[[श्रीमद्भागवतम् Source: EB]]
\
॥ अथ श्रीमद्भागवते द्वादशस्कंधः प्रारभ्यते ॥ |
<MISSING_FIG href="../books_images/U-IMG-1724396303krishna.png"/>
द्वादशस्कंध - बालमुकुंद
श्रीकृष्णाय नमः॥ आश्रयः सर्वभूतानां स्वययो वै निराश्रयः॥ द्वादशस्कन्धटीकाया स एवास्तु ममाश्रयः॥१॥ एकत्रिंशद्भिरध्यायैर्विमुक्तिर्विनिरूपिता॥त्रयोदशभिरध्यायैराश्रयो विनिरूप्यते॥२॥ आश्रयो महदादीनां ब्रह्मादीना स्वयहरिः॥ नहि तेन विना भूत जगत्तिष्ठेन्निराश्रयम्॥३॥ तत्र तु प्रथमेऽध्याये भावी यो मागधान्वयः॥ कलिप्रभावतो दुष्टो वैराग्यार्थं निरूप्यते॥४॥ एवं नवमस्कन्धे श्रीकृष्णावतारपर्यन्ता सोमवशावलिं निरूप्य दशमैकादशस्कन्धाभ्या भगवतोऽवतारप्रभृति स्वधामगमनान्तानि चरितानि निरूपितानि श्रुत्वाऽथ भावि वशपरम्परोत्तरावधि बुभुत्सया राजा पृच्छति— स्वधामानुगत इति। यदुवंशस्य भूषणवच्छोभावहे श्रीकृष्णे स्वधामानुगते सति पृथ्व्या कस्य वशोऽभवत् हे मुने सर्वज्ञ एतन्मे मह्यमाचक्ष्व कथय॥१॥ एव पृष्टः शुक आह—य इति। बार्हद्रथो बृहद्रथवशे भवोऽन्त्यो यः पुरञ्जयाख्यो नृपःप्रोक्त इति शेषः। अस्यैव
श्रीकृष्णाय नमः॥ राजोवाच॥ स्वधामानुगते कृष्णे यदुवंशविभूषणे॥ कस्य वंशोऽभवत्पृथ्व्यामेतदाचक्ष्व मे मुने॥१॥ श्रीशुक उवाच॥ योऽन्त्यःपुरञ्जयो नाम [भाव्यो1बार्हद्रथो नृपः॥ तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥२॥प्रद्योतसज्ञं राजान कर्ता यस्यालकः सुतः॥ विशाखयूपस्तत्पुत्रो भविता राजकस्ततः॥३॥ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे॥ अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः॥४॥ शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः॥ क्षेमधर्मा तस्य सुतः क्षेत्रज्ञ क्षेमधर्मजः॥५॥ विधिसारः सुतस्तस्याजातशत्रुर्भविष्यति॥ दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः॥६॥ नन्दिवर्धन आजेयो महानन्दिःसुतस्ततः॥ शिशुनागा दशैवैते षष्ट्युत्तरशतत्रयम्॥७॥
रिपुञ्जय इति नामान्तरम्। तस्यामात्यः शुनकाख्यस्तु त स्वामिन पुरञ्जय हत्वा आत्मज स्वपुत्र प्रद्योतसज्ञ राजानं कर्त्ता करिष्यति। यस्य प्रद्योतस्य अलकः सुतो भविता। पालक इति पाठान्तरम्। तत्पुत्रः अलकपुत्रः ततो राजकः॥२॥३॥ इमे पञ्च प्रद्योतनाः प्रद्योतनप्रभृतयो नृपा अष्टत्रिंशोत्तरशत संवत्सरान्महीं भोक्ष्यन्ति पालयिष्यन्ति॥४॥ ततो नन्दिवर्द्धनात् शिशुनागाख्यसुतो भविता। तत्सुतः काकवर्णः तस्य सुतः क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः॥५॥ विधिसारस्य अजातशत्रुः सुतो भविष्यति॥६॥ आजेयः अजयस्य सुतो नन्दिवर्द्धनः। हे कुरुश्रेष्ठ शिशुनागादय एते दश नृपाः कलौ कलियुगे षष्ट्युत्तरशतत्रय समाः संवत्सरान् पृथ्वीं भोक्ष्यन्तीत्यन्वयः॥७॥
हे राजन् शूद्रीगर्भोद्भवो बली अधिकबलयुक्तः अतएव क्षत्रकुलविनाशकृत् महापद्मसङ्ख्यायाः सेनाया धनस्य वा पतिः नन्द इति ख्यातः। प्रसिद्धो।महानन्दिसुतो भविष्यतीत्यन्वयः॥८॥ ततः प्रभृति नृपाः शूद्रप्राया अधार्मिका भविष्यन्ति॥९॥ यः महापद्म इतिः नामैकदेशग्रहणम्। महाद्मपतिःअनुल्लङ्घितशासनः एकमेव च्छत्र राजचिह्न तस्यैव यस्या तथाभूता पृथिवीं शासिष्यति पालयिष्यति। क्षत्रोत्सादने दृष्टान्तमाह—द्वितीयो भार्गवःपरशुराम इव॥१०॥ ये सुताः शतं समाः संवत्सरान्॥११॥ नन्दान् इति नन्दशब्दः तत्परस्तत्सुतपरश्च ‘आत्मा वै पुत्रनामाऽसि’इति श्रुत्यनुरोधात्। अतएव नन्दानिति बहुवचन न वेति विशेषणं च। तान् नन्दादीन् प्रपन्नान् विश्वस्तान् कश्चिद्विश्वस्तघातुको दुष्टः कौटिल्यवा-
समा भोक्ष्यन्ति पृथिवी कुरुश्रेष्ठ कलौ नृपाः॥ महानन्दिसुतो राजन् शूद्रीगर्भोद्भवो बली॥८॥ महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत्॥ ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिकाः॥९॥ स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः॥शासिष्यति महापद्मो द्वितीय इव भार्गवः॥१०॥ तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः॥ य इमांभोक्ष्यन्ति महीं राजानः स्म शतं समाः॥११॥ नव नन्दान् द्विजः कश्चित्प्रपन्नानुद्धरिष्यति॥ तेषामभावे जगती मौर्या भोक्ष्यन्ति वै कलौ॥१२॥ स एव चन्द्रगुप्त वै द्विजो राज्येऽभिषेक्ष्यति॥ तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः॥१३॥ सुयशा भविता तस्य सङ्गतः सुयशः सुतः॥ शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति॥१४॥ शतधन्वा ततस्तस्य भविता तद्बृहद्रथः॥ मौर्या ह्येते दश नृपाः सप्तत्रिशच्छतोत्तरम्॥ समा भोक्ष्यन्ति पृथिवी कलौ कुरुकुलोद्वह॥१५॥
त्स्यायनादिपर्यायश्चाणक्याख्यो द्विज उद्धरिष्यति उन्मूलयिष्यति विनाशयिष्यति। ततश्च तेषा सपितृकाणा सुमाल्यादीनामभावे सोमवंशे समाप्ते कलौ।जगतीं पृथिवीं मौर्या मौर्यसज्ञका भोक्ष्यन्ति॥१२॥कथं भोक्ष्यन्तीत्यपेक्षायामाह— स एवेति त्रिभिः। स एव द्विजश्चन्द्रगुप्तसज्ञ प्रथमं मौर्यं राज्येऽभि षेक्ष्यति। तत्सुतः तस्य चन्द्रगुप्तस्य सुतः॥१३॥ सुयशः सुतः सङ्गतसज्ञकः॥१४॥ यद्यपि चन्द्रगुप्तादयो नवैव तथापि पराशरादिभिश्चन्द्रगुप्तात्प्रथमो दशरथ उक्तस्तत्साहित्येन एते दशेत्युक्त ज्ञेयम्। सप्तत्रिशच्छतोत्तर सप्तत्रिंशदुत्तरशत समाः भोक्ष्यन्ति। कुरुकुलोद्वहेति सम्बोधनम्॥१५॥
बृहद्रथस्य सेनानीः पुष्यमित्रो नाम स्वामिन हत्वा स्वयं राज्य करिष्यति। स च न तद्वश्यः किन्तु शुङ्गाना प्रथमस्तेन सहाग्निमित्रादयो दश। दशवर्षशताधिक द्वादशाधिक वर्षशतम् त्रयाणामन्वयः॥१६॥१७॥ १८॥ कथ कण्वान्यास्यति तदाह—शुङ्गमिति। कामिन परस्त्रीलम्पटदेवभूतिनामान शुङ्गहत्वा तदमात्यो वसुदेवनामा कण्वो राज्य स्वय करिष्यति। महामतिः राजकार्ये निपुणबुद्धिः॥१९॥ कण्वाना चतुर्थः सुशर्मा ज्ञेयः। इमे वसुदेवादयः कण्वायना वर्षाणा त्रीणि शतानि पञ्चचत्वारिशद्वर्षाणि च भूमि भोक्ष्यन्ति॥२०॥ तद्भृत्यः सुशर्मणो भृत्योऽन्ध्रजातीयो
अग्निमित्रस्ततस्तस्मात्सुज्येष्ठोऽथ भविष्यति॥ वसुमित्रो भद्रकश्च पुलिन्दो भविता सुत2ः॥१६॥ ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति॥ ततो भागवतस्तस्माद्देवभूतिरिति श्रुतः॥१७॥ शुङ्गा दशैते भोक्ष्यन्ति भूमि वर्षशताधिकम्॥ ततः कण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप॥१८॥ शुङ्गंहत्वा देवभूतिं कण्वोऽमात्यस्तु कामिनम्॥ स्वयं करिष्यते राज्यं वसुदेवो महामतिः॥१९॥ तस्य पुत्रस्तु भूमित्रस्तस्य नारायणःसुतः॥ काण्वायना इमे भूमि चत्वारिंशच्च पञ्च च॥ शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे॥२०॥ हत्वा काण्वं सुशर्माणं तद्भ्टत्यो वृषलो बली॥ गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः॥२१॥ कृष्णनामाऽथ तद्भ्राता भविता पृथिवीपतिः॥ श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः॥२२॥ लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः॥ मेघस्वातिश्चिबिलकादटमानस्तु तस्य च॥२३॥ अनिष्टकर्मा हालेयस्तलकस्तस्य चाऽऽत्मजः॥ पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः॥२४॥ चकोरोऽनवमो यत्र शिवस्वातिररिन्दम। तस्यापि गोमतीपुत्रः पुरीमान्भविता ततः॥२५॥
वृषलः शूद्रः बली बलवान्। बलीकनामा अन्तिम काण्व सुशर्माण हत्वा कञ्चित्काल गा भूमिं भोक्ष्यति॥२१॥ तद्भ्राता बलीकभ्राता॥२२॥॥२३॥ अनिष्टकर्मा अटमानस्य सुतः। तस्य सुतो हालेयः। तस्य चात्मजस्तलकः॥२४॥ सुनन्दनस्य चकोराख्यः सुतः तस्य सुतः अनवमः।तस्य शिवस्वातिः सुतः तस्य अरिन्दमस्तस्य गोमत्याख्यः पुत्रः॥२५॥
पुरीमतः सुतो मेदशिराः। तस्य सुतः शिवस्कन्दस्ततस्तस्मात् यज्ञश्रीः सुतो जातः तस्य सुतो विजयः। तस्य चन्द्रविज्ञः तस्य सलोमधिः॥२६॥ एते बलीकप्रभृतयः पञ्चविंशति नृपतयः त्रिंशच्च चत्वार्यब्दशतानि च षट्पञ्चाशच्चएवं षडशीत्युत्तरचतुश्शतवर्षाणि पृथिवीं भोक्ष्यन्तीत्यन्वयः॥२७॥ आवभृत्यसंज्ञकाः आभीरजातीयाः सप्त। गर्दभिसंज्ञका दश। कङ्कसज्ञकाः षोडश। ते च सर्व एव लोलुपा विषयासक्ताः॥२८॥॥२९॥ एते मौनव्यतिरिक्ताः आभीरादयः पञ्चषष्टिनृपा एकोनशताधिकं वर्षसहस्रं पृथिवीं भोक्ष्यन्ति। ततश्च पूर्वोक्ता एवैकादश मौनाःत्रीण्य-
मेदशिराः शिवस्कन्दो यज्ञ श्रीस्तत्सुतस्ततः॥ विजयस्तत्सुतो भाव्यश्चन्द्रविज्ञः सलोमधिः॥२६॥ एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च॥ षट्पञ्चाशच्चपृथिवीं भोक्ष्यन्ति कुरुनन्दन॥२७॥ सप्ताभीरा आवभृत्या दशगर्दभिनो नृपाः॥ कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः॥२८॥ ततोऽष्टौ यवना भाव्याश्चतुर्दश चतुष्कराः3॥ भूयो दश मुरुण्डाश्च मौना एकादशैव तु॥२९॥ एते भोक्ष्यन्ति पृथिवी दश वर्षशतानि च। नवाधिकां च नवति मौना एकादश क्षितिम्॥ भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः॥३०॥ किलिकिलाया नृपतयो भूतनन्दोऽथ वङ्गिरिः॥ शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवरिकः॥ इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट्॥३१॥ तेषांत्रयोदशसुता भवितारश्च बाह्लिकाः॥ पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च॥३२॥ एककाला इमे भूपाः सप्तान्ध्राःसप्त कौशलाः॥ विदूरपतयो भाव्या निषधास्तत एव हि॥३३॥
ब्दशतानि क्षिति भोक्ष्यन्ति। ततश्च तैः सस्थिते तेषु मौनेषु मृतेषु सत्सु किलिकिलाया पुर्यांभृतनन्दादयो नृपतयो भविष्यन्तीत्युत्तरेणान्वयः॥३०॥इत्येते च षडधिकानि वर्षशत महीं भोक्ष्यन्तीति शेषः॥३१॥ तेषा भूतनन्दादीनां यथायथ बाह्लिकास्तन्नामानस्त्रयोदश सुता भविष्यन्ति। अथ च पुष्यमित्रो नामान्यो राजन्यो भविष्यति। अस्य च दुर्मित्रो नाम पुत्रो भविष्यति॥३२॥ तथा आन्ध्राः कौशलाः वैदूरपतयः। निषधाश्चैते च तत्तद्देशनामभिः प्रख्यातास्तुल्यकालाः खण्डमण्डलेषु भूपास्तत एव तेभ्यो बाह्लिकेभ्य एव भाव्या भविष्यन्ति॥३३॥
ततश्च मागधाना तु वशे विश्वरफूर्जिर्नाम भविता। ततश्च पुरञ्जयः स च परः प्रतापेनातिप्रसिद्धः। अन्यानेव वर्णान् ब्राह्मणादिस्थानीयान् पुलिन्दयदुमद्रकसज्ञान् म्लेच्छप्रायान् करिष्यति। अपरानिति वा पाठः॥३४॥ स च पद्मवत्या पुरि स्थितः यतो वीर्यवान् अतः क्षत्रमुत्साद्य अब्रह्मभूयिष्ठाः अत्रैवर्ण्यप्रचुराः प्रजाः स्थापयिष्यति। अनुगङ्गा गङ्गाद्वारमारभ्य प्रयागपर्यन्तं गुप्ता पालिता मेदिनीं भोक्ष्यति॥३५॥ तदनन्तरं च सौराष्ट्रादिदेशवर्तिनो द्विजाः व्रात्या उपनयनरहिताः अतएव शुद्रप्राया जनाधिपा राजानो भविष्यन्ति॥३६॥ कौन्तीं पुरीम्। अब्रह्मवर्चसः वेदाचारशून्याः॥३७॥ इमे च म्लेच्छप्राया भूभृततुल्यकाला भविष्यन्ति। किञ्च एते सर्वे अधर्माऽनृतपराः अधर्मे अनृते च परिनिष्ठिताः फल्गुदाः
मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः॥ करिष्यत्यपरो4 वर्णान्पुलिन्दयदुमद्रकान्॥३४॥ प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः॥ वीर्यवान्क्षञ्रमुत्साद्य पद्मवत्यां स वै पुरि॥ अनुगङ्गामाप्रयागं गुप्तां भोक्ष्यति मेदिनीम्॥३५॥ सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः॥ व्रात्या द्विजा भविष्यन्ति शुद्रप्राया जनाधिपाः॥३६॥ सिन्धोस्तटं चन्द्रभागा कौन्ती काश्मीरमण्डलम्॥ भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः॥३७॥ तुल्यकाला इमे राजन् म्लेच्छप्रायाश्च भूभृतः॥ एतेऽधर्माऽनृतपराः फल्गुदास्तीव्रमन्यवः॥३८॥ स्त्रीबालगोद्विजध्नाश्च परदारधनादृताः॥ उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः॥३९॥ असंस्कृताः क्रियाहीना रजसा तमसा वृताः॥ प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः॥४०॥ तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः॥ अन्योऽन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः॥४१॥
अल्पदातारः। तीव्रमन्यवः अतिक्रोधिनः॥३८॥ स्त्र्यादिघातिनः परदारधनयोरादृताआदरयुक्ताः तद्ग्रहणशीलाः। उदितप्रायाः अस्तमितप्रायाश्च। ‘क्षणे तुष्टाः क्षणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे’ अल्पसत्त्वाः अल्पधैर्यबलादियुक्ताः अल्पायुषश्च॥३९॥ असस्कृताः गर्भाधानादिसस्काररहिताः स्ववर्णाश्रमोचितक्रियाहीनाः। तत्र हेतुः—रजसा तमसा वृता इति। अतो म्लेच्छाः प्रजाः भक्षयिष्यन्ति धनाद्यपहारादिना पीडयिष्यन्ति॥४०॥ किञ्च तन्नाथास्ते उक्तविधा नाथा येषां ते जनपदा देशवर्त्तिनो मनुष्यास्तेषामिव शीलमाचारो वादश्च तद्वन्तः अन्योऽन्यतो राजतश्च पीडिताः
क्षय यास्यन्ति॥४१॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र विश्वाश्रयनिरूपणे॥ प्रथमो विवृतो भावि सोमवशनिरूपकः॥३॥॥छ॥ द्वितीये तु कलेर्दोषवृद्धौकल्क्यवतारतः॥ अधर्मिष्ठे जने नष्टे कृतागमो निरूप्यते॥१॥ कुत एव विपर्यय इत्यपेक्षाया कलिकालदोषादित्याह**—** ततश्चेति। हे राजन् बलिना कालेन ततोऽग्रेऽनुदिन धर्मादि नङ्क्ष्यतीत्यन्वयः। स्मृतिः कर्त्तव्याकर्त्तव्यानुसन्धानम्॥१॥ जन्मनिमित्तः सदाचारनिमित्तो वा यो गुणः लोके उत्कर्षस्तस्योदयो यस्मात्तथाभूत वित्तमेव। वित्तवतो नीचस्याप्युत्कर्षः। न तु तद्धीनस्योत्तमकुलोत्पत्त्यादिमतोऽपीत्यर्थः। तथा धर्मन्याययोर्व्यवस्थाया धनाभिजनादिबलमेव कारण न तु यथार्थतेत्यर्थः॥२॥ दाम्पत्ये भार्यापतिभावे परस्पराभि-
इति श्रीमद्भा० महा० द्वादशस्कन्धे आश्रयनिरूपणे भाविसोमवंशनिरूपणं नाम प्रथमोऽध्याय॥१॥ ॥छ॥ श्रीशुक उवाच॥ ततश्चानुदिनं धर्मसत्यं शौच क्षमा दया॥कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः॥१॥ वित्तमेव कलौ नॄणां जन्माचारगुणोदयः॥ धर्मन्यायव्यवस्थायां कारणं बलमेव हि॥२॥ दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके॥ स्त्रीत्वे पुस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि॥३॥ लिङ्गमेवाऽऽश्रमख्यातावन्योऽन्यापत्तिकारणम्॥ अवृत्या न्यायदौर्बल्य पाण्डित्ये चापलं वचः॥४॥ अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु॥ स्वीकार एव चोद्वाहेस्नानमेव प्रसाधनम्॥५॥
रुचिरेव हेतुः—न कुलगोत्रवृद्धेच्छादिः। व्यावहारिके क्रयविक्रयादिव्यापारे मायावञ्चनमेव हेतुर्न तु निष्कपटतया वर्त्तनम्। स्त्रीत्वे पुंस्त्वे च तयोः श्रैष्ठ्ये रतिकौशलमेव हेतुः नकुलमाचारो वा। विप्रत्वे सूत्रधारणमेव न तु शौचसन्तोषादिविप्रलक्षणम्॥३॥ आश्रमाणा ख्यातौ ज्ञाने लिङ्गमेव दण्डाजिनादिकमेव हेतुर्न त्वाचारविशेषः। अन्योऽन्यापत्तौ परस्परनमस्कारादिव्यवहारे च करण लिङ्गमेवेत्यन्वयः। अवृत्त्या धनादिदानासामर्थ्येन न्याये दौर्बल्य पराजयो भवति। पाण्डित्ये चापल वचः बहुभाषणमेव कारण न तु विद्याभ्यासः॥४॥ असाधुत्वे नीचत्वे अनाढ्यता दरिद्रतैवहेतुः न जात्यादि। साधुत्वे उत्कृष्टत्वे च दम्भः देहालङ्कारो हेतुर्न त्वाचारः। उद्वाहे विवाहे परस्परस्वीकार एव हेतुः न तु शास्त्रीयो विधिः। प्रसाधन देहमलापनयनमेव स्नान न तु शास्त्रीय तीर्थावगाहनम्॥५॥
दूरे वर्त्तमान वार्ययनं जलाशय एव तीर्थं न तु गङ्गादि वा। लावण्ये निमित्ते केशधारणमेव भूषणादेरविद्यमानत्वात्। उदरभरणमेव स्वार्थः परमपुरुषार्थः न तु धर्मादिः। सत्यत्वे धाष्टर्यमेव हेतुः—न तु यथार्थभाषणम्॥६॥ दाक्ष्य निपुणतया सामर्थ्यं कुटुम्बभरणमेव न तु धर्मादिपुरुषार्थ सम्पादनम्। यशोर्थे धर्मसेवन न तु परलोकार्थे॥७॥ एव दुष्टाभिः प्रजाभिः क्षितिमण्डले आकीर्णे व्याप्ते सति ब्राह्मणादीना मध्ये यो बली स एव नृपो भवितेत्यन्वयः॥८॥ लुब्धैरर्थकामपरैरतएव निर्घृणैर्निष्कृपैर्दस्युधर्मभिर्लुम्पकैः राजन्यैराच्छिन्ना अपहृता दाराद्रविणानि यासा ताः प्रजा गिरिकाननमेव यास्यन्ति॥९॥ तत्र शाकादिभोजनाः। तत्र क्षौद्र मधु। अष्टिर्बीजम्। तत्राप्यनावृष्टया यो दुर्भिक्षः आहारालाभः करश्च स्वामिग्राह्यो
दूरे वार्ययनं तीर्थं लावण्यं केशधारणम्॥उदरम्भरणं स्वार्थ5 सत्यत्वे धाष्टर्यमेव हि॥६॥ दाक्ष्य कुटुम्बभरणं यशोर्थे धर्मसेवनम्॥७॥ एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले। ब्रह्मविदक्षञ्रशुद्राणां यो बली भविता नृपः॥८॥ प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः॥ आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम्॥९॥ शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः॥अनावृष्ट्या विनड्क्षयन्ति दुर्भिक्षकरपीडिताः॥ शीतवातातपप्रावृड्हिमैरन्योऽन्यतःप्रजा॥१०॥ क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया॥ त्रिंशद्विशतिवर्षाणि परमायुः कलौ नृणाम्॥११॥ क्षीयमाणेषु देहेषु देहिनां कलिदोषतः॥ वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम्॥१२॥ पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु॥ चौर्यानृतवृथाहिसानानावृत्तिषु वै नृषु॥१३॥
भागस्ताभ्यां पीडिताः। तथा शीतादिभिरन्योन्यतश्च पीडिताः प्रजा नड्क्षयन्तीत्यन्वयः॥१०॥ तथा क्षुधादिभिर्निमित्तैः कलौ त्रिशद्दिशतिवर्षाणिनृणा परमायुर्भविष्यतीति शेषः। व्याधिभिः रोगैः। सन्तापेन आध्यात्मिकादित्रिविधदुःखेन। चिन्तया शोकेन॥११॥ क्षीयमाणेष्वित्यादिसप्तम्यन्ताना इत्थं कलौ गतप्राय इति पञ्चमेनान्वयः। क्षीयमाणेषु हस्वप्रमाणेषु दुर्बलेषु। धर्मे वेदमार्गे च नष्टे सति॥१२॥ पाखण्डप्रचुरेषु स्वस्वमतकल्पितवेदविरुद्धधर्मनिश्चितेषु धर्मेषु। वेदविरुद्धस्यैव पाखण्डत्वात्। दस्युप्रायेषु येन केनापि प्रकारेण धनादिग्रहणतात्पर्येषु चौर्यानृतवृथाहिंसाद्या नाना
वृत्तयो येषा ते तथाभूतेषु सत्सु नृषु॥१३॥ शूद्रप्रायेषु स्वस्वाचारभ्रष्टेषु ब्राह्मणादिवर्णेषु। छागप्रायासु प्रमाणतः क्षीरतश्च अजातुल्यासु। सन्न्यासाद्याश्रमेषु गृहप्रायेषु गृहिवन्मैथुनादिविषयभोगपरायणेषु। बन्धुषु यौनप्रायेषु योनिसम्बन्धो यौनस्तत्प्रायेषु॥१४॥अणुप्रायासु अतिसूक्ष्मासु स्थास्नुषु महावृक्षेषु शमीप्रायेषु परिमाणतःच्छायातः फलतश्च शमीवद्ध्रस्वेषु। मेघेषु विद्युत्प्रायेषु तडिद्बहुलेषु स्वल्पजलेषु। सद्मसु गृहेषु शून्यप्रायेषु अतिथिभोजनादिधर्मरहितेषु सत्सु॥१५॥ इत्थ जनेषु खरधर्मिणि दुस्सहचेष्टिते कलौ गतप्राये समाप्तप्राये सति। भगवान्धर्मत्राणाय शुद्धसत्त्वमयेन वपुषाऽवतरिष्यति॥१६॥ धर्मरक्षाया सामर्थ्यमाह— चराचरगुरोः पूज्यस्येति। तत्र हेतुः— ईश्वरस्येति। तत्र हेतुः*—* अखिलात्मनःसर्वकारणस्येति। एवम्भूतस्य विष्णोर्जन्म साधूना धर्मत्राणाय। धर्मत्राणप्रयोजनमाह—कर्मापनुत्तय इति, धर्मादिपुरुषार्थचतुष्टयप्रतिबन्धनससारदुःखहेतुदुरितविनाशायेत्यर्थः॥१७॥
शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु॥ गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु॥१४॥ अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु॥विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु॥१५॥इत्थ कलौ गतप्राये जनेषु
१
खरधर्मिणि॥ धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति॥१६॥ चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः॥ धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये॥१७॥ शम्भलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः। भवने विष्णुयशसःकल्किःप्रादुर्भविष्यति॥१८॥ अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः॥ असिनाऽसाधुदमनमष्टैश्वर्यगुणान्वितः॥१९॥ विचरन्नाशुना क्षोण्यां हयेनाप्रतिमद्युतिः॥ नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति॥२०॥
किं नामा क्वावतरिष्यतीत्यपेक्षायामाह—शम्मलग्रामे मुख्यस्य श्रेष्ठस्य तत्र हेतुः— महात्मनो भक्तस्य नाम्ना विष्णुयशसो ब्राह्मणस्य भवने कल्किर्नाम भगवान्प्रादुर्भविष्यति॥१८॥ धर्मत्राणप्रकारमाह—अश्वमिति द्वयेन। आशु शीघ्र गच्छतीति तथा तमसाधवो दम्यन्ते येन तं देवदत्तनामानमश्वमारुत्द्यजगत्पतिः कल्किः आशुना शीघ्रगामिना तेन हयेन क्षोण्या विचरन् नृपलिङ्गच्छदः राजवेषेण छन्नान् कर्मणा तु दस्यून् कोटिशोऽसिना निहनिष्यतीति द्वयोरन्वयः। तत्र सामर्थ्यमाह— अप्रतिमद्युतिरिति। तत्र हेतुमाह—अष्टैश्वर्याणि अणिमादीनि। गुणाश्च सत्यसङ्कल्पशौर्यादयस्तैरन्वित॥ इति॥१९॥२०॥
_________________________________________________________________
१.
