०२

[द्वितीयोऽध्यायः]

भागसूचना

भगवत्कथा और भगवद‍्भक्तिका माहात्म्य

श्लोक-१

मूलम् (वचनम्)

व्यास उवाच

विश्वास-प्रस्तुतिः

इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे॥

मूलम्

इति 1सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे॥ १ ॥

अनुवाद (हिन्दी)

श्रीव्यासजी कहते हैं—शौनकादि ब्रह्मवादी ऋषियोंके ये प्रश्न सुनकर रोमहर्षणके पुत्र उग्रश्रवाको बड़ा ही आनन्द हुआ। उन्होंने ऋषियोंके इस मंगलमय प्रश्नका अभिनन्दन करके कहना आरम्भ किया॥ १॥

वीरराघवः

एवं 2संपृष्टः निश्श्रेयससाधन तदनुग्राहकप्रधानतम श्रीकृष्ण3चरित्रं सूतः शौनकादीनां प्रश्न4मभिनन्दयन् तेषामुत्तररूपं श्रीभागवताख्यं पुराणमाहेत्याह बादरायणः - इतीति । अत्र श्रीसूत उवाच इति संप्रश्नसम्पृष्ट इति क्वचित् पाठो दृश्यते, सचासङ्गतः; इतीत्यादिश्लोकस्य सूतोक्तित्वाभावात् । यं प्रव्रजन्तमित्यादिर्हि सूतोक्तिः । अतस्ततः प्रागेव सूत उवाचेति पठितुं युक्तम् । इह तु श्रीव्यास उवाचेति । इतीत्थं विप्राणां शौनकादीनां 5तैः प्रश्नैः संहृष्टो रौमहर्षणिः रोमहर्षणस्यापत्यं पुमान् सूतः तेषां विप्राणां वचः प्रश्नात्मकं वचः प्रतिपूज्य अभिनन्द्य प्रतिवक्तुं प्रतिवचनरूपपुराणमिदं वक्तुं उपचक्रमे आरेभे । विप्राणां इत्यनेन सापेक्षस्यापि सम्प्रश्नशब्दस्य नित्यसापेक्षत्वादार्षत्वाद्वाऽसमास: । तेषां विप्राणां वचः प्रतिपूज्येति वाऽन्वयः । सम्प्रश्नसंपृष्ट इति पाठान्तरम् । तदा समीचीनः प्रश्नो यस्य तस्मै प्रतिवचनाय संपृष्टः प्रत्युत्तरं वक्तुं पृष्टः इत्यर्थः । यद्वा विप्राणां इत्यस्य वच इत्यनेनैवान्वयः । सं शोभनाः प्रश्नाः येषां तैः शौनकादिभिः संपृष्ट इत्यर्थः ॥ १ ॥

श्लोक-२

मूलम् (वचनम्)

सूत उवाच

विश्वास-प्रस्तुतिः

यं प्रव्रजन्तमनुपेतमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव।
पुत्रेति तन्मयतया तरवोऽभिनेदु-
स्तं सर्वभूतहृदयं मुनिमानतोऽस्मि॥

मूलम्

यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव।
पुत्त्रेति तन्मयतया तरवोऽ6भिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि॥ २ ॥

अनुवाद (हिन्दी)

सूतजीने कहा—जिस समय श्रीशुकदेवजीका यज्ञोपवीत-संस्कार भी नहीं हुआ था, सुतरां लौकिक-वैदिक कर्मोंके अनुष्ठानका अवसर भी नहीं आया था, उन्हें अकेले ही संन्यास लेनेके उद्देश्यसे जाते देखकर उनके पिता व्यासजी विरहसे कातर होकर पुकारने लगे—‘बेटा! बेटा!’ उस समय तन्मय होनेके कारण श्रीशुकदेवजीकी ओरसे वृक्षोंने उत्तर दिया। ऐसे सबके हृदयमें विराजमान श्रीशुकदेव मुनिको मैं नमस्कार करता हूँ॥ २॥

वीरराघवः

प्रश्नानाम् उत्तररूपमिदं पुराणं शुश्रावयिषुरन्यैरपि श्रावयितृभिरेवं कार्यमिति सूचयितुमेतत्पुराणप्रथमप्रवर्तकत्वरूपमहोपकर्तृ बादरायणिरूप गुरुनमस्कार7 तच्चरणवरणात्मकं मङ्गलमाचरति सृतः - यं प्रव्रजन्तमिति द्वाभ्याम् । द्वैपायनः श्रीव्यासः विरहकातरस्सन् यं पुत्त्रेयाजुहाव आहूतवान् । तदा तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिं आनतोऽस्मीत्यन्वयः । कथम्भृतम् ? प्रव्रजन्तं, 8तदैव पित्रादीन् परित्यज्य व्रजन्तम् । अनुपेतं उपेतहितं असहायं इत्यर्थः । अपेतं कृत्यं यस्य तं कर्तव्यांशरहितं निष्पन्नब्रह्मोपासनत्वात् कृतकृत्यमिति भावः । प्रव्रजन्तमित्यनेन देहानुबन्धित्याग उक्तः । अनेन ममताराहित्यं फलितम् । अनुपेतमित्यनेनासहायत्वमुक्तम् । अनेन देहपोषकसहायान्तरराहित्यं सूचितम् । तेन च देहात्मभ्रमरूपाहङ्कारराहित्यं फलितम् । द्वैपायनो विरहकातर आजुहावेत्यनेन द्वैपायनादप्यतिशयितज्ञानवत्त्वं सूचितम् । यद्यपि पुत्त्रेत्यस्य दूरादाह्वानविषयवाक्य9त्वात् “दूराद्भूते च” (अष्टा, 8-2-84) इति प्लुतत्वे सति “प्लुतप्रगृह्या अचि नित्यम् ।” (अष्टा. 6-1-125) इति प्रकृतिभावे च सति सन्धिः दुर्लभः । तथाऽपि “गुरोरनृत” (अष्टा. 8-2-86) इत्यत्र प्राचामिति योगं विभज्य सर्वस्य प्लुतस्य वैकल्पिकत्वाभ्युपगमात्, “अग्नीत्प्रेषणे परस्य च” (अष्टा. 8-2-92) इति सूत्रे “सर्वः प्लुतः साहसमनिच्छता विभाषा कर्तव्यः” इति महाभाष्यकारोक्तेश्च (अष्टा. 8-2-92 महाभाष्यम्) प्लुताभावपक्षे सन्धिः सुलभ एवेति बोध्यम् । साहसं शास्त्रत्यागः तदनिच्छता शास्त्रमनुरुन्धानेनेत्यर्थ इति हरदत्तो व्याख्यदिति केचित् । (प. म. अष्टा. 8-2-92) वस्तुतस्त्वितिशब्दस्यैव वाक्यान्तत्वेन पुत्त्रशब्दे प्लुतप्रसङ्ग एव नास्ति । अनुकार्यस्य पुत्त्रशब्दस्य सम्बोधनविषयत्वे पुत्त्रानुकरणस्य तस्य तदभावाच्च । तन्मयतयेत्यत्र मयट् प्राचुर्ये सम्बन्धमात्रे वा; तत्प्रचुरतया तत्सम्बन्धितया वा तरवोऽभिनेदुः शुकात्मका वयं इत्येवंरूपेण प्रतिदध्वनुरित्यर्थः । तत्प्राचुर्यं च तरूणां10 शुकेन11 व्याप्त्याऽधिष्ठितत्वा दवगन्तव्यम् । सम्बन्धमात्रे मयट्पक्षेऽपि ज्ञानद्वाराऽ12धिष्ठेयभावरूप एव सम्बन्धो13 बोध्यः; स्वरूपेण 14तर्वधिष्ठातृत्वासम्भवात्, “एषोऽणुरात्मा” (मुण्ड. उ. 3-1-9) " आराग्रमात्रो ह्यवरोऽपि दृष्टः” (श्वेता. उ. 5-8) इत्यादिभिः श्रुतिभिर्जीवस्वरूपस्याणुत्वावगमात्, तत्स्वरूपेणानेकाधिष्ठातृत्वासम्भवात् । यद्यपि धर्मभूतज्ञानस्यापि “स चानन्त्याय कल्पते” (श्वेता. उ. 5-9) इत्यादिश्रुतिभिः मुक्तिदशायामेव आनन्त्यमवगतं; तथाऽपि, शुकस्य परिनिष्पन्नब्रह्मोपासनत्वेन मुक्तानामिव निवृत्तज्ञानसङ्कोचक कर्मरूपावरणत्वात् अपरिच्छिन्नधर्मभूतज्ञानद्वारा अनेकतर्वधिष्ठातृत्वं उक्तम् । यत एव तन्मयतया तरवोऽभिनेदु रत एव सर्वभूतहृदयं सर्वभूतानां 15हृद्ययते गच्छति ज्ञानद्वारा व्याप्नोतीति सर्वभूतहृदयः तम् । अयगताविति धातुः । यद्वा सर्वभूतानां हृदयं यस्य ज्ञानद्वारा व्याप्यं स सर्वभूतहृदयः तम् । यद्वा, हृदयशब्देन धर्मभूतं ज्ञानं लक्ष्यते, हृदयस्य ज्ञानसाहचर्यात् । सर्वभूतेषु हृदयं धर्मभूतं ज्ञानमधिष्ठानं16 यस्य सः तं मुनिं स्वात्मपरमात्म याथात्म्यमननशीलं श्रीशुकं इति विशेष्यं अध्याहार्यम् । आनत इति कर्तरि क्तः, नमस्कृतवानस्मीत्यर्थः ॥ २ ॥

श्लोक-३

विश्वास-प्रस्तुतिः

यः स्वानुभावमखिलश्रुतिसारमेक-
मध्यात्मदीपमतितितीर्षतां तमोऽन्धम्।
संसारिणां करुणयाऽऽह पुराणगुह्यं
तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥

मूलम्

यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीप17मतितितीर्षतां तमोऽन्धम्।
संसारिणां करुणयाऽऽह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥ ३ ॥

अनुवाद (हिन्दी)

यह श्रीमद‍्भागवत अत्यन्त गोपनीय—रहस्यात्मक पुराण है। यह भगवत्स्वरूपका अनुभव करानेवाला और समस्त वेदोंका सार है। संसारमें फँसे हुए जो लोग इस घोर अज्ञानान्धकारसे पार जाना चाहते हैं, उनके लिये आध्यात्मिक तत्त्वोंको प्रकाशित करानेवाला यह एक अद्वितीय दीपक है। वास्तवमें उन्हीं पर करुणा करके बड़े-बड़े मुनियोंके आचार्य श्रीशुकदेवजीने इसका वर्णन किया है। मैं उनकी शरण ग्रहण करता हूँ॥ ३॥

वीरराघवः

इति । यः करुणया पुराणगुह्यम् । “विशेषणं विशेष्येण बहुलम्” (अष्टा. 2-1-57) इति बहुलग्रहणात् विशेष्यस्यापि पुराणशब्दस्य पूर्वनिपातः । गुह्यं पुराणम्। 18पुराणगतं गुह्यमाह, तं मुनीनामपि गुरुं व्याससूनुं उपयामि शरणं व्रजामि । पुराणं कथम्भूतम् ? स्वानुभावं स्वेन शुकेनानुभावम् - कर्मणि घञ् - प्रथममनुभूतमित्यर्थः । अखिलानां 19श्रुतीनां सारो यस्मिन्, प्रतिपाद्यः सः । तथा वेदपूर्वभागार्थभूतकर्मणाम20प्युत्तरत्र पुराणे भगवदाराधनरूपतायाः तत्र तत्र प्रतिपादनादखिलश्रुतिसारमित्युक्तम् । एवं स्वतुल्याधिकपुराणान्तररहितम्। अध्यात्मदीपम् । आत्मन्य21धीत्यध्यात्ममिति विभक्त्यर्थेऽव्ययीभावः । स्वात्मपरमात्मयाथात्म्यप्रकाशने दीपतुल्यमित्यर्थः । अतितितीर्षतां संसृतिं तर्तुमिच्छारहितानामपि संसारिणां तमोऽन्धं तमः संसृतिरुचिजनकं अज्ञानम् अन्धयति तिरो22धापयति निवर्तयतीति तथा ॥ ३ ॥

श्लोक-४

विश्वास-प्रस्तुतिः

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

मूलम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं 23व्यासं ततो 24जयमुदीरयेत्॥ ४ ॥

अनुवाद (हिन्दी)

मनुष्योंमें सर्वश्रेष्ठ भगवान‍्के अवतार नर-नारायण ऋषियोंको, सरस्वती देवीको और श्रीव्यासदेवजीको नमस्कार करके तब संसार और अन्तःकरणके समस्त विकारोंपर विजय प्राप्त करानेवाले इस श्रीमद‍्भागवतमहापुराणका पाठ करना चाहिये॥ ४॥

वीरराघवः

एवं श्रावयितृभिः आदौ महोपकर्तुः बादरायणेः नमस्कारात्मकं मङ्गलं अनुष्ठेयमिति सूचितम् । न केवलं बादरायणरेव नमस्कार्यः, अपित्वन्येऽपि नारायणादय इत्यभिप्रायेणाऽऽह - नारायणमिति । नारायणादीन्ननमस्कृत्य ततो जयमुदीरयेत् कथयेत् श्रावयेत् इति यावत् । जयमित्यस्यैव पुराणस्यान्वर्थं नामान्तरं, अखिलदुरितजयाविनाभूतत्वात् जयमिति । तत्र नरनारायणयोः बदर्याश्रमवासिनोः भगवदवतारभूतयोः “यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम्। धर्मज्ञानसमोपेत आकल्पादास्थितस्तपः (भाग 10-87-6) इति वक्ष्यमाणरीत्या शिष्याचार्यरूपेण स्वानुष्ठानद्वाराऽखिलधर्म प्रवर्तकत्वेन नारदादिमुखेनाखिलाध्यात्मशास्त्रप्रवर्तकत्वेन च गुरूणामपि गुरुत्वेन महोपकर्तृत्वात् तन्नमस्कृतिरवश्यं कार्येति भावः । वागधिष्ठातृदेवतात्वात् सरस्वती नमस्कार्येत्यभिप्रायेण सरस्वतीमित्युक्तम् । देवस्य चतुर्मुखस्य स्त्री देवी ताम् । “पुंयोगादाख्यायाम्” (अष्टा. 4-1-48) इति ङीष् । अत्र सरस्वत्याः चतुर्मुखसम्बन्धप्रत्यायकदेवीत्वविशेषणेन चतुर्मुखनमस्कृतिरपि कार्येति सूचितम् । चतुर्मुखो हि अनिरुद्धाख्य भगवत्तुरीयव्यूहनाभिकमलसम्भूत तपस्तोषितानिरुद्धोपदिष्ट भागवतचतुश्श्लोकी कृत्स्नैतत्पुराणनि25दानभूतां नारदायोपदिदेश । अतः सोऽपि महानुपकर्तैव गुरुश्चेति नमस्कार्य इत्यभिप्रायः । अनेनैव अनिरुद्धनारदयोरपि नमस्कार्यत्वं अर्थसिद्ध वेदितव्यम् । अनिरुद्धाच्चतुश्श्लोक्यधिगमो नारदाय तदुपदेशश्च द्वितीये स्पष्टीभविष्यति । नारदाच्चतुश्श्लोकीमधिगम्य, कार्त्स्न्येन एतत्पुराणनिर्मातृत्वेन उपकर्तृतमत्वात् व्यासो नमस्कार्य इत्यभिप्रायेण व्यासमित्युक्तम् । तत्रायं क्रमो विवक्षितः - तावन्नमस्कार्यः शुकस्ततो व्यासस्ततो नारदस्ततः सरस्वतीतद्वल्लभौ ततोऽनिरुद्धः ततश्च नरनारायणाविति ॥ ४ ॥

श्लोक-५

विश्वास-प्रस्तुतिः

मुनयः साधु पृष्टोऽहं भवद‍्भिर्लोकमङ्गलम्।
यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति॥

मूलम्

मुनयस्साधु पृष्टोऽहं भवद‍्भिर्लोकमङ्गलम्।
यत्कृतः कृष्णसंप्रश्नो येनात्मा26 सु27प्रसीदति॥ ५ ॥

अनुवाद (हिन्दी)

ऋषियो! आपने सम्पूर्ण विश्वके कल्याणके लिये यह बहुत सुन्दर प्रश्न किया है; क्योंकि यह प्रश्न श्रीकृष्णके सम्बन्धमें है और इससे भलीभाँति आत्मशुद्धि हो जाती है॥ ५॥

वीरराघवः

तदेवं “मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां नित्यं विनिपातो न विद्यते28" इत्युक्तरीत्या कृतगुरुदेवतोपासनात्मकमङ्गलस्तावत् प्रश्नं अभिनन्दति - मुनय इति । हे मुनयः! भवद्भिः साधु यथा भवति तथा 29लोकमङ्गलं प्रत्यहं पृष्टः । पृच्छतिर्द्विकर्मकः वक्तृकर्मको वाच्यकर्मकश्चेति । तत्र लोकमङ्गलमिति वाच्यकर्मोच्यते । तस्य अनभिहितत्वात् द्वितीया । वक्तृकर्मणस्त्वहंशब्दार्थस्य ‘क्त’ प्रत्ययेनाभिहितत्वात् प्रथमा प्रयुक्ता । लोकमङ्गलमिति प्रश्नसाधुत्वे30 हेतुः । लोकमङ्गलविषयकत्वात् प्रश्नः31 कृतः “मङ्गलानां च मङ्गलम् " (भार. 13-135-10) इत्युक्तरीत्या निरतिशयः32 मङ्गलस्वरूपकृष्णविषयकसम्प्रश्नः कृतः । ततो लोकमङ्गलमह पृष्ट इत्यर्थः, कृष्णसम्प्रश्नस्य लोकमङ्गलविषयत्वमेवोपपादयति । येन कृष्णेन तद्विषयकप्रश्नेन वा हेतुना चाऽऽत्मा चित्तं सुष्ठु प्रसन्नं भवति प्रश्नोत्तराभ्यां सस्वरूपगुणविभूतिः कृष्णोऽनुसंहितः चित्तगतमालिन्यं अपनयति 33चित्तप्रसादा34देव लोकानां सर्वाणि मङ्गलानि सुलभान्येवेति भावः ॥ ५ ॥

श्लोक-६

विश्वास-प्रस्तुतिः

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे।
अहैतुक्यप्रतिहता ययाऽऽत्मा सम्प्रसीदति॥

मूलम्

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे।
अहैतुक्य35प्रतिहता ययाऽऽत्मा3637म्प्रसीदति॥ ६ ॥

अनुवाद (हिन्दी)

मनुष्योंके लिये सर्वश्रेष्ठ धर्म वही है, जिससे भगवान् श्रीकृष्णमें भक्ति हो—भक्ति भी ऐसी, जिसमें किसी प्रकारकी कामना न हो और जो नित्य-निरन्तर बनी रहे; ऐसी भक्तिसे हृदय आनन्दस्वरूप परमात्माकी उपलब्धि करके कृतकृत्य हो जाता है॥ ६॥

वीरराघवः

तत्र यत्तावत्पृष्टं भवता यद्विनिश्चितं “पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि” (भाग 1-1-9) इति । किं निरतिशयं श्रेयः, को वा तत्साधनभूतो धर्मः श्रेष्ठ इति तत्र गर्भ38 जरामरणाद्यनर्थरूपससृतिनिवृत्तिपूर्वकब्रह्मानन्दानुभवात्मको मोक्ष एव निरतिशयं श्रेयः । तत्साधनभूतधर्मश्च परब्रह्मोपासनात्मिका विजातीयप्रत्ययान्तराव्यवहिता प्रत्यक्षतापन्नाप्रीत्यात्मिका तद्भक्तिरेव । तन्निष्पत्तिश्च अनभिसंहितफलैः वर्णाश्रमधर्मैः ज्ञानयोगशमदमादिभिः सत्सं39ङ्गत्यादिप्रणाल्या च भगवदुणश्रवणादि रुचिजननद्वारा भवतीति वक्तुं तावद्भक्तियोगानुग्राहक एव वर्णाश्रमप्रयुक्तो धर्मः श्रेष्ठः, तदन्यस्तु अभिसंहितफलः पुनः संसृतिहेतुत्वेनानर्थावह इत्याह - स वा इति त्रिभिः । यतोऽनभिसंहितफलाद्धर्माद्वर्णाश्रमानुगुणा40दनुष्ठितात् 41अधोक्षजे भक्तिः भवति, स एव धर्मः परः उत्कृष्टः । भक्तिमपि विशिनष्टि - अहैतुकी फलोपाधिरहिता अप्रतिहता अन्तरायानुपहता। अव्यवहितेति पाठान्तरम् । तदा विजातीयप्रत्ययान्तराव्यवहिता । यया भक्त्या आत्मा सुप्रसीदति पूर्वाल्पभक्तिरुत्तरभक्तिप्रकर्षौपयिकमनोनैर्मल्यहेतुरित्यर्थः । यद्वा, ययाऽऽत्मा सुप्रसीदति इत्यनेन प्रीत्यात्मकत्वं उच्यते । अनुकूलज्ञानेनैव हि चित्तप्रसादः; प्रतिकूलेन तु चित्तविक्षेप एव । अनुकूलज्ञानमेव हि आनन्दः सुखं प्रीतिश्चेति पर्यायान्तरैः उच्यते । अव्यवहितेत्यनेन तैलधारावत् अविच्छिन्नस्मृतिसन्तानरूपत्वं उक्तम् ॥ ६ ॥

श्लोक-७

विश्वास-प्रस्तुतिः

वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥

मूलम्

वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं च42 यदहैतुकम्॥ ७ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णमें भक्ति होते ही, अनन्य प्रेमसे उनमें चित्त जोड़ते ही निष्काम ज्ञान और वैराग्यका आविर्भाव हो जाता है॥ ७॥

वीरराघवः

ननु अव्यवहितेत्ययुक्तम्; शब्दादिविषयासक्तमनसा43 अकामेनापि मध्ये मध्ये विषयान्तरानुध्यानव्यवहितत्वप्रसङ्गादिति शङ्कां निराकुर्वन्नुक्तभक्तेरेव विशेषणान्तरं आह - वासुदेव इति । भगवति षाड्गुण्यपरिपूर्णे वासुदेवे प्रयोजितो भक्तियोगः वैराग्यं आशु जनयति । “सर्वत्रासौ समस्तं44 च वसत्यत्रैव वै यतः । ततः स वासुदेवेति विद्वद्भिः परिगीयते” (विष्णु. पु. 1-2-12) इति निरुक्तवासुदेवशब्देन सर्वान्तरात्मत्वं सर्वाधारत्वं, भगवच्छब्देन षाड्गुण्यपूर्तिश्चोक्ता । सर्वान्तरात्मकत्वेन निरतिश45यत्वं लब्धम् । आत्मैव हि निरतिशयप्रियः । एवमनेन पदद्वयेन शब्दादि लौकिकविषयेभ्यो वैलक्षण्यं अभिप्रेतम् । एवं च विषयस्य विलक्षणत्वादेव तदनुध्यानरूपो भक्तियोगः शब्दादिविषयेषु अनासक्तिरूपवैराग्यं आशु जनयति, कस्मिंश्चिद्विषये विलक्षणे अनुरागातिशयस्य46 विषयान्तर वैतृष्ण्यावहत्वदर्शनात् । तस्माद्भक्तियोगनिष्ठमनसः शनैः विषयान्तरवैतृष्ण्य स्यार्थादेवोदयात् विषयान्तरानुध्यानाव्यवहितत्वं भक्तेः सम्पत्स्यत एवेति भावः । तथा यदहैतुकम् । “नाहं वे47दैर्न तपसा” (भ.गी. 11-53) इत्युक्तरीत्या भक्तिव्यतिरिक्तहेत्वन्तरालभ्यं48 ज्ञानं49 साक्षात्कारात्मकम्, तच्च जनयति । अनेन भक्तेः साक्षात्कारात्मकत्वं विशेषणं उक्तम् ॥ ७ ॥

श्लोक-८

विश्वास-प्रस्तुतिः

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥

मूलम्

धर्मः स्स्वनुष्ठितः पुंसां विष्वक्सेन 50कथासु यः।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥ ८ ॥

अनुवाद (हिन्दी)

धर्मका ठीक-ठीक अनुष्ठान करनेपर भी यदि मनुष्यके हृदयमें भगवान‍्की लीला-कथाओंके प्रति अनुरागका उदय न हो तो वह निरा श्रम-ही-श्रम है॥ ८॥

वीरराघवः

तदेवं श्लोकद्वयेनोक्तविधभक्त्यनुग्राहक एवानभिसंहितफलवर्णाश्रमप्रयुक्तधर्मः श्रेष्ठ इत्युक्तम् । अथाऽस्य धर्मस्य भगवद्गु51णादिरुचिजननद्वारा भक्तियोगानुग्राहकत्वं वदन्नभिसंहितफलधर्मस्य श्रमफलकत्वं आह - धर्म इत्येकेन । यः सम्यगनुष्ठितोऽपि धर्मः पुंसां विष्वक्सेनस्य भगवतः कथासु रतिं रुचिं यदि नोत्पादयेत्तर्हि स धर्मः केवलं श्रम एव श्रमफलक एव, संसृतिरूपानर्थावह एवेत्यर्थः । रतिं नोत्पादयेदित्यनेन रत्येकप्रयोजनतया अनुष्ठितो धर्मः परः । ऐहिकामुष्मिकफलार्थस्तु श्रमफलक इति प्रतीतेः, फलानभिसन्ध्यभिसन्धिभ्यां धर्मस्य उत्कृष्टत्वापकृष्टत्वे वेदितव्ये ॥ ८ ॥

श्लोक-९

विश्वास-प्रस्तुतिः

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥

मूलम्

धर्मस्य 52ह्यापवर्ग्यस्य नार्थोऽर्थायो53पकल्पते।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥ ९ ॥

अनुवाद (हिन्दी)

धर्मका फल है मोक्ष। उसकी सार्थकता अर्थप्राप्तिमें नहीं है। अर्थ केवल धर्मके लिये है। भोगविलास उसका फल नहीं माना गया है॥ ९॥

वीरराघवः

तदेवमनभिसंहितफलो भगवदुण श्रवणादिरुचिजननद्वारा भक्तियोगानुग्राहक एव धर्मः, परोऽन्यस्तु श्रमफलक इत्युक्तम् । अथ उक्तविधधर्मानुग्राह्य भगवद्भक्तियोगसाध्यमोक्षस्यैव निरतिशयपुरुषार्थत्वमिति दर्शयितुं धर्मार्थकामानां स्वतः पुरुषार्थत्वं धर्मस्यार्थार्थत्वमर्थस्य कामार्थत्वं कामस्येन्द्रियतृप्त्यर्थत्वं इन्द्रियतृप्तेः51 जीवनस्य पुनर्धर्मार्थत्वमित्यादिरूपां चक्रवत्परिवृत्तिं लौकिकाभिमतां च निरस्य धर्मादीनामपि परम्परया निरतिशयपुरुषार्थरूपमोक्षसाधन भक्तियोगानुग्राहकत्वं आह - धर्मस्येति त्रिभिः । तत्र धर्मस्य फलं अर्थः अर्थफलं कामः कामफलमिन्द्रियतृप्तिरिति लौकिकानां मतम् । तत्र धर्मफलत्वमर्थस्य निरस्यति धर्मस्येत्यर्धेन । आपवर्त्यस्यापवर्ग54साधनस्य अनभिसंहितफलत्वे सति परम्परया निरतिशयपुरुषार्थरूप मोक्षसाधनीभविष्यतो धर्मस्यार्थाय प्रयोजनायार्थः धर्म न प्रकल्पते, धनं धर्मस्य फलं न भवतीत्यर्थः । धर्मस्यार्थफलकत्वरूप लौकिकमतानुवादेनैव स्वतः पुरुषार्थत्वमपि निरस्तं वेदितव्यम् । एवं उत्तरत्रापि द्रष्टव्यम् । एकस्यैव दानयागादिरूपस्य धर्मस्य फलानभिसन्ध्यभिसन्धिरूपाकारभेदेनोत्कृष्टापकृष्टफलसाधनत्वेऽवगते सति तत्र अनभिसंहित फलत्वरूपाकारानादरेण सह इतरपुरुषार्थरूपार्थार्थत्ववादरूपं लौकिकानां मतं अतीवानादरणीयमिति भावः । अथ कामस्यार्थफलत्वं निरस्यति - नार्थस्येति । धर्मैकान्तस्य धर्मैकप्रयोजनस्यार्थस्य वित्तस्य लाभाय प्रयोजनाय कामो न स्मृतः । अर्थस्य प्रयोजनं न कामो भवतीत्यर्थः । अत्र कामशब्देन काम्यते इति काम इति व्युत्पत्त्या अन्नपानादिः उच्यते ॥ ९ ॥

श्लोक-१०

विश्वास-प्रस्तुतिः

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता।
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः॥

मूलम्

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता।
जीवस्य55 तत्त्वजिज्ञासा56 नाऽर्थो यश्चेह कर्मभिः॥ १० ॥

अनुवाद (हिन्दी)

भोगविलासका फल इन्द्रियोंको तृप्त करना नहीं है, उसका प्रयोजन है केवल जीवन-निर्वाह। जीवनका फल भी तत्त्वजिज्ञासा है। बहुत कर्म करके स्वर्गादि प्राप्त करना उसका फल नहीं है॥ १०॥

वीरराघवः

अथ कामस्य इन्द्रियतृप्तिफलकत्वं निरस्यति - कामस्येति । यावता अन्नपानादिना कामेन काम्यमानेन वस्तुना जीवति तावतोऽन्नादेर्भोग्यवस्तुनः लाभः फलं नेन्द्रियतृप्तिः, किन्तु देहधारणमेव अन्नपानादिकामफलमित्यर्थः । अथ जीवनस्य पुनर्धर्मार्थत्वं निरस्यति । जीवस्य जीवनस्य प्रयोजनं तत्त्वजिज्ञासैव; न तु इह लोके यः कर्मभिः साध्यो धर्मः सोऽर्थः प्रयोजनम् । अत्र धर्मार्थकामजीवनानां क्रमेण अर्थकामेन्द्रियतृप्तिधर्मार्थत्वं निरस्य, तेषां क्रमेणापवर्गधर्म देहधारणमात्रतत्त्वजिज्ञासार्थत्वोक्तेः अयं भावः । सति वित्ते तेनानभिसंहितफलं धर्मं सम्पाद्य तेन धर्मेण अपवर्गसाधनभूतं भक्तियोगं उपकुर्यात् । सति तु कामे तेन देहधारणमात्रोपयुक्तेन देहं धृत्वा तेन देहेन भजनीयतत्त्वजिज्ञासा कार्येति ॥ १० ॥

श्लोक-११

विश्वास-प्रस्तुतिः

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥

मूलम्

वदन्ति तत् तत्त्वविदस्तत्त्वं यज्ज्ञानम57द्वयम्।
ब्रह्मेति परमात्मेति भगवानिति 58शब्द्यते॥ ११ ॥

अनुवाद (हिन्दी)

तत्त्ववेत्तालोग ज्ञाता और ज्ञेयके भेदसे रहित अखण्ड अद्वितीय सच्चिदानन्दस्वरूप ज्ञानको ही तत्त्व कहते हैं। उसीको कोई ब्रह्म, कोई परमात्मा और कोई भगवान‍्के नामसे पुकारते हैं॥ ११॥

वीरराघवः

जीवस्य प्रयोजनं तत्त्वजिज्ञासैवेत्युक्तम् । किं तत्त्वम्, यज्जिज्ञासितव्यम् ? इत्यत आह - वदन्तीति । यज्ज्ञानं ज्ञानस्वरूपं ज्ञानगुणकं च अद्वयं स्वतुल्याभ्यधिकवस्त्वन्तररहितम् अवयवभेदरहितं वा जात्यादिभेदरहितं वा ब्रह्मपरमात्मभगवच्छब्दाभिहितं तदेव तत्त्वमिति तत्त्वविदो वदन्ति । ब्रह्मपरमात्मभगवच्छब्दाः सामान्यविशेषशब्दाः प्रयुक्ताः । एवं प्रयुञ्जानस्य सदाकाशादिशब्दा अपि कारणवाक्यगता भगवत्परा इत्यभिप्रायः ॥ ११ ॥

श्लोक-१२

विश्वास-प्रस्तुतिः

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया॥

मूलम्

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया59
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुत्व60गृहीतया॥ १२ ॥

अनुवाद (हिन्दी)

श्रद्धालु मुनिजन भागवतश्रवणसे प्राप्त ज्ञान-वैराग्ययुक्त भक्तिसे अपने हृदयमें उस परमतत्त्वरूप परमात्माका अनुभव करते हैं॥ १२॥

वीरराघवः

एवं परधर्मादि61वर्गस्यापि परम्परयाऽपवर्गसाधनत्वं, प्रसङ्गात् भजनीयवस्तुस्वरूपं चोक्तम् । अथ यद्विवक्षितं मोक्ष एव निरतिशयं श्रेयः तत्साधनं तु भक्तिरेव । तन्निष्पत्तिश्च वर्णाश्रमधर्मज्ञानयोग62समाधिभिरिति तदुपपादयति तदित्यादिभिः सार्धैः दशभिः । तत्तस्मात् भक्तियोगानुग्राहकस्यैव धर्मस्य परत्वात् त्रिवर्गस्यापि परम्परया अपवर्गार्थत्वात् अपवर्गातिरिक्तनिरतिशयपुरुषार्थाभावाच्चेत्यर्थः । श्रुतं यज्ञादिकर्म तस्य कर्तव्यतया वेदे श्रुतत्वात्तेन गृहीतयाऽनुगृहीतया ज्ञानवैराग्याभ्यां युक्तया भक्त्या आत्मनि जीवात्मन्यन्तरात्मतया स्थितं ब्रह्मादिशब्दवाच्यं भगवन्तं श्रदधाना63 एते64 एवंविधया भक्त्या पश्यन्ति । ज्ञानशब्देन प्रत्यगात्मयाथात्म्यज्ञानयोगो विवक्षितः । वैराग्यं विषयान्तरेषु वैतृष्ण्यं, तेन 65शमादिसङ्ग्रहः । एभिरङ्गैरुपकृतया भक्त्या आत्मनि स्थितं परमात्मानं पश्यन्ति साक्षात्कुर्वन्तीत्यनेन भक्तेरेव परमात्मदर्शनसमनन्तरभाविमोक्षसाधनत्वमुक्तम् । कर्मयोगज्ञानयोगयोः शमादीनां च भक्तियोगानुग्राहकत्वं च “भिद्यतेहृदयग्रन्थिः” (मुण्ड. उ. 2-2-8) इति श्रुत्या तदर्थानुवादिना वक्ष्यमाणश्लोकेन च मोक्षस्य दर्शनानन्तरभावित्वं अवगतम् । एवञ्च भक्त्या पश्यन्तीत्यस्य दर्शनरूपापन्नाया भक्तेः अव्यवधानेन मोक्षसाधनत्वं इत्यभिप्रायः ॥ १२ ॥

श्लोक-१३

विश्वास-प्रस्तुतिः

अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम्॥

मूलम्

अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम्॥ १३ ॥

अनुवाद (हिन्दी)

शौनकादि ऋषियो! यही कारण है कि अपने-अपने वर्ण तथा आश्रमके अनुसार मनुष्य जो धर्मका अनुष्ठान करते हैं, उसकी पूर्ण सिद्धि इसीमें है कि भगवान् प्रसन्न हों॥ १३॥

वीरराघवः

श्रुतगृहीतयेत्यनेन वर्णाश्रमधर्मस्य भक्तियोगानुग्राहकत्वं उक्तम्, “धर्मः स्वनुष्ठितः पुंसां” (भाग. 1-2-8) 65इत्यादिना धर्मस्य भक्तियोगानुग्रहप्रकार उक्तः, इदानीं अन्यथाऽपि, तदनुग्रहप्रकारं दर्शयति - अत इति । यतो भक्तेरेव साक्षात् मुक्तिसाधनत्वं, अतो हे द्विजश्रेष्ठाः पुम्भिः वर्णाश्रमविभागशः अवस्थितस्येति शेषः । तद्वर्णाश्रमानुगुणस्य इत्यर्थः । वर्णादिभेदेनाव66स्थितैः पुम्भिरिति वा । सम्यगनुष्ठितस्य67 पञ्चमहायज्ञादि रूपस्य संसिद्धिः फलं हरितोषणमेव । अयं भावः - स्वनुष्ठिताद्धर्मात् भक्तियोगप्रतिबन्ध निवृत्त्यनुकूल सङ्कल्पहेतुर्हहरितोषः, ततश्च भक्तियोग68सम्पन्न प्रतिबन्धपापक्षयः, ततो भक्तियोगनिष्पत्तिः इति । यद्वा हरिस्तुष्यते येनानुध्यानेन तद्धरितोषणम् । तदेव धर्मस्य स्वनुष्ठितस्य संसिद्धिः फलम् । भक्तियोगोत्पत्ति प्रतिबन्धनिरसनद्वारा हरितोषहेतु भक्तियोगनिष्पत्तिरेव धर्मस्य फलं इत्यर्थः । अन्यथा, “धर्मेण पापमपुनदति (म. ना. उ. 17-6), “अविद्यया मृत्युं तीर्त्वा” (ईशा. उ. 11) इत्यादिश्रुतेः धर्मस्य भक्तियोगोत्पत्ति प्रतिबन्धक पापनिरासकत्वं वदन्त्या विरोधापत्तेः ; धर्मस्यैव हरितोषफलकत्वे भक्तेः वैयर्थ्यापित्तेश्च । ननु “ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽ69र्जुन” (भ.गी. 4- 37) इति भक्तियोगस्यैव सर्वदुरितनिवर्तकत्वस्मरणात्, भक्तियोगवत् धर्मस्यापि हरितोषहेतुत्वमेव युक्तमिति चेत्, शृणु - प्रापकप्रतिबन्धकं प्राप्तिप्रतिबन्धकं चेति द्विविधं दुरितम् । तत्र प्रापकस्य भक्तियोगस्य यदुत्पत्तिप्रतिबन्धकं दुरितं 70तद्ध्यपनोद्यम् । एवं धर्मनिरस्तप्रतिबन्धके भगवत्प्रापकभक्तियोगे निष्पन्ने तेन यद्भगवत्प्राप्ति प्रतिबन्धकं दुरितं तदपनोद्यते; तदभिप्रायकाणि ज्ञानाग्निरित्यादीनि वचनानि ॥ १३ ॥

श्लोक-१४

विश्वास-प्रस्तुतिः

तस्मादेकेन मनसा भगवान् सात्वतां पतिः।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा॥

मूलम्

तस्मादेकेन मनसा भगवान् सात्वतां पतिः।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा71॥ १४ ॥

अनुवाद (हिन्दी)

इसलिये एकाग्र मनसे भक्तवत्सल भगवान‍्का ही नित्य-निरन्तर श्रवण, कीर्तन, ध्यान और आराधना करनी चाहिये॥ १४॥

वीरराघवः

एवं वर्णाश्रमधर्मस्य भक्तियोगोपकारः तत्प्रकारश्च भक्तियोग प्रतिबन्धनिरसनेन, भगवद्गुणादि श्रवणरुचिजनक72द्वारा 73वेति द्विधा सन्दर्शितः । अथ तुल्यन्यायतया भगवद्गुणस्वरूपादि श्रवणादीनामपि भक्तियोगोपकारकत्वं उपकारप्रकारं च वक्तुं तेषां अवश्यकर्तव्यतां तावदाह तस्मादितिद्वाभ्याम् । तस्माद्धर्मस्य भक्तियोगानुग्राहकत्वतत्प्रकारप्रदर्शनादेव 74तुल्यन्यायतया भगवद्भक्तियोगोपकारकत्वेन सात्वतां भक्तानां पतिः भगवानेकेनैकाग्रेण मनसा नित्यदा श्रोतव्यः कीर्तितव्यः ध्येयः स्मर्तव्यः; पूज्यश्च । ध्यानं अत्र श्रुतार्थ प्रतिष्ठापनात्मकं मननापरपर्यायं स्मरणं विवक्षितम् । भक्त्यात्मकस्य 75श्रवणाद्यनन्तरभावित्वं हि वक्ष्यते ॥ १४ ॥

श्लोक-१५

विश्वास-प्रस्तुतिः

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम्।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम्॥

मूलम्

यदनु76ध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम्।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम्॥ १५ ॥

अनुवाद (हिन्दी)

कर्मोंकी गाँठ बड़ी कड़ी है। विचारवान् पुरुष भगवान‍्के चिन्तनकी तलवारसे उस गाँठको काट डालते हैं। तब भला, ऐसा कौन मनुष्य होगा, जो भगवान‍्की लीलाकथामें प्रेम न करे॥ १५॥

वीरराघवः

यस्य भगवतोऽनुध्या अनुध्यानं भक्तिः सैवासि: खङ्गः तेन युक्ताः सहिताः कोविदाः कुशलाः । कर्मैव ग्रन्थिः तद्रूपं निबन्धनं बन्धनं छिन्दन्ति । कर्मणो ग्रन्थित्वरूपणं ग्रन्थिवद्दु77र्मोच्यत्वात् । 78दुर्विमोच्येन कर्मणा निबध्यत इति निबन्धनं, कर्मायत्तः संसारः तं छिन्दन्ति इति वा । तस्य कथासु रतिं को वा पुमान् न कुर्यात्, सर्वोऽपि कुर्यादेवेत्यर्थः । यस्य भक्तिः अनर्थावहसंसृति निरासहेतुः तस्य महोपकर्तुः भक्तियोगस्य अनुग्राहकतया तत्कथासु रतिं सर्वोऽपि जनः कुर्यादेवेत्यर्थः ॥ १५ ॥

श्लोक-१६

विश्वास-प्रस्तुतिः

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्॥

मूलम्

शुश्रूषोः श्रद्दधानस्य वासुदेवकथा79रुचिः।
स्यान्महत्सेवया विप्राः! पुण्यतीर्थनिषेवणात्॥ १६ ॥

अनुवाद (हिन्दी)

शौनकादि ऋषियो! पवित्र तीर्थोंका सेवन करनेसे महत्सेवा, तदनन्तर श्रवणकी इच्छा, फिर श्रद्धा, तत्पश्चात् भगवत्-कथामें रुचि होती है॥ १६॥

वीरराघवः

यद्यपि धर्मः स्वनुष्ठितः पुंसामिति धर्मस्य वासुदेवकथारुचिजननद्वारा भक्तियोगानुग्राहकत्वोक्त्यैव कथारुचिजनकत्वमप्युक्तमेव भवति ; तथाऽपि न साक्षादेव धर्मः कथारतिहेतुः ; अपि तु सत्सङ्गादिद्वारा हेत्वन्तरेण वेत्याह शुश्रूषोरिति । श्रोतुमिच्छोः स्वधर्मनिरस्त शुश्रूषा प्रतिबन्धकस्येत्यर्थः । श्रद्धायुक्तस्य पुंसः वासुदेवकथायां रुचिः, हे विप्राः, महतां सेवया पुण्यतीर्थानां गङ्गादीनां निषेवणाच्च भवति ॥ १६ ॥

श्लोक-१७

विश्वास-प्रस्तुतिः

शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥

मूलम्

शृण्वतां स्व80कथां कृष्णः पुण्यश्रवणकीर्तनः।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥ १७ ॥

अनुवाद (हिन्दी)

भगवान् श्रीकृष्णके यशका श्रवण और कीर्तन दोनों पवित्र करनेवाले हैं। वे अपनी कथा सुननेवालोंके हृदयमें आकर स्थित हो जाते हैं और उनकी अशुभ वासनाओंको नष्ट कर देते हैं; क्योंकि वे संतोंके नित्य सुहृद् हैं॥ १७॥

वीरराघवः

श्रवणादीनां भक्तियोगोपकारप्रकारं दर्शयति शृण्वतामिति द्वाभ्याम् । पुण्यं शृण्वतां कीर्तयतां च पुण्यावहं श्रवणं कीर्तनं च यस्य स कृष्णः स्वकथां शृण्वतां सतां साधूनां हृदयान्तःस्थितस्सन् अभद्राणि भक्तियोगोत्पत्ति प्रतिबन्धकानि दुरितानि विधुनोति । सुहृदिति हेतुगर्भमिदं सुहृत्त्वात् धुनोतीत्यर्थः ॥ १७ ॥

श्लोक-१८

विश्वास-प्रस्तुतिः

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी॥

मूलम्

नष्टप्रायेष्वभद्रेषु नित्यं 81भागवतसेवया।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी॥ १८ ॥

अनुवाद (हिन्दी)

जब श्रीमद‍्भागवत अथवा भगवद‍्भक्तोंके निरन्तर सेवनसे अशुभ वासनाएँ नष्ट हो जाती हैं, तब पवित्रकीर्ति भगवान् श्रीकृष्णके प्रति स्थायी प्रेमकी प्राप्ति होती है॥ १८॥

वीरराघवः

ततः किमत आह नष्टप्रायेष्विति । नित्यं भागवतानां सतां सेवया तत्सेवापूर्वक भगवद्गुणश्रवणेनेत्यर्थः । अभद्रेषु नष्टप्रायेषु सत्सु उत्तमश्लोके भगवति नैष्ठिकी दृढा भक्तिः भवति । नष्टप्रायेष्विति प्राय82ग्रहणेन भक्तियोगापनोद्यं प्राप्तिप्रतिबन्धकं उत्तरपूर्वार्ध83रूपं तु अवशिष्यत इति सूचितम् । एवं तुल्यन्यायतया स्वधर्मेणापि उपायोत्पत्तिप्रतिबन्धकमात्रमेव निरस्यत इति सम्यगुक्तं प्राक् ॥ १८ ॥

श्लोक-१९

विश्वास-प्रस्तुतिः

तदा रजस्तमोभावाः कामलोभादयश्च ये।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति॥

मूलम्

तदा रजस्तमोभावाः कामलोभादयश्च ये।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति॥ १९ ॥

अनुवाद (हिन्दी)

तब रजोगुण और तमोगुणके भाव—काम और लोभादि शान्त हो जाते हैं और चित्त इनसे रहित होकर सत्त्वगुणमें स्थित एवं निर्मल हो जाता है॥ १९॥

वीरराघवः

कथं अभद्रेषु नष्टेष्वपि भक्तिः भवतीत्यत्राह - तदेति । नृणां सततं महत्सेवैव धर्मः । तस्मात्84 अभद्रेषु नष्टेषु तन्मूलाः चित्तविक्षेपावरणहेतवो रजस्तमसोर्भावा धर्माः कार्यभूता इति यावत् । ये कामलोभादयः सन्ति, आदिशब्दग्राह्याः क्रोधमोहादयः; ते सर्वे नश्यन्ति । नष्टेषु च रजस्तमोभावेषु एतै रजस्तमोभावैः अनाविद्धं अविक्षिप्तं अविमूढं च अत एव सत्त्वे रजस्तमोभ्यां अनभिभूते सत्त्वगुणे स्थितं सत्त्वप्रधानं सत् स्थिरं सदिति यावत्प्रसीदति । प्रसन्ने च चेतसि नैष्ठिकी भक्ति85रप्युद्भवतीति भावः ॥ १९ ॥

श्लोक-२०

विश्वास-प्रस्तुतिः

एवं प्रसन्नमनसो भगवद‍्भक्तियोगतः।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते॥

मूलम्

एवं प्रसन्नमनसो भगवद‍्भक्तियोगतः।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते॥ २० ॥

अनुवाद (हिन्दी)

इस प्रकार भगवान‍्की प्रेममयी भक्तिसे जब संसारकी समस्त आसक्तियाँ मिट जाती हैं, हृदय आनन्दसे भर जाता है, तब भगवान‍्के तत्त्वका अनुभव अपने-आप हो जाता है॥ २०॥

वीरराघवः

तदेवाह एवमिति । एवं उक्तरीत्या प्रसन्नं मनो यस्य तस्य मुक्तसङ्गस्य विरक्तस्य पुंसः नैष्ठिकी भक्तिः भवतीति शेषः । तस्माच्च भक्तियोगात् भगवत्तत्त्वविज्ञानं भगवत्स्वरूपगुण याथात्म्यसाक्षात्कारात्मकं ज्ञानं जायते । दृष्ट इत्यनन्तरोक्तेः तच्च ज्ञानं परभक्तेः फलं “भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप” (भ.गी. 11-54) इति वचनात् ॥ २० ॥

श्लोक-२१

विश्वास-प्रस्तुतिः

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥ २१ ॥

मूलम्

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥

अनुवाद (हिन्दी)

हृदयमें आत्मस्वरूप भगवान‍्का साक्षात्कार होते ही हृदयकी ग्रन्थि टूट जाती है, सारे सन्देह मिट जाते हैं और कर्मबन्धन क्षीण हो जाता है॥ २१॥

वीरराघवः

एवं साक्षात्कारपर्यन्त भगवद्भक्तियोगसाध्यं फलमाह - भिद्यत इति । आत्मनि परमात्मनि ईश्वरे भगवति दृष्ट एव दृष्टमात्रे सत्येवास्य द्रष्टुः पुंसः सर्वकर्माणि भगवत्प्राप्तिप्रतिबन्धकानि उत्तरपूर्वाघरूपाणिक्षीयन्ते नश्यन्ति, अत एव तन्मूलकाः सर्वे संशयाः नश्यन्ति । सर्वशब्देन अन्यथाज्ञान विपरीतज्ञानाज्ञान सङ्ग्रहः । ततः तन्मूलको हृदयग्रन्थिव दनिर्मोच्योऽहंममाभिमानो भिद्यते, समूला संसृतिः निवर्तते । तन्निवृत्तौ च ब्रह्मप्राप्तिः तदनुभवश्च अयत्त्रसिद्धः इति भावः ॥ २१ ॥

श्लोक-२२

विश्वास-प्रस्तुतिः

अतो वै कवयो नित्यं भक्तिं परमया मुदा।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम्॥

मूलम्

अतो वै कवयो नित्यं भक्तिं परमया मुदा।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसाद86नीम्॥ २२ ॥

अनुवाद (हिन्दी)

इसीसे बुद्धिमान् लोग नित्य-निरन्तर बड़े आनन्दसे भगवान् श्रीकृष्णके प्रति प्रेम-भक्ति करते हैं, जिससे आत्मप्रसादकी प्राप्ति होती है॥ २२॥

वीरराघवः

उक्तार्थस्य अनुष्ठानं दर्शयति - अत इति । यतो मोक्ष एव निरतिशयपुरुषार्थः । तत्साधनं तु भक्तिरेव । अतः कवयो निरतिशयश्रेयस्तत्साधनाभिज्ञाः परमया मुदा भगवति वासुदेवे भक्तिं आत्मप्रसादनीं कुर्वन्ति । आत्मप्रसा87दनीं भक्तिं कुर्वन्तीत्यनेन आरब्धभक्तियोगस्य चित्तप्रसादोऽपि शनैः शनैः भक्तियोगादेव भवतीति सूचितम् ॥ २२ ॥

श्लोक-२३

विश्वास-प्रस्तुतिः

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्तः परः पुरुष एक इहास्य धत्ते।
स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥

मूलम्

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते।
स्थित्यादये88 हरिविरिञ्चि हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥ २३ ॥

अनुवाद (हिन्दी)

प्रकृतिके तीन गुण हैं—सत्त्व, रज और तम। इनको स्वीकार करके इस संसारकी स्थिति, उत्पत्ति और प्रलयके लिये एक अद्वितीय परमात्मा ही विष्णु, ब्रह्मा और रुद्र—ये तीन नाम ग्रहण करते हैं। फिर भी मनुष्योंका परम कल्याण तो सत्त्वगुण स्वीकार करनेवाले श्रीहरिसे ही होता है॥ २३॥

वीरराघवः

ननु सृष्ट्यादिकारणेषु ब्रह्मरुद्रादिदेवेषु सत्सु कथं वासुदेवभक्तिरेव मोक्षोपायत्वेनोच्यत इति शङ्कायामाह - सत्त्वमित्यादिना यावदध्यायसमाप्ति । तत्र भगवान् वासुदेव89हिरण्यगर्भरुद्राख्य जीवशरीरकतया स्वावताररूपेण च जगत्सृष्टिस्थितिलय कारणभूतः । तत्र साक्षाद्वासुदेवभक्तिरेव मोक्षोपायभूता । तच्छरीरभूत हिरण्यगर्भादिभक्तिश्च90 “यो यो यां यां तनुं भक्तः” (भ.गी. 7-21) इत्याद्युक्तरीत्या 91तत्तल्लोकादि प्राप्त्युपायः यद्यपि हिरण्यगर्भादिजीवशरीरकतया तद्रूपेणावस्थितः परमात्मैव, तथाऽपि कर्तृत्वभोक्तृत्वादिकं जीवगतमेव, न92 परमात्मगतम् । न हि शरीरगतधर्माणां शरीरिणि प्रसक्तिः इत्ययं अर्थोऽत्र प्रतिपाद्यते । सत्त्वमिति सत्त्वादयस्त्रयः प्रकृतेर्गुणाः । प्रकृतेरिति सावधारणं विवक्षितम् । प्रकृतेरेव गुणा न तु जीवस्य 93ईश्वरस्य वेत्यर्थः । तैः सत्त्वादिभिर्युक्तः परः पुरुषः परमपुरुषः योगोऽत्र शरीरात्मभावरूपो विवक्षितः । एकः सृष्टेः प्रागिति शेषः । “सदेव सौ94म्येदमग्र आसीत्” (छान्दो. उ. 6-2-1) इत्यादि श्रुत्यनुरोधात् । एकत्वं च कार्यदशावस्था नामरूपविभागप्रयुक्त 95बद्धप्रतिसम्बन्धि नामरूप विभागाभावप्रयुक्त विभागानर्ह सूक्ष्मचिदचिच्छरीरक96त्वं सृष्टेः प्राक् नामरूपविभागानर्ह सूक्ष्म चिदचिच्छरीरकतया एक एव सन्नित्यर्थः । अस्य स्थूलचिदचिदात्मकस्य जगतः स्थित्यादये स्थितिसृष्टिलयार्थम् । स्थिति प्राथम्यं भगवत्प्राथम्यविवक्षया परमपुरुष एव ब्रह्मरुद्ररूपेण तन्मध्ये स्वावताररूपेण स्थितिसृष्ट्यादिकृद्धरिविरिञ्चिहरेति संज्ञा विष्णुब्रह्मरुद्रसंज्ञाः । इतिः प्रकारार्थः ; तेन रूपसङ्ग्रहः, हर्यादिरूपाणि तद्वाचकानि हर्यादिनामानि च धत्ते बिभर्ति । तत्र सत्त्वं तनुः शरीरं अधिष्ठेयं यस्य तस्मात् सत्त्वप्रवर्तकाद्विष्णोरेव 97नृणां भजतां श्रेयांसि ज्ञाननिष्पत्ति भवनिवृत्तिपर प्राप्तिरूपाणि स्युः खलु । सर्वकारणत्वात् सर्वस्मात् परत्वात् सम्यक् ज्ञानवर्धक सत्त्वप्रवर्तकत्वाच्च वासुदेवभक्तिरेव मोक्षप्रदेत्यर्थः । नन्वेक एव हर्यादिसंज्ञा धत्ते इत्यनेन हर्यादीनां परस्परं संज्ञाभेद एव, न वस्तुभेद इति प्रतीत्या त्रयाणां ऐक्यम् 98एव 99द्रष्टव्यम् । तथा च श्रूयते “ब्रह्मा नारायणः शिवश्च नारायणः” (त्रि. म. ना. उ. 2-8) इति । स्मर्यंते च “ब्रह्मा100नारायणाख्योऽसौ कल्पादौ भगवान् यथा । प्रजाः ससर्ज भगवान् ब्रह्मानारायणात्मकः” । (विष्णु. पु. 4-4-1,2) “ततस्स भगवान्विष्णू रुद्ररूपधरोऽव्ययः । ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरो हरिः। सर्गस्थित्यन्त101कारिणीं ब्रह्मविष्णुशिवात्मिकाम् । 102संज्ञां 103संयाति भगवानेक एव जनार्दनः ।” इति । ततश्च वासुदेवस्य सर्वस्मात्परत्वं नोपपद्यते । किञ्चैक एव हर्यादिसंज्ञा धत्ते इत्यनेन 104न हर्यादिभ्यः परं तत्त्वमस्ती त्यवगम्यते । युक्तंचैतत् । अत एव “विष्णुर्मन्वादयः कालः” (विष्णु. पु. 1-22-32) “यस्मिन् ब्रह्मविष्णुरुद्रेन्द्राः 105सर्वे सम्प्रसूयन्ते” (अथ. शिखा. उ. 2) “तेनेदं पूर्णं पुरुषेण सर्वम् । ततो यदुत्तरतरं तदरूपं अनामयम् । यएतद्विदुरमृतास्ते भवन्ति” (श्वेता. उ. 3-10) इति विष्णोरपि परतत्त्वविभूतित्व, तत उत्पत्तिः, पुरुषशब्दनिर्दिष्ट नारायणातिरिक्ततत्त्वस्य मोक्षहेतुत्वं इत्यादिकं सर्वं श्रूयमाणं सङ्गच्छते । किञ्च, “अमृतस्यैष सेतुः” (मुण्ड. उ. 2-2-5) इति सेतुवद्भगवतोऽन्यप्रापकत्वोक्तेश्च त्रिमूर्त्युत्तीर्णमेव सर्वजगत्कारणमिति नारायणस्य न परत्वं नापि तद्भजनान्मुक्तिः, “कारणं तु ध्येयः” (अथ. शिखा. उ. 3) इति श्रुतिविरोधप्रसङ्गादिति चेदत्रोच्यते - न तावत् त्रिमूत्यैक्यमुपपन्नम् “नारायणाद् ब्रह्मा जायते । नारायणाद्रुद्रो जायते । नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणिच्छन्दांसि नारायणादेव समुत्पद्यन्ते” (नारा. उ. 1) । “एको ह वै नारायण आसीन्न ब्रह्मानेशानः” (महा. उ. 1-1) “एको ह वै नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त विश्वे हिरण्यगर्भोऽग्निर्यमवरुणरुद्रेन्द्राः । यन्नाभिपद्मादभवत् स महात्मा प्रजापतिः । तत्र ब्रह्मा चतुर्मुखोऽजायत सोऽग्रे भूतानां मृत्युमसृजत106 । त्र्यक्षं त्रिशिरस्कंम्रिपादं खण्डपरशुम् । ब्रह्मणः पुत्राय ज्येष्ठाय” । “ब्रह्मा दक्षादयः कालस्तथैवाखिल जन्तवः । विभूतयो हरेरेता107 जगतः सृष्टिहेतवः” (विष्णु. पु. 1-22-31)। “रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः । चतुर्विधाश्च ते सर्वे जनार्दन विभूतयः” (विष्णु. पु. 1-22-33)। “आद्यो नारायणो देवस्तस्मात् ब्रह्मा ततो भवः । परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः । तस्माद्रुद्रोऽभवद्देवि” । “क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां त्वदङ्गसम्भूतौ तस्मात् केशवनामभाक्” (हरिवंशे) “तवान्तरात्मा मम च येचान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्” । (भार. 12-339-4) एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदा दर्शितपन्थानौ सृष्टिसंहारकारको” (भार. 12-328-17)। “विष्णुरात्मा भगवतो भ108वस्यामिततेजसः” । (भार. 8-24-85) “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते” (वि. ध. पु. 68-52) । “हरो हरति तद्वशः” इत्यादि श्रुतिस्मृतिभ्यः ब्रह्मरुद्रयोः परमपुरुषसृज्यत्व तद्विभूतित्व तद109वरत्व तत्प्रसादायत्त ज्ञानवत्त्व तच्छरीरत्वादि धर्माणां तदैक्यविरुद्धानां अवगतत्वात् । “ब्रह्मा नारायणः शिवश्च नारायणः” (त्रि. म. ना. उ. 2-8) इत्यादि सामानाधिकरण्यस्य च “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते” (वि. ध. पु. 68-52) । “हरो हरति तद्वश” इति प्रमाणान्तरानुगुण्येनान्तरात्मतया आकृत्यधिकरणन्यायेन शरीरवाचिनां शरीरिपर्यन्तत्वेनाप्युपपत्तेः । बहुप्रमाणावगत भेदस्य निर्वाहासम्भवाच्च । नापि नारायणादुत्तीर्णं तत्त्वान्तरमस्ति ? “विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वस्यात्मेश्वरम्,” (म. ना. उ. 11-1) “य मन्तः समुद्रे कवयो वयन्ति” (म. ना. उ. 1-3) “न तस्येशे कश्चन तस्य नाम महद्यशः” (म. ना. उ. 1-10) । “परात्परं यन्महतो महान्तम्" (महा. उ. 4- 71) “न तत्समश्चाभ्याधिकश्च दृश्यते,” (श्वेता. उ. 6-8) “अग्निस्वमो देवतानां विष्णुः परमः” (तैत्ति. सं. 5-5-1) । “मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय” (भ.गी. 7-7) । “आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान्” (भार. 2 App. 21-52 pr) । “एकस्तिष्ठति विश्वात्मा” (भार. 12 App. 17B-45 pr) “स तु नारायणः स्मृतः” (भार. 2 App. 21-53 post) । “न परः पुण्डरीकाक्षाद् दृश्यते पुरुषर्षभः ।” “परं हि पुण्डरीकाक्षान्न भूतो न भविष्यति” । “न विष्णोः परमो देवो विद्यते नृपसत्तम । न वासुदेवात्परमस्ति दैवतम् ।” “न वासुदेवं प्रणिपत्यसीदति” । “देशतः कालतो व्याप्तिर्मोक्षदत्वं तथैव च । हरेर्विभूतिमात्रं तु केवलं सम्प्रभाषितम् ।” “न 110देवः केशवा111त्परः” (भार. 3 App. 13-17 post) “राजाधिराजः सर्वेषां (सर्वासां) विष्णुर्ब्रह्ममयो महान्” (भार. 14-43-12) “परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे” (विष्णु. पु. 6-5-85) इत्यादिभिर्बहुभिः प्रमाणैर्विष्णोः सर्वाधिकत्वप्रदर्शनपूर्वकं तदधिकदेवतान्तर निषेधात् । ब्रह्मविष्णुरुद्रेन्द्राः ते सर्वे सम्प्रसूयन्त इत्यत्र तु विष्णोरुत्पत्तिरवताररूपा स्वसङ्कल्पमूला उच्यते; न तु ब्रह्मरुद्रादीनामिव कर्ममूला । कारणवाक्येष्वेकस्यैव कृत्स्न जगत्कारणत्वावगमात् त्रयाणां समुच्चित्य कारणत्वानुपपत्तेः कारणत्वोपास्यत्व बोधकवाक्य गतानां शिवशम्भ्वादि सामान्यशब्दानां छागपशुन्यायेन विशेषवाचि नारायणशब्दार्थ पर्यवसानोपपत्तेः अचितः सर्वकारणत्वानुपपत्तेरीक्ष112णार्थविरोधाच्च रुद्रादीनां अनपहतपाप्मा वा अहमस्मीत्यादिना कार्यत्वकर्मवश्यत्वादि श्रवणात् वासुदेवादि पदवाच्यस्य कुत्रापि कर्मवश्यत्वाद्यश्रवणात् तदुत्पत्तेश्च “अजायमानो बहुधा विजायते” (तैत्ति. आ. 3-13) इत्यवताररूपत्वश्रवर्णात् अजायमान इति कर्मायत्तोत्पत्ति निषेधाच्च कर्मकृतत्वस्यापोदितत्वाच्च, इतरोत्पत्तेः तथा अपवादकाभावाच्च । ततो यदुत्तरतरं इत्यनेन किमुच्यते इति चेदुच्यते - त्रिमूर्तिमध्ये रक्षकत्वेनावतीर्णस्य नारायणस्य “अस्येशाना जगतो विष्णुपत्नी” (तैत्ति. सं. 4-4-12) इत्यादिना अवगतस्य “अद्भ्यः सम्भूतः” (तैत्ति. आ. 3-13) इत्यत्र पूर्वानुवाकोक्तं महापुरुषत्वं “वेदाहमेतं” (तैत्ति. आ. 3-12) इत्यनेनैव वाक्येन प्रत्यभिज्ञाप्य तस्य श्रियःपतित्व महापुरुषत्वादिश्रवणात् तमेव सर्वोत्तरं महापुरुषं “यस्मात् परं ना परमस्ति किञ्चित्। यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्” (म. ना. उ. 10-4; श्वेता. उ. 3-9) इति प्रत्यभिज्ञाप्य, उपरिच “सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः सर्वव्यापी च भगवान्” (श्वेता. उ. 3-11) इति सहस्रशीर्षत्वादिधर्मान् प्रत्यभिज्ञाप्य तयोः वाक्ययोः मध्ये प्रयुक्तस्य ततो यदु113त्तरमिति वाक्यस्य सन्दंशन्यायेन नारायणपरत्वस्य आवश्यकत्वात् तत इत्यस्य शब्दतोऽर्थतश्च प्रत्यभिज्ञापित तद्धेतुपरामर्शत्वस्यैव न्याय्यत्वात् अन्यथा यस्मात्पुरुषादपरं व्यतिरिक्तं परं उत्कृष्टं नास्तीति पूर्ववाक्ये नोक्तं पुरुषमेव परामृश्य तद्व्यतिरिक्तस्य उत्त्वप्रतिपादने पूर्वापरव्याघातप्रसङ्गाच्च । तत उक्तहेतुभ्यः यत्पुरुषशब्दवाच्यं तत्त्वं तदेवोत्तरं तत्त्वमिति “अमृतस्यैषसेतु"रिति अनेनापि विष्णोः न तत्त्वान्तरप्रापकत्वं उच्यते ; अपि तु स्वप्राप्तौ स्वयमेव हेतुरिति दिक् ॥ २३ ॥

श्लोक-२४

विश्वास-प्रस्तुतिः

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः।
तमसस्तु रजस्तस्मात्सत्त्वं यद‍्ब्रह्मदर्शनम्॥

मूलम्

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः।
तमसस्तु रजस्तस्मात्सत्त्वं यद‍्ब्रह्मदर्शनम्॥ २४ ॥

अनुवाद (हिन्दी)

जैसे पृथ्वीके विकार लकड़ीकी अपेक्षा धुआँ श्रेष्ठ है और उससे भी श्रेष्ठ है अग्नि—क्योंकि वेदोक्त यज्ञ-यागादिके द्वारा अग्नि सद‍्गति देनेवाला है—वैसे ही तमोगुणसे रजोगुण श्रेष्ठ है और रजोगुणसे भी सत्त्वगुण श्रेष्ठ है; क्योंकि वह भगवान‍्का दर्शन करानेवाला है॥ २४॥

वीरराघवः

ननु प्रकृति113गुणत्वे समानेऽपि कथं114मोक्षहेतुः, कथमितरौ गुणौ तदहेतू, सर्वमपि मोक्षहेतुर्नवास्यादिति शङ्कायां दृष्टान्तेन गुणानां वैषम्यमुपपादयति - पार्थिवादिति । दारुण इति पञ्चमी पार्थिवात् पृथिवीपरिणामरूपाद्दारुणः काष्ठात्तावद्धूमः उत्पद्यते तस्माद्धूमादनन्तरं इत्यध्याह्रियते । धूमोह्मग्नेः पूर्वमुत्पद्यते तस्माद्धूमादनन्तरमग्निरुत्पद्यते स च त्रयीमयः । यथा पार्थिव दारूत्पन्नत्वा115विशेषेऽपि धूमो न प्रकाशकः न च 116स्वर्गाद्यौपयिकः अग्निस्तु117प्रकाशकः त्रयीप्रति118पाद्यतारूपेण स्वर्गप्रदश्चेति तयो119र्दृष्टकार्यवैषम्यसिद्धिः, एवं सुषुप्तस्य पुरुषस्य तमोगुणा120नन्तरं मनसः अनाविलत्वहेतुर्यत्सत्त्वं तदेव ब्रह्मदर्शनसाधनमिति कार्यवैचित्र्योपपत्तिरित्यर्थः ॥ २४ ॥

श्लोक-२५

विश्वास-प्रस्तुतिः

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम्।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह॥

मूलम्

भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम्।
सत्त्वं विशुद्धं क्षेमाय क121ल्पन्ते येऽनु तानिह॥ २५ ॥

अनुवाद (हिन्दी)

प्राचीन युगमें महात्मालोग अपने कल्याणके लिये विशुद्ध सत्त्वमय भगवान् विष्णुकी ही आराधना किया करते थे। अब भी जो लोग उनका अनुसरण करते हैं, वे उन्हींके समान कल्याणभाजन होते हैं॥ २५॥

वीरराघवः

यतः सत्त्वस्यैव ब्रह्म122दर्शनत्वं 123ततश्च सत्त्वप्रवर्तकाद्विष्णोरेव नृणां श्रेयांसि । अत एव सत्त्वतनुं विष्णुमेवमुनयोऽभजन्नित्याह - भेजिर इति । अथ तस्मादग्रे पूर्वकाले मुनयः विशुद्धं रजस्तमोभ्यामननुविद्धं सत्त्वं सत्त्वशरीरकं तत्प्रवर्तकं भगवन्तम् अधोक्षजं भेजिरे उपासांचक्रिरे । एवमिह तान्मुनीननुसृत्य124 सत्त्वतनुं भगवन्तं ये जना उपासते इत्यर्थः । ते क्षेमाय कल्पन्ते श्रेयोयुक्ता भवन्तीत्यर्थः । रजस्तमःप्रधानौ ब्रह्मरुद्रौ भजन्त स्तु न क्षेमाय कल्पन्ते, अपि त्वन्तवत्फलभाजो भवन्तीति भावः ॥ २५ ॥

श्लोक-२६

विश्वास-प्रस्तुतिः

मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ।
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः॥

मूलम्

मुमुक्षवो घोररूपान् हित्वा भूतपती125नथ।
नारायण126कलाः 127शान्ता 128भजन्ति ह्यनसूयवः॥ २६ ॥

अनुवाद (हिन्दी)

जो लोग इस संसारसागरसे पार जाना चाहते हैं, वे यद्यपि किसीकी निन्दा तो नहीं करते, न किसीमें दोष ही देखते हैं, फिर भी घोररूपवाले—तमोगुणी-रजोगुणी भैरवादि भूतपतियोंकी उपासना न करके सत्त्वगुणी विष्णुभगवान् और उनके अंश—कलास्वरूपोंका ही भजन करते हैं॥ २६॥

वीरराघवः

ननु केचित् ब्रह्मरुद्राद्युपासका अपि दृश्यन्ते, सर्वेऽपि विष्णुमेव किं न भजन्त इति शङ्कायां, उपासकानां स्वस्वगुणानुसारेणो129पास्यदेवता विषयकोपासनायां रुचिः जायत इत्याह - मुमुक्षव इति द्वाभ्याम् । मुमुक्षवः सत्त्वगुणप्रधानाः अनसूयवः । घोररूपान् भूतपतीन् रुद्रादीं स्तमःप्रधानान् हित्वा शान्ताः शुद्धसत्त्वप्रव130र्तका नारायणस्य कला अवतारान् भजन्ति । अनसूयव इत्यनेन विष्णुभक्तानां देवतान्तरेषु तदुपासकेषु चासूयाराहित्यं देवतान्तरभक्तानां तु विष्णौ तत्परेषु चासूयावत्त्वं चास्तीति सूचितम् ॥ २६ ॥

श्लोक-२७

विश्वास-प्रस्तुतिः

रजस्तमःप्रकृतयः समशीला भजन्ति वै।
पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः॥

मूलम्

रजस्तमःप्रकृतयः समशीला131 भजन्ति वै।
पितृभूत प्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः॥ २७ ॥

अनुवाद (हिन्दी)

परन्तु जिसका स्वभाव रजोगुणी अथवा तमोगुणी है, वे धन, ऐश्वर्य और संतानकी कामनासे भूत, पितर और प्रजापतियोंकी उपासना करते हैं; क्योंकि इन लोगोंका स्वभाव उन (भूतादि)-से मिलता-जुलता होता है॥ २७॥

वीरराघवः

रजस्तम स्वभावा स्तु जनाः समशीलान् रजस्तमस्वभावान् पि132तृभूतेशान् रुद्रादीन् प्रजेशान् हिरण्यगर्भादीन् आदिशब्देन सङ्कीर्णदेवताः सरस्वतीप्रभृतीश्च “प्रेतान् भूतपतीं (गणां) श्चान्ये यजन्ते तामसा जनाः” (भ.गी. 17-4) इत्युक्तान् भजन्ति । कथम्भूताः ? 133श्रीमच्चैश्वर्यमाधिपत्यं च प्रजाः पुत्रादयश्च; ता ईप्सन्ति आप्तुमिच्छन्तीति तथाभूताः । अनेन विष्णुभक्तानां अनन्यप्रयोज134नत्वमनन्तस्थिर फलप्राप्तिः, अन्येषां तु अन्तवत्फलप्राप्तिश्चेति सूचितम् ॥ २७ ॥

श्लोक-२८

विश्वास-प्रस्तुतिः

वासुदेवपरा वेदा वासुदेवपरा मखाः।
वासुदेवपरा योगा वासुदेवपराः क्रियाः॥

मूलम्

वासुदेवपरा वेदा वासुदेवपरामखाः।
वासुदेवपरा योगा वासुदेवपराः क्रियाः॥ २८ ॥

अनुवाद (हिन्दी)

वेदोंका तात्पर्य श्रीकृष्णमें ही है। यज्ञोंके उद्देश्य श्रीकृष्ण ही हैं। योग श्रीकृष्णके लिये ही किये जाते हैं और समस्त कर्मोंकी परिसमाप्ति भी श्रीकृष्णमें ही है॥ २८॥

वीरराघवः

अथ “सर्वे वेदा यत्पदमामनन्ति । तपांसि सर्वाणि च यद् वदन्ति” (कठ. उ. 2-1-5) “इष्टापूर्ते135 बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः, तदेवाग्निस्तुद्वायुस्तत्सूर्यस्तदु चन्द्रमाः” (म. ना. उ. 1-6-7) “वेदैश्च सर्वैरहमेव वेद्यः” (भ.गी. 15-15) “यो यो यां यां तनुं भक्तः” (भ.गी. 7-21) 136इत्युक्तरीत्या भागद्वयात्मक वेदवेद्यः चतुर्मुखरुद्रादि शरीरकः तदन्तर्यामितयाऽन्तवच्छ्रियैश्वर्यादि फलदश्च वासुदेव एवेत्यभिप्रायेणाह - वासुदेवपरा इति द्वाभ्याम् । वेदाः पूर्वोत्तरभागद्वयात्मका वेदा: वासुदेवपराः वासुदेवः परः तात्पर्यभूमिर्येषां तथाभूताः । ननु अग्न्यादिदेवतोद्देश्क यागदानहोमादि कर्मप्रतिपादक 137पूर्वभागस्य कथं वासुदेवपरत्वमित्यत आह - वासुदेवपरा मखा इति । मखा अग्न्यादिदेवता पूजात्मका यागादयो वासुदेवपराः वासुदेवः परः 138प्रधानतया आराध्य139 एषां तथाभूताः अग्न्यादि शरीरकतया तद्रूपो वासुदेव एव मखैराराध्य इत्यर्थः । केवलं अग्न्यादिदेवता पूज्य140मात्रत्वाभिमानेन ये मखाननुतिष्ठन्ति तेषामपि तत्समीहितं फलं तैरविज्ञातोऽपि वासुदेवोऽग्न्याद्यन्तर्यामितयाऽऽराधितः प्रयच्छतीति भावः । एवमाराधितोऽन्तवत् फलं प्रयच्छतीति भावः । तथा चोक्तम्- “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते” (भ.गी. 9-24 ) इति । एवं तुल्यन्यायतया वेदान्तेषु क्वचित् क्वचित् कालाग्निरुद्रोपनिषत्प्रतर्दनविद्यादिषु रुद्रेन्द्राद्युपासनात्मका योगा अपि रुद्रादिशरीरक वासुदेवविषया इत्याह - वासुदेवपरा योगा इति । वासुदेवः परो विषयो येषां त इत्यर्थः । प्रायशो वेदान्तेषु विहिता योगा वासुदेवविषया एव श्रूयन्ते । क्वचिदापाततो रुद्रादि विषयत्वेन प्रतीयमाना अपि तत्तत्प्रकरणगतैर्लिङ्गै: रुद्रादिष्वसम्भाव्यमानैः तच्छरीरक वासुदेवविषयत्वेनैव निश्चीयन्त इति भावः । एवं निखिल निगमवेद्यो वासुदेव एवेत्युक्तम् । अथ तत्पूर्वभागोपबृंहणात्मक तन्मूलक स्मृत्यादि प्रतिपाद्यः स्मार्तक्रियाराध्यश्च स एवेत्याह - वासुदेवपराः क्रिया इति । क्रियाः स्मार्त्यः श्रौतीनां तु मखा इत्युक्तत्वात् पूर्ववदर्थः ॥ २८ ॥

श्लोक-२९

विश्वास-प्रस्तुतिः

वासुदेवपरं ज्ञानं वासुदेवपरं तपः।
वासुदेवपरो धर्मो वासुदेवपरा गतिः॥

मूलम्

वासुदेवपरं ज्ञानं वासुदेवपरं तपः।
वासुदेवपरो धर्मो वासुदेवपरा गतिः॥ २९ ॥

अनुवाद (हिन्दी)

ज्ञानसे ब्रह्मस्वरूप श्रीकृष्णकी ही प्राप्ति होती है। तपस्या श्रीकृष्णकी प्रसन्नताके लिये ही की जाती है। श्रीकृष्णके लिये ही धर्मोंका अनुष्ठान होता है और सब गतियाँ श्रीकृष्णमें ही समा जाती हैं॥ २९॥

वीरराघवः

अथ वेदान्तार्थोपबृंहणार्थतया प्रवृत्त कपिलाद्यागमोक्त प्रकृतिपुरुषविषयक ज्ञानमपि प्रकृतिपुरुषशरीरक परमात्मविषयकमेवेत्याह - वासुदेवपरं ज्ञानमिति । ज्ञानं प्रकृतिपुरुषविषयकं 141वासुदेवविषयकं विशेषणबुद्धिशब्दयोर्विशेष्यपर्यन्तत्वादित्यर्थः । कपिलादिभिस्तु तथा न बुद्धमिति भावः । तथा वेदान्तार्थोपबृंहणपरं मन्वादिस्मृत्युक्त कृच्छ्रचान्द्रायणानशनादि तपश्च वासुदेवाराधनरूपमित्याह - वासुदेवपरं तप इति । किं बहुना । सर्वे वैदिकाः स्मार्ताश्च धर्माः, तत्प्राप्या गतयश्च वासुदेवाधीना इत्याह - वासुदेवपरो धर्मो वासुदेवपरा गतिरिति ॥ २९ ॥

श्लोक-३०

विश्वास-प्रस्तुतिः

स एवेदं ससर्जाग्रे भगवानात्ममायया।
सदसद‍‍्रूपया चासौ गुणमय्यागुणो विभुः॥

मूलम्

स एवेदं ससर्जाऽग्रे भगवानात्ममायया।
सदसद‍‍्रूपया चासौ गुणमय्याऽगुणो विभुः॥ ३० ॥

अनुवाद (हिन्दी)

यद्यपि भगवान् श्रीकृष्ण प्रकृति और उसके गुणोंसे अतीत हैं, फिर भी अपनी गुणमयी मायासे, जो प्रपंचकी दृष्टिसे है और तत्त्वकी दृष्टिसे नहीं है—उन्होंने ही सर्गके आदिमें इस संसारकी रचना की थी॥ ३०॥

वीरराघवः

कथं वेदादीनां वासुदेवपरत्वमित्याशङ्कायां “तदात्मानं स्वयमकुरुत” (तैत्ति. उ. 2-7) इत्युक्तरीत्या सूक्ष्मचिदचिद्विशिष्टं स्वात्मानं जगद्रूपेण परिणमय्य तत्तद्रूपेण वासुदेवस्यैवावस्थानात् 142वासुदेवात्मकं विना वस्त्वभावादित्याह - इति द्वाभ्याम् । अग्रे सृष्टेः प्राक् स एवं वासुदेव एव नामरूपविभागानर्ह सूक्ष्मचिदचिच्छरीरकतया अवस्थित इत्यर्थः । एवकारेण तच्छब्दपरामृष्ट 143भगवद्वाचक वासुदेव शब्दावयवार्थेन चेदं लब्धम् । यद्वा इदं परिदृश्यमानं जगदग्रे सृष्टेः प्राक् स एव आसीदित्यध्याहारः । “स देव 144सौम्येदमग्र आसीत्” (छान्दो. उ. 6-2-1) इति स्थानप्रमाणात् । एवं चेदमित्यनेन नामरूपविभागभिन्नं जगन्निर्दिश्य तस्य वासुदेवरूपेणावस्थानोक्त्या वियदादिवस्त्वन्तर व्यावर्त्तकैवकार प्रयोगेण च “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी. 13- 2) इति स्मृत्यनुरोधाच्च, अन्यथा न कर्माविभागादिति चेन्न; अनादित्वात् इत्युक्तन्यायेनाकृताभ्यागम कृतविप्रणाशादि दोषप्रसङ्गाच्च सूक्ष्मचिदचिद्वैशिष्टयं लब्धम् । सृष्टेः प्रागेवमवस्थितो भगवानात्मनः स्वस्य मायया स्वशरीरभूतया 145गुणमय्या सत्त्वादि गुण146प्रचुरतया सदसद्रूपया महदादि पृथिव्यन्तकार्यकारणरूपेण परिणममानया विभुः व्यापकः सदसद्रूपेऽप्य147न्तरात्मतयाऽनुप्रविष्ट इत्यर्थः । 148अथाऽगुणः व्याप्यतद्गु149णैरस्पृष्ट इदं जगत् ससर्ज ॥ ३० ॥

श्लोक-३१

विश्वास-प्रस्तुतिः

तया विलसितेष्वेषु गुणेषु गुणवानिव।
अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः॥

मूलम्

तया विलसितेष्वेषु गुणेषु गुणवानिव।
अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः॥ ३१ ॥

अनुवाद (हिन्दी)

ये सत्त्व, रज और तम—तीनों गुण उसी मायाके विलास हैं; इनके भीतर रहकर भगवान् इनसे युक्त-सरीखे मालूम पड़ते हैं। वास्तवमें तो वे परिपूर्ण विज्ञानानन्दघन हैं॥ ३१॥

वीरराघवः

एवं समष्टिव्यष्ट्यवस्थाचिदन्तर्यामितया तत्कारणतया च तद्रूपेणावस्थानमुक्तम् । अथोभयावस्थ प्रकृतिसंसृष्ट जीवशरीरकतया तदन्तरात्मतया तद्रूपेण वासुदेवस्यैवावस्थितिमाह - तयेति । तया आत्ममायया विलसितेषु रचितेषु एषु परिदृश्यमानेषु 150गुणशब्दो लाक्षणिकः गुणकार्यभूत 151शब्दादिस्तम्ब152पर्यन्तेष्वित्यर्थः । विज्ञानेन जीवेन “विज्ञानं यज्ञं तनुते” (तैत्ति. उ. 2-5) “य आत्मनि तिष्ठन्153” “यो विज्ञाने तिष्ठन्” (बृह. उ. 3-7-22) इति श्रुतिप्रयोगात् । तेन विजृम्भितः विशिष्टतच्छरीरक इत्यर्थः । “यस्य विज्ञानं शरीरं” (बृह. उ. 3-7-22) इति श्रुतेः । यद्वा विज्ञानरूपेण विजृम्भितः 154भाष्यमाणः तच्छरीरतया तदन्तरात्मतया च तद्रूपेण प्रकाशमानइत्यर्थः । अन्तः प्रविष्टः जीवद्वारादेवादिशरीरेष्वनुप्रविष्टः । गुणवानिव साक्षाद्देवादिशरीरतच्छरीरक जीवगतधर्मवानिवाभाति । इव शब्दस्यायमभिप्रायः । “काठिन्यवान् यो बिभर्ति नृसिंहरूपी भगवान्155 श्वेत”, इत्यत्र काठिन्य156श्वैत्यादिवच्छरीरभूतजीवे हेयसम्बन्धः । न तु शरीरिणि वासुदेवे इति । तथा तस्यैकस्यैव देवादिशरीरभेदेनानेकधाऽवस्थितिश्चेति ॥ ३१ ॥

श्लोक-३२

विश्वास-प्रस्तुतिः

यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्॥

मूलम्

यथा 157ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्॥ ३२ ॥

अनुवाद (हिन्दी)

अग्नि तो वस्तुतः एक ही है, परंतु जब वह अनेक प्रकारकी लकड़ियोंमें प्रकट होती है तब अनेक-सी मालूम पड़ती है। वैसे ही सबके आत्मरूप भगवान् तो एक ही हैं, परंतु प्राणियोंकी अनेकतासे अनेक-जैसे जान पड़ते हैं॥ ३२॥

वीरराघवः

एतदेव दृष्टान्तमुखेनोपपादयति - यथेति । अभिव्यक्तिस्थान158मात्रं योनिशब्देनोक्तं न 159तु तदुपादानम् । न हि प्रकृतिर्जीवस्योपादानं न वा वह्नेर्दारूपादानं, किन्तु निमित्तम् । “160अग्नेरापः अद्भ्यः पृथिवी” (तैत्ति. उ. 2-1) इति हि सृष्टिक्रमः । यथा दारुभ्यो वह्निरवहितः व्यतिरिक्त161 162एववा सन् स्वयोनिषु स्वाभिव्यक्तिस्थलेषु दारुषु नानेवानेकधेव भाति ज्वलति । अग्नित्वस्यैकरूपत्वेऽपि, तार्णपार्णशाखादिभेदवान् भाति । एवं प्रकृतिपरिणामरूप देहेष्वभिव्यक्तो जीवो ज्ञानानन्दरूपत्वेनैकरूपोऽपि देवोऽहं मनुष्योऽहमिति देवादिभेदभिन्नो भातीत्यर्थः । पुंशब्दो जीववाची । तच्छरी163परमात्मपर्यन्तः । पुमान् विश्वात्मा जीवशरीरकः सर्वेश्वर एक एव देवादिरूपेण नाना भातीत्यर्थः । दारुषु भूतेष्विति दृष्टान्तदार्ष्टान्तिकयोरधिष्ठेय बहुत्वोक्त्या यथा ह्रस्वत्वस्थूलत्ववक्रत्वादि भेदश्चदारुगत एव नाग्निगतः, तथा देवत्वाज्ञत्व दुःखित्वादि भेदोऽपि न विश्वात्मगतः, किन्तु देवादि शरीरदारुभेदस्तद्गत तच्छरीरकजीवगत इति सूचितम् । वह्निर्विश्वात्मेत्येकत्वनिर्देशेनामिवद्विश्वात्मनोऽपि सर्वत्रावस्थितस्य स्वरूपतः स्वभावतो वा नावस्थान्तरापत्तिरिति सूचितम् । इयां स्तु विशेषः । दारुष्वग्निः साक्षादभिव्यक्तो नाना भाति, दार्ष्टान्तिके 164जीवद्वारा देवादिरूपेण नाना भाति इति जीवविशिष्ट देवादिशरीराणामेवाधिष्ठेयत्वात् ॥ ३२ ॥

श्लोक-३३

विश्वास-प्रस्तुतिः

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः।
स्वनिर्मितेषु निर्विष्टो भुङ्‍क्ते भूतेषु तद‍्गुणान्॥

मूलम्

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः।
स्वनिर्मितेषु निर्विष्टो भुङ्‍क्ते भूतेषु तद‍्गुणान्॥ ३३ ॥

अनुवाद (हिन्दी)

भगवान् ही सूक्ष्म भूत—तन्मात्रा, इन्द्रिय तथा अन्तःकरण आदि गुणोंके विकारभूत भावोंके द्वारा नाना प्रकारकी योनियोंका निर्माण करते हैं और उनमें भिन्न-भिन्न जीवोंके रूपमें प्रवेश करके उन-उन योनियोंके अनुरूप विषयोंका उपभोग करते-कराते हैं॥ ३३॥

वीरराघवः

यथा विश्वात्मनः स्वशरीरभूतप्रकृतिपुरुषद्वारा देवादिरूपेण नानाभानमेवं सुखदुःखादिभोक्तृत्वं, तन्निमित्तं कर्तृत्वञ्च, स्वशरीरभूत जीवद्वारैव; स्वतस्तुतदुभयरहित इत्याह - असाविति । असौ विश्वात्मा गुणमयैः सत्त्वादिगुण परिणामरूपत्वेन तत्प्रचुरैः भूतसूक्ष्मादिरूपैभवैिः पदार्थैस्तत्र भूतानि पृथिव्यादीनि सूक्ष्माणि गन्धादीनि, इन्द्रियाणि श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि कर्मेन्द्रियाणि, 165पादादीनि च, आत्मा अन्तःकरणं, जीवो वा । एभिः स्वेनैवकर्त्रा निर्मितेषु भूतेषु देवादिषु निर्विष्टः जीवद्वाराऽनुप्रविष्टः तद्गुणान् पृथिव्यादि भूतगुणान् गन्धादीन् विषयान् भुङ्क्ते । जीवद्वारा विषयान् भुङ्क्ते न तु स्वत इत्यर्थः । भोक्तृत्व समव्याप्तं कर्तृत्वमप्यत्र विवक्षितं, जीवद्वारा पुण्यापुण्यरूपाणि कर्माणि च करोतीत्यर्थः । अत्र विश्वात्मे166त्युच्यमानं भोक्तृत्वं कर्तृत्वं च प्रयोजक167कर्तृत्वं विवक्षितम् ॥ ३३ ॥

॥ यद्वा ॥ सत्त्व रजस्तम इति प्रकृतेर्गुणाः स्युरित्यादिना सर्वकारणात् परमपुरुषादेवोपास्यमानात् नृणां श्रेयांसि कारणत्वे168नोपास्यत्व मोक्षप्रदत्वादीनां “कारणं तु ध्येयः, (अथ. शिखा. उ. 3) “अमृतस्यैष सेतुः” (मुण्ड. उ. 2-2-5) इत्यादि प्रमाणैरेकनिष्ठत्वावगमात्, न तु ब्रह्मरुद्रादिभ्यः तेषां कर्मवश्यत्व169सुखदुःखादि भोक्तृत्वादि नोपासकतुल्यत्वादिति सूचितम् । अथ तदुपपादनाय सर्वजीवानां परमपुरुषसृष्टकर्मानुगुणकरणकलेवरादि सम्बन्धं, तत्प्रयुक्तं कर्तृत्वं भोक्तृत्वमेषां कर्मवश्यत्व प्रयुक्तत्वे नौपाधिकत्वं, स्वभावतस्तु ज्ञानैकाकारत्वंचेत्याह - सएवेत्यादिभिश्चतुर्भिः । 170स एवेदमित्यस्य यथोक्त एवार्थः । तयेति । तया आत्ममायाया विलसितेषु रचितेषु एषु गुणेषु गुणकार्येषु ब्रह्मादिशरीरेष्वन्तःप्रविष्टो जीव इति शेषः । पुमानित्यस्योत्तरश्लोकादपकर्षो वा । विज्ञानेन स्वधर्मभूतज्ञानेन विजृम्भितः देहमात्मत्वेनाभिमन्वान इत्यर्थः । गुणवानिव देवत्वादि धर्मवानिवाभाति । देवोऽहं मनुष्योऽहं कृशोऽहं स्थूलोऽहं इत्यभिमन्यत इत्यर्थः । इव शब्देन वस्तुतो देहविलक्षणस्तद्गतधर्मैरस्पृष्ट एवेति सूच्यते ॥ क ॥

तदेव दृष्टान्तेनोपपादयति - यथेति । यथैक एव वह्निः स्वयोनिषु स्वाभिव्यक्ति स्थानेषु तृणपर्णदिषु अभिव्यक्तो नानेव भाति, तार्णत्वपार्णत्वादि भेदेन भाति । इव शब्देन वस्तुतो वह्नित्वेन रूपेणैकरूप एव । एवं विश्वात्मा विश्वस्याचेतनजातस्यात्मा पुमान् जीवोऽपि भूतेषु देवादिशरीरेषु नानेव भाति देवोऽहं मनुष्योऽहं इत्यादिरूपेण नाना भाति । वस्तुतो ज्ञानैकाकारेण एकरूप एवेत्यर्थः । पुमानिति जात्यभिप्रायक एकत्वनिर्देशः “एको व्रीहिः सुसम्पन्नः सुपुष्टं कुरुते प्रजा” इत्यत्र व्रीहिशब्दवत् । एवं च जीवैकत्वभ्रमो न कार्यः । दृष्टान्तेऽपि वह्नित्वेन 171एकेनापि 172व्यक्तिभेदोऽभिप्रेतः । न चैवमेकैकस्य जीवस्य देवादिशरीरस्थस्य युगपन्नानाप्रतिभानाभाव इति वाच्यम् । एकैक एव जीवः क्रमेण देवमनुष्यादिशरीराण्युपाददानः देवोऽहं मनुष्योऽहं इत्याभातीत्येवमभिप्रायात् । न हि दृष्टान्तेऽपि तार्णस्य वह्नेः पार्णत्वेन भानमस्ति ॥ ख ॥

असौ जीवः गुणमयैः सत्त्वादिगुणत्रयात्मक भगवन्मायापरिणामरूपैः पृथिव्यादिभूत गन्धादितन्मात्रा173 ज्ञानेन्द्रियय कर्मेन्द्रियान्तःकरणैर्भावैः पदार्थैः स्वनिर्मितेषु स्वकर्मानुसारेण निर्मितेषु भूतेषु देवादिशरीरेषु निर्विष्टः गुणान् शब्दादिविषयान् भुङ्क्ते । तन्निमित्तानि कर्माणि च पुण्यापुण्यरूपाणि करोतीति च विवक्षितं वेदितव्यम् । यद्वा तया विलसितेष्वित्यादिभिः केवलं परमात्मैव प्रतिपाद्यते । तदा विज्ञानेनेत्यस्य सङ्कल्परूपज्ञानेनेत्यर्थः । पुमान् परमपुरुषः गुणान् भुङ्क्ते इत्यस्य लीलारसरूपान् गुणान् भुङ्क्ते इत्यर्थः ॥ ग ॥

श्लोक-३४

विश्वास-प्रस्तुतिः

भावयत्येष सत्त्वेन लोकान् वै लोकभावनः।
लीलावतारानुरतो देवतिर्यङ्नरादिषु॥

मूलम्

भावय174त्येव सत्त्वेन लोकान् वै लोकभावनः।
लीलावतारानुरतः175 176देवतिर्यङ्नरादिषु॥ ३४ ॥

अनुवाद (हिन्दी)

वे ही सम्पूर्ण लोकोंकी रचना करते हैं और देवता, पशु-पक्षी, मनुष्य आदि योनियोंमें लीलावतार ग्रहण करके सत्त्वगुणके द्वारा जीवोंका पालन-पोषण करते हैं॥ ३४॥

अनुवाद (समाप्ति)

इति श्रीमद‍्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः॥ २॥

वीरराघवः

तदेवं “पुंसा मेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि " (भाग 1-1-9) इत्यस्योत्तरमुक्तम्177 । “सूत जानासि भद्रं ते” (भाग 1-1-12) इत्यादिना श्रीकृष्णावतारं तच्चरित्रं तदितरावतार तच्चरित्रादिकं च पृष्टम् । तत्र श्रीकृष्णावतारं तच्चरित्रादिकं विशिष्य दशमैकादशस्कन्धाभ्यां सर्वावतारां स्तच्चरित्राणि च विशिष्य तत्र तत्र तृतीयादिषु विवक्षुस्तावत्समासतः सर्वावतारसाधारणं प्रयोजनमाह - भावय178न्निति । एष सर्वेश्वरो लोकस्रष्टृत्वेन लोकान् भावयन् कर्मवश्यांश्चेतनान् उज्जीवयितुं सत्त्वेनोपलक्षितः शुद्धसत्त्वमूर्तिः तिर्यङ्नरसुरादिषु लीलावतारेष्वनुरतो भवति । भावयतीति पाठे लोकभावनो लोकस्रष्टा 179एव सर्वेश्वरः तिर्यगादिषु मत्स्यादिषु मध्ये ये 180लीलया अवतारास्तेष्वनुरतः । लीलावतारैर्भक्तेष्वनुरतो वा सत्त्वेन लोकान् भावयति त्रायति । साधुपरित्राणाय मत्स्याद्यवतारं धत्त इत्यर्थः ॥ ३४ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे श्रीवीरराघवविदुषा लिखितायां भागवतचन्द्रचन्द्रिकायां व्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥


  1. H सम्पृष्ट सम्प्रश्नः ; M सम्प्रश्न सम्पृष्टः ; v सम्प्रश्न सन्तुष्टः ↩︎

  2. W संपृष्टनिःश्रेय ↩︎

  3. W चरित्रसूतः ↩︎

  4. W श्नान ↩︎

  5. W संप्रश्नैः समोचीनैः ↩︎

  6. M ऽपि ↩︎

  7. A,B रः ↩︎

  8. A,B दैवपैत्रादीन् ↩︎

  9. W क्यस्थ ↩︎

  10. W adds तेन ↩︎

  11. W adds ज्ञान ↩︎

  12. W ऽधिष्ठात्रधिष्ठेय ↩︎

  13. W धोऽत्र ↩︎

  14. W सर्वा ↩︎

  15. W द ↩︎

  16. W तृ ↩︎

  17. H,V मतितीरषतां ↩︎

  18. W adds यद्वा ↩︎

  19. A,B omit श्रुतीनां ↩︎

  20. W प्यत्र ↩︎

  21. W नीत्यध्यात्मम ↩︎

  22. A,B धायय ↩︎

  23. B चैव ↩︎

  24. M ग्रन्थ ↩︎

  25. W धा ↩︎

  26. M त्माऽऽशु ↩︎

  27. VF सं ↩︎

  28. मनु. स्मृ. 4-146 ↩︎

  29. A,B omit लोक…प्रथमा प्रयुक्ता ↩︎

  30. W त्व ↩︎

  31. W adds साधुरित्यर्थः कथं प्रश्नस्य लोकमङ्गलविषयकत्वं ? इत्यत आह यत्कृत कृष्णसम्प्रश्न इति । यद्यस्मात् कृष्णविषयकः सम्प्रश्नः ↩︎

  32. W य ↩︎

  33. W adds ततश्चित्तं सुप्रसीदति ↩︎

  34. W देच ↩︎

  35. M क्यव्यवहिता ↩︎

  36. M त्माऽऽशु ↩︎

  37. B,H,I,V सुप्र ↩︎

  38. W adds जन्म ↩︎

  39. W त्सङ्गादि ↩︎

  40. W त्स्व ↩︎

  41. W adds पुंसां ↩︎

  42. N,VF यत्तद ↩︎

  43. W सो ↩︎

  44. A स्ते ↩︎

  45. W शयप्रियत्वं ↩︎

  46. A,B स्ववि ↩︎

  47. A,B वेदेन ↩︎

  48. A,B भ्य ↩︎

  49. A,B न ↩︎

  50. M कथाश्रयाम् ↩︎

  51. W adds जीवनार्थत्वं ↩︎ ↩︎

  52. H ह्यपवर्गस्य ↩︎

  53. M येह, W यप्र ↩︎

  54. W वर्गत्रयस्यापि ↩︎

  55. M स्या ↩︎

  56. H,M सो: ↩︎

  57. H,V व्य ↩︎

  58. V कथ्यते । ↩︎

  59. AF यः ↩︎

  60. M ति ↩︎

  61. W शमादि ↩︎

  62. W मुनयः ↩︎

  63. W adds पश्यन्ति । हे मुनय इति सम्बोधनं वा । तदा ये श्रद्दधाना स्ते ↩︎

  64. W शमदमादि ↩︎

  65. W विष्वक्सेनकथासु यः नोत्पादयेद्यदि रतिं इति ↩︎ ↩︎

  66. A,B omit व ↩︎

  67. W adds धर्मस्य ↩︎

  68. W निष्पत्ति ↩︎

  69. W तथा ↩︎

  70. W तद्धर्मापिनोद्यम् ↩︎

  71. H,V शः ↩︎

  72. W न ↩︎

  73. W चे ↩︎

  74. W तत्तुल्य ↩︎

  75. W adds ध्यानस्य ↩︎

  76. M ध्यायिनो ↩︎

  77. W च ↩︎

  78. W adds ग्रन्थिवत् ↩︎

  79. H,M,V रतिः ↩︎

  80. B,H,I,V थाः ↩︎

  81. AF GF भगवदाश्रया ↩︎

  82. A यो ↩︎

  83. B,W घ ↩︎

  84. W adds तदा ↩︎

  85. W राशुभव ↩︎

  86. H,V दि ↩︎

  87. A,B दि ↩︎

  88. H यो ↩︎

  89. W adds एव ↩︎

  90. B,W स्तु ↩︎

  91. B,W अन्तव ↩︎

  92. W adds तु ↩︎

  93. W परस्य चे ↩︎

  94. W सो ↩︎

  95. B,W बहुत्व ↩︎

  96. W कत्वरूपं विवाक्षितम् ↩︎

  97. W adds तद्भजनादेव ↩︎

  98. W omits एव ↩︎

  99. W एष्टव्यम् ↩︎

  100. A ह्य ↩︎

  101. W करणीं ↩︎

  102. W स संज्ञां ↩︎

  103. W याति ↩︎

  104. W omits न ↩︎

  105. W adds ते ↩︎

  106. W त् ↩︎

  107. W ते ↩︎

  108. W ग ↩︎

  109. W म ↩︎

  110. W दैवं ↩︎

  111. W त्परं ↩︎

  112. B,W णाद्यर्थ ↩︎

  113. B,W त्तरतर ↩︎ ↩︎

  114. B,W add सत्त्वं ↩︎

  115. A,B विशेषोऽपि ↩︎

  116. W स्वर्गसिद्ध्यौ ↩︎

  117. B स्ततृप्रति ↩︎

  118. W पाद्यत्रेता ↩︎

  119. W र्दृष्टादृष्ट ↩︎

  120. W दनन्तरं प्रवर्तकं रजः तदनन्तरं ↩︎

  121. M कल्पते नेतराविह ↩︎

  122. W दर्शनसाधनत्वं ↩︎

  123. W य ↩︎

  124. W adds ये तद्वत् ↩︎

  125. V तींस्तथा ↩︎

  126. AF GF कलां ↩︎

  127. AF GF शान्तां ↩︎

  128. H,V भजन्ते ↩︎

  129. W णैवो ↩︎

  130. W र्ति ↩︎

  131. M,W लान् ↩︎

  132. W तृन् ↩︎

  133. W श्रीः सम्यच्चै ↩︎

  134. W जनवत्त्व ↩︎

  135. W र्त ↩︎

  136. W इत्यादि श्रुतिस्मृत्युक्त ↩︎

  137. W वेदपूर्व ↩︎

  138. W adds प्रधानः ↩︎

  139. W ध्यो येषां ↩︎

  140. W जा ↩︎

  141. W adds वासुदेवपरं ↩︎

  142. W अवासुदेवात्मकवस्त्व ↩︎

  143. W पूर्वप्रस्तुत ↩︎

  144. W सो ↩︎

  145. W adds मायया ↩︎

  146. W प्रचुरया ↩︎

  147. W ष्व ↩︎

  148. W अथाप्य ↩︎

  149. W गत गुणैः ↩︎

  150. W adds गुणेषु ↩︎

  151. W ब्रह्मादि ↩︎

  152. W पर्यन्तशरीरेषिव ↩︎

  153. काण्वपाठसम्बन्धि विज्ञानपर्यायस्थाने माध्यन्दिनपाठे इदं वाक्यमुपलभ्यते ↩︎

  154. W भासमान: ↩︎

  155. A,B वां श्चेत ↩︎

  156. A,B ञ्चे ↩︎

  157. M व्य ↩︎

  158. W मत्र ↩︎

  159. W तूपादानं ↩︎

  160. W adds वायोरग्निः ↩︎

  161. W adds एव अभिव्यक्त ↩︎

  162. W एवासन् ↩︎

  163. W रक ↩︎

  164. W adds तु ↩︎

  165. W omits ↩︎

  166. त्मन्यु ↩︎

  167. W कत्वरूपं ↩︎

  168. W त्वोपा ↩︎

  169. W adds परमपुरुषसृज्यत्व ↩︎

  170. A,B omit स एवेदमित्यस्य ↩︎

  171. B एकेऽपि; W एकत्वेऽपि ↩︎

  172. B adds न; W adds तद् ↩︎

  173. W त्र ↩︎

  174. M,W न्ने ↩︎

  175. M ग ↩︎

  176. M तिर्यङ्नरसुरादिषु ↩︎

  177. W adds अथ यत् ↩︎

  178. A,B यतीति ↩︎

  179. W एष ↩︎

  180. W ल ↩︎