩︎
-
H,V ल्या ↩︎
-
H,V उ ↩︎
-
B,N,W वे ↩︎
-
B,K,M स ↩︎
-
K,M प्सितम् ↩︎
-
H,V खेटान् खर्पट ; K,M खेटान् पट्टण ↩︎
-
K,M विचित्रधातुचित्रा ↩︎
-
AF, GF रत्नरेणु ↩︎
-
AF, GF मस्करी ↩︎
-
A,B विच्छिन्नाः ↩︎
-
AF, GF भि ↩︎
-
A,B सर्पाणां ↩︎
-
A,B omit घूकानां ↩︎
-
B,H,I,K,M,V,W श्रि ↩︎
-
K,M निर्वृतचेतसः ↩︎
-
W शय ↩︎
-
W परीवाहे ↩︎
-
K,M सुखावहम् ↩︎
-
A,B,G,I,N स्थे ↩︎
-
K,M कैवल्या ↩︎
-
K,M प ↩︎
-
H,V पि ↩︎
-
K,M न ↩︎
-
B,H,N,V मा ↩︎
-
A,B क्त ↩︎
-
A omits कषायः ↩︎
-
W रूपं मत्कामाय तवानघ! ↩︎
-
A,B,N धुः ↩︎
-
W च्छ्र ↩︎
-
A,B र्थणि ↩︎
-
A,B च्छ ↩︎
-
G,H,K,M दीर्घया ↩︎
-
B,I ऽपि; K.M वै ↩︎
-
A,B कयैव ↩︎
-
A,B तस्मादिम ↩︎
-
A omits तव ↩︎
-
A,B त ↩︎
-
A,B omit मयि ↩︎
-
H,V मै ↩︎
-
W र्षा ↩︎
-
A,B omit कृत ↩︎
-
A,B समाधिकरहितं महद्ब्रह्म ↩︎
-
H,K,M,V,W ग ↩︎
-
K,M अ! पटो ; AF, GF अमदो ; WF अपदो ↩︎
-
AF, GF विद्युत्सौ, H,V,W तटित्सौ ↩︎
-
K,M मि ↩︎
-
A,B देह्य ↩︎
-
A,B कोऽण् ↩︎
-
A,B नान्तत्वात् ↩︎
-
K,M एवं मयि प्रयुञ्जाने ↩︎
-
H,K,M,V प्रा ↩︎
-
K,M ष्णो ↩︎
-
K,M विवेशा ↩︎
-
W प्राक्वल्पीयवृत्तान्तः ↩︎
-
A,B मिश्रा ↩︎
-
AF, GF दहं ↩︎
-
H,V रव्याहत ↩︎
-
A omits ते ↩︎
-
A,B omit वा ↩︎
-
K,M,W श्च ↩︎
-
H,K,M,V एतदातुर ↩︎
-
‘अदृष्ट’ इति पाठ: वीरराघवव्याख्यानुसारी ↩︎
-
A,B तदेव ↩︎
-
H,V दै: ↩︎
-
K,M यतिः ↩︎
-
A,B omit ध्वनयन् ↩︎
-
H,K,M,V,W यः की ↩︎
-
K,M माध्व्या गिरा ; H,V माद्यन् गिरा ↩︎