जने त्विति क्वचित्पाठ। तत्र खरधर्मणीति जन इत्यस्य विशेषणम्।
एवमखिलेषु दस्युषु उपद्रवकारिषु अधर्मिषु हतेषु सत्सु अथानन्तर तेषा पौरजानपदाना जनाना मनांसि विशदानि विवेकयोग्यानि निर्मलानिभविष्यन्ति। तत्र हेतुमाह—वासुदेवस्य भगवतः कल्केरङ्गरागेण चन्दनादिना योऽतिपुण्यगन्धोऽनिलस्त स्पृशन्तीति तथा तेषामिति॥२१॥ तेषा जनाना प्रजाविसर्गःपुत्राद्युत्पत्तिरूपः स्थविष्ठःस्थूलो विस्तृतः सम्भविष्यति। तत्र हेतुमाह– वासुदेव इति॥२२॥ तदा पुनः कृतयुगप्रवृत्तिमाह— यदेति। हरिःसाधु दुःखहर्त्ता धर्मपतिः धर्मपालको भगवान् कल्किर्यदावतीर्णो भविष्यति तदा कृतयुग भविष्यति। प्रजाना प्रसूतिश्च सात्विकी भविष्यति॥२३॥ कृतयुगप्रवृत्तिकालोपलक्षणमाह**—**
यदेति। तिष्यः पुष्यः। यदा सूर्यादयश्चत्वारः एकराशौ तत्रापि पुष्यनक्षत्रे समेष्यन्ति सहैव प्रवेक्ष्यन्ति तदा तत्कृतयुग भविष्यतीत्यन्वयः॥२४॥ एव नवमस्कन्धमारभ्यानुक्रान्तवैवस्वतमनोर्वशद्वय निगमयति—
अथ तेषां भविष्यन्ति मनांसि विशदानि वै॥ वासुदेवाङ्गरागातिपुण्यगन्धानिलस्पृशाम्॥पौरजानपदानां वै हतेष्वखिलदस्युषु॥२९॥ तेषा प्रजाविसर्गश्च स्थविष्ठ सम्भविष्यति॥ वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते॥२२॥ यदाऽवतीर्णो भगवान्कल्किर्धर्मपतिर्हरि•॥ कृतं भविष्यति तदा प्रजासूतिश्च सात्विकी॥२३॥यदा चन्द्रश्च सूर्यश्चतथा तिष्यबृहस्पती॥ एकराशौ समेष्यन्ति तदा भवति सत्कृतम्॥२४॥ येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः॥ते त उद्देशतः प्रोक्ता वशीयाः सोमसूर्ययोः॥२५॥ आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम्॥ एतद्वर्षसहस्र तु शतं पञ्चदशोत्तरम्॥२६॥ सप्तर्षीणा तु यौ दृश्ये पूर्वैते उदितौ दिवि॥ तयोस्तु मध्ये नक्षत्रं दृश्यते यत्सम निशि॥२७॥
येऽतीता इति। उद्देशतः क्रमेण सङ्क्षेपतः॥२५॥ मज्जन्मप्रभृति यावत्सोमवशसमाप्ति कियान्कालो भविष्यतीत्यभिप्रायमालक्ष्याह—आरभ्येतिनन्दाभिषेचनपर्यन्तैव सोमवशानुवृत्तिरतो यावन्नन्दाभिषेचनमित्युक्तम्।वर्षसहस्रं पञ्चदशोत्तर शत चेति कयापि विवक्षयाऽवान्तरसङ्ख्येयम्। वस्तुतस्तु परीक्षिन्नन्दयोरन्तर द्वाभ्यामूनं वर्षाणां सार्द्धसहस्रं भवति। यतः परीक्षित्समकाल मागध मार्जरिमारभ्य रिपुञ्जयान्तविशती राजानः सहस्रसंवत्सर भोक्ष्यन्तीति नवमस्कन्धे उक्तम्। ये बार्हद्रथभूपाला भाव्याः साहस्रवत्सरमिति। ततः पर च प्रद्योतना अष्टत्रिशोत्तरशतम्। शिशुनागाश्च षष्टयुत्तरशतत्रय भोक्ष्यन्ति पृथिवीमित्यत्रैवोक्तत्वात्॥२६॥ कलेः प्रवेशो वृद्धिश्च कदेत्यपेक्षायामाह —सप्तर्षीणा त्विति। अत्रायमर्थः।
प्रागग्रशकटाकारं तारासप्तक सप्तर्षिमण्डल तत्र किञ्चिदुन्नतरेखाग्रस्थानीयो मरीचिस्ततः पश्चादानम्रयुगकन्धराकारो वसिष्ठः सभार्यः ततः पश्चादीषदुन्नतरेखामूलस्थानीयोऽङ्गिरास्ततः पश्चाच्चतुरस्रताराचतुष्के ईशान्ये अत्रिस्ततो दक्षिणतः पुलस्त्यः पुलस्त्यात्पश्चिमतः पुलहः तत उत्तरतःक्रतुः एव स्थिते तेषा सप्तर्षीणा मध्ये यौ पूर्वौउदयसमये प्रथममुदितौ पुलहऋतुसंज्ञौ तयोस्तु मध्ये यत्सम दक्षिणतः समदेशावस्थितमश्विन्यादिष्वन्यतमंनक्षत्र निशि दृश्यते॥२७॥ तेन युक्ता एत ऋषयो नृणामब्दशत तिष्ठन्ति। ते च द्विजास्त्वदीये काले अधुना मघाःआश्रिता वर्तन्ते। तथा पूर्वयोःक्रतुपुलहयोर्मघाना च साम्यावस्थित्त्युपक्रमकाल एव कलिप्रवेशकाल इति सूचितम्॥२८॥ एव पूर्वतः प्रविष्टोऽपि कलिर्यावद्भगवतोविष्णोर्भातीति भानुरवतारः कृष्णाख्यः पादपद्माभ्या पृथिवीं स्पृशन्नास्ते स्म तावत्स पृथिवीं पराक्रान्तुमभिभवितु नाशकत न समर्थोऽभूत्। यदा तु
तेनैत ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम्॥ ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः॥२८॥ विष्णोर्भगवतो भानुःकृष्णाख्योऽसौ दिवं गतः ॥ तदाऽविशत्कलिर्लोक पापे यद्रमते जनः॥२९॥ यावत्स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः॥ तावत्कलिर्वै पृथिवी पराक्रान्तु न चाशकत्॥३०॥ यदा देवर्षय सप्त मघासु विचरन्ति हि॥ तदा प्रवृत्तस्तु कलिर्द्वादशाब्दशतात्मक॥३९॥ यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः॥ तदा नन्दात्प्रभृत्येष कलिर्वृद्धिं गमिष्यति॥३२॥ यस्मिन्कृष्णो दिव यातस्तस्मिन्नेव तदाऽहनि॥ प्रतिपन्नं कलियुगमिति प्राहुः पुराविदः॥३३॥
सोऽसौ रमापतिर्दिव वैकुण्ठ गतस्तदा कलिर्लोकमविशत् यत् यस्मात् कलिप्रवेशाज्जनः पापे रमत इति द्वयोरन्वय। वै निश्चये॥२९॥३०॥ अतो यथोक्त एव कलिप्रवेशकाल इत्याह—यदेति। हिशब्दोऽवधारणे। यदैव सप्त देवर्षयो मघासु विचरन्ति स्म तदा तु दिव्येन मानेन सन्ध्याशाभ्यासह द्वादशाब्दशतात्मकः कलिः सन्ध्यामतिक्रम्य लोक प्रविष्ट इत्यन्वयः॥३१॥ एव कलेः प्रबेशकालमुक्त्वा तस्य वृद्धिकालमाह—यदेति। तदा प्रद्योतनात्प्रभृति वृद्धि गच्छन्नन्दात्प्रभृत्यतिवृद्धि गमिष्यतीत्यर्थः॥ ३२॥ ननु यदा कलेर्लिङ्गमुपलब्ध तदैव प्रविष्टः स इति मन्तव्यं ततः पूर्वमेव प्रवेशस्ततः परं वृद्धिरित्यत्र किं प्रमाण तत्राह—यस्मिन्निति। श्रीकृष्णो यस्मिन्नेवाहनि दिव यातस्तस्मिन्नेवाहनि तत्रापि तस्मिन्नेव क्षणे कलियुगं प्रतिपन्न प्रजाभिभवे योग्य जातमिति पूर्ववृत्तान्तज्ञाः प्राहु॥३३॥
कलेरनन्तर कृतयुगप्रवेशमाह— दिव्याना देवमानवर्षाणा सहस्रस्यान्ते चतुर्थे कलियुगे व्यतिक्रान्ते सति पुनः कृतयुग भविष्यति। पूर्व तु सन्ध्याशसाहित्यविवक्षया द्वादशाब्दशतात्मक इत्युक्तम्। अत्र तु तद्विहाय सहस्राब्दोक्तिरिति न विरोधः। कृतयुगप्रवेशचिह्नमाह—यदा नॄणा मनआत्मनः स्वरूपस्य प्रकाशकं भविष्यति तदा कृतं भविष्यतीत्यर्थः॥३२॥ राजवशोक्ता व्यवस्था ब्राह्मणादिवशेष्वप्यतिदिशति— इतीति। इत्येवम्भूत एष मानवो वैवस्वतमनोर्वशो यथा सङ्ख्यायते याभिरुच्चनीचावस्थाभिः सम्यक् कथ्यते तथा विट्शूद्रविप्राणामपि तास्ता अवस्था युगे युगे बोध्याइत्यर्थः। वशा इति पाठान्तरम्॥३५॥ एतच्छ्रवणकर्त्तिनादेवैराग्यफलकत्व सूचयन्नाह—एतेषामिति। एतेषामपि पुरुषाणा भुवि कीर्त्तिरेव स्थिता अतो विवेकिभिः सत्कीर्त्त्यर्थः प्रयत्नो विधेय इति भावः। कीर्त्तिमात्रस्थितौ हेतुमाह—नामलिङ्गानामिति। नामैव लिन ज्ञापक येषा तेषाम्।
दिव्याब्दाना सहस्रान्ते चतुर्थे तु पुनःकृतम्॥ भविष्यति यदा नॄणां मन आत्मप्रकाशकम्॥३४॥ इत्येष मानवो वंशो यथा सङ्ख्यायते भुवि॥ तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे॥३५॥ एतेषां नाम लिङ्गानां पुरुषाणां महात्मनाम्॥ कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि॥३६॥ देवापिशन्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः॥ कलापग्राम आसाते महायोगबलान्वितौ॥३७॥ ताविहैत्यकलेरन्ते वासुदेवानुशिक्षितौ॥ वर्णाश्रमयुतं धर्मं पूर्ववत्प्रथयिष्यतः॥३८॥ कृत त्रेता द्वापरं च कलिश्चेति चतुर्युगम्॥ अनेन क्रमयोगेन भुवि प्राणिषु वर्तते॥३९॥ राजन्नेते मया प्रोक्ता नरदेवास्तथा परे॥भूमौ ममत्वं कृत्वाऽन्ते हित्वेमा निधनं गता॥४०॥
तत्रापि हेतुमाह— कथामात्रमेवावशिष्ट येषा न तु शरीर राज्य पुत्रादयो वा तेषामिति। कथाऽवशेषेऽपि तेषां सदाचारौदार्यादिगुणवत्त्वं हेतु सूचयन्नाह—महात्मनामिति॥३६॥ ननु कलावुत्सन्नाना राजवशतद्धर्माणा कथं पुनःप्रवृत्तिरित्यपेक्षायामाह—देवापिरिति। देवापिः सोमवश्यः। मरुः सूर्यवश्यः। कलापग्रामो बदर्याश्रमस्थो योगिनामावासःप्रसिद्ध। तत्रासाते। तत्र सामर्थ्यमाह—महायोगबलेनान्विताविति॥३७॥ तौ च कलेरन्ते कृतयुगादौ वासुदेवेन भगवताऽनुशिक्षितौ उपदिष्टवर्णाश्रमधर्मौ इह लोके एत्य आगत्य वर्णाश्रमधर्मं पूर्ववत्प्रथयिष्यतः॥३८॥ अयमेव प्रकारःप्रतिचतुर्युगमित्याह—कृतमिति॥३९॥ एतेषा नामलिङ्गानामित्यादि यदुक्त तत्प्रपञ्चयति—राजन्निति पञ्चभिः॥४०॥
ममत्व कृत्वेत्यनेन सुचिता भूतद्रोहप्रवृत्तिं निन्दति—
कृमीति। यस्य च राजनाम्नो राजेति नाम यस्य तस्यापि देहस्यान्ते कृमयो विष्ठा भस्मेति वा सञ्ज्ञा भविष्यति। तत्कृते तदर्थे यो भूतध्रुक् भूतेभ्यो द्रुह्यति स कि स्वार्थंवेद नैव वेद महामूर्ख एव सः। कुत इत्यपेक्षाया हेतुत्वेन भूतद्रोहेदोषमाह— यतो भूतद्रोहात्कर्त्तुर्निरयो भवतीति॥४१॥ ममताप्रकारं प्रपञ्चयति—
कथमिति। सेयमखण्डा भूर्मे पूर्वजैः पुरुषैर्धृता सेदानीं मत्पूर्वाच सती मत्पुत्रादेः कथ स्यादित्येवम्॥४२॥ अबुधा देहातिरिक्तात्मज्ञानविधुराः। अतएव तेजोऽबन्नपरिणामरूपं कायमेवात्मतया गृहीत्वाअभिमत्य महीं च ममतया गृहीत्वा उभौ महीकायौ हत्वाऽन्ते प्रारब्धावसाने अदर्शन गता मरण प्राप्ताः॥४३॥ एतेषामित्यस्य प्रपञ्चमुपसंहरति—ये य इति। हे राजन् ये ये राजानः ओजसा बलेन भुव भुञ्जन्ति स्म ते सर्व एव कथासु क्रियमाणासु कथामात्ररूपाः कालेन कृताः। तथाच ततो लोकद्वय-
कृमिविट्भस्मसंज्ञाऽन्ते राजनाम्नोऽपि यस्य च॥ भूतध्रुक् तत्कृते स्वार्थं कि वेद निरयो यतः॥४१॥ कथं सेयमखण्डा भूः पूर्वैर्मेपुरुषैर्धृता॥ मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा॥४२॥ तेजोऽबन्नमयं काय गृहीत्वाऽऽत्मतयाऽबुधाः॥ महीं ममतया चोभौ हित्वाऽन्तेऽदर्शनं गताः॥४३॥ ये ये भूपतयो राजन्भुञ्जन्ति6 भुवमोजसा॥कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥४४॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे कलिदोषादिनिरूपण नाम द्वितीयोऽध्यायः॥२॥५॥ छ॥छ॥श्रीशुक उवाच॥ दृष्ट्वाऽऽत्मनि जये व्यग्रान्नृपान् हसति भूरियम्॥ अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः॥१॥
फलभ्रशात् ततो निवृत्तिमार्ग एव श्रेयानिति भावः॥४४॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये\।\। श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र विश्वाश्रयनिरूपणे॥ द्वितीयो विवृतोऽध्यायः कलिदोषादिबोधकः॥३॥छ॥छ॥ तृतीये कलिदोषाणा निवृत्त्युपाय सशये॥ हरिसङ्कीर्त्तनादेव तन्निवृत्तिर्निरूप्यते॥१॥ उक्तामेवाहन्ता ममता च कुर्वतामज्ञत्व प्रपञ्चयति— दृष्ट्वेत्यादिना। आत्मनि भूमौ निमित्तभूताया यो विजयस्तस्मिन् व्यग्रान् उद्युक्तान्नृपान् दृष्ट्वा इयं भूर्हसति। तद्धासमेव प्रपञ्चयति—
अहो इत्यादिभिः सार्द्धैर्द्वादशभिः। मृत्योः क्रीडनकाः क्रीडनकवदधीनाः इमे नृपा मा विजिगीषन्ति विजयेन वशीकृत्य भोक्तुमिच्छन्तीत्यर्थः॥१॥
येन कामेन फेनोपमे जलबुद्बुदतुल्ये विनश्वरे पिण्डे शरीरे ये नृपाः अतीव विश्रम्भिताः विश्वास नीतास्तेषा नरेन्द्राणा म एष कामः मद्भोगाभिलाषात्मकः मोघो व्यर्थ एव स्यादित्यन्वयः। तेषा मूढत्व हेतु सूचयन्नाह—विदुषामपीति। पित्रादिदृष्टान्तेनात्मनो मृत्युवश्यता पश्यतामपीत्यर्थः॥२॥ काममेव दर्शयति— पूर्वमिति। इन्द्रियैर्विषयलम्पटस्य न राज्यप्राप्तिः स्यादिति तावत् षड्वर्गंपञ्चज्ञानेन्द्रियाणि एक मन इतीन्द्रियषट्क जित्वा तह्द्वारा देवताप्रसादमधिगम्य ततो राजमन्त्रिणः सचिवादींश्च जेष्याम इत्यन्वयः। सचिवाः अमात्याः। पौराः पुरवासिनः। आप्ताः राजगुर्वादयः।करीन्द्रा हस्तिपाः। तदुपलक्षिताः सर्वाः सेनाः अन्ये चास्य भूमण्डलस्य कण्टकाः कण्टकतुल्या दुःखप्रदाश्चोरादयः॥३॥ एव क्रमेण सागरो ।मेखलावदावरण यस्यास्ता पृथ्वीं जेष्यामः। स्वाधीना करिष्याम इत्येवम्भूतया आशया बद्ध हृदय येषा तेऽन्तिके समीपे वर्त्तमानमन्तकं मृत्यु न
काम एष नरेन्द्राणां मोघः स्याद्विदुषामपि॥ येन येनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः॥२॥ पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः॥ ततः सचिवपौराप्तकरीन्द्रानस्य कण्टकान्॥३॥ एव क्रमेण जेष्यामः पृथ्वी सागरमेखलाम्॥ इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम्॥४॥ समुद्रावरणां जित्वा मा विशन्त्यब्धिमोजसा॥ कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम्॥५॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह7। गता यथागतं युद्धे ता मां जेष्यन्त्यबुद्धयः॥६॥ मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहः॥ जायते ह्यसतां राज्ये ममताबद्धचेतसाम्॥७॥
पश्यन्ति नालोचयन्ति॥४॥ किन्तु समुद्रावरणा मा जित्वाऽपि ओजसा बलेन अब्धिं विशन्ति द्वीपान्तराणि विजिगीषन्त इत्यर्थः। एवमिच्छन्तोऽतिमन्दा इत्याह— कियदिति। एतत् सप्तद्वीपवतः कृत्स्नस्य भूमण्डलस्यात्माधीनतासम्पादन कियत्फलम्, अतितुच्छमित्यर्थः। नश्वरत्वादित्याशयः। तर्हि कि तस्य मुख्यं फलमित्यपेक्षायामाह—आत्मजये सति ससारदुःखान्मुक्तिरेव योग्य फलमिति॥५॥ अन्तिकेऽन्तक न पश्यन्तीत्युक्तमेव स्पष्टयति— यामिति। हे कुरुद्वहेति भूमिगीत कथयन् शुको राजान सम्बोधयति—कुलोद्वहा इति पाठस्तु सुगमः। मन्वादयो या मा विसृज्यैव यथाआगत तथा गताः मृताः। ता मामेते अबुद्धयो युद्धे जेष्यन्ति। विजय एव तावद्दुर्लभःकथञ्चिन्महता प्रयासेन जित्वाऽपि मरणस्वभावत्वात्त्त्यक्त्वामृताना किं फलं स्यादित्याशयः॥६॥ बुद्धिहीनत्वमेव प्रपञ्चयति—मत्कृत इति। मदर्थ पितृपुत्रादीना परस्पर कलहो जायते। तत्र हेतुमाह—
राज्ये ममतेति। तत्र हेतुः—
असतामिति॥७॥ ममताबद्धचेतस्त्वमेवाभिनयेनाह—ममैवेयमिति॥८॥ के ते नृपा इत्यपेक्षाया तान्दर्शयति—
पृथुरित्यादि त्रिभिः।अर्जुनः कार्त्तवीर्यः। रामो नाम कश्चिद्राजा न तु दाशरथिः। यद्वा लोकदृष्ट्या तस्यैव ग्रहणम्॥९॥१०॥ लोक रावयति।रोदयतीति लोकरावणः॥११॥ इतरैः स्वयमजिताः॥१२॥ एव ये मय्युच्चैःअधिकां ममता कृत्वा अवर्त्तन्त ते अकृतार्था अपूर्णमनोरथा एवकालेन कथावशेषाः कृताः सहृताः। यतो मर्त्त्यधर्मिणः मरणस्वभावा इति। विभो इति सम्बोधन तु कुरूद्वहेतिवत्॥१३॥ राजवशानुकीर्त्तनस्यतात्पर्यमाह—कथा इति। विज्ञान विषयाणामसारत्वज्ञानं तच्च वैराग्य च तयोर्विवक्षया हे विभो लोकेषु यशःसत्कीर्तिंविस्तार्य परेयुषा परलोकं
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः॥ स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः॥८॥ पृथुः पुरूरवा गाधिर्नहुषो भरतोऽर्जुनः॥ मान्धाता सगरो रामः खद्वाङ्गो धुन्धुहा रघुः॥९॥ तृणबिन्दुर्ययातिश्च शर्यातिःशन्तनुर्गयः। भगीरथः कुवलयाश्वः
ककुत्स्थो नैषधो नृगः॥१०॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावणः॥ नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः॥११॥ अन्ये च बहवो दैत्या राजानो ये महेश्वराः॥ सर्वे सर्वविदःशूराःसर्वे सर्वजितोऽजिताः॥१२॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिणः॥कथावशेषाः कालेन ह्यकृतार्थाः कृता विभो॥१३॥कथा इमास्ते कथिता महीयसां विताय लोकेषु यशःपरेयुषाम्॥विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु परमार्थ्यम्॥१४॥यस्तूत्तम- श्लोकगुणानुवादःसङ्गीयतेऽभीक्ष्णममङ्गघ्नः॥ तमेव नित्य शृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समानः॥१५॥ राजोवाच॥ केनोपायेन भगवन् कलेर्दोषान्कलौ जनाः॥ विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने॥६६॥
गताना महीयसां महात्म्ययुक्ताना राज्ञामिमाः कथास्ते तुभ्य मया कथिताः परन्तु एता कथा वाचो विभूतीःद्वितीया प्रथमार्थे। वाग्विलासमात्ररूपाः न तु पारमार्थ्यं परमार्थपरमेतत्कथनं न भवत्यत एतच्छ्रवण एवाग्रहो न कर्त्तव्य इत्यर्थः॥१४॥ कस्तर्हि पुरुषाणामुपादेयः परमार्थ इत्यपेक्षायामाह— यस्त्विति। यस्तु अमङ्गलघ्नःसर्वदोषनिवर्त्तकःउत्तमश्लोकस्य अविद्यादिदोषनिवर्त्तकयशसो भगवतो गुणानामनुवादः कथन सङ्गीयते सद्भिः सम्यक् क्रियते। कृष्णेऽमला परमपुरुषार्थरूपा संसारमलवर्जिता भक्तिमभीप्समानः इच्छन् नित्य तत्राप्यभीक्ष्ण पुनः पुनस्तमेव शृणुयादित्यन्वयः॥१५॥ कलिदोषोपचये सति भक्तेरसम्भव मन्यमानः पृच्छति—
केनेति। विधमिष्यन्ति नाशयिष्यन्ति—
यथा यथावत् ब्रूहि॥१६॥
प्रलयकल्पयोः सहारस्थितिकालयोर्मानं च ब्रूहि न च कृतादिकालधर्मादिप्रश्नो बहिर्मुख इति शङ्कनीयः कालस्य भगवद्रूपत्वादित्याशयेनाह—कालस्येश्वररूपस्येति॥१७॥ तत्र तावत्कृतयुगधर्मानाह—कृत इति। चत्वारः पादा यस्य स चतुष्पाद्धर्मः तज्जनैः कृतयुगवर्तिजनैः धृतः कृते युगे प्रवर्त्तते। यस्य पादान् दर्शयति—सत्यमिति। विभोः पूर्णस्य धर्मस्य हे नृप॥१८॥ तदा च सर्वे जनाः दैवाद्देवलब्धेनान्नादिना सन्तुष्टाः करुणाः परदुःखनिराचिकीर्षवःमैत्राःप्राणिमैत्रीयुक्ताः। तितिक्षवो द्वन्द्वसहिष्णवः समदृशः जातिगुणादितारतम्यानादरेण सर्वत्रात्मदर्शिनः। श्रमणाः भगवद्ध्यानादिश्रमपरा न तु विषयासक्ताः सर्व एवविधाश्चेत्तर्हि मुक्ता एव स्युरिति न ततो युगान्तरप्रवृत्तिः स्यादिति शङ्का वारयन्नाह—प्रायशः एवविधा इति॥१९॥ त्रेताया तु अधर्मपादैरनृतादिभिः क्रमेण धर्मपादाना तुर्याशः शनैर्हीयते प्रतिपादचतुर्थीशः क्षीयते। असन्तोष इतिच्छेदः। विग्रहो
युगानि युगधर्मांश्च मानं प्रलयकल्पयोः॥ कालस्येश्वररूपस्य गतिं विष्णोर्महात्मनः॥१७॥ श्रीशुक उवाच॥ कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत॥ सत्यं दया तपो दानमिति पादा विभोर्नृप॥१८॥ सन्तुष्टा करुणा मैत्रा शान्ता दान्तास्तितिक्षव॥ आत्मारामाःसमदृशः प्रायशः श्रमणा जनाः॥१९॥ त्रेतायां धर्मपादाना तुर्थांशो हीयते शनैः॥ अधर्मपादैरनृतहिसाऽसन्तोषविग्रहैः॥२०॥ तदा क्रियातपोनिष्ठा नातिहिस्रा न लम्पटाः॥ त्रैवर्गिकास्त्रयी वृद्धा वर्णा ब्रह्मोत्तरा नृप॥२१॥ तपःसत्यदयादानेष्वर्धंह्रसति द्वापरे॥ हिसा तुष्ट्यनृतद्वेषैर्धर्मस्याधर्मलक्षणैः॥२२॥ यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः॥ आढ्याःकुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तमाः8॥२३॥
भूतविरोधः॥२०॥ तदा च जनाः क्रियादिनिष्ठाः क्रिया यज्ञादिः। तपः उपवासादि। न लम्पटाः विषयेष्वनासक्ता। त्रैवर्णिकाः धर्मार्थकामपराः। त्रयीवृद्धा वैदिककर्मसु निपुणाः। वर्णाः ब्रह्मोत्तरा ब्राह्मणाधिकाः॥२१॥ द्वापरे युगे तु अधर्मस्य लक्षणैश्चिह्नैःपादैर्हिंसादिभिः धर्मपादेषु तपआदिषु अर्द्धह्रसति, अनृतेन सत्य, हिसया दया। असन्तोषेण तपः। विग्रहेण दानमिति यथायोग्यं योज्यम्। हिसातुष्ट्यनृतद्वेषैरिति क्रमस्तु न विवक्षितः। अत्र च दानशब्देन रागद्वेषराहित्येन भूताभयप्रदान विवक्षित तदेव प्रथमस्कन्धे शौचशब्देनोक्तमतो न विरोधः॥२२॥ यशस्विनः कीर्तिप्रियाः महाशीला महायज्ञाद्यनुष्ठानशीलाः धनाढ्याः वर्णाः क्षत्रद्विजोत्तमाः क्षत्रियब्राह्मणप्रधानाः॥२३॥
कलौ तु धर्महेतूनां धर्मपादाना तुर्यांशः चतुर्थाशोऽवशिष्यते सोऽप्येधमानैर्वर्धमानैरधर्महेतुभिः अधर्मपादैरहरहः क्षीयमाणोऽन्ते सविशेषं विनयति॥२४॥ तस्मिन् कलौ शुष्कवैरिणः निर्हेतुकवैरिणः दुर्भगा भाग्यहीनाः भूरितर्षा अर्थकामतृष्णाकुलाः शूद्रा दाशाः कैबर्त्तादयश्च उत्तराःप्रधानायेषा तथाभूता जनाः। प्रजा इति पाठान्तरम्॥२५॥ एव युगाना वैषम्ये कारणमाह—सत्त्वमिति पञ्चभिः। सत्वादयो गुणाः पुरुषे दृश्यन्ते तेच कालेन सञ्चोदिता आत्मनि मनसि परिवर्त्तन्ते, हासोल्लासाभ्या स्वकार्य कुर्वन्तीत्यर्थं॥२६॥ तत्र मनश्चेन्द्रियाणि वयदा सत्त्वेप्रभवन्ति अतिशयेन वर्त्तन्ते तदा कृतयुगं विद्यात् जानीयात्। सत्त्ववृत्तित्वे ज्ञापकमाह—यत् यदा ज्ञाने तपसि च रुचिर्भवति॥२७॥ हे बुद्धिमन् यदा कर्मसु भक्तिः रुचिर्भवति तदा तु रजोवृत्तिप्रधानं त्रेतायुगमिति जानीहि॥२८॥ यदा च लोभादयो भवन्ति काम्याना कर्मणा च विषये रुचि**-**
कलौ तु धर्महेतूनां तुयांशोऽधर्महेतुभिः॥ एधमानैः क्षीयमाणो ह्यन्ते सोऽपि विनड्क्षयति॥२४॥ तस्मिॅल्लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः॥ दुर्भगा भूरितर्षाश्च शूद्रदाशोत्तरा जना9ः॥२५॥ सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणा॥ कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि॥२६॥ प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च॥ तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः॥२७॥ यदा धर्मार्थकामेषु भक्तिर्भवति देहिनाम्॥ तदा त्रेतारजोवृत्तिरिति जानीहि बुद्धिमन् ॥२८॥यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ॥कर्मणां चापि काम्यानां द्वापरं तद्रजस्तमः॥२९॥ यदा मायाऽनृत तन्द्रा निद्रा हिसा विषादनम्॥ शोको मोहो भयं दैन्यं स कलिस्तामसःस्मृतः॥३०॥ यरमात्क्षुद्रदृशो मर्त्याःक्षुद्रभाग्या महाशनाः॥ कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसतीः॥३१॥
र्भवति तदा रजस्तमःप्रधान द्वापरं जानीहि। भानो गर्वः पराभिभवहेतुश्चित्तविकारः। दम्भः परप्रतारणानुकूलवेषधारणम्॥२९॥ यदा मायादयो भवन्ति तदा तामसः केवलतमोगुणवृत्तिप्रधानः कलिःस्मृतः। माया कापट्यम्। तन्द्रा आलस्यम्। हिसा पीडा।विषादन दुःखं। शोको रोदनम्॥३०॥ कलिदोषान्प्रपञ्चयति— यस्मादित्यादिना। यस्मान्मयर्त्त्यावक्ष्यमाणविधाः स कलिरिति पूर्वेण सम्बन्धः। क्षुद्रदृशो मन्दमतयः, क्षुद्रभाग्या अल्पभाग्याः, महाशनाः बह्वाहाराः, वित्तहीना अपि कामिनःविषयासक्ताः स्वैरिण्यः पुश्चल्यः असतीःअसत्यः ‘दुश्शीला कर्कशा चण्डी नित्यं कलहकारिणी’ इत्युक्तविधाः स्त्रियः॥३१॥
दस्यवः चोरा उत्कृष्टाः प्रधाना येषु ते जनपदा देशाः। पाषण्डैः कल्पितविरुद्धनानामतैर्दूषिता वेदाः
। प्रजाभक्षाः प्रजापीडनपराः॥३२॥ बटवो ब्रह्मचारिणः अव्रताः स्वाश्रमोचिताचारशून्याः। अशौचाः शौचशून्याःभविष्यन्ति। कुटुम्बिनो गृहस्थाश्च स्वयमेव भिक्षाटनपरा भविष्यन्ति न तु भिक्षा दास्यन्ति। तपस्विनो वनस्था वन हित्वा ग्रामवासा भविष्यन्ति। सन्न्यासिनश्चार्थलोलुपा धनाद्यासक्ता भविष्यन्ति॥ ३३॥ पुनरपि स्त्रीणा स्वभावमाह**—**
ह्रस्वकाया अल्पपरिमाणदेहा. गतह्रियः त्यक्तलज्जाः। शश्वत् नित्य कटुकभाषिण्यः अप्रियवादिन्यः। चौर्य च माया कापट्य च उरु साहस च यासा तास्तथाभूता भविष्यन्ति॥३४॥ किञ्च क्षुद्रा नीचा धर्मविचाररहिताःअतएव कूटकारिणो वञ्चकाःकिराटा वणिजः सन्तः पणयिष्यन्ति क्रयविक्रयादिव्यवहारं प्रवर्त्तयिष्यन्ति। किञ्च सर्वे जना अनापद्यपि जुगुप्सिता निन्दिता वार्त्ता वृत्ति साधु मस्यन्ते॥३५॥ अखि**-**
दस्युत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः॥ राजानश्च प्रजाभक्षाःशिश्नोदरपरा द्विजा॥३२॥ अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिनः॥ तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपाः॥ ३३॥ ह्रस्वकाया महाहारा भूर्यपत्या गतह्रियः॥ शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसाः
॥३४॥ पणयिष्यन्ति वै क्षुद्राःकिराटाकूटकारिणः॥ अनापद्यपि मस्यन्ते वार्तां साधु जुगुप्सिताम्॥३५॥पति त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम्॥ भृत्यं विपन्न पतयः कौलं गाश्चापयस्विनीः॥३६॥ पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरत सौहृदाः॥ ननान्दृश्यालसवादा दीना स्त्रैणाःकलौ नराः॥३७॥शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः॥ धर्मं वक्ष्यन्ति धर्मज्ञा अधिरुह्योत्तमासनम्॥३८॥
लोत्तम सर्वोत्तममपि निर्द्रव्यं धनहीन पतिं स्वामिनं भृत्यास्त्यक्ष्यन्ति। पतयः स्वामिनश्च कौल कुलपरम्पराप्राप्तं परमोपकारिणमपि विपन्न रोगादि भिर्व्यापाराक्षमं त्यक्ष्यन्ति। अपयस्विनीः दुग्धदोहा गाश्च त्यक्ष्यन्ति॥३६॥ सौरत सुरतनिमित्त सौहृदं स्नेहो येषा ते अतएव पित्रादीन् हित्वा ननन्दारोऽत्र भार्याभगिन्यः, श्याला भार्या भ्रातरस्तैः संवादो मन्त्रालोचन येषा ते, स्त्रैणाः स्त्रीवश्याः अतएव लोके दीनाः कलौ नरा भविष्यन्ति॥३७॥तपोवेषेण धारणेनोपजीवन्तीति तथाभूताः शूद्राः प्रतिग्रहीष्यन्ति दानग्रहणं करिष्यन्ति। तथा अधर्ममेव जानन्ति न धर्मं तथाभूता अपि उत्तममासनमधिरुह्य धर्म वक्ष्यन्ति धर्मोपदेशमिषेण धनादि ग्रहीष्यन्तीत्यर्थः॥३८॥
उद्विग्नमनसः स्वभावतो भीतमानसाः। हे राजन् भृतले निरन्ने निमित्ते सति दुर्भिक्षेण करेण स्वामिभागदानेन च पीडिताः अनावृष्टिभयेन चातुराः॥३९॥ वासआदिभिर्हीना अतएव पिशाचसन्दर्शनाः पिशाचसदृशा भविष्यन्ति॥४०॥ काकिणिके विंशतिवराटिकामात्रेऽप्यर्थे विषये विगृह्यविरोध कृत्वा त्यक्तस्नेहाश्च सन्तः स्वकानपि हनिष्यन्ति तत्रासमर्थाश्चेत्प्राणानपि त्यक्ष्यन्ति॥४१॥ स्थविरौ वृद्धौ। सर्वार्थे कुशलान् निपुणानपि न रक्षिष्यन्ति। उभयत्रैकमेव हेतुमाह—शिश्नोदरम्भरा इति। तत्र हेतुः—क्षुद्रा इति॥४२॥ महान्तमनर्थमाह—कलाविति द्वयेन। तवापि भगवदाराधन सम्मतमेवेत्याशयेन सम्बोधयति—राजन्निति। कलौ मर्त्त्याःप्रायेण जगता परं गुरु पूज्यमतएव त्रैलोक्यनाथैर्ब्रह्मादिभिरानत नमस्कृत पादपङ्कज यस्य त अच्युत सर्वतो भक्ताना रक्षक यतो भगवन्त न यक्ष्यन्ति नाराधयिष्यन्ति। तत्र हेतुमाह—पाषण्डैर्वेदविरुद्धमार्गौर्भिन्न-
नित्यमुद्धिग्नमनसो दुर्भिक्षकरकर्शिता.॥निरन्ने भूतले राजन्ननावृष्टिभयातुराः॥३९॥ वासोन्नपानशयनव्यवायस्नानभूषणैः॥ हीना पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः॥४०॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः॥ त्यक्ष्यन्ति च प्रियान्प्राणान्हनिष्यन्ति स्वकानपि॥४१॥ न रक्षिष्यन्ति मनुजा. स्थविरौ पितरावपि॥ पुत्रान्सर्वार्थकुशलान् क्षुद्रा शिश्नोदरम्भरा॥४२॥ कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम्॥ प्रायेण मर्त्या भगवन्तमच्युत यक्ष्यन्ति पाषण्डविभिन्न चेतसः॥४३॥ यन्नामधेयं म्रियमाण आतुरःपतन्स्खलन्वा विवशो गृणन्पुमान्॥ विमुक्तकर्मार्गल उत्तमां गति प्राप्नोति यक्ष्यन्ति नत कलौ जनाः॥४४॥ पुंसां कलिकृतान्दोषान्द्रव्यदेशात्मसम्भवान्॥ सर्वान्हरति चित्तस्थो भगवान् पुरुषोत्तमः॥४५॥ श्रुतःसङ्कीर्तितो ध्यात पूजितश्चाऽऽदृ
तोऽपि वा॥ नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम्॥४६॥
चेतस इति॥४३॥ म्रियमाणाद्यन्यतमः अतएव विवशोऽपि पुमान् यस्य भगवतो नामधेय नाममात्र गृणन् कीर्त्तयन् विमुक्ताःकर्मरूपा अर्गलाः।प्रतिबन्धा यस्य तथाभूतः सन् उत्तमा गतिं वैकुण्ठलोकादिक प्राप्नोति। त भगवन्त कलौ दोषवशाज्जना न यक्ष्यन्तीत्यन्वयः। आतुरो ज्वरादिभिःपीडितः॥४४॥ तदेव कलिदोषान् प्रपञ्च्य प्रस्तुत तन्निस्तारोपायमाह—पुंसामिति षड्भिः। द्रव्यादिभिःसम्भवो येषा तान्। तत्र द्रव्यदेशौ निषिद्धौ आत्मा च विषयासक्त मनः। एव निषिद्धप्रवृत्तिनिमित्तं कलिरेवेत्याशयेनाह—कलिकृतानिति। चित्तस्थश्चित्ते स्फुरितःपुरुषोत्तमो हरति क्षपयति।पुरुषोत्तमत्वे हेतुः—भगवानिति॥४५॥ कथ भगवाश्चित्तस्थो भवतीत्यपेक्षाया श्रवणादिभिरित्याह—श्रुत इति॥४६॥
अयमेव कलिदोषनिवृत्त्युपायो नान्य इति सदृष्टान्तमाह—यथेति। यथा धातुज ताम्रादिधातुसश्लेषेण जात हेम्नो दुर्वर्णं मालिन्य तत्र स्थितो वह्निरेवहरति— न तोयादि। एव योगिनामात्मनि मनसि स्थितो विष्णुरेवाशुभवासना हरति, न तु योगादिकमित्यर्थः॥४७॥ इतोऽन्योपायस्याकिञ्चित्करत्व स्पष्टयति—विद्येति। अन्तरात्माऽन्तःकरण यथा अनन्ते त्रिविधपरिच्छेदरहितेऽपि भगवति भक्तानुग्रहार्थ तद्धृदिस्थे सति अत्यन्तशुद्धि लभते तथाविद्यादिभिर्न लभत इत्यन्वयः। तत्र विद्याध्ययनादि। तपः शास्त्रीयसन्तापसहनम्। मैत्री अहिंसा॥४८॥ उपायोपदेशमुपसंहरति—तस्मादिति। हि यस्मात् अवहितः सावधानतया तद्ध्यानपरो म्रियमाणःततः तस्मात् भगवतो हृदि स्थापनाद्धेतोः परा गति याति तस्मात् हे राजन् केशवब्रह्मरुद्रयोरप्याराध्य भगवन्त सर्वात्मना एकाग्रचित्तेन त्व हृदि कुर्वित्यन्वयः॥४९॥ इममेवार्थं दृढीकर्त्तुं पुनरप्याह—म्रियमाणैरिति। भगवान्
यथा हेम्निस्थितो वह्निर्दुर्वर्णंहन्ति धातुजम॥ एवमात्मगतो विष्णुर्योगिनामशुभाशयम्॥४७॥ विद्यातपः प्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यैः॥ नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते॥४८॥ तस्मात्सर्वात्मना राजन् हृदिस्थ कुरु केशवम्॥म्रियमाणो ह्यवहितस्ततो यासि परां गतिम्॥४९॥ म्रियमाणैरभिध्येयोभगवान्परमेश्वर॥आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रयः॥५०॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान्गुणः॥कीर्तनादेव कृष्णस्य मुक्तसङ्गः परं व्रजेत्॥५१॥ कृते यद्धयायतो विष्णु त्रेतायां यजतो मखैः॥ द्वापरे परिचर्यायांकलौ तद्धरिकीर्तनात्॥५२॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे कलिदोषनिवर्त्तकहरिकीर्तनं नाम तृतीयोऽध्यायः॥५३॥ ॥छ॥ ॥छ॥
सर्वदाऽभिध्येयः। यतो निरन्तरध्यानाभ्यासात् म्रियमाणैर्मरणावस्थापन्नैर्ध्यातः संस्तमात्मभाव स्वस्वरूप प्रति नयति—हे अङ्गेति स्नेहेन सम्बोधयन्नात्र प्रतारणेति सूचयति। तत्प्राप्तेर्दुर्लभत्व दर्शयन्नाह—परमेश्वर इति। तत्र हेतुमाह— सर्वात्मा सर्वसश्रय इति॥५०॥ कलौ दोषबाहुत्यात्सर्वथा मनोनिरोधेनैव भगवत्परताया दुर्लभत्वात्कथ संसारनिवृत्तिरित्याह—कलेरिति॥५१॥ कृतयुगादिषु ध्यानादिभिर्यद्यत्फल भवति तत्सर्वकलियुगे हरिकीर्त्तनादेव भवति। अतोऽयमेव सर्वसाधकःसुगम उपायः॥५२॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणापादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ तृतीयो विवृतोऽध्यायोहरिकीर्त्तनबोधक॥३॥॥छ॥॥छ॥
वैराग्याय च कालस्य प्राबल्यं विनिरूपयन्॥ चतुर्थे तु चतुर्धोक्ता लया नैमित्तिकादयः॥१॥ एव कलिदोषनिवर्त्तक हरिनामसङ्कीर्त्तनादिक स एव कलौ परमो धर्म इति प्रश्नद्वयस्योत्तरमुक्तम्। यच्चान्यत्पृष्ट प्रलयकल्पयोर्मान ब्रूहि तदिदानीं तृतीयस्कन्धोक्तकालस्वरूपानुवादपूर्वक निरूपयति—काल इति। हे नृप ‘स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम्’ इत्यादिना कालस्ते तुभ्य कथितः। तथा ‛चत्वारि त्रीणि द्वे चैक कृतादिषु यथाक्रमम्॥ सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च’ इति युगमान च कथितम्। अथ कल्पलयावपि तयोर्मान शृणु॥१॥ तत्र तावत्कल्पमानमाह—चतुर्युगेति। कल्पो द्विविधः। दैनन्दिनो महाश्च। तत्राद्यमाह—हे विशाम्पते। यत्र कल्पे क्रमेण चतुर्दश मनवो भवन्ति। मन्वन्तरमान तु ‘युगानामेकसप्ततिः’ इत्युक्तज्ञेयम्॥२॥ प्रलयस्तु चतुर्विधः नैमित्तिकः प्राकृतिक आत्यन्तिको नित्यश्चेति। तत्र मानमहित नैमित्तिक प्रलयमाह—तदन्त इति द्वाभ्याम्। तावान्
श्रीशुक उवाच॥ कालस्ते परमाण्वादिर्द्धिपरार्धावधिर्नृप। कथितो युगमानं च शृणु कल्पलयावपि॥१॥ चतुर्युगसहस्रं च ब्रह्मणो दिनमुच्यते॥ स कल्पो यत्र मनवश्चतुर्दश विशाम्पते॥२॥ तदन्ते प्रलयस्तावान्ब्राह्मी रात्रिरुदाहृता॥ त्रयोलोका इमे तत्र कल्पन्ते प्रलयाय हि॥३॥ एष नैमित्तिक प्रोक्त प्रलयो यत्र विश्वसृक्॥शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चाऽऽत्मभूः॥४॥ द्विपरार्धे त्वतिक्रान्ते ब्रह्मणःपरमेष्ठिनः॥ तदा प्रकृतयःसप्त कल्पन्ते प्रलयाय वै॥५॥ एष प्राकृतिको राजन्प्रलयो यत्र लीयते॥ आण्डकोशस्तु सङ्घातो विघात उपसादिते॥६॥ पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति॥ तदा निरन्नेह्यन्योऽन्यं भक्षमाणाः क्षुधार्दिताः॥७॥
चतुर्युगसहस्रप्रमाणः। सैव ब्राह्मी रात्रिः॥३॥ नैमित्तिकत्व दर्शयति—यत्र यदा विश्वसृक् श्रीनारायणो विश्वमात्मसात्कृत्य स्वस्मिन्नुपहृत्य अनन्ते।आसन यस्य सोऽनन्ते शेते। आत्मभूर्ब्रह्मा च तस्मिन् शेते। एष ब्रह्मणो निद्रा निमित्तीकृत्य प्रवर्त्तमानो लोकत्रयप्रलयो नैमित्तिकः प्रोक्त इत्यर्थः॥४॥ अथ महाकल्प प्राकृत प्रलय च निरूपयति—द्विपरार्द्धेति। अयमेव महाकल्प इति सूचितम्। परमेष्ठिनःसर्वोत्तमस्य ब्रह्मण आयुर्भूते द्विपरार्द्धकाले त्वतिक्रान्ते सति तदा सप्तप्रकृतयो महदहङ्कारपञ्चतन्मात्राणि प्रलयाय कल्पन्ते॥५॥ विघाते विघातकारणे उपसादिते सति सप्तप्रकृतीना सङ्घातः कार्यरूपो यत्र लीयते स एष हे राजन् प्राकृतः प्रलय उच्यते॥६॥ तत्प्रकारमाह—पर्जन्य इति॥७॥
समुद्रादिषु भव सर्व रसं जल रविः पिबते आकर्षति नैव मुञ्चति॥८॥ अनिलवेगोत्थः वायुर्वेगेन प्रज्वलितः। अनिलवेगो वा इति पाठे। वा इति रविणा पीतावशिष्ट जल दहतीत्यर्थः। अनिलवेगो वै इति पाठस्तु सुगमः। भूविवरान् पातालादीन् शून्यान् रविणा दैहिकसर्वरसाकर्षणात् प्राणिरहितान् दहति॥ ९॥ उपर्यधःसमन्ताच्च वह्निसूर्ययोः शिखाभिर्ज्वालाभिर्दह्यमान ब्रह्माण्ड दग्धगोमयपिण्डवद्विभाति॥ १०॥ ततश्च किञ्चिदधिक वर्षाणा शत परः बलीयान् सवर्त्तकाख्यः प्रचण्डो निष्ठुर पवनो वाति। तदा रजसा वृत्तं खमाकाशो धूम्र भवति॥११॥ हे अङ्ग राजन्।रभसस्वनैः तीव्रगर्जितैर्नदन्ति गर्जितानि कुर्वन्ति चेत्यर्थः॥१२॥ ततश्च ब्रह्माण्डविवरमध्यगतविश्व एकोदकमेकार्णवोदकव्याप्त भवति। उदप्लवे
क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः॥ सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः॥ रश्मिभिःपिबते घोरैः सर्वं नैव विमुञ्चति॥८॥ ततःसांवर्तको वह्निः सङ्कर्षणमुखोत्थितः॥ दहत्यनिलवेगोत्थ10ःशून्यान्भूवि वरानथ॥९॥ उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः॥ दह्यमान विभात्यण्डं दग्धगोमयपिण्डवत्॥१०॥ ततः प्रचण्डपवनो वर्षाणामधिकं शतम्॥परः संवर्तको वाति धूम्रंख रजसा वृतम्॥११॥ ततो मेघकुलान्यङ्ग चित्रवर्णान्यनेकशः॥ शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः॥१२॥ तत एकोदक विश्व ब्रह्माण्डविवरान्तरम्॥ तदा भूमेर्गन्धगुणं ग्रसन्त्या उदप्लवे॥१३॥ ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते॥अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः॥१४॥ ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा॥ लीयते चानिले तेजो वायोःखं ग्रसते गुणम्॥१५॥ स वै विशति खं राजंस्ततश्च नभसो गुणम्॥ शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते। तैजसश्चेन्द्रियाण्यङ्ग देवान्वैकारिको गुणैः॥१६॥
उदकेन लोके प्लाविते सति भूमेर्गन्धगुणमापः ग्रसन्ति, गन्धोऽप्सु लीयत इत्यर्थः॥१३॥ त प्रलयत्वाय अभावाय कल्पते अपा रस तेजो ग्रसति ता नीरसा आपस्तेजसि लीयन्ते॥१४॥ ततस्तेजसो रूप वायुर्ग्रसते ततस्तद्रहितं रूपरहित तेजस्तदा अनिले लीयते। वायोर्गुण स्पर्श खमाकाशोग्रसते॥१५॥ ततश्च हे राजन् संस्पर्शरहितो वायुः खमाकाश विशति। ततश्च नभसो गुणं शब्द भूतादिस्तामसाहङ्कारो ग्रसति। त शब्दमनु पश्चान्नभोऽपि तस्मिन् लीयते गुणैर्वृत्तिभिः सहितानीन्द्रियाणि तैजसो राजसाहङ्कारो ग्रसते। वैकारिकः सात्त्विकश्चाहङ्कारो देवानिन्द्रियाधिष्ठातॄन् ग्रसते॥१६॥
त त्रिविधमप्यहङ्कार महान् ग्रसते। तं च महान्त सत्त्वादयो गुणा ग्रसन्ते कालेन नोदितमव्याकृतं प्रधान गुणान् ग्रसते॥१७॥ परमात्मरूपनिरूपणपूर्वकं प्रधानस्य तस्मिॅल्लयमाह—न तस्येति त्रिभिः। यदेवम्भूतं सर्वकारण पर ब्रह्म तत्प्रकृतेरपि मूलभूत पद तल्लयस्थानमामनन्तीति त्रयाणामन्वयः। सर्वकारणत्वेऽपि तस्य निर्विकारत्वमाह—कालावयवैः अहोरात्रादिभिस्तस्य परिणामादयो गुणा विकारा नैव भवन्ति। परिणामो विपरिणामः। अनाद्यनन्तं जन्ममृत्युशून्यम्। अव्यक्तमिति, इन्द्रियैरभिव्यक्तिराहित्येन अस्तित्वविकारशून्यमित्यर्थः। नित्यमिति सर्वदैकरूपतया ह्रासवृद्धिरहितमित्यर्थः। अव्यय अपक्षयशून्यम्॥१८॥ किञ्च वागादिगोचरस्य सविशेषस्य प्राकृतस्यैव विकारा भवन्तीद न तथाऽतस्ते कथ स्युरित्याह—नयत्रेति। यत्र ब्रह्मणि जायते अस्ति वर्द्धत इत्यादिवाचो न प्रवर्त्तन्ते। मनश्चेदमित्थमिति न निश्चिनोति। सत्त्वादयः प्राणादयश्च न सन्ति। खलु
महान् ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम्॥ ग्रसते व्याकृतं राजन् गुणान्कालेन चोदितम्॥ १७॥ न तस्य काला-वयवैः परिणामादयो गुणाः॥ अनाद्यनन्तमव्यक्त नित्यं कारणमव्ययम्॥१८॥ न यत्र वाचो न मनो न सत्त्वतमोरजो वा महदादयोऽमी॥ न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः॥१९॥ न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः॥सुषुप्वच्छून्यवदप्रतर्क्यं11 तन्मूलभूत पदमामनन्ति॥२०॥ लय प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा॥ शक्तय सम्प्रलीयन्ते विवशा कालविद्रुताः॥२१॥ बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदा श्रयम्॥ दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत्॥२२॥
निश्चये। लोककल्पो लोकसदृशः सन्निवेशः प्राकृतो देहश्च नास्ति॥१९॥ अतएवाकाशादयःपृथगपि न सन्ति। अर्कोऽपि तत्प्रकाशको न भवति तस्यैव सर्वप्रकाशकत्वात्स्वयम्प्रकाशत्वाच्च। स्वप्नजाग्रदाद्यवस्थायुक्तमपि तन्न भवति। किन्तु इन्द्रियाभावात्सुषुप्तवत् अतिसुक्ष्मत्वेनेन्द्रियागोचरत्वाच्छून्यवच्च भवति आमनन्ति। ‘पुरुषान्न पर किश्चित्सा काष्ठा सा परा गतिः’ इत्यादयो वेदा इति शेषः॥२०॥ प्राकृतप्रलयनिरूपणमुपसहरति— लय इति। पुरुषाव्यक्तयोः शक्तयः सत्त्वादयः कालेन विद्रुताः चालिता यदा उक्तप्रकारेण सम्प्रलीयन्ते तदा ह्येष प्राकृतो लयो भवति॥ २१॥ आत्यन्तिकं प्रलयमाह—बुद्धीन्द्रियेति द्वादशभिः। आत्यन्तिक ज्ञानसाध्यो ब्रह्मणि लयात्मको मोक्षः स भेदस्य वास्तवत्वेन सम्भवतीतिप्रपञ्चस्य ब्रह्माभिन्नत्वमाह—बुद्धिश्च इन्द्रियाणि च अर्थाश्चेत्येव ग्राहककरणग्राह्यरूपेण तेषामाश्रयभूतं ज्ञानात्मक ब्रह्मैव भाति न ततः पृथक्किञ्चि-
दस्ति। यतः आद्यन्तवत् यद्वस्तु तदवस्तुकारणात् अन्यवस्तु न भवति। तत्र हेतुमाह—दृश्यत्वाव्यतिरेकाभ्यामिति। कार्यस्य कारणाव्यतिरेकेणैव दृश्यमानत्वादित्यर्थः॥२२॥तत्राव्यतिरेकमेव दृष्टान्तेन प्रपञ्चयति— दीप इति। दीपचक्षूरूपाणा तेजोविशेषाणा यथा तेजसो न व्यतिरेकस्तथा धीः कर्त्री। खानि इन्द्रियाणि करणानि मात्राः शब्दादयो विषयाः ऋतात् सत्यात् ब्रह्मण पृथक् न स्युर्ब्रह्मकार्यत्वात्। नन्वेव कार्यकारणयोरभेदे कार्यगतविकारः कारणे ब्रह्मण्यपि प्रसज्येतेत्याशङ्क्याह—अन्यतमादिति। कार्यादत्यन्तव्यतिरिक्तादित्यर्थः। प्रपञ्चाब्रह्मणोऽस्ति व्यतिरेकः प्रपञ्चस्य तु ततो नास्तिव्यतिरेक इत्याशयः॥२३॥ तत्र बुद्धिदोषासस्पर्शित्वमाह—बुद्धेरिति। जागरणाद्यवस्थात्रय तु विवेकिभिर्बुद्धेरेवेत्युच्यते। अतो हे राजन् प्रत्यगात्मनि त्विदमवस्थाप्रयुक्त नानात्व विश्वतैजसप्राज्ञरूप मायामात्रम्, अविद्यया कल्पितमित्यर्थः॥२४॥ प्रपञ्चस्याद्यन्तवत्त्व तद्दोषेण ब्रह्मणोऽसस्पृश्यत्वं दृष्टान्तेनाह—यथेति। उदयाप्ययात् आद्यन्तवत्त्वात् इदमवयवि कार्यभूत विश्वमपि तथैव कदाचिद्भवति कदाचिच्च न भवतीत्यर्थ’॥२५॥
दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत्॥ एवं घी खानि मात्राश्च न स्युरन्यतमादृतात्॥२३॥ बुद्धेर्जागरण स्वप्नःसुषुप्तिरिति चोच्यते॥ मायामात्रमिदं राजन्नानात्वं प्रत्यगात्मनि॥२४॥ यथा जलधरा व्योम्नि भवन्ति न भवन्ति च॥ ब्रह्मणीद तथा विश्वमवयव्युदयाप्ययात्॥२५॥ सत्य ह्यवयवःप्रोक्तःसर्वावयविनामिह॥ विनाऽर्थेन प्रतीयेरन्पटस्येवाङ्ग तन्तवः॥२६॥यत्सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः॥ अन्योऽन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु यत्॥२७॥
अन्यतमादिति यत्कारणस्यान्यत्व प्रतिज्ञात तदुपपादयति—सत्यमिति। इह व्यवहारे सर्वेषामप्यवयविनामवयवःकारणमेव सत्य परमार्थतया प्रोक्त’। ‘वाचारम्भण विकारो नामधेय मृत्तिकेत्येवसत्यम्’ इत्यादिश्रुतिभिर्निरूपित। अत्र युक्तिमपि दर्शयति— अङ्गहे राजन् हि यस्मात् अर्थेन अवयविनापि तदभावदशायामपि अवयवाः पृथक् प्रतीयेरन्। तत्र दृष्टान्तः यथा पटस्यावयवास्तन्तवःपटात् पृथक् प्रतीयन्ते तद्वदित्यर्थः॥२६॥ ननु यदि कार्यकारणयोर्भेदो नास्ति तदा कथ तयोर्भेदव्यवहार इत्याशङ्क्याह—यदिति। सामान्य कार्यमात्रेऽनुगत कारण विशेषस्तत्तद्रूपेण पृथक् सिद्धकार्यं ताभ्या यत् उपलभ्येत भेदः स भ्रम एव। तत्र हेतुमाह—अन्योऽन्यापाश्रयादिति, पृथक्तयाऽनुपलम्भादित्यर्थः। अतो यदाद्यन्तवत् तत्सर्वमवस्तुकारणव्यतिरिक्त वस्तु न भवतीति सिद्धम्॥२७॥
उक्तमेव पुनर्दृढयति—विकार इति। ख्यायमानो व्यवह्नियमाणोऽपि विकारः कार्यभूतः प्रपञ्चःप्रत्यगात्मानमन्तरा विनाऽणुमात्रोऽपि न निरूप्योऽस्ति।चेत् यदित विनाऽपि स्वतन्त्रतया निरूप्यः स्यात्तर्हि सोऽपि चित्समः स्यात् चिद्रूपेणात्मना समः स्वप्रकाश एव भवेत्। तथा सोऽप्यात्मव देकरूपएव स्यादित्यर्थः॥२८॥ नन्वात्मनोऽपि जीवब्रह्मरूपेण नानात्वं दृष्टमेवेत्याशङ्क्याह—नहीति। सत्यस्य परमार्थभूतस्य नानात्वं नास्त्येव। ‘एकोदेवः सर्वभूतेषु गूढः’ इतिश्रुतेः। ननु कथ तर्हि तयोर्भेदव्यवहार इत्याशङ्कयोपाधिकृत एवेत्याह—यदि अविद्वान् तन्नानात्व मन्यते तर्हि छिद्रयोस्विघटाकाशमहाकाशयोरिवेति परिच्छेद्यापरिच्छेद्ययोर्दृष्टान्तः। तथा ज्योतिषोरिव आकाशजलस्थसूर्ययोरिवेत्युपाधिकृतविकारसदसद्भावे दृष्टान्तः।वातयोर्बाह्यशरीरस्थवाय्वोरिवेति क्रियाभेदे दृष्टान्त·॥२९॥ अतो जडचेतनात्मक सर्वं ब्रह्मैवेति सदृष्टान्तमाह—यथेति। क्रियाभिस्तत्तद्रचनाभेदैर्व्यवहारमार्गेषु यथा हिरण्यमेव बहुधा कटककुण्डलादिरूपभेदैर्नृभिः समीयते प्रतीयते एव लौकिकवैदिकैर्वचोभिर्भगवानेव व्याख्यायते। तर्हि हिरण्यवत्कुतो न
विकार ख्यायमानोऽपि प्रत्यगात्मानमन्तरा॥ न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत्॥२८॥ नहि सत्यस्यनानात्वमविद्वान्यदि मन्यते॥ नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव॥२९॥ यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु॥ एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनै॥३०॥ यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तम॥ एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्याऽऽत्मन आत्मवन्धनः॥३१॥
प्रतीयत इत्याशङ्क्याह—अधोक्षज इति। हिरण्यमिन्द्रियगोचरमयं तु तदगोचर एतावाँस्तु विशेषः॥३०॥ ननु अधः अक्षजमिन्द्रियज ज्ञानयस्मात् सोऽधोक्षजः परमात्मा तत्र कथं तस्य तथात्वमित्यपेक्षाया ‘नायं वेद स्वमात्मान यच्छक्त्याहन्धिया हतम्’ इत्यादौ तत्र तत्र तस्याहङ्कारेणावृतत्वस्य प्रदर्शितत्वात् इति चेत् कथमहङ्कारस्य ब्रह्मस्वरूपावरणेन भेदव्यवहारहेतुत्व तस्य स्वकारणभूतब्रह्मावरकत्वासम्भवात्। आवरणे वा स्वस्यापिप्रकाशासम्भवादित्याशङ्कय सदृष्टान्तमाह—यथेति। अर्करश्मय एव मेघरूपेण परिणता वर्षन्तीति। ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति॥ आदित्याज्जायते वृष्टिर्वृष्टेरन्न ततः प्रजाः’ इति वचनात्। तस्मात् अर्कप्रभवःअर्केणैव दर्शितः प्रकाशितश्च घनो मेघो यथार्कांशभूतस्य चक्षुषः तमः स्वरूपभूतार्कदर्शनप्रतिबन्धको भवति। हीत्यत्र न सन्देहः। एवमेवाहम्। अहङ्कारोऽपि ब्रह्मणो गुणः कार्यभूतः तदीक्षितः तेनैव प्रकाशितश्चब्रह्माशकस्यात्मनो जीवस्यात्मबन्धनः ब्रह्मस्वरूपदर्शनप्रतिबन्धको भवति॥३१॥
अतएवाहङ्कारनाशे स्वरूपदर्शन भवतीति तेनैव दृष्टान्तेनाह— घन इति। यथा च अर्कप्रभवो घनो यदा यमनेन विदीर्यते तदैव चक्षुः स्वरूपभूतरविमीक्षते तथा यदैव जिज्ञासया विचारेण आत्मन उपाधिरावरकोऽहङ्कारो विनश्यति तर्हि तदा अनुस्मरेत्, ब्रह्मैवाहमिति पश्यतीत्यर्थः॥३२॥ अयमेवात्यन्तिकः प्रलय इत्युपसंहरति—यदेति। यदैवमुक्तप्रकारेण विवेकहेतिना ज्ञानशस्त्रेण आत्मबन्धन आत्माऽवबन्धनमात्मावरकमहङ्कार छित्वा अच्युत परिपूर्ण भगवद्रूपमात्मानमनुभवतीति तथाभूत’ सन्नवतिष्ठते तदा हे अङ्ग तमात्यन्तिकं प्रलयमाहुः। अहङ्कारस्य ज्ञाननिरास्यत्व कथमित्यपेक्षाया तस्याविद्याकार्यत्वादित्याशयेनाह—मायामयमिति॥३३॥ नित्यप्रलयमाह–नित्यदेति। हे परन्तप एके केचित् सूक्ष्मज्ञा विवेकिनः सर्वभूताना नित्यदा प्रतिक्षणमेवोत्पत्तिप्रलयौ सम्प्रचक्षते कथयन्ति॥३४॥ एतदेवोपपादयति—कालेति। कालरूपस्रोतसो वेगेनाशु ह्नियमाणस्य देहादेर्नित्यदा दृश्यमानाया बालयुवादिरूपा अवस्थास्ता एव नित्यदा जन्मप्रलययोर्हेतवः ज्ञापिकाः। आरम्भकावयवसंयोग एवोत्पतिः तद्विभाग
घनो यदाऽर्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा॥ यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत्॥३२॥ यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम्॥छित्त्वाऽच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम्॥३३॥ नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप॥ उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते॥३४॥ कालस्रोतोजवेनाशु ह्नियमाणस्य नित्यदा॥ परिणामिनामवस्थास्ता जन्मप्रलयहेतवः॥३५॥ अनाद्यन्तवताऽनेन कालेनेश्वरमूर्तिना॥अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव॥३६॥
एव विनाशः तत्र प्रत्यवयविना प्रत्यवयवेषु भुक्तान्नादिपरमाणूना सयोगविभागासम्भवात् बुद्धिहासाद्यवस्थाभेदो न स्यात् अतः प्रतिक्षण प्रतिपरमाणुपर्यन्तसयोगविभागाववश्यमङ्गीकार्यावित्याशयः। तत्र दृष्टान्तमाह—परिणामिनामिति। यथा परिणामिना नदीप्रवाह प्रदीपज्वालादीनामुच्चनीचावस्थास्तज्ज्ञापिकास्तथेति। देहः प्रतिक्षण प्रध्वसी प्रतिक्षणमवस्थाभेदवत्त्वात् प्रदीपादिवदित्यनुमानम्॥३५॥ यदि प्रतिक्षणमवस्था भवन्ति तर्हि कि न दृश्यन्ते अतो हेतुरसिद्ध इत्याशङ्क्याह—अनाद्यन्तवता। तत्र हेतुः—ईश्वरमूर्त्तिना कालेन जायमानाऽवस्था नैव लक्ष्यन्ते। आकाशे गच्छता ज्योतिषा चन्द्रादीना गमनावस्थाविशेषा यथा नैव लक्ष्यन्ते तद्वत्। तथाच यथा तेषा प्रदेशान्तरप्राप्त्यन्यथाऽनुपपत्त्या प्रतिक्षण गमनावस्थाः कल्प्यन्ते तद्वदत्रापि बाल्यतारुण्यादिदर्शनेन तन्मध्यवर्त्तिन्योऽवस्थाः कल्प्यन्त इति न हेतुरसिद्ध इत्यर्थः॥३६॥
उपसंहरति—नित्य इति॥३७॥ पुराणार्थमुपसहरति—एता इति। समासतः कथने हेतुः—कार्त्स्न्येनेति। अजो ब्रह्माऽपि॥३८॥ ननु यदिसाकल्येनाभिधातु न शक्यते तर्हि सङ्क्षेपतस्तदभिधानेन कि प्रयोजनमिति शङ्का वारयंस्तत्फलमाह—ससारेति। विविध दुःखमेव दवो दावानलस्तेनार्दितस्य पीडितस्य अतएव दुस्तरत्वात्ससार एव सिन्धुस्तमुत्तितीर्षोः पुंसो भगवत पुरुषोत्तमस्य या लीलास्तासा याः कथास्तासा यो रसस्तन्निषेवणमन्तरेणान्यः प्लवरतरणसाधनं न भवेत् नास्ति। तथाचोपायान्तराभावात् यथाशक्ति श्रवणकीर्त्तनादिना कथैव सेव्येत्याशयः॥३९॥ श्रोतुरादरढ्र्याय सम्प्रदायप्रवृत्तिमाह—पुराणसहितामिति चतुर्भि। चतुर्मुखद्वारा नारदाय प्राह—स नारदः॥४०॥ स वै प्रसिद्धो बादरायण इमाभागवतीमतएव वेदतुल्या सहिता प्रीतः सन्मह्यप्राहेति पूर्वेणान्वयः॥४१॥ त्वया च पृष्टोऽह तुभ्यमुक्तवानिति सूचयन्सम्बोधयति—कुरुश्रेष्ठेति।
नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः॥ आत्यन्तिकश्चकथितकालस्य गतिरीदृशी॥३७॥ एताः कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याऽखिलसत्त्वधाम्नः॥ लीलाकथास्ते कथिताः समासतः कार्त्स्न्येननाजोऽप्यभिधातुमीशः॥३८॥ संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यःप्लवो भगवतः पुरुषोत्तमस्य॥ लीलाकथारसनिषेवणमन्तरेण पुसो भवेद्विविधदुःखदवार्दितस्य॥३९॥ पुराणसहितामेतामृषिर्नारायणोऽव्यय॥ नारदाय पुरा प्राह कृष्णद्वैपायनाय सः॥४०॥ स वै मह्यं महाराज भगवान्बादरायणः॥ इमां भागवती प्रीतः संहितां वेदसम्मिताम्॥४१॥ एता वक्ष्यत्यसौ सूतऋषिभ्यो नैमिषालये॥ दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः॥४२॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे प्रलयनिरूपणं नाम चतुर्थोऽध्याय॥४॥५॥ श्रीशुक उवाच॥ अत्रानुवर्ण्यतेऽभीक्ष्ण विश्वात्मा भगवान्हरिः॥यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भव॥१॥
असावित्यङ्गुल्या निर्देशः। नैमिषालये नैमिषारण्यस्थाने तत्रापि दीर्घसत्रसभायामसौ सूत एता वक्ष्यति॥ ४२॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ चतुर्थो विवृतोऽध्यायश्चतुर्द्धा लयबोधकः॥३॥५॥६॥ पञ्चमे तु समासेन परब्रह्मोपदेशतः॥ राजस्तक्षकसन्दंशान्मृत्युभीतिर्निवार्यते॥१॥ एतत्पुराणश्रवणकीर्त्तनादिपरो निर्भयो भवतीत्यभिप्रेत्य पुराणार्थमनुस्मारयति— अत्रेति। जगतः कर्त्ता अजो ब्रह्मा यस्य प्रसादजः। प्रसादोऽत्र रजोवृत्तिर्हर्षस्ततो जात। अतस्ततो जातत्वात्तत्परतन्त्र एव न स्वतन्त्रः। तथा सर्वसहारकर्त्ता रुद्रश्चयस्य
क्रोधसमुद्भवः। अतस्सोऽपि तत्परतन्त्र एव न तु स्वतन्त्रः। स हरिः भक्तदुःखहर्ता विश्वस्यात्मा नियन्ता भगवान् अत्र पुराणेऽभीक्ष्णमनुवर्ण्यते। अत एतच्छ्रवणादिपरस्य कुतः ससारभय स्यादित्याशयः॥१॥ त्व त्वेतच्छ्रवणेन कृतार्थ एवातो भय त्यजेत्याह—त्वत्विति। सन्धिरार्षः। हे राजन् त्वत्वह मरिष्य इतीमा पशुबुद्धिं देहात्माऽविवेकरूपा जहि त्यज। कुत इत्यत्राह— न जात इति। यथा देहः प्रागभूत एवाद्य जातो नङ्क्षयति च न चैव त्व पूर्वे नाभूः न चाद्य जातोऽसि अतो न नङ्क्षयसि॥२॥ ननु बीजादङ्कुरवत्स्वस्मात्पुत्ररूपेण स्वयमेव भवति। यथाह श्रुतिः—‘अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे॥आत्मा वै पुत्रनामासि स जीव शरदः शतम्’ इति। ततश्च ‘पुनरङ्कुराद्बीजमिव पौत्ररूपेणापि स्वयमेव भवति। पिता पुत्रेण पितृमान्यो निर्योनौ’ इति श्रुतेः। अतस्तेषु नश्यत्सु कथं न नङ्क्षयामीति चेत्तत्राह—न भविष्यतीति। त्व भृत्वा पुत्रपौ-
त्व तु राजन्मरिष्येति पशुबुद्धिमिमा जहि॥ न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्क्षयसि॥२॥ न भविष्यसि भूत्त्वा त्वं पुत्रपौत्रादिरूपवान्॥ बीजाङ्कुरवद्देहादेर्व्यतिरिक्तो यथाऽनलः॥३॥ स्वप्नेयथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम्॥ यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः॥४॥ घटे भिन्ने यथाकाश आकाशः स्याद्यथा पुरा॥ एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः॥५॥ मनः सृजति वै देहान्गुणान्कर्माणि चाऽऽत्मनः॥ तन्मनःसृजते माया ततो जीवस्य संसृतिः॥६॥
त्रादिरूपवान् बीजाङ्कुरवन्न भविष्यसि। यस्माद्देहादेर्व्यतिरिक्तस्त्वम्। देहाद्देह एव जायते न त्वात्मा यथाऽनलः काष्ठाद्व्यतिरिक्त॥३॥ जन्मादीनां देहधर्मत्वं दृष्टान्तेन स्पष्टयति—स्वप्ने यथाऽऽत्मनः शिरश्छेदं स्वयं पश्यति तथा जागरणेऽपि देहस्यैव तत्पश्यति। यस्मादेव तत आत्मा अजःअमरश्च। हि अत्र न संशयः॥४॥ यस्माद्देहोपाधिकोऽयमात्मनो जन्मादिसंसारभ्रमस्तस्मादुपाधिनिवृत्तौ मुच्यत इति सदृष्टान्तमाह— घट इति।घटे भिन्ने सति तदन्तर्वर्त्त्याकाशःयथा पुरा घटोत्पत्तेः पूर्वं यथाऽऽसीत् तथा स्यात्। एवमात्मज्ञानेन देहे मृते लीने सति जीवः पुनर्ब्रह्म सम्पद्यते॥५॥ ज्ञानेन लय सम्भावयितु मायाकृतमात्मनो देहाद्युपाधिसम्बन्धप्रकारमाह—मन इति। मन आत्मनो देहादीन् सृजति। तच्च मनो माया सृजति ततो मायाद्युपाधिसमुदायाज्जीवस्य ससृतिर्भवति न स्वतः॥६॥
एतदेव सदृष्टान्तमाह—
स्नेहेति सार्द्धेन। ईयते प्रतीयते। ततः तावत् दीपस्य ज्योतिषः दीपज्वालारूपः परिणामः। एव देहकृतो देहाद्यध्यासनिबन्धन एव भव। तत्र तैलस्थानीय कर्म। तदधिष्ठानस्थानीयं मनः। वर्त्तिस्थानीयो देहः। अग्निसंयोगस्थानीयश्चैतन्याध्यासः। दीपस्थानीयः संसार इत्यूह्यम्॥७॥ अतो दीपवत्ससार एव रागादिगुणवृत्त्या जायते नश्यति च न तत्र स्थितोऽप्यात्मा। तत्र हेतुमाह—
व्यक्ताव्यक्तयोः स्थूलसूक्ष्मदेहयोः पर अन्यः स्वयञ्ज्योतिः। परत्वमेव प्रपञ्चयति—आकाश इव देहादेराधारः ध्रुवो निर्विकारः। नास्त्यन्त उपमा च यस्यसोऽनन्तोपमः तत·व्याप्तः॥८॥ अतस्त्वमेव चिन्तयेत्याह—
एवमिति। सामर्थ्य त्वस्तीति सूचयन्मम्बोधयति— प्रभो इति। वासुदेवानुचिन्तया युक्तरत्वमनुमानगर्भिण्या द्रष्टृदृश्यान्वयव्यतिरेकयुक्तया बुद्धया आत्मना स्वयमेव आत्मस्थ देहादिसङ्घातस्थमात्मान विमृश्य विविच्य पश्येत्यर्थः
स्नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते। ततो दीपस्य दीपत्वमेवं देहकृतो भव॥ रजस्सत्त्वतमोवृत्त्या जायतेऽथ विनश्यति॥७॥ न तत्राऽऽत्मा स्वयञ्ज्योतिर्यो व्यक्ताव्यक्तयो पर ॥आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः॥८॥ एवमात्मानमात्मस्थमात्मनैवाऽऽमृश प्रभो॥ बुद्ध्याऽनुमानगर्भिण्या वासुदेवानुचिन्तया॥९॥ चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः॥ मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम्॥१०॥ अह ब्रह्म परं धाम ब्रह्माहं परम पदम्॥ एवं समीक्षन्नात्मानमात्मन्याधाय निष्कले ॥११॥दशन्त तक्षकं पादे लेलिहानं विषाननैः॥ न द्रक्ष्यसि शरीर च विश्वं च पृथगात्मनः॥१२॥ एतत्ते कथित तात यथाऽऽत्मा पृष्टवान्नृप। हरेर्विश्वात्मनश्चेष्टां कि भूयःश्रोतुमिच्छसि॥१३॥
॥९॥ एव दर्शनस्य फलमाह— चोदित इति। तत्र हेतुमाह—
मृत्यवः मृत्युहेतवः कालादयो मृत्यूना मृत्युमीश्वर नोपधक्ष्यन्ति अत आत्मन।ईश्वरैकताप्राप्तं त्वा न धक्ष्यतीत्याशय॥१०॥ उक्तविमर्शप्रकार दर्शयस्तक्षकाद्यदर्शन दर्शयति—
अहमिति द्वाभ्याम्। योऽह स पर धाम सर्वाश्रय ब्रह्मैव। यत् पर पढ परमाश्रय ब्रह्म तदहमेव। एवं निष्कले निरुपाधौ आत्मनि ब्रह्मणि आत्मानमाधाय एकीकृत्य समीक्षन् विषयुक्तैराननैः स्वपादे दशन्तं तक्षक लेलिहानं सर्पं स्वशरीर च विश्वं चात्मनः पृथक् न द्रक्ष्यसीति द्वयोरन्वयः। तत्राह ब्रह्मेति भावनया जीवस्य शोकादिनिवृत्ति। ब्रह्माहमिति भावनया च ब्रह्मणः पारोक्ष्यनिवृत्तिर्भवतीति व्यतिहारो दर्शितः॥११॥१२॥ अखिलप्रश्नोत्तरमुपसहरति—
एतदिति। स्नेहं सूचयन्सम्बोधयति—
हे तात हे नृप आत्मा त्व यथा विश्वात्मनो हरेश्श्चेष्टा लीला पृष्टवान् तथैतत् ते तुभ्य सर्वं मया कथितम्। शिष्यस्य
कृतार्थता परीक्षणाय पृछति— कि भूय इति॥१३॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्निरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र परमाश्रयनिरूपणे॥ पञ्चमो विवृतोऽध्यायो मृत्युभीतिनिवारकः॥३॥छ॥छ॥ षष्ठे परीक्षितो मोक्षः सर्पहोमादि तत्सुतात्॥ वेदशाखाविभागोक्तौ त्रिवेदि व्यासवर्णनम्॥१॥व्यासात्मजेन शुकेनाभिहितं कथितमेतत्पुराण निशम्य। यद्वाकि भूयः श्रोतुमिच्छसीति वचनं निशम्य परीक्षित् नतेन नम्रेण मूर्ध्ना तस्य पादपद्ममुपसृत्य सरपृश्य बद्धाञ्जलिःसन्निद वक्ष्यमाणमाहेत्यन्वयः। एवम्भूतेनैव कृत उपदेशः सफलो भवतीत्याशयेन शुक विशिनष्टि— मुनिना मननशीलेन। निखिलात्मा भगवास्तमेव पश्यति निरन्तर ध्यायतीति तथा तेन। अत समेन राजाऽप्येतच्छ्रवणेन कृतार्थतार्थमेव भगवता रक्षितः
इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे मृत्युभयनिवारणनिरूपणं नाम पञ्चमोऽध्यायः॥५॥॥छ॥ सूत उवाच॥ एतन्निशम्य मुनिनाऽभिहितं परीक्षिद्व्यासात्मजेन निखिलात्मदृशा समेन॥ तत्पादमूलमुपसृत्य नतेन मूर्ध्ना बद्धाञ्जलिस्तमिदमाह स विष्णुरातः॥१॥ राजोवाच॥ सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना॥ श्रावितो यच्च मे साक्षादनादिनिधनो हरिः॥२॥ नात्यद्भुतमह मन्ये महतामच्युतात्मनाम्॥ अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः॥३॥ पुराणसंहितामेतामश्रौष्म भवतो वयम्॥ यस्यां खलूत्तमश्लोको भगवाननुवर्ण्यते॥४॥भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम्॥प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया॥५॥
अन्यथा तक्षकादपि रक्षितः स्यादित्याशयेनाह—स विष्णुरात इति॥१॥ तद्वचनमेवाह— सिद्धोऽस्मीति षड्भिः। सिद्धोऽस्मि अहं कृतार्थोऽस्मियतो भवताऽनुगृहीतोऽस्मि। एवमनुग्रहस्य तव कृपैव हेतुर्न मत्त किञ्चित्प्रयोजनमस्तीत्याशयेनाह— करुणात्मनेति। कोऽसावनुग्रहस्तत्राह— यत्यस्मात् अनादिनिधनो जगत्कारणभूतः साक्षात् हरिर्भवता श्रावितः चकारात् तत्प्राप्तिसाधन च श्रावितम्॥२॥ करुणात्मतामभिनन्दति— नात्यद्भुतमिति द्वाभ्याम्। महता यस्तापतप्तेषु अनुग्रहस्तमत्यद्भुत आश्चर्य न मन्ये स्वाभाविकत्वात्। महता लक्षणमाह— अच्युत आत्मनि मनास येषा।तेषामिति । सन्तापे हेतुमाह—अज्ञेष्विति॥३॥ भवतः सकाशात् अश्रौष्म वय सर्वे श्रुतवन्तः॥४॥ यदुक्त मरिष्य इति बुद्धिं जहीति तत्राह— भगवन्निति। यतस्त्वया दर्शितमभय भयरहित निर्वाण कैवल्यरूप ब्रह्म प्रविष्टोऽस्मि। अनेनैव कृतार्थताऽपि स्पष्टीकृता॥५॥
कृतार्थत्वान्न किञ्चिच्छ्रवणेच्छातोऽनुज्ञा देहीत्याह—अनुजानीहीति। हे ब्रह्मन् वाचमिति सर्वन्द्रियोपलक्षण सर्वेन्द्रियाणि नियम्य मुक्ताः कामाशयाः।कामवासना यस्मात्तथाभूतं चेतः अधोक्षजे भगवति प्रवेश्य असून् प्राणान् विसृजामि। एतदर्थं मामनुज्ञा देहि॥६॥ पुनरात्मनः कृतार्थतामेवस्पष्टयति—अज्ञानमिति। भवता दर्शित क्षेम निर्भय पर सर्वोत्तम भगवतः पदं स्वरूप तस्य ज्ञान विज्ञान च साक्षात्कारात्मकं तन्निष्ठया मे अज्ञानंनिरस्त चेत्यन्वयः॥७॥८॥ शुकगमनानन्तर राजा किं कृतवानित्यपेक्षायामाह— परीक्षिदपीति। परीक्षिदपि आत्मना बुद्धया आत्मान मनः आत्मनि परमात्मनि समाधाय एकीकृत्य त परमात्मानं दध्यावित्यन्वयः। त विशिनष्टि—अस्पन्दासुः लीनप्राणः यथा तरुः स्थाणुः॥९॥ प्राक्कूले
अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे॥ मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून्॥६॥ अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया॥ भवता दर्शितं क्षेमं परं भगवतः पदम्॥७॥ सूत उवाच॥ इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः॥ जगाम भिक्षुभिः साकं नरदेवेन पूजितः॥८॥ परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना॥ समाधाय पर दध्यावस्पन्दासुर्यथा तरुः॥९॥ प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः॥ ब्रह्मभूतो महायोगी निस्सङ्गरिछन्नसंशयः॥१०॥ तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना॥ हन्तुकामो नृप गच्छन्ददर्श पथि कश्यपम्॥११॥ त तर्पयित्वा द्रविणैर्निवर्त्यविषहारिणम्॥ द्विजरूपप्रतिच्छन्नःकामरूपोऽदशन्नृपम्॥१२॥ ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना॥ बभूव भस्मसात्सद्यः पश्यता सर्वदेहिनाम्॥१३॥ हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः॥ विस्मिता ह्यभवन्सर्वे देवासुरनरादयः॥१४॥ देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः॥ ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः॥१५॥
प्रागग्रे बर्हिषि दर्भे आसीनः॥१०॥ तदेव ब्रह्मभूते तस्मिंस्तक्षकागमनादिक पिष्टपेषणमिवाभवदित्याह —तक्षक इति त्रिभिः॥११॥ त विषचिकित्सया परीक्षिद्रक्षणेन द्रव्यार्जनाय गच्छन्तम्। तत्र खालीढवटवृक्षस्य भस्मीभूतस्य पुनरङ्कुरादिक्रमेणोत्थापनाद्विषहारिण तदपेक्षितद्रविणैः सन्तर्प्य ।ततो निवर्त्य द्विजरूपेण तिरोहितः सन्नागत्यापेक्षितरूपेण नृपमदशत्। यतः कामरूपः यथेष्टरूपधारणे शक्तः॥१२॥ तच्च तस्य पुत्रकृत्यमिव जातमित्याह—ब्रह्मभूतस्येति॥१३॥ तत्र क्षण सर्वेषा दुःख ततः परमुत्सव चाह—
हाहाकार इति द्वाभ्याम्॥१४॥१५॥
प्रासङ्गिकमाह— जनमेजय इत्यादिना वाक्पतिमित्यन्तेन। सर्पाभिचारसत्रे द्विजैः सह वर्त्तभानः यथावत् नागान् आजुहाव मन्त्रैराचकर्ष। सर्वसर्पावाहने कारणमाह— सङ्कुद्ध इति॥१६॥ भयेन सविग्नो व्याकुलः इन्द्र शरण ययौ॥१७॥ पारीक्षितः परीक्षित्पुत्रः कस्मात्तक्षको न दह्येतेत्युवाच॥१८॥ एवमुक्ता द्विजा ऊचुः—तमिति। तेनेन्द्रेण सस्तम्भितोऽसौ सर्पः अग्नौ न पतति॥१९॥ पारीक्षित ऋत्विजः प्रति प्राह—सहेन्द्रः इन्द्रेण सहितः किमिति न पात्यते॥२०॥ तत् राज्ञो वचः श्रुत्वा विप्रा आजुहुवुः। साक्षेपमाह्वान दर्शयति—तक्षकेति। मरुत्वता मरुद्गणवता इन्द्रेण सह इहाग्नावाशु पतस्व॥२१॥ इत्येव ब्राह्मणैरुक्तैराक्षेपैः परुषवाक्यैः सविमानः सतक्षकश्चन्द्रः स्थानात् प्रचालितः अत सम्भ्रान्तभतिर्बभूव
जनमेजय स्वपितरं श्रुत्वा तक्षकभक्षितम्॥ यथाऽऽजुहाव सङ्क्रुद्धो नागान्सत्रे सह द्विजैः॥१६॥ सर्पसत्रे समिद्धाग्नौदह्यमानान्महोरगान्॥ दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ॥१७॥ अपश्यंस्तक्षक तत्र राजा पारीक्षितो द्विजान्॥ उवाच तक्षकःकस्मान्न दह्येतोरगाधमः॥१८॥ तं गोपायति राजेन्द्र शक्रः शरणमागतम्॥ तेन सस्तम्भितः सर्पस्तस्मान्नाग्नौपतत्यसौ ॥१९॥पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः॥ सहेन्द्रस्तक्षको विप्रा नाग्नौकिमिति पात्यते॥२०॥ तच्छ्रुत्वाऽऽजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे॥ तक्षकाऽऽशु पतस्वेह सहेन्द्रेण मरुत्त्वता॥२१॥ इति ब्रह्मोदिताक्षेपै स्थानादिन्द्रः प्रचालितः॥ बभूव सम्भ्रान्तमतिःसविमानः सतक्षकः॥२२॥ तं पतन्तं विमानेन सह तक्षकमम्बरात्॥ विलोक्याङ्गिरस प्राह राजानं तं बृहस्पतिः॥२३॥ नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट्॥ अनेन पीतममृतमथवा अजरामरः॥२४॥ जीवित मरणं जन्तोर्गतिःस्वेनैव कर्मणा॥ राजंस्ततोऽन्यो नान्यस्य प्रदाता सुखदुःखयोः॥२५॥
॥२२॥ तमिन्द्र अम्बरात् आकाशात् पतन्त विलोक्य अङ्गिरसः पुत्रो बृहस्पती राजान जनमेजय प्राह॥ २३॥ हे मनुष्येन्द्र एष सर्पराट् त्वया वध नार्हति। तत्र हेतुमाह—यतोऽनेनामृतं पीतम्। अथैव तस्मादेव न जीर्यतइत्यजरः स चासावमरश्चेति तथाभृत इति॥२४॥ तथापि पितृघातकत्वादेनं घक्ष्यामीत्यभिप्रायमालक्ष्य परमार्थमाह—जीवितमिति। गतिः स्वर्गादिलोकप्राप्तिः अतो दुर्मरणनिमित्ता पितुर्दुर्गतिरनेन कृतेत्यपि न शङ्कनीयं यतो हे गजन्ततः स्वकर्मणोऽन्योन्यस्य सुखदुःखयोर्दाता नास्ति। ननु सर्पादीना
तथात्वेनोपलभ्यमानत्वात्कथ ततोऽन्यो नास्ती-
त्याशङ्क्याह—सर्पेति। सर्पादिभिर्यत् जन्तुः पञ्चत्व मरणमृच्छति प्राप्नोति तदारब्ध कर्मैव भुङ्क्ते। अतः स्वकर्मप्रयुक्ता एव सर्पादयः सुखदुःखप्रदा न ते स्वतन्त्रा इत्यर्थः॥२५॥२६॥ यस्मादेव तस्मादिदमाभिचारिकं हिसाफलक सत्र सस्थीयते समाप्यताम्। अन्यथा इतोऽप्यनिष्टकर पापमेव स्यात्। सर्पादिष्टप्रयुक्त एव त्व तान्मारितवानतस्तवापि नापराध इति सूचयन्नाह—सर्पा इति। दिष्ट प्राचीन कर्म॥२७॥ वाक्पति बृहस्पतिम्॥२८॥ ननु कथं विदुषामप्येव मोहो यतो ब्रह्मकोपात् परीक्षितो मृत्युः। जनमेजयकोपाच्च सर्पाणामित्यादि तत्राह— सैषेति। यया अस्य विष्णोरात्मभूताः अशरूपा एव प्राणिनो गुणवृत्तिभिः क्रोधादिभिर्भूतेषु प्राणिषु मुह्यन्ति, बाध्यबाधकता व्रजन्तीत्यर्थः। सैषा विष्णोर्महामायेत्यन्वयः।तस्य महत्त्व तस्यात्मभृता इत्यनेन सूचितम्। तत्र हेतुमाह— अलक्षणेति। न लक्षत इत्यलक्षणा, अप्रतर्क्येत्यर्थः। ननु विचारेण बाधितया कथं मोहः स्यादित्याशङ्क्याह—अबाधयेति। भगवत्कृपामन्तरेण स्वल्पयत्नेन बाधितुमशक्ययेत्यर्थः॥२९॥ ननु यदि सैव प्रबला
सर्पचौराग्निविद्युद्भयःक्षुत्तृड्व्याध्यादिभिर्नृप॥ पञ्चत्वमृच्छते जन्तुर्भुङ्क आरब्धकर्म तत्॥२६॥ तस्मात्सत्रमिदं राजन्संस्थीयेताऽभिचारिकम्। सर्पा अनागसो दग्धा जनैर्दिष्ट हि भुज्यते॥२७॥ सूत उवाच॥ इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः॥ सर्पसत्रादुपरतःपूजयामास वाकपतिम्॥२८॥ सैषा विष्णोर्महामायाऽबाध्ययाऽलक्षणा यया॥ मुह्यन्त्यस्यैवाऽऽत्मभूता भूतेषु गुणवृत्तिभिः॥२९॥ न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभि·॥ न यद्विवादोविविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत्॥२०॥ न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम्॥ तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत्स्वयं मुनिः॥३१॥
तदा विष्णोरपि मोहादिक स्वकार्यंकुर्यादित्याशङ्क्याह—न यत्रेति। दम्भीति कपटवानय पुमानित्येवम्भूताया बुद्धावसकृदुल्लिख्यमाना या माया ब्रह्मवादे ब्रह्मविचारे क्रियमाणे आत्मवादिभिर्यत्र विष्णौ अभया न विराजिता किन्तु भीतेव स्वकार्य मोहादिकमकुर्वती कथञ्चिद्वर्त्तत इति प्रतिपादितेत्यर्थः। यदुक्त ब्रह्मणापि—‘विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया॥ विमोहिता विकत्थन्ते ममाहमिति दुर्धियः’ इति। किञ्चयत् यस्मिन् तदाश्रयः तत्कृतो मायाकृतो विविधो विवादो वाग्व्यवहारो नास्ति। तथा सङ्कल्पविकल्पा वृत्तयो यस्य तन्मनोऽपि यत्र न प्रवर्त्तते ‘यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह’ इति श्रुतेः॥३०॥ तथा सृजता कारकवर्गेण सह सृज्यं पुण्यपापात्मकं कर्म यत्र नास्ति। तथोभयोः सृज्यस्रष्टोः पर साध्यं श्रेयःफल च सुखदुःखादि यत्र नास्ति। तथा त्रिभिः सत्त्वादिभिर्गुणै रचितःजीवो जीवोपाधिरूपोऽहङ्कारश्च यत्र नास्ति। अतएव
उत्सादितौ निरस्तौ बाध्यबाधकौ भावप्रधानो निर्देशः, बाध्यत्वबाधकत्वे यस्मिस्तदेतत् परमात्मनः स्वरूपमित्यर्थं। अतो न तत्र मायाकार्यंमोहादिकमिति भावः। तर्हि जीवगतो मोहनिवृत्तिःकथमित्यपेक्षायामाह—
निषिध्येति। मुनिः मननशीलो विवेकी स्वयमपि ऊर्मीन् अहङ्कारादि निषिध्यत्यक्त्वा विरमेत् विशेषेण क्रीडेत् तद्ध्यानपर एव भवेदित्यर्थः॥३१॥ उक्तमेव सदाचारेण दृढयति—
परमिति। अनन्यसौहृदाः नास्ति भगवतोऽन्यस्मिन् सौहृद प्रेम येषां ते अतएव नेति नेतीत्येवमतत् भगवव्द्यतिरिक्तमुत्सिसृक्षवः त्यक्तुमिच्छवो भगवद्भक्ता यत्पूर्व निरूपित तदेव पर सर्वन उत्कृष्टवैष्णव पद स्वरूपमामनन्ति वर्णयन्ति। तथा समाहितैर्वशीकृतदेहेन्द्रियान्तःकरणैर्भुमुक्षुभिः दौरात्म्य देहादावहम्ममभाव विसृज्य हृदा ध्यानेनोपगुह्यालिङ्गय अवसित, निरन्तर ध्येयतया गृहीतमित्यर्थः॥३२॥ एतत्प्राप्तावधिकारिणो दर्शयति—
एतदिति। गेहपद सर्वेषा सम्बन्धिनामुपलक्षणम्।
पर पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः॥ विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः॥३२॥ त एतदधिगच्छन्ति विष्णोर्यत्परम पदम्॥अहम्ममेति दौर्जन्य न येषां देहगेहजम्॥३३॥अतिवादांस्तितिक्षेत नावमन्येत कञ्चन॥ नचेम देहमाश्रित्य वैरं कुर्वीत केनचित्॥३४॥ नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे॥यत्पादाम्बुरुहध्यानात्सहितामध्यगामिमाम्॥३५॥ शौनक उवाच॥ पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः॥ वेदाश्च कतिधा व्यस्ता एतत्सौम्याभिधेहि नः॥३६॥ सूत उवाच॥ समाहितात्मनो ब्रह्मन्त्रह्मणःपरमेष्टिनः॥ हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते॥३७॥ यदुपासनया ब्रह्मन्योगिनो मलमात्मनः। द्रव्यक्रियाकारकाख्यं धूत्वा यात्यपुनर्भवम्॥३८॥
देहजमहमिति गेहादिजं ममेति च येषा नास्ति त एव विष्णोः पदमधिगच्छन्ति॥३३॥ अतोऽहन्ता ममता च हित्वा। अतिवादान् निन्दावचनानि॥३४॥ शास्त्रसमाप्तौ गुरु प्रणमति—
नम इति। कृष्णाय व्यासाय अध्यगामधीतवानस्मि॥३५॥ इमां संहितामध्यगामित्युक्तं तत्र पुरा सहिताविभाग विशेषतो बुभुत्सुः तन्मूलभूतवेदविभागमपि प्रसङ्गात् पृथक् पृच्छति—पैलादिभिरिति। हे सौम्य॥३६॥ तत्र प्रथम वेदाविर्भावप्रकारमाहसमाहितात्मन इत्यष्टभिः। हे ब्रह्मन् समाहितात्मनः भगवद्ध्याननिष्ठस्य अतः परमेष्ठिनः सर्वोत्तमाधिकारनिष्ठस्य ब्रह्मणो हृदि आकाशस्तस्मात् नादःप्राणघोषोऽभूत्। यः कर्णपुटपिधाने श्रोत्रवृत्तिनिरोधादस्मदादिष्वपि विभाव्यते श्रूयते॥३७॥ प्रसङ्गान्नादोपासकाना मोक्षफलमाह—
यदिति। हे ब्रह्मन्यस्य नादस्योपासनया योगिनः आत्मनो मल धूत्वा अपोह्य अपुनर्भवं मोक्ष यान्तीत्यन्वयः। कि तन्मलमित्यपेक्षायामाह— द्रव्येति। द्रव्यमधिभूतं
क्रिया अध्यात्म कारकमधिदैवम् एवं त्रिधा आख्या यस्य तथाभूतम्॥३८॥ ततो नादात् त्रिवृत अकारोकारमकारात्मकः अभवत्। कण्ठोष्ठादिभिरुच्चार्यमाणस्योङ्कारस्याक्षरसमाम्नायान्तर्भावात्सूक्ष्मतया तं विशिनष्टि—अव्यक्तः प्रभवो यस्य सः। अतएव स्वराट् स्वत एव हृदि प्रकाशमानः तमेव कार्येण ।लक्षयति—यत्तदिति। नपुसकत्व लिङ्गशब्दविशेषणत्वात्। लिङ्गगमकम्॥३९॥ कोऽसौ परमात्मा तमाह—
शृणोतीति। य इमं स्फोटं अव्यक्तमोङ्कार शृणोति सः। ननु जीव एव शृणोतु नेत्याह—
सुप्तश्रोत्रे कर्णपिधानादिना श्रोत्रे अवृत्तिकेऽपि सति। जीवस्तु करणाधीनज्ञानत्वान्न तदा श्रोतातदुपलब्धिस्तु तस्य परमात्मद्वारिकैवेति भाव। ईश्वरस्तु नैवम्भूतः यतःशून्यदृक् शून्येऽपीन्द्रियवर्गे दृक् ज्ञान यस्य सः। तथाहि सुप्तो यदा शब्दं श्रुत्वा प्रबुद्ध्य तेन तदा जीवःश्रोता लीनेन्द्रियत्वात्। अतो यस्तदा शब्द श्रुत्वा जीव प्रबोधयति स यथा परमात्मैव तद्वत्। ओङ्कार विशिनष्टि—
सार्द्धेन। येन वाक् बृहती व्यज्यते। यस्य च हृदयाकाशे आत्मनः सकाशात् व्यक्तिः अभिव्यक्तिः॥४०॥ किञ्च स्वधाम्नः स्वाश्रयस्य स्वकारणस्य
ततोऽभूत्रिवृदोङ्कारो योऽव्यक्तप्रभवः स्वराट्॥ यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः॥३९॥ शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक्॥ येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मन॥४०॥ स्वधाम्नो ब्रह्मणःसाक्षाद्वाचकःपरमात्मनः॥ ससर्वमन्त्रोपनिषद्वेदबीजं सनातनम्॥४१॥ तस्य ह्यासस्त्रयोवर्णा अकाराद्या भृगूद्वह॥धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः॥४२॥ ततोऽक्षरसमाम्नायमसृजद्भगवानजः॥ अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम्॥४३॥
ब्रह्मणः परमात्मन इति विशेषण चतुर्मुखव्यावृत्त्यर्थम्। साक्षाद्वाचकः। किञ्चपरमात्माशभूतसमस्तदेवतावाचकोऽपीत्याशयेनाह—
स इति। स सर्वमन्त्राणामुपनिषद्रहस्य सूक्ष्मं रूपमित्यर्थः। तत्र हेतुमाह—
वेदाना बीज कारणमिति। बीजत्वेऽप्यविकारतामाह—
सनातन सदैकरूप तस्य ब्रह्मरूपत्वात्॥४१॥ इदानीं ततः सर्वप्रपञ्चोत्पत्तिप्रकारमाह—
तस्य हीति। हे भृगूद्वह शौनक। तस्य प्रणवस्याकाराद्यास्त्रयो वर्ण आसन्। यैरकारो कारमकारैस्त्रयो भावा धार्यन्ते तत्कारणत्वात् तानेवाह— गुणाः सत्त्वादयः। नामानि ऋग्यजुः सामानि। अर्था भूर्भुवस्स्वर्लोकाः। वृत्तयो जाग्रदाद्याः॥४२॥ ततस्तेभ्यो वर्णेभ्यः अक्षराणा समाम्नाय समाहार भगवान् अजो ब्रह्मा असृजत्। तमेव दर्शयति—अन्तस्थाः यरलवाः उष्माणः शषसहाः।स्वराः अकाराद्याः। स्पर्शा कादयो मावसानाः ह्रस्वदीर्घाश्च। आदिशब्दात् जिह्वामूलीयादयः त एव लक्षण स्वरूप यस्य तम्॥४३॥
तेनैवाक्षरसमुदायेन विभुर्ब्रह्मा चतुर्भिर्वदनैश्चातुर्होत्रविवक्षया चत्वारो होत्रोपलक्षिता ऋत्विजश्चतुर्होतारस्तैरनुष्ठेय होत्राध्वर्यवादिक कर्म चातुर्होत्र तद्विवक्षया सव्याहृतिकान्सोङ्काराश्च चतुरो वेदान् असृजदिति पूर्वेणान्वयः॥४४॥ तास्तु वेदान् सपुत्रान्मरीच्यादीन् अध्यापयत्। तेषामध्यापनयोग्यतामाह—ब्रह्मकोविदान् वेदोच्चारणादौ निपुणान्। तत्र हेतुः ब्रह्मर्षीनिति॥४५॥ एव परम्परया चतुर्युगेषु प्राप्तास्ते द्वापरादौ महर्षिभिर्व्यस्ताविभक्ताः। द्वापरादौ द्वापरमादिर्यस्य तदन्त्याशलक्षणस्य कालस्य तस्मिन्। द्वापरान्ते वेदविभागप्रसिद्धेः शन्तनुसमकालव्यासावतारप्रसिद्धेश्व॥४६॥ तद्विभागे हेतुमाह—कालतो युगे प्रवृत्ता धर्मतः क्षीणायुषःअल्पायुष्कान्। क्षीणसत्त्वान् धैर्यबलादिहीनान्। दुर्मेधान् मन्दमतीन् जनान् वीक्ष्य ब्रह्मर्षयो वेदान् व्यस्यन् विभक्तवन्तः विभागो नाम अपारेभ्यश्चतुर्भ्तोवेदराशिभ्य उद्धृत्य सहिताकरणेन प्रवर्त्तनम्। तर्हि पुरुषबुद्धिप्रभवत्वा-
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः॥ सव्याहृतिकान्सोङ्कारांश्चातुर्होत्रविवक्षया॥४४॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान्॥ ते तु धर्मोपदेष्टार स्वपुत्रेभ्यःसमादिशन्॥४५॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः॥ चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः॥४६॥ क्षीणायुषःक्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः॥ वेदान्ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः॥४७॥ अस्मिन्नप्यन्तरे ब्रह्मन्भगवॉल्लोकभावनःब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये॥४८॥ पराशरात्सत्यवत्यामंशांशकला विभुः॥ अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम्॥४९॥ ऋगथर्वयजुः-साम्नांराशीनुद्धृत्य वर्गशः॥ चतस्रः सहिताश्चक्रे मन्त्रैर्मणिगणा इव॥५०॥ तासां स चतुरःशिष्यानुपाहूय महामति॥ एकैका संहिता ब्रह्मन्नेकैकस्मै ददौ विभुः॥५१॥
दनादरणीयत्व स्यादित्याशङ्क्याह— वेदानिति। हृदिस्थेनाच्युतेन चोदिता न तु स्वबुद्धयेत्यर्थः॥४७॥ एव सामान्यतो वेदविभागक्रममुक्त्वा वैवस्वतमन्वन्तरे तद्विशेषतो निरूपयितुमाह—अस्मिन्नपीति॥४८॥ अशः प्रकृतिस्तस्या अशः सत्त्व तस्य कलया अशेन अवतीर्णः सन्॥४९॥ चातुर्विध्यमेवाह—ऋगिति। ऋगादिमन्त्राणा राशीन् वर्गशस्तत्तत्प्रकरणभेदैरुद्धृत्य तैर्मन्त्रैश्वतस्रऋगादिसहिताश्चक्रे। उद्धारे दृष्टान्तमाह—मणिगणा इवेति। यथानेकविधमणिराशेर्मणिगणाः पद्मरागादयो विविच्योद्धियन्ते तद्वदित्यर्थः॥५०॥ तासां सहितानां मध्ये एकैका सहितामेकैकस्मै विभुर्व्यासो ददौ॥५१॥
ऋक्समुदायरूपत्वाद्बह्वृचाख्याम्। नितरा प्रश्लेषेण गद्यमानत्वान्निगदाख्याम्॥५२॥ छन्दस्सु गीयमानत्वाच्छन्दोगाख्या सहिताम्॥५३॥ तत्रऋग्वेदशाखाविभागमाह— पैल इति। पैलो मुनिःस्वा सहिता द्वेधा विभज्य इन्द्रप्रमितये बाष्कलाय च ऊचे॥५४॥ स बाष्कलोऽपि स्वका सहिता चतुर्द्धा व्यस्य बोध्यादिभ्यश्चतुर्भ्यः शिष्येभ्य आहेत्यन्वयः॥हे भार्गव॥५५॥ इन्द्रप्रमितिरपि आत्मवान् बुद्धिमान् स्वासहिता स्वसुत माण्डूकेयमध्यापयामास। तस्य माण्डूकेयस्य शिष्यो देवमित्रः॥५६॥ तत्सुतो माण्डूकेयसुत. शाकल्यः स्वां सहिता पञ्चधाव्यस्य वात्स्यादिषु पञ्चसु अधात् तानध्यापयामासेत्यन्वयः॥५७॥ तच्छिष्यः शाकल्यशिष्यः जातूकर्णश्च स्वसहिता त्रेधा विभज्य चतुर्थं वैदिक-
पैलाय संहितामाद्या बह्वृचाख्यामुवाच ह॥ वैशम्पायनसञ्ज्ञाय निगदाख्यं यजुर्गणम्॥५२॥ साम्ना जैमिनये प्राह तथा छन्दोगसंहिताम्॥ अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे॥५३॥ पैलःस्वसं॑हितामूच इन्द्रप्रमितये मुनिः॥ बाष्कलाय च सोऽप्याह शिष्येभ्यःस॑हितां स्वकाम्॥५४॥ चतुर्धाव्यस्य बोध्याय याज्ञवल्क्याय भार्गव॥ पराशरायाग्निमित्रे इन्द्रप्रमितिरात्मवान्॥५५॥ अध्यापयत्सहितां स्वां माण्डूकेयमृषि कविम्॥तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान्॥५६॥ शाकल्यस्तत्सुतः स्वा तु पञ्चधा व्यस्य संहिताम्॥ वात्स्यमुद्गलशालीयगोखल्याशिशिरेष्वधात्॥५७॥ जातूकर्ण्यश्च तच्छिष्यः सनिरुक्ता स्वसंहिताम्॥बलाकपैजवैतालविरजेभ्यो ददौ मुनि॥५८॥ बाष्कलि प्रतिशाखाभ्यो वालखिल्याख्यसहिताम्॥ चक्रे बालायनिर्भज्य कासारश्चैव तां दधुः॥५९॥ बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः॥ श्रुत्वैतच्छन्दसा व्यासं सवंपापैः प्रमुच्यते॥॥६०॥ वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन्॥ यच्चेरुर्ब्रह्महत्यांऽहःक्षपणं स्वगुरोर्व्रतम्॥६१॥
पदार्थव्याख्यानरूप निरुक्त च कृत्वा बलाकादिभ्यश्चतुर्भ्योददौ॥५८॥ बाष्कालः पूर्वोक्तस्य बाष्कलस्य पुत्रः प्रतिशाखाभ्य उक्तसर्वशाखाभ्यः संहिता चक्रे। बालायन्यादयस्तामादधुः अधीतवन्तः॥५९॥ ऋक्शाखोपसहारपूर्वक तछ्रवणफलमाह— बह्वृचा इति॥६०॥ यजुर्वेदे तैत्तिरीयशाखोत्पत्ति प्रस्तावमाह—वैशम्पायनशिष्या इत्यादिना। चरकनामनिरुक्तिमाह—यदिति। ब्रह्महत्यारूपमहः पाप क्षपयतीति तथा तत् स्वगुरोरनुष्ठेय व्रतं यस्मात् स्वयं चेरुस्तस्मात्तच्चरणाच्चरका इत्यर्थः॥६१॥
याज्ञवल्क्यश्च तच्छिष्यो वैशम्पायनशिष्यः अहो भगवन् अत्पसाराणा तुच्छफलाना व्रतानामेतेषा चरितेन कियत् फलम् अह् सुदुश्चर व्रत चरिष्यामीत्याहेत्यन्वयः॥६२॥ इत्येवमुक्तः अतः कुपितो गुरुरपि विप्राणामवमन्त्रा अवज्ञाकर्त्रा शिष्येण त्वया अल पूर्ण मत्तो यदधीत तदाशु त्यज इतो याहि गच्छेत्याहेत्यन्वयः॥६३॥ सोऽपि देवरातसुतोयाज्ञवल्क्यः यजुषा गण छर्दित्वा उद्गीर्य ततः स्थानात् गत। अथानन्तर तान् मुनयोददृशुः॥६४॥ छर्दितस्यादान विप्ररूपेणानुचित मत्वा तित्तिरा पक्षिविशेषा भूत्वा यजूष्याददुर्गृहीतवन्तः। तत्र हेतुमाह—तल्लोलुपतयेति। अतएव सुपेशलाः अतिरम्याः यजुश्शाखाः तैत्तिरीया इति प्रसिद्धा आसन्। बहुवचन त्ववान्तरभेदविवक्षया॥६५॥ कण्वमाध्यन्दिनादिशाखाप्रसङ्गमाह—
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत्॥ चरितेनाल्पसाराणां चरिष्येऽह सुदुश्चरम्॥६२॥ इत्युक्तो गुरुरप्याह कुपितो याह्यलत्वया॥विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति॥६३॥ देवरातसुत सोऽपि छर्दित्वा यजुषां गणम्॥ ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान्॥६४॥ यजूषि तित्तिरा भूत्वा तल्लोलुपतया ददुः॥ तैत्तिरीया इति यजुःशाखा आसन्स्पेशलाः॥६५॥ याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन्॥ गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम्॥६६॥ याज्ञवल्क्य उवाच॥ ओन्नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाऽव्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचितसवत्सरगणेनापामादानविसर्गाभ्यामिमा लोकयात्रामनुवहति॥६७॥
याज्ञवल्क्य इत्यादिना। हे ब्रह्मन् ततः तदनन्तर गुरोर्वैशम्पायनस्य अविद्यमानानि अधिअधिकानि छन्दासि गवेषयन् मृगयन् याज्ञवल्क्यः अर्कमीश्वरं सूपतस्थे तुष्टाव॥६६॥ तत्र गायत्रीप्रथमपादार्थमनुबर्णयन् स्तौति—ओन्नम इति। यो भगवान् भवानेक एव ब्रह्मादिस्तम्बपर्यन्तानामण्डजपिण्डजोष्मजोद्भिज्जभेदेन चतुर्विधभूतनिकायानामखिलजगतामन्तर्हृदयेष्वात्मस्वरूपेण अन्तर्यामिरूपेण बहिरपि क्षणलवादयो येऽवयवास्तैरुपचिता ये संवत्सरास्तेषा गणेन कालस्वरूपेण वर्त्तमानस्तथाप्याकाश इव देहाद्युपाधिना अव्यवधीयमानः अनाच्छाद्यमानः। रश्मिभिरपामादानशोषण विसर्गश्च वृष्टिस्ताभ्यामिमा दृश्यमाना लोकयात्रा वृत्तिमनुवहति तस्मै तुभ्य भागवत आदित्याय नम इत्यन्वयः॥६७॥
गायत्रीद्वितीयपादार्थमनुवर्णयम् स्तौति—यदुहेति। प्रसिद्धिद्योतको निपातसमुदायः। ध्येयत्व सूचयन्बहुधा सम्बोधयति—हे विबुधर्षभ हे सवितः। हे अहरहः प्रतिदिनमनुसवन त्रिसन्ध्यमाम्नायविधिना वैदिकमार्गेण उपतिष्ठमानाना स्तुतिनमस्कारादिना भजता जनाना यान्यखिलानि दुरितानिपापानि तत्फलानि वृजिनानि दुःखानि बीज पापकारणमज्ञान च तेषामवभर्जन विनाशक हे तपन।यददो भगवतस्तव मण्डल तपति तत्समभिधीमहि सम्यगाभिमुख्येन ध्यायेमेत्यन्वयः॥६८॥ अथ गायत्रीतृतीयपादार्थ वर्णयन् स्तौति—य इहेति। इह लोके यो भवान् स्थिरचरनिकराणा स्थावरजङ्गमसमूहाना निजनिकेतनाना स्वशरीरभृताना जीवानामनात्मनो जगत् मन इन्द्रियप्राणगणान् स्वयमात्मैवान्तर्यामी सन्प्रचोदयतिप्रवर्त्तयति॥६९॥ तृतीयपादमेव मण्डलस्य परतया व्याचक्षाणः स्तौति—य एवेति। य एव परमकारुणिको भवान् अतिकरालवदनो योऽन्धका-
यदुह वाव विबुधर्षभसवितरदस्तपत्यनुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिनबी-जावभर्जन भगवतः समभिधीमहि तपनमण्डलम्॥६८॥ य इहवावस्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणाननात्मनः स्वयमात्माऽन्तर्यामी प्रचोदयति॥६९॥ य एवेमं लोकमतिकरालवदनान्धकारसञ्ज्ञाजगरग्रहगिलित मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवन श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयत्यवनिपतिरिवासाधूना भयमुदीरयन्नटति॥परित आशापालैस्तत्र तत्र कवलकोशाञ्जलिभिरुपहृतार्हणः॥७०॥ अथ ह भगवस्तव चरणनलिनयुगल त्रिभुवनगुरुभिर्वन्दितमहमयातयामयजुःकाम उपसरामीति ॥७१॥
रसञ्ज्ञोऽजगरग्रहग्रस्तेन गिलितमतएव मृतकमिव विचेतन निस्सञ्ज्ञमिमं लोकमवलोक्य निजानुकम्पया ईक्षया दृष्ट्यैव उत्थाप्याहरहरनुसवन त्रिसन्ध्यस्वधर्माख्य यदात्मनः परमात्मनःअवस्थानमुपासन तस्मिन् प्रवर्त्तयति। यश्च तत्र तत्र स्वस्थाने आशापालैर्दिक्पालैःइन्द्रवरुणादिभिः कमलकोशयुक्तैस्तत्तुल्यैर्वाञ्जलिभिरुपहृतार्हणः दत्तार्घः अवनिपतिरिवासाधूना दुराचाराणा मरणनरकादिभयमुदीरयन्नुत्पादयन् परितोऽटति॥७०॥ यत एवम्भूतस्त्वमथानएव हे भगवन् तस्य तव त्रिभुवनगुरुभिरिन्द्रादिभिर्वन्दित चरणनलिनयुगलमयातयामानि विस्मरणादिदोषरहितानि अन्येष्वविद्यमानानि यानि यजुषितत्कामोहमुपसरामि भजामीति चतुर्णामन्वयः। हेति सन्देहवारणार्थः। इतिशब्दः स्तुतिसमाप्तिद्योतकः॥७१॥
एव स्तुतः प्रसादितः। स भगवान् रविः॥७२॥ विभुः दुर्लभयजुर्लाभेन समर्थः। याज्ञवल्क्यः शतैरपरिमितैर्यजुर्भिर्दशपञ्चशाखा अकरोत्। सतैरिति पाठे स विभुः तैः सूर्यदत्तैर्यजुर्भिरित्यर्थः। वाजसनीसज्ञाः ताः शाखाः काण्वादयो जगृहु अधीतवन्तः॥७३॥ सामशाखाविभागमाह—जैमिनेरिति। तत्सुतः सुमन्तुसुतः सुतन्वान् स्ववेद द्वेधा विभज्य ताभ्यां पुत्रपौत्राभ्यामेकैका सहितां जैमिनिः प्राह॥ ७४॥ सुकर्मा चापि तच्छिष्यः जैमिनिशिष्यः। स च महान् महाबुद्धिमान्। अतस्ततस्तस्मात् सामवेदतरोः सकाशात् साम्ना सहस्र सहिताभेदं चक्रे हे द्विजाः॥७५॥ कौशल्योहिरण्यनाभः पौष्यञ्जिश्चएतौ द्वौ सुकर्मणः शिष्यौ तं सहिताभेद जगृहतुः। तथाऽन्योऽपि ब्रह्मवित्तमःआवन्त्यो नाम तस्यैव शिष्यः सोऽपि त
सूत उवाच॥ एवं स्तुतःस भगवान् वाजिरूपधरो हरिः॥ यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः॥७२॥ यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभु12ः॥ जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः॥७३॥ जैमिनेःसामगस्याऽऽसीत्सुमन्तुस्तनयो मुनिः॥ सुन्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह सहिताम्॥७४॥ सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान्॥ सहस्रसंहिताभेदं चक्रे साम्नांततो द्विजः॥७५॥ हिरण्यनाभः कौशल्यः पौष्यञ्जिश्च सुकर्मणः॥ शिष्यो जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः॥७६॥ उदीच्याः सामगाः शिष्या आसन्पञ्चशतानि वै॥ पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान्प्रचक्षते॥७७॥ लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च॥ पौष्यञ्जिशिष्या जगृहुः सहितास्ते शतं शतम्॥७८॥ कृतो हिरण्यनाभस्य चतुर्विशतिसंहिताः॥ शिष्य ऊचे स्वशिष्येभ्यःशेषा आवन्त्य आत्मवान्॥७९॥
जग्राह॥७६॥ पौष्यञ्ज्यावन्त्ययोश्चकारात् हिरण्यनाभस्यापि पञ्चशतानि शिष्या आसन् ते तावतीः शाखा यथायथ जगृहुः। तानुदीच्यान् सतः काश्चित्प्राच्याश्च प्रचक्षत इत्यर्थः। यथोक्त वैष्णवे ‘उदीच्याः सामगाः शिष्यास्तस्य पञ्चशतं स्मृताः॥ हिरण्यनाभात्तावन्त्यः सहितायै द्विजोत्तमैः॥गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगा’ इति॥७७॥ पुनरप्येतेषा त्रयाणा सुकर्मणः शिष्याणा शिष्यान्तरैः शाखाबाहुल्यं दर्शयति—लौगाक्षिरिति द्वाभ्याम्॥७८॥ कृतसंज्ञको हिरण्यनाभस्य शिष्यः चतुर्विंशतिसहिताःस्वशिष्येभ्य ऊचे। शेषाः अन्या अपि याः प्रसिद्धाः शाखास्ता आवन्त्यः स्वशिष्येभ्य ऊचे॥७९॥
इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दासिद्धये ॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ षष्ठो हि विवृतो वेदविभागविनिरूपकः॥३॥छ॥सप्तमेऽथर्वविस्तार पुराणव्यसन तथा॥ पुराणलक्षणादीनि फल भागवतश्रुतेः॥१॥ क्रमप्राप्तमथर्ववेदविभागमाह—अथर्वविदिति। सुमन्तःस्वकीयां सहिता स्वशिष्यकबन्धनामानमध्यापयामास। सोऽपि शिष्योऽपि ता द्विधा विभज्य। तदुक्त वैष्णवे ‘अथर्ववेद सुमतिः सुमन्तुरमितद्युतिः॥ शिष्यमध्यापयामास कबन्धं सोऽपि त द्विधा॥ कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान्’ इति॥१॥ तत्र वेददर्श स्वसहिता चतुर्द्धा विभज्य शौक्लायन्यादिचतुरः
इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे वेदविभागनिरूपण नाम षष्ठोऽध्यायः॥६॥छ॥ सूत उवाच॥ अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत्स्वकाम्॥सहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्॥१॥ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः॥ वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो शृणु॥ कुमुद शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्॥२॥ बभ्रुःशिष्योऽथाङ्गिरस सैन्धवायन एव च॥ अधीयेता सहिते द्वेसावर्ण्याद्यास्तथाऽपरे॥३॥ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः॥ एते आथर्वणाचार्याः शृणु पौराणिकान्मुने॥४॥ त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः॥ वैशम्पायनहारीतौ षड्वैपौराणिका इमे॥५॥
शिष्यान् अध्यापयामास। पथ्यश्च त्रिधा विभज्य त्रीनिति सार्ध्येनाह—शौक्लायनिरिति॥२॥ अङ्गिरसः शुनकस्य शिष्यः। तदुक्तम् ‘शुनकस्तुद्विधा कृत्वा ददावैका तु बभ्रुवे॥ द्वितीया सहिता प्रादात्सैन्धवायनसज्ञिन’ इति। सावर्ण्याद्यासैन्धवायनादिशिष्याः॥३॥ आद्यशब्दविवक्षितानाह—नक्षत्रकल्पः शान्तिश्व शान्तिकल्पचेति द्वौ। तदुक्तम् ‘नक्षत्रकल्पो वेदाना सहिताना तथैव च॥ चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्चपञ्चम इति। नक्षत्रकरत्पादिग्रन्थाना कर्तारस्तत्तन्नामभिरुच्यन्ते। आचार्याःशाखाविभागेन प्रवर्त्तकाः एव वेदसंहिताविभागमभिधाय पुराणसहिताविभाग कर्त्तृ्श्रवणे प्रचोदयति—हे मुने पौराणिकान् श्रृण्विति॥४॥ तानाह—त्रय्यारुणिरिति॥५॥
व्यासशिष्यात् मत्पितुर्मुखादेते अधीयन्त। प्रथमं व्यासः षट् संहिताः कृत्वा मत्पित्रे रोमहर्षणाय प्रादात्। तस्य च मुखादेते त्रय्यारुण्यादयः एकैका सहितामधीयन्त। एतेषा षण्णा शिष्योहमतस्ताः सर्वा एव समधीतवान्॥६॥ एते चत्वारो वयं मूलसहिता अधीमहि मूलेत्युक्त्या ततः सहिताबाहुल्य सूचितम्॥७॥ शुकपरीक्षित्संवादे निरूपितमपि पुराणलक्षण तद्भेदकथनाय पुनराह—पुराणेति॥८॥ अस्य विश्वस्य ‘अत्र सर्गोसविसर्गश्च स्थान पोषणमूतयः॥ मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः॥ इत्यत्रोक्तेः स्थानपोषणे वृत्तिरक्षाशब्दाभ्यामुच्येते। अन्तराणि मन्वन्तराणि। वशो वश्यानुचरितमिति च ईशानुकथाः। सस्था निरोधः। अनेनैवात्यन्तिकलयरूपा मुक्तिरप्युक्ता हेतुशब्देन जीवाश्रयवासनाशब्दवाच्य ऊतयो गृहीताः॥९॥ दशभिरेतैर्लक्षणैरर्थैर्युक्त पुराणविदो महापुराणं विदुः। हे ब्रह्मन् केचित्तु पञ्चविध पुराणलक्षणमाहुः—‘सर्गश्च प्रतिसर्गश्च
अधीयन्त व्यासशिष्यात्संहितां मत्पितुर्मुखात्॥ एकैकामहमेतेषां शिष्य सर्वाःसमध्यगाम्॥६॥ कश्यपोऽहं च सावर्णीं रामशिष्योऽकृतव्रणः॥ अधीमहि व्यासशिष्याच्चतस्रो मूलसंहिताः॥७॥ पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम्॥शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥८॥ सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणिच॥ वशो वंशानुचरितं संस्था हेतुरपाश्रयः॥९॥ दशभिर्लक्षणैर्युक्त पुराणं तद्विदो विदुः॥ केचित्पञ्चविधं ब्रह्मन्महदल्पव्यवस्थया॥॥१०॥ अव्याकृतगुणक्षोभान् महतस्त्रिवृतोऽहमः॥ भूतमात्रेन्द्रियार्थानां सम्भवः सर्व उच्यते॥११॥ पुरुषानुगृहीतानामेतेषां वासनामयः॥ विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम्॥१२॥
वंशो मन्वन्तराणि च॥ वशानुचरित चेति पुराण पञ्चलक्षणम्’ इति। ननु लक्षणद्वयं कथं सङ्गच्छते तत्राह महदल्पं पुराण चेति व्यवस्थयेति।यत्र दशापि लक्षणानि पृथक् निरूप्यन्ते तन्महापुराणम्। यत्र त्वन्येषा पञ्चस्वेवान्तर्भावस्य विवक्षा तदल्पपुराणमिति व्यवस्थयेत्यर्थः॥१०॥ सर्गादिखरूप निरूपयति—अव्याकृतेत्यादिना। अव्याकृतस्य प्रधानस्य गुणाना क्षोभात् यो महान् तस्मात् यस्त्रिवृत् त्रिविधोऽहङ्कारस्तस्मात् भूतसूक्ष्माणां शब्दादितन्मात्राणामिन्द्रियाणा च तदर्थाना स्थूलानां पृथिव्यादिमहाभूतानां तद्देवतानां च सम्भवः सर्ग उच्यते॥११॥ विसर्ग निरूपयति—पुरुषेति। पुरुषेण परमेश्वरेणानुगृहीतानामाहितसृष्टिसामर्थ्यानामेतेषा महदादीनां वासनामयः पूर्वकर्मवासनाप्रधानः योऽयं समाहारः सङ्घातभूतः चराचरशरीरात्मकः बीजाद्बीजमिव प्रवाहापन्नः स विसर्ग उच्यते॥१२॥
वृत्तिं निरूपयति—वृत्तिरिति। चराणां भूतानां सामान्यतः अचराणि व्रीहिफलादीनि चकारात् चराणि गोमहिषीवृषादीनि च जीविकासाधन वृत्तिरुच्यते। तत्रापि नृणा स्वेन स्वभावेन कामात्। तथा चोदनया शास्त्रविध्यनुसारेण वा कृता वृत्तिर्भवति॥१३॥ रक्षा निरूपयति—युगे युगे तिर्यगादिषु येऽच्युतावतारास्तेषामीहा लीलाश्चसा विश्वस्य रक्षोच्यते। रक्षामेव स्पष्टयति—यैरवतारैस्तच्चेष्टितैः त्रयीद्विषो वेदविरोधिन आसुराहन्यन्त इति॥१४॥ मन्वन्तर निरूपयति—षड्विध मन्वन्तरमुच्यते—षड्विधत्वमेवाह—मनुरिति। एते मन्वादयः षड्वर्गा स्वस्वाधिकारे यदाप्रवर्त्तन्ते स कालः, मन्वन्तरमित्युच्यत इत्यर्थः॥१५॥ वशमाह—राज्ञामिति। ब्रह्मणःसकाशात् प्रसूतिर्येषां तेषां शुद्धानां राज्ञां यस्त्रैकालिकोऽन्वयः स वश इत्युच्यते। तेषां मध्ये ये वशधराः राज्यवशादिनिर्वाहकास्तेषां वृत्त वश्यानुचारितमुच्यते॥१६॥ सस्था निरूपयति—नैमित्तिक
वृत्तिर्भूतानि भूतानां चराणामचराणिच॥ कृता स्वेन नृणां तत्र कामाच्चोदनयाऽपि वा॥१३॥ रक्षाच्युतावतारेहाविश्वस्यानु युगेयुगे॥ तिर्यङ्भर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विष॥१४॥ मन्वन्तर मनुर्देवा मनुपुत्राःसुरेश्वरः॥ ऋषयोऽशावतारश्च हरेःषड्विधमुच्यते॥१५॥ राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः॥ वंशानुचरितं तेषा वृत्तं वंशधराश्च ये॥१६॥ नैमित्तिक प्राकृतिको नित्य आत्यन्तिको लयः॥ संस्थोतिकविभिःप्रोक्ता चतुर्धाऽस्य स्वभावत॥१७॥ हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः॥ य चानुशयिन प्राहुरव्याकृतमुतापरे॥१८॥ व्यतिरेकान्वयो यस्यजाग्रत्स्वप्र सुषुप्तिषु॥ मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः॥१९॥ पदार्थेषु यथा द्रव्य सन्मात्रं रूपनामसु॥ बीजादि पञ्चतां तासु ह्यवस्थासु युतायुतम्॥ २०
इति। स्वभावतः कालकर्मगुणाधीनत्वादस्य विश्वस्य यो नैमित्तिकादिचतुर्धा लयः स सस्थेति कविभिः प्रोक्तेत्यन्वयः॥१७॥ हेतुमाह—हेतुरिति। यः अविद्यया मोहितः कर्मकारकः कर्मकर्त्ता तत्कर्मप्रयुक्तत्वात् स जीव एव अस्य विश्वस्य सर्गादेर्हेतुः। कर्मकर्तृत्वादेव य जीवमनुशयिनमाहुः। अनुशयः अभुक्तफलकर्मविशेषस्तद्वाननुशयी। उत त्वर्थे। अपरे तु सृष्टेः पूर्व नामरूपविशेषाकृतिरहितत्वात् यमव्याकृतमाहु॥१८॥ आश्रय निरूपयति—व्यतिरेकेति। जीववृत्तिषु जाग्रदाद्यवस्थासु यस्य माक्षितया कारणतया चान्वयः। व्यतिरेकः तत्पृथक्तयास्वरूपेणावस्थान च तद्ब्रह्म अपाश्रय उच्यते। ननु जाग्रदाद्यवस्थाना बुद्धिवृत्तित्वेनोक्तत्वात्कथ जीववृत्तित्वमित्याशङ्क्याह—मायामयेष्विति, अविद्यया जीवेषु कल्पितावित्यर्थः॥१९॥ एतदेव सदृष्टान्तमाह—पदार्थेष्विति। रूपनामसु स्वरूपनामवत्सु पदार्थेषु कार्येषु घटा-
दिषु सन्मात्र कारणं द्रव्य महदादि यथा युतमयुत तद्व्यतिरेकेणावस्थित च एव बीज गर्भाधानमादिर्यासा पञ्चता मरणमन्ते च यासा तासु देहावस्थास्वप्यधिष्ठानत्वेन साक्षित्वेन कारणत्वेन च युतमयुत च यद्ब्रह्म तदपाश्रयः। अपशब्दः तस्य स्वाश्रयत्वमेव न तस्याश्रयान्तरमस्तीति सूचनार्थः॥२०॥ एवं दशापि पुराणलक्षणानि व्याख्याय तत्प्रयोजनमाह—विरमेतेति। वाशब्दः एवकारार्थे। योगेन सर्गादिश्रवणकीर्त्तनादिना जातेन भक्तियोगेन चित्त यदैव विरमेत विषयासक्तिं परित्यजेत् तदाऽयमात्मान वेद त ज्ञात्वा वृत्तित्रय जाग्रदाद्यवस्थात्रय हित्वा स्वयमेवेहायाःससाररूपाया निवर्त्तते॥२१॥ एव पुराणविभागप्रस्तावेन तल्लक्षणादिप्रासङ्गिकमुक्त्वा प्रस्तुतमाह—एवविधैर्लक्षणैर्लक्ष्याणि॥२२॥२३॥ त्रिषट् अष्टादश॥२४॥ उपसंहरति—हे ब्रह्मन् श्रवणादिपराणा ब्रह्मतेजोविवर्द्धनमिद मुनेर्व्यासस्य तच्छिष्यादीनां च शाखाप्रणयन सहिताप्रवर्त्तन मया समा-
विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम्॥योगेन वा तदाऽऽत्मान वेदेहा या निवर्तते॥२१॥ एवं लक्षणलक्ष्याणि पुराणानि पुराविदः॥मुनयोऽष्टादश प्राहुःक्षुल्लकानि महान्ति च॥२२॥ ब्राह्म पाद्म वैष्णव च शैव लैङ्गसगारुडम्। नारदीयं भागवतमायं स्कान्दसञ्ज्ञितम्॥२३॥ भविष्य ब्रह्मवैवर्तं मार्कण्डेय सवामनम्॥ वाराह मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट्॥२४॥ब्रह्मन्निद समाख्यात शाखाप्रणयनं मुनेः॥शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् २५॥छ॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे परमाश्रयनिरूपणे पुराणलक्षणनिरूपण नाम सप्तमोऽध्याय॥७॥ शौनक उवाच॥ सूत जीव चिर साधोवद नो वदतां वर॥ तमस्यपारे भ्रमतां नृणां त्वं पारदर्शनः॥१॥
ख्यातमित्यन्वयः॥२५॥ इति श्रीवल्लभाचार्यवश्यगोपालसुनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ सप्तमो विवृतोऽध्यायः पुराणाङ्कनिरूपकः॥३॥॥छ॥ अष्टमे तु तपश्चर्यामोहकैरविमोहनम्॥ नारायणस्तुतिश्चापि मार्कण्डेयस्य वर्ण्यते॥१॥ पुराणगणनाया मार्कण्डेयपुराण नाम श्रवणेनोपस्थित।मार्कण्डेयचरित सूतस्तुतिपूर्वक पृच्छति—सुतेत्यादिभिः पञ्चभिः। तदादरार्थ बहुधा सम्बोधयति—हे सूत हे साधो हे वदता वर त्वं चिर जीव। यतः अपारे दुस्तरे तमसि अज्ञानान्धकारपूर्णे संसारे भ्रमता नृणा त्वमेव पारदर्शनः तन्निवर्त्तकः। अतो नोऽस्माकं यच्छुश्रूषित तद्वदेत्यन्वयः॥१॥
किं शुश्रूषितं तत्राह—आहुरिति। चिरायुष्ट्वेहेतुमाह—य इति। येन कल्पान्तेन प्रलयेनेद जगत् ग्रस्त तस्मिन् कल्पान्ते यः उर्वरितः अवशिष्टः।एतत्कथ घटत इत्याशयः॥२॥ अवशिष्टत्व तु न सम्भवति यतः सोऽस्मिन्नेव कल्पे तत्राप्यस्मत्कुल एवोत्पन्नः। तत्रास्मिन्कल्पे तु प्राकृतिकोनैमित्तिको वा कोऽपि भूताना सम्प्लवः प्रलयो नैव जातः। अतः प्रलयाभावादप्यवशिष्टत्वकथनमनुपपन्नमित्याशयः। स्वकुलोत्पन्नत्वे प्रमाणमाह—भार्गवर्षभ इति॥३॥ किञ्च एक एवार्णवे प्रलयार्णवे भ्राम्यन् वटपत्रपुटे शयान पुरुष पुरुषाकारमेकमद्भुत तोक बाल च ददर्शेत्यपि प्राहुस्तदपि कथ जातमिति शेषः॥४॥ एष तदवशेषादिविषयको नोऽस्माक भूयान् महान् सशयो वर्त्तते यतः सशयात्हे सूत कौतूहल श्रवणौत्सुक्य चवर्त्तते। हे महायोगिन् बहुज्ञ यतस्त्वं पुराणेष्वपि ज्ञातृत्वेन सम्मतः अतरत्वमस्मत्सशय छिन्धि उपपत्तिकथनेनापाकुरु॥५॥ एवम्पृष्टः सृतः
आहुश्चिरायुषमृषि मृकण्डतनयं जनाः॥ यःकल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत्॥२॥ स वा अस्मत्कुलोत्पन्नःकल्पेऽस्मिन्भार्गवर्षभः॥ नैवाधुनाऽपि भूतानां सम्प्लवःकोऽपि जायते॥३॥ एक एवार्णवे भ्राम्यन्ददर्श पुरुषं किल॥ वटपत्रपुटे तोकं शयानं त्वेकमद्भुतम्॥४॥ एष नःसंशयो भूयान्सूत कौतूहल यतः॥ तं न श्छिन्धिमहायोगिन् पुराणेष्वपि सम्मतः॥५॥ सूत उवाच॥ प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः॥ नारायणकथा यत्र गीता कलिमलापहा॥६॥ प्राप्तद्विजातिसस्कारो मार्कण्डेयःपितुःक्रमात्॥ छन्दांस्यधीत्य धर्मेण तपस्स्वाध्यायसंयुतः॥७॥ बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः। बिभ्रत्कमण्डलुं दण्डमुपवीतं समेखलम्॥८॥ कृष्णाजिनंसाक्षसूत्रं कुशांश्च नियमर्द्धये॥ अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम्॥९॥
प्रथम प्रश्नमभिनन्दति—प्रश्न इति। हे महर्षे त्वया कृतोऽय प्रश्नः लोकस्य भ्रममपहन्तीति तथाभूतः। तत्र हेतुमाह—यत्र तव प्रश्नसमाधाने कलिमलापहा नारायणस्य कथा गीता भविष्यतीति॥६॥ तत्र मार्कण्डेयस्तपसा भगवन्तमाराध्य मायादर्शन वव्रेततश्च तेनैव भगवन्मायया सप्त कल्पादृष्टा नान्यैरित्युत्तर वक्तुमादित आरभ्य तस्य चरितमाह— प्राप्तेत्यादिना यावदध्यायसमाप्ति। मार्कण्डेयो मृत्युं जिग्य इति पञ्चमेनान्वयः। मध्यमग्रन्थेन तस्यधर्मः कथ्यते क्रमात् गर्भाधानादिसंस्कार क्रमात् पितुः सकाशात् प्राप्तो द्विजातिसस्कार उपनयनाख्यो येन सः। धर्मेण शास्त्रोक्तविधिना छन्दासिवेदान् अधीत्य तपसा स्वोचितधर्मेण स्वाध्यायेन वेदाध्ययनेन च संयुतः॥७॥ बृहद्व्रतधरः नैष्ठिकः ब्रह्मचर्यधरः। नियमर्द्धये धर्मवृद्धये कमण्डल्वादिकबिभ्राणः॥८॥ सायम्प्रातः सन्ध्ययोरग्न्यादिषु हरिमर्चयन् भैक्ष्यमाहृत्य गुरवे समर्प्यते। सोऽनुज्ञातश्चेत्तर्हि बुभुजे सकृदेकवार नोचेदननुज्ञात-
श्चेदुपोषितो भवति॥९॥१०॥११॥ तेन मृत्युजयेन सुविस्मिता आसन्॥१२॥ योगी जितेन्द्रियः ध्वस्ताः क्लेशरागादयो यस्य तेनान्तरात्मना प्रत्यादत्तेन मनसा अधोक्षजं परमात्मान भगवन्त दध्यौ॥१३॥ तस्यैव महायोगेन एकाग्रेण चित्त परमात्मनि युञ्जतो मन्वन्तरषडात्मको महान्कालो व्यतीयाय व्यतिक्रान्तोऽभूत्॥१४॥ तस्य तपोनिष्ठामितिहासेन वर्णयति—एतदित्यादिना। अस्मिन् सप्तमे मन्वन्तर एतत् तस्य तपश्चरणपुरन्दरो ज्ञात्वा तपमा मत्पद ग्रहीष्यतीति विशङ्कितः तस्य तपसो विघातन कर्त्तुमारेभे॥१५॥ मुनये मुनि भ्रशयितु गन्धर्वादीन्प्रेषयामास। रजस-
सायम्प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः॥ बुभुजे गुर्वनुज्ञातःसकृन्नोचेदुपोषितः॥१०॥ एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम्॥ आराधयन्हृषीकेशं जिग्ये मृत्युं सुदुर्जयम्॥११॥ ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे॥ नृदेवपितृभूतानि तेनासन्नतिविस्मिताः॥१२॥ इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः॥ दध्यावधोक्षजं योगिध्वस्तक्लेशान्तरात्मना॥१३॥तस्यैवं युञ्जतश्चित्त महायोगेन योगिनः॥ व्यतीयाय महान्कालो मन्वन्तरषडात्मकः॥१४॥ एतत्पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन्किलान्तरे॥ तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम्॥१५॥ गन्धर्वाप्सरसः कामंवसन्तमलयानिलौ॥ मुनये प्रेषयामास रजस्तोकमदौ तथा॥१६॥ ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे॥पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो॥१७॥ तदाश्रमपदं पुण्यं पुण्यद्रुमलताऽञ्चितम्॥ पुण्यद्विजकुलाकीर्णंपुण्यामलजलाशयम्॥१८॥ मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम्॥ मत्तवबर्हिनटाटोपं मत्तद्विजकुलाकुलम्॥१९॥ वायुः प्रविष्ट आदाय हिमनिर्झरशीकराम्॥ सुमनोभिःपरिष्वक्तो ववावुत्तम्भयन्स्मरम्॥२०॥
स्तोकमतिप्रियमपत्य लोभः मदश्चतौ॥१६॥१७॥ तदाश्रमपद प्रविष्टो वायुर्ववाविति तृतीयेनान्वयः। पुण्यैर्द्रुमैर्लताभिश्चाञ्चित पूजित पुण्यद्विजानामृषीणा कुलैराकीर्णे पुण्या अत्यमला जलाशया यस्मिन्॥१८॥ मत्तभ्रमराणा सङ्गीत यस्मिन्। मत्तकोकिलाना कूजित यस्मिन्। मत्तबर्हिण एव नटास्तेषामाटोपः सम्भ्रमो यस्मिन्। मत्तद्विजाना पक्षिणा कुलैराकुल व्याप्तम्॥१९॥ एवम्भूत तदाश्रमपद प्रविष्टो वायुर्मलयानिलः स्मरमुत्तमयन्नुद्दीपयन् ववौप्रससार। तत्र वृक्षेषु प्रवेशान्मान्द्यं हिमनिर्झरकणादानात्शैत्यं पुष्पपरिष्वङ्गात् सौगन्ध्य चोक्तम्॥२०॥
किञ्च उद्यश्चन्द्रो यस्मिंस्तन्निशावकं रजनीमुख यस्य सः। प्रवालस्तबकानामालयः श्रेणयो येषु तैः। गुप्यन्ति विटपैः सश्लिष्यन्तीति गोपा द्रुमाः लताश्च तेषा जालैः समूहैश्चसह तत्र कुसुमाकरः आसीत् आविर्बभूव॥२१॥ किञ्च तदा गीतवादित्रयूथिकैः गायकादिसमुदायिभिः गन्धर्वैरन्वीयमानः तथा स्वस्त्रियोऽप्सरसस्तासा यूथस्य पतिः आत्त चापमिषुश्च येन स स्मरश्च तत्रादृश्यत॥२२॥ दुराधर्षमभिभवितुमशक्यम्। तत्र हेतुः मूर्त्तिमन्तमनलमिवासीन ददृशुः॥२३॥ तस्य मार्कण्डेयस्य पुरतःनृत्यादि चक्रुः॥२४॥ शोषणमोहनसन्दीपनतापनोन्मादनाख्यानि पञ्च मुखानि यस्य तदस्त्र धनुषि सन्दधे। तदैव मधुर्वसन्तःरजस्तोको लोभः। पुंस्त्वमार्षम्। अन्ये च ये इन्द्रभृत्याः ते सर्वे तस्य मनो व्यक-
उद्यच्चन्द्रनिशावक्रःप्रवालस्तबकालिभिः॥ गोपद्रुमलता जालैस्तत्राऽऽसीत्कुसुमाकरः॥२१॥ अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः॥ अदृश्यतात्तचापेषुःस्वस्स्त्रीयूथपतिः स्मरः॥२२॥ हुत्वाऽग्निसमुपासीनं ददृशुः शक्रकिङ्कराः॥ मीलिताक्ष दुराधर्षं मूर्तिमन्तमिवानलम्॥२३॥ ननृतुस्तस्य पुरतःस्त्रियोऽथोगायका जगुः॥ मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम्॥२४॥ सन्दधेऽस्त्र स्वधनुषि कामः पञ्चमुखं तदा॥ मधुर्मनोरजस्तोक इन्द्रभृत्या व्यकम्पयन्॥२५॥ क्रीडन्त्या पुञ्जिकस्थल्याः कन्दुकैःस्तनगौरवात्॥ भृशमुद्विग्नमध्याया केशविस्रंसितस्रः॥२६॥ इतस्ततो भ्रमद्दृष्टेश्वलन्त्या अनुकन्दुकम्॥ वायुर्जहार तद्वासःसूक्ष्मं त्रुटितमेखलम्॥२७॥ विससर्ज तदा बाण मत्वा तं स्वजित स्मरः॥ सर्वं तत्राभवन्मोघमनीशस्य यथोद्यमः॥२८॥ त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने॥ दह्यमानानि ववृतुः प्रबोध्याहिमिवार्भकाः॥२९॥ इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि॥ यन्नागादहमोभाव न तच्चित्रं महत्सु हि॥३०॥
म्पयन् अक्षोभयन्॥२५॥ पुञ्जिकस्थलीनामाप्सरास्तस्याः स्तनगौरवात् भृशमुद्विग्नमध्यायाः केशेभ्यो विस्रसिताः स्रजो यस्यास्तस्याः॥२६॥ कन्दुकमनुसृत्येतस्ततो भ्रमन्त्यौ दृष्टीर्यस्याश्चलन्त्याः अतएव त्रुटिता मेखला यस्मिस्तत्सूक्ष्म वासो वस्त्रं वायुर्जहार॥२७॥सर्व कर्म तेषा तत्र तस्मिन्मोघव्यर्थम्। अनीशस्य भाग्यहीनस्य॥२८॥ हे मुने तस्यैवमपकुर्वन्तस्तस्य मुनेस्तेजसा दह्यमानानि ववृतुः। भयान्निवृत्तौ दृष्टान्तमाह—यथा अर्भकाअहि सर्प प्रबोध्य ततो निर्वर्त्तन्ते तद्वदिति॥२९॥ तत्तत्राश्चर्यं मन्यमानमालक्ष्याह—इतीति। हे ब्रह्मन्नित्येव धर्षितोऽपि यदहमोऽहङ्कारस्य भावक्रोधमोहादिविकार नागात्तदेतद्धि महत्सु चित्र न भवति शान्तत्वादित्याशयः॥३०॥
स्वराट् इन्द्रः काम निस्तेजस परिम्लानवदनं दृष्ट्वा तथा ब्रह्मर्षेर्मार्कण्डेयस्य प्रभाव च श्रुत्वा पर भृशं विस्मयमगात्॥३१॥ नरनारायणः नरसहितो नारायणः॥३२॥ तावनुवर्णयति—द्वाभ्याम् तौ शुक्लकृष्णाविति। तत्र नरः शुक्लःनारायणः कृष्णः। रौरव कृष्णाजिन वल्कल च ते अम्बरेययोस्तौ। पवित्रे पाण्योर्ययोस्तौ। त्रिवृत्त्रिगुण नवतन्तुकमिति वा। त्रिवृद्बहिः पावमानमित्यादौ नवके प्रयोगदर्शनादिति। उपवीतमृजुमवत्र वैणवदण्डम्॥३३॥ जन्तुमार्जन पिपीलिकामशकादिजन्तूनामपनोदक वस्त्र वेद दर्भमुष्टि च दधानौ। साक्षात्तप एव रूप मूर्त्तिरनयोरस्तीति तथाभूतौ। तत्र हेतुः— तपत्तडिद्वर्ण दीप्यमानविद्युत्सङ्काश यत्पिशङ्गरोचिस्तेन युक्ताविति शेषः। तादृक् तेजोयुक्तमूर्तिभ्यां तपोमयत्वेन प्रकाशमानावित्यर्थः।
दृष्ट्वा निस्तेजसं कामं सगण भगवान्स्वराट्॥ श्रुत्वानुभाव ब्रह्मर्षेर्विस्मयं समगात्परम्॥३९॥ तस्यैव युञ्जतश्चित्तं तपःस्वाध्यायसयमैः॥ अनुग्रहायाविरासीन्नरनारायणो हरिः॥३२॥ तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ॥ पवित्रपाणी उपवीतकं त्रिवृत्कमण्डलु दण्डमृजु च वैणवम्॥३३॥ पद्माक्षमालामुत जन्तुमार्जन वेदं च साक्षात्तप एव रूपिणौ॥ तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ॥३४॥ ते वै भगवतो रूपे नरनारायणावृषी। दृष्ट्वोत्थायाऽऽदरेणोच्चैर्ननामाङ्गेन दण्डवत्॥३५॥ स तत्सन्दर्शनानन्दनिवृत्तात्मेन्द्रियाशयः॥ हृष्टरोमाऽश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम्॥३६॥ उत्थाय प्राञ्जलि प्रह्वऔत्सुक्यादाश्लिषन्निव। नमो नम इतीशानौबभाषे गद्गदाक्षरः॥३७॥ तयोरासनमादाय पादयोरवनिज्य च॥ अर्हणेनानुलेपेन धूपमाल्यैरपूजयत्॥३८॥ सुखमासनमासीनौ प्रसादाभिमुखौ मुनी॥ पुनरानम्य पादाभ्या गरिष्ठाविदमब्रवीत्॥३९॥ मार्कण्डेय उवाच॥ कि वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनुवाङ्मन इन्द्रियाणि॥ स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः॥४०॥
प्राशु उन्नतौ। विबुधर्षभैर्ब्रह्मादिभिरर्चितौ॥३४॥ उच्चैर्महता आदरेण॥३५॥ तयोः सन्दर्शनेन य आनन्दस्तेन निवृत्ता उपशान्ता आत्मेन्द्रियाशया देहेन्द्रियमनासि यस्य सः। हृष्टानि पुलकितानि रोमाणि यस्य सः मुनिस्तावुदीक्षितुमपि न सेहे नाशक्नोत्॥३६॥ प्रह्वोनम्रः आश्लिष्यन् आलिङ्गयन् इवोत्थाय नमोनम इति बभाषे॥३७॥ तयोः पादयोरवनिज्य पादौ प्रक्षाल्यार्हणमर्घतदादिभिरपूजयत्॥३८॥ पादाभ्यां पादावानम्यगरिष्ठौ पूज्यतमौ प्रतीदमब्रवीत्॥३९॥ तदुक्तिमेव दर्शयति—यावत्समाप्ति। तत्रान्तर्यामिणस्तस्यैव प्राणादिप्रवर्त्तकत्त्वादात्मनस्तत्स्तुतावस्वातन्त्र्यपश्यन्नाह—किमिति। हे विभो तव त्वा किमह वर्णये कथं स्तौमि यत् येन त्वयैव उदीरितः तनुभृतामजशर्वयोश्च तथा स्वस्य ममापि असुः प्राणः
सस्पन्दते त स्पन्दमान प्राणमनुसृत्य वागादीनीन्द्रियाणि प्रचलन्ति स्वस्वव्यापारे प्रवर्त्तन्ते। अन्वयव्यतिरेकाभ्या श्रोत्रमित्यादिश्रुतिभिश्चप्रसिद्धमेतदिति सूचयन्नाह—वै इति। यद्यप्येव न कस्यातिस्वातन्त्र्यमथापि दारुयन्त्रवत्स्वप्रवर्त्तितैरपि वागादिभिर्भजता पुसा त्व भावबन्दुरसि भावेनबध्यते वशीभवतीति तथाभूतोऽसि। अहो तव कृपालुतेति भावः॥४०॥ ननु प्राणादिप्रवर्त्तकोऽन्तर्यामीश्वर एव नावा धर्मपुत्रत्वादावयोरित्याशङ्कयतयोरीश्वरावतारतामाह—मूर्त्ती इति। हे भगवन् भगवतः षाड्गुण्यपरिपूर्णस्यैवेमे मूर्त्ती अवतारौ। तत्प्रयोजनमाह—त्रिलोक्याः क्षेमाय पालनायआध्यात्मिकादितापत्रयविरमाय मृत्युजित्यै मोक्षाय च यथायथ धर्मज्ञानादिप्रवर्त्तनायेति ज्ञेयम्। तत्र दृष्टान्तमाह—यथेदं विश्वमवितुमन्या नानाविधामत्स्यादित नूर्बिभर्षि तद्वदिति। न केवलं पालनादिमात्र तव कर्म किन्तु सृष्टिप्रलयावपीत्याह—सृष्ट्वा पुनर्ग्रससि सर्वमिति। तत्राप्यन्यनिरपेक्षत्वे दृष्टा-
मूर्ती इमे भगवतो भगवस्त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै॥ नाना विभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः॥४१॥ तस्यावितुः स्थिरचरेशितुरड्घ्रिमूल यत्स्थ न कर्मगुणकालरजः स्पृशन्ति॥ यद्वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै॥४२॥ नान्यं तवाङ्घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः॥ ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम्॥४३॥
न्तमाह—ऊर्णनाभिरिवेति॥४१॥ यस्मादेवम्भूतस्त्व तस्मात्तवाड्घ्रिमूल भजामीत्याह—तस्येति। तस्योक्तविधस्य अवितुः पालकस्य स्थिरचरेशितुःस्थावरजङ्गमाना नियन्तुः अङ्घ्रिमूल भजामीति तृतीयेनान्वयः। तद्भजनफलमाह—यत्स्थ यदुपासक कर्म गुणकालाना रजोमल पाप न स्पृशन्ति।रुज इति वा पाठः। अतएव वेदो हृदये येषा ते वेदतात्पर्यविदो भुनयस्तदाप्त्यैतत्प्राप्तये द्वे स्तुवन्ति नितरा नमन्ति यजन्ति अभीक्ष्ण ध्यायन्तिचेति॥४२॥ यतोऽन्यः पुरुषार्थो नास्तीत्याह—हे ईश परितः सर्वेष्वपि लोकेषु भीर्यस्य तस्य जनस्य अपवर्गमूर्तेः मोक्षरूपस्य तव अङ्घ्र्युपनयाच्छ्रीमच्चरणप्राप्तेरन्य क्षेमं न विद्मः। अन्यस्य ब्रह्मलोकपर्यन्तस्याक्षमत्वमेव स्पष्टयति—ब्रह्मेति। द्विपरार्द्ध्यंद्विपरार्द्धकालावस्थायि धिष्ण्यं स्थान यस्य ब्रह्मापि ते कालस्य त्वद्ग्भ्टविजृम्भरूपात् कालात् यतः अल बिभेति अतः किमु वक्तव्य तेन ब्रह्मणा कृतानांभौतिकानां प्राणिनां भयमस्तीति॥४३॥
यस्मादेव तत्तस्मात् आत्मच्छदि स्वात्मावरकमपार्थंनिष्फल च असत् तुच्छ दुःखप्रद च अन्त्य नश्वरचेद देहादि आदिपदेन गृहपुत्रकलत्रधनादिसर्वंहित्वा देहादिभजन त्यक्त्वा ऋतधियः ‘तेषा सततयुक्ताना योगक्षेमं वहाम्यहम्॥ तेषामहं समुद्धर्त्ता मृत्युमसारसागरात्’ इत्यादि। सत्यसङ्कल्पस्य आत्मगुरोः जीवस्य नियन्तुः अन्तर्यामितया साधु कर्म कारयितुः। परस्परमेवेश्वरस्य तव पादमूलमहं भजामीत्यन्वयः। नन्वपवर्गायभवतु मद्भजनं नान्यर्थमतः फलान्तरार्थं त्वन्यभजन कार्यमेवेत्याशङ्कयाह—तर्हति। यदि तु अभिज्ञमात्र ज्ञानस्वरूपं केवलं त्वामेव पुरुषोभजति तर्हि ते त्वत्त एव मनीषित स्वसङ्कल्पित सर्वमेव फल विन्देत न तव भक्तस्य फलान्तरार्थमप्यन्यभजनापेक्षेत्यर्थः॥४४॥ ननु ब्रह्मरुद्रावपिममैव मूर्त्तीअतो मामेव किमत्यन्तमाद्रियत इत्याशङ्क्याह— सत्त्वमिति। हे ईश हे आत्मबन्धो जीवहितचिन्तक यद्यपि अस्य विश्वस्य स्थित्यादिहेतवः मायामयाः प्रकृतिविभागकृताः सत्त्वादयो गुणाः सृष्ट्यादिलीलार्थं त्वया धृता अङ्गीकृता अतस्तवैव ब्रह्मादिमूर्तित्रयं तथापि नृणामुपासका-
तद्वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चाऽऽत्मगुरोः परस्य॥देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम्॥४४॥ सत्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य॥लीलाघृतायदपि सत्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम्॥४५॥ तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनु स्वायतां कुशला भजन्ति॥ यत्सात्वताः पुरुषरूपमुशन्ति सत्वं लोको यतोऽभयमुतात्मसुखं न चान्यत्॥४६॥ तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवताय॥ नारायणाय ऋषये च नरोत्तमाय हसाय संयतागरे निगभेश्वराय॥४७॥
ना शान्त्यै मोक्षाय तु या सत्त्वमयी मूर्तिः सैव भवति अन्ये ब्रह्मरुद्रमूर्त्ती तथा न भवतः प्रत्युत याभ्यां व्यसन दुःख मोहः भीश्च भवति॥४५॥ एतदेव सदाचारेण दृढयति— तस्मादिति। यस्मात् सत्त्वतनुरेव श्रेयस्करी तस्मात् हे भगवन् अथ विवेकानन्तर तावकाना त्वद्भक्ताना स्वदयितामनसः प्रिया शुक्ला शुद्धसत्त्वमयीं तव तनु इह लोके कुशला निपुणबुद्धयो भजन्ति। भक्तप्रियत्वमेव स्पष्टयति—यदिति। यत्सत्त्व तदेव पुरुषस्य भगवतो रूपमिति सात्त्वता भक्ता उशन्ति मन्यन्ते। श्रेयोहेतुत्व स्पष्टयति—यतश्च सत्त्वात् उपासकानां वैकुण्ठलोको भवति अभय सर्वभयनिवृत्तिश्च भवति आत्मसम्बन्धि सुख च भवति, अन्यत् रजस्तमश्चैवम्भूतं न भवतीत्यर्थः॥४६॥ अत आनन्दपरिपूर्णविग्रहे त्वयि किमप्युपकारकर्त्तुमहं न शक्त इति सूचयन्प्रणमति—तस्मै भगवते नमः। पुरुषाय सर्वान्तर्यामिणे सर्वसाक्षिणे च तथापि भूम्ने व्यापकाय विश्वाय सर्वात्मने
विश्वस्य गुरवेहितोपदेष्ट्रे तत्र हेतुः—निगमेश्वराय वेदप्रवर्त्तकाय। हंसाय शुद्धाय। संयतागीरे नियतवाचे॥४७॥ नन्वेव मा सर्वोऽपि कथ नवेद तत्राह—यमिति। वितथैः निष्फलैः अक्षपथैः इन्द्रियमार्गैः भ्रमद्धीः विक्षिप्तबुद्धिः पुमान् स्वखेषु स्वेन्द्रियेषु हृद्यपि दृक्पथेषु विषयेषु च नियन्तृतया सन्तमपि य त्वा नैव वेद। बुद्धिविक्षेपे हेतुमाह—तस्य तव मायया आवृत्ता आत्मविषया मतिर्यस्य सः। यस्त्वाद्यःमुख्यस्तव भक्तः सएवाखिलगुरोस्तव स्वरूपं साक्षाद्वेद, ज्ञाने द्वारमाह—वेदमुपसाद्य प्राप्येति॥४८॥ वेदेनैव त्वज्ज्ञानमित्युपपादयन् प्रणमति—यद्दर्शनमिति। यस्य तव दर्शन निगमे वेदे भवति। दर्शनमेव विशिनष्टि—आत्मनस्तव रहः रहस्यप्रकाशरूपम्। अन्यथा तस्य दुर्ज्ञेयतामाह—अजो ब्रह्मा परो मुख्योयेषा ते कवयोऽपि यतन्तः साङ्ख्ययोगादिभिः प्रयतमाना अपि यत्र त्वज्ज्ञाने मुह्यन्ति त महापुरुष त्वा वन्द इत्यन्वयः। मोहे हेतुमाह—सर्वेषां
य वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु॥ तन्माययावृतमतिः स उ एव साक्षादाद्यस्तवाऽखिलगुरोरुपसाद्य वेदम्॥४८॥ यद्दर्शनं निगम आत्मरहः प्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः॥ त सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम्॥४९॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धेसर्वाश्रयनिरूपणे मार्कण्डेयतपश्चर्यानिरूपणं नामाष्टमोऽध्यायः॥८॥छ॥ सूत उवाच॥ सस्तुतो भगवानित्थं मार्कण्डेयेन धीमता॥ नारायणो नरसखःप्रीत आह भृगूद्वहम्॥१॥ श्रीभगवानुवाच॥ भो भो ब्रह्मर्षिवर्याऽसि सिद्धआत्मसमाधिना॥ मयि भक्त्याऽनपायिन्या तपःस्वाध्यायसंयमै॥२॥
साङ्ख्ययोगादिवादाना ये विषया मतभेदास्तेषा प्रतिरूप तत्तदनुसारि शील स्वभावो यस्य तम्। तत्रापि हेतुमाह—आत्मना देहादिसङ्घातेन निगूढो बोधः प्रकाशो यस्य तम्॥४९॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येनभजनानन्दसिद्धये ॥श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ मार्कण्डेयतपश्चर्याबोधको ह्यष्टमोगतः॥३॥छ॥छ॥ नवमे भगवन्मायादर्शन वाञ्छतो मुनेः॥ दर्शिता प्रलयाब्धौ सा हरिणेति निरूप्यते॥१॥ एव तपआदिभिः सन्तुष्टो भगवास्तस्मै वर प्रायच्छदित्याह—सस्तुत इत्यादिना॥१॥ भो भो ब्रह्मर्षिवर्य आत्मसमाधिना चित्तैकाग्र्येण भक्त्यादिभिश्चत्व सिद्धः कृतार्थोऽसीत्यन्वयः॥२॥
वय ते परितुष्टाः स्मेति बहुवचन सर्वदेवाभिप्रायेण। वरदेशादित्येकवचन तु द्वयोरैक्याभिप्रायेण प्रतीच्छ गृहाण॥३॥ देवदेवो ब्रह्मा तस्यापीशप्रपन्नाना शरणमागतानामार्ति क्लेश हरतीति तथाभूत आश्रिता न च्यवन्ति यस्य स हे अच्युत वरेण च्छन्दयता त्वया जितमुत्कर्षो दर्शितः। वरस्तुमम नाकाङ्क्षित इत्याह—यद्भवान्नोऽस्मभ्य सम्यगदृश्यत एतावतैव वरेणालम्॥४॥ तत्र हेतुतया तद्दर्शनस्य दुर्लभतामाह—गृहीत्वेति। यस्य तव श्रीमत्पादाब्जदर्शन योगशुद्धेन मनसा गृहीत्वा प्राप्याप्यजादयः कृतार्था भवन्ति स भवान्मेऽक्षगोचरो जातोऽस्ति, किमतः परं वरेणेत्यर्थः॥५॥यद्यपि त्वद्दर्शनादेव कृतार्थोऽह तथापि हे अम्बुजपत्राक्षेत्यनेन तव कृपादृष्टयैव मोहनिवृत्त्या संसारतापनिवृत्तिर्नान्यथेति सा न त्याज्येति सूचयति
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया॥ वरं प्रतीच्छ भद्रं ते वरदेशादभीप्सितम्॥३॥ ऋषिरुवाच॥ जितं ते देवदेवेश प्रपन्नार्तिहराच्युत। वरेणैतावताऽल नो यद्भवान्समदृश्यत॥४॥ गृहीत्वाऽजादयो यस्य श्रीमत्पादाब्जदर्शनम्॥मनसा योगपक्वेन स भवान्मेऽक्षगोचर॥५॥ अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे॥द्रक्षे मायांयया लोकः सपालो वेद सद्भिदाम्॥६॥ सूत उवाच॥ इतीडितोऽर्चित काममृषिणा भगवान्मुने॥ तथेति स स्मयन्प्रागाद्बदर्याश्रममीश्वरः॥७॥ तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः॥ वसन्नग्न्यर्कसोमाम्बु, भूवायुवियदात्मसु॥८॥ ध्यायन्सर्वत्र च हरि भावद्रव्यैरपूजयत्॥ क्वचित्पूजां विसस्मार प्रेमप्रसरसम्प्लुतः॥९॥ तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः॥ उपासीनस्य सन्ध्यायां ब्रह्मन्वायुरभून्महान्॥१०॥
अतएव तव सुयशःप्रसार इत्याशयेन पुनः सम्बोधयति—पुण्यश्लोकशिखामण इति। यया मायया लोकपालैब्रह्मादिभिः सहितो लोकः सर्वोऽपिजनः सद्भिदा सच्छब्दवाच्ये त्वयि भिदा देवतिर्यङ् मनुष्यादिभेदं वेद पश्यति ता तव माया द्रक्ष्ये द्रष्टुमिच्छामीत्यन्वयः॥६॥ इत्येवमीडितः स्तुतोभगवान् हे मुने तथेति। द्रक्ष्यसीत्युक्तो स्मयन् मन्दहासं कुर्वन् बदर्याश्रम प्रति प्रागात्॥७॥ तमेव मायादर्शनरूप कदा द्रक्ष्यामीति चिन्तयन्अग्न्यादिषु सर्वत्र च हरिं ध्यायन् भावद्रव्यैः मनोमयैर्गन्धपुष्पनैवेद्यादिभिः पूजासाधनैरपूजयदिति द्वयोरन्वयः। क्वचित् कदाचित्तु प्रेमप्रसरेण प्रेमप्रवाहाधिक्येन सम्प्लुतो व्याप्तः सस्ता पूजामपि विसस्मार विस्मृतवान्॥८॥९॥ मायादर्शनमाह—तस्येत्यादिना॥१०॥
चण्डशब्दं समुदीरयन्तं कुर्वन्त त वायुमनु कराला भयङ्करा बलाहका मेघा अभवन् आविर्बभूवुः ते च तडिद्भिः सहिता उच्चैः स्वनन्तो गर्जन्तोऽक्षः-स्थाक्षस्तद्वत्स्थविष्ठाः अतिस्थूला वर्षधारा अभितो मुमुचुः॥११॥ चतुर्दिक्षु वर्त्तमानाः समुद्राः परितः क्ष्मातल भूमण्डल उग्रा नक्रायेषु तैः समीरवेगोत्थितैरूर्मिभिर्ग्रसन्तः भयानका आवर्त्ता येषु गभीरो घोषो येषु ते च ते व्यदृश्यन्त॥१२॥ अतिद्युभिः अतिक्रान्ता द्यौर्याभिस्ताभिरद्भिः जलैः।खरैः दुःसहैः सूर्यरश्मिभि वायुभिर्वेति शेषः। शतह्रदाभिः विद्युद्भिश्च। दीर्घत्वमार्षंछन्दोनुसारेण। एवमात्मना सह जरायुजादिचतुर्विधं जगदन्तर्बहिश्चोपतापित वीक्ष्य तथा क्ष्मा च जलाप्लुता वीक्ष्य सुनिर्विमनाः सन् समत्रसत् भय प्राप॥१३॥ तस्य मुनेरेवमुद्वीक्षतः सतः वर्षद्भिरम्बु-
तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन्करालाः॥अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभिवर्षधाराः॥११॥ ततो व्यदृश्यन्त चतुःसमुद्राः समन्ततः क्ष्मातलमाग्रसन्तः॥ समीरवेगोर्मिभिरुग्रनक्रमहाभयावर्तगभीरघोषाः॥१२॥ अन्तर्बहिश्चाद्भिरतिद्युभि खरैः शतह्रदाभीरुपतापित जगत्॥ चतुर्विधं वीक्ष्य सहात्मना मुनिर्जलाप्लुतांक्ष्मां विमनाः समत्रसत्॥१३॥ तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः। आपूर्यमाणोवरषद्भिरम्बुदैः क्ष्मामप्यधाद्द्वीपवर्षाद्रिभिः समम्॥ १४॥ सक्ष्माऽन्तरिक्षं सदिव सभागणं त्रैलोक्यमासीत्सह दिग्भिराप्लुतम्॥ स एकएवोर्वरितो महामुनिर्बभ्राम विक्षिप्य जटा जडान्धवत्॥१५॥ क्षुत्तट्परीतो मकरैस्तिमिङ्गिलैरुपद्रुतो वीचिन भस्वताहतः॥ तमस्यपारे पतितो भ्रमन्दिशो न वेद ख गां च परिश्रमेषितः॥१६॥ क्वचिद्गतो महावर्तेतरलैस्ताडितःक्वचित्॥ यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः॥१७॥ क्वचिच्छोक क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम्॥ क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः॥१८॥
दैरापूर्यमाणः प्रभञ्जनेन वायुना घूर्णित भ्रामितं वार्जल यस्मिन्सः। अत ऊर्मिभीषणश्चार्णवः द्वीपवर्षादिभिः सम सह क्ष्मा भूमिमप्यधात् छादयामास॥१४॥ सक्ष्मान्तरिक्ष भूम्यन्तरिक्षस्य प्राणिसहित सदिव स्वर्गस्थदेवसहित भागणाःज्योतिर्गणास्तैश्च सहितं दिग्भिश्च सहित त्रैलोक्यमद्भिराप्लुतमासीदित्यन्वयः। जटा विक्षिप्य विकीर्य जडान्धवत् बभ्राम॥१५॥ वीचिभिस्तरङ्गैर्नभस्वता वायुना च हतः ताडितः अतएव परिश्रमेणेषितो व्याप्तः दिशःखमाकाश गा भूमि च न वेद॥१६॥ अन्योन्यघातिभिः परस्पर युध्यद्भिर्यादोभिर्मत्स्यादिभिर्जलचरैः क्वापि स्वय भक्ष्यते च॥१७॥१८॥
विष्णुमायावृतात्मन इत्यनेन स एव तथा दृष्टवान्नान्य इति सूचितम्॥१९॥ पृथिव्याः ककुदि उन्नतप्रदेशे न्यग्रोधपोत कोमल वट ददृशे॥२०॥तस्य वटस्य प्रागुत्तरस्यामीशानदिक्शाखायां शिशुमपि ददृशे। त विशिनष्टि—शयानमित्यादिना। तमोऽन्धकार ग्रसन्त निराकुर्वन्तम्॥२१॥ इन्द्रनीलवच्छामम्। श्रीमत् रम्य वदनपङ्कजं यस्य तम्, कम्बुवत् त्रिरेखावृता ग्रीवा यस्य तम्। महोरस्क विशालवक्षसम्। सुनास शोभना नासायस्य तम् सुन्दरे भ्रुवौ यस्य तम्॥२२॥ श्वासैरेजन्तः कम्पमाना ये अलकास्तैराभात शोभितम् कम्बुवत् अन्तर्वलयेन श्रीर्ययोस्तौ कम्बुश्रियौ तयोःकर्णयोर्दाडिमपुष्पे यस्य तम्। विद्रुमतुल्याधरभासा ईषत् शोणायित सुधातुल्य स्मित यस्य तम्॥२३॥ पद्मगर्भवत् आ ईषत् अरुणवदपाङ्गौ नेत्रान्तौ
अयुतायुतवर्षाणां सहस्राणि शतानि च॥ व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मन॥१९॥ स कदाचिद्भ्गमस्तस्मिन्पृथिव्याः ककुदि द्विजः॥ न्यग्रोधपोतं ददृशे फलपल्लवशोभितम्॥२०॥ प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम्॥ शयानं पर्णपुटके ग्रसन्तं प्रभया तमः॥२१॥महामरकतश्यामं श्रीमद्वदनपङ्कजम्॥ कम्बुग्रीवमहोरस्कं सुनासं सुन्दरभ्रुवम्॥२२॥ श्वासैजदलका भातं कम्बुश्री कर्णदाडिमम्॥ विद्रुमाघर भासेषच्छोणायिनसुधास्मितम्॥२३॥ पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम्॥श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम्॥२४॥ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम॥मुखे निधाय विप्रेन्द्रो धयन्त वीक्ष्य विस्मितः॥२५॥ तद्दर्शनाद्वीतपरिश्रमोमुदा प्रोत्फुल्लहृत्पद्मविलोचनाम्बुज॥प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्त प्रससार बालकम्॥२६॥
यस्य तम्। हृद्यो हासो यस्मिस्तदवलोकनं यस्य तम्। श्वासैरजन्त्यश्चलन्त्यो वलयस्तिर्यक्निम्नरेखास्ताभिः सविग्नाचञ्चला निम्ना गम्भीरा नाभियस्मिस्तत् दलवदश्वत्थपत्रसङ्काशमुदर यस्य तम्॥२४॥ चारवः अड्गुलयो ययोस्ताभ्या पाणिभ्यां चरणाम्बुजमुन्नीय आकृष्य मुखे निधाय तदङ्गुष्ठधयन्तं पिबन्त शिशु विलोक्य विप्रेन्द्रो विस्मितो बभूवेति शेषः॥२५॥ तस्य शिशोदर्शनाद्वीतो गतः परिश्रमो यस्य सः मुदा हर्षेण प्रोत्फुल्लानि हृत्पद्मविलोचनाम्बुजानि यस्य सः प्रहृष्टानि रोमाणि यस्य सः अद्भुतभावमत्याश्चर्यरूप तेन शङ्कितोऽपि त बालक प्रष्टु पुरः प्रससार समीप गतः॥२६॥
तत्र गर्भेऽपि अदः इदं जगत् यथा पुरा प्रलयात्पूर्वं न्यस्त विन्यस्तमचष्ट। दृष्ट्वा चातीव विस्मितः सन्नमुह्यत्॥२७॥ कृत्स्नशो दर्शन प्रपञ्चयति—खमित्यादिना। खमन्तरिक्षम् भगणान् नक्षत्रगणान् ककुभो दिशः पुराणि च आकारांश्च। खेटान् कर्षकग्रामान् आश्रमाश्च वर्णांश्च तेषा वृत्तीश्चेत्यर्थः॥२८॥ नाना युगानि कल्पाश्च कल्पयति तैर्वा कल्प्यत इति कल्पन काल च। सदिव यथार्थमिव तस्यावभासित स ददर्श॥२९॥३०॥ वट च तोक बालं च वीक्ष्य तस्य प्रेम्णा सुधातुल्यास्मितेन च युक्तेनापाङ्गनिरीक्षणेन निरीक्षितः सन्॥३१॥ अथानन्तर त बालक वीक्ष्य नेत्राभ्याहृदि अधिष्ठित स्थापितमपि बहिरपि त परिष्वक्तुमभ्ययात् अभिमुख जगामेत्यन्वयः। एव परिष्वङ्गेच्छाया हेतुमाह—अतिसक्लिष्ट इति। स च हृदि
तावच्छिशोर्वै श्वसितेन भार्गवः सोऽन्तःशरीर मशको यथाऽविशत्॥ तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो यथा पुराऽमुह्यदतीव विस्मितः॥२७॥ खं रोदसीभगणानद्रिसागरान् द्विपान्सवर्षान्ककुभः सुरासुरान्॥ वनानि देशान्सरितः पुराकरान्खेटान् व्रजानाश्रमवर्णवृत्तयः॥२८॥ महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम्॥ यत्किञ्चिदन्यद्व्यवहारकारण ददर्श विश्वं सदिवावभासितम्॥२९॥हिमालय पुष्पवहां च तां नदी निजाश्रम तत्र ऋषीनपश्यत्॥ विश्वं विपश्यन् श्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ॥३०॥ तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटेशयानम्॥ तोकच तत्प्रेमसुधास्मितेन निरीक्षितोपाङ्गनिरीक्षणेन॥३१॥ अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि॥ अभ्ययादतिसक्लिष्टः परिष्वक्तुमधोक्षजम्॥३२॥तावत्स भगवान्साक्षाद्योगाधीशो गुहाशयः॥ अन्तर्दध ऋषेः सद्यो यथेहानीशनिर्मिता॥३३॥ तमन्वथ वटो ब्रह्मन्सलिलं लोकसम्प्लवः॥ तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववस्थितः॥३४॥
चिन्तनयोग्य एव न परिष्वङ्गयोग्यः अतीन्द्रियत्वादित्याशयेनाह—अधोक्षजमिति॥३२॥ तावत् परिष्वङ्गलाभात्पूर्वमेव सद्यः सोऽन्तर्हितो बभूव। तत्र दृष्टान्तमाह—यथेति। यथानीशस्य भाग्यहीनस्य पुरुषस्य निर्मिता कृता ईहा इच्छा निष्फला भवति तथा ऋषेः मार्कण्डेयस्याप्यालिङ्गनेच्छानिष्फला जातेत्यर्थः। अन्तर्हितत्वं तु तस्य स्वभाव एवेत्याशयेनाह—गुहाशय इति। गुहास्वन्तः करणेषु साक्षितया वर्तमानः। एवमन्तर्द्धाने सामर्थ्यमाह—योगाधीश इति। तत्र हेतुः—भगवानिति॥३३॥ तमन्तर्हित भगवन्तमनु वटः सलिल लोकसम्प्लवश्च तत्क्षणादेव तिरोधायि अन्तर्हितः सोऽपि मुनिः स्वाश्रम एव यथापूर्वं स्थितः॥३४॥
इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयटीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥नवमो मार्कण्डेययोगमायाप्रदर्शकः॥३॥६॥ दशमे शिव आगत्य मृकण्डतनयाय वै॥ प्रीतो भक्तिप्रदानादि कृतवानिति वर्ण्यते॥१॥ तदनन्तर यज्जात तदाह—स एवमिति॥१॥ शरणगमनप्रकारं दर्शयति—प्रपन्न इति। हे हरे ज्ञानकाशया ज्ञानवत्प्रकाशमानया यस्य तव मायया विबुधा विद्वासोऽपि यमेव ज्ञानिन इत्यहङ्कारेण विमुह्यन्ति तस्य ते तवप्रपन्नाभयद प्रपन्नाना मायाकृतभयनिवर्त्तकमङ्घ्रिमूल प्रपन्नोऽस्मि शरणमागतोऽस्मीत्यन्वयः॥२॥ श्रीनारायण एव स्वमायादर्शनश्रान्त श्रीशिवरूपेण
इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे मायादर्शनं नाम नवमोऽध्यायः॥९॥छ॥ सूत उवाच॥ स एवमनुभूयेदं नारायणविनिर्मितम्॥ वैभवं योगमायायास्तमेव शरण ययौ॥१॥ मार्कण्डेय उवाच॥ प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे॥यन्माययाऽपि विबुधा मुह्यन्ति ज्ञानकाशया॥२॥ सूत उवाच॥ तदेवं निभृतात्मानं वृषेण दिवि पर्यटन॥ रुद्राण्या भगवान्रुद्रोददर्श स्वगणैर्वृत॥३॥ अथोमा तमृषि वीक्ष्य गिरिश समभाषत॥ पश्येम भगवन्विप्र निभृतात्मेन्द्रियाशयम्॥४॥नि^(१)भृतोदझषव्राता वातापाये यथाऽर्णवः॥ कुर्वस्य तपसः साक्षात्ससिद्धिसिद्धिदो भवान्॥५॥ श्रीभगवानुवाच नैवेच्छत्याशिष क्वापि ब्रह्मर्षिर्मोक्षमप्युत॥ भक्ति परां भगवति लब्धवान्पुरुषेऽव्यये॥६॥ अथापि संवदिष्यामो भवान्येतेन साधुना॥ अयं हि परमो लाभो नृणां साधुसमागमः॥७॥
सान्त्वयामास तदाह—तमेवमित्यादिना। त निभृतात्मानं समाहितचित्त मुनि दिवि अन्तरिक्षे पर्यटन् रुद्रो ददर्शेत्यन्वय॥३॥ निभृता निश्चलाआत्मेन्द्रियाशया देहेन्द्रियमनासि यस्य तमिम हे भगवन् पश्येत्यभाषतेति सम्बन्ध॥४॥ निभृत निश्चलमुद झषव्रातश्चयस्मिन्सोऽर्णवो यथा तथा येषा त इति शेषः। अस्य मुनेस्तपस सिद्धि फल साक्षात्कुरु देहि यतो भवान् सिद्धिदः॥५॥ आशिषः अभ्युदयलक्षणा मोक्षमपिनेच्छति। उतेत्याश्चर्ये। तत्र हेतुमाह—भक्तिमिति॥६॥ तथाप्येतेन सह सवदिष्यामः सवाद करिष्यामः। हि यस्मादयं साधुना सह समागमोमेलनमेव परमो लाभः फलम्॥७॥
_______________________________________________________________
१.
‘निभृतोदझषव्रात वातापाये यथार्णवम्’ इति क्वचित्पाठ श्रीधरस्वामिप्रभृतिसम्मतश्च।
इति पार्वतीं प्रत्युक्त्वा भगवान् रुद्रस्तं मुनिं प्रत्युपेयाय आगतः। तत्र हेतुः सात्त्वता भगवद्भक्ताना गतिः परमोपकारी। तत्र हेतुमाह—सर्वविद्यानामीशानः प्रवर्त्तकः उपदेष्टा तदुपदेशःसफल एव भवति यतः सर्वदेहिनामीश्वरः अन्तर्यामीति॥८॥ यदा तयोरागमनमात्मानं विश्व च स न वेद तदा तत् तस्य समाहितचित्तत्वेन बहिरज्ञानमभिज्ञाय भगवान् गिरिशो योगमायया तस्य गुहाकाशमाविशदिति द्वयोरन्वयः। तत्र दृष्टान्तमाह—वायुश्छिद्रमिवेति। तथा ज्ञाने प्रवेशे च सामर्थ्यमाह—ईश्वर इति। तयोर्दर्शनस्यावश्यकत्वमाह—साक्षादीशयोर्जगदात्मनोरिति। तथापि तददर्शने हेतुमाह—रुद्धा धियोऽन्तःकरणस्य वृत्तयो यस्य सः॥९॥१०॥ अपिशब्दस्तु शब्दार्थकः। आत्मनि हृदये तु शिव प्राप्त विचक्ष्य
सूत उवाच॥ इत्युक्त्वा तमुपेयाय भगवान्स सता गतिः॥ ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम्॥८॥ तयोरागमनं साक्षादीशयोर्जगदात्मनोः॥ न वेद रुद्धधीवृत्तिरात्मानं विश्वमेव च॥९॥ भगवांस्तदभिज्ञाय गिरीशो योगमायया॥आविशत्तद्गुहाकाशं वायुश्छिद्रमिवेश्वरः॥१०॥ आत्मन्यपि शिवं प्राप्तं तडित्पिङ्गजटाधरम्॥ त्र्यक्षं दशभुजं प्रांशुमुद्यन्तमिव भास्करम्॥११॥व्याघ्रचर्माम्बरधर शूलखट्वाङ्गचर्मभिः॥ अक्षमालाडमरुककपासिधनुः सह॥ बिभ्राण सहसा भात विचक्ष्य हृदि विस्मितः॥ १२॥ किमिदं कुत एवेति समाधेर्विरतो मुनिः॥ नेत्रे उन्मील्य ददृशे सगणं सोमयागतम्॥ रुद्रं त्रिलोकैकगुरु ननाम शिरसा मुनिः॥१३॥ तस्मै सपर्यां व्यदधात्सगणाय सहोमया॥ स्वागतासनपाद्यार्धगन्धखग्धूपदीपकैः॥१४॥आह चाऽऽत्मानुभावेन पूर्णकामस्य ते विभो॥ करवामकिमीशान येनेदं निर्वृतं जगत्॥१५॥नम शिवाय शान्ताय सत्त्वाय प्रमृडाय च॥ रजोजुषेऽप्यघोराय नमस्तुभ्यं तमोजुषे॥१६॥
दृष्ट्वा किमिद हृदि सहसा भात कुत एवागतमिति विस्मितः सन् समाधेर्विरतः उत्थितो मुनिर्नेत्रे उन्मील्य सगण भूतादिगणसहित मोमया उमयासहागत ददृश इति त्रयाणामन्वयः। तडिद्वत्पिशङ्गा जटा धारयतीति तथा तम्। त्रीण्यक्षीणि यस्य तम्। प्राशुमुन्नतम्॥११॥ शूलादिभिः सहाक्षमालादीन् बिभ्राणमित्यन्वयः। अक्षमालादीना द्वन्द्वैक्यम्॥१२॥१३॥स्वागतप्रश्नादिभिः सगणाय तस्मै सपर्यां पूजा व्यदधात्॥१४॥ हेईशान येनानन्दरूपेण त्वया इदं जगन्निर्वृत्तमानन्दित भवति तस्यात्मानन्दानुभावेनैव पूर्णकामस्य ते तव वय अल्पकाःकिं करवाम न किमपि कर्त्तुशक्ता इत्याह चेत्यन्वयः॥१५॥ एवमात्मनोऽकिञ्चित्करत्वमुक्त्वा निर्गुणत्वेन त्रिगुणत्वेन च नमस्करोति—नम इति। शिवाय स्वरूपतः
परमानन्दरूपाय सत्त्वाय सत्त्वाधिष्ठात्रे विष्णवे अतएव मृडयति सुखयतीति तथा तस्मै रजोजुषे ब्रह्मणे तमोजुषे घोराय भयङ्कराय रुद्राय तुभ्य नमः॥१६॥ एव स्तुतः स रुद्रस्त मुनिमभाषत॥१७॥ तद्भाषणमाह— नोऽस्मत्तः काम यथेष्ट वर वृणीष्व। यतो वय ब्रह्मविष्णुरुद्रास्त्रयोऽपि वरदेशा इति। तथापि मम न किञ्चिदपेक्षितमिति चेत्तत्राह—अमोघमिति। यत् येभ्योऽमृत मोक्षमपि विन्दते॥१८॥ वरदानादिनाऽस्माभिर्भवत्सेचैव क्रियते न त्वनुग्रहः। भवता जगद्वन्द्यत्वादित्याशयेन ब्राह्मणान्स्तौति—ब्राह्मण इत्यादिना। साधवः सदाचारनिष्ठाः। शान्ताः मत्सरादिरहिताः। निस्सङ्गा निष्कामाः। भूतेषु वत्सलाः कृपायुक्ताः। अस्मासु त्रिषु भक्ता यतः समदर्शिनः॥१९॥ एवम्भूता ब्राह्मणास्तान् लोकैः जनैःसहिता लोकपाला वन्दन्त्यर्चन्त्युपासते। तथाऽह ब्रह्मा हरिश्च त्रयोऽपि वन्दाम अर्चाम उपास्महे॥२०॥ पूज्यतमत्वे हेत्वन्तरमप्याह— नेति। यतस्ते
सूत उवाच॥ एवं स्तुतः स भगवानादिदेव सतां गति॥ परितुष्ट प्रसन्नात्मा प्रहसंस्तमभाषत॥१७॥ श्रीभगवानुवाच॥ वर वृणीष्व न कामं वरदेशा वयं त्रयः॥ अमोघ दर्शन येषा मर्त्यो यद्विन्दतेऽमृतम्॥१८॥ ब्राह्मणाः साधवः शान्ता निस्सङ्गा भूतवत्सलाः॥एकान्तभक्ता अस्मासु निर्वैरा समदर्शिनः॥१९॥ सलोकालोकपालास्तावन्दन्त्यर्चन्त्युपासते॥अहं च भगवान्ब्रह्मा स्वयं च हरिरीश्वरः॥२०॥ न ते मय्यच्युतेऽजे च भिदामण्वपि चक्षते॥ नाऽऽत्मनश्च जनस्यापि तद्युष्मान्वयमीमहि॥२१॥ न ह्यम्मयानि तीर्थानि न देवाश्चेतनोज्झिताः॥ ते पुनन्त्युरुकालेन यूय दर्शनमात्रतः॥२२॥ ब्राह्मणेभ्यो नमस्यामो येऽस्मद्रूप त्रयीमयम्॥ बिभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः॥२३॥श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः॥ शुध्येरन्नन्त्यजाश्चापि किमु सम्भाषणादिभि॥२४॥
ब्राह्मणा अस्मासु त्रिषु तथाऽऽत्मनश्च जनस्य चापि अणुमात्रमपि भिदा न चक्षते न पश्यन्ति। तत्तस्मादेवम्भूतान् युष्मान् ब्राह्मणान् वयमीमहि भजेम॥२१॥ युष्मद्दर्शनेनैव कृतार्था वयमित्याह—न हीति। तीर्थानि दर्शनमात्रतो हि यस्मान्न पुनन्ति किन्तु बहुकालेन ते सेविताः पुनन्ति यूय साधवस्तु दर्शनमात्रतः पुनीथ अतो वयं कृतार्था इति शेषः॥२२॥ अतो ये आत्मसमाधान चित्तैकाग्र्य तपः आलोचन स्वाध्यायः अध्ययन सयमोवागादिनियमस्तैः त्रयीमय वेदत्रयात्मकमस्मद्रूप बिभ्रति तेभ्यो ब्राह्मणेभ्य तान् ब्राह्मणान् नमस्याम इत्यन्वयः॥२३॥ किञ्च येषां श्रवणादितो महापातकिनोऽपि जात्यशुद्धा अन्त्यजाश्च शुद्ध्येरन् तेषां भाषणसत्करादिभिः शुद्धौकिमु वक्तव्यमतो वय तैः कृतार्था इत्यर्थः॥२४॥
चन्द्रो ललामो भृषण यस्य तस्य धर्मरहस्ययुक्तममृतास्पद वचः कर्णयोः कर्णाभ्यां पिबन् ऋषिर्नातृप्यत् अलमिति नामन्यत॥२५॥ शिवस्यवागेवामृत तेन ध्वस्तः क्लेशपुञ्जो यस्य स त शिवमब्रवीत्॥२६॥ अहो आश्चर्यमीश्वरस्येय चर्या लीला दुर्विभाव्या अवित यत् यया ईशितव्यानि स्वनियम्यानि भूतानि स्वयजगदीश्वरा अपि नमन्ति स्तुवन्ति चेति॥२७॥ एव दुर्वितर्क्यत्वमुक्त्वा तत्र स्वनिश्चयमाह—धर्ममिति। स्वय देहिना धर्मवक्तारोऽपि यत् स्वयधर्ममाचरन्ति अन्यैः क्रियमाणमनुमोदन्ते च तत्कर्तॄन् स्तुवन्ति च तत् प्रायोऽन्यान् धर्म ग्राहयितुमेव स्वेषा पूर्णकामत्वेन तत्फलकामनाभावात्। अन्यथा प्रवृत्त्यसम्भवाच्चेत्याशयः॥२८॥ नन्वेतस्य स्वप्रभावतिरस्कारकत्वात् परोपकारार्थमपि कथ युक्तमित्याशङ्क्याह—नैतेति। एतावता लोकसङ्ग्रहमात्रेण तैर्मायावृत्तिभिः स्वमायामयी वृत्तिर्येषु तैर्नमनादिभिर्भगवतो मायिनस्तवानुभावो न दुष्येत। तत्र
सूत उवाच॥ इति चन्द्रललामस्य धर्मगुह्योपबृंहितम्॥ वचोऽमृतायनमृषिर्नातृप्यत्कर्णयोःपिबन्॥२५॥ स चिरं मायया विष्णोर्भ्रामितः कर्शितो भृशम्॥ शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत्॥२६॥ ऋषिरुवाच॥ अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम्॥ यन्नमन्तीशितव्यानि स्तुवन्ति जगदीश्वराः॥२७॥धर्मं ग्राहयितु प्राय प्रवक्तारश्च देहिनाम्॥आचरन्त्यनुमोदन्ते क्रियमाण स्तुवन्ति च॥२८॥ नैतावता भगवतः स्वमायामयवृत्तिभिः॥ न दुष्येतानुभावस्तैर्मायिनः कुहक यथा॥६९॥ सृष्ट्वेदं मनसा विश्वमात्मनाऽनुप्रविश्य य॥ गुणैः कुर्वद्भिराभाति कर्तेव स्वप्नदृग्यथा॥३०॥ तस्मै नमो भगवते त्रिगुणाय गुणात्मने॥ केवलायाद्वितीयाय गुरवे ब्रह्ममूर्तये॥३१॥
दृष्टान्तमाह—मायिन प्रसिद्धस्य यथा कुहक तत्प्रभाव न दूषयति, तथैतान्यपीश्वरप्रभाव न दूषयन्तीत्यर्थः॥२९॥ आस्ता तावल्लोकसङ्ग्रहार्थनमनादिभिस्तिरस्काराशङ्का यतो जगज्जन्मादि कुर्वतोऽपि तव न कापि हानिरित्याह—सृष्ट्वेति। मनसा सङ्कल्पमात्रेणेद विश्व सृष्ट्वा आत्मना जीवा त्मना तत्र प्रविश्य गुणैः कुर्वद्भिः यथा स्वप्नदृक् तथा यः कर्तृवदाभाति॥३०॥ तस्मै भगवते नम इति द्वयोरन्वय। गुणाना ततो भिन्नत्वमाशङ्क्याह—त्रिगुणायेति। अन्तर्यामित्वेन प्रणमति—गुणात्मने गुणनियन्त्र इति। एवं कथ तस्यैव सर्वात्मत्व तत्राह—अद्वितीयायेति। वेदप्रवर्त्तकत्वेन नमस्यति—गुरव इति। एव सति विकारित्वमाशङ्क्याह—केवलाय शुद्धाय ब्रह्ममूर्त्तये नम इति॥३१॥
यदुक्त वर वृणुष्वेति तत्राह—कमिति। वर दर्शनमेव यस्य तस्मात्त्वत् परमन्य क नु वर वृणे। यत् यस्मात्त्वद्दर्शनात पुमान् पूर्णकामो भवति। तत्र हेतुमाह—सत्यकामः सत्यसङ्कल्पो भवति॥३२॥ यदुक्तममोघ दर्शन येषामिति तत्राह—वरमिति। यद्यपि वरवरणाभावेऽपि स्वतस्सिद्धदर्शनप्रभावात्कृतार्थताया जातत्वाद्दर्शनस्यामोघत्व सिद्धमेव तथापि यत्किञ्चिदवश्य वरणीयमित्याग्रहश्चेत्तदा पूर्णात अतएव भक्तेषु कामाभिवर्षणात्त्वत्तो वरमेकमह वृणे। कि तदित्यपेक्षायामाह—भगवति तथा तत्परेषु तद्भक्तेषु तथा त्वयि चाच्युतामचला भक्तिमिति। यद्यपि भगवति तद्भक्तेषु वा रुद्रस्यान्तर्भावसम्भवात्त्वयीति तस्य पृथग्ग्रहणप्रयोजन नास्ति तथापि तस्य स्वस्मिस्तदुभयव्यतिरिक्तशङ्का माभूदित्येतदर्थतस्यापि पृथ-
कं वृणे नु परं भूमन्वर त्वद्वरदर्शनात्॥ यद्दर्शनात्पूर्णकामः सत्यकाम पुमान्भवेत्॥३२॥ वरमेकं वृणेऽथापि पूर्णात्कामाभिवर्षणात्॥ भगवत्यच्युतां भक्ति तत्परेषु तथा त्वयि॥३३॥ सूत उवाच॥ इत्यर्चितोऽभिष्टुतश्च मुनिनासूक्तया गिरा। तमाह भगवान् शर्वः शर्वया चाभिनन्दितः॥३४॥ श्रीभगवानुवाच॥ काम13स्तेयमृषे सर्वो भक्तिमास्त्वमधोक्षजे॥ आकल्पान्ताद्यशः पुण्यमजरामरता तथा॥३५॥ ज्ञानं त्रैकालिकं ब्रह्मन्विज्ञानं च विरक्तिमत्॥ ब्रह्मवर्चस्विनो भूयात्पुराणाचार्यताऽस्तु ते॥३६॥ सूत उवाच॥ एवं वरान्स मुनये दत्त्वाऽगात्र्यक्ष ईश्वरः॥ देव्यैतत्कर्म कथयन्ननुभूतं पुरामुना॥३७॥सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तम॥ विचरत्यधुनाऽप्यद्धाहरावेकान्ततां गतः॥३८॥ अनुवर्णितमेतत्ते मार्कण्डेयस्य धीमतः॥अनुभूतं भगवतो मायावैभवमद्भुतम्॥३९॥
क्तया ग्रहणमिति ज्ञेयम्॥३३॥ सूक्तया मधुरया। वरदानाय स्वयमेव प्रवृत्तो भगवान् शर्वः शर्वया उमया चाभिनन्दितः संस्तमाह॥३४॥ तदुक्तिमाह—काम इति द्वाभ्याम्। हे ऋषे हे ब्रह्मन् अय ते मनसि स्थित सर्वोऽपि कामः सङ्कल्प अन्यच्च पुण्यं यश आदि ब्रह्मवर्चखिनस्तेभूयादित्युत्तरेणान्वयः। यतस्त्वमधोक्षजे भक्तिमान्॥३५॥ त्रैकालिकवस्तुविषयक ज्ञानम्। विज्ञानमात्मपरमात्मविषयक ज्ञानम्॥३६॥ तस्य कर्म तपआदि तथा यदमुना पुराऽनुभूत भगवन्मायावैभव तच्च देव्यै कथयन् त्र्यक्षः शिवोऽगात्। ईश्वरोऽप्याश्चर्येण कथयन्नगात्तत्तप आदेरतिशयोदर्शितः॥३७॥ अवाप्तो महायोग महिमा येन सः॥३८॥ एतन्मार्कण्डेयस्य चरित तेनानुभूत भगवन्मायावैभव च ते तुभ्य मयानुवर्णितम्॥३९॥
नन्वेवमप्यस्मत्कुलोत्पन्नस्यास्य सप्तकल्पायुष्ट्ववृद्धैरुच्यमानविरुद्धमेव तत्राह—एतदिति। एतन्मार्कण्डेयेनानुभूतं भगवन्मायावैभव नानाकल्परूपंकादाचित्कमीश्वरेच्छया तस्यैवाकस्मिक न तु सर्वसाधारणं केचित्तु नृणां मध्ये आत्मन भगवतो मायाससृति सर्गप्रलयादिरूपा मार्कण्डेयायैव प्रदर्शिता ननु सर्वसाधारणेत्येवमविद्वासः अजानन्तः एतत् अनादिसप्तकल्पपर्यन्तमावर्त्तित प्रचक्षते। विद्वासस्तु मायाशिशोः श्वासोच्छ्वासाभ्यासप्तकृत्वस्तदुदरप्रवेशनिर्गमतः सप्तकल्पत्व तत्क्षणमात्रेणैवेति वदन्त्यतो न विरोध इत्यर्थः॥४०॥ एतत्कीर्त्तनश्रवणफलमाह—य इति। हेभृगुवर्य एवमनेन प्रकारेण रथाङ्गपाणेः कालचक्रायुधम्यानुभावेन मायावैभवेन भावित युक्त यदेतन्मार्कण्डेयस्य चरित मया वर्णित तत् यः कश्चित्सम्यक् श्रद्धया श्रावयेत् श्रद्धया शृणुयाद्वातावुभौ कृतार्थावेवेति शेषः। यतस्तयोः कर्मवासना कृता ससृतिर्न भवेदिति॥४१॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्द सिद्धये॥ श्रीमद्भागवतस्येयं टीका बाल-
एतत्केचिदविद्वांसो मायासंमृतिमात्मनः॥ अनाद्यावर्तितं नॄणां कादाचित्क प्रचक्षते॥४०॥ य एवमेतद्भ्ट्गुवर्यवर्णित रथाङ्गपाणेरनुभावभावितम्॥ संश्रावयेत्सशृणुयादुतावुभौ तयोर्न कर्माशयसंसृतिर्भवेत्॥४१॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे परमाश्रयनिरूपणे मार्कण्डेयस्य भक्तिलाभादिनिरूपण नाम दशमोऽध्याय॥१०॥६॥ शौनक उवाच॥ अथममर्थं पृच्छामो भवन्तं बहुवित्तमम्॥समस्ततन्त्रराद्धान्ते भवान्भागवततत्त्ववित्॥१॥ तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः॥ अङ्गोपाङ्गायुधाकल्प कल्पयन्ति यथा च यैः॥२॥
प्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ दशमः शिवरूपेण भक्तिदाननिरूपकः॥३॥छ॥छ॥ एकादशे तु पूजार्थ महापुरुषवर्णनम्॥रवेर्व्यूहस्य चाख्यान प्रतिमासं पृथक् पृथक्॥१॥ तदेव भगवदाराधनफल यन्मार्कण्डेयेन लब्ध तच्छ्रुत्वोपस्थिते तदाराधने काञ्चिद्विशेष पृच्छति—अथेति। हे भागवत यतो भवान् समस्ततन्त्राणा राद्धान्ते सिद्धान्ते तत्ववित् अतो बहुवित्तम भवन्तमथेदानीमिम वक्ष्यमाणमर्थपृच्छाम इत्यन्वयः॥१॥ प्रष्टव्यमाह—तान्त्रिका इति। केवलस्य शुद्धसत्त्वमयदिव्यविग्रहस्य श्रियः पतेः परिचर्याया पूजाया तान्त्रिकाः तन्त्रमार्गेणभगवदाराधनपराः यथैव थेन प्रकारेण यैश्चतत्त्वैःअङ्गानि पाणिपादादीनि उपाङ्गानि गरुडादीनि आयुधानि सुदर्शनादीनि आकल्पाः कौस्तुभादिभूषणानि तेषा द्वन्द्वैक्य तत्कल्पयन्ति कल्पनया ध्यायन्ति॥२॥
तत्तत्प्रकारादीनास्माक क्रियायोग बुभुत्सता वर्णयेति द्वयोरन्वयः। हर्षेणाशिषमाह—ते भद्र भवतु। पूजाफलमाह—येनेति। अमर्त्त्यता मुक्तिम्॥३॥ गुरूपदेशगम्यत्वादस्यार्थस्य तन्नमस्कारपूर्वकमाह—नमस्कृत्येति। विभूतीः विराट्विग्रहाद्याः। अपिशब्दस्तत्कथनस्य दुष्करत्वसूचकः॥४॥ अङ्ग दिकल्पना भूरादिभिर्दर्शयितु प्रथम तावद्यथाकल्पयन्तीति प्रश्नस्य वैराजरूपेणेत्युत्तर वक्तुं विराविग्रहमाह—मायाद्यैः प्रकृतिसूत्रमहदहङ्कारपञ्चतन्मात्रैर्नवभिस्तत्त्वैःविकार एकादशेन्द्रियाणि पञ्चमहाभूतानीति षोडशतन्मयः स प्रसिद्धो विराट् निर्मितः यत्र विराजि सचित्के चेतनाधिष्ठिते भुवनत्रय दृश्यते। अनेनाङ्गादिकल्पनासौलभ्य दर्शितम्॥५॥ एतद्वै पौरुष रूप पुरुषस्य वैराजस्य रूपमेवेश्वरेणाधिष्ठितत्वात्तदभेदविवक्षया तस्य रूपमुच्यते। अङ्गकल्पनामाह—भूः पादावित्यादि त्रिभिः। भूराद्यनुवादेन भगवत्पादादिभावना विधीयते॥६॥ ईशितुः परमेश्वरस्य। प्रजापतिप्रजननं
तन्नो वर्णय भद्र ते क्रियायोग बुभुत्सताम्॥ येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम्॥३॥ सूत उवाच॥ नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि॥ याः प्रोक्ता वेदतन्त्राभ्यामाचार्यै पद्मजादिभि॥४॥ मायाद्यैर्नवभिस्तत्त्वैः सविकारमयो विराट्॥ निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम्॥५॥ एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः॥ नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौदिशःप्रभोः॥६॥ प्रजापतिः प्रजननमपानो मृत्युरीशितुः॥ तद्बाहवो लोकपाला मनश्चन्द्रोभ्रुवौयमः॥७॥ लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः॥रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः॥८॥ यावानय वै पुरुषो यावत्या संस्थया मितः॥ तावानसावपि महापुरुषो लोकसंस्थया॥९॥ कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यज॥ तत्प्रभा व्यापिनी साक्षाच्छ्रीवत्समुरसा विभुः॥१०॥
मेढ्रम्।मृत्युरपानः वायुः॥७॥ उत्तरः उत्तरोष्ठः लोभस्त्वधरोष्ठः। ज्योत्स्न्या दन्ताः। भ्रमः भ्रमहेतुः माया। स्मयः हासः’हासो जनोन्मादकरी च माया’ इत्युक्तत्वात्॥८॥ अनुक्तमन्यदप्येवमूह्यमित्याह—अय व्यष्टिपुरुषः यावत्या संस्थया अवयवसन्निवेशेन यावान् यावदवयववान्मितः असौ महापुरुषोऽपि लोकसंस्थया लोककल्पितपादाद्यवयवसन्निवेशेन तावान् तावदवयववानित्यर्थः॥९॥ भूषणादीन्याह—कौस्तुभेत्यादिना। स्वात्मज्योतिः शुद्धजीवचैतन्य कौस्तुभव्याजेन बिभर्ति। तस्य कौस्तुभस्य या व्यापिनी प्रभा तामेवोरसा श्रीवत्स बिभर्ति॥१०॥
त्रिवृत्स्वरमकारादिवर्णत्रयात्मक स्वरं प्रणव ब्रह्मसूत्र बिभर्ति॥११॥ पारमेष्ठ्य पद ब्रह्मलोक मौलि बिभर्ति॥१२॥ यत् अधिष्ठितः अधिष्ठाय स्थितस्तदनन्ताख्यमासनमव्याकृत प्रधान बिभर्ति। तथा धर्मज्ञानवैराग्यैश्वर्यश्रीर्यशोविमलोत्कर्षणी ज्ञानक्रियायोगा प्रह्वीसत्येशानानुग्रहादिशक्तिभिर्युक्तं सत्त्वमिह भगवदासने पद्ममुच्यते॥१३॥ मुख्यतत्त्व प्राणतत्त्वम्। ‘प्राणो वै मुख्य’ इति श्रुतेः। दरवर शङ्खम्॥१४॥ तमोनिभ श्यामरूपनभस्तत्त्वमसि खड्गम्। तमोमय तमोगुणतत्त्व चर्म खेटम्। तथा कर्ममयमिषुधिं बाणकोशम्॥१५॥आकूतिः क्रियाशक्तियुक्त मनः अस्य भगवतःस्यन्दन रथम्। अस्य रथस्याभिव्यक्ति बाहिर भिव्यक्तरूपम्। मुद्रया धृतया अर्थक्रियात्मता वरदाभयदादिरूपत्व बिभर्त्ति‚तत्तन्मुद्रया तथा तथा
स्वमायां वनमालाख्यां नानागुणमयी दधत्॥ वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम्॥११॥बिभर्ति साङ्ख्यं योगं चदेवोमकरकुण्डले॥मौलि पद पारमेष्ठ्य सर्वलोकाभयङ्करम्॥१२॥ अव्याकृतमनन्ताख्यमासन यदधिष्ठितः॥ धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते॥१३॥ओजः सहो बलयुतं मुख्यतत्त्वं गदांदधत्॥ अपांतत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम्॥१४॥ तमोनिभं नभस्तत्त्वमसि चर्म तमोमयम्॥ कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम्॥१५॥ इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम्॥ तन्मात्राण्यस्याभिव्यक्ति मुद्रयाऽर्थक्रियात्मताम्॥१६॥ मण्डलं देवयजनं दीक्षासंस्कार आत्मनः॥ परिचर्या भगवत आत्मनो दुरितक्षयः॥१७॥ भगवान्भगशब्दार्थं लीलाकमलमुद्वहन्॥धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत्॥१८॥ आतपत्रं तु वैकुण्ठ द्विजा धामाकुतोभयम्॥ त्रिवृद्वेद-सुपर्णाख्यो यज्ञं वहति पूरुषम्॥१९॥
भावयेदित्यर्थः॥१६॥ मण्डलं सूर्यमण्डल देवयजन, पूजाभूमि ता सूर्यमण्डलत्वेन मावयेदित्यर्थः। दीक्षा सस्कार आत्मनः गुरुकृता मन्त्रदीक्षामेवात्मनस्तत्पूजायोग्यता मावयेदित्यर्थः। भगवतस्ता परिचर्यां‚स्वस्य सकलपापक्षयायेत्येवं भावयेदित्यर्थः॥१७॥ पूर्वमासनपद्ममुक्तमथ हस्तकमलमाह—भगवानिति। भगशब्दार्थमैश्वर्यादिषाड्गुण्य लीलाकमल बिभ्राणो भवति॥१८॥ हे द्विजाः अकुतोभय कालकर्मादिभयरहित यद्वैकुण्ठाख्यधाम तत् आतपत्र बिभर्ति।त्रिवृत् ऋग्यजुःसामरूपो यो वेदः स एव सुपर्णाख्यः गरुडो भवति। ‘सुपर्णोऽसि गरुत्मास्त्रिवृत्ते शिर’ इत्यादिमन्त्रलिङ्गात्। यज्ञ पुरुष विष्णुस्वरूप वहति धत्ते। ‘यज्ञो वै विष्णु’ इतिश्रुतेः॥१९॥
हरेर्भगवतो या अनपायिनी अवियुक्ता साक्षात् आत्मनः स्वस्य शक्तिः सैव भगवती श्रीलक्ष्मीः तन्त्रमूर्तिः पञ्चरात्राद्यागमरूपः पार्षदाधिपतिः विदितः।प्रसिद्धो विष्वक्सेनः। येऽणिमादयोऽष्टौ गुणास्ते हरेर्द्वारपाला नन्दादयः॥२०॥ तस्यैव चतुर्व्यूहोपासनमाह— वासुदेव इति। हे ब्रह्मन् वासुदेवादिशब्दैःपुरुषः श्रीनारायण एव स्वयं मूर्त्तिव्यूहोमूर्त्तिभेदैरुपास्य इत्यभिधीयत इत्यन्वयः॥२१॥ तस्यैवाध्यात्मनि चतुर्धोपासनमाह— स इति। स एव भगवान्वृत्तिभिःजाग्रदाद्यवस्थाभिः विश्वादिशब्दैः परिभाव्यते व्यवह्नियत इत्यन्वय’। तद्व्टत्युपाधीनाह—अर्थेति। अर्था बाह्यविषयाः। तेनेन्द्रियैरर्थावभासेनजाग्रदवस्थाया विश्व इति। इन्द्रिय मनः मनोमात्रावभासस्वप्नावस्थाया तैजस इति। आशयस्तदुभयसस्कारयुक्तमज्ञान तदुपलक्षितसुषुप्तावस्थाया प्राज्ञइति। ज्ञान तत्त्रितयसाक्षिचैतन्यमात्र स एव तुरीय इति॥२२॥ उक्तचतुर्व्यूहा द्वयोपासनेऽपि पूर्वोक्तमङ्गाद्युपासनमाह— अङ्गेति। अङ्गोपाङ्गायु-
अनपायिनी भगवती श्री साक्षादात्मनो हरेः॥ विष्वक्सेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिप॥ नन्दादयोऽष्टौ द्वास्थाश्च तेऽणिमाद्या हरेर्गुणा॥२०॥ वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुष स्वयम्॥ अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते॥२१॥ स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः॥ अर्थेन्द्रियाशयज्ञानैर्भगवान्परिभाव्यते॥२२॥ अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्॥ बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः॥२३॥द्विजऋषभ स एष ब्रह्मयोनिः स्वयंहक् स्वमहिमपरिपूर्णो मायया च स्वयैतत्॥ सृजति हरति पातीत्याख्ययाऽनावृताक्षो विवृत इव निरुक्तस्तत्परैरात्मलभ्यः॥२४॥
धाकल्पैर्विशिष्टो भगवान् हरिर्वासुदेवादिचतुर्मूर्त्तिः सन् तत् विश्वादिचतुष्टय रूप बिभर्त्ति स्म। एव मूर्तिभेदधारणे सामर्थ्यमाह—ईश्वर इति॥२३॥ तस्यैव ब्रह्मादिमूर्तित्रयेण जगज्जन्मादिकर्तृत्वमाह—द्विजऋषभेति सम्बोधनेन श्रीभागवत श्रोतुस्तस्योत्कर्ष सूचयति—स एष भगवान् स्वशक्तिरूपयात्रिगुणात्मिकया मायया नानाख्यया ब्रह्मादिसञ्ज्ञया एतद्विश्व सृजति पाति हरति चेत्यन्वयः। स एव ब्रह्मयोनिः वेदप्रवर्त्तकः। एव सर्गादिकार्यार्थगुणाङ्गीकारेऽपि न तस्य तत्पारवश्यमित्याशयेन त विशिनष्टि—स्वयदृक् स्वप्रकाश स्वमहिम्ना निजानन्देनैव परिपूर्णः अनावृताक्षः असङ्कुचितज्ञानःइतीत्येव सर्वात्मकत्वेन भेदरहितोऽपि विवृत इव भिन्न इव शास्त्रे निरक्तः एव सर्वात्मकत्वेऽपि तत्परैः तदुपासकैरेवात्मनि अन्तः करणे लभ्यो न त्वन्यैः॥२४॥
यस्येदमुपासनमुक्तं त श्रीकृष्ण प्रार्थयते सर्वानन्दयितृत्व सूचयन् सम्बोधयति—श्रीकृष्णेति। सौशील्य सूचयन्सम्बोधयति—कृष्णसख इति। कृष्णस्यार्जुनस्य सखे। सौलम्य सूचयन्नाह—वृष्ण्यृषभेति। स्वजनदु खविनाशकत्वेन सम्बोधयति—अवनिद्रुहो ये राजन्यास्तेषा वशस्य दहनेति। तत्र सामर्थ्य दर्शयन्सम्बोधयति—अनपवर्गमक्षीण वीर्यं यस्य हे अनपवर्गवीर्येति। ऐश्वर्यादिदातृत्व सूचयन्नाह—गोविन्देति। हे प्राप्तकामधेनो।सर्वगेयत्वमाह—गोपवनिताना व्रजाः समूहा भृत्या नारदादयश्च तैर्गीत तीर्थभूत श्रवः कीर्तिर्यस्य हे तथाभूत आदरेण श्रोतव्य दर्शयन्नाहश्रवणमेव मङ्गल यस्य। भृत्यान्सेवकानस्मान्पाहीति॥२५॥ एतत्पाठस्यापि ब्रह्मज्ञान फलमित्याह—य इति। कल्ये प्रातःकाले उत्थाय यस्तच्चित्तः तस्मिन्नुक्तविधे भगवति समाहितचित्तः स्नानादिना प्रयतः शुचिश्च सन् इद महापुरुषस्य लक्षणानि यस्मिस्तत्प्रकरणं जपेत् स जप्त्वैव गुहाशयंहृदिस्थ ब्रह्म वेद॥२६॥ एवं वासुदेवादिव्यूह श्रवणेन स्मारितान्। ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः सप्त-
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवशदहनानपवर्गवीर्य॥गोविन्द गोपवनिताव्रजभृत्यगीततीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान्॥२५॥ य इदं कल्य उत्थाय महापुरुषलक्षणम्॥ तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम्॥२६॥ शौनक उवाच॥ शुको यदाह भगवान्विष्णुराताय शृण्वते॥ सौरो गणो मासि मासि नाना वसति सप्तकः॥२७॥ तेषा नामानि कर्माणि सयुक्तानामधीश्वरैः॥ ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः॥२८॥ सूत उवाच॥ अनाद्यविद्यया विष्णोरात्मनःसर्वदेहिनाम्॥निर्मितो लोकतन्त्रोयं लोकेषु परिवर्तते॥२९॥
चतुर्दशमासि मासि भगवन्त सूर्यमात्मान नाना नामानं पृथक्कर्मभिर्द्वन्द्वश उपासत इति पञ्चमस्कन्धे सङ्क्षेपतःप्रदर्शितान् विस्तरतो बुभुत्सुः पृच्छति— शुक इति॥२७॥ तेषां सप्तानामधीश्वरैः तत्तत्पतिभिः सयुक्तानामित्यनेन तेषा प्रत्येक स्वस्वपतिसाहित्येन द्वन्द्व ज्ञेयम्। अतएव द्वन्द्वश सप्त पृथक् चतुर्दशेति पञ्चमोक्तिः सङ्गच्छते। सूर्यस्यापि स्वनियन्त्र्यन्तर्यामिसाहित्येन द्वित्व ज्ञेयमतो न विरोधः। यद्वात्रानुक्तोऽपि पञ्चमोक्तोदेवगणो ग्राह्यस्तेन सप्तकत्वं न चाय प्रश्नो भगवतो बहिर्मुखोऽतो नोत्तरयोग्य इति शङ्कनीयम्। सूर्यस्यापि भगवद्रूपतयोपासनीयत्वेनोक्तत्वादित्याशयेनाह—सूर्यात्मनो हरेरिति॥२८॥ तत्र तावद्वयूह निरूपयितु प्रथम सूर्यवरूपमाह—अनादीइति। सर्वदेहिनामात्मनोनियामकस्य पालकस्य विष्णोर्या अनादिः अविद्या मायाप्रकृतिस्तया निर्मितो लोकतन्त्रो लोकयात्रानिर्वाहकोऽय सूर्यमण्डलो लोकेषु
परिवर्त्तते॥२९॥ एवं बाह्यदृष्ट्या प्राकृतत्वमुक्त तदन्तर्यामिदृष्टया तस्य भगवत्वमाह—एक इति। यो हि सर्वलोकानामात्मा उपादानमन्तर्यामी च तथा आदिकृत् सृष्टिकर्त्ता हरिः स सूर्य एक एव। यतः सर्वासां वेदोक्तक्रियाणा मूलमतः क्रियोपाधिना ऋषिभिर्बहुधोक्तः॥३०॥ यथा कर्मप्रवृत्त्यर्थ कालादिरूपो जात इति दृष्टान्तमभिप्रेत्याह—काल इति। यथा हरिरेकोऽपि हे ब्रह्मन् कालादिरूपेण नवधोक्तस्तथेत्यर्थः। कालः प्रातरादिः। देशः समादिः। क्रियानुष्ठान कर्त्ता ब्राह्मणादिः करण स्रगादि। कार्य यागादि। आगमो मन्त्रादि। द्रव्य व्रीह्यादि। फल स्वर्गादि॥३१॥मध्वादिषु चैत्रादिषु द्वादशसु मासेषु कालरूपधृग्भगवान्सूर्यो लोकतन्त्राय लोकयात्रानिर्वाहाय पृथक् पृथग्द्वादशभिर्गणैः सप्तकैः सह चरति॥३२॥ तानेव गणानाह—घातेति द्वादशभि। धाता सूर्यः। कृतस्थली अप्सराः। हेतिः राक्षसः। वासुकिर्नाग। रथकृत् यक्षः। पुलस्त्यः ऋषिः।
एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः॥सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः॥३०॥ कालो देश क्रिया कर्ताकरण कार्यमागम॥ द्रव्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरि॥३१॥ मध्वादिषु द्वादशसु भगवान्कालरूपधृक्॥ लोकतन्त्राय चरति पृथगद्वादशभिर्गुणैः॥३२॥ धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने॥पुलस्त्यस्तुम्बरुरिति मधुमासं नयन्त्यमी॥३३॥ अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली॥ नारद कच्छनीरश्च नयन्त्येते स्म माधवम्॥३४॥ मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनकाहाहा॥रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥३५॥वसिष्ठो वरुणोरम्भा सहजन्यस्तथा हूहू॥शुक्रश्चित्रस्वनश्चैव शुचिमास नयन्त्यमी॥३६॥इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिरा॥ प्रम्लोचा राक्षसो वर्यो नभोमास नयन्त्यमी॥३७॥
तुम्बुरुर्गन्धर्वः। इत्येव सप्तामी चैत्रं मधुमासं नयन्ति, स्वस्वकर्मभिः सूर्यं गमयन्तीत्यर्थः॥३३॥ अर्यमा सूर्यः। पुलहः ऋषिः। अथौजाः यक्षः।प्रहेतिः राक्षसः। पुञ्जिकस्थली अप्सराः। नारदो गन्धर्वः। कच्छनीरो नागः। एते माधव वैशाख मास नयन्ति॥३४॥ मित्रः सूर्यः। अत्रिःऋषिः पौरुषेयो राक्षसः। तक्षको नागः। मेनका अप्सराः। हाहा गन्धर्वः। रथस्वनो यक्षः \। अमी शुक्रमासं ज्येष्ठमासं नयन्ति॥३५॥ वसिष्ठः ऋषिः। वरुणः सूर्यः। रम्भा अप्सराः। सहजन्यो यक्षः। हूहूर्गन्धर्वः। शुको नागः। चित्रस्वनो राक्षसः। अमी शुचिमासमाषाढमासम्॥३६॥ इन्द्रः सूर्यः। विश्वावसुर्गन्धर्वः। श्रोता यक्षः। एलापत्रो नागः। अङ्गिरा ऋषिः। प्रम्लोचा अप्सराः। वर्यो राक्षसः। नभोमासं श्रावणम्॥३७॥
विवस्वान् सूयः। उग्रमेनो गन्धर्वः। व्याघ्राxxxx रणो यक्षः। भृगुः ऋषिः। अनुम्लोचा अप्सराः। शङ्खपालो नागः। अमी नभस्याख्यभाद्रपदम्॥१८॥ पूषा सूर्यः। धनञ्जयोxxxxराक्षमः। सुषेणो गन्धर्वः। सुरुचिर्यक्षः।घृताची अप्सराः। गौतमः ऋषिः। तपोमासं माघम्। मासक्रमातिलङ्घन कौर्म्योक्तादिxxxxमानण वैष्णवे तु मासक्रमेणोक्तिः। क्वचिन्नामव्यत्ययस्तु कल्पभेदेनेति ज्ञेयम्॥ ३९॥ ऋतुर्यक्षः। वर्चा राक्षसः। भरद्वाज ऋषि। पर्जन्यः सूर्यः। सेनजित् अप्सराः। विश्वो गन्धर्वः। ऐरावतो नागः। तपस्याख्य फाल्गुनम्॥२०॥ अशुः सूर्यः। अश इति वा पाठः। कश्यपः ऋषिः। तार्क्ष्यो यक्षः। ऋतसेनो गन्धर्वः। उर्वशी अप्सराःविद्युच्छत्रुः राक्षसः। महाशङ्खो नागः। सहोमास मार्गशीर्षम्॥४१॥ भग सूर्यः। स्फूर्जी राक्षसः। अरिष्टनेमिर्गन्धर्वः। ऊर्णो यक्षः। आयुऋषिः।
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु॥ अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी॥३८॥ पूषा धनञ्जयोवातः सुषेणः सुरुचिस्तथा॥ घृताची गौतमश्चेति तपोमासं नयन्त्यमी॥३९॥ क्रतुर्वर्चाभरद्वाज पर्जन्यः सेनजित्तथा॥विश्व ऐरावतश्चैव तपस्याख्य नयन्त्यमी॥४०॥ अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी॥ विद्युच्छत्रुर्महाशङ्ख सहोमास नयन्त्यमी॥४१॥ भग स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चम॥ कर्कोटक पूर्वचित्ति पुष्यमासंनयन्त्यमी॥४२॥ त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा। ब्रह्मापेतोऽथ शतजिद्धृतराष्ट्र इषम्भराः॥४३॥विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्॥ विश्वामित्रो मखापेत ऊर्जमास नयन्त्यमी॥४४॥ एता भगवतो विष्णोरादित्यस्य विभूतयः॥ स्मरता सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने॥४५॥
कर्कोटको नागः। पूर्वचित्तिः अप्सरा॥४२॥ त्वष्टा—सूर्य। ऋचीकतनयो जमदग्निः ऋषिः। कम्बलो नाग तिलोत्तमाअप्सराः। ब्रह्मापेतो राक्षसः। शतजित् यक्षः। धृतराष्ट्रो गन्धर्वः। एते इषम्भराः आश्विनपालकाः॥४३॥ विष्णुरादित्यः। अश्वतरो नागः। रम्भा अप्सराः। सूर्यवर्चा गन्धर्वः। सत्यजित् यक्षः। विश्वामित्रः ऋषिः। मखापेतो राक्षसः। ऊर्जमासं कार्त्तिकम्\।॥४४॥ एते चादित्यादयः कौर्मे विभक्तोक्ताः—‘धाताऽर्यमा च मित्रश्च वरुणश्चेन्द्र एव च॥ विवस्वानथ पूषा च पर्जन्यश्चाशुरेव च॥ भवस्त्वष्टा च विष्णुश्च आदित्या द्वादश स्मृताः॥ पुलस्त्यः पुलहश्चात्रिर्वसिष्ठोऽथाङ्गिरा भृगुः॥ गौतमोऽथ भरद्वाजः कश्यपःक्रतुरेव च॥ जमदग्निः कौ-
शिकश्च मुनयो ब्रह्मवादिनः॥ रथकृच्चरथौजाश्च ग्रामणीश्च रथखनः॥ रथचित्रस्वन श्रोता अरुणःसेनजित्तथा॥ तार्क्ष्यश्चारिष्टनेमिश्चऋतजित्सत्यजित्तथा॥ एते यक्षाः। अथ हेतिः प्रहेतिश्चपौरुषेयो वधस्तथा॥ वर्यो व्याघ्रस्तथा यश्च वायुर्विद्युद्दिवाकरः॥ ब्रह्मापेतश्च विप्रेन्द्रा यज्ञापेतश्च राक्षसाः॥ वासुकिः कच्छनीरश्चतक्षकः सर्वपुङ्गवः॥ एलापत्रः शङ्खपालस्तथैरावतसञ्ज्ञितः॥ धनञ्जयो महापद्मस्तथा कर्कोटको द्विजाः॥ कम्बलोश्वतरश्चैववहन्त्येव यथाक्रमम्॥ तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा॥ उग्रसेनो वसुरुचिर्विश्वावसुरथापरः॥ चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः सूर्यवर्चाद्वादशेति गन्धर्वागायता वराः॥ कृतस्थल्यप्सरो वर्या तथान्यापुञ्जिकस्थली ॥मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः। अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा॥ अन्या च पूर्वचित्तिःस्यादन्या चैव तिलोत्तमा॥ रम्भा चेति द्विजश्रेष्ठास्तथैवाप्सरसःस्मृताः’ इति। अथ व्यूहनिरूपणमुपसहरन् तत्स्मरणफलमाह—एता इति॥४५॥ एतेषा पृथक् कर्माणि निरूपयति—द्वादशस्वपीति त्रिभिः। असौ देवः सूर्यः द्वादशस्वपि मासेषु
द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै॥ चरन्समन्तात्तनुते परत्रेह च सन्मतिम्॥४६॥सामर्ग्यजुर्भिस्तलिङ्गैर्ऋषयः संस्तुवन्त्यमुम्॥ गन्धर्वास्त प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः॥४७॥ उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजका॥ चोदयन्ति रथं पृष्ठे नैर्ऋता बलशालिनः॥४८॥ वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमला॥ पुरतोऽभिमुख यान्ति स्तुवन्ति स्तुतिभिर्विभुम्॥४९॥ एवं ह्यनादिनिधनो भगवान्हरिरीश्वर॥ कल्पे कल्पे स्वमात्मान व्यूह्य लोकानवत्यजः॥५०॥ इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणे भगवदङ्गादिनिरूपण नामैकादशोऽध्यायः॥११॥॥छ॥ ॥छ॥
षड्भिर्गन्धर्वादिभिः सह समन्ताच्चरन् अस्य जनस्य इह लोके परत्र च लोके उभयलोकविषया शुभा मति तनुते। अनेन गायत्र्यर्थः सूचितः॥४६॥ तल्लिङ्गैः सूर्यप्रकाशकैः सामादिभिर्ऋषयोऽमु सूर्य सस्तुवन्ति॥४७॥ उन्नह्यन्ति दृढ बध्नन्ति ग्रामण्यो यक्षाः रथयोजका भवन्ति। नैर्ऋताःराक्षसाः॥४८॥ वालखिल्या इति प्रतिमास त एव विभु तुर्य स्तुवन्ति॥४९॥ उपसंहरति अनादिनिधनः आद्यन्तशून्यः अतएवाजो भगवान्प्रतिकल्पमेवमात्मान व्यूह्य द्वादशगणरूपेण विभज्य लोकानवति॥५०॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ एकादशो गतो विष्णोरङ्गादिविनिरूपकः॥३॥ ॥छ॥ ॥छ॥
द्वादशे तु पुराणोक्तसर्वार्थानुक्रमः कृतः॥ प्रथमस्कन्धमारभ्य प्राधान्येन समासतः॥१॥ तदेवमस्मिन् पुराणोक्तानर्थान्सङ्क्षेपतो वर्णयिष्यन्नादौ धर्मादीन् प्रणमति— नम इति। महते भगवद्भक्तिलक्षणाय धर्माय नमः।वेधसे जगद्विधात्रे कृष्णाय नमः। ब्राह्मणेभ्यो ब्राह्मणान् नमस्कृत्य सनातनान्धर्मान् वक्ष्ये उपलक्षणमिद सर्वेषा पुराणार्थानाम्॥१॥ एव प्रतिज्ञाय तद्वर्णयति—हे विप्राः यत् प्रत्यहं भवद्भिः पृष्टस्तत् नराणां जीवाना पुरुषत्वेउचित श्रवणादियोग्यमद्भुत मनोहरमेतद्विष्णोश्चरितात्मकं पुराण वो युष्मान्प्रति मया कथितमित्यन्वयः॥२॥ कथितमेव प्रपञ्चयति—अत्रेति। अत्रश्रीभागवते सर्वेषां श्रवणकीर्त्तनादिपराणा पापानि हरतीति तथाभृतो हरिः साक्षात् सम्यक् कीर्त्तितः इत्यनेनोपासनाकाण्डार्थो दर्शितः। सर्वपापहरत्वेहेतुं सूचयन् विशिनष्टि—नारायणः सर्वकारणभूतः। हृषीकेशः सर्वेन्द्रियनियन्ता। भगवान् ऐश्वर्यादिषङ्गुणपूर्णः। सात्वता पतिः भक्ताना पालकः
सूत उवाच॥ नमो धर्माय महते नमःकृष्णाय वेधसे। ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्ये सनातनान्॥१॥ एतद्वकथित विप्रा विष्णोश्चरितमद्भुतम्॥ भवद्भिर्यदह पृष्टो नराणां पुरुषोचितम्॥२॥ अत्र सङ्कीर्तितः साक्षात्सर्वपापहरो हरि॥ नारायणो हृषीकेशो भगवान्सात्वतां पतिः॥३॥ अत्र ब्रह्म परं गुह्य जगतः प्रभवाप्ययम्। ज्ञानं च तदुपाख्यान प्रोक्त विज्ञानसयुतम्॥४॥भक्तियोगःसमाख्यातो वैराग्यं च तदाश्रयम्॥ पारीक्षितमुपाख्यानं नारदाख्यानमेव च॥५॥ प्रायोपवेशो राजर्षेर्विप्रशापात्परीक्षितः॥ शुकस्य14 चैव ब्रह्मर्षे संवादश्च परीक्षित॥६॥
॥३॥ ज्ञानकाण्डार्थमाह—अत्रेति। प्रभवत्यस्मादिति प्रभव अप्येत्यस्मिन्नित्यप्यय तच्च तच्च प्रभवाप्यय गुह्य वेदतात्पर्यविषय पर ब्रह्म प्रोक्तम्। अनेनैवाश्रयशब्दार्थोऽपि दर्शितः। विज्ञानसयुतमपरोक्षज्ञानपर्यन्त ज्ञान तदुपाख्यान तत् ज्ञानमुपाख्यायते प्रकाश्यते येन तत् ज्ञानसाधन च प्रोक्तम्॥४॥ कर्मकाण्डार्थमाह—भक्तियोग इति। निष्कामकर्मान्मकसाधनसहितो भक्तियोगः समाख्यातः। तदाश्रय भक्तियोगनिष्पादित वैराग्य च। एवसामान्यतो निरूप्येदानीं द्वादशस्कन्धप्रकरणार्थाननुक्रामति—पारीक्षितमुपाख्यान परीक्षिज्जन्मादि। तत्प्रस्तावाय नारदाख्यान चाख्यातम्॥५॥ ब्रह्मर्षेर्ब्राह्मणोत्तमस्य परीक्षितश्च सवाद आख्यात इति सर्वत्र सम्बन्धः इति प्रथमस्कन्धार्थो दर्शितः॥६॥
उक्रान्तिः अर्चिरादिगतिः। अग्रतः सृष्टेः पूर्व प्राधानिकः प्रधानकार्यमहदादिविराड्रूपः सर्गः॥७॥ इति द्वितीयस्कन्धार्थो दर्शितः। महापुरुषस्यसंस्थितिः। प्रलये तूष्णीमवस्थानम्॥८॥ प्राकृतिकः प्रकृतिभवो गुणक्षोभरूपः। वैकृतिकाः सप्त महदहङ्कारभूतपञ्चकात्मकाः। चकाराद्विकाराश्च ये॥९॥ गतिः स्वरूप अम्भोधेः सकाशात् भुव उद्धरणे निमित्तम्॥१०॥ ऊर्ध्वतिर्यगवाक्सर्गः देवतिर्यड्मनुष्यादिसर्गः। अर्द्धाभ्यां नारी च नरश्च। तदाह—यतो याभ्याम्॥११॥ सन्तानो धर्मपत्नीनामिति नव ब्रह्मसमुत्पत्तिरित्यस्यानन्तर द्रष्टव्यम्॥१२॥१३॥ चतुर्थस्कन्धार्थमाह-
योगधारणयोत्क्रान्तिः सवादो नारदाजयोः॥अवतारानुगीतं च सर्ग प्राधानिकोऽग्रत॥७॥ विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः। पुराणसहिताप्रश्नो महापुरुषसंस्थिति॥८॥ तत प्राकृतिक सर्गःसप्त वैकृतिकाश्च ये॥ ततोब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः॥९॥ कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भव॥ भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा॥१०॥ उर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च॥ अर्धनारीनरस्याथ यतःस्वायम्भुवो मनुः॥११॥शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा। सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापते॥१२॥अवतारो भगवतः कपिलस्य महात्मनः॥देवहूत्याश्च सवादः कपिलेन च धीमता॥१३॥ नव ब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम्॥ ध्रुवस्यचरित पश्चात्पृथो प्राचीनवर्हिषः॥१४॥नारदस्य च संवादस्ततः प्रैयव्रतद्विजा॥ नाभेस्ततोऽनुचरितमृषभस्यभरतस्य च॥१५॥ ^(१)ततो द्वीपसमुद्राद्रिवर्षनद्युपवर्णनम्॥ ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थिति॥१६॥दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः॥ यतो देवासुरनरास्तिर्यङ्नगखगादयः॥१७॥
नव ब्रह्मणां मरीच्यादीना समुत्पत्तिः सन्तानः॥१४॥ पञ्चमस्कन्धार्थमाह—ततः प्रैयव्रत प्रियव्रतस्य चरितम्॥१५॥ द्वीपाद्युपवर्णनम्। पातालनरकादीनां च स्थिति। अनेनैव नरकनिवर्त्तकमजामिलोपाख्यान गृहीतम्॥१६॥ षष्ठस्कन्धार्थमाह—दक्षजन्मेति॥१७॥
________________________________________________________________
१.
द्वीपाद्युपवर्णनं प्रथमं सङ्क्षेपतस्ततो द्वीपादीना ये गिरयो नद्यश्च तेषामुपवर्णनम् पातालानां नरकाणां च सस्थितिः। अनेनैव नरकनिवर्तकमजामिलोपाख्यान गृहीत तत प्राचीनमिति श्रीधरस्वामिव्याख्यानम्। द्वीपवर्षं समुद्राणां गिरिनद्युपवर्णनम्’ इति पाठान्तरम्।
शक्रसुरभिभ्या कृष्णस्य यज्ञः पूजा अभिषेकश्च तयोर्द्वन्द्वैक्यम्॥३२॥३३॥३४॥३५॥३६॥३७॥ द्विषतः शत्रून्प्रमथ्य॥३८॥ प्राग्ज्योतिषपति भौमासुरम्॥३९॥ ये च शम्बरादयस्तेषा माहात्म्य पराक्रमः वधश्चेत्यन्वयः॥४०॥ एकादशस्कन्धार्थमाह—विप्रशापेति॥४१॥ धर्मविनिर्णयः वर्णाश्रमनिश्चयः॥४२॥ मर्त्त्यपरित्यागः मनुष्यत्वस्यान्तर्द्धानम्। द्वादशस्कन्धार्थमाह—युगेति। युगलक्षण
गोवर्धनोद्धारण च शक्रस्य सुरभेरथ॥ यज्ञाभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु॥३२॥ शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिनः॥ अक्रूरागमन पश्चात्प्रस्थान रामकृष्णयो॥३३॥ व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः॥ गजमुष्टिकचाणूरकसादीनां च यो वध॥३४॥ मृतस्यानयनं सूनो पुन सान्दीपनेर्गुरोः॥मथुरायां निवसतायदुचक्रस्य यत्प्रियम्॥३५॥ कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजा॥ जरासन्धसमानीत सैन्यस्य बहुशो वध॥३६॥ घातन यवनेन्द्रस्य कुशस्थल्या निवेशनम्॥आदानं पारिजातस्य सुधर्मायाःसुरालयात्॥३७॥ रुक्मिण्याहरणं युद्धे प्रमथ्य द्विषतो हरेः॥हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम्॥३८॥ प्राग्ज्योतिषपति हत्वा कन्यानांहरणं च यत्॥ चैद्यपौण्ड्रक्शाल्वानां दन्तवक्रस्य दुर्मतेः॥३९॥शम्बरो द्विविदः पीठो मुर’ पञ्चजनादयः॥ माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम्॥४०॥ भारावतारणं भूमेर्निमित्तीकृत्य पाण्डवान्॥ विप्रशापापदेशेन सहारः स्वकुलस्य च॥४१॥ उद्भवस्य च सवादो वासुदेवस्य चाद्भुतः॥ यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णय॥४२॥ततो मर्त्यपरित्याग आत्मयोगानुभावत॥ युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः॥४३॥ चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधातथा॥ देहत्यागश्च राजपर्विष्णुदत्तस्य धीमत॥४॥शांखाप्रणयनमृषेर्मार्कण्डेयस्य सत्कथाः॥ महापुरुषविन्यास सूर्यस्य जगदात्मनः॥४५॥
तदनुरूपा वृत्तिश्चेत्यर्थः। उप्लवः उपद्रवः॥४३॥ त्रिविधा प्राकृतिकी नैमित्तिकी नित्या चेति॥४४॥ ऋषेर्व्यासस्य। विन्यासः अङ्गादिकल्पना। सूर्यस्य व्यूह इति शेषः॥
हे द्विजश्रेष्ठाः। इति चोक्तमिति चकारादन्यदपि वः युष्माभिरिह यदह पृष्टोऽस्मि तदुक्तमिति। एतच्छ्रवणकीर्त्तनयोर्योग्यतामाह—लीलेति भगवत इति शेषः। सर्वतः। तत्तदर्थ कीर्तनद्वारेणेत्यर्थः॥४६॥ एतत्कीर्त्तनादिफलमाह—पतितः कूपादिषु रस्खलितः सोपानादिषु आर्त्तः रोगादिपीडितः। क्षुत्त्वाक्षुत कृत्वा। एवं कथञ्चिद्विवशोऽपि यः कश्चिदपि हरये नम इत्युच्चैर्ब्रवन् सर्वपातकान् मुच्यत इत्यन्वयः॥४७॥ भगवाननन्तः सङ्कीर्त्यमानःयद्वा श्रुतोऽनुभावो यस्य सः पुसा कीर्त्तयता शृण्वता व चित्त प्रविश्य निःशेष व्यसन दुरितहेतुक दुःख विधुनोति नाशयति हीति सतामनुभव प्रमाणयति। तत्र दृष्टान्तद्वयमाह—अर्को यथा तमोऽन्धकार धुनोति तथेति। अतिवातो यथाऽभ्र धुनोति तथेति च॥४८॥ भगवत्कीर्तनमेव महाफलतद्व्यतिरिक्त सर्व मिथ्यालापमात्रमिति प्रपञ्चयति—मृषा गिर इति चतुर्भिः। यत् यासु भगवान् अधोक्षजो न कथ्यते। असता विषयासक्तानामेव
इति चोक्त द्विजश्रेष्ठा यत्पृष्टोऽहमिहास्मि वः॥ लीलावतारकर्माणि कीर्तितानीह सर्वतः॥४६॥ पतितःस्खलितो वार्तः क्षुत्त्वावा विवशो ब्रुवन्। हरये नम इत्युच्चैर्मुच्यते सर्वपातकात्॥४७॥ सङ्कीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसन हि पुंसाम्॥ प्रविश्य चित्त विधुनोत्यशेष यथा तमोऽर्कोऽभ्रमिवातिवातः॥१८॥ मृषागिरस्ता ह्यसतीरसत्कथा न कथ्यते यद्भगवानधोक्षजः॥ तदेव सत्य तदुहैव मगल तदेव पुण्य भगवद्गुणोदयम्॥४९॥ तदेव रम्यं रुचिरं नवं नव तदेव शश्वन्मनसो महोत्सवम्। तदेव शोकार्णवशोषण नृणां यदुत्तमश्लोकयशोऽनुगीयते॥५०॥ न तद्वचश्चित्रपदं हरेर्यशो जगत्पवित्र प्रगृणीत कर्हिचित्॥ तद्ध्वाङ्क्षतीर्थं न तु इससेवित यत्राच्युतस्तत्र हि साधवोऽमलाः॥५१॥ स वाग्विसर्गो जनताऽघसम्प्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि॥ नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः॥५२॥
कथा यासु ता हि गिरः वाचःमृषा निष्फलाः असतीः असत्यश्च नरकहेतुत्वात्। भगवद्गुणानामुदयः प्रकाशो यस्मात् तदेव वचः सत्य सफलम्। यतः तदेव मङ्गल शुभकरम्। यतस्तदेव पुण्यावहम्। नात्र सन्देह इत्याह—उहेति॥४९॥ यव यस्मिन् उत्तमश्लोकस्य यशोऽनुगीयते तदेवरम्यम्। नव नव यथा भवति तथा॥५०॥ चित्राणि पदानि यस्मिस्तथाभूतमपि यद्वचो जगत्पवित्र हेतु हरेर्यशो न प्रगृणीत न वर्णयेत्। तद्ध्वाड्क्षतीर्थ काकतुल्याना रतिस्थान तु हसैर्विवेकिभिः सेवित यतः यत्रेति॥५१॥ स एव वाग्विसर्गो वाचः प्रयोगो जनताघसम्प्लवःजनसमूहाघनाशकः। यस्मिन् अबद्धवत्यपि अपभ्रशशब्दयुक्तेऽपि प्रतिश्लोकमनन्तस्य यशोऽङ्कितानि नामानि भवन्ति। यत् यस्मात्
साधवस्तमेव शृण्वन्ति श्रोतरि कीर्त्तयन्ति स्वयं च गायन्ति॥५२॥ इदानीं ज्ञानकर्मादरादपि भगवत्कीर्त्तनादिभक्त्याऽऽदर एवकर्त्तव्य इत्याह नैष्कर्म्यमिति। नैष्कर्म्य कर्मासाध्य ब्रह्म तत्प्रकाशक यज्ज्ञानम्। तदुत्कर्षमाह—निरञ्जनं सर्वोपाधिनिवर्त्तक तदप्यच्युतभक्तिवर्जित चेत् तर्हि अलं न शोभते अपरोक्षपर्यन्तं न भवति। यत् शश्वत् साधनकाले फलकाले च अभद्र दुःखप्रदमनुत्तम सर्वोत्तमतयाऽभिमतमपि कर्म ईश्वरे चेन्नैवार्पित तदा पुनः कुतः शोभत इत्यन्वयः॥५३॥ किञ्च यशोयुक्ताया श्रिया निमित्तभूताया यो वर्णाश्रमाचारादिषु निष्ठाविशेष इति शेषः। स परो महान्परिश्रम एव केवल यशःश्रियोः क्षयिष्णुत्वेन परमपुरुषार्थत्वाभावात्। हरेर्गुणानुवादादिभिस्तु श्रीधरस्य तस्य पादपद्मयोरविस्मृतिः निरन्तरा स्मृतिर्भवति॥५४॥ तत्स्मृतिफलापेक्षायामाह—अविस्मृतिरिति। अभद्राणि पापानि क्षिणोति नाशयति शम शान्ति शान्त्यादीनि तनोति च॥५५॥
नैष्कर्म्यमप्यच्युतभाववर्जित न शोभते ज्ञानमल निरञ्जनम्॥ कुतः पुनःशश्वदभद्रमीश्वरे न ह्यर्पित कर्म यदप्यनुत्तमम्॥॥५३॥ यशःश्रियामेव परिश्रमः परो वर्णाश्रमाचारतपःश्रुतादिषु॥ अविस्मृतिः श्रीधरपादपद्मयोर्गुणानुवादश्रवणादिभिर्हरेः॥५४॥ अविस्मृतिः कृष्णपदारविन्दयोः क्षिणोत्यभद्राणि शम तनोति च॥ सत्वस्य शुद्धि परमात्मभक्तिज्ञानं च विज्ञानविरागयुक्तम्॥५५॥ यूय द्विजाग्र्या बत भूरिभागा यच्छश्वदात्मन्यखिलात्मभूतम्॥ नारायणं देवम-देवमीशमस्रभावा भजताविवेश्य॥५६॥ अह च संस्मारित आत्मतत्वं श्रुतं पुरा में परमर्पिवक्रात्॥ प्रायोपवेशेनृपतेः परीक्षितः सदस्यृषीणा महतां च शृण्वताम्॥५७॥
अथेदानीं श्रोतॄन् तानभिनन्दति—यूयमिति। हे द्विजाग्र्याः अजस्रभावा निरन्तरभक्तिमन्तो यूय यत् यस्मात् आत्मनि स्वान्तःकरणे श्रीनारायणमखिलात्मभूत सर्वान्तर्याभिणमतएव देव सर्वोपास्यम्। अतएव अदेवं न देवोऽन्यो भजनीयो यस्य तमीशमावेश्य शश्वत् भजत। सम्भावनाया लोट्। अतो भूरिभागाः बहुपुण्याः। जन्मान्तरसहस्रेषु योगध्यानसमाधिभिः॥ नराणा क्षीणपापाना कृष्णे भक्तिः प्रजायते॥ अन्यथा तदसम्भवात्॥५६॥ प्रश्नेन भवद्भिर्महानुपकारः कृत इत्याह—अह चेति। आत्मतत्त्वमात्मतत्त्वप्रकाशक पुराण भवत्प्रश्नेनाह स्मारितः। अतः कृतार्थोऽस्मीत्याशयः। स्मृतेरनुभूतविषयकज्ञानात्मकत्वात्। पूर्व त्वया क्वेद श्रुतमित्यपेक्षायामाह— श्रुतमिति। परीक्षितः सदसि परम xxशुकस्य वक्रात् श्रुतम्॥५७॥
एतत्पुराणश्रवणकीर्त्तनादिफल प्रपञ्चयति— एतदित्यष्टभिः॥५८॥ याम क्षणं वा योऽनन्यधीः श्रावयेत् शृणुयाद्वा स आत्मानं पुनात्येव मुच्यत एवेत्यर्थः॥५९॥ कालविशेषयोगात्फलविशेषमाह —द्वादश्यामिति॥६०॥ देशविशेषयोगादपि फलविशेषमाह—पुष्कर इति। यतात्मवान् एकाग्रमनाः भयात् ससारभयात्॥६१॥ देवादयो येऽत्र कीर्तितास्ते कामान् प्रयच्छन्ति॥६२॥ ऋगाद्यधीत्य द्विजो मधुकुल्यादि यत्फलमनुविन्दते तत्फलमेता पठित्वाऽनुविन्दते॥६३॥ किञ्च एतामधीत्य परम पद व्रजेत्॥ ६४॥ अधिकारविशेषात्फलविशेषमाह—विप्र इति। राजन्य उदधि-
एतद्वकथित विप्राः कथनीयोरुकर्मणः॥ माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम्॥५८॥ य एवं श्रावयेन्नित्ययामं क्षणमनन्यधी॥ श्रद्धावान्योऽनुशृणुयात्पुनात्यात्मानमेव सः॥५९॥ द्वादश्यामेकादश्यां वा शृण्वन्नायुष्यवान्भवेत्॥ पठत्यनश्नन्प्रयतस्ततो भवत्यपातकी॥६०॥ पुष्करे मथुरायां च द्वारवत्या यतात्मवान्॥ उपोष्य सहितामेतां पठित्वा मुच्यते भयात्॥६१॥ देवता मुनयःसिद्धाः पितरो मनवो नृपाः॥ यच्छन्ति कामान्गृणतः शृण्वतो यस्य कीर्तनात्॥६२॥ ऋचो यजूषि सामानि द्विजोऽधीत्यानुविन्दते॥ मधुकुल्या घृतकुल्याः पयः कुल्याश्च तत्फलम्॥६३॥ पुराणसहितामेतामधीत्य प्रयतो द्विजाः॥ प्रोक्त भगवता यत्तु तत्पदं परमं व्रजेत्॥६४॥ विप्रोऽधीत्याऽऽप्नुयात्प्रज्ञा राजन्योदधिमेखलाम्॥ वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात्॥६५॥ कलिमलसंहतिकालनोऽखिलेशो हरिरितरत्र न गीयते ह्यभीक्ष्णम्॥ इह तु पुनर्भगवानशेषमूर्ति परिपठितोऽनुपदं कथाप्रसङ्गै॥६६॥ तमहमजमनन्तमात्मतत्वं जगदुदयस्थितिसंयमात्मशक्तिम्॥द्युपतिभिरजशक्रशङ्कराद्यैर्दुरवसितस्तवमच्युतं नतोऽस्मि॥६७॥
मेखला पृथ्वीम्। सन्धिरार्षः॥६५॥अस्य पुराणस्यैव प्रभावातिरेके कारणमाह—कलिकमलाना सहतिसमूह कालयति विनाशतीति तथाभूतो हरिर्यथेहानुपद परिपठितस्तथा इतरत्र शास्त्रान्तरे न गीयते॥ ६६॥ शास्त्रप्रतिपादित भगवन्त नमस्करोति—तमिति द्वाभ्याम्।जगदुदयस्थितिसयमेषु हेतवः आत्मनः स्वस्य शक्तयो रज आदयो यस्य तम्। अजाद्यैर्द्युपतिभिर्देवैरपि दुरवसितः अज्ञातः स्तवः स्तोत्रं यस्य तमहनतोऽस्मि॥६७॥
उपचिताभिः उद्रिक्ताभिर्नव शक्तिभिः प्रकृतिपुरुषमहदहङ्कारतन्मात्ररूपाभिः स्व आत्मन्येवोपरचित स्थिर जङ्गम चालयो यस्य तस्मै। उपलब्धिमात्रधाम्ने ज्ञानैकस्वरूपाय भगवते नमः॥६८॥ श्रीगुरु नमस्करोति—स्वसुखेन स्वरूपानन्देनैव निभृत पूर्णं चेतो यस्य सः। तेनैवानन्देनव्युदस्तोऽन्यस्मिन्भावो यस्य तथाभूतोऽपि अजितस्य रुचिराभिर्लीलाभि आकृष्टः सारः स्वसुखगत स्थैर्य यस्य सः। यो जनकृपया तदीयं भगवच्चरितप्रधानमतएवाखिलानां वृजिनघ्नदुःखनिरासक तत्त्वदीपं परमार्थप्रकाशक श्रीभागवत पुराण व्यतनुत त व्याससूनुमह नतोऽस्मि॥६९॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका
उपचितनवशक्तिभिः स्व आत्मन्युपरचित स्थिरजङ्गमालयाय॥ भगवत उपलब्धिमात्रधाम्ने सुरऋषभाय नमःसनातनाय॥६८॥ स्वसुखनिभृतचेतास्तद्वयुदस्तान्यभावोऽप्यजित रुचिरलीलाकृष्टसारस्तदीयम्॥ व्यतनुत कृपया यस्तत्त्वदीपपुराणं तमखिलवृजिनघ्नंव्याससूनुं नतोऽस्मि॥६९॥इति श्रीमद्भागवते महापुराणे द्वादशस्कन्धे आश्रयनिरूपणेऽनुक्रमनिरूपणं नाम द्वादशोऽध्यायः॥१२॥६॥ सूत उवाच॥ य ब्रह्मावरुणेन्द्ररुद्रमरुतःस्तुन्वन्ति दिव्यैः स्तवैर्वेदै साङ्गपदक्रमोपनिषदैर्गायन्ति य सामगा॥ ध्यानावस्थिततद्गतन मनसा पश्यन्ति य योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः॥१॥ पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्निद्रालोः कमठाकृतेर्भगवतःश्वासानिलाः पान्तु वः॥ यत्सस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां यातायातमतन्द्रित जलनिधेर्नाद्यापि विश्राम्यति॥२॥
बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ द्वादशोऽपि गतो वृत्तिमनुक्रमनिरूपकः॥३॥छ॥छ॥ त्रयोदशे पुराणाना सङ्ख्याः प्रोक्ता यथाक्रमम्। श्रीमद्भागवतस्यापि दानादेः फलमुच्यते॥१॥ सर्वपुराणसङ्ख्यादीनुपवर्णयिष्यस्तत्प्रतिपाद्य देव प्रणमति—य ब्रह्मादयो दिव्यैः स्तवैःस्तुन्वन्ति स्तुवन्ति। उपनिषच्छब्दस्याकारान्तत्व छन्दोऽनुरोधेन। अङ्गादिसहितैर्वेदैर्य सामगा गायन्ति। ध्यानेनावस्थित निश्चल तद्गत यन्मनस्तेन य योगिनः पश्यन्ति सुरासुरगणा यस्यान्तं तत्त्व न विदुः तस्मै देवाय नमः॥१॥ क्षीरोदमथनादौ तस्य दुर्ज्ञेयत्व प्रसिद्धमिति कुर्मावतारमनुस्मारयन्नाशिष प्रार्थयते—पृष्ठे इति। पृष्ठे भ्रामयन् यः अमन्दो गरिष्ठः मन्दरगिरिस्तस्य ये ग्रावाणस्तेषामग्राणि तैः कण्डूयनात् तत्सुखेन निद्रालोः निद्राशीलस्य कमठाकृतेः
कूर्ममूर्त्तेर्भगवतःश्वासानिला वो युष्मान् पान्तु। पालनसामर्थ्यं सूचयन् प्राबल्यमाह—यदिति। येषां श्वासानिलाना सस्कारास्तेषा कलालेशास्तदनुवर्तनवशात् जलनिधेरम्भसा यातायातमद्यापि न विश्राम्यति। ननु समुद्रक्षोभादेव तत् न तत्सस्कारवशात्तत्राह— वेलाक्षोभस्तस्य निभेन मिषेणेति॥२॥ पुराणसङ्ख्यास्तासा सम्भूति समाहार च। अस्य श्रीभागवतस्य वाच्य विषयःप्रयोजन च दान च दानस्य पाठादेव माहात्म्य निबोध॥३॥ त्रयोविंशत् त्रयोविशति। चतुर्विंशतिसहस्राणि शैवक शिवपुराणम्॥४॥ बाह्नमग्निपुराणम्। दशपञ्चसहस्राणि चत्वारि शतानि च॥५॥ भविष्य
पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने॥ दानं दानरय माहात्म्यं पाठादेश्च्निबोध मे॥३॥ ब्राह्म दशसहस्राणि पाद्मंपञ्चोनषष्टि च॥ श्रीवैष्णव त्रयोविंशच्चतुर्विशति शैवकम्॥४॥ दशाष्टौ श्रीभागवत नारद पञ्चविशतिः॥ मार्कण्ड नव वाह्न च दशपञ्चचतुःशतम्॥५॥ चतुर्दश भविष्य स्यात्तथा पञ्चशतानि च॥ दशाष्टौ ब्रह्मवैवर्त लिङ्गमेकादशैव तु॥६॥ चतुर्विशति वाराहमेकाशीतिसहस्रकम्॥ स्कान्द शत तथा चैक वामन दश कीर्त्तितम्॥७॥ कौर्मंसप्तदशाख्यातं मात्स्य तत्तु चतुर्दश॥ एकोनविशत्सौपर्णंब्रह्माण्ड द्वादशैव तु॥८॥ एव पुराणसन्दोहश्चतुर्लक्षउदाहृत॥ तत्राष्टादशसाहस्र श्री भागवतमिष्यते॥९॥ इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे॥स्थिताय भवभीतायकारुण्यात्सम्प्रकाशितम्॥१०॥ आदिमध्यावसानेषु वैराग्याख्यानसयुतम्॥ हरिलीलाकथाव्रातामृतानन्दितसत्सुरम्॥११॥ सर्ववेदान्तसार यद्ब्रह्मात्मैकत्वलक्षणम्॥वस्त्वद्वितीय तन्निष्ठ कैवल्यैकप्रयोजनम्॥१२॥
पुराणं चतुर्दशसहस्राणि पञ्चशतानि च॥६॥ स्कान्द शताधिकैकाशीतिसहस्रम्॥७॥ सौपर्ण गरुडपुराणम् एकोनविशत् एकोनविशतिसहस्राणि॥८॥ भारत त्वितिहासः। रामायण च वाल्मीकिना प्रोक्त काव्यमतस्तयोः सङ्ख्या नोक्ता। अतः पुराणाना सन्दोहः समूहश्चतुर्लक्षसङ्खचाक एव भागवतस्य प्रयोजनादीनि दर्शयन्नाह—तत्रेति॥९॥ भगवता प्रोक्तमिति भागवत नामनिरुक्तिः, भवभीतायेति ससारनिवृत्तिः फल, कारुण्यादितिदुर्लभत्वम्॥१०॥ हरिलीलाकथाना व्रातः समूहः स एवामृत तेनानन्दिताःसन्तः सुराश्च येन तत्॥११॥ तन्निष्ठ तद्विषयम्॥१२॥
प्रौष्ठपद्याभाद्रपद्याम।हेमसिंहसमन्वित स्वर्णसिहासनारूढम्॥१३॥१४॥ हि यस्मात् सर्ववेदान्तसार श्रीमद्भागवत तस्मात् तद्रस एवामृत तेनतृप्तस्य निर्वृतस्यान्यत्र शास्त्रान्तरे क्वचिदपि रतिर्न स्यात्॥१५॥ निम्नगाना नदीनां मध्ये।अच्युतः स्वय च गुणतः स्वरूपतश्चच्युतिरहितः।भगवान् यथा॥१६॥ अनुत्तमा सर्वोत्तमा। हीति सन्देहवारणाय। हे द्विजा इति सम्बोधनेन भवतामप्यत्र सम्मतिरस्तीति सूचयति॥१७॥ यत्श्रीमद्भागवतपुराण भक्त्या तच्छ्रवणादिपरो नरः ससाराद्विमुच्यते। तत्र हेतुमाह—अमल मोक्षप्रतिबन्धकदोषनिवर्त्तकमित्यर्थः। तत्र हेतुमाह—यत्र ज्ञानादिसहित नैष्कर्म्य सर्वकर्मोपरमः आविष्कृत प्रकाशितम्। यरिमश्च पारमहस्य परमहसैर्विवेकिभिः प्राप्य एकमद्वितीयममल प्राकृतदोषसम्बन्ध-
प्रौष्ठपद्यां पौर्णमास्यां हेमसिहसमन्वितम्॥ ददाति यो भागवत स याति परमां गतिम्॥१३॥ राजन्ते तावदन्यानि पुराणानि सतां गणे॥ यावद्भागवतं15 नैव श्रूयतेऽमृतसागरम्॥१४॥ सर्ववेदान्तसारं हि श्रीभागवतमिष्यते॥तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिःक्वचित्॥१५॥ निम्नगानां यथा गङ्गा देवानामच्युतो यथा॥ वैष्णवानां यथा शम्भुः पुराणानामिदं तथा॥१६॥ क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा। तथा पुराणव्रातानां श्रीमद्भागवतंद्विजाः॥१७॥ श्रीमद्भागवतं पुराणममल यद्वैष्णवानां प्रिय यस्मिन्पारमहंस्यमेकममल ज्ञानं पर गीयते॥ तत्रज्ञानविरागभक्तिसहित नैष्कर्म्यमाविष्कृतं तच्छृण्वन्विपठन्विचारणपरो भक्त्या विमुच्येन्नर॥१८॥ कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीप पुरा तद्रूपेण च नारदाय मुनये कृष्णाय तदूपिणा॥योगीन्द्राय तदात्मनाऽथभगवद्राताय कारुण्यतस्तच्छुद्धं विमल विशोकममृतं सत्य परं धीमहि॥१९॥
रहितं ज्ञानमित्युपलक्षण सच्चिदानन्दात्मक पर ब्रह्म गीयते। अतएव वैष्णवाना प्रियमिति॥१८॥ श्रीभागवतसम्प्रदायप्रवर्त्तकरूपेण भगवद्धयानलक्षण मङ्गलमाचरति। अय श्रीभागवतरूपः अतुलः निरुपमः ज्ञानप्रदीपः पुरा कल्पादौ येन कस्मै ब्रह्मणे विभासितः। कस्मै इत्यत्र सर्वनामत्वमार्षम्। तद्रूपेण ब्रह्मरूपेण येन नारदाय विभासितः। तद्रूपिणा नारदुरूपिणा च येन कृष्णाय व्यासाय विभासितः। तद्रूपिणा व्यासरूपिणा योगीन्द्राय शुकाय विभासितः। तदात्मना शुकरूपेण च येनाथानन्तरं भगवद्राताय परीक्षिते विभासित’ प्रकाशितस्तत्तम्। तत्र हेतुः—शुद्धम् प्राकृत-
मलरहितमतएव विशोकममृत जन्ममरणादिविकाररहितमतएव सत्य परमार्थभूत पर परमेश्वर धीमहीति गायत्र्यैव यथोपक्रममुपसहरन् गायत्र्याख्यब्रह्मविद्येयमिति दर्शयति॥१९॥ तमेव देवतारूपेण गुरुरूपेण च प्रणमति—नम इति चतुर्भिः
। इदं पुराण कस्मै व्याचचक्षे व्याख्यातवान्॥२०॥२१॥॥२२॥२३॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥
नमस्तस्मै भगवते वासुदेवाय साक्षिणे॥ य इद कृपया कस्मै व्याचचक्षे मुमुक्षवे॥२०॥ योगीन्द्राय नमस्तस्मैशुकाय ब्रह्मरूपिणे॥ संसारसर्पदष्टं यो विष्णुरातममुमुचत्॥२१॥ भवे भवे यथा भक्तिः पादयोस्तव जायते॥ तथा कुरुष्व योगेश नाथस्त्वं नो यतःप्रभो॥२२॥ नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम्॥ प्रणामो दुःखशमनस्तंनमामि हरिं परम्॥२३॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्यां संहितायां वैयासिक्यां द्वादशस्कन्धेआश्रयनिरूपणे पुराणसङ्ख्यादिनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥
॥ इति द्वादशस्कन्ध समाप्तः॥
श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता द्वादशे तत्र सर्वाश्रयनिरूपणे॥ त्रयोदशो गतो वृत्तिं ग्रन्थसङ्ख्यानिरूपकः॥३॥ यत्कृपालवलेशेन टीकेय निर्मिता मया॥ समर्पिता पदाम्भोजे तस्यैव भक्तिभावतः॥४॥ भक्तैः समर्पित तुच्छ करोति भूरि यः सदा॥ प्रसन्नोऽस्तु सदासस्य मुकुन्दो दीनवत्सलः॥५॥॥छ॥ ॥ श्रीकृष्णार्पणमस्तु॥
[TABLE]
[TABLE]
[TABLE]
]
-
“भविष्येबार्हद्रथ।”
↩︎ -
“तत इति पाठान्तरम्।” ↩︎
-
“तुरुष्कका इति पाठान्तरम्।” ↩︎
-
“करिष्यत्यपरान् वर्णानिति पाठान्तरम्।” ↩︎
-
“उदरम्भरता स्वार्थ इति क्वचित्पाठ।” ↩︎
-
“भुञ्जत इति क्वचित्पाठ।” ↩︎
-
“कुलोद्वहा इति पाठान्तरम्।”
↩︎ -
“क्षत्रद्विजोत्तरा इति क्वचित्पाठ ।” ↩︎
-
“प्रजा इति पाठान्तरम्।”
↩︎ -
" दहत्यनिलवेगो वै इति वेगो वेति च पाठान्तरम्।"
↩︎ -
“ससुप्तवदित्यपि क्वचित्पाठो दृश्यते।” ↩︎
-
“सतैरिति पाठान्तरम्।” ↩︎
-
“कामो महर्पे सर्वोऽयमिति क्वचित्पाठ ।” ↩︎
-
“शुकस्य ब्रह्मर्षभस्येति पाठान्तरम् ।”
↩︎ -
“‘यावन्न दृश्यते साक्षाच्छ्रीमद्भागवत परम्’ इति पाठान्तरम्।” ↩︎