[[श्रीमद्भागवतम् (दशमस्कन्धः) Source: EB]]
[
अथ श्रीमद्भागवते दशमस्कंधपूर्वार्धः प्रारभ्यते |
<MISSING_FIG href="../books_images/U-IMG-1735629006g.png"/>
श्रीकृष्णाय नमः॥ * श्रीकृष्णचरणद्वन्द्वपद्मसङ्गिरजःस्रजः॥ कृपया मुकुरस्वान्त स्वच्छ कुर्वन्तु मे सदा॥१॥ ब्रह्मादिनर्तको यस्तु गोपिकाभिर्ननर्त ह॥ भक्तानां तामसादीना परानन्दफलप्रदः॥२॥ श्रीमुकुन्द इति ख्यातः सर्वसाधनसत्फलम्॥ दशमस्कन्धटीकायां स करोतु सहायताम्॥३॥ चतुर्विंशतिभिः शुद्धा कथा हीशस्य वर्णिता॥ अत्र स्कन्धे नवतिभिर्निरोधो विनिरूप्यते॥४॥ यद्यपि सर्वेष्वेव स्कन्धेषु सर्वासा सर्गविसर्गादिलीलाना निरूपण स्पष्टतरमेवास्ति, तथापि तत्र तत्र तत्तल्लीलाना बाहूल्येन वर्णनात् प्राधान्याभिप्रायेण तत्तत्स्कन्धानां तत्तल्लीलार्थत्व बोध्यम्। तत्र निरोधो नाम जीवस्य देहेन्द्रियान्तःकरणादिस्वशक्तिभिः सह भगवति स्थितिः। यथोक्तं द्वितीयस्कन्धे— “निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः” इति। सा च द्विधा। प्रलये भगवति लयात्मिका, प्रपञ्चदशाया तु भगवल्लीलागुणस्वरूपमाधुर्याद्यनुभवेन प्रपञ्चविस्मृतिपूर्विका भगवदासक्तिरूपा च। यथोक्तं
————————————————————————————————————————————————
*श्रीकृष्णाय नम॥ श्रीवागीश्वराय नम॥ श्रीकृष्ण ब्रह्म गोविन्द श्रीगोपीजनवल्लभम्॥ वन्दे वृन्दावनानन्दकन्दल नन्दनन्दनम्॥१॥ अनिरुद्ध निरुद्धानामुद्धर्तारमनुद्धतम्॥ उद्ध तानवरोद्धार वागीश्वरमुपास्महे॥२॥ अथ स्कन्धार्थस्तु निरोधो निर्णीत एवास्ति। प्रकरणादिविचारष्टीकाया श्रीवल्लभाचार्यविरचितसुबोधिन्यनुसारी विस्पष्ट प्रतिपाद्यते। अत्रापि प्रकरणाध्यायार्थसङ्ग्रहाकारिका सुबोधिनीकारिका प्राय सगृह्यन्ते। “नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम्॥ लक्ष्मीसहस्रलीलाभि सेव्यमान कलानिधिम्॥१॥ चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा॥ षड्भिर्विराजते योऽसौ पञ्चधा हृदये मम॥२॥ दशमार्थ प्रकरणाध्यायार्थश्च विचार्यते। नवलक्षणलक्ष्यो हि कृष्णस्तस्य निरूपणात्॥३॥ आश्रय क्रमभावित्वान्निरोधो वेति संशयः॥ लीलानिर्धारको ह्यर्थ क्रममात्र तु दुर्बलम्॥४॥ यथा कथञ्चिच्छ्रवण सत्फलत्वाय कल्पते॥ निरोध प्रलयो लोके प्रसिद्ध प्रकृतेन च॥५॥ प्रतीतो द्वादशेऽत्रैव महत्त्वाच्छुद्धलीलया॥ सहितो ह्याश्रय स्कन्धे प्रतिपाद्य इहेति चेत्॥६॥ नहि सापेक्षरूपस्य प्रथम सुनिरूपणम्॥ नवलक्षणसापेक्षो ह्याश्रयो रूप्यते कथम्॥७॥ अग्रे लीलाद्वयकथा फलसिद्धौ वृथा भवेत्॥पूर्वोत्तरस्कन्धयोश्च नश्येत्कारणकार्यता॥८॥ कृष्णस्त्वेकादशेऽप्यस्ति क्रमश्च स्वीकृतो भवेत्॥ निरोधोस्यानुशयन प्रपञ्चे क्रीडन हरे॥९॥ शक्तिभिर्दुर्विभाव्याभि कृष्णस्येति हि लक्षणम्॥ नैमित्तिको निरोधोऽन्यो धर्मग्लानिनिमित्तत॥१०॥ स चात्र नैव सद्ग्राह्यो हरिणा दुष्टभूभुजाम्॥ आद्यन्तयोरिहाभावान्मुक्तावप्यनुवृत्तित॥११॥ लक्षणस्याप्रवेशश्च लीलाधिक्य ततो भवेत्॥ तदर्थंजन्मकथन प्रथास्तोत्रविरोधि हि॥१२॥ कार्यकारणहानिश्च प्रक्रान्तत्याग एव च॥ भक्तत्वाद्भुव उद्धारो भारहारान्निरूपित॥१३॥ प्रकट परमानन्दो यदा भूमेस्तदैव हि॥ मर्दनक्लेशहानि स्यादिति तस्या समुद्यम॥१४॥ ब्रह्मरुद्रादिदेवानामत एवान्यसश्रय॥ भक्तानामेव विस्तार कृत कृष्णेन ससृते॥१५॥ अतो निरोधो भक्ताना प्रपञ्चस्येति निश्चय॥ यावद्बहि स्थितो वह्नि प्रकटो वा विशेन्नहि॥१६॥ तावदन्त स्थितोऽप्येष न दारदहनक्षम॥ एव सर्वगतो विष्णु प्रकटश्चेन्न तद्विशेत्॥१७॥ तावन्न लीयते सर्वमिति कृष्णममुद्यम्॥ रूपान्तर तु नटवत् स्वीकृत्य त्रिविधान्निजान्॥१८॥ प्रपञ्चभावकरणादुज्जहारेति निश्चय॥ पञ्च प्रकरणान्यत्र चतुर्भिर्जन्म सत्पते॥१९॥ अष्टाविंशतिभिः पूर्वं तामसत्वाद्व्रजोद्धृति॥ तथैव राजसाना च यादवाना विशेषत॥२०॥ सात्त्विकानेकविंशत्या निष्प्रपञ्चाश्चकार ह॥ भगवानेव नान्योऽत्र तदर्थ षड्भगाभिधा॥२१॥ चतुर्मूर्तेर्जन्मतोऽत्र तथाध्याया निरूपिता॥ तत्तत्प्रकरणे तेषामुपयोगस्तु वक्ष्यते॥२२॥हेतूद्यमस्वीकरणकापट्यै प्रथमो महान्॥ प्रद्युम्नश्चानिरुद्धश्च वासुदेवस्तथापर॥२३॥ हेतुश्च त्रिविधो ह्यत्रगुणा भक्ता हितप्रदा॥ कसादे कालतोऽज्ञानात्त्रिधा दुःख तु तद्धृतम्॥२४॥ भूमिर्माता तथा चान्ये दुःखभाजो हरिप्रिया॥ यथायोग्य दुःखमेषामत्रैवेति निरू-
द्वादशस्कन्धे — ‘नौमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः॥ संस्थेति कविभिः प्रोक्ताचतुर्धाऽस्य स्वभावतः’ इति। तत्र प्राकृतादिचतुर्द्धा प्रलयात्मको निरोधस्तु तृतीयादिरकन्धेष्वेवोक्तः। स्वभावतो भगवत्यासक्तिरूपः पञ्चमो निरोधस्त्वत्र निरूप्यते॥ ‘भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्’ इति स्पष्टतया वक्ष्यमाणत्वात् ‘श्रवणस्मरणार्हानि करिष्यन्निति केचन। क्लौ जनिष्यमाणाना दुःखशोकतमोनुदम्॥ अनुग्रहाय भक्ताना सुपुण्य व्यतनोद्यशः’ इत्युक्तत्वाच्च स निरोधो भगवल्लीलाश्रवणादिभिरेव सम्पद्यन्ते। अतो लीला अत्र नवतिभिरध्यायैर्निरूप्यन्ते॥ तत्र वासुदेवादिचतुर्मूर्तेर्भगवतः प्राकट्यसूचनायादौ चतुर्भिरध्यायैर्जन्मप्रकरणनिरूपणम्। ततः शास्त्रीयाचारशून्यानामपि तामसाना व्रजभक्ताना निरोधार्थमष्टाविंशतिभिरध्यायैस्तामसप्रकरणम्। तत्रापि प्रमाणप्रमेयसाधनफलाना निरूप्याणा चतुर्विधत्वात्तन्निरूपकाणि चत्वार्यवान्तरप्रकरणानि। तत्राप्यैश्वर्यादिषड्गुणविशिष्टस्य लीलेति सूचयितु सप्तभिरध्यायैरतेषां निरूपणम्। तत्राप्यघासुरवधादिनिरूपकमध्यायत्रय