[चतुर्थोऽध्यायः]
भागसूचना
महर्षि व्यासका असन्तोष
श्लोक-१
मूलम् (वचनम्)
व्यास उवाच
विश्वास-प्रस्तुतिः
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥
मूलम्
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्त्रिणाम्।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥ १ ॥
अनुवाद (हिन्दी)
व्यासजी कहते हैं—उस दीर्घकालीन सत्रमें सम्मिलित हुए मुनियोंमें विद्यावयोवृद्ध कुलपति ऋग्वेदी शौनकजीने सूतजीकी पूर्वोक्त बात सुनकर उनकी प्रशंसा की और कहा॥ १॥
वीरराघवः
इत्थं लब्धावसरः शौनकः पृच्छतीति आह व्यासः इतीति । अत्र व्यास उवाचेति पठ्यते युक्तं चैतत् । कृत्स्नप्रबन्धस्य व्यासोक्तिरूपत्वेऽपि परीक्षिच्छुकशौनक सूतप्रश्नोत्तररूपेण प्रणीतत्वात्, तत्र तत्र परीक्षिदादिप्रश्नोत्तरत्वज्ञापनाय राजोवाच, शुक उवाच इत्यादीनां पाठेऽपि यत्र शौनकसूतकृत प्रश्नोत्तरप्रकारानुकाररूपाः श्लोका दृश्यन्ते तेषां सर्वेषामादौ शौनकसूतप्रश्नोत्तरत्वज्ञापनाय तेषां व्यासोक्तित्वज्ञापनाय च तदादौ व्यास उवाच इत्यस्य पाठावश्यम्भावात् । क्वचित्तदभावेप्यर्थतः तस्य विवक्षितत्वात् शौनकादेरर्वाचीनस्य नियतप्रष्ट्रन्तरादेः अभावादेव अमुक उवाच इति पाठायोगात् । एतेनात्रैव व्यास उवाच इति पठ्यते, न क्वाप्यन्यत्र अस्मिन् पुराणे । तत्र मूलं मृग्यमिति केषाञ्चिदाशङ्का 1प्रत्युक्ता । इति इत्थं ब्रुवाणं सूतं संस्तूय दीर्घसत्त्रिणां ब्रह्मसत्त्रेण दीक्षितानां मुनीनां कुलस्य समूहस्य पतिः । कुलशब्दस्य नित्यसापेक्षत्वात् “देवदत्तस्य गुरुकुलं” इत्यादाविव समासः । वृद्धः ज्ञानेन वयसा च वृद्धः । बह्वृचः ऋग्वेदी शौनकोऽब्रवीत् ॥ १ ॥
श्लोक-२
मूलम् (वचनम्)
शौनक उवाच
विश्वास-प्रस्तुतिः
सूत सूत महाभाग वद नो वदतां वर।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः॥
मूलम्
सूत! सूत! महाभाग! वद नो वदतां वर!।
कथां भागवतीं पुण्यां 2यदाह भगवाञ्छुकः॥ २ ॥
अनुवाद (हिन्दी)
शौनकजी बोले—सूतजी! आप वक्ताओंमें श्रेष्ठ हैं तथा बड़े भाग्यशाली हैं, जो कथा भगवान् श्रीशुकदेवजीने कही थी, वही भगवान्की पुण्यमयी कथा कृपा करके आप हमें सुनाइये॥ २॥
वीरराघवः
तदेवाह - सूत! सूत! इत्यादिभिः द्वादशभिः । हे सूत! सूत! आदरात् सम्भ्रमाद्वा द्विरुक्तिः । हे महाभाग ! भाग्यवन्! भाग्यमत्र निखिलतत्त्वज्ञानित्वरूपम् । हे वदतां वर ! भागवतीं श्रीमद्भागवतमहापुराणप्रतिपाद्यां कथां नोऽस्मभ्यं वद । भागवतं विशिनष्टि - यद्भागवतं भगवान् शुक आह परीक्षिते इति शेषः । वृत्तस्यापि भागवतस्य बुद्ध्या निष्कृष्टस्य यदित्यनेन परामर्शः ॥ २ ॥
श्लोक-३
विश्वास-प्रस्तुतिः
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना।
कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः॥
मूलम्
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना।
कुतस्सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः॥ ३ ॥
अनुवाद (हिन्दी)
वह कथा किस युगमें, किस स्थानपर और किस कारणसे हुई थी? मुनिवर श्रीकृष्णद्वैपायनने किसकी प्रेरणासे इस परमहंसोंकी संहिताका निर्माण किया था?॥ ३॥
वीरराघवः
एवं सामान्यतः पृष्ट्वा विशेषतः पृच्छति - कस्मिन्निति । इयं भागवती कथा कस्मिन् युगे प्रवृत्ता इत्येकः प्रश्नः । कस्मिन् स्थाने इत्यपरः । केन हेतुनेति तृतीयः । कुतः कस्माद्धेतोः केन पुंसा सञ्चो3दितः कृष्णो मुनिः द्वैपायनः इमां संहितां भागवतरूपां कृतवानिति चतुर्थः ॥ ३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते॥
अनुवाद (हिन्दी)
उनके पुत्र शुकदेवजी बड़े योगी, समदर्शी, भेदभावरहित, संसारनिद्रासे जगे एवं निरन्तर एकमात्र परमात्मामें ही स्थिर रहते हैं। वे छिपे रहनेके कारण मूढ़-से प्रतीत होते हैं॥ ४॥
वीरराघवः
यदुक्तं “स तु संश्रावयामास महाराजं परीक्षितम्” (भाग 1-3-42) इति तदघटनमिव अभिप्रेत्य तद्धेतुभूतैः विशेषणैः शुकं विशिनष्टि - तस्य इत्यादिभिः पञ्चभिः । तस्य कृष्णस्य मुनेः पुत्त्रः शुको महायोगी योगिश्रेष्ठः । श्रेष्ठत्वमाह - समदृक् सर्वदेवमनुष्यादिशरीरजातं प्रधानपरिणामरूपत्वेन पराक्त्वेन च जीववर्गं ज्ञानैकाकारत्वेन सर्वत्रानुस्यूतं परमात्मानं सत्यज्ञानादिकल्याणगुणाकरत्वेन चेत्येवं रूपं समं पश्यतीति समदृक् । 6एवंविधमेव समदर्शित्वं “विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डितास्समदर्शिनः ॥” (भ.गी. 5- 18) इत्यादाव7प्यगीयत । निर्विकल्पकः भेदानुसन्धानरहितः । देहगतविकल्पानां देवमनुष्यत्वादीनां आत्मनि नारोपयिता । यद्वा अब्रह्मात्मकस्वतन्त्रवस्तु8ज्ञानरहितः । एकान्तमतिः एकान्ता अव्यभिचारिणी निश्चितेति यावत् । मतिर्भगवति यस्य तथाभूतः । उन्निद्रः जागरूकः “या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।” (भ.गी. 2-69) इत्युक्तविध9जागरूक इत्यर्थः । गूढः स्वमाहात्म्यानावि10ष्कारशीलः मूढः अज्ञ इव ईयते11 दृश्यत इत्यर्थः ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥
मूलम्
12दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नम् देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥ ५ ॥
अनुवाद (हिन्दी)
व्यासजी जब संन्यासके लिये वनकी ओर जाते हुए अपने पुत्रका पीछा कर रहे थे, उस समय जलमें स्नान करनेवाली स्त्रियोंने नंगे शुकदेवको देखकर तो वस्त्र धारण नहीं किया, परंतु वस्त्र पहने हुए व्यासजीको देखकर लज्जासे कपड़े पहन लिये थे। इस आश्चर्यको देखकर जब व्यासजीने उन स्त्रियोंसे इसका कारण पूछा, तब उन्होंने उत्तर दिया कि ‘आपकी दृष्टिमें तो अभी स्त्री-पुरुषका भेद बना हुआ है, परंतु आपके पुत्रकी शुद्ध दृष्टिमें यह भेद नहीं है’॥ ५॥
वीरराघवः
तस्य ज्ञानाधिक्यमेव 13व्यञ्जयितुं कञ्चिदितिहासमाह - दृष्ट्वा इत्यनेन । कदाचित् क्वचित् देवस्त्रियः नग्ना जले विहरन्त्यः पुरतो गच्छन्तं शुकमालोक्य वासांसि न परिदधुः, ततः पृष्ठतः आयान्तं व्यासमालोक्य तु ह्रिया परिदधुः । तदिदं चित्रमवलोक्य श्रीव्या14से पृच्छति शुकमवलोक्यापि वासांसि किं न परिधत्त मां त्ववलोक्य परिधत्तेति । तदा ता ऊचुः - तव तु स्त्रीपुरुषविवेकोऽस्ति । तव सुतस्य तु परमात्मनिष्ठैकमनसः तद्व्यतिरिक्तज्ञानाभावेन स्त्रीपुंविभागो नास्ति । अतस्तमवलोक्यापि लज्जारहिता न परिदधीम, 15त्वां तु अवलोक्य परिदधीम इति सोऽयमत्रोच्चते । आत्मजमनुयान्तमनग्नमपि ऋषिं व्यासं दृष्ट्वा देव्यो देवानां स्त्रियः ह्रिया लज्जया परिदधुः, वासांसीति शेषः । सुतस्य नग्नस्यापि दर्शने न परिदधुः । तद्विचित्रं वीक्ष्य मुनौ व्यासे पृच्छति सति जगदुः देव्य इत्यनुषङ्गः । किमिति ? तव 16स्त्रीपुंभिदा स्त्री17पुंभेदोऽस्ति त्वत्सुतस्य तु नास्ति । तत्र हेतुः विविक्ते प्रकृतिपुरुषविलक्षणे परमात्मन्येव दृष्टिर्यस्य तथाभूतत्वात् तद्दर्शनेनापि नास्माकं लज्जा बभूवेति ॥ ५॥
श्लोक-६
विश्वास-प्रस्तुतिः
कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये॥
मूलम्
कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्ग18लान्।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये॥ ६ ॥
अनुवाद (हिन्दी)
कुरुजांगल देशमें पहुँचकर हस्तिनापुरमें वे पागल, गूँगे तथा जडके समान विचरते होंगे। नगरवासियोंने उन्हें कैसे पहचाना?॥ ६॥
वीरराघवः
एवम्भूतः सदा कुरून् जाङ्गलांश्च उन्मत्तवन्मूढवज्जडवच्च विचरन् कथं वा गजसाह्वये हास्तिनाख्ये पुरे सम्प्राप्तः ? कथं च पौरैर्जनैरालक्षितः ? ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः॥
मूलम्
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह।
संवादस्समभूत्तात! यत्रैषा सात्वती श्रुतिः॥ ७ ॥
अनुवाद (हिन्दी)
पाण्डवनन्दन राजर्षि परीक्षित् का इन मौनी शुकदेवजीके साथ संवाद कैसे हुआ, जिसमें यह भागवतसंहिता कही गयी?॥ ७॥
वीरराघवः
कथं वा पाण्डवेयस्य राजर्षेः परीक्षितो मुनिना शुकेन सह संवादः सम्बभूव ? संवादं विशिनष्टि । यत्र संवादे एषा सात्वती, सातयति सुखयतीति सात् परमात्मा सातेः सुखार्थात् सौत्त्राद्धातोः हेतुमण्ण्यन्ताद्वासरूपविधिना “अनुपसर्गाल्लिम्पविन्द” (अष्टा. 3-1-138) इत्यादिना शप्रत्ययाभावपक्षे क्विपि सादिति व्युत्पत्तेः । सः प्रतिपाद्य19तया अस्तीति सात्वती । मतुप्युगित्वात् ङीप् । श्रुतिः श्रुतितुल्या प्रवृत्ता ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्॥
मूलम्
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्।
अवेक्षते महाभागः तीर्थीकुर्वंस्तदाश्रमम्॥ ८ ॥
अनुवाद (हिन्दी)
महाभाग श्रीशुकदेवजी तो गृहस्थोंके घरोंको तीर्थस्वरूप बना देनेके लिये उतनी ही देर उनके दरवाजेपर रहते हैं, जितनी देरमें एक गाय दुही जाती है॥ ८॥
वीरराघवः
संवादस्यासम्भावनां व्यञ्जयन्नाह - स इति । स महायोगी शुकः गृहमेधिनां गृहाश्रमिणां गृहेषु गोदोहनमात्रं, यावता कालेन गौर्दुह्यते तावन्तं कालं अवेक्षते । प्रतीक्षमाणः तिष्ठति; नत्वधिकमित्यर्थः । विरक्तत्वादिति भावः । कथमवेक्षते ? तेषां गृहमेधिनामाश्रमं तीर्थीकुर्वन् पवित्रीकर्तुमित्यर्थः ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥
मूलम्
अभिमन्युसुतं सूत! प्राहुर्भागवतोत्तमम्।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥ ९ ॥
अनुवाद (हिन्दी)
सूतजी! हमने सुना है कि अभिमन्युनन्दन परीक्षित् भगवान्के बड़े प्रेमी भक्त थे। उनके अत्यन्त आश्चर्यमय जन्म और कर्मोंका भी वर्णन कीजिये॥ ९॥
वीरराघवः
अन्यच्च पृच्छति अभिमन्युसुतमिति । हे सूत! अभिमन्योः सुतं परीक्षितं महाभागवतं प्राहुः । अतः तस्य महाश्चर्यं जन्मकर्माणि च नः अस्माकं गृणीहि कथय ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्॥
मूलम्
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्छ्रि्यम्॥ १० ॥
अनुवाद (हिन्दी)
वे तो पाण्डव-वंशके गौरव बढ़ानेवाले सम्राट् थे। वे भला, किस कारणसे साम्राज्यलक्ष्मीका परित्याग करके गंगातटपर मृत्युपर्यन्त अनशनका व्रत लेकर बैठे थे?॥ १०॥
वीरराघवः
स इति । पाण्डवानां पाण्डुवंशजानां मानं प्राशस्त्यं वर्धयतीति वर्धनः, नन्द्यादित्वात् कर्तरिल्युः । सम्राट् सार्वभौमः सः परीक्षित् कस्य हेतोः कस्माद्धेतोः अधिराट्छ्रियं अधिराज्यसम्पदमनादृत्य गङ्गायां प्रायोपविष्टः ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
नमन्ति यत्पादनिकेतमात्मनः
शिवाय हानीय धनानि शत्रवः।
कथं स वीरः श्रियमङ्ग दुस्त्यजां
युवैषतोत्स्रष्टुमहो सहासुभिः॥
मूलम्
नमन्ति यत्पादनिकेतमात्मनः शिवाय 20ह्यनीय धनानि शत्रवः।
कथं स वीरः श्रियमङ्ग! दुस्त्यजां 21युवैषतोत्स्रष्टुमह्मे सहासुभिः॥ ११ ॥
अनुवाद (हिन्दी)
शत्रुगण अपने भलेके लिये बहुत-सा धन लाकर उनके चरण रखनेकी चौकीको नमस्कार करते थे। वे एक वीर युवक थे। उन्होंने उस दुस्त्यज लक्ष्मीको, अपने प्राणोंके साथ भला, क्यों त्याग देनेकी इच्छा की॥ ११॥
वीरराघवः
नमन्तीति । शत्रवः आत्मनः स्वस्य शिवाय आत्मनां योगक्षेमाय धनानि आनीय आदाय समर्प्य इत्यर्थः । यस्य परीक्षितः पादनिकेतं पादपीठं नमन्ति । ह इत्याश्चर्ये । सः वीरः परीक्षित् युवा सन्नपि दुस्त्यजां श्रियमधिराट्छ्रियं असुभिः प्राणैस्सह उत्स्त्रष्टुं त्यक्तुं ऐषत ऐच्छत् । अहो अत्याश्चर्यमेतत् ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
शिवाय लोकस्य भवाय भूतये
य उत्तमश्लोकपरायणा जनाः।
जीवन्ति नात्मार्थमसौ पराश्रयं
मुमोच निर्विद्य कुतः कलेवरम्॥
मूलम्
शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा 22जनाः।
जीवन्ति नात्मार्थमसौ 23पराश्रयं मुमोच निर्वि24द्य कुतः कलेवरम्॥ १२ ॥
अनुवाद (हिन्दी)
जिन लोगोंका जीवन भगवान्के आश्रित है, वे तो संसारके परम कल्याण, अभ्युदय और समृद्धिके लिये ही जीवन धारण करते हैं। उसमें उनका अपना कोई स्वार्थ नहीं होता। उनका शरीर तो दूसरोंके हितके लिये था, उन्होंने विरक्त होकर उसका परित्याग क्यों किया॥ १२॥
वीरराघवः
ननु महाभागवतं प्राहुरिति त्वयैव उक्तत्वात् भागवतानां च देहतदनुबन्धिषु विरक्तेः स्वाभाविकत्वाच्च नेदमाश्चर्यं इत्यत आह - शिवाय इति । यद्यपि भागवता विरक्ताः, तथापि उत्तमश्लोको भगवानेव परं अयनं प्राप्यः प्रापकः25 आधारश्च येषां ते जना भागवता न आत्मार्थं जीवन्ति, किन्तु लोकस्य शिवाय मङ्गलाय भूतये श्रियै भवाय तस्या उत्तरोत्तरोदयाय च जीवन्ति एवं पराश्रयं परैः लोकैः शिवाद्यर्थं आश्रयणीयं परोपकारकमित्यर्थः । कलेबरं कुतः हेतोः निर्विद्य हेयं मत्वा मुमोच तत्याज ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥
मूलम्
तत्सर्वं नस्समाचक्ष्व पृष्टो यदिह किञ्चन।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥ १३ ॥
अनुवाद (हिन्दी)
वेदवाणीको छोड़कर अन्य समस्त शास्त्रोंके आप पारदर्शी विद्वान् हैं। सूतजी! इसलिये इस समय जो कुछ हमने आपसे पूछा है, वह सब कृपा करके हमें कहिये॥ १३॥
वीरराघवः
प्रश्नमुपसंहरति - तदिति । नः अस्माभिः पृष्टस्त्वं तदेतत् पृष्टं सर्वं सम्यगाचक्ष्व आख्याहि । 26यदपि किञ्चन अपृष्टमस्ति तदपि समाचक्ष्व । यद27सीतिपाठे यत् यस्मात् पृष्टः त्वं ततः पृष्टं तदेतत्सर्वं अन्यदपि किञ्चित् समाचक्ष्व । त्वां अन्यत्र छान्दसात् वेदवाक्यं विना वाचां इतिहासपुराणादिरूपाणां विषये स्नातं पारङ्गतं अधिकृतं वा मन्ये वेदवाक्यव्यतिरिक्तेतिहासपुराणादिश्रवणे त्वामेव अधिकारिणं व्यासानु28ग्रहात् रोमहर्षणसुतं मन्य इत्यर्थः ॥ १३ ॥
श्लोक-१४
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
द्वापरे समनुप्राप्ते तृतीये युगपर्यये।
जातः पराशराद्योगी वासव्यां कलया हरेः॥
मूलम्
द्वापरे समनुप्राप्ते तृतीये युगपर्यये।
जातः पराशराद्योगी वासव्यां कलया हरेः॥ १४ ॥
अनुवाद (हिन्दी)
सूतजीने कहा—इस वर्तमान चतुर्युगीके तीसरे युग द्वापरमें महर्षि पराशरके द्वारा वसुकन्या सत्यवतीके गर्भसे भगवान्के कलावतार योगिराज व्यासजीका जन्म हुआ॥ १४॥
वीरराघवः
एवं आपृष्टः सूतः “कस्मिन् युगे प्रवृत्तेयं" इत्यादिप्रश्नान् प्रतिविवक्षुः तावत् तदुपोद्घातरूपं जन्मप्रभृत्येत29त्पुराणोद्योगावधिकं श्रीव्यासचरित्रं तदनुप्रयुक्तं श्रीनारदवृत्तान्तं चाऽऽह ‘द्वापर’ इत्यादिना यावत्षष्ठाध्यायसमाप्ति । द्वापरे युगे समनुप्राप्ते तत्रापि तृतीये अस्य युगस्य पर्याय अवसाने पराशरात् ऋषेः वासव्यां उपरिचरवसु30वीर्यजातायां सत्यवत्यां हरेः कलया अंशेन योगी श्रीव्यासः जातः जज्ञे ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि।
विविक्तदेश आसीन उदिते रविमण्डले॥
अनुवाद (हिन्दी)
एक दिन वे सूर्योदयके समय सरस्वतीके पवित्र जलमें स्नानादि करके एकान्त पवित्र स्थानपर बैठे हुए थे॥ १५॥
वीरराघवः
स व्यासः कदाचित् सरस्वत्यां नद्यां शुचि पवित्रं जलं उपस्पृश्य आचम्य । इदं नित्यकर्मोपलक्षणम् । रविमण्डले उदिते सति एकः असहायः । विविक्ते निर्जने देशे आसीनः उपविवेश ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥
मूलम्
परा33वरज्ञः स ऋषिः कालेनाव्यक्तरंहसा।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥ १६ ॥
वीरराघवः
ऋषिः निखिलनिगमद्रष्टा परावरज्ञः प्रकृतिपुरुषेश्वररूपोत्कृष्टतत्त्वयाथात्म्यदर्शी स व्यासः । अव्यक्तं रंहः वेगः यस्य तेन दुर्निरीक्ष्यवेगेन कालेन हेतुना भुवि भूलोके प्रतियुगं प्राप्तं धर्मव्यतिकरं धर्मव्यत्यासं कृतादियुगक्रमेण प्राप्तं धर्मस्य वृद्धिहासादिकमित्यर्थः ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्।
अश्रद्दधानान्निःसत्त्वान्दुर्मेधान् ह्रसितायुषः॥
मूलम्
भौतिकानां 34च 35भावानां शक्तिह्रासञ्च तत्कृतम्।
अश्रद्दधानान्निस्सत्त्वान् दुर्मेधान् ह्रसितायुषः॥ १७ ॥
वीरराघवः
तथा तत्कृतं धर्म36व्यतिकरकृतं भौतिकानां आकाशादिभूतपरिणामरूपाणां देवादिशरीराणां भूतानां 37तत्सृष्टानां जीवानां च शक्तिहासं शक्तिक्षयञ्च तथा जनान् अभि38वीक्ष्य । कथम्भूतान् अश्रद्दधानान् श्रद्धां अकुर्वाणान् स्वस्ववर्णाश्रमानुगुणधर्मानुष्ठानविषयकत्वरारहितान् निस्सत्त्वान् दुर्बलान् सत्यामपि श्रद्धायां दुर्बलान् सत्यपि सत्त्वे दुर्मेधान् । हसितं सङ्कुचितं आयुः येषां तान् अनुष्ठानोपयुक्तज्ञानायूरहितान् ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्॥
मूलम्
39दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा।
सर्व40वर्णाश्रमाणां यद्दध्यौ 41हितममोघदृक्॥ १८ ॥
अनुवाद (हिन्दी)
महर्षि भूत और भविष्यको जानते थे। उनकी दृष्टि अचूक थी। उन्होंने देखा कि जिसको लोग जान नहीं पाते, ऐसे समयके फेरसे प्रत्येक युगमें धर्मसंकरता और उसके प्रभावसे भौतिक वस्तुओंकी भी शक्तिका ह्रास होता रहता है। संसारके लोग श्रद्धाहीन और शक्तिरहित हो जाते हैं। उनकी बुद्धि कर्तव्यका ठीक-ठीक निर्णय नहीं कर पाती और आयु भी कम हो जाती है। लोगोंकी इस भाग्यहीनताको देखकर उन मुनीश्वरने अपनी दिव्यदृष्टिसे समस्त वर्णों और आश्रमोंका हित कैसे हो, इसपर विचार किया॥ १६—१८॥
वीरराघवः
अत एव दुर्भगान् भाग्यहीनान् मुनिः परमात्मयाथात्म्यमननशीलः, अत एव अमोघदृक् अवितथसङ्कल्पः । दिव्येन चक्षुषा योगपरिशुद्धेन मनसा । सर्वेषां वर्णानामाश्र42माणां च हितं दध्यौ चिन्तितवान्, चिन्तापूर्वकं चकार इत्यर्थः ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥
मूलम्
चातुर्होत्रं 43कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥ १९ ॥
अनुवाद (हिन्दी)
उन्होंने सोचा कि वेदोक्त चातुर्होत्र* कर्म लोगोंका हृदय शुद्ध करनेवाला है। इस दृष्टिसे यज्ञोंका विस्तार करनेके लिये उन्होंने एक ही वेदके चार विभाग कर दिये॥ १९॥
पादटिप्पनी
- होता, अध्वर्यु, उद्गाता और ब्रह्मा—ये चार होता हैं। इनके द्वारा सम्पादित होनेवाले अग्निष्टोमादि यज्ञको चातुर्होत्र कहते हैं।
वीरराघवः
तदेवाऽऽह प्रजानां त्रैवर्णिकानां सम्बन्धि44तया श्रेयस्साधनतयाऽनुष्ठेयं वैदिकं वेदपूर्वभागबोध्यम्, अत एव विशुद्धं 45भ्रमविप्रलम्भादिपुरुषदोषास्पृष्टविधिबोधितं चातुर्होत्रं चातुर्होत्रशब्दवाच्यमन्त्रप्रकाश्यं कर्मवीक्ष्य प्रजानामनुष्ठेयमालोच्य तावत् यज्ञानां सन्तत्यै कर्तव्ययज्ञकलापादिविषयकबोधार्थं 46तद्वदं पूर्वं एकरूपेण अवस्थित47वेदं ऋग्यजुस्सामाथर्वभेदेन चतुर्विधं व्यदधात् व्यभाङ्गीत् ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहासपुराणं च पञ्चमो वेद उच्यते॥
मूलम्
ऋग्यजुस्सामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहास48पुराणं च पञ्चमो वेद उच्यते॥ २० ॥
अनुवाद (हिन्दी)
व्यासजीके द्वारा ऋक्, यजुः, साम और अथर्व—इन चार वेदोंका उद्धार (पृथक्करण) हुआ। इतिहास और पुराणोंको पाँचवाँ वेद कहा जाता है॥ २०॥
वीरराघवः
चतुर्विधेन विधानमेव दर्शयति - ऋगिति । ऋगाद्याः चत्वारः वेदात् उद्धृताः मिश्रीभूतवेदराशेः उद्धृत्य सन्निवेशविशेषेण योजिता इत्यर्थः । तथा इतिहासः पुराणानि च उद्धृतानि इत्यनुषङ्गः । कालेन विप्लुतानि मत्स्यादि पुराणानि इतिहासाश्च उद्धृताः इत्यर्थः । इतिहासं पुराणानि च विशिनष्टि पञ्चमो वेद उच्यते । पञ्चमवेदत्वेन प्रसिध्यन्त इत्यर्थः ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः।
वैशम्पायन एवैको निष्णातो यजुषामुत॥
अनुवाद (हिन्दी)
उनमेंसे ऋग्वेदके पैल, सामगानके विद्वान् जैमिनि एवं यजुर्वेदके एकमात्र स्नातक वैशम्पायन हुए॥ २१॥
वीरराघवः
तत्र ऋगादीनां मध्ये ऋग्वेदधरः पैलः । अध्ययनपूर्वकं ऋग्वेदं पैलः मुनिः दधार इत्यर्थः । कविः विद्वान् जैमिनिस्तु सामगः, अध्ययनपूर्वकं ऋगाधाराणि सामानि जगौ इत्यर्थः । वैशम्पायनः एक एव ऋषिः यजुषां निष्णातः पारङ्गतः मतः स्मृतः । अवान्तरभेदाभिप्रायेण यजुषां इत्युक्तम् ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥
मूलम्
अथर्वाङ्गिरसामासीत् सुमन्तु51र्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥ २२ ॥
अनुवाद (हिन्दी)
अथर्ववेदमें प्रवीण हुए दरुणनन्दन सुमन्तु मुनि। इतिहास और पुराणोंके स्नातक मेरे पिता रोमहर्षण थे॥ २२॥
वीरराघवः
एवं अथर्वाङ्गिरसां इत्यत्रापि तेषां निष्णातः दरुणः अपत्यं दारुणः सुमन्तुर्नाम मुनिः आसीत् । अथर्वाख्यानि अङ्गिरांसि । तेषां इतिहासानां पुराणानाञ्च निष्णातस्तु मे मम सूतस्य पिता 52रोमहर्षणः ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥
मूलम्
त एत53 ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैः वेदास्ते शाखिनोऽभवन्॥ २३ ॥
अनुवाद (हिन्दी)
इन पूर्वोक्त ऋषियोंने अपनी-अपनी शाखाको और भी अनेक भागोंमें विभक्त कर दिया। इस प्रकार शिष्य, प्रशिष्य और उनके शिष्योंद्वारा वेदोंकी बहुत-सी शाखाएँ बन गयीं॥ २३॥
वीरराघवः
सर्व एवैते भगवतः व्यासस्य अनुग्रहादेव निष्णाताः बभूवुः इत्यर्थतः द्रष्टव्यम् । ततस्त एते पैलादयः स्वं स्वं वेदं शिष्यैः प्रशिष्यैः शिष्याणामपि शिष्यैः तेषामपि शिष्यैश्च शिष्यादिद्वारा इत्यर्थः । अनेकधा व्यस्यन् व्यभाङ्क्षुरित्यर्थः । ततः ते वेदाः शाखिनः अभवन् व्यस्तशाखा अभवन् । तत्र ऋग्वेदः एकविंशतिशाखाभेदं प्राप्तः, यजुर्वेदस्तु एकशतधा, सामवेदस्तु सहस्रधा, आथर्वणस्तु नवधेति विवेकः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं चकार भगवान् व्यासः कृपणवत्सलः॥
मूलम्
त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं 54चकार भगवान् व्यासः कृपणवत्सलः॥ २४ ॥
अनुवाद (हिन्दी)
कम समझवाले पुरुषोंपर कृपा करके भगवान् वेदव्यासने इसलिये ऐसा विभाग कर दिया कि जिन लोगोंको स्मरणशक्ति नहीं है या कम है, वे भी वेदोंको धारण कर सकें॥ २४॥
वीरराघवः
किमर्थमेवं आत्मना शिष्यादिमुखेन च व्यभाङ्गीत् इत्यपेक्षायां प्रयोजनं दर्शयन् व्यासनाम निर्वक्ति - त इति । दुर्मेधैरल्पप्रज्ञैः पुरुषैः त एते वेदाः यथा धार्यन्ते, यथा सन्निवेशितेषु धार्यन्ते एवं तथा चकार भगवान् श्रीव्यासः । तत्र हेतुः कृपणेषु वत्सलः वात्सल्ययुक्तः । यतः वेदान् व्यस्यत् व्यभाङ्कीत् अत एव व्यास इति प्रसिद्धः बभूवेति भावः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा॥
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥
मूलम्
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा॥
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥ २५ ॥
अनुवाद (हिन्दी)
स्त्री, शूद्र और पतित द्विजाति—तीनों ही वेद-श्रवणके अधिकारी नहीं हैं। इसलिये वे कल्याणकारी शास्त्रोक्त कर्मोंके आचरणमें भूल कर बैठते हैं। अब इसके द्वारा उनका भी कल्याण हो जाय, यह सोचकर महामुनि व्यासजीने बड़ी कृपा करके महाभारत इतिहासकी रचना की॥ २५॥
वीरराघवः
एवं कृतवतापि55 मुनिना व्यासेन स्त्रीणां शूद्राणां च द्विजबन्धूनां त्रैवर्णिकाभासानाञ्च श्रुतिगोचरा श्रवणविषया त्रयी ऋृगादिभिन्नो वेदः । न भवति अध्ययनस्य उपनयनाङ्गकत्वात्, उपनयनस्य च त्रैवर्णिकाधिकारित्वात्, स्त्री शूद्रादीनां वेदाध्ययनयोग्यता नास्ति । अत एव कर्मश्रेयसि वैदिककर्मसाध्ये श्रेयसि मूढानां पुरुषार्थचतुष्टयतत्साधनविषयकज्ञानविधुराणां अन्यथा श्रेयो न भवेत् इत्थं तु भवेदि56ति हेतुमालोचयता ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥
मूलम्
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥ २६ ॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! यद्यपि व्यासजी इस प्रकार अपनी पूरी शक्तिसे सदा-सर्वदा प्राणियोंके कल्याणमें ही लगे रहे, तथापि उनके हृदयको सन्तोष नहीं हुआ॥ २६॥
श्लोक-२७
विश्वास-प्रस्तुतिः
नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ।
वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित्॥
अनुवाद (हिन्दी)
उनका मन कुछ खिन्न-सा हो गया। सरस्वती नदीके पवित्र तटपर एकान्तमें बैठकर धर्मवेत्ता व्यासजी मन-ही-मन विचार करते हुए इस प्रकार कहने लगे—॥ २७॥
वीरराघवः
कृपया भारतमाख्यानं कृतं हे द्विजाः! एवं सर्वात्मके60न प्रकारेणापि भूतानां लोकानां श्रेयसि निमित्ते सदा प्रवृत्तस्यापि बादरायणस्य हृदयं मनः यदा नातुष्यत् न जहर्ष, ततः तदा नातीव प्रसीदत् प्रसन्नं हृदयं यस्य तथाभूतः, शुचौ परिशुद्धे सरस्वत्याः तटे विविक्ते निर्जने देशे स्थितः वितर्कयन्, असन्तोषहेतुः को वा इति विचारयन्, धर्मवित् बादरायणः इदं स्वगतं वक्ष्यमाणमुवाच च ॥ २६, २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥
मूलम्
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥ २८ ॥
अनुवाद (हिन्दी)
‘मैंने निष्कपटभावसे ब्रह्मचर्यादि व्रतोंका पालन करते हुए वेद, गुरुजन और अग्नियोंका सम्मान किया है और उनकी आज्ञाका पालन किया है॥ २८॥
वीरराघवः
तदेवाऽऽह - धृतव्रतेन इत्यादिचतुर्भिः । धृत व्रतं छन्दः गुर्वग्निसेवोपयुक्तं येन तेन मया छन्दांसि छन्दोऽधिदैवतानि गुरवः अग्नयो61 निर्व्यलीकेन निष्कपटभावेन मानिता बहुमानिताः पूजिता इति यावत्, छन्दआदीनां अनुशासनं गृहीतं कृतञ्च ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत॥
अनुवाद (हिन्दी)
महाभारतकी रचनाके बहाने मैंने वेदके अर्थको खोल दिया है—जिससे स्त्री, शूद्र आदि भी अपने-अपने धर्म-कर्मका ज्ञान प्राप्त कर लेते हैं॥ २९॥
वीरराघवः
किञ्च, भारतव्यपदेशेन भारतव्याजेन आम्नायानां वेदानामर्थश्च दर्शितः । भारतं विशिनष्टि यत्र भारते स्त्रीशूद्रादिभिरपि धर्मः दृश्यते । स्वस्वापेक्षितश्रेयस्साधनः स्वानुरूपो धर्मः दृश्यते अवगम्यते ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः।
असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः॥
अनुवाद (हिन्दी)
यद्यपि मैं ब्रह्मतेजसे सम्पन्न एवं समर्थ हूँ, तथापि मेरा हृदय कुछ अपूर्णकाम-सा जान पड़ता है॥ ३०॥
वीरराघवः
अथापि एवं 66सति । बतेति खेदे । मे मम दैह्यः देहस्थः विभुः प्रभुः आत्मा प्रत्यगात्मा । आत्मना अन्तःकरणेन सह । यद्वा दैह्यो विभुः आत्मा अन्तःकरणं आत्मना स्वयं ब्रह्मवर्चसि 67कृतस्वाध्यायनिमित्ते तेजसि । समासान्तविधेः अनित्यत्वात् “ब्रह्महस्तिभ्यां वर्चसः” (अष्टा. 5-4-78) इत्यजभावः । उशत्तमः शुद्धतमोऽपि असम्पन्न इव असमृद्धः इवाभाति ; असत्तम इति 68पाठे ब्रह्मवर्चस69रहित इवाभाति, यथा असत्तमः असज्जनतमः इव आभाति तद्वत् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
किं वा भागवता धर्मा न प्रायेण निरूपिताः।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥
मूलम्
किं वा भागवता धर्मा न प्रायेण निरूपिताः।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥ ३१ ॥
अनुवाद (हिन्दी)
अवश्य ही अबतक मैंने भगवान्को प्राप्त करानेवाले धर्मोंका प्रायः निरूपण नहीं किया है। वे ही धर्म परमहंसोंको प्रिय हैं और वे ही भगवान्को भी प्रिय हैं (हो-न-हो मेरी अपूर्णताका यही कारण है)’॥ ३१॥
वीरराघवः
एवं वितर्क्य सूक्ष्मदर्शित्वात् असन्तोषहेतुमुत्प्रेक्षते - किं वा इति । यतः भागवता धर्माः प्रायशः मया न निरूपिताः, ततो वाऽसौ किं असन्तोषः ? पारिशेष्यादयमेव भागवतधर्मानिरूपणमेवासन्तोषहेतुः भवितुमर्हति इत्यभिप्रायेण, अनिरूपणस्य असन्तोषहेतुत्वमुपपादयति प्रिया इति । सर्वान्तरात्मनि भगवति प्रीते सति हि तन्नियाम्यस्य मनसस्तोषः स च भगवान् भागवतेषु तुष्टेषु सत्सु स्वयं तुष्यति, तेषां च सन्तोषहेतवः त एव, भागवतधर्मा एव ; तदनिरूपणादुचितएव असन्तोष इति भावः । प्रायेण इत्यनेन क्वचित् क्वचिदेव भारते भागवतधर्मनिरूपणमिति सूचितम् ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्॥
मूलम्
तस्यैवं खिल70मात्मानं मन्यमानस्य खिद्यतः।
कृष्णस्य नारदोऽभ्यागात् आश्रमं प्रागुदाहृतम्॥ ३२ ॥
अनुवाद (हिन्दी)
श्रीकृष्णद्वैपायन व्यास इस प्रकार अपनेको अपूर्ण-सा मानकर जब खिन्न हो रहे थे, उसी समय पूर्वोक्त आश्रमपर देवर्षि नारदजी आ पहुँचे॥ ३२॥
वीरराघवः
एवं इत्थं आत्मानं 71खिन्नं 72दूनं मन्यमानस्य अत एव खिद्यतः तस्य कृष्णस्य व्यासस्य प्रागुदाहृतं पूर्वमुक्तसरस्वतीतीरस्थाश्रमं प्रति नारदः अभ्यागात् अध्यागच्छत् ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः।
पूजयामास विधिवन्नारदं सुरपूजितम्॥
मूलम्
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः73।
पूजयामास विधिवन्नारदं सुरपूजितम्॥
अनुवाद (हिन्दी)
उन्हें आया देख व्यासजी तुरन्त खड़े हो गये। उन्होंने देवताओंके द्वारा सम्मानित देवर्षि नारदकी विधिपूर्वक पूजा की॥ ३३॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः॥ ४ ॥
वीरराघवः
तं आगतं अभिज्ञाय चिह्नैः नारदमुनिं ज्ञात्वा सहसा त्वरया विधिवत् पूजयामास । कथम्भूतम् ? सुरैः पूजितं पूज्यमानं “मतिबुद्धिपूजार्थेभ्यश्च” (अष्टा. 3-2-188) इति वर्तमाने क्तः ॥ ३३ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां चतुर्थोऽध्यायः ॥ ४ ॥
-
W परास्ता ↩︎
-
K,M यामाह ↩︎
-
W बोधि ↩︎
-
M ग ↩︎
-
H ह ↩︎
-
A,B समवि ↩︎
-
A,B प्यधीयते ↩︎
-
A,B omit ज्ञान ↩︎
-
W जागरयुक्तः ↩︎
-
W ष्करण ↩︎
-
W adds प्रतीयते ↩︎
-
VV 5 & 6 are reversed in H & V, M omits V 5. ↩︎
-
W व्यञ्जयन् ↩︎
-
W सोऽपृच्छत् ↩︎
-
A,B omit त्वां त्ववलोक्य परिदधीम ↩︎
-
A omits स्त्रीपुम्भिदा ↩︎
-
W पुंस ↩︎
-
K,M लम् ↩︎
-
W तयाऽस्यामस्तीति ↩︎
-
H,K,M,V चा ↩︎
-
K,M इयेष चोत्स्रष्टु ↩︎
-
H,V नराः ↩︎
-
K,M परां श्रियं ↩︎
-
H,V वें ↩︎
-
W कं ↩︎
-
W यदिह ↩︎
-
W पा ↩︎
-
W गृहीत ↩︎
-
W त्पुराणयोगा ↩︎
-
W बाज ↩︎
-
I,K,M शुचिः ↩︎
-
B,H,I,K,M,V,W एक ↩︎
-
H प ↩︎
-
B तु ↩︎
-
W भूतानां ↩︎
-
A,B omit व्यतिकर ↩︎
-
W तत्संसृष्टानां ↩︎
-
W पि ↩︎
-
H,V दुर्बलांश्च ↩︎
-
M धर्मा ↩︎
-
M चिर ↩︎
-
W मि ↩︎
-
B म ↩︎
-
W तासां ↩︎
-
W भ्रमप्रमादविप्र ↩︎
-
W तद्बोधकं ↩︎
-
W तं ↩︎
-
H,V,W सः ↩︎
-
AF,GF एकस्तु ↩︎
-
H,V षां गणे; K षां ततः; M षा मुने; W षां मतः ↩︎
-
K वारुणो ↩︎
-
A,B लो ↩︎
-
H,K,M,N,V व ↩︎
-
K,M व्यवस्यत् ↩︎
-
W adds पुनः ↩︎
-
W दिहेत्यालो ↩︎
-
K,M प्रसन्नहृदयः ↩︎
-
B इति ↩︎
-
H,I,V चो ↩︎
-
A,B कत्वेन ↩︎
-
W यश्च ↩︎
-
H,K,M,V र्थः प्रदर्शितः ↩︎
-
K,M धर्मो हि ; B,H W धर्मादि: ↩︎
-
B,K,M,N,W अथापि ↩︎
-
K,M स्वि सत्तमः ; W स्युशत्तमः ; VF स्युशत्तमः ↩︎
-
W अपि ↩︎
-
W वृत्त ↩︎
-
W adds ब्रह्मवर्चसि असम्पन्न इव ↩︎
-
A,B स्य ↩︎
-
K,M,W न्न ↩︎
-
A,B खिलं ↩︎
-
A,B न्यूनं ↩︎
-
K,M निम् ↩︎