[तृतीयोऽध्यायः]
भागसूचना
भगवान्के अवतारोंका वर्णन
श्लोक-१
मूलम् (वचनम्)
सूत उवाच
विश्वास-प्रस्तुतिः
जगृहे पौरुषं रूपं भगवान्महदादिभिः।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥
मूलम्
जगृहे पौरुषं रूपं भगवान्महदादिभिः।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥ १ ॥
अनुवाद (हिन्दी)
श्रीसूतजी कहते हैं—सृष्टिके आदिमें भगवान्ने लोकोंके निर्माणकी इच्छा की। इच्छा होते ही उन्होंने महत्तत्त्व आदिसे निष्पन्न पुरुषरूप ग्रहण किया। उसमें दस इन्द्रियाँ, एक मन और पाँच भूत—ये सोलह कलाएँ थीं॥ १॥
वीरराघवः
तदेवं प्रथमेऽध्याये प्रश्नः कृतः । द्वितीये तु सर्व1प्रवर्तकभगवद्भक्तेरेव मोक्षप्रदत्वात् भगवदीयप्रबन्ध एव श्रोतव्य इति स्थापितम्, अवतारप्रयोजनं चोपक्षिप्तम् । अथ भगवदवतार विशेष2 तच्चरितानि विस्तरेणोपरि विवक्षता सूतेन भगवतोऽनेकेऽवताराः सन्तीति प्रतिपाद्यते तृतीयाध्याये - जगृहे इत्यादिना । अवताराश्च द्विविधाः - अनुप्रवेशावताराः, स्वेन रूपेणावताराचेति । अकर्महेतुत्वाविशेषात् उभयत्रावतार शब्द प्रयोगः कृतः । द्विविधानपि तान् वक्तुं तदुपयोगित्वेन प्रथमं चेतनमिश्रं प्रकृतिप्राकृतजातमेकं शुद्धसत्त्वमयमपरं चेति रूपद्वयं भगवतोऽस्तीति विवक्षन् पूर्वं प्रकृतिप्राकृतात्मरूपपरिग्रहमाह - जगृह इति । पुरुषाः क्षेत्रज्ञाः3 तत्सम्बन्धि पौरुषं तन्मिश्रमित्यर्थः । एकादशेन्द्रियपञ्चभूतात्मिकाः षोडश कलाः यस्मिन् तत् तथा । महदादिभिस्सम्भूतं रूपम् अण्डकारणं समष्टितत्त्वजातम् इह रूपशब्देन विवक्षितम् । समुदायस्य 4महदादिभिः सम्पाद्यत्वात् महदादिभिः सम्भूतमित्युक्तम् । लोकसिसृक्षया जगृहे ब्रह्माण्डतदन्तर्वर्तिकार्यजातसिसृक्षया रूपं जगृहे इत्यर्थः ॥ १ ॥
श्लोक-२
विश्वास-प्रस्तुतिः
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः॥
मूलम्
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः॥ २ ॥
अनुवाद (हिन्दी)
उन्होंने कारण-जलमें शयन करते हुए जब योगनिद्राका विस्तार किया, तब उनके नाभि-सरोवरमेंसे एक कमल प्रकट हुआ और उस कमलसे प्रजापतियोंके अधिपति ब्रह्माजी उत्पन्न हुए॥ २॥
श्लोक-३
विश्वास-प्रस्तुतिः
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥
मूलम्
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥ ३ ॥
अनुवाद (हिन्दी)
भगवान्के उस विराट्रूपके अंग-प्रत्यंगमें ही समस्त लोकोंकी कल्पना की गयी है, वह भगवान्का विशुद्ध सत्त्वमय श्रेष्ठ रूप है॥ ३॥
वीरराघवः
अथ स्वासाधारणं रूपमाह - यस्येति । प्रथमस्य यस्य इति शब्दस्य योऽर्थः, स तद्वा इति तच्छब्देन परामृश्यते । द्वितीयं तु यस्येति पदं चतुर्मुखपरम् । चतुर्मुखशरीराद्धि देवमनुष्यादिसृष्टिः पुराणान्तरेषु दृष्टा। यस्यावयवसंस्थानैः यच्छरीरावयवपरिणामैः देवमनुष्यादिलोकविस्तरः । स ब्रह्मा विश्वसृजां मरीच्यादीनां पतिः । यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः अनिरुद्धस्य नाभिहृदाम्बुजादासीत्तद्भगवतो रूपमूर्जितम्, विशुद्धं सत्त्वं शुद्धसत्त्वमयम् इति, श्लोकद्वयमेक5वाक्यम् । तस्य रूपस्य ज्ञानदृश्यत्वमपरिच्छेद्यत्वं सर्वावतार निदानत्वं चाऽऽह - पश्यन्तीति सार्धश्लोकेन । यद्वा जगृह इत्यादिश्लोकानामेवमर्थः । अजडेषु अनुप्रवेशरूपेण 6स्वेन रूपेण च द्विविधे7ऽवतारे तत्र प्रथमस्य देवादिष्वनुप्रवेशरूपत्वात् तत्र वक्तव्यां8शाभावात् स्वेन रूपेण अवतारोपयोगिदिव्यमङ्गलविग्रहयोग उच्यते । आ9दौ महदादिभिः लोकसिसृक्षया षोडशकलं भूतेन्द्रियाभिमानिदेवताश्रयं पौरुषं परमपुरुषसम्बन्धि रूपम् अनिरुद्धाख्यरूपं सम्भूतमाविर्भूतं जगृहे परिजग्राह । यस्याम्भसोति स्फुटम् । यस्यावयवेति यस्य अनिरुद्धस्यावयवसंस्थानैः शरीरभूत प्रकृत्येकदेशपरिणामैः लोकविस्तरः कल्पितः, तस्य भगवतो रूपं शुद्धसत्त्वमयमूर्जितमुत्कृष्टमित्यर्थः ॥ २,३ ॥
श्लोक-४
विश्वास-प्रस्तुतिः
पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम्।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत्॥
मूलम्
पश्यन्त्यदो रूपमदभ्रचक्षुषा10 सहस्रपादोरुभुजाननाद्भुतम्।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्॥ ४ ॥
अनुवाद (हिन्दी)
योगीलोग दिव्यदृष्टिसे भगवान्के उस रूपका दर्शन करते हैं। भगवान्का वह रूप हजारों पैर, जाँघें, भुजाएँ और मुखोंके कारण अत्यन्त विलक्षण है; उसमें सहस्रों सिर, हजारों कान, हजारों आँखें और हजारों नासिकाएँ हैं। हजारों मुकुट, वस्त्र और कुण्डल आदि आभूषणोंसे वह उल्लसित रहता है॥ ४॥
वीरराघवः
पश्यन्तीति । अदः एतदनिरुद्धाख्यं रूपम् अदभ्रचक्षुषा अनल्पज्ञानेन मनसा पश्यन्ति । मनसा तु विशुद्धेन “दृश्यते त्वग्र्या बुद्ध्या सूक्ष्म्या सूक्ष्मदर्शिभिः” (कठ. उ. 3-12) इत्याद्युक्तरीत्या योगपरिशुद्धमनसा पश्यन्तीत्यर्थः। प्रत्येकं सहस्रसङ्ख्याकैः पादादिभिः अद्भुतं तथा प्रत्येकं सहस्त्रं मूर्धादयो यस्मिंस्तत् । तत्र श्रवणे11 श्रोत्रे12 सहस्रेण मौलिभिः किरीटै: अम्बरैः वस्त्रैश्च कुण्डलैश्च13 उपशोभमानं रूपं भवतीति ॥ ४ ॥
श्लोक-५
विश्वास-प्रस्तुतिः
एतन्नानावताराणां निधानं बीजमव्ययम्।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥
मूलम्
एतन्नानावताराणां नि14धानं बीजमव्ययम्।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥ ५ ॥
अनुवाद (हिन्दी)
भगवान्का यही पुरुषरूप जिसे नारायण कहते हैं, अनेक अवतारोंका अक्षय कोष है—इसीसे सारे अवतार प्रकट होते हैं। इस रूपके छोटे-से-छोटे अंशसे देवता, पशु-पक्षी और मनुष्यादि योनियोंकी सृष्टि होती है॥ ५॥
वीरराघवः
एतदनिरुद्धाख्यं रूपं नानाविधानामवतारांणां निदानं मूलकारणं बीजं कृत्स्नजगद्बीजभूतं कृत्स्नजगत्स्त्रष्टृचतुर्मुखोत्पत्तिस्थानत्वादिति भावः । अव्ययम् अपक्षय15विकाररहितम् । अनेन अप्राकृतत्वमुक्तम् । यस्येति । यस्य भगवतोऽनिरुद्धस्यांशांशेन शरीरभूतचिदचित्तत्त्वैकदेशेन देवादयः सृज्यन्ते ॥ ५ ॥
श्लोक-६
विश्वास-प्रस्तुतिः
स एव प्रथमं देवः कौमारं सर्गमास्थितः।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्॥
अनुवाद (हिन्दी)
उन्हीं प्रभुने पहले कौमारसर्गमें सनक, सनन्दन, सनातन और सनत्कुमार—इन चार ब्राह्मणोंके रूपमें अवतार ग्रहण करके अत्यन्त कठिन अखण्ड ब्रह्मचर्यका पालन किया॥ ६॥
वीरराघवः
स 18देवः परमपुरुष एव ब्रह्मा चतुर्मुखशरीरकः सन् प्रथमं कौमारं 19सर्ग सनत्कुमारादिसर्गमास्थितः सनकादिरूपेणावतीर्ण इत्यर्थः । अखण्डितं निर्विघ्नं ब्रह्मचर्यं ऊर्ध्वरेतस्कत्वोपेतं भगवदुपासनं 20चचार चकार । ते च कुमाराः प्रथमावताररूपाः । प्रथममिति विशेषणात् द्वितीयमित्यनन्तरोक्तेश्च । इमे च कुमाराः अनुप्रवेशावताररूपाः । तथा चतुर्मुखोऽपि ब्रह्मरूपधरः “ब्रह्मा नारायणात्मकः” (विष्णु. पु. 1-4-2) इत्यादिभिः सृष्ट्यादिकाले तदात्मकतया योगिभिः चिन्त्यत्ववचनात् । भगवता शौनकेन च “आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनित संसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः ॥ पश्चादुद्भूतबोधास्ते ध्यानेनैवोपकारकाः । नैसर्गिको 21न वै बोधः तेषामप्यन्यतो यतः ॥” (वि. ध. पु. 104-23, 24, 25) इति चतुर्मुखसनकादीनां जगदन्तर्वर्तिनां अविद्यावेष्टितत्वेन शुभाश्रयत्वानर्हतामुक्त्वा बद्धानामेव सतां पश्चाद्योगेन उद्भूतबोधानां स्वस्वरूपापन्नानां च स्वतः शुद्धिविरहेण मुमुक्षूपास्यत्वनिषेधात्, “सृष्टि ततः करिष्यामि त्वामाविश्य प्रजापते” (विष्णुधर्मे 68-52) इति श्रीजन्मरहस्यवचनैकार्थ्यात् च। तदेवं चतुर्मुखसनकादयः भगवदनुप्रवेशावतारः प्रथमश्चेत्युक्तं भवति । ब्रह्मचर्यं चचार इत्यवतारप्रयोजनमुक्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ ६ ॥
श्लोक-७
विश्वास-प्रस्तुतिः
द्वितीयं तु भवायास्य रसातलगतां महीम्।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥
मूलम्
द्वितीयं तु भवायास्य रसातलगतां महीम्।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥ ७ ॥
अनुवाद (हिन्दी)
दूसरी बार इस संसारके कल्याणके लिये समस्त यज्ञोंके स्वामी उन भगवान्ने ही रसातलमें गयी हुई पृथ्वीको निकाल लानेके विचारसे सूकररूप ग्रहण किया॥ ७॥
वीरराघवः
अथ 22वराहावतारमाह - द्वितीयन्त्विति । अस्य जगतः भवाय अभ्युदयाय रसातलगतां महीं पृथ्वीम् उद्धरिष्यन् यज्ञेशो भगवान् द्वितीयं सौकरं वाराहं वपुः आदत्त जगृहे । वराहो द्वितीयावतार इत्यर्थः । अयं च स्वेन रूपेणा23वतारः, यज्ञेश इत्यनेन यज्ञाराध्यत्व, तत्फल24दत्व तच्छरीरकत्वाद्युक्तेः वपुरादत्तेति कथनात्, तच्छरीरकत्वायुक्तः वपुरुपादत्तेति वपुर्मात्रपरिग्रहोक्तेः अस्य भवायेति केवलसाधुपरित्राणार्थत्व सूचनाच्च ॥ ७ ॥
श्लोक-८
विश्वास-प्रस्तुतिः
तृतीयमृषिसर्गं च देवर्षित्वमुपेत्य सः।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥
अनुवाद (हिन्दी)
ऋषियोंकी सृष्टिमें उन्होंने देवर्षि नारदके रूपमें तीसरा अवतार ग्रहण किया और सात्वत तन्त्रका (जिसे ‘नारद-पांचरात्र’ कहते हैं) उपदेश किया; उसमें कर्मोंके द्वारा किस प्रकार कर्मबन्धनसे मुक्ति मिलती है, इसका वर्णन है॥ ८॥
वीरराघवः
नारदावतारमाह - तृतीयमिति । तृतीयं वपुः उपादानं ऋषि28सर्गः ऋषिरूपजन्मेत्यर्थः । तत्र तृतीये अवतारे स भगवान् देवर्षित्वं नारदरूप29मापद्य नारदाख्यं जीवमनुप्रविश्येत्यर्थः । सात्वतं 30तन्त्रं पञ्चरात्रशास्त्रम् आचष्ट अवोचत्, प्रवर्तयामासेत्यर्थः । तन्त्रं विशिनष्टि, यतस्तन्त्रात् 31कर्मिणां निवृत्तिधर्मवतां नैष्कर्म्यं प्रवृत्तिधर्मविरहः प्रवृत्तिधर्माणामकर्तव्यता अवगम्यत 32इति ॥ ८ ॥
श्लोक-९
विश्वास-प्रस्तुतिः
तुर्ये धर्मकलासर्गे नरनारायणावृषी।
भूत्वाऽऽत्मोपशमोपेतमकरोद् दुश्चरं तपः॥
अनुवाद (हिन्दी)
धर्मपत्नी मूर्तिके गर्भसे उन्होंने नर-नारायणके रूपमें चौथा अवतार ग्रहण किया। इस अवतारमें उन्होंने ऋषि बनकर मन और इन्द्रियोंका सर्वथा संयम करके बड़ी कठिन तपस्या की॥ ९॥
वीरराघवः
तुर्य इति । धर्मकलासर्गे धर्मात् पितुः कलासर्गे देहजन्मरूपे तुर्ये चतुर्थावतारे नरनारायणाख्यावृषी भूत्वा आत्मोपशमः इन्द्रियनिग्रहः, तेन उपेतं दुश्चरमितरैः 35चरितुमशक्यं तपश्चकार ॥ ९ ॥
श्लोक-१०
विश्वास-प्रस्तुतिः
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम्॥
मूलम्
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्॥ १० ॥
अनुवाद (हिन्दी)
पाँचवें अवतारमें वे सिद्धोंके स्वामी कपिलके रूपमें प्रकट हुए और तत्त्वोंका निर्णय करनेवाले सांख्य-शास्त्रका, जो समयके फेरसे लुप्त हो गया था, आसुरि नामक ब्राह्मणको उपदेश किया॥ १०॥
वीरराघवः
पञ्चम इति । पञ्चमोऽवतारः । कपिलो नाम कपिलाख्यः । सिद्धानां आत्मयाथात्म्यानुसन्धानयोगेन सिद्धानां स्वस्वरूपापन्नानामीशः कालेन प्रवर्तयितृरहितेन कालेन विप्लुतं तिरोहितं साङ्ख्यं, कथम्भूतम् ? तत्त्वानां प्रकृतिमहदादीनां ग्रामस्य कलापस्य विनिर्णयो याथात्म्यनिर्णयो यस्मात् तथाभूतम् । आसुरये प्रोवाच ! आसुरिर्नाम सिद्धेषु प्रधानः, तस्मै ॥ १० ॥
श्लोक-११
विश्वास-प्रस्तुतिः
षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्रादादिभ्य ऊचिवान्॥
मूलम्
36षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्रादादिभ्य ऊचिवान्॥ ११ ॥
अनुवाद (हिन्दी)
अनसूयाके वर माँगनेपर छठे अवतारमें वे अत्रिकी सन्तान—दत्तात्रेय हुए। इस अवतारमें उन्होंने अलर्क एवं प्रह्लाद आदिको ब्रह्मज्ञानका उपदेश किया॥ ११॥
वीरराघवः
षष्ठ मिति । अत्रेः प्रजापतेः अपत्यत्वं प्रति वृतः । मम पुत्रो भवेति अत्रिणा वृत इत्यर्थः । अनसूयया अत्रेर्भार्यया प्राप्तः । तस्याः पुत्रो दत्तात्रेयाख्यो भूत्वेत्यर्थः । अलर्काय प्रह्लादादिभ्यश्च आन्वीक्षिकीम् अध्यात्मविद्याम् ऊचिवान्, य37 ऊचिवान् तं षष्ठमवतारं विद्यात् इति यच्छब्दाध्याहारेण अन्वयः । षष्ठं षष्ठरूपन्त्विति वा ॥ ११ ॥
श्लोक-१२
विश्वास-प्रस्तुतिः
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम्॥
मूलम्
तत38स्सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत।
स यामाद्यैस्सुरगणैरपात् स्वायम्भुवान्तरम्॥ १२ ॥
अनुवाद (हिन्दी)
सातवीं बार रुचि प्रजापतिकी आकूति नामक पत्नीसे यज्ञके रूपमें उन्होंने अवतार ग्रहण किया और अपने पुत्र याम आदि देवताओंके साथ स्वायम्भुव मन्वन्तरकी रक्षा की॥ १२॥
वीरराघवः
तत इति । ततः सप्तमे अवतारे रुचेः तद्भार्यायामाकूत्यां व्यजायत । स च यज्ञ इति प्रसिद्धः । स यज्ञः याम आयो येषां तैः सुरगणैस्सह स्वायम्भुवमन्वन्तरम् अपात् पालयामास ॥ १२ ॥
श्लोक-१३
विश्वास-प्रस्तुतिः
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥
मूलम्
39अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥ १३ ॥
अनुवाद (हिन्दी)
राजा नाभिकी पत्नी मेरु देवीके गर्भसे ऋषभदेवके रूपमें भगवान्ने आठवाँ अवतार ग्रहण किया। इस रूपमें उन्होंने परमहंसोंका वह मार्ग, जो सभी आश्रमियोंके लिये वन्दनीय है, दिखाया॥ १३॥
वीरराघवः
अष्टमे अवतारे उरुक्रमे भगवान् नाभेः स्वायम्भुव40मनुपौत्रस्य भार्यायां मेरुदेव्यां जातः । स च ऋषभाख्यः । धीराणां योगीश्वराणां वर्त्म अनुष्ठेयं धर्ममार्गं दर्शयन् दर्शयितुं जात इत्यर्थः । वर्त्म विशिनष्टि सर्वैराश्रमैः आश्रमस्थैः नमस्कृतं पूजितं आश्रमधर्मवर्त्यभ्यः उत्कृष्टमिति भावः ॥ १३ ॥
श्लोक-१४
विश्वास-प्रस्तुतिः
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः॥
अनुवाद (हिन्दी)
ऋषियोंकी प्रार्थनासे नवीं बार वे राजा पृथुके रूपमें अवतीर्ण हुए। शौनकादि ऋषियो! इस अवतारमें उन्होंने पृथ्वीसे समस्त ओषधियोंका दोहन किया था, इससे यह अवतार सबके लिये बड़ा ही कल्याणकारी हुआ॥ १४॥
वीरराघवः
ऋषिभिरिति । हुङ्कारैः वेनं हतवद्भिः ऋषिभिः याचितः जगत्पालनार्थं याचितो भगवान् नवमं पा45र्थवं पृथोःसम्बन्धि वपुः भेजे प्राप्तः । अंशेनानुप्रविष्टः पृथ्वाख्यजीवानुप्रवेशेन पृथुरूपेणावतीर्ण इत्यर्थः । हे विप्राः! शौनकादयः! स इमां पृथ्वीं गोरूपं धृतवतीम् ओषधीः दुग्ध दुदोह । अडभाव आर्षः । यतोऽदुग्ध, तेन कारणेन स पृथुः उशत्तमः सर्वेषाम46पीष्टतमो बभूवेत्यर्थः ॥ १४ ॥
श्लोक-१५
विश्वास-प्रस्तुतिः
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥
मूलम्
रूपं स जगृहे मात्स्यं चाक्षुषो47दधिसम्प्लवे।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥ १५ ॥
अनुवाद (हिन्दी)
चाक्षुष मन्वन्तरके अन्तमें जब सारी त्रिलोकी समुद्रमें डूब रही थी, तब उन्होंने मत्स्यके रूपमें दसवाँ अवतार ग्रहण किया और पृथ्वीरूपी नौकापर बैठाकर अगले मन्वन्तरके अधिपति वैवस्वत मनुकी रक्षा की॥ १५॥
वीरराघवः
रूप मिति । चाक्षुषान्तरं चाक्षुषमन्वन्तरम् । तत्र यः सम्प्लवः प्रलयः । तस्मिन् स भगवान् मात्स्यं दशमं रूपं जगृहे । अवतारप्रयोजनमाह नावीति । वैवस्वतं मनुं वैवस्वतमनुरूपेण जनिष्यमाणं सत्यव्रतं महीमय्यां पृथ्वीरूपायां नावि आरोप्य अपात् ररक्ष ॥ १५ ॥
श्लोक-१६
विश्वास-प्रस्तुतिः
सुरासुराणामुदधिं मथ्नतां मन्दराचलम्।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः॥
अनुवाद (हिन्दी)
जिस समय देवता और दैत्य समुद्र-मन्थन कर रहे थे, उस समय ग्यारहवाँ अवतार धारण करके कच्छपरूपसे भगवान्ने मन्दराचलको अपनी पीठपर धारण किया॥ १६॥
वीरराघवः
एकादशे तु अवतारे विभुः भगवान् सुरासुराणां उदधिम् अमृतार्थं मथ्नतां सतां कमठरूपेण 50कूर्मरूपेण पृष्ठे मन्दराख्यमचलं दने धृतवान् ॥ १६ ॥
श्लोक-१७
विश्वास-प्रस्तुतिः
धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया॥
मूलम्
धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपाययत् सुरा51नन्यान् मोहिन्या मोहयन् स्त्रिया॥ १७ ॥
अनुवाद (हिन्दी)
बारहवीं बार धन्वन्तरिके रूपमें अमृत लेकर समुद्रसे प्रकट हुए और तेरहवीं बार मोहिनीरूप धारण करके दैत्योंको मोहित करते हुए देवताओंको अमृत पिलाया॥ १७॥
वीरराघवः
द्वादशमं वपुस्तु धान्वन्तरं 52धन्वन्तर्याख्यजीवानुप्रवेशरूपमित्यर्थः । त्रयोदशमं रूपं तु यन्मोहिन्याख्यया अन्यान् असुरान् मोहयन् सुरान् अमृतमपाययत्, तदेव मोहिनीरूपं त्रयो53दशममित्यर्थः ॥ १७ ॥
श्लोक-१८
विश्वास-प्रस्तुतिः
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्।
ददार करजैर्वक्षस्येरकां कटकृद्यथा॥
अनुवाद (हिन्दी)
चौदहवें अवतारमें उन्होंने नरसिंहरूप धारण किया और अत्यन्त बलवान् दैत्यराज हिरण्यकशिपुकी छाती अपने नखोंसे अनायास इस प्रकार फाड़ डाली, जैसे चटाई बनानेवाला सींकको चीर डालता है॥ १८॥
वीरराघवः
नारसिंहं चतुर्दशं रूपं बिभ्रत् ऊर्जितं बलिष्ठं दैत्येन्द्रं हिरण्यकशिपुं वक्षसि करजैः नखैः ददार । यथा कटकृत् आस्तरणकृत् एरकान् तदर्थतृणविशेषान् विदारयति, तद्वत् ॥ १८ ॥
श्लोक-१९
विश्वास-प्रस्तुतिः
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥
मूलम्
पञ्चदशं वामनकं कृत्वाऽगादध्वरं बलेः।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिवि56ष्टपम्॥ १९ ॥
अनुवाद (हिन्दी)
पंद्रहवीं बार वामनका रूप धारण करके भगवान् दैत्यराज बलिके यज्ञमें गये। वे चाहते तो थे त्रिलोकीका राज्य, परन्तु माँगी उन्होंने केवल तीन पग पृथ्वी॥ १९॥
वीरराघवः
वामनकं वामनाख्यं पञ्चदशं वपुः कृत्वा धृत्वा बलेरध्वरं यज्ञवाटमगात् जगाम । प्रयोजनमाह - त्रिविष्टपं प्रत्यादित्सुः आहृत्य इन्द्राय दातुमिच्छुः, पदत्रयं पदत्रयव्याजेन त्रिलोकीं याचमानः याचयिष्यमाणोऽध्वरमगात् इत्यन्वयः ॥ १९ ॥
श्लोक-२०
विश्वास-प्रस्तुतिः
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान्।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम्॥
मूलम्
अवतारे षोडशमे 57पश्यन् 58ब्रह्मद्रुहो नृपान्।
त्रिस्सप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम्॥
अनुवाद (हिन्दी)
सोलहवें परशुराम अवतारमें जब उन्होंने देखा कि राजालोग ब्राह्मणोंके द्रोही हो गये हैं, तब क्रोधित होकर उन्होंने पृथ्वीको इक्कीस बार क्षत्रियोंसे शून्य कर दिया॥ २०॥
वीरराघवः
षोडशमे अवतारे भार्गवरामाख्ये59 नृपान् कार्तवीर्यादीन् ब्रह्मद्रुहः ब्रह्मकुलद्रोहकान् 60पश्यन् कुपितः त्रिस्सप्तकृत्वः एकविंशतिवारं महीं निःक्षत्त्रां क्षत्त्रबीजरहिताम् अकरोत् ॥ २० ॥
श्लोक-२१
विश्वास-प्रस्तुतिः
ततः सप्तदशे जातः सत्यवत्यां पराशरात्।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥
मूलम्
ततस्सप्तदशे जातः सत्यवत्यां पराशरात्।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥ २१ ॥
अनुवाद (हिन्दी)
इसके बाद सत्रहवें अवतारमें सत्यवतीके गर्भसे पराशरजीके द्वारा वे व्यासके रूपमें अवतीर्ण हुए , उस समय लोगोंकी समझ और धारणाशक्ति कम देखकर आपने वेदरूप वृक्षकी कई शाखाएँ बना दीं॥ २१॥
वीरराघवः
ततः सप्तदशे अवतारे पराशरात् सत्यवत्यां जातो बादरायण इति प्रसिद्धः । अल्पमेधसः कृत्स्रवेद - तदर्थावगमोपयुक्तबुद्धिशून्यान् पुंसः पुरुषान् दृष्ट्टा वेद एव तरुः तस्य शाखाः चक्रे ऋग्यजुस्सामादिभेदेन तदवान्तरभेदेन च विभक्तवानित्यर्थः ॥ २१ ॥
श्लोक-२२
विश्वास-प्रस्तुतिः
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥
मूलम्
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया।
समुद्रनिग्रहादीनि चक्रे वीर्याण्य61तःपरम्॥ २२ ॥
अनुवाद (हिन्दी)
अठारहवीं बार देवताओंका कार्य सम्पन्न करनेकी इच्छासे उन्होंने राजाके रूपमें रामावतार ग्रहण किया और सेतुबन्धन, रावणवध आदि वीरतापूर्ण बहुत-सी लीलाएँ कीं॥ २२॥
वीरराघवः
नरदेवत्वमिति । अतः परम् अष्टादशे अवतारे सुरकार्यं रावणवधरूपं कर्तुमिच्छया नरदेवत्वं क्षत्तियत्वं प्राप्तः श्रीरामरूपेणावतीर्ण इत्यर्थः । समुद्रविषयको निग्रहः आदिर्येषां तानि वीर्याणि कर्माणि चक्रे ॥ २२ ॥
श्लोक-२३
विश्वास-प्रस्तुतिः
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।
रामकृष्णाविति भुवो भगवानहरद्भरम्॥
मूलम्
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।
रामकृष्णाविति भुवो भगवानहरद्भरम्॥ २३ ॥
अनुवाद (हिन्दी)
उन्नीसवें और बीसवें अवतारोंमें उन्होंने यदुवंशमें बलराम और श्रीकृष्णके नामसे प्रकट होकर पृथ्वीका भार उतारा॥ २३॥
वीरराघवः
एकोनविंशे विंशतिमे चावतारे भगवान् वृष्णिषु यादवेषु रामकृष्णाविति जन्मनी । रामः बलरामः, कृष्णश्चेति द्वे जन्मनी प्रादुर्भावरूपे प्राप्य भुवो भार महरत् । रामस्त्वेकोनविंशः, कृष्णस्तु विंशतितमोऽवतार इत्यर्थः ॥ २३ ॥
श्लोक-२४
विश्वास-प्रस्तुतिः
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्नाजनसुतः* कीकटेषु भविष्यति॥
मूलम्
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्ना62जनसुतः कीकटेषु भविष्यति॥ २४ ॥
अनुवाद (हिन्दी)
उसके बाद कलियुग आ जानेपर मगधदेश (बिहार)-में देवताओंके द्वेषी दैत्योंको मोहित करनेके लिये अजनके पुत्ररूपमें आपका बुद्धावतार होगा॥ २४॥
वीरराघवः
ततः कलौ युगे सम्प्रवृत्ते सति सुरद्विषामार्हतानामसुराणां वा सम्मोहनार्थं भगवान् कीकटेषु 63देशेषु जिनस्य सुतो भविष्यति नाम्ना बुद्ध इति प्रसिद्धः । अयमेव विंशोऽवतारः ॥ २४ ॥
श्लोक-२५
विश्वास-प्रस्तुतिः
अथासौ युगसंध्यायां दस्युप्रायेषु राजसु।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥
अनुवाद (हिन्दी)
इसके भी बहुत पीछे जब कलियुगका अन्त समीप होगा और राजालोग प्रायः लुटेरे हो जायँगे, तब जगत्के रक्षक भगवान् विष्णुयश नामक ब्राह्मणके घर कल्किरूपमें अवतीर्ण होंगे*॥ २५॥
पादटिप्पनी
- यहाँ बाईस अवतारोंकी गणना की गयी है, परन्तु भगवान्के चौबीस अवतार प्रसिद्ध हैं। कुछ विद्वान् चौबीसकी संख्या यों पूर्ण करते हैं—राम-कृष्णके अतिरिक्त बीस अवतार तो उपर्युक्त हैं ही, शेष चार अवतार श्रीकृष्णके ही अंश हैं। स्वयं श्रीकृष्ण तो पूर्ण परमेश्वर हैं; वे अवतार नहीं, अवतारी हैं। अतः श्रीकृष्णको अवतारोंकी गणनामें नहीं गिनते। उनके चार अंश ये हैं—एक तो केशका अवतार, दूसरा सुतपा तथा पृश्निपर कृपा करनेवाला अवतार, तीसरा संकर्षण-बलराम और चौथा परब्रह्म। इस प्रकार इन चार अवतारोंसे विशिष्ट पाँचवें साक्षात् भगवान् वासुदेव हैं। दूसरे विद्वान् ऐसा मानते हैं कि बाईस अवतार तो उपर्युक्त हैं ही; इनके अतिरिक्त दो और हैं—हंस और हयग्रीव।
वीरराघवः
अथासौ जगत्पतिः भगवान् युगयोः कलिकृतयुगयोः सन्ध्यायां सन्धौ राजसु दस्युप्रायेषु चोरप्रायेषु केवलमधर्मबहुलेषु सत्सु तद्वधार्थं विष्णुयशसो जनिता विष्णुयशसः पुत्ररूपेणावतरिष्यति, स च नाम्ना कल्किरिति प्रसेत्स्यति ॥ २५ ॥
श्लोक-२६
विश्वास-प्रस्तुतिः
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः॥
मूलम्
अवतारा ह्यसंख्येया हरेस्सत्त्वनिधेर्द्विजाः।
66यथाऽविदासिनः कुल्याः सरसस्स्युस्सहस्रशः॥ २६ ॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! जैसे अगाध सरोवरसे हजारों छोटे-छोटे नाले निकलते हैं, वैसे ही सत्त्वनिधि भगवान् श्रीहरिके असंख्य अवतार हुआ करते हैं॥ २६॥
वीरराघवः
दिङ्गात्रमेतद्दर्शितमित्यभिप्रायेण आह - अवतारा इति । हे द्विजाः ! सत्त्वनिधेः शुद्धसत्त्वमूर्तेः भगवतोऽनिरुद्धात् एते अवतारा अन्येऽपि असङ्ख्येयाः स्युः प्रवर्तन्ते । यथा अविदासिन अशोष्यात् सरसः सहस्रशः कुल्याः स्युः स्पन्दन्ते, तद्वत् । कुल्याः क्षुद्रनद्यः ॥ २६ ॥
श्लोक-२७
विश्वास-प्रस्तुतिः
ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥
अनुवाद (हिन्दी)
ऋषि, मनु, देवता, प्रजापति, मनुपुत्र और जितने भी महान् शक्तिशाली हैं, वे सब-के-सब भगवान्के ही अंश हैं॥ २७॥
वीरराघवः
के ते इत्यत आह - ऋषय इति । ऋषयो मन्त्रद्रष्टारो वशिष्ठादयो मुनयः, केवलस्वात्मपरमात्म याथात्म्यमननशीलाः शुकादयः, देवाः इन्द्रादयः, मनुपुत्राः प्रियव्रतादयः, महौजसः महाप्रभावाः सप्रजापतयः दक्षादिभिस्सहिताः प्रजापतयश्च इत्यर्थः । त एते सर्वे हरेरेव कलाः स्मृताः, भगवदंशेनैव सम्भूता इत्यर्थः । तथाचोक्तं भगवता - “यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा, तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्”। (भ.गी. 10-41) इति ॥ २७ ॥
श्लोक-२८
विश्वास-प्रस्तुतिः
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥
मूलम्
69एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥
अनुवाद (हिन्दी)
ये सब अवतार तो भगवान्के अंशावतार अथवा कलावतार हैं, परंतु भगवान् श्रीकृष्ण तो स्वयं भगवान् (अवतारी) ही हैं। जब लोग दैत्योंके अत्याचारसे व्याकुल हो उठते हैं, तब युग-युगमें अनेक रूप धारण करके भगवान् उनकी रक्षा करते हैं॥ २८॥
वीरराघवः
एतद्वचनार्थमेवाऽऽह - एत इति । एते ऋषिप्रभृतयस्तु पुंसः अनिरुद्धाख्यस्यांशकलाः अंशांशसम्भूताः। “कृष्णस्तु भगवान् स्वयम्” इति श्रीकृष्णस्य पूर्णावतारत्वमुक्तम् उदाहृतभगव70द्गीतावचनेन । विभूत्यादिमतां जन्तूनां ममत्वेन निर्दिष्टश्रीकृष्णस्य तेजोंऽशसम्भवत्वं श्रीकृष्णस्य 71तु पूर्णत्वं 72चावगतम् । अत्रापि भगवानित्यनेन 73कृष्णस्य पूर्णषाड्गुण्यत्वमवगतम् । यद्वा अत्रैत इत्यनेन पूर्वोक्तेषु हिरण्यगर्भसनकादिषु केषाञ्चित् वराहनारायणमत्स्यकूर्ममोहिनीनृसिंहवामनश्रीरामावताराणां पूर्णानां सत्त्वेऽपि छत्रिन्यायेन सर्वेऽप्यवताराः परामृश्यन्ते । तत्र पूर्णत्वं नाम षाड्गुण्यपूर्णत्वेन रूपेण साक्षादवतीर्णत्वम् । अंशांशसम्भूतत्वं नाम तत्तज्जीवान्तरात्मतया अवस्थितस्य षाड्गुण्यपूर्णस्य भगवतः केनाप्यैश्वर्यवीर्यादि गुणलेशेन जीवद्वारा आविर्भूतेन विशिष्टतया सञ्जातत्वम् । निरंशस्य ब्रह्मस्वरूपस्यकदेशभेदेन आविर्भावासम्भवात् । ननु धर्मिस्वरूपैकदेशवाचिनोंऽशशब्दस्य कथं गुणपरत्वमिति चेत् न । अपृथक्सिद्धविशेषणस्यापि अंशशब्दवाच्यत्वात् विशिष्टवस्त्वेकदेशत्वस्यैव अंशपदप्रवृत्तिनिमित्तत्वात्, विशिष्टवस्स्त्वेकदेशत्वञ्च विशेषणविशेष्ययोः एकदेशतया द्वयोरप्यविशिष्टम् । वाराहाद्यवताराणां पूर्णत्वं तु तत्तत्पुराणादिभ्य एव अवगन्तव्यम् । सर्वावतारसाधारणं प्रयोजनमुपसंहरति इन्द्रेति । इन्द्रारिभिः असुरादिभिः व्याकुलम् उपद्रुतं लोकं युगे युगे प्रतियुगं मृडयन्ति 74सुखयन्ति ॥ २८ ॥
श्लोक-२९
विश्वास-प्रस्तुतिः
जन्म गुह्यं भगवतो य एतत्प्रयतो नरः।
सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते॥
मूलम्
जन्म गुह्यं भगवतो य 75एतत्प्रयतो नरः।
सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते॥ २९ ॥
अनुवाद (हिन्दी)
भगवान्के दिव्य जन्मोंकी यह कथा अत्यन्त गोपनीय—रहस्यमयी है; जो मनुष्य एकाग्रचित्तसे नियमपूर्वक सायंकाल और प्रातःकाल प्रेमसे इसका पाठ करता है, वह सब दुःखोंसे छूट जाता है॥ २९॥
वीरराघवः
अवतारकीर्तनादिफलमाह - जन्मगुह्यमिति । यः कश्चिन्नरो भगवतः एतज्जन्म गुह्यम् अवताररहस्यम् । सायंप्रातः समाहितचित्तो भक्त्या गृणन् कीर्तयन् दुःखजातात् विमुच्यते संसारात् मुक्तो भवतीत्यर्थः । जन्म गुह्यम् इत्यनेन भगवज्जन्म, न जीवजन्मवत् कर्ममूलम्, अपि तु स्वसङ्कल्पमूलमित्यभिप्रेतम् ॥ २९ ॥
श्लोक-३०
विश्वास-प्रस्तुतिः
एतद् रूपं भगवतो
ह्य् अरूपस्य चिद्-आत्मनः।
मायागुणैर् विरचितं
महद्-आदिभिर् आत्मनि॥
मूलम्
एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः।
मायागुणैर्विरचितं महदादिभिरात्मनि॥ ३० ॥
अनुवाद (हिन्दी)
प्राकृत स्वरूपरहित चिन्मय भगवान्का जो यह स्थूल जगदाकार रूप है, यह उनकी मायाके महत्तत्त्वादि गुणोंसे भगवान्में ही कल्पित है॥ ३०॥
वीरराघवः
तद् एव दर्शयिष्यन् रूप-प्रसङ्गात्
न केवलं अवतीर्णम् एव राम-कृष्णाद्याख्यं भगवतो रूपम्,
अपि तु परिदृश्यमानं प्रकृति-गुण-वैषम्य-मूल-महद्-आदि-कृतं जगद् अपि तद्रूपं इत्याह - एतद्रूपम् इति ।
चिद्-आत्मनः ज्ञान-स्वरूपस्य ।
अत एव अ-रूपस्य अ-मूर्त-स्वरूपस्य भगवतः
मायागुणैः गुणपरिणाम-रूपैः महदादिभिः
आत्मनि आधारभूते स्वस्मिन् एतत्-परिदृश्यमानं जगद्-आत्मकं रूपं 76 विरचितम् ।
आत्मनि इत्य् अनेन
रूपशब्देन च
जगतो भगवद्-रूपत्वं प्रतिपादितम्
शरीरस्य आत्मना77 धार्यत्व-नियमात् ॥ ३० ॥
श्लोक-३१
विश्वास-प्रस्तुतिः
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥
मूलम्
यथा नभसि मेघौ78घो रेणुर्वा पार्थिवोऽनिले।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥ ३१ ॥
अनुवाद (हिन्दी)
जैसे बादल वायुके आश्रय रहते हैं और धूसरपना धूलमें होता है, परन्तु अल्पबुद्धि मनुष्य बादलोंका आकाशमें और धूसरपनेका वायुमें आरोप करते हैं—वैसे ही अविवेकी पुरुष सबके साक्षी आत्मामें स्थूल दृश्यरूप जगत्का आरोप करते हैं॥ ३१॥
वीरराघवः
एवं जगदन्तर्गतदेवमनुष्यादिशरीराणामपि भगवद्रूपत्वे सति जीवानां केवलं देवोऽहं, मनुष्योऽहम् इत्यभि79मानो भ्रम एवेत्याह - यथेति । यथा मेघसमूहाः नभसि आकाशे अबुद्धिभिः आकाशयाथात्म्याविद्भिः आरोपिता । यथा च पृथिव्याः सम्बन्धी रेणुः धूलिः अनिले तद्याथात्म्याविद्भिः आरोपिता एवमबुद्धिभिः प्रत्यगात्मयाथात्म्याविद्भिः द्रष्टरि जीवे दृश्यत्वमारोपितम् । देवादिशरीरजातम् ‘अहं मम’ अभिमानविषयत्वेन आरोपितमित्यर्थः । अतो न देवादिशरीरजातं जीवस्वरूपमिति भावः । यद्यपि देवादिशरीरस्य तदभिमानिजीवेन धार्यत्वात् तं प्रति रूपत्वमस्त्येव, तथाऽपि “य आत्मनि तिष्ठन् यस्याऽऽत्मा शरीरम्” (बृह. उ. 3-7-22) इत्याद्युक्तरीत्या जीवस्यापि परमपुरुषधार्यत्वात् मुख्यधारकत्वं परमात्मनिष्ठमेवेति तं प्रत्येव देवाद्यचेतनजातं मुख्यं रूपं देहात्मनो: उभयोरपि परमपुरुषधार्यत्वज्ञानं80 भ्रमरूपं प्रकृतिपुरुषयोः अब्रह्मात्मकत्वज्ञानं 81प्रकृत्यादौ च आत्माभिमानः स्वातन्त्र्याभिमानः प्रकृतेः 82प्रत्यगात्मैकधार्यत्वाभिमानश्च अबुद्धिकृत इत्यभिप्रायः ॥ ३१ ॥
श्लोक-३२
विश्वास-प्रस्तुतिः
अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः॥
अनुवाद (हिन्दी)
इस स्थूलरूपसे परे भगवान्का एक सूक्ष्म अव्यक्त रूप है—जो न तो स्थूलकी तरह आकारादि गुणोंवाला है और न देखने, सुननेमें ही आ सकता है; वही सूक्ष्मशरीर है। आत्माका आरोप या प्रवेश होनेसे यही जीव कहलाता है और इसीका बार-बार जन्म होता है॥ ३२॥
वीरराघवः
ननु दृश्यधर्मः तस्मिन्त्रारोपितश्चेत् स जीवः कीदृश इत्यत्राऽऽह - अत इति । अतः अचिदात्मकदृश्यप्रपञ्चात् परं विलक्षणं तत्त्वं स जीवः । परत्वमेव दर्शयितुं विशिनष्टि । अव्यक्तं बाह्येन्द्रियैः द्रष्टुमशक्यं, कुत इत्यपेक्षायां हेतुः अदृष्टाश्रुतवस्तुत्वात् इति । तत्र हेतुमाह अव्यूढगुणबृंहितमिति । व्यूढैः गुणैः बहुधा विभक्तैः गुणैः बृंहितं स्थूलीकृतं यन्न भवति तत् अव्यूढगुणबृंहितम् । अनेन अविद्व्यावृत्तिः कारणदशायाम् अस्थूलम् अचेतनम्, कार्यदशायां हि व्यूढैः गुणैः सत्त्वादिभिश्च अनिवतं स्थूलीभवति, न तथा इत्यर्थः । अत एव अदृष्टाश्रुतवस्तुत्वं85 तदन्यार्थे86 नञ् । तत्र दृष्टं कार्यावस्थि87तमचिद्द्रव्यम् । श्रुतं तु कारणावस्थम् । “अचेतना परार्था च नित्या सततविक्रिया” (प. सं. 2) इत्यादिशास्त्रैः श्रुतं तदुभयविलक्षणवस्तुत्वादव्यक्तम् “अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते” (भ.गी. 8-20) इति हि भगवता गीयते । एवम्भूतं यद्वस्तु स जीवः यः पुनर्भवः प्रकृतिसङ्गात् पुनःपुनर्जन्मभाक् इत्यर्थः । यत्पुनः इति पाठे यतो यत्सम्बन्धात् पुनर्भवः ततः परमित्यन्वयः ॥ ३२ ॥
श्लोक-३३
विश्वास-प्रस्तुतिः
यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा।
अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम्॥
मूलम्
यत्रेमे सदसद्रूपे प्रतिषिद्धे ससंविदा।
अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम्॥ ३३ ॥
अनुवाद (हिन्दी)
उपर्युक्त सूक्ष्म और स्थूलशरीर अविद्यासे ही आत्मामें आरोपित हैं। जिस अवस्थामें आत्मस्वरूपके ज्ञानसे यह आरोप दूर हो जाता है, उसी समय ब्रह्मका साक्षात्कार होता है॥ ३३॥
वीरराघवः
तर्हि केनोपायेन प्रकृति88संङ्गमूलकपुनर्भवस्य निवृत्तिः, कीदृशं वा निवृत्तपुनर्भवं जीवरूपम् ? इत्यत्राऽऽह - यत्रेति द्वाभ्याम् । सदसच्छब्दौ कार्यकारणपरौ “असद्वा इदमग्र आसीत् । ततो वै सदजायत” (तैत्ति. उ. 2-7) इति प्रयोगात् । कारणावस्था च प्रलयदशा, ततश्चायमर्थः । यत्र आत्मनि इमे चिद्गते सदसद्रूपे उत्पत्तिविनाशावित्यर्थः । अविद्यया अज्ञानेन आत्मनि कृते आरोपिते च तस्मिन्नात्मनि स्वसंविदा स्वशरीरकपरमात्मविषयसम्यजज्ञानेन प्रतिषिद्धे निवृत्ते भवतः । अनेन स्वसंविदेव पुनर्भवनिवृत्तिहेतुरिति दर्शितम् । इतिशब्दः प्रकारवाची इत्येवंविधं स्वसंविन्निवृत्तोत्पत्तिविनाशमित्यर्थः । अत एव दर्शनं ज्ञानं प्रकृतिसङ्गवियुक्तं89 केवलपरि90शुद्धजीवात्मस्वरूपज्ञानं यत्तद् ब्रह्म गुणतो बृहत्त्वात् ब्रह्मशब्दवाच्यम् । मुक्तात्मस्वरूपम् “ब्रह्मभूयाय कल्पते” (भ.गी. 14-26) “ब्रह्मणो हि प्रतिष्ठाऽहम्” (भ.गी. 14-27) इति मुक्तात्मन्यपि ब्रह्मशब्दप्रयोगो दृश्यते ॥ ३३ ॥
श्लोक-३४
विश्वास-प्रस्तुतिः
यद्येषोपरता देवी माया वैशारदी मतिः।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥
मूलम्
यद्येषोपरता देवी माया वैशारदी मतिः।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥ ३४ ॥
अनुवाद (हिन्दी)
तत्त्वज्ञानी लोग जानते हैं कि जिस समय यह बुद्धिरूपा परमेश्वरकी माया निवृत्त हो जाती है, उस समय जीव परमानन्दमय हो जाता है और अपनी स्वरूप-महिमामें प्रतिष्ठित होता है॥ ३४॥
वीरराघवः
यदीति । यदि यदा एषा वैशारदी महदादिकार्यमुखेन विपुला एषा माया तन्मूला मतिः अभिमतिः । देहात्माभिमानादिरूपा च उपरता निवृत्ता भवति । उपरतिरत्र सम्बन्धविरहः । “नित्या सततविक्रिया” (प. सं. 2) “गौरनाद्यन्तवती” (मन्त्रि. उ. 4) इति । मायाशब्दवाच्यायाः प्रकृतेः नित्यत्वावगमेन विनाशायोगात् । एव इत्यस्य तदा इत्यादि91 तदैव सम्पन्ने परमात्मप्राप्या अभिव्यक्ते स्वे स्वकीये महिम्नि गुणाष्टकरूपे मुक्तैश्वर्यात्मके महिम्न महीयते । ‘मह-पूजायाम्’ महशब्दात् आचारक्यजन्तात् कर्मण्यात्मनेपदम् । स्वकीय महिमलब्ध्या हेतुना परमव्योमवासिभिः बहुमतो भवतीति विदुः, मुक्तात्मस्वरूपयाथात्म्यविदः । यद्वा, सम्पन्न इति प्रथमान्ततया छेदः92, स्वे93 महिम्नि मुक्तैश्वर्ये सम्पन्नः तल्लब्ध्या समृद्धः महीयत इति निरवशेषत्वेन प्रकृतिसम्बन्ध तत्कार्यनिवृत्तौ आविर्भूतगुणाष्टकयुक्तः परब्रह्म अनुभवन् परमव्योमनिवासिभिः बहुमतोऽवतिष्ठते इत्यर्थः । अपहतपाप्मत्वादि94गुणाष्टकरूपमहिम्नि “प्रकाश्यन्ते न जन्यन्ते” इत्यादिशास्त्रेभ्यः स्वाभाविकत्वावगमात् स्वे महिम्नि इत्युक्तं भवति ॥ ३४ ॥
श्लोक-३५
विश्वास-प्रस्तुतिः
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥
मूलम्
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥ ३५ ॥
अनुवाद (हिन्दी)
वास्तवमें जिनके जन्म नहीं हैं और कर्म भी नहीं हैं, उन हृदयेश्वर भगवान्के अप्राकृत जन्म और कर्मोंका तत्त्वज्ञानी लोग इसी प्रकार वर्णन करते हैं; क्योंकि उनके जन्म और कर्म वेदोंके अत्यन्त गोपनीय रहस्य हैं॥ ३५॥
वीरराघवः
तदेवं प्रसक्तानुप्रसक्ततया जीवस्वरूपं 95कथितम् । अथ परमप्रस्तुतस्य भगवज्जन्मनो 96जीवजन्मविलक्षणत्वमाह - एवमिति । अजनस्य जीववत् कर्मायत्तजननरहितस्य, अकर्तुः तद्वदेव पुण्यपापात्मककर्मरहितस्य हृत्पतेः हृदयकमलमध्यावस्थानेन पाति सर्वाणि भूतानि नियमयतीति 97हृत्पतिः । तस्य सर्वान्तरात्मनो भगवतः एवमुक्तविधानि जन्मानि कर्माणि, कवयो वेदगुह्यानि वर्णयन्ति । कवयो ज्ञानाधिकाः । “न मुह्यात् चिन्तयन् कविः” । इति प्रयोगात् वेदगुह्यानि वेदरहस्यानि वर्णयन्ति । “अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम्” (पु. सू. 2-1,2) इत्यादि हि वेदतात्पर्यविषयविभागप्रदर्शनपूर्वकं यादृशानि भावयति, तादृशानि वर्णयन्ति । तत्र हि अजायमान इत्यनेन जीवस्य या कर्मायत्तोत्पत्तिः सा ईश्वरस्य प्रतिषिध्यते । बहुधा विजायते इत्यनेन अकर्मायत्ता स्वसङ्कल्पमूला च उत्पत्तिः बोध्यते । “न हिंस्यात् भूतानि”, “पशुमालभेत” इत्यादिवत् विधिनिषेधयोः भिन्नविषयत्वावश्यंभावात् तयोः एकविषयत्वे पूर्वोत्तरव्याघातापत्तेः । एवम् उत्सर्गापवादसामान्यविशेषन्यायादिभिः निर्णेतव्यमिममर्थं कवय एव जानन्तीत्यभिप्रायेणोक्तम् । “तस्य धीराः परिजानन्ति योनिम् " (पु. सू. 2-2) इति तस्य प्रस्तुतस्य भगवतः योनिम् अधिष्ठेयं शरीरं धीराः परिजानन्ति । अकर्मायत्तत्वस्वेच्छोपात्तत्वाजहत्स्वभावत्वादिरूपेण धीरा एव जानन्तीत्यर्थः । अकर्तुः कर्माणि वेदगुह्यानि इत्यनेन कर्मविधिनिषेधवादिन्योः “निष्क्रियं निष्कलं” (श्वेता. उ. 6-19) “यस्य चै(वे)तत् कर्म स वै वेदितव्यः” (कौषी. उ. 4- 18) इत्यादिश्रुत्योरपि कविभिः निर्णेतव्यो विषयविभागो द्रष्टव्य इति सूचितम् । इदं सगुणनिर्गुण- सशरीराशरीर-सविकाराविकारजीवब्रह्म-भेदाभेद श्रुतिविषयविभागस्याप्युपलक्षणम् । एवं च जन्मकर्मगुणशरीरविकारभेदप्रतिपादकानां वेदान्तवाक्यानां तत्प्रतिषेधपरैर्वाक्यैः बाध्यत्वं मृषावादिभिरुक्तमनादरणीयमिति भावः । तथा चोक्तम् वातस्यैः वरदगुरुभिः - “यद्ब्रह्मणो गुणशरीरविकारभेदकर्मादि (जन्मादि) गोचर धियः (विधि) प्रतिषेधवाचः । अन्योन्य भिन्नविष98या न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबाध्याः” (त. सा. 69) इति । अकर्तुः कर्माणि वेदगुह्यानि इत्यनेन भगवच्चेष्टितानां जगद्वयापारा99दिरूपाणां जीवचेष्टितसजातीयतया चिन्तयितुमशक्यानि । किन्तु तद्वैजात्येन वेदादेव अवगन्तव्यानि । तथैव च कविभिरपि वर्ण्यन्त इति चोक्तम् । कवयः वर्णयन्तीत्यनेन कवीनां भगवज्जन्मकर्मयाथात्म्यवेदनमूलक तद्वर्णयितृत्वोक्त्या कुबुद्धीनां भगवज्जन्मकर्मादियाथात्म्यवेदित्वं च सूचितमिति ॥ ३५ ॥
श्लोक-३६
विश्वास-प्रस्तुतिः
स वा इदं विश्वममोघलीलः
सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
भूतेषु चान्तर्हित आत्मतन्त्रः
षाड्वर्गिकं जिघ्रति षड्गुणेशः॥
मूलम्
स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥ ३६ ॥
अनुवाद (हिन्दी)
भगवान्की लीला अमोघ है। वे लीलासे ही इस संसारका सृजन, पालन और संहार करते हैं, किंतु इसमें आसक्त नहीं होते। प्राणियोंके अन्तःकरणमें छिपे रहकर ज्ञानेन्द्रिय और मनके नियन्ताके रूपमें उनके विषयोंको ग्रहण भी करते हैं, परंतु उनसे अलग रहते हैं, वे परम स्वतन्त्र हैं—ये विषय कभी उन्हें लिप्त नहीं कर सकते॥ ३६॥
वीरराघवः
तदेव उपपादयितुं तावत् भगवतः तच्चेष्टितस्य जीव-तच्चेष्टिताभ्यां वैजात्यं दर्शयति - स वा इति । स वै भगवान् अमोघलीलः । अमोघा अवितथा लीला यस्य सः । इदं परिदृश्यमानं चिदचिदात्मकं जगत् सृजति, अवति रक्षति, अत्ति संहरति, न च अस्मिन् जगति सज्जते च । लीलाशब्देन जगद्व्यापारस्य लीलात्वमुक्तम् । अनेन प्राचीनकर्मवासनानुगुणप्रवृत्तबुद्ध्यनुगुणकेवल सुखदुःखाद्यर्थजीवकर्मव्यावृत्तिः । अमोघपदेन 100लीलायाः निर्विघ्नसमाप्ति वदताऽपि अनेकान्तरायोपहतजीवकर्मवैजात्यमुक्तम् । समुदायेन जीववैजात्यं विश्वं सृजत्यवत्यत्ति इत्यनेन सर्गादिकर्मणः कृत्स्रजगद्विषयकत्वोक्त्या अनल्पत्वमवगतम् । अनेन अत्यल्पजीव101कर्मव्यावृत्तिः । अस्मिन् न सज्जत इति सङ्गनिषेधेन सङ्गहेतुकरागद्वेषादिराहित्यं लब्धम् । तेन वैषम्यनैर्धृण्याभावः । एवञ्च जीवव्यावृत्तिः । किञ्च भूतेषु चिदचिदात्मकेषु “न हिंस्याद्भूतानि” इत्यादाविव अत्र भूतशब्दः अचेतनसंसृष्टचेतनवाची अन्तर्हितः अन्तरात्मतया अवस्थितोऽपि भूतैरविज्ञात इत्यर्थः । जीवस्तु अनुमापकैः लक्षणैः विज्ञायत इति ततो व्यावृत्तिः । आत्मतन्त्रः स्वतन्त्रः, जीवस्तु कालकर्मदैवादिपरतन्त्रः । षड्गुणेशः ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां षण्णां गुणानामीशः, अधिपतिः आश्रय इति यावत् । जीवस्तु तद्विपरीतगुणाश्रयः । षाड्वर्गिकं षडिन्द्रियवेद्यं शब्दादिकं भुङ्क्ते । तेन लीलारसम् अनुभवति । जीवस्तु सुख्यति दुःख्यति मुह्यति चेति भावः ॥ ३६ ॥
श्लोक-३७
विश्वास-प्रस्तुतिः
न चास्य कश्चिन्निपुणेन धातु-
रवैति जन्तुः कुमनीष ऊतीः।
नामानि रूपाणि मनोवचोभिः
सन्तन्वतो नटचर्यामिवाज्ञः॥
मूलम्
न चास्य कश्चिन्नि102पुणेन धातुरवैति जन्तुः कुमनीष ऊ103तीः।
नामानि रूपाणि मनोवचोभिः 104सन्तन्वतो नटचर्यामिवाज्ञः॥ ३७ ॥
अनुवाद (हिन्दी)
जैसे अनजान मनुष्य जादूगर अथवा नटके संकल्प और वचनोंसे की हुई करामातको नहीं समझ पाता, वैसे ही अपने संकल्प और वेदवाणीके द्वारा भगवान्के प्रकट किये हुए इन नाना नाम और रूपोंको तथा उनकी लीलाओंको कुबुद्धि जीव बहुत-सी तर्क-युक्तियोंके द्वारा नहीं पहचान सकता॥ ३७॥
वीरराघवः
नेति । यत एवं अत एव अस्य मनसा सङ्कल्पेन वचोभिः वेदात्मकैश्च नामानि देवमनुष्यादिनामानि रूपाणि देवादिरूपाणि च नटचर्याम् इव वितन्वतः वि105दधतः धातुः ईश्वरस्य ऊतीः गतीः अवतेः गतिश्चार्थः ; पदवी प्रकारान् इति यावत् । निपुणेन भावप्रधानो निर्देशः नैपुण्येनापि जन्तुः नावैति नावगच्छति । अनवगतौ हेतुं वदन् जन्तुं विशिनष्टि । कुत्सिता मनीषा बुद्धिः यस्य । शब्दादिविषयासक्तबुद्धिः अज्ञः अहम्माभिमानाभ्यां स्वात्मपरमात्मयाथात्म्यानभिज्ञः मनोवचोभिः नामानि रूपाणि च वितन्वत इत्यत्र मनसा सङ्कल्पेन रूपसृष्टिः, वेदवचोभिः नामकल्पनमिति विवेकः । “नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ।” (विष्णु. पु. 1-5-63) इति वचनात् नटचर्यामिवेति चिदचिद्गतदोषराहित्यं विवक्षितम् । यद्वा नटचर्यामिव-नटो यथा विचित्रवेषानुपादत्ते तत्तद्रूपाणि मत्स्यकूर्मादीनि तन्नामानि च सन्तन्वतः बिभ्रतोऽस्य धातुः जगत्स्त्रष्टुः ईश्वरस्य ऊतीः गतीः जन्तुः मनसा वचोभिश्च निपुणेन तत्र नैपुण्येन च नावैति इत्यर्थः । अत्र पक्षे नटचर्यामिवेति दृष्टान्तेन इदं विवक्षितम् । नटस्य अनेकवेषपरिग्रहेऽपि यथा स्वस्वभावात्यागः वेषाणां चेष्टा106मूलत्वं, चर्यायाश्च लीलात्वं तद्वदस्यापि इति । कुमनीषोऽज्ञो जन्तुः नावैतीत्यनेन शब्दादिषु विरक्तः स्वात्मपरमात्म याथात्म्य मननशीलस्तु अवैत्येवेति सूचितम् ॥ ३७ ॥
श्लोक-३८
विश्वास-प्रस्तुतिः
स वेद धातुः पदवीं परस्य
दुरन्तवीर्यस्य रथाङ्गपाणेः।
योऽमायया संततयानुवृत्त्या
भजेत तत्पादसरोजगन्धम्॥
मूलम्
स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः।
योऽमायया सन्ततयाऽनुवृत्त्या भजेत तत्पादसरोजगन्धम्॥ ३८ ॥
अनुवाद (हिन्दी)
चक्रपाणि भगवान्की शक्ति और पराक्रम अनन्त है—उनकी कोई थाह नहीं पा सकता। वे सारे जगत्के निर्माता होनेपर भी उससे सर्वथा परे हैं। उनके स्वरूपको अथवा उनकी लीलाके रहस्यको वही जान सकता है, जो नित्य-निरन्तर निष्कपटभावसे उनके चरणकमलोंकी दिव्य गन्धका सेवन करता है—सेवाभावसे उनके चरणोंका चिन्तन करता रहता है॥ ३८॥
वीरराघवः
तदेवाऽऽह - स इति । यः पुमान् अमायया मायागुणकामादिरहितया सन्ततया अनुस्यूतया दुरन्तवीर्यस्य अपारवीर्यस्य रथाङ्गपाणेः अनुवृत्त्या सेवया तस्य रथाङ्गपाणेः पादसरोजगन्धम् भजेत अनुभवेत् । स धातू रथाङ्गपाणेः पदवीं वेद जानाति । तथाचोक्तम् भगवता - “भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ (भ.गी. 11-54 ) इति ॥ ३८ ॥
श्लोक-३९
विश्वास-प्रस्तुतिः
अथेह धन्या भगवन्त इत्थं
यद्वासुदेवेऽखिललोकनाथे।
कुर्वन्ति सर्वात्मकमात्मभावं
न यत्र भूयः परिवर्त उग्रः॥
मूलम्
अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे।
कुर्वन्ति सर्वात्म107कमात्मभावं न यत्र भूयः परिवर्त उग्रः॥ ३९ ॥
अनुवाद (हिन्दी)
शौनकादि ऋषियो! आपलोग बड़े ही सौभाग्यशाली तथा धन्य हैं जो इस जीवनमें और विघ्न-बाधाओंसे भरे इस संसारमें समस्त लोकोंके स्वामी भगवान् श्रीकृष्णसे वह सर्वात्मक आत्मभाव, वह अनिर्वचनीय अनन्य प्रेम करते हैं, जिससे फिर इस जन्म-मरणरूप संसारके भयंकर चक्रमें नहीं पड़ना होता॥ ३९॥
वीरराघवः
एव मया उपपादितं भगवदवतारादिरहस्यममायिकाः अविच्छिन्न भगवद्भक्तियोगनिष्ठावन्तो जानन्त्येव, अत्र न विप्रतिपत्तिरिति 108सूचयितुं श्रोतॄणां शौनकादीनां कृतार्थतां सहेतुकाम् आविष्करोति - अथेति । भगवन्त इति सम्बोधनम्, यूय मित्यध्याहारः । यद्वा हे मुनयः! भगवन्तः! पूज्याः भवन्तः धन्याः कृतार्थाः । कुतः ? हि यस्मात् इहलोके अखिललोकनाथे वासुदेवे सर्वात्मकं सर्वप्रकारकं कारणत्रयेणापीत्यर्थः । सर्वात्मक इति पाठे सर्वस्यात्मनि सर्वशरीरके वा इति वासुदेवविशेषणम् । आत्मभावं भावः 109भक्तियोगः आत्मनो भावः आत्मकर्तृकः । सर्वात्मन इति पाठे आत्मना मनसा यो भावो भक्तिः तं कुर्वन्ति, ततो धन्या इत्यर्थः । कथम् भक्तियोगमात्रकर्तृकत्वेन धन्यता ? इत्यपेक्षायाम् आत्मभावं विशिनष्टि । यत्र यस्मिन् आत्मभावे 110सति उग्रः गर्भजन्मजरामरणादिदुःखहेतुत्वेन घोरः परिवर्तः संसारपरिवृत्तिः भूयो न भवति ॥ ३९ ॥
श्लोक-४०
विश्वास-प्रस्तुतिः
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
उत्तमश्लोकचरितं चकार भगवानृषिः॥
मूलम्
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
उत्तमश्लोकचरितं चकार भगवानृषिः॥
अनुवाद (हिन्दी)
भगवान् वेदव्यासने यह वेदोंके समान भगवच्चरित्रसे परिपूर्ण भागवत नामका पुराण बनाया है॥ ४०॥
वीरराघवः
तदेवं “पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि” (भाग 1-1-9) इत्यादी111नां शौनकादिप्रश्नानां सङ्ग्रहेण उत्तराण्यभिधाय, अथ एतच्छुश्रावयिषितभागवताख्यपुराणमुखेन तान्येव विस्तरतः प्रतिपिपादयिषुः तावत् एतत्पुराणनिर्माणप्रकारं निर्मातुः बादरायणस्य निर्माणप्रवृत्तिनिमित्तं, निर्मितस्य पुनः शुकं प्रत्यध्यापनं तेन अधीतस्य राज्ञे श्रावणं च सहेतुकं प्रष्टुं अवसरप्रदानाय भगवान् बादरायणः तदिदं पुराणं निर्माय, पुत्रमध्याप्य, तन्मुखेन प्रवर्तयामास । 112तदाऽहं तत्तन्मुखेनाधिगतम् इदं पुराणं वः श्रावयिष्यामीत्याह सूतः इदमिति । इदं भागवतमिति प्रसिद्धं पुराणं ब्रह्मसम्मितं ब्रह्म वेदः तेन सम्मितं समीकृतं, वेदतुल्यमित्यर्थः । यद्वा, ब्रह्म परं ब्रह्म तत् सम्यक् मीयते अनेनेति ब्रह्मसम्मितम् । बाहुलकात् करणे क्तः । परब्रह्मप्रमापकमित्यर्थः । यद्वा, सम्यक् मीयते प्रमीयत इति कर्मण्येव क्तः । ब्रह्मसम्मितं यस्मात् तत् ब्रह्मसम्मितम् संपूर्वात् इण्-गतौ इत्यस्मात् वा कर्मणि क्तः । “ङमो हृस्वादचि ङमुण्णित्यम्” (अष्टा. 8-3-32) इति ङमुडागमः । ब्रह्म सम्यक् इतं अवगतं येन यस्मात् वा तत् ब्रह्मसम्मितम् । तत्र हेतुं वदन् विशिनष्टि । उत्तमश्लोकस्य भगवतः चरितं चरितप्रतिपादकम् प्रतिपाद्यप्रतिपादकयोः अभेदविवक्षया उत्तमश्लोकचरितमित्युक्तम् । एवंविधं पुराणं भगवानृषिः निखिलनिगमद्रष्टा व्यासः चकार ॥ ४० ॥
श्लोक-४१
विश्वास-प्रस्तुतिः
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्।
तदिदं ग्राहयामास सुतमात्मवतां वरम्॥
मूलम्
निश्श्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्।
113तदिदं ग्राहयामास सुतमात्मवतां वरम्॥ ४१ ॥
अनुवाद (हिन्दी)
उन्होंने इस श्लाघनीय, कल्याणकारी और महान् पुराणको लोगोंके परम कल्याणके लिये अपने आत्मज्ञानिशिरोमणि पुत्रको ग्रहण कराया॥ ४१॥
वीरराघवः
किमर्थं लोकस्य शृण्वतो जनस्य निश्श्रेयसार्थं 114मुक्त्यर्थम् । तदेव दर्शयितुं विशिनष्टि । धन्यं सम्यग्ज्ञानजननद्वारा कृतार्थत्वावहं स्वस्त्ययनं मङ्गलास्पदम् । “पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्” (भार 13-135-10) इत्युक्तरीत्या निरतिशयमङ्गलावहं भगवत्स्वरूपरूपादिप्रतिपादकत्वेन मङ्गलास्पदमित्यर्थः । तदुक्तविधमिदं पुराणं आत्मवतां ज्ञानिनां श्रेष्ठं सुतम् श्रीशुकं ग्राहयामास अध्यापयामास ॥ ४१ ॥
श्लोक-४२
विश्वास-प्रस्तुतिः
सर्ववेदेतिहासानां सारं सारं समुद्धृतम्।
स तु संश्रावयामास महाराजं परीक्षितम्॥
मूलम्
सर्ववेदेतिहासानां सारं सारं समुद्धृतम्।
स तु संश्रावयामास महाराजं परीक्षितम्॥ ४२ ॥
अनुवाद (हिन्दी)
इसमें सारे वेद और इतिहासोंका सार-सार संग्रह किया गया है। शुकदेवजीने राजा परीक्षित् को यह सुनाया॥ ४२॥
वीरराघवः
पुराणमेव विशिनष्टि । सर्वेषां पूर्वोत्तरभागात्मकानां वेदानाम् इतिहासानां च सारं सारं समुद्धृतम् । एतत्पुराणरूपेणेति शेषः । 115सारं सारांशः समीचीनन्यायैः परिष्कृतोऽर्थ इति यावत् । “सारं सारं समुद्धृतम्” इत्यनेन वेदेतिहासादिसिद्धस्य अर्धशरीरस्य क्रमविशेषनिवेशनं वेदाद्यर्थपरिष्करणं च व्यासबुद्ध्यधीनम् 116इति अवगम्यते । स तु अधीतैतत्पुराणः शुकस्तु परीक्षितं महाराजम् इदं संश्रावयामास । शृणोतेः शब्दकर्मणोऽण्यन्ते कर्तुः परीक्षितः णौ - “गतिबुद्धि” (अष्टा. 1-4-52) इति कर्मसंज्ञायां, द्वितीया । एवं ग्राहयामास सुतम् इत्यत्रापि तत्र ग्रहेरपि शब्दकर्मकत्वात् ॥ ४२ ॥
श्लोक-४३
विश्वास-प्रस्तुतिः
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः।
कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह॥
मूलम्
117प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः।
118तत्र कीर्तयतो विप्रा 119विप्रर्षेर्भूरितेजसः॥ ४३ ॥
वीरराघवः
परीक्षितं कथम्भूतम् ? गङ्गायां प्रायोपविष्टम् अनशनव्रतदीक्षितम् । ऋषिभिः परीतं परिवेष्टितम् । तत्र परीक्षितः सन्निधौ भूरितेजसो विप्रर्षेः शुकस्य कीर्तयतः श्रावयतः सतः हे विप्राः! ॥ ४३ ॥
श्लोक-४४
विश्वास-प्रस्तुतिः
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥
मूलम्
अहश्चाध्यगमं तत्र निविष्टस्तदनुग्रहात्120।
सोऽहं वः श्रावयिष्यामि यथाऽधीतं यथामति॥ ४४ ॥
वीरराघवः
अहमिति । तत्र निविष्टोऽहं तदनुग्रहात् 121शुकानुग्रहात् अध्यगमम् अधिगतवानस्मि पुराणमिति शेषः । गमेः ऌदित्वादङि अध्यगममिति रूपम् । सः तदनुग्रहात् अधिगतैतत्पुराणोऽहं च यथाधीतं 122यथावत् अधीतम् । यद्वा, अधीतमिति भावेक्तः । यथाऽध्ययनम् अध्ययनमनतिक्रम्य अध्ययनानुसारेण इत्यर्थः । यथामति श्रावयिष्यामि । यथामति इत्यनेन पुराणस्य दुरवबोधत्वं सूच्यते ॥ ४४ ॥
श्लोक-४५
विश्वास-प्रस्तुतिः
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥
अनुवाद (हिन्दी)
उस समय वे परमर्षियोंसे घिरे हुए आमरण अनशनका व्रत लेकर गंगातटपर बैठे हुए थे। भगवान् श्रीकृष्ण जब धर्म, ज्ञान आदिके साथ अपने परमधामको पधार गये, तब इस कलियुगमें जो लोग अज्ञानरूपी अन्धकारसे अंधे हो रहे हैं, उनके लिये यह पुराणरूपी सूर्य इस समय प्रकट हुआ है। शौनकादि ऋषियो! जब महातेजस्वी श्रीशुकदेवजी महाराज वहाँ इस पुराणकी कथा कह रहे थे, तब मैं भी वहाँ बैठा था। वहीं मैंने उनकी कृपापूर्ण अनुमतिसे इसका अध्ययन किया। मेरा जैसा अध्ययन है और मेरी बुद्धिने जितना जिस प्रकार इसको ग्रहण किया है, उसीके अनुसार इसे मैं आपलोगोंको सुनाऊँगा॥ ४३—४५॥
अनुवाद (समाप्ति)
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः॥ ३॥
वीरराघवः
पुराणं स्तौति कृष्ण इति । कृष्णे भगवति धर्मज्ञानादिभिस्सह स्वधाम स्वलोकं गतवति सति, अत एव कलौ युगे नष्टदृशां नष्टप्रज्ञानां जनानां दृष्टिप्रदानक्षम 126एष पुराणरूपोऽर्कः सूर्योऽधुनोदितः । यथा रात्रौ नष्टदृष्टीनाम् अर्कोदये सति दृष्टिः स्वविषयग्रहणसमर्था भवति, एवं रात्रिरूपे कलौ नष्टप्रज्ञानां पुनरेतत्पुराणार्कोदयेन प्रज्ञा 127प्रवर्तत इत्यर्थः ॥ ४५ ॥
इति श्रीमद्भागवते प्रथमस्कन्धे श्री वीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां तृतीयोऽध्यायः ॥ ३ ॥
-
W त्व ↩︎
-
W ष ↩︎
-
A,B जा ↩︎
-
A,B omit महदादिभिः सम्पाद्यत्वात् ↩︎
-
A,B स्यै ↩︎
-
A,B omit स्वेन रूपेण ↩︎
-
A,B धा ↩︎
-
A,B व्यस्वभा ↩︎
-
A,B omit आदौ….यस्यावयवेति ↩︎
-
H,M धः ↩︎
-
W णं ↩︎
-
W त्रं ↩︎
-
W adds उल्लसत् ↩︎
-
W दा ↩︎
-
W यादि ↩︎
-
W रूप ↩︎
-
I श्रितः ↩︎
-
W एव ↩︎
-
W omits सर्ग ↩︎
-
A,B omit चचार ↩︎
-
W नैव ↩︎
-
B वा; W द्वितीयावतार ↩︎
-
W णैवाव ↩︎
-
A,B दत्वयोः कथनात् ↩︎
-
W सर्गः ↩︎
-
H,I,K,M,W वै ↩︎
-
W र्मि ↩︎
-
W व ↩︎
-
W रूपत्व ↩︎
-
A तं ↩︎
-
A,B कर्मणां ↩︎
-
W इत्यर्थः ↩︎
-
M र्य ↩︎
-
H,V शमदमोपेत ↩︎
-
A,B चर्तु ↩︎
-
H,I,K,M,N,V,W ष्ठं ↩︎
-
A,B omit य ऊचिवान् ↩︎
-
VF था स ↩︎
-
K,M मो ↩︎
-
A,B omit मनु ↩︎
-
K,M,W र्थ ↩︎
-
K,M दुग्धवानोष ↩︎
-
N,V मौ ↩︎
-
K,M च ↩︎
-
A,B र्थि ↩︎
-
A,B मिष्ट ↩︎
-
W न्थना ↩︎
-
K,M शं ↩︎
-
A,B omit कूर्मरूपेण ↩︎
-
K,M धामन्या ↩︎
-
A,B धान्वन्तराख्य ↩︎
-
A,B दशामत्यर्थः ↩︎
-
H,I,K,M,V,W रूरावेर ↩︎
-
H,K,M,V,W कान् ↩︎
-
B,I पि ↩︎
-
K,M यच्छन् ↩︎
-
H,V धर्म ↩︎
-
A,B ख्यो ↩︎
-
A,B नृपान् ↩︎
-
W ण्यनेकशः ↩︎
-
B,I म्नाऽञ्जन, v म्नाऽजिन, H,M,W म्रा जिन ↩︎
-
A,B Omit देशेषु ↩︎
-
K,M ल्की ज ↩︎
-
H,V द्गुरु: ↩︎
-
K,M यथा विदा ↩︎
-
H,V मुनयो, W पितरो ↩︎
-
B,H,I,K,M,V स्स्मृता ↩︎
-
H एतेंऽशांश, K,M एते स्वांश ↩︎
-
A,B वद्वच ↩︎
-
A,B omit तु ↩︎
-
A,B स्थापितम् ↩︎
-
A,B omit कृष्णस्य ↩︎
-
A,B omit सुखयन्ति । ↩︎
-
K,M एवं प्र ↩︎
-
A,B चिदचित्त्वम् ↩︎
-
A,B नो ↩︎
-
K,M,W घा: ↩︎
-
A,B मानिनो ↩︎
-
W adds न ↩︎
-
W प्रकृतौ आत्माभिमानः ↩︎
-
A,B प्रसङ्गादात्मैक ↩︎
-
A,G,N व्यूहितम् ↩︎
-
K,M,W यः पुन ↩︎
-
A,B त्वात् ↩︎
-
A,B र्थत्वात् ↩︎
-
W स्थमचि (*काण्वपाठसम्बन्धिविज्ञानपर्यायस्थाने इदमुपलभ्यते । बृह. उ. 3-7-22) ↩︎
-
A,B मूलसंज्ञक ↩︎
-
A,B क्त ↩︎
-
A,B शुद्धात्म ↩︎
-
W दि: ↩︎
-
A,B दे ↩︎
-
A,B स्व ↩︎
-
A,B गुणाष्टकमहि ↩︎
-
A,B स्थितम् ↩︎
-
A,B omit जीव ↩︎
-
W व्युत्पत्तिः ↩︎
-
B श ↩︎
-
A,B ररू ↩︎
-
A,B omit लीलायाः ↩︎
-
A,B omit कर्म ↩︎
-
K,M निपुणं विधातुः ↩︎
-
K,M तिः ↩︎
-
W वित ↩︎
-
A,B omit वि ↩︎
-
W मूलचर्या ↩︎
-
K,M त्मक आत्म, WF त्मन आत्म ↩︎
-
A,B सूचितम् ↩︎
-
A,B omit भक्ति ↩︎
-
A,B omit सति ↩︎
-
A दिना ↩︎
-
A,B तदहं ↩︎
-
AF ततस्सङ्गा ↩︎
-
A,B omit मुक्त्यर्थं ↩︎
-
W सारः स्थिरांशः समी ↩︎
-
A,B omit इति ↩︎
-
The order of lines in the 3 verses starting with ‘प्रायोपविष्टं’ is changed to fit in with the principal commentaries thereof. ↩︎
-
K,M तस्य ↩︎
-
K,M राजर्षे ↩︎
-
V adds यूयं व्यवसिता विप्रा जिज्ञासायां च निष्ठिताः । This line is the Second part of the 44th verse in H. ↩︎
-
A omits शुकानुग्रहात् ↩︎
-
A,B omit यथावत् अधीतम् ↩︎
-
This verse is shown in brackets in H. ↩︎
-
K,M दृशां पुंसाम् ↩︎
-
K,M ऽमु ↩︎
-
A,B एव ↩︎
-
A,B वर्तते ↩︎