तु प्रक्षिप्तमेवेत्याहुराचार्याः। ततश्च राजसभक्ताना निरोधार्थमष्टाविंशतिभिरध्यायै राजसप्रकरणम्। तत्राप्यवान्तरप्रकरणान्यध्यायतात्पर्यं च पूर्ववज्ज्ञेयम्। ततश्च सात्विकभक्ताना निरोधार्थमेकविंशतिभिरध्यायैः सात्त्विकप्रकरणम्। तत्र ‘सत्त्वात् सञ्जायते ज्ञानम्’ इति वाक्यात्तेषा प्रमाणापेक्षाभावात् प्रमेयादित्रितयनिरूपकाणि त्रीण्येवावान्तरप्रकरणानि। अध्यायतात्पर्य तु पूर्ववदेव ज्ञेयम्। ततश्च “ऐश्वर्यादयः षड्गुणा, परमेश्वरे श्रीकृष्ण एव पूर्णा, नान्यत्र। ब्रह्मादौ तु भगवच्छब्द औपचारिक” इति सूचयितु षड्भिरध्यायैर्गुणनिरूपणप्रकरणम्। इत्येव नवतिरध्याया ज्ञेयाः। तत्र तु प्रथमेऽध्याये भूमेर्मातुर्विशेषतः॥ दुःखं भगवतः प्रादुर्भावहेतुर्निरूप्यते॥१॥
——————————————————————————————————————————
प्यते॥२५॥ त्रय भगवता शक्य दूरीकर्तुमितीर्यते॥ प्रश्नोऽप्यत्राधिक प्रोक्त स्कन्धद्वितीयवर्त्तन॥२६॥ अनुवाद स्तुति प्रश्ने भक्तत्वज्ञापकावुभौ॥ अन्यथा ह्यतिगुप्तार्थ श्रीशुको वर्णयेत्कथम्॥२७॥ अज्ञानमन्यथा ज्ञान कृष्णग विनिवार्यते॥ प्रीणनत्व क्थायाश्च दयासिद्ध्यै शुकस्य हि॥२८॥ एव प्रश्नो द्वादशभि समतो गुणदोषग"॥ इति सुबोधिनी। “विश्वसर्गविसर्गादिनवलक्षणलक्षितम्॥ श्रीकृष्णाख्य पर धाम जगद्धाम नमाम तत्॥१॥ दशमे दशम लक्ष्यमाश्रिताश्रयविग्रहम्॥ क्रीडद्यदुकुलम्भोधौ परानन्दमुदीर्यते॥२॥ दशमे कृष्णसत्कीर्तिवितानायानुवर्ण्यते॥ धर्मग्लानिनिमित्तस्तु निरोधो दुष्टभूभुजाम्॥३॥ प्राकृतादिश्चतुर्धा यो निरोध स तु वर्णित॥ तत्तत्प्रसङ्गत सृष्टिसहारादिनिरूपणै॥४॥ कृता नवतिरध्याया दशमे कृष्णकीर्तये॥ आद्यैश्चतुर्भिरध्यायैर्ब्रह्मप्रार्थनयाऽवनें॥ भार हर्तुं हरेर्जन्म सप्रसङ्ग निरूप्यते॥५॥ गोकुले मथुराया च द्वारवत्या तत क्रमात्॥ कृष्णलीला त्रिधा प्रोक्ता तत्तद्भेदैस्त्वनेकधा॥६॥ सपञ्चत्रिशताध्यायैर्बृहद्वृन्दावनादिषु॥ गोकुले वसतोलीला वर्ण्यते सुरदुष्करा॥७॥ एकेन यमुनावारिण्यक्रूरेण कृता स्तुति॥ एकादशभिराख्याता लीला मधुवने कृता॥८॥ शेषैर्द्वारवतीलीला तन्निर्माणादि वर्ण्यते॥ एव न्वतिरध्याया दशमे विशदार्थका॥९॥ तत्र तु प्रथमे कस स्वमृत्यु देवकीसुतात्॥ श्रुत्वा भीतोऽवधीत्तस्या षड्गर्भानिति वर्ण्यते॥१०॥ कृष्णावतारचरितश्रवणागतनिर्वृत॥ उक्तानुवादेनौत्सुक्याद्राजा पृच्छति तत् पुन “॥११॥ इति श्रीधरस्वामिभि स्कन्धप्रकरणार्थव्यवस्था व्यरचि।
अथ परमभागवतस्य भगवच्चरितामृतपानैकमानस्य राज्ञः सकलकलाशावेशावतारावतारि श्रीकृष्णचरित सङ्क्षेपतो नवमस्कन्धे श्रुतवत एव शङ्का जाता — “मुनिसत्तमेन ‘अय मदुक्तं सम्यगवधारयति नवास्य भगवद्भक्तिरस्ति नवेति’ ममाधिकारसन्देहादनधिकारिणं प्रत्यप्रकाश्यं भगवच्चरितविस्तरेण नोक्तम्” इति। तत्र श्रुतावधारणस्याधिकारित्वाङ्गत्वादवधारणज्ञापनार्थ नवमे श्रुतमनुवदति—कथित इति सार्द्धेन। सोमसूर्ययोर्वशविस्तारो भवता कथितो नवमस्कन्धे समयावधारित इति शेषः। एवमग्रेऽपि। उभयवंश्याना सोमसूर्यवशोद्भूताना राज्ञा परमाद्भुतं विस्मयावह चरित च कथितम्। तत्र सन्तानप्रबन्धो वंशस्तस्य विस्तारः परम्परारूपः। तत्र प्रथमं सूर्यवंशस्य कथितत्वेऽपि सोमवशे श्रीकृष्णावतारेणाभ्यर्हितत्वात्सोमस्य पूर्वनिपातः।1 चरितस्याद्भुतत्वं च दुर्वासश्चक्रतापेन्द्रवृषककुदारोहणादिना बोध्यम्॥१॥ वक्तुः स्तुतिरपि कथने हेतुरतरत स्तुवन् सम्बोधयति—मुनिसत्तमेति। तत्र मननशीला2 मुनयः, तत्रापि प्राप्तज्ञाना मुनिसन्तः, ब्रह्मानुभवप्राप्ता मुनिसत्तराः, ततोऽपि श्रेष्ठो भगवद्भक्तो मुनिसत्तमः। नितरा धर्मशीलस्य यदोश्च वंशविस्तारश्चरितं च कथितम्। सोमवंशानुवादेनैव तदवान्तरभूतयदुवंशानुवादस्यापि जातत्वात् पुनस्तदनुवादस्तत्र भगवदवतारेणादरसूचनार्थः। नच यदोः पितुराज्ञोल्लङ्घनात्कथ धर्मशीलत्वमिति शङ्कनीयम्। धर्मो मुख्यो भगवद्भक्तिलक्षणः, ‘धर्मो मद्भक्तिकृत्प्रोक्त’ इति भगवदुक्तेः॥ पितु-
श्रीकृष्णाय नमः॥ ॥राजोवाच॥ ॥कथितो वंशविस्तारो भवता सोमसूर्ययोः॥ राज्ञां चो3भयवंश्यानां चरित परमाद्भुतम्॥१॥ यदोश्च धर्मशीलस्य नितरां मुनिसत्तम॥ तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस न॥२॥
राज्ञया जराङ्गीकारे तया ग्रस्तस्य भगवद्भजनलोपमाशङ्क्य मुख्यजनकस्य भगवतो भजनसिद्ध्यर्थ स्वयौवनदाने तेन पित्रा स्वमातृसम्बन्धस्य करिष्यमाणस्यात्यन्तानुचितत्वमाशङ्क्य तन्निरासार्थच गौणपितुर्ययातेराज्ञोल्लङ्घनेनाधर्मः। धर्मस्य हि फल भक्तिरतो धर्मान्तरापेक्षया तस्याः प्रबलत्वात्। यद्वा कञ्चिद्ब्राह्मण प्रति त्वद्याचितमह सम्पादयिष्यामीत्यनिर्दिष्टा नामविशेषनिर्देशरहिता प्रतिज्ञा कृता जराङ्गीकारे च तत्सम्पादनसामर्थ्याभावे दोषः स्यादतः पितृवचनं नाङ्गीकृतम्। यथोक्त हरिवशे—‘अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता॥ अनपाकृत्य ता राजन्न ग्रहीष्यामि ते जराम्’ इति तस्य धर्मशीलत्वम्। ‘नोत्सह’ इति नवमस्कन्धवाक्यमपि यथार्थत्वेन तद्धर्मशीलत्वद्योतकमेव। नच तर्हि कथश्रीशुकेन ‘प्रत्याचख्युरधर्मज्ञा’ इत्युक्तमिति शङ्कनीयम्। यदुव्यतिरिक्ताना तुर्वस्वादित्रयाणामेवैतद्विशेषण ज्ञेयम्। अन्यथा ‘येदुः पप्रच्छ धर्मवित्’ इत्येकादशस्कन्धे वक्ष्यमाणभगवद्वाक्येन विरोधापत्तेः॥ एव पूर्वश्कन्धोक्तमनूद्य प्रश्नस्य श्रवणाङ्गत्वाद्भगवच्चरितं पृच्छति। तत्र बलभद्रचरितस्य सङ्क्षेपतोप्यनुक्तत्वात्प्रथमं तदेव पृच्छति—तत्रेति।
तत्र भगवद्धर्मयुक्ते यदुवंशे विष्णोर्व्यापकस्य भगवतोंशेनावतीर्णस्य बलभद्रस्य वीर्याणि पराक्रमपूर्विका लीला नोऽस्मान् शस कथय। यथाश्रुताशावतारत्वाङ्गीकारे तु ‘अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल’ इति ‘कृष्णस्तु भगवान् स्वयम्’ इत्यादिवाक्यविरोधापत्तेः। अशेन बलभद्रेण सहावतीर्णस्य वीर्याणीत्यर्थाङ्गीकारे तु अवतीर्येत्युत्तरश्लोकेन पुनरुक्तत्वापत्तेः॥२॥ एव बलभद्रचरित पृष्ट्वा श्रीकृष्णचरित पृच्छति—अवतीर्येति। यदोर्वशे अवतीर्य भगवान् निरतिशयैश्वर्यादिगुणवान् श्रीकृष्णो यानि लीलाप्रधानानि कर्माणि कृतवास्तानि नोऽस्मान् वदेत्यन्वयः। न इति बहुवचन स्वस्य मुख्यत्वेन सभ्येष्वात्माभिमानात्। अवतारप्रयोजन तु ‘कलौ जनिष्यमाणानाम्’ इत्यादिना त्वयोक्तं तत् सामान्यतोऽस्माभिर्ज्ञातमेवेति सूचयन् विशिनष्टि — भूतभावन इति। भूतानि भावयति स्वैकभावनानिष्ठानि करोतीति तथा सः। यो हि विश्वमेव सर्वमात्मनि निर्मितवास्तस्य तु न किमप्यशक्यकरणमित्याशयेनाह—विश्वात्मेति। ननु ‘जातो गतः पितृगृहाद्व्रजमेधितार्थ’ इत्यादिना तच्चरितान्युक्तान्येव, किं पुनस्तत्प्रश्नेनेत्याशङ्क्याह—विस्तरादिति। सत्यम्। परन्तु सङ्क्षेपत उक्तानि, तेषा श्रवणेऽपि तावता शुश्रूषा न निवर्तते। अतो विस्तराद्वदेत्यर्थः। मत्स्यादिचरितान्यपि भगवच्चरितान्येव,
अवतीर्य यदोर्वंशे भगवान् भूतभावनः॥ कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात्॥३॥
निवृत्ततर्षैरुपगीयमानाद्भवौषधाच्छ्रोत्रमनोऽभिरामात्॥ कउत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात्॥४॥
तानि तु विस्तरतो वर्णितान्येवेत्याशङ्का तु ‘अवतीर्य यदोर्वंशे’ इत्यनेनैव निरस्ता ज्ञेया॥३॥ ननु भगवच्चरितान्यभीक्ष्णशः श्रृण्वतोऽपि तव कुतो न ततो विरक्तिरित्याशङ्क्याह —निवृत्त4तर्षैरिति। अत्र लोके चतुर्विधा जनाः — ‘मुक्ता मुमुक्षवो विषयिणो दुर्भगाश्च’। तेषा मध्ये दुर्भगान् विहाय भगवच्चरितश्रवणे न कस्याप्यलंप्रत्ययः। तत्र मुक्ता द्विविधाः — ‘जीवन्मुक्ताः प्राप्तसालोक्यादयश्च’। तत्र निवृत्ता तर्षा भगद्व्यतिरिक्तविषया तृष्णा येषा तैः। तर्षेत्युपलक्षण क्रोधलोभादिदोषाणाम्, सर्वदोषविनिर्मुक्तैरप्युपसमीप एव सर्वत्र गीयमानात्। यद्वा उपशब्दोऽधिकार्थे, ‘उपोधिके च’ इति सूत्रात्। अधिक गीयमानात्। नच तेषा मुक्ताना प्रयोजनाभावात्तद्विना कथ तद्गान सम्भवतीति शङ्कनीयम्। ‘यत्रेङ्यन्ते कथा मृष्टास्तृष्णायाः प्रशमो यतः’ इति रुद्रगीतवचनात्। तेऽपि भगवद्गुणश्रवणकीर्तनादिनैव निवृत्ततर्षा जाताः। अतः ‘पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः’ ‘एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ते वै भगवत्प्रपन्नाः’ ‘अत्यद्भुतं तच्चरितं सुमङ्गल गