०५

[पञ्चमोऽध्यायः]

भागसूचना

भगवान‍्के यश-कीर्तनकी महिमा और देवर्षि नारदजीका पूर्वचरित्र

श्लोक-१

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव॥

मूलम्

अथ तं सुखमासीनं1 उपासीनं बृहच्छ्रवाः।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव॥ १ ॥

अनुवाद (हिन्दी)

सूतजी कहते हैं—तदनन्तर सुखपूर्वक बैठे हुए वीणापाणि परम यशस्वी देवर्षि नारदने मुसकराकर अपने पास ही बैठे ब्रह्मर्षि व्यासजीसे कहा॥ १॥

वीरराघवः

अथ यथावत् पूजानन्तरं सुखं आसीनः बृहत् श्रवः कीर्तिः यस्य । वीणा पाणौ यस्य स देवर्षिः नारदः स्मयन्निव स्वाज्ञया उपासीनं उपविष्टं विप्रर्षिं व्यासं प्राह ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

नारद उवाच

विश्वास-प्रस्तुतिः

पाराशर्य महाभाग भवतः कच्चिदात्मना।
परितुष्यति शारीर आत्मा मानस एव वा॥

मूलम्

पाराशर्य! महाभाग! भवतः कच्चिदात्मना।
परितुष्यति शारीर आत्मा मानस एव वा॥ २ ॥

अनुवाद (हिन्दी)

नारदजीने प्रश्न किया—महाभाग व्यासजी! आपके शरीर एवं मन—दोनों ही अपने कर्म एवं चिन्तनसे सन्तुष्ट हैं न? ॥ २॥

वीरराघवः

तदेवाह पाराशर्य इति त्रिभिः । असन्तोषमालक्ष्य आह-कच्चिदिति इष्टप्रश्ने हे पाराशर्य! हे महाभाग! 2भवतः 3स्वात्मना स्वयं शारीर आत्मा क्षेत्रज्ञः मानसः मनस्सम्बन्धी मनःकरणकः समनस्क इति यावत् 4परितुष्यत्येव हि कच्चित् ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

जिज्ञासितं सुसम्पन्नमपि ते महदद‍्भुतम्।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम्॥

मूलम्

जिज्ञासितं सुसम्पन्नमपि ते महदद‍्भुतम्।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम्॥ ३ ॥

अनुवाद (हिन्दी)

अवश्य ही आपकी जिज्ञासा तो भलीभाँति पूर्ण हो गयी है; क्योंकि आपने जो यह महाभारतकी रचना की है, वह बड़ी ही अद‍्भुत है। वह धर्म आदि सभी पुरुषार्थोंसे परिपूर्ण है॥ ३॥

वीरराघवः

ते त्वया जिज्ञासितं ज्ञातुमिष्टं सर्वं सुसम्पन्नमपि ? अपिशब्दः प्रश्नद्योतकः, ज्ञातमेव हि इत्यर्थः । पद-गतौ, गत्यर्थाः बुद्ध्यर्थाः । यत् यस्मात् सर्वार्थैः परिबृंहितं, सर्वार्थाः परिबृंहिताः उपबृंहिताः येन तत् इति वा । अत एव महत् विपुलं अत्यद्भुतं शब्दतः अर्थतश्च चित्रं भारतं कृतवान् । अतः सुसम्पन्नं जिज्ञासितमिति भावः ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

जिज्ञासितमधीतं च यत्तद‍्ब्रह्म सनातनम्।
अथापि शोचस्यात्मानमकृतार्थ इव प्रभो॥

मूलम्

जिज्ञासितमधीतञ्च यत्तद‍् ब्रह्म सनातनम्।
5थापि शोचस्यात्मानमकृतार्थ इव प्रभो॥ ४ ॥

अनुवाद (हिन्दी)

सनातन ब्रह्मतत्त्वको भी आपने खूब विचारा है और जान भी लिया है। फिर भी प्रभु! आप अकृतार्थपुरुषके समान अपने विषयमें शोक क्यों कर रहे हैं?॥ ४॥

वीरराघवः

किञ्च जिज्ञासितमिति यत् सनातनं अनादिनिधनाविच्छिन्नसम्प्रदायं ब्रह्म वेदः तदधीतं जिज्ञासितं च, सन्नर्थस्त्वविवक्षितः, विचारितमिति वा । पूर्वोत्तरमीमांसयोः प्रणायनप्रणयनाभ्यामिति भावः । तथापि एवं कृतकृत्योऽपि त्वमकृतार्थः अकृतकृत्यः इव हे प्रभो! शोचसि शोचन्निव लक्ष्यसे इत्यर्थः ॥ ४ ॥

श्लोक-५

मूलम् (वचनम्)

व्यास उवाच

विश्वास-प्रस्तुतिः

अस्त्येव मे सर्वमिदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे त्वाऽऽत्मभवात्मभूतम्॥

मूलम्

अस्त्येव मे सर्वमिदं त्वयोक्तम् तथापि नाऽऽत्मा परितुष्यते मे।
तन्मूलमव्यक्तमगाधबोधम् पृच्छामहे त्वाऽऽत्मभवात्मभूतम्॥ ५ ॥

अनुवाद (हिन्दी)

व्यासजीने कहा—आपने मेरे विषयमें जो कुछ कहा है, वह सब ठीक ही है। वैसा होनेपर भी मेरा हृदय सन्तुष्ट नहीं है। पता नहीं, इसका क्या कारण है। आपका ज्ञान अगाध है। आप साक्षात् ब्रह्माजीके मानसपुत्र हैं। इसलिये मैं आपसे ही इसका कारण पूछता हूँ॥ ५॥

वीरराघवः

एवमापृष्टः आह व्यासः अस्ति इत्यादिभिः त्रिभिः । त्वयोक्तं सर्वमिदं “जिज्ञासितं सुसम्पन्नं" इत्यादिनोक्तं मम अस्त्येव, तथापि मम आत्मा न परितुष्यते । तस्य असन्तोषस्य मूलं निमित्तं, अव्यक्तं न मया ज्ञातम् । अतः त्वामेव अगाधबोधं अपारज्ञानं सर्वज्ञमिति यावत् । आत्मभवः ब्रह्मा तस्य आत्मनः शरीरात् उत्सङ्गात् उद्भूतं पृच्छामहे ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

स वै भवान् वेद समस्तगुह्य-
मुपासितो यत्पुरुषः पुराणः।
परावरेशो मनसैव विश्वं
सृजत्यवत्यत्ति गुणैरसङ्गः॥

मूलम्

स वै भवान् वेद समस्तगुह्यम् उपासितो य6त्पुरुषः पुराणः।
7रावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः॥ ६ ॥

अनुवाद (हिन्दी)

नारदजी! आप समस्त गोपनीय रहस्योंको जानते हैं; क्योंकि आपने उन पुराणपुरुषकी उपासना की है, जो प्रकृति-पुरुष दोनोंके स्वामी हैं और असंग रहते हुए ही अपने संकल्पमात्रसे गुणोंके द्वारा संसारकी सृष्टि, स्थिति और प्रलय करते रहते हैं॥ ६॥

वीरराघवः

नाहं जानामीति मावोचः, इत्यभिप्रायेणाह - स वा इति । सः वै ज्ञानिनां अग्रणीः 8भवान् समस्तं गुह्यं देहिनां अन्तर्गतं वेद जानाति । कुतः ? यत् यस्मात् त्वया पुराणः पुरुषः सर्वजगत्कारणभूतः सर्वज्ञः परमपुरुषः उपासितः । कथं परमपुरुषोपासनमात्रेणाहं जानीयाम् इत्यत्राह परावरेशः परे ब्रह्मादयः अवरे यस्मात् स च असौ ईशः सर्वनियन्ता भगवान् मनसैव सङ्कल्पमात्रेणैव विश्वं सृजत्यवत्यत्ति संहरति च । अथापि गुणैः सत्त्वादिभिः न सज्यते इत्यसङ्गः । स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य 9सर्वनियन्तुः सर्वप्राण्यन्तर्गतवस्तुवेदित्वात् यथाक्रतुरस्मिन् लोके पुरुषः भवतीति न्यायेन ईश्वरवत् सर्वमुक्तप्रायः त्वमपि जानास्येव इति भावः ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

त्वं पर्यटन्नर्क इव त्रिलोकी-
मन्तश्चरो वायुरिवात्मसाक्षी।
परावरे ब्रह्मणि धर्मतो व्रतैः
स्नातस्य मे न्यूनमलं विचक्ष्व॥

मूलम्

त्वं पर्यटन्नर्क इव त्रिलोकी् अन्तश्चरो वायुरिवाऽऽत्मसाक्षी।
10रावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व॥ ७ ॥

अनुवाद (हिन्दी)

आप सूर्यकी भाँति तीनों लोकोंमें भ्रमण करते रहते हैं और योगबलसे प्राणवायुके समान सबके भीतर रहकर अन्तःकरणोंके साक्षी भी हैं। योगानुष्ठान और नियमोंके द्वारा परब्रह्म और शब्दब्रह्म दोनोंकी पूर्ण प्राप्ति कर लेनेपर भी मुझमें जो बड़ी कमी है, उसे आप कृपा करके बतलाइये॥ ७॥

वीरराघवः

एतदेव उपपादयन् असन्तोषनिमित्तं वद इत्याह - त्वम् इति । त्वं अर्कः सूर्य इव त्रिलोकीं पर्यटन् बहिष्ठवस्तुद्रष्टा, वायुरिव अन्तश्चरः ज्ञानव्याप्त्या सर्वेषामन्तश्चरन् आत्मसाक्षी आत्मनः अन्तःकरणस्य साक्षी सा11क्षात् द्रष्टा हृद्गतार्थवेदीत्यर्थः । अतः, परं च अवरं च तयोः समाहारः तस्मिन् ब्रह्मणि परे ब्रह्मणि तदावेदके वेदाख्ये ब्रह्मणि च विषये धर्मतः निवृत्तिधर्मैः व्रतैः काण्डव्रतादिभिश्च स्नातस्य पारङ्गतस्य समाप्तधर्मव्रतस्य इत्यर्थः । मम न्यूनं असन्तोषरूपं अलं विचक्ष्व । न्यूनशब्दस्तद्धेतावुपचाराद्वर्तते । न्यूनहेतुं विचक्ष्व । चक्षिः दर्शनेऽपि वर्तते । पश्य आलोचय इत्यर्थः । अलं द्रष्टुं समर्थः त्वम् । यद्वा न्यूनमिति भावप्रधानो निर्देशः । अलं अधिकं न्यूनं न्यूनत्वं विचक्ष्व । अथवा चक्षिः भाषणार्थः एव न्यूनताहेतुं विचक्ष्व इत्यर्थः । इत्थं प्रचोदित आह भगवान् नारदः यावदध्यायसमाप्ति ॥ ७ ॥

श्लोक-८

मूलम् (वचनम्)

श्रीनारद उवाच

विश्वास-प्रस्तुतिः

भवतानुदितप्रायं यशो भगवतोऽमलम्।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम्॥

मूलम्

भवताऽनुदितप्रायं यशो भगवतोऽमलम्।
येनैवासौ न तुष्ये12त मन्ये तद्दर्शनं खिलम्॥ ८ ॥

अनुवाद (हिन्दी)

नारदजीने कहा—व्यासजी! आपने भगवान‍्के निर्मल यशका गान प्रायः नहीं किया। मेरी ऐसी मान्यता है कि जिससे भगवान् संतुष्ट नहीं होते, वह शास्त्र या ज्ञान अधूरा है॥ ८॥

वीरराघवः

“किं वा भागवता धर्मा न प्रायेण निरूपिताः” (भाग 1-4-31) इति तदुत्प्रेक्षितमेव तावत् असन्तोषहेतुमाह - भवता इति द्वाभ्याम् । अमलं शृण्वतां वदतां च अखिलदुरितापहं भगवतः यशः भवता अनुदितप्रायं प्रायेण अवर्णितमित्यर्थः । प्रायग्रहणेन भारते प्रासङ्गिकतया अप्राधान्येन भगवद्यशः क्वचित् क्वचित् उदितं, न तु कृत्स्नप्रबन्धानुस्यूतत्वेन प्राधान्येन चोदितमिति सूच्यते । येन भगवद्यशोऽनुवर्ण13नेनैव असौ तवाऽऽत्मा न तुष्येत । असौ तवाऽऽत्मा भगवान् वा न तुष्येत भगवदपरितोषेऽपि सति तन्नि14यम्यं त्वदीयं अन्तःकरणमपि न तुष्यत्येवेति भावः । यद्वा येनैव कारणेन न तुष्येत असौ तवाऽऽत्मा भगवान् वा तत्कारणं किमिति चेत्, खिलं न्यूनं तद्दर्शनमेव भगवद्दर्शनमेव भगवत्स्वरूप15गुणविभूतियाथात्म्यज्ञानपूर्वकं प्राधान्येन तद्वर्णनाभाव एवेति मन्य इत्यर्थः ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः॥

मूलम्

यथा धर्मादय16श्चार्थां मुनिवर्यानुकी17र्तिताः।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः॥ ९ ॥

अनुवाद (हिन्दी)

आपने धर्म आदि पुरुषार्थोंका जैसा निरूपण किया है, भगवान् श्रीकृष्णकी महिमाका वैसा निरूपण नहीं किया॥ ९॥

वीरराघवः

‘प्राय’ शब्दाभिप्रेतं व्यनक्ति - यथा इति । हे मुनिवर्य! धर्मादयः धर्मार्थकामादयः अर्थाः पुरुषार्थाः यथा ससाधनैः अनुकीर्तिता भारते इति शेषः । तथा वासुदेवस्य महिमा ते त्वया नानुवर्णितः ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित्।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा निरमन्त्युशिक्‍क्षयाः॥

मूलम्

न य18द्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्र19गृणी20त कर्हिचित्।
तद्वायसं तीर्थमुशन्ति मानसाः न यत्र हंसा नि21रमन्त्युशिक्‍क्षयाः॥ १० ॥

अनुवाद (हिन्दी)

जिस वाणीसे—चाहे वह रस-भाव-अलंकारादिसे युक्त ही क्यों न हो—जगत‍्को पवित्र करनेवाले भगवान् श्रीकृष्णके यशका कभी गान नहीं होता, वह तो कौओंके लिये उच्छिष्ट फेंकनेके स्थानके समान अपवित्र मानी जाती है। मानसरोवरके कमनीय कमलवनमें विहरनेवाले हंसोंकी भाँति ब्रह्मधाममें विहार करनेवाले भगवच्चरणारविन्दाश्रित परमहंस भक्त कभी उसमें रमण नहीं करते॥ १०॥

वीरराघवः

एवं तदुत्प्रेक्षितमेवासन्तोषहेतुं दृढीकृत्याऽऽह22- “प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः” (भाग. 1-4-31) इति तदुत्प्रेक्षितमेव दृढीकर्तुं भा23गवतधर्माप्रतिपादकस्य प्रबन्धस्य परमहंसैरनादरणीयत्वं इत्याह - न इति । तच्चित्राणि पदानि यस्मिन् । अर्थवैचित्र्यस्याप्युपलक्षणमेतत् । एवंविधमपि यद्वचः वाक्यं, प्रबन्ध इति यावत् । पवित्रं शृण्वतां वदतां च पवित्रत्वापादकं हरेः यशः क्वचिदपि न प्रगृहीत नोपाददीत चेत्, न प्रगृणीतेति पाठे न वदेत् चेत्; प्रबन्धयितृगतं वदनं प्रबन्धे आरोप्य न गृणीत इत्युक्तम् । यद्वा यच्चित्रपदमपि वचः तत्र हरेः यशः न प्रगृणीत चेत् प्रबन्धकर्तेति शेषः । तद्वचः प्रबन्धं वायसं तीर्थं उशन्ति वायसतीर्थतुल्यं इच्छन्ति । तीर्थं विशिंषन्निच्छाफलमाह - यत्र वायसे तीर्थे मानसा हंसा उशिक्क्षयाः कमनीयनिवासाः न निरमन्ति । मानसाख्यसरोवर कमनीयनिवासस्थानविहारिणः मानसहंसा यथा वायसं तीर्थं उच्छिष्टपात्रादियुतरथ्योदकयुक्तं क्षेत्रं वायससञ्चारयोग्यं उशन्ति 24मन्यन्त इति यावत् । यत्र न निरमन्ति न नितरां रमन्ते क्षणमात्रमपि न तत्र अवतिष्ठन्त इत्यर्थः । तथा उशिक् कमनीयं निरतिशयप्रियं ब्रह्मैव क्षयं आश्रयः येषां मानसाः मनस इमे मानसा ब्रह्मानन्दानुभावकाः हंसाः विशुद्धान्तःकरणाः परमहंसा इति यावत् । तद्वचः वायसं तीर्थं उशन्ति, वायसतुल्यानां कामुकानां अनुभवयोग्यं मन्यन्ते । यत्र न निरमन्ति नाद्रियन्ते न तत्र कर्णं दत्वा शृण्वन्तीत्यर्थः । उ शिक्षयेति पाठे उशब्दः अवधारणे परप्रेरणयापीत्यर्थः ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः॥

मूलम्

तद्वा25ग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः॥ ११ ॥

अनुवाद (हिन्दी)

इसके विपरीत जिसमें सुन्दर रचना भी नहीं है और जो दूषित शब्दोंसे युक्त भी है, परन्तु जिसका प्रत्येक श्लोक भगवान‍्के सुयशसूचक नामोंसे युक्त है, वह वाणी लोगोंके सारे पापोंका नाश कर देती है; क्योंकि सत्पुरुष ऐसी ही वाणीका श्रवण, गान और कीर्तन किया करते हैं॥ ११॥

वीरराघवः

तदेवं भगवद्यशोऽनङ्कितप्रबन्धस्य शब्दतः अर्थतः चित्रपदस्यापि भागवतानुपादेयत्वं उक्तम् । अथ तदङ्कितस्य वैचित्र्यरहितस्यापि प्रत्युत शब्दतः अर्थतश्च दुष्टस्याप्यतीव तदुपादेयत्वमाह - तत् इति । प्रतिश्लोकं अबद्धवत्यपि शब्दतः अर्थतश्च दोषवत्यपि यस्मिन् प्रबन्धे अनन्तस्य भगवतः यशसा अङ्कितानि चिह्नितानि भगवद्गुणप्रत्यायकानि नामानि नारायणवासुदेवकृष्णादिनामानि दृश्यन्ते इति शेषः, तद्वाग्विसर्गः स वाक्सष्टिरूपः प्रबन्धः । जनता जनानां समूहः “ग्रामजनबन्धुभ्यस्तल्” (अष्टा. 4-2-42) इति समूहार्थे तल्प्रत्ययः । ‘तलन्तं स्त्रियाम्’ (तलन्तः पा. लि. शि. 17) इति स्त्रीत्वम् । तस्या अघं पापं विप्लवयति नाशयतीति विप्लवः, अन्तर्भावितण्यर्थात् प्लवेः पचादित्वादच् । यद्वा भावे “ऋदोरप्” (अष्टा. 3-3-57) इत्यप् । जनतायाः अघस्य विप्लवः नाशः यस्मात् स तथा । अत एव भागवता उपाददत इति वदन् विशिनष्टि यच्छृण्वन्ति इति । यद्वाग्विसर्गं साधवः शृण्वन्ति श्रावयितृसद्भावे, गृणन्ति कथयन्ति श्रोतृसद्भावे, तदुभयाभावे केवलं स्वयं गायन्ति । सामान्याभिप्रायेण यत्तदिति 26नपुंसकनिर्देशः । शब्ददोषो नाम अनुपस्थाप्यार्थाभिप्रायेण प्रयोगः, यथा ‘स्वे’ इत्यस्य ज्ञातिधनाभिप्रायेण प्रयोगः । अर्थदोषः नामानुपस्थापकशब्दोपस्थाप्यत्वं यथा आत्माऽऽत्मीययोः स्वशब्दोपस्थाप्यत्वम् । तदेवं त्रिवर्गतत्साधनप्रतिपादकं प्रबन्धं भागवतानुपादेयं निन्दित्वा भगवद्यशःप्रतिपादकस्यैव तदुपादेयत्वमुक्तम् ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम्।
कुतः पुनः शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम्॥

मूलम्

नैष्कर्म्यमप्यच्युतभाववर्जितम् न शोभते ज्ञानमलं निरञ्जनम्।
कुतः पुनश्शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्॥ १२ ॥

अनुवाद (हिन्दी)

वह निर्मल ज्ञान भी, जो मोक्षकी प्राप्तिका साक्षात् साधन है, यदि भगवान‍्की भक्तिसे रहित हो तो उसकी उतनी शोभा नहीं होती। फिर जो साधन और सिद्धि दोनों ही दशाओंमें सदा ही अमंगलरूप है, वह काम्य कर्म और जो भगवान‍्को अर्पण नहीं किया गया है, ऐसा अहैतुक (निष्काम) कर्म भी कैसे सुशोभित हो सकता है॥ १२॥

वीरराघवः

ननु धर्मादितत्साधनानां अपि पुरुषाभिलषितत्वेन हितत्वात् तन्निरूपणमप्यर्थवदेव इत्याशङ्कायां विषमिश्रपयः प्रशंसातुल्यं तन्निरूपणं इत्यभिप्रायेणैश्वर्यकैवल्यतत्साधनानां पुरुषार्थत्वतत्साधनत्वं प्रतिक्षिपति - नैष्कर्म्यं इति । निर्गतं कर्मणः निष्कर्म निष्कर्मैव नैष्कर्म्यं स्वार्थे ष्यञ् । कर्मणः बहिर्भूतं कर्मेतरत् आत्मयाथात्म्योपासनात्मकज्ञानं इत्यर्थः । तन्निरञ्जनं रागद्वेषाद्यञ्जनरहितं रागादिभिः अनुपप्लुतं अपि अच्युतस्य भगवतः भावेन भक्तियोगेन वर्जितं 27चेत् ज्ञानानां मध्ये मलवत् हीनं, अत एव न शोभते । यद्वा नैष्कर्म्यं निरञ्जनं ज्ञानमप्यच्युतभाववर्जितं चेत् नालं शोभते नातीव शोभते इत्यर्थः । “सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्” (भार. 12-328-31) इति केवलिनः अपि पुनः च्यवनधर्मोक्तेः तावत् कैवल्यस्य न पुरुषार्थत्वं, नापि तत्साधन28योगस्य पुरुषार्थसाधनत्वमिति भावः । यतः नैष्कर्म्यं29 ज्ञानयोगमेव न शोभते कुतः पुनः तत्कर्म शोभते किं यत्तत्कर्म ईश्वरे न चार्पितं अनर्पितं अभिसंहितार्थकामादिफलं अच्युतभाववर्जितं च इत्यर्थः । अत एव शश्वत् सदा फलानुभवदशायां अनुष्ठानदशायां चाभद्रं दुःखं यस्मिन् तदनुष्ठानदशायां अभद्रवत्त्वं कायक्लेशाद्यावहत्वेन दुष्टमेव फलदशायामपि पुनःपतनभयशङ्कया अभद्रवत्त्वं अवगन्तव्यम् । यदप्यकारणं निष्कामकर्माप्यच्युतभाववर्जितं चेत् न शोभते । अयमर्थः - ज्ञानयोगः कर्मयोगश्च भगवद्भक्तिवर्जितः न शोभते काम्यं कर्म न शोभते इति कैमुत्यन्यायसिद्धमिति ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

अथो महाभाग भवानमोघदृक्
शुचिश्रवाः सत्यरतो धृतव्रतः।
उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम्॥

मूलम्

अथो30 महाभाग! भवानमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः।
उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर 31तद्विचेष्टितम्॥ १३ ॥

अनुवाद (हिन्दी)

महाभाग व्यासजी! आपकी दृष्टि अमोघ है। आपकी कीर्ति पवित्र है। आप सत्यपरायण एवं दृढ़व्रत हैं। इसलिये अब आप सम्पूर्ण जीवोंको बन्धनसे मुक्त करनेके लिये समाधिके द्वारा अचिन्त्य-शक्ति भगवान‍्की लीलाओंका स्मरण कीजिये॥ १३॥

वीरराघवः

तदेवं लोकहितार्थं प्रवृत्तस्य तव केवलत्रिवर्गतत्साधननिरूपणं उचितं इत्युक्तं भवति । यतः त्रैवर्गिककर्मणः अनर्थगर्भत्वं अतः त्वं अखिलानिष्टप32रिहारेष्टप्रापणक्षम भगवद्भक्तियोगनिष्पादक तच्चेष्टितज्ञानजनकं प्रबन्धं कुरु इत्याह - अहो इति । हे महाभाग! भाग्यमत्र भगवदंशभूतत्वं, अखिलनिगमद्रष्टृत्वं च । भवान् सत्यरतः सत्यं भूतहितं तस्मिन् रतः, न केवलं सत्यरतः एव अपि तु अमोघदृक् सत्य33मूलममोघमवितथं पश्यतीति तथाभूतहिताचरणोपयुक्तज्ञानसम्पन्नश्च इत्यर्थः । न केवलं अमोघदृगेव अपितु धृतव्रतः धृतं सङ्कल्पितं व्रतं सत्यार्थदीक्षारूपं येन सः भूतहिताचरणाय बद्धदीक्ष इत्यर्थः । 34कथमेवम35हो भाग्यं ज्ञायते’ इत्यतः विशिनष्टि - शुचिश्रवाः, शुचि विशुद्धं श्रवः “लोकहितार्थं अवतीर्णः व्यासः" इत्येवंविधा प्रथा यस्य सः । हेतुगर्भाणि एतानि विशेषणानि एवंविधस्यानर्थगर्भत्रैवर्गिकनिरूपणं अनुचितं इति भावः । उक्तविधस्त्व उरुक्रमस्य उरवः विपुलाः क्रमाः पादविन्यासाः त्रि36लोके यस्य तस्य भगवतः यद्विचेष्टितं 37तदेव नृणां अखिलानां बन्धानां गर्भजन्ममरणादिरूपाणां मुक्तये बन्धेभ्यः मुक्तये वा समाधिना अनुस्मर सम्यक् आलोचनपूर्वकं प्रबधान इत्यर्थः ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

ततोऽन्यथा किंचन यद्विवक्षतः
पृथग्दृशस्तत्कृतरूपनामभिः।
न कुत्रचित्क्वापि च दुःस्थिता मति-
र्लभेत वाताहतनौरिवास्पदम्॥

मूलम्

38तोऽन्यथा किञ्चन यद्विवक्ष39तः पृथग्दृशस्तत्कृतरूपनामभिः।
40कुत्रचित् क्वापि च दुःस्थिता मतिः लभेत वाताहतनौरिवास्पदम्॥ १४ ॥

अनुवाद (हिन्दी)

जो मनुष्य भगवान‍्की लीलाके अतिरिक्त और कुछ कहनेकी इच्छा करता है, वह उस इच्छासे ही निर्मित अनेक नाम और रूपोंके चक्‍करमें पड़ जाता है। उसकी बुद्धि भेदभावसे भर जाती है। जैसे हवाके झकोरोंसे डगमगाती हुई डोंगीको कहीं भी ठहरनेका ठौर नहीं मिलता, वैसे ही उसकी चंचल बुद्धि कहीं भी स्थिर नहीं हो पाती॥ १४॥

वीरराघवः

एवं चेत् त्वदात्मनि असन्तोषः नि41वर्तेत नान्यथा इत्याह - अत इति । अतोऽन्यथा उरुक्रमचेष्टकथनात् अन्यथा वैपरीत्येन तत्कृतरूपनामभिः पृथग्दृशः पृथग्भूतान् सम्बन्धरहितान् अर्थान् विवक्षतः वर्णयतः तव अत एव दुसःस्थिता मतिः कदाचिदपि क्वचिदपि यत्किञ्चिदपि आस्पदं प्र42तिष्ठां अव्याकुलतामिति यावत्; न लभेत प्रत्युत व्याकुलैव भवतीत्यर्थः । यद्वा 43ततोऽन्यथा यत्किञ्चन विवक्षसे चे44न्नानावि45धार्थदर्शिनः ते मतिः क्वापि तत्कृतरूपनामभिः । कृतमि46ति भावे क्तः, कर्म इत्यर्थः । तस्य उरुक्रमस्य कर्मरूपनामभिः हेतुभिः आस्पदं प्रतिष्ठां न लभते । बुद्धेः अव्याकुलत्वं नाम भगवत्कर्मरूपनामगोचरत्वं तत् न सिध्यतीत्यर्थः । यथा वातेन वायुना आहता उत्पथं नीता नौः आस्पदं न लभते तद्वत् । यद्वा अतः उरुक्रमात् अन्यथास47त्त्वेन उरुक्रमानात्मकत्वेन अब्रह्मात्मकस्वतन्त्रवस्तुत्वेनेति यावत् । यत्किञ्चन वस्तु विवक्षतः वर्णयितुं इच्छतः अत एव तत्कृतैः उरुक्रमकृतैः देवमनुष्यादिरूपनामभिः हेतुभिः पृथग्दृशः पृथग्दृष्टेः तव अत एव दुसःस्थिता मतिः क्वापि कर्हिचिदपि आस्पदं न ल48भेत । यत्किञ्चन विवक्षितं चेत् तदुरुक्रमात्मकतया तद्विभूतित्वेनैव व49र्णयेः चेत् तव मतिः सुस्था सती आस्पदं ल50भेत । अतदात्मकतया स्वतन्त्रवस्तुत्वेन वर्णयितुं उद्यु51क्तं चेत् तर्हि अत एव पृथग्दृष्टेः तव दुसःस्थिता सती मतिः आस्पदं न ल52भेत इत्यर्थः । प्राधान्येन उरुक्रमचेष्टितं वर्णनीयं तत्प्रसङ्गादपि यत्किञ्चिद्वस्तु वर्णयितुं इष्टं, तदपि तद्विभूतितयैव वर्णनीयम् । एवं चेत् मतिः अव्याकुला अन्यथा तु व्याकुला भवतीति भावः ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

जुगुप्सितं +++(अर्थ-काम-साधन-)+++धर्म-कृते ऽनुशासतः +++(←“धर्मेणार्थं च कामञ्च”)+++-
+++(अर्थ-कामयोः)+++ स्वभाव-रक्तस्य महान् व्यतिक्रमः
यद्-वाक्यतो +++(अर्थ-काम-साधनं हि)+++ धर्म इतीतरः स्थितो
न मन्यते तस्य +++(भक्त्यर्थं)+++ निवारणं जनः ॥

मूलम्

जुगुप्सितं धर्मकृतेऽनुशासतः53 स्वभावरक्तस्य महान् व्यतिक्रमः।
तद्वाक्यतो धर्म इतीतरः स्थितः न मन्यते तस्य निवारणं जनः॥ १५ ॥

अनुवाद (हिन्दी)

संसारी लोग स्वभावसे ही विषयोंमें फँसे हुए हैं। धर्मके नामपर आपने उन्हें निन्दित (पशुहिंसायुक्त) सकाम कर्म करनेकी भी आज्ञा दे दी है। यह बहुत ही उलटी बात हुई; क्योंकि मूर्खलोग आपके वचनोंसे पूर्वोक्त निन्दित कर्मको ही धर्म मानकर—‘यही मुख्य धर्म है’ ऐसा निश्चय करके उसका निषेध करनेवाले वचनोंको ठीक नहीं मानते॥ १५॥

वीरराघवः

भूतहिताचरणा54र्थे प्रवृत्तः त्वं अहितं एव कृतवान् असि इत्याह - जुगुप्सितं इति ।
स्वभावरक्तस्य इत्य् 55अर्थकामयोः इत्यादिः अर्थकामयोः स्वभावतः एव रक्तस्य जनस्य
धर्मकृते अर्थ-काम-साधन-धर्मार्थं अनुशासतः
भारतनिर्माणद्वारा बोधयतः तव
अयं महान् व्यतिक्रमः चिकीर्षितविपरीतानुष्ठानरूपः आपतितः ।
भूतहितं चिकीर्षितं अधुना तद्विपरीतमेव कृतं इत्ययं महान् व्यतिक्रमः इत्यर्थः ।
अतः इदं जुगुप्सितं निन्दितं कृतम् ।
स्वभावतः एव अर्थकाम-पारवश्य-मूलक तापत्रयाभिहतं जनं प्रति
पुनरर्थकामसाधनमेव अनुतिष्ठ इत्यनुशासनं निन्दितं इति भावः ।

ननु मयैवं अनुशासने कृतेऽपि
स्वरुच्य्-अनुसारात् लोकः निःश्रेयससाधन एव प्रवर्तताम् ।
भारतेऽपि क्वचित् अर्थकामयोः हेयत्वेन उक्तत्वात् न दोषश् च

इत्यतः56 आह यद्वाक्यत इति ।
परः कृत्स्नवेदीतरः57
ततः अर्वाचीनः कृत्स्नवित् जनः
यस्य तव वाक्यात् अर्थकामसाधनम् एव धर्म इति स्थितः ।
अर्थकामौ एव निरतिशयपुरुषार्थौ तत्साधनमेव निरतिशय-धर्म इत्यध्यवसाय58-युक्तः ।
तस्य त्रिवर्गस्य निवारणं न मन्यते ।
त्वया त्रिवर्गस्य विस्तरेण प्रतिपादितत्वात्
त्रिवर्गस्य निवारणं त्वद्-अभिप्रेतम् इति जनो न जानातीत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

विचक्षणोऽस्यार्हति वेदितुं विभो-
रनन्तपारस्य निवृत्तितः सुखम्।
प्रवर्तमानस्य गुणैरनात्मन-
स्ततो भवान्दर्शय चेष्टितं विभोः॥

मूलम्

विचक्षणो59स्याऽर्हति वेदितुं विभोः अनन्तपारस्य निवृत्तितस्सुखम्।
प्रवर्तमानस्य गुणैरनात्मनः ततो भवान् दर्शय चेष्टितं विभोः60

अनुवाद (हिन्दी)

भगवान् अनन्त हैं। कोई विचारवान् ज्ञानी पुरुष ही संसारकी ओरसे निवृत्त होकर उनके स्वरूपभूत परमानन्दका अनुभव कर सकता है। अतः जो लोग पारमार्थिक बुद्धिसे रहित हैं और गुणोंके द्वारा नचाये जा रहे हैं, उनके कल्याणके लिये ही आप भगवान‍्की लीलाओंका सर्वसाधारणके हितकी दृष्टिसे वर्णन कीजिये॥ १६॥

वीरराघवः

ननु अकृत्स्नवित् जनः न जानातु नाम कृत्स्नवित्तु मम अभिप्रायं जानात्येव इत्यत आह - विचक्षण इति । यदपि अस्य विभोः भगवतः अनन्तपारस्य, कर्मणि षष्ठीयम् । अपारं चेष्टितं विचक्षणः निपुणबुद्धिः निवृत्तिध61र्मरतः निवृत्तिधर्मनिष्ठतया सुखं यथा तथा वेदितुं अर्हति । निवृत्तिधर्मनिष्ठः भगवद्वैभवाभिज्ञः दुर्लभ इति भावः । तथापि गुणैः रजआदिगुणमूलकैः रागादिभिः प्रवर्तमानस्य अनात्मनः आत्मज्ञानरहितस्य जनस्य विभोः चेष्टितं दर्शय प्रबन्धनिर्माणेन व62र्णय इत्यर्थः । शासनं नाम अज्ञातज्ञापनरूपम् । तत्र अर्थकामयोः क्वचिदपि हेयत्वानुक्तौ अपि विचक्षणः जनः जानात्येव । अतस्त63म्प्रति क्वचिदपि अर्थकामयोः हेयत्वज्ञापनं व्यर्थमेव । अविचक्षणं त्वदभिप्रायानभिज्ञं प्रत्यपि तद्व्यर्थमेव । अतः विचक्षणजनस्यापि सुखप्रतिपत्तये अर्थकामयोः हेयत्वं भगवच्चेष्टितज्ञानस्य निरतिशयपुरुषार्थसाधनत्वं च विपुलप्रबन्धनिर्माणेन दर्शय इति भावः ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
र्भजन्नपक्वोऽथ पतेत्ततो यदि।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मतः॥

मूलम्

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे भजन्नपक्वोऽथ पतेत्ततो यदि।
यत्र क्व वाऽभद्रमभूदमुष्य कि64 को वाऽर्थ आप्तोऽभजतां स्वधर्म65तः॥ १७ ॥

अनुवाद (हिन्दी)

जो मनुष्य अपने धर्मका परित्याग करके भगवान‍्के चरणकमलोंका भजन-सेवन करता है—भजन परिपक्व हो जानेपर तो बात ही क्या है—यदि इससे पूर्व ही उसका भजन छूट जाय तो क्या कहीं भी उसका कोई अमंगल हो सकता है? परन्तु जो भगवान‍्का भजन नहीं करते और केवल स्वधर्मका पालन करते हैं, उन्हें कौन-सा लाभ मिलता है॥ १७॥

वीरराघवः

यदुक्तं “कुतः पुनश्शश्वदभद्रमीश्वरे न चार्पितं कर्म” (भाग 1-5-12) इति कर्मणः अभद्रगर्भत्वं भगवद्भक्तियोगस्य 66शश्वद्भद्रगर्भत्वं च तदुभयमुपपादयति - त्यक्त्वा इति । पतेत् इति शरीरपातौक्तिः । ईश्वरे न चार्पितं स्वधर्मं स्वसमीहित67 फलसाधनं धर्मं त्यक्त्वा हरेः चरणाम्बुजं भजन् 68भजनोद्यतस्सन् यः सन् अपक्वः अपक्वकषायः पतेत् म्रि69येत यदि, अमुष्य यत्र क्वापि किमभद्रं भविष्यति न किञ्चिदपीत्यर्थः । “न हि कल्याणकृत्कश्चित् दुर्गतिं तात गच्छति” (भ.गी. 6-40) “प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीस्समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" (भ.गी. 6-41) । “अथवा योगिनामेव कुले भवति धीमताम्” (भ.गी. 6-42) इति भगवदुक्तेः इति भावः । अभजताम् इति च्छेदः । हरेः चरणाम्बुजं अभजताम् । यद्वा स्वधर्मत इति सार्वविभक्तिकः तसिः । स्वधर्मं भजताम् स्वधर्ममनुतिष्ठताम् । कर्तरि षष्ठीयम् । कोवाऽर्थः आप्तः प्राप्तः न कोऽपि इत्यर्थः । “ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति” (भ.गी. 9-21) इति भगवदुक्तेरिति भावः । अन्तवदेवास्य तद्भवति - ‘तद्यथेह कर्मजितो लोकः क्षीयते । एवमेव अमुत्र पुण्यजितो लोकः क्षीयते" (छान्दो. उ. 8-1-6) “प्लवाह्येते अदृढा यज्ञरूपाः” (मुण्ड. उ. 1-2-7) इत्यादिश्रुतेश्च इति भावः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद‍्भ्रमतामुपर्यधः।
तल्लभ्यते दुःखवदन्यतः सुखं
कालेन सर्वत्र गभीररंहसा॥

मूलम्

तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद‍्भ्रमतामुपर्यधः।
तल्लभ्यते दुःखवदन्यतस्सुखं कालेन सर्वत्र गभीररंहसा॥ १८ ॥

अनुवाद (हिन्दी)

बुद्धिमान् मनुष्यको चाहिये कि वह उसी वस्तुकी प्राप्तिके लिये प्रयत्न करे, जो तिनकेसे लेकर ब्रह्मापर्यन्त समस्त ऊँची-नीची योनियोंमें कर्मोंके फलस्वरूप आने-जानेपर भी स्वयं प्राप्त नहीं होती। संसारके विषयसुख तो, जैसे बिना चेष्टाके दुःख मिलते हैं वैसे ही, कर्मके फलरूपमें अचिन्त्यगति समयके फेरसे सबको सर्वत्र स्वभावसे ही मिल जाते हैं॥ १८॥

वीरराघवः

एवं भगवद्भक्तिस्वधर्मयोः शश्वद्भद्रगर्भाभद्रगर्भत्वे प्रतिपादिते । अथ तत्फलयोः उपायान्तरालभ्यत्वलभ्यत्वे वदन् उपायान्तरे70भ्यस्तु सुखसाधनोपयुक्तमेव भूतहितं कार्यं इत्याह - तस्यैव इति । उपरि ब्रह्मलोकादिषु अधः पातालादिषु भ्रमतां जीवानां यत् सुखं परब्रह्मानन्दानुभवात्मकं न लभ्यते तस्यैव हेतोः तत्सुखसाधनोपयुक्तोपायद71र्शनार्थमेव कोविदः निपुणबुद्धिः तादृशः यतेत । एवं चेत् भूतहितकारित्वं नान्यथेति भावः । तत्सुखं वैषयिकसुखं तु सर्वत्र उपर्यधश्च गभीररंहसा दुर्लक्ष्यवेगेन कर्मणो72ऽप्युपलक्षणमिदं; भ्रमतां इत्यनुषङ्गः । कालेन तदुद्रोधेन प्राचीनेन कर्मणा च भ्रमतां जायमानानां जनानां इत्यर्थः । अन्यतः उपायान्तरादेव कालकर्मादिरूपात् लभ्यते ; दुःखवत् यथा दुःखं तद्वत्, अप्रार्थितमपि दुःखं कालकर्मादिहेत्वन्तरेण 73एव भवति । तद्वैषयिकसुखमपि इत्यर्थः । यद्वा, भक्तिसाध्यनैश्श्रेयससुखस्याभूतपूर्वत्व दुःखासम्भिन्नत्वज्ञापनाय भक्तिव्यतिरिक्तोपायान्तरसाध्यस्य सर्वस्यापि दुःखमिश्रत्वमाह तदिति । अन्यत अनभिसंहितफलवर्णाश्रमधर्मोपकृत भगवद्भक्तिव्यतिरिक्तोपायात् यत्सुखं महता कालेन सर्वत्र लभ्यते तद्दुःखवत् दुःखमिश्रमेव दुःखासम्भिन्नं तु प्रागुक्तोपायादेव इत्यर्थः ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

न वै जनो जातु कथंचनाव्रजेन्
मुकुन्दसेव्यन्यवदङ्ग संसृतिम्।
स्मरन्मुकुन्दाङ्‍घ्र्युपगूहनं पुन-
र्विहातुमिच्छेन्न रसग्रहो यतः॥

मूलम्

74न वै जनो जातु कथञ्चनाव्रजेत् मुकुन्दसेव्यन्यवदङ्ग! संसृतिम्।
स्मरन्मुकुन्दाङ्‍घ्र्युपगूहनं पुनः विहातुमिच्छेन्न रसग्रहो7576तः॥ १९ ॥

अनुवाद (हिन्दी)

व्यासजी! जो भगवान् श्रीकृष्णके चरणारविन्दका सेवक है वह भजन न करनेवाले कर्मी मनुष्योंके समान दैवात् कभी बुरा भाव हो जानेपर भी जन्म-मृत्युमय संसारमें नहीं आता। वह भगवान‍्के चरणकमलोंके आलिंगनका स्मरण करके फिर उसे छोड़ना नहीं चाहता; उसे रसका चसका जो लग चुका है॥ १९॥

वीरराघवः

“यत्र क्व वाऽभद्रमभूदमुष्य किम्” (भाग 1-5-17) इति काक्वा सूचितमभिप्रायं सिंहावलोकनन्यायेन विवृणोति - न वा इति । अङ्ग! हे बादरायण! मुकुन्दसेवी मुकुन्दभक्तः जनः कदाचिदपि कथञ्चिदपि संसृतिं नाऽऽव्रजेत्; किन्तु; ततः मु77च्येतैव इत्यर्थः । इदं निष्पन्नभक्तियोगनिष्ठपुरुषाभिप्रायकं “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्यै” (छान्दो. उ. 6-14-2) इति श्रुतेः । अनिष्पन्नभक्तियोगोऽपि जनः अन्यवत् केवलकाम्यकर्मिवत् न संसृतिं व्रजेत् । “नहि कल्याणकृत्कश्चित्” (भ.गी. 6-40) इत्याद्युक्तरीत्या कर्मिविलक्षणमेव जन्म प्राप्नोतीति भावः । तदेव विशदयति - स्मरन् इति । मुकुन्दाङ्घ्र्युपगूहनम् । गुहू संवरणे इति धातुः । मुकुन्दाङ्घ्र्योः संवरणं सम्यक् वरणं प्रपदनमिति यावत् । तत् स्मरन् पौर्वदैहिकं स्मरन्नित्यर्थः । तत्पुनः विहातुं त्यक्तुं नैच्छेत् । कुतः, यतः मुकुन्दसेवी जनः रसग्रहः “रसो वै सः रसंह्येवायं लब्ध्वाऽऽनन्दी भवति” (तैत्ति. उ. 2-7) इत्युक्तरीत्या निरतिशयानन्दात्मकरसरूपपरमात्मानं गृहीतवान् इत्यर्थः । तथा चोक्तं भगवता - “तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन! पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः” (भ.गी. 6-43,44) इत्यादिना ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

इदं हि विश्वं भगवानिवेतरो
यतो जगत्स्थाननिरोधसम्भवाः।
तद्धि स्वयं वेद भवांस्तथापि वै
प्रादेशमात्रं भवतः प्रदर्शितम्॥

मूलम्

इदं 78हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भ79वाः।
तद्धि स्वयं वेद भवांस्तथापि वै80 81प्रादेशमात्रं भवतः प्रदर्शितम्॥

अनुवाद (हिन्दी)

जिनसे जगत‍्की उत्पत्ति, स्थिति और प्रलय होते हैं, वे भगवान् ही इस विश्वके रूपमें भी हैं। ऐसा होनेपर भी वे इससे विलक्षण हैं। इस बातको आप स्वयं जानते हैं, तथापि मैंने आपको संकेतमात्र कर दिया है॥ २०॥

वीरराघवः

ननु 82के ते भगवद्गुणा ये मया वर्णनीया इत्यपेक्षायां तेषां आनन्त्यात् न मया उपदेष्टुं, साकल्येन त्वया वर्णयितुं वा शक्याः । किन्तु सङ्ग्रहेण तान् दर्शयामीत्याह - इदं इति । यतः यस्मात् जगत्स्थितिसंहारसर्गाः प्रवर्तन्ते । स भगवान् इदं विश्वं एवं 83इतर इव इतर एव “वद्वा यथा तथैवैवं(साम्ये)” (अम. को. 3-420) इति इवशब्दस्यापि एवशब्दपर्यायत्वानुशासनात् विश्वाभिन्नोऽपि विश्वविलक्षण इत्यर्थः । यत इति “जन्माद्यस्य यतः” (ब्र. सू. 1-1-2) इत्यत्रेव हेतौ पञ्चमी । भगवानिदं इत्यनेन “सर्वं खल्विदं ब्रह्म तज्जलान्” (त्रि. म. ना. उ. 1-3) इति श्रुत्यर्थो84ऽभिप्रेतः । एवं जगदुपादानत्वजगन्निमित्तत्वतदुभयाक्षिप्तसर्वश85क्तित्वं उपादानकारणाक्षिप्तसर्वान्तरात्मत्वचिदचिद्विशिष्टत्वतन्मूलकजगदभिन्नजगद्विशेष्यत्व तन्मूलकतद्विलक्षणत्वकारणत्वाक्षिप्तोपास्यत्वमोक्षप्रदत्वादयः गुणाः सामर्थ्यात् अत्र फलिताः । एवमादयः त्वया वर्णनीया इति भावः । तद्धि उक्तगुणादिजातं भवान् स्वयं आत्मना वेद । तथापि 86मया भवतः प्रादेशमात्रं प्रदेश एव प्रादेशः स्वार्थे अण् 87प्रादेशमात्रं गुणानामेकदेशमात्रमेव प्रदर्शितम् । यद्यपि जगदुपादानत्वादीनां भगवद्गुणानां आनन्त्यं भवान् जानात्येव, तथापि पृष्टेन मया दिङ्मात्रं प्रदर्शितं इत्यर्थः ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

त्वमात्मनाऽऽत्मानमवेह्यमोघदृक्
परस्य पुंसः परमात्मनः कलाम्।
अजं प्रजातं जगतः शिवाय त-
न्महानुभावाभ्युदयोऽधिगण्यताम्॥

मूलम्

त्वमात्मनाऽऽत्मानमवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम्।
अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिग88ण्यताम्॥ २१ ॥

अनुवाद (हिन्दी)

व्यासजी! आपकी दृष्टि अमोघ है; आप इस बातको जानिये कि आप पुरुषोत्तम-भगवान‍्के कलावतार हैं। आपने अजन्मा होकर भी जगत‍्के कल्याणके लिये जन्म ग्रहण किया है। इसलिये आप विशेषरूपसे भगवान‍्की लीलाओंका कीर्तन कीजिये॥ २१॥

वीरराघवः

नाहं जानामि इति माऽवोचः इति वक्तुं त्वं आत्मानं भगवदंशसञ्जातं जानीहि इत्याह - त्वम् इति । अमोघदृक् अमोघं सत्यं सर्वं यथावत् पश्यतीति अमोघदृक् त्वम् । परस्य पुंसः परमपुरुषस्य कलाम् अं89शम् अजं कर्मायत्तोत्पत्तिरहितं अथापि जगतः शिवाय हिताय स्वेच्छया जातं आत्मानं आत्मना स्वयमेव अवेहि । कलाशब्दस्य नित्यस्त्रीत्वात् स्त्रीपुंसयोरपि विशेषणविशेष्यभाव उपपन्नः । यतः अमोघदृक् भगवदंशसम्भूतः 90तस्मादे91वम्भूतेन त्वया महानुभावस्य भगवतः अभ्युदयः जन्मकर्मगुणादीनामप्युपलक्षणमिदं जन्मकर्मगुणादिः अधिगण्यताम् ; कथ्यतां, प्रबध्यतामिति यावत् । एवं चेत् कृतकृत्यस्य तव आत्मनि असन्तोषः निश्शेषं निवर्तत इति भावः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः।
अविच्युतोऽर्थः कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम्॥

मूलम्

इदं हि पुंसः तपसः श्रुतस्य वा92 स्विष्टस्य 93सूक्तस्य 94च बुद्धिदत्तयोः।
अविच्यु95तोऽर्थः कविभिर्निरूपितो यदु96त्तमश्लोकगुणानुव97र्णनम्॥ २२ ॥

अनुवाद (हिन्दी)

विद्वानोंने इस बातका निरूपण किया है कि मनुष्यकी तपस्या, वेदाध्ययन, यज्ञानुष्ठान, स्वाध्याय, ज्ञान और दानका एकमात्र प्रयोजन यही है कि पुण्यकीर्ति श्रीकृष्णके गुणों और लीलाओंका वर्णन किया जाय॥ २२॥

वीरराघवः

ननु महानुभावाभ्युदयाधिगणनमात्रेण कथं कृतकृत्यत्वं, कथन्तरां असन्तोषनिवृत्तिश्च इत्यत आह - इदं इति । उत्तमश्लोकस्य गुणानुवर्णनं इति यत् तदिदमेव कृतार्थीभवितुं इच्छतः पुंसः सम्बन्धिनां तपआदीनां अविच्युतः च्यवनरहितः प्रतिहतिरहितोऽर्थः । प्रयोजनं कविभिः निरतिशयप्रयोजनयाथात्यविद्भिः निरूपितः । अत्र तपः अनशनादि, मन्त्रजपो वा, श्रुतं अध्ययनं, स्विष्टं यागादि, पूर्तं वापीकूपतटाकखननादि, बु98द्धिः ज्ञानं, दत्तं दानं । भारतादेः अतिविस्तृतत्वात् तत्र सारग्रहणं जलधिमथनात् सुधाग्रहणकल्पं अविचक्षणैः दुष्करम् । तस्मात् मुमुक्षूणां अतीव सेव्यं सारं अर्थजातं स99ङ्कल्प्य दर्शय । एतावत् कर्तव्यं इत्युक्तं भवति । उत्तमश्लोकगुणानुवर्णनश्रवणस्याप्युपलक्षणं तपआदीन् अनुतिष्ठतः पुंसः यद्युत्तमश्लोकगुणानुवर्णनश्रवणयोः रुचिः जा100यते तदैव तेषां साफल्यम् । अन्यथा तु तपआदीनां वैयर्थ्यमेव इत्युक्तम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

अहं पुरातीतभवेऽभवं मुने
दास्यास्तु कस्याश्चन वेदवादिनाम्।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि निर्विविक्षताम्॥

मूलम्

अहं पुरातीतभवेऽभवं मु97ने दास्यास्तु कस्याश्चन वेदवादिनाम्।
निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विवि101क्षताम्॥ २३ ॥

अनुवाद (हिन्दी)

मुने! पिछले कल्पमें अपने पूर्वजीवनमें मैं वेदवादी ब्राह्मणोंकी एक दासीका लड़का था। वे योगी वर्षाऋतुमें एक स्थानपर चातुर्मास्य कर रहे थे। बचपनमें ही मैं उनकी सेवामें नियुक्त कर दिया गया था॥ २३॥

वीरराघवः

ननु भगवद्गुणवर्णनादेरपि 102तपआदिवत् क्रियारूपस्य न स्वतः पुरुषार्थरूपत्वं इति कथं तस्य अविच्युतार्थत्वं इति शङ्कायां स्वतः प्रयोजनरूपत्वाभावेऽपि भगवद्भक्तियोगरुचिजननद्वारा तन्निष्पादनद्वारा च निश्श्रेयससाधनत्वात् अविच्युतार्थत्वं अस्त्येव इति वक्तुं तत्र दृष्टान्ततया स्वस्य पौर्वदैहिकं वृत्तान्तमाह - अहं इत्यादिना यावदध्यायसमाप्ति । हे मुने! पुरा पूर्वस्मिन् कल्पे अतीतभवे जन्मनि अहं कस्याश्चित् वेदवादिनां दास्या अभवं पुत्र आसम् इत्यर्थः । वेदवादिनां गृहेषु प्रावृषि वर्षर्तौ निर्विविक्षतां नितरां वेष्टुं प्रवेष्टुं इच्छतां चातुर्मास्यदीक्षां प्रवेष्टुं इच्छतां योगिनां सन्न्यासिनां शुश्रूषणे निमित्ते शुश्रूषणार्थं बालक एव सन् अहं वेदवादिभिः निरूपितः नियोजितोऽस्मि इत्यर्थः ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः
शुश्रूषमाणे मुनयोऽल्पभाषिणि॥

मूलम्

ते मय्यपेताखिलचापलेऽर्भके दान्ते103ऽधृतक्रीडनकेऽनुवर्तिनि।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि॥ २४ ॥

अनुवाद (हिन्दी)

मैं यद्यपि बालक था, फिर भी किसी प्रकारकी चंचलता नहीं करता था, जितेन्द्रिय था, खेल-कूदसे दूर रहता था और आज्ञानुसार उनकी सेवा करता था। मैं बोलता भी बहुत कम था। मेरे इस शील-स्वभावको देखकर समदर्शी मुनियोंने मुझ सेवकपर अत्यन्त अनुग्रह किया॥ २४॥

वीरराघवः

ततः किं अत आह - ते मयि इति । यद्यपि ते योगिनः तुल्यदर्शनाः समदर्शिनः, तथापि मयि कृपां चक्रुः । कृपाकरणे हेतुं वदन् आत्मानं विशिनष्टि । अर्भके बाले, अथापि अपेतं त्यक्तं अखिलं चापलं जै104ह्ययादिकं येन । अधृतक्रीडनके इति च्छेदः । अधृतानि अपरिगृहीतानि क्रीडनकानि बालक्रीडासाधनानि भावे वा ल्युट् । क्रीडा वा येन अनुवर्तिनि अनुकूले शुश्रूषमाणे तदनुशासनशुश्रूषापूर्वकसेवां कुर्वति अल्पभाषिणि मितभाषिणि ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

उच्छिष्टलेपाननुमोदितो द्विजैः
सकृत्स्म भुञ्जे तदपास्तकिल्बिषः।
एवं प्रवृत्तस्य विशुद्धचेतस-
स्तद्धर्म एवात्मरुचिः प्रजायते॥

मूलम्

उच्छिष्टलेपान105नुमोदितो द्विजैः सकृत् 106स्म भुञ्जे तदपास्तकिल्बिषः।
एवं प्रवृत्तस्य विशुद्धचेतसः तद्धर्म एवात्म107रुचिः प्रजायते॥ २५ ॥

अनुवाद (हिन्दी)

उनकी अनुमति प्राप्त करके बरतनोंमें लगा हुआ प्रसाद मैं एक बार खा लिया करता था। इससे मेरे सारे पाप धुल गये। इस प्रकार उनकी सेवा करते-करते मेरा हृदय शुद्ध हो गया और वे लोग जैसा भजन-पूजन करते थे, उसीमें मेरी भी रुचि हो गयी॥ २५॥

वीरराघवः

कृपाफलं वदन् आत्मानं विशिनष्टि - उच्छिष्टेति । द्विजैः योगिभिः अनुमोदितः तैः दत्तान् उच्छिष्टलेपान् भुक्तावशिष्टान् अन्नादीन् सकृत् भुञ्जे स्म भुक्तवान् अस्मि । तेन भोजनेन अपास्तानि किल्बिषाणि भागवतधर्मरुचिप्रतिबन्धकानि यस्य तथाभूत आसम् । एवं भागवतशुश्रूषणे प्रवृत्तस्य अत एव विशुद्धं भागवतधर्मरुचिप्रतिब108न्धरहितं चेतः यस्य तस्य मम तद्धर्म एव आत्मनि अन्तःकरणे रुचिः प्रजायते प्राजायत ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

तत्रान्वहं कृष्णकथाः प्रगायता
मनुग्रहेणाशृणवं मनोहराः।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग ममाभवद्रुचिः॥

मूलम्

तत्रान्वहं कृष्णकथाः109 प्रगायतामनुग्रहेणाशृण्वं मनोहराः।
ताश्श्रद्धया मेऽनुप110दं विशृण्वतः प्रियश्रवस्यङ्ग! म111माभवद्रु112चिः॥ २६ ॥

अनुवाद (हिन्दी)

प्यारे व्यासजी! उस सत्संगमें उन लीलागानपरायण महात्माओंके अनुग्रहसे मैं प्रतिदिन श्रीकृष्णकी मनोहर कथाएँ सुना करता। श्रद्धापूर्वक एक-एक पद श्रवण करते-करते प्रियकीर्ति भगवान‍्में मेरी रुचि हो गयी॥ २६॥

वीरराघवः

तत्र आत्मरुचौ जातायां सत्यां अन्वहं अनुदिनं कृष्णस्य भगवतः कथाः प्रगायतां कथयताम् योगिनां अनुग्रहेण मनोहरा113 मनोज्ञाः114 कथाः अशृणवं श्रुतवान् अस्मि । ताः कृष्णकथाः अनुसवं त्रिकालं श्रद्धया विशृण्वतः मम अङ्ग! हे व्यास! प्रियं श्रोतॄणां प्रीत्यावहं श्रवः कीर्तिः यस्य तस्मिन् भगवति रतिः अनुरागः अभवत् बभूव ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

तस्मिंस्तदा लब्धरुचेर्महामुने
प्रियश्रवस्यस्खलिता मतिर्मम।
ययाहमेतत्सदसत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे॥

मूलम्

तस्मिंस्तदा लब्धरुचेर्महामु115ने प्रियश्रवस्यस्खलिता मतिर्मम।
यया116हमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे॥ २७ ॥

अनुवाद (हिन्दी)

महामुने! जब भगवान‍्में मेरी रुचि हो गयी, तब उन मनोहरकीर्ति प्रभुमें मेरी बुद्धि भी निश्चल हो गयी। उस बुद्धिसे मैं इस सम्पूर्ण सत् और असत्-रूप जगत‍्को अपने परब्रह्मस्वरूप आत्मामें मायासे कल्पित देखने लगा॥ २७॥

वीरराघवः

तदा तस्मिन् प्रियश्रवसि ब117द्धा रुचिः येन तस्य मम हे महाम118ते! प्रियश्रवसि मतिः अस्खलिगा स्थिरा बभूव । अस्खलितां मतिं विशिनष्टि - यया मत्या परे ब्रह्मणि परब्रह्मधार्ये मयि वर्तमानं एतत् सदसत्कार्यकारणात्मकं जगत् स्वमायया स्वसम्बन्धिन्या प्रकृत्या कल्पितं निष्पादितं न तु स्वतः इत्यर्थः । पश्ये दृष्टवानस्मि । “तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता, एवमेवैता भूतमात्रा प्रज्ञामात्रास्वर्पिता प्रज्ञामात्रा प्राणेऽर्पिताः” (कौषी. उ. 3-9) “जीवभूतां महाबाहो ययेदं धार्यते जगत्” (भार. 6-29-5) इत्युक्तप्रकारेण प्रकृतिश्चेतनधार्या, चेतनः परमात्मधार्यः इति देहात्मभेदं आत्मपरमात्मसम्बन्धञ्च ज्ञातवान् अस्मि इत्यर्थः ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

इत्थं शरत्प्रावृषिकावृतू हरे-
र्विशृण्वतो मेऽनुसवं यशोऽमलम्।
संकीर्त्यमानं मुनिभिर्महात्मभि-
र्भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा॥

मूलम्

इत्थं शरत्प्रावृषिकावृतू हरेः विशृण्वतो मेऽनुसवं यशोऽमलम्।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिः भक्तिः प्रवृत्ताऽऽत्मरजस्तमोपहा॥ २८ ॥

अनुवाद (हिन्दी)

इस प्रकार शरद् और वर्षा—इन दो ऋतुओंमें तीनों समय उन महात्मा मुनियोंने श्रीहरिके निर्मल यशका संकीर्तन किया और मैं प्रेमसे प्रत्येक बात सुनता रहा। अब चित्तके रजोगुण और तमोगुणको नाश करनेवाली भक्तिका मेरे हृदयमें प्रादुर्भाव हो गया॥ २८॥

वीरराघवः

इत्थं शरत्प्रावृषिकौ शरत्प्रावृषौ ऋतू अनुसवं अमलं महात्मभिः मुनिभिः सङ्कीर्त्यमानं हरेः यशः विशृण्वतः मम आत्मनि ये रजस्तमसी तयोर119पहन्त्री भक्तिः प्रवृत्ता बभूव ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च॥

मूलम्

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च॥ २९ ॥

अनुवाद (हिन्दी)

मैं उनका बड़ा ही अनुरागी था, विनयी था; उन लोगोंकी सेवासे मेरे पाप नष्ट हो चुके थे। मेरे हृदयमें श्रद्धा थी, इन्द्रियोंमें संयम था एवं शरीर, वाणी और मनसे मैं उनका आज्ञाकारी था॥ २९॥

वीरराघवः

तस्य प्रवृत्तभक्तेः अनुरक्तस्य बालस्यापि प्रश्रितस्य विनीतस्य हतं एनः पापं यस्य श्रद्धायुक्तस्य दान्तस्य जितेन्द्रियस्य अनुचरस्य अनुवर्तिनः मे मह्यम् ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

ज्ञानं गुह्यतमं यत्तत्साक्षाद‍्भगवतोदितम्।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः॥

मूलम्

ज्ञानं गुह्यतमं यत्तत् साक्षाद‍्भगवतोदितम्।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः॥ ३० ॥

अनुवाद (हिन्दी)

उन दीनवत्सल महात्माओंने जाते समय कृपा करके मुझे उस गुह्यतम ज्ञानका उपदेश किया, जिसका उपदेश स्वयं भगवान‍्ने अपने श्रीमुखसे किया है॥ ३०॥

वीरराघवः

यद्भगवता साक्षात् उदितं ज्ञानं तद्गमिष्यन्तः गन्तुं उद्यताः दीनवत्सलाः योगिनः कृपया अन्ववोचन् उपदिदिशुः इत्यर्थः ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

येनैवाहं भगवतो वासुदेवस्य वेधसः।
मायानुभावमविदं येन गच्छन्ति तत्पदम्॥

मूलम्

येनैवाहं भगवतो वासुदेवस्य वेधसः।
मायानुभावमविदं येन गच्छन्ति तत्पदम्॥ ३१ ॥

अनुवाद (हिन्दी)

उस उपदेशसे ही जगत‍्के निर्माता भगवान् श्रीकृष्णकी मायाके प्रभावको मैं जान सका, जिसके जान लेनेपर उनके परमपदकी प्राप्ति हो जाती है॥ ३१॥

वीरराघवः

ज्ञानं विशिनष्टि - येन ज्ञानेनाहं भगवतः वेधसः विश्वविधातुः वासुदेवस्य मायानुभावं त्रिगुणात्मकप्रकृतिमहिमानं अविदं ज्ञातवान् अस्मि अनेन विरोधिस्वरूपज्ञानं उक्तम् । येन च ज्ञानेन तस्य वासुदेवस्य पदं स्थानं गच्छन्ति । अनेन प्राप्यप्रापकविषयज्ञानं उक्तम् । अर्थपञ्चकज्ञानं उपदिदिशुः इति फलितम् ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्॥

मूलम्

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्॥ ३२ ॥

अनुवाद (हिन्दी)

सत्यसंकल्प व्यासजी! पुरुषोत्तम भगवान् श्रीकृष्णके प्रति समस्त कर्मोंको समर्पित कर देना ही संसारके तीनों तापोंकी एकमात्र ओषधि है, यह बात मैंने आपको बतला दी॥ ३२॥

वीरराघवः

तदेवं स्वपूर्वजन्मवृत्तान्तदृष्टान्तेन भगवद्गुणश्रवणादेः तद्भक्तियोगसाधनत्वं उक्तम् । भक्तियोगस्य शश्वद्भद्रगर्भत्वं पूर्वमेव प्रतिपादितम् । धर्मकृतेऽनुशासतः स्वभावरक्तस्य इत्यनेन त्रैवर्गिककर्ममूलकतापत्रयाभिहतजनोद्देशेन पुनः त्रैवर्गिकधर्मानुशासनं तापत्रयनिमित्तधर्मार्थत्वेन निन्दितं इत्युक्तम् । तेन ईश्वरे न चार्पितं कर्म इत्यनेन च अनभिसंहितफलस्य कर्मणः भक्तियोगनिष्पादनद्वारा तापत्रयनिवृत्तिहेतुत्वं वदन् त्रैवर्गिकस्य कर्मणः पुनः पुनः तापत्रयहेतुत्वमेव सदृष्टान्तं उपपादयति - एतदिति त्रिभिः । हे ब्रह्मन्! तापत्रयचिकित्सितं ता120पानां आध्यात्मिकाधिभौतिकाधिदैविकानां दुःखानां त्रयं तापत्रयं तच्चिकित्सितं प्रतिकृतं भवति येन तापत्रयचिकित्सितं तापत्रयप्रती121कारं इत्यर्थः । तदेतदेव संसूचितं श्रुतिस्मृत्यादिभिः इति शेषः । किं यत् ब्रह्मणि ईश्वरे भगवति भावितं समर्पितं 122कर्मैव तापत्रयचिकित्सितं इति सूचितं इत्यर्थः । “धर्मेण पापं अपनुदति” (म. ना. उ. 17-6) “अविद्यया मृत्युं तीर्त्वा” (ईशा. उ. 11) इत्यादिका श्रुतिः, स्मृतिश्च “यज्ञो दानं तपः कर्म पावनानि मनीषिणां” (भ.गी. 18-5) इत्यादिका । तापत्रयं हि पापमूलकं अनभिसंहितफलेन 123कर्मणा पापनिवृत्ति भक्तियोगनिष्पत्तिद्वारा तापत्रयं निवर्तत इति श्रुति स्मृतिभिः सूच्यते ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

आमयो यश्च भूतानां जायते येन सुव्रत।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्॥

मूलम्

आमयो य124श्च भूतानां जायते येन सुव्रत।
तदेव ह्यामयं125 द्रव्यं 126न पुनाति चिकित्सितम्॥ ३३ ॥

अनुवाद (हिन्दी)

प्राणियोंको जिस पदार्थके सेवनसे जो रोग हो जाता है, वही पदार्थ चिकित्साविधिके अनुसार प्रयोग करनेपर क्या उस रोगको दूर नहीं करता?॥ ३३॥

वीरराघवः

त्रैवर्गिककर्मणः तापत्रयहेतुत्वं वक्तुं तावत् दृष्टान्तमाह - आमय इति । यद्यपि उदाहृतश्रुतिस्मृतिवचोभिः पापस्यैव तापत्रयमूलत्वं सूचितं, तथापि त्रैवर्गि127ककर्मणः अन्ततोऽनिष्टावहत्वेन पापवत् अनिष्टसाधनत्वात् तदपि तापत्रयनिमित्तमेव । हे सुव्रत! यथा येन अपथ्यान्नादिना भूतानां यः आमयः रोगः जायते, तदामयकारणं द्रव्यं चिकित्सितमपि प्रतीकारत्वेन सेवितमपि आमयं न पुनाति न शोधयति । चिकित्सितोऽपि व्याधिः अपथ्यादिना पुनः वर्धत इत्यर्थः । चिकित्सितं इति आमयविशेषणं वा । आमयकारणेन चिकित्सितं प्रतिकृतं अपि आमयं व्याधिं तदामयकारणं द्रव्यं न पुनातीत्यर्थः ॥ ३३ ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे॥

मूलम्

एवं नृणां क्रियायोगाः स128र्वे संसृतिहेतवः।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे॥ ३४ ॥

अनुवाद (हिन्दी)

इसी प्रकार यद्यपि सभी कर्म मनुष्योंको जन्म-मृत्युरूप संसारके चक्रमें डालनेवाले हैं, तथापि जब वे भगवान‍्को समर्पित कर दिये जाते हैं, तब उनका कर्मपना ही नष्ट हो जाता है॥ ३४॥

वीरराघवः

दृष्टान्तेन अभिमतं अर्थं दार्ष्टान्तिके129ऽनुगमयति - एवम् इति । एवं अपथ्यान्नादेः आमयकारणव130त् नृणां सर्वे क्रियायोगा अनभिसंहितफलकर्मव्यतिरिक्ताः सर्वे त्रैवर्गिकाः क्रियायोगाः संसृतेर्हेतवः 131अत एव परस्मिन् आत्मनि अकल्पिताः असमर्पिताः आत्मविनाशाय कल्पन्ते । आत्मनः अन्ततः स्थावरत्वरूपविनाशाय कल्पन्ते सम्पन्ना भवन्ति ॥ ३४ ॥

श्लोक-३५

विश्वास-प्रस्तुतिः

यदत्र क्रियते कर्म भगवत्परितोषणम्।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्॥

मूलम्

यदत्र क्रियते कर्म भगवत्परितोषणम्।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्॥ ३५ ॥

अनुवाद (हिन्दी)

इस लोकमें जो शास्त्रविहित कर्म भगवान‍्की प्रसन्नताके लिये किये जाते हैं, उन्हींसे पराभक्तियुक्त ज्ञानकी प्राप्ति होती है॥ ३५॥

वीरराघवः

तर्हि परस्मिन् कल्पिताः क्रियायोगाः किं वा साक्षात् निःश्रेयसहेतवः न भक्तियोगनिष्पादनद्वारा इत्याह - यत् इति । भगवान् परितुष्यते भक्तियोगोत्पत्तिप्रतिबन्धकनिरसनोपयुक्तपरितोषयुक्तो भवति, येन तदाराधनरूपेण कर्मणा तद्भगवत्परितोषणं यत् कर्म अत्र लोके क्रियते । अनुक्रियत इति पाठे अनुस्यूततयाऽऽशरीरपातं क्रियते । तदधीनं यत्कर्माधीनं तन्निष्पाद्यमेव भक्तियोगसमन्वितं ज्ञानम् । अत्र ध्यानसाध्यं दर्शनात्मकं विवक्षितं, “भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन! ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥” (भ.गी. 11-54) इत्युक्तत्वात् ॥ ३५ ॥

श्लोक-३६

विश्वास-प्रस्तुतिः

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत्।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च॥

मूलम्

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयाऽसकृत्।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च॥ ३६ ॥

अनुवाद (हिन्दी)

उस भगवदर्थ कर्मके मार्गमें भगवान‍्के आज्ञानुसार आचरण करते हुए लोग बार-बार भगवान् श्रीकृष्णके गुण और नामोंका कीर्तन तथा स्मरण करते हैं॥ ३६॥

वीरराघवः

न केवलं भगवत्परितोषणात्मकं कर्मैव भक्तियोगानुग्राहकं, अपि तु भगवद्गुणश्रवणादिकमपि इत्याह - कुर्वाणा इति । भगवच्छिक्षया “यत्करोषि यदश्नासि यज्जुहोषि” (भ.गी. 9-27), “मयि सर्वाणि कर्माणि सन्न्यस्य” (भ.गी. 3-30) इत्याद्युक्तभगवच्छिक्षया असकृत् कर्माणि वर्णाश्रमानुरूपणि कुर्वाणाः कृष्णस्य भगवतः गुणान् नामानि च कल्याणगुणप्रकाशकानि 132वा गा133यन्ति अनुस्मरन्ति च । नामानि गृणन्ति गुणान् अनुस्मरन्ति च इत्यर्थः । भक्तियोगनिष्पत्तिकामा इति कर्तृपदं अध्याहर्तव्यम् । यथा भगवच्छिक्षया असकृत् कृतानि कर्माणि भक्तियोगानुग्राहकाणि तथा गुणानामानुस्मरणादिकमपि इति भावः ॥ ३६ ॥

श्लोक-३७

विश्वास-प्रस्तुतिः

नमो भगवते तुभ्यं वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च॥

मूलम्

134नमो भगवते तुभ्यं वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमस्सङ्कर्षणाय च॥ ३७ ॥

अनुवाद (हिन्दी)

‘प्रभो! आप भगवान् श्रीवासुदेवको नमस्कार है। हम आपका ध्यान करते हैं। प्रद्युम्न, अनिरुद्ध और संकर्षणको भी नमस्कार है’॥ ३७॥

वीरराघवः

गुणनामस्मरणादिपूर्वकं अनभिसंहितफलकर्मानुष्ठानप्रकारमेव दर्शयन् तथा कुर्वाण एव उत्तमाधिकारी इत्याह - ओं इति द्वाभ्याम् । ओं ब्रह्मणः “ओं तत्सदिति निर्देशः ब्रह्मणः त्रिविधः स्मृतः” (भार. 6-39-23) इति भगवदुक्तेः वासुदेवादिव्यूहचतुष्टयरूपेण अवस्थिताय भगवते नमो नमः इति नामोच्चारणप्रकारदर्शनं धीमहि, ओमादिशब्दप्रकाशितकल्याणगुणविशिष्टं परमात्मानं ध्यायेम स्मरेम इति गुणस्मरणप्रकार प्रदर्शनं, तत्र अवतेर्धातोः निष्पन्नेन ओं इत्यनेन सर्वरक्षकत्वं अकारोकारमकाराणां संहितावशात् निष्पन्नेन ओं इत्येनेन तु सर्वकारणत्वसर्वशेषित्वादिकं - उभयविधेन ओं इत्यनेन प्रत्यभिज्ञापितब्रह्मशब्देन स्वरूपतः गुणतः च कल्याणगुणानन्त्यं अबृहतामपि बृहत्वावहत्वं च - वासुदेवपदेन सर्वाधारत्वं सर्वान्तरात्मत्वं च प्रद्युम्नशब्देन “न तत्र सूर्यो भाति” (कठ. उ. 5-15) इत्युक्तविधनिरतिशयदीप्तियुक्तत्वं, अनिरुद्धपदेन सर्वव्यापकत्वं, सङ्कर्षणपदेन अतीन्द्रियार्थविषयकज्ञानापादकत्वं च फलितम् । उपलक्षणमिदं एतत्प्रभृत्रयः गुणा अनुसन्धेया इत्यर्थः । सङ्कर्षणशब्दनिरुक्तिः पञ्चमे वक्ष्यते ॥ ३७ ॥

श्लोक-३८

विश्वास-प्रस्तुतिः

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्॥

मूलम्

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्॥ ३८ ॥

अनुवाद (हिन्दी)

इस प्रकार जो पुरुष चतुर्व्यूहरूपी भगवन्मूर्तियोंके नामद्वारा प्राकृतमूर्तिरहित अप्राकृत मन्त्रमूर्ति भगवान् यज्ञपुरुषका पूजन करता है, उसीका ज्ञान पूर्ण एवं यथार्थ है॥ ३८॥

वीरराघवः

इति इत्थं अमूर्तिकं कर्मवश्यप्राकृतमूर्तिरहितं मन्त्रमूर्तिं ओमित्याद्युक्तमन्त्रप्रकाश्या मूर्तिः अप्राकृता अकर्ममूला स्वेच्छोपात्ता च यस्य तं मन्त्रशरीरकं वा अभिध्यायन् ओमादिनामानि अनुगृणंश्च यज्ञाराध्यं परमपुरुषं यो यजते स्वध135र्मेणाराधयति स एव पुमान् सम्यग्दर्शनः “ज्ञानत्वात्मैव मे मतः” (भ.गी. 7-10) इत्युक्तविधः अधिकारी इत्यर्थः ॥ ३८ ॥

श्लोक-३९

विश्वास-प्रस्तुतिः

इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः॥

मूलम्

इमं स्वनि136गमं ब्रह्मन्नवेत्य मदनुष्ठितम्।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः॥ ३९ ॥

अनुवाद (हिन्दी)

ब्रह्मन्! जब मैंने भगवान‍्की आज्ञाका इस प्रकार पालन किया, तब इस बातको जानकर भगवान् श्रीकृष्णने मुझे आत्मज्ञान, ऐश्वर्य और अपनी भावरूपा प्रेमाभक्तिका दान किया॥ ३९॥

वीरराघवः

एवं यजतां आशु भक्तियोगः निष्पद्यते इत्यभिप्रायेण आत्मानं दृष्टान्तयति - इमम् इति । हे ब्रह्मन्! मदनुष्ठितं इमं स्वस्य भगवतः निगमं अनुशासनं अवेत्य दृष्ट्वा केशवः स्वस्मिन् भावं भक्तिं तत्साध्यं दर्शनात्मकं ज्ञानं ऐश्वर्यञ्च देवर्षित्वोचितं अदात् ददौ इत्यर्थः ॥ ३९ ॥

श्लोक-४०

विश्वास-प्रस्तुतिः

त्वमप्यदभ्रश्रुत विश्रुतं विभोः
समाप्यते येन विदां बुभुत्सितम्।
आख्याहि दुःखैर्मुहुरर्दितात्मनां
संक्लेशनिर्वाणमुशन्ति नान्यथा॥

मूलम्

त्वमप्यदभ्रश्रुत! विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्।
137ख्याहि दुःखैर्मुहुरर्दितात्मनां स138क्लेशनिर्वाणमुशन्ति नान्यथा॥ ४० ॥

अनुवाद (हिन्दी)

व्यासजी! आपका ज्ञान पूर्ण है; आप भगवान‍्की ही कीर्तिका—उनकी प्रेममयी लीलाका वर्णन कीजिये। उसीसे बड़े-बड़े ज्ञानियोंकी भी जिज्ञासा पूर्ण होती है। जो लोग दुःखोंके द्वारा बार-बार रौंदे जा रहे हैं, उनके दुःखकी शान्ति इसीसे हो सकती है और कोई उपाय नहीं है॥ ४०॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः॥ ५॥

वीरराघवः

उत्तरमुपसंहरति- त्वम् इति । हे अदभ्रश्रुत! अनल्पकीर्ते! त्वं विभोः भगवतः विश्रुतं यशः प्रख्याहि प्रबध्नीहि । येन विश्रुतप्रख्यानेन विदां बोद्धृणां बुभुत्सितं बोद्धुं इष्टं समाप्यते आपूर्यते न निरवशिष्यत इति यावत् । युच्छ्रतस्य तस्य जिज्ञासितव्यं नावशिष्यते तथाविधं आख्यानं कुरु इत्यर्थः । किञ्च दुःखैः त्रिभिः तापैः मुहुः मुहुः अर्दितः पीडितः आत्मा मनो येषां139 क्ले140शनिर्वाणं क्लेशा आध्यात्मिकादयः ते निर्वाप्यन्ते अपनोद्यन्ते येन - अन्यथा उपायान्तरेण तु न निर्वाप्यन्ते । तथाविधं यथाशान्ति अतीवाद्रियन्ते, तादृशं प्रख्याहि इत्यन्वयः ॥ ४० ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां पञ्चमोऽध्यायः ॥ ५ ॥


  1. B,H,V नमुपा ↩︎

  2. W भगवतः ↩︎

  3. W तवात्मना ↩︎

  4. W adds परितुष्यत्येव वा ↩︎

  5. B,H,I,K,M,V,W तथाऽपि ↩︎

  6. K,M यः पुरुषः ↩︎

  7. H परापरेशो ↩︎

  8. B भगवान् ↩︎

  9. W adds सर्वज्ञस्य ↩︎

  10. H,W परापरे ↩︎

  11. A,B omit साक्षात् ↩︎

  12. H,V त्तु ↩︎

  13. A,B र्णितेनै ↩︎

  14. W या ↩︎

  15. W sdds रूप ↩︎

  16. K,M योह्यर्था: ↩︎

  17. H,V वर्णिता: ↩︎

  18. K,W त ↩︎

  19. K,M न ↩︎

  20. W ही ↩︎

  21. V वि , K,M न्यपतन्मिमङ्क्षया ↩︎

  22. B,W थ ↩︎

  23. W अभागवतधर्मप्रतिपादकस्य ↩︎

  24. W adds इच्छन्ति ↩︎

  25. K,M स वाग्वि ↩︎

  26. W adds च ↩︎

  27. W च ज्ञानमलं ↩︎

  28. W adds ज्ञान ↩︎

  29. W र्म्यज्ञानमेव ↩︎

  30. H,K,M,V तो ; W हो ↩︎

  31. H,K,M,V य ↩︎

  32. A,B परिहारेण प्रायेण भगव ↩︎

  33. W त्व ↩︎

  34. इदं वाक्यं प्रायशः “कथमेवं महाभाग्यं ज्ञायते” इति भवितुमर्हति इति सम्भाव्यते । ↩︎

  35. W महं ज्ञाये इत्यतो ↩︎

  36. W त्रिलोकी सङ्ग्राहका यस्य ↩︎

  37. W adds तत् ↩︎

  38. K,M,W अ ↩︎

  39. K,M क्षितं ↩︎

  40. B,H,I,K,M,V कर्हि ↩︎

  41. W निवर्तते ↩︎

  42. A,B omit प्रतिष्ठां ↩︎

  43. W अ ↩︎

  44. W त ↩︎

  45. W विषशास्त्रार्थ ↩︎

  46. A,B इम ↩︎

  47. W अन्यत्वेन ↩︎

  48. W लभते ↩︎

  49. W वर्णनीयंचे ↩︎

  50. W लभते ↩︎

  51. W क्तः ↩︎

  52. W लभते ↩︎

  53. K,M नं ↩︎

  54. W र्थ ↩︎

  55. B,W त्यस्या ↩︎

  56. W त्र ↩︎

  57. W वेदितुः त्वत्तोऽर्वाचीनः ↩︎

  58. W न ↩︎

  59. H,V णः- कोऽर्हति ↩︎

  60. B,N भो! ↩︎

  61. W धर्मतः ↩︎

  62. W दर्श ↩︎

  63. W स्सं ↩︎

  64. K,M omit किं ↩︎

  65. K,M र्मम् ↩︎

  66. W adds तु ↩︎

  67. W त ↩︎

  68. A,B भजमानः ↩︎

  69. B,W म्रियते ↩︎

  70. W रालभ्यसुख ↩︎

  71. W प्रदर्शना ↩︎

  72. W णेत्युप ↩︎

  73. W adds प्रयन्त्रमन्तरेण ↩︎

  74. H,V स ↩︎

  75. K,M ही ↩︎

  76. H,I,K,M,V जनः ↩︎

  77. W मुच्यत एवे ↩︎

  78. H,V च ↩︎

  79. K,M वः ↩︎

  80. H,V,W मे ; I ते; K,M omit वै ↩︎

  81. AF प्र ↩︎

  82. W adds तर्हि ↩︎

  83. W adds अपि ↩︎

  84. W र्थोऽत्रा ↩︎

  85. W शक्तित्वसर्वज्ञत्वस्थानकारणत्वाऽऽक्षिप्तसर्वान्तरात्मत्वचिदचिद्विशिष्टत्व तन्मूलकजगद्विशेष्यत्व तन्मूलक तद्विलक्षणत्व निरोधकारणत्वाक्षिप्तोपास्यत्वमोक्षदत्वादयो ↩︎

  86. W adds मे ↩︎

  87. W adds प्रादेश एव ↩︎

  88. K,M नु ↩︎

  89. W अंशजमपि ↩︎

  90. W adds च तत् ↩︎

  91. W देव एतेन ↩︎

  92. H omits वा ↩︎

  93. H,V,W पूर्तस्य ↩︎

  94. K,M,W च बुद्ध; H,V सुसूक्त ↩︎

  95. K,M प्लु ↩︎

  96. B उ ↩︎

  97. AF कीर्त ↩︎ ↩︎

  98. W बुद्धं ↩︎

  99. W सङ्कलय्य ↩︎

  100. W येत ↩︎

  101. H,V सुतो ↩︎

  102. A तपआदि तत्तत्क्रियारूपत्वं न स्वतः पुरुषाराधनत्वादविच्युतार्थत्वमस्येति चेत् तत्प्रतिवक्तं तत्र ↩︎

  103. H,V व ↩︎

  104. W जैह्यया ↩︎

  105. K,M द्य ↩︎

  106. K,M च्च ↩︎

  107. B,K,M भि ↩︎

  108. W बन्धक ↩︎

  109. H थां ↩︎

  110. H,K,M,V,W सर्व ↩︎

  111. K,M तदा ↩︎

  112. B,H,V,W द्रतिः ; K,M न्मतिः ↩︎

  113. W adds अति ↩︎

  114. W adds कृष्ण ↩︎

  115. H,I,V मते ↩︎

  116. H,V ममै ↩︎

  117. W लब्धा ↩︎

  118. W मुने ↩︎

  119. W रपहा ↩︎

  120. A,B omit तापानां …… तापत्रयचिकित्सितं ↩︎

  121. W प्रतिकारकं ↩︎

  122. B,W add कर्मेति ईश्वरार्पितं ↩︎

  123. W adds धर्मेण पापे निवृते भक्तियोग ↩︎

  124. K,M ऽय ↩︎

  125. K,M य ↩︎

  126. K,M तत् ↩︎

  127. A,B र्णि ↩︎

  128. V परे ↩︎

  129. W केनानु ↩︎

  130. W त्वा ↩︎

  131. W तत ↩︎

  132. B,W add नामानि ↩︎

  133. W गृणन्ति ↩︎

  134. B,I,K,M,W add ओं ↩︎

  135. W धर्मैरा ↩︎

  136. K,M धर्मनियमममवे ↩︎

  137. B,H,K,M,N,V,W प्र; I प्रा ↩︎

  138. N यत् ↩︎

  139. B,W add तेषां ↩︎

  140. W यत् क्लेश ↩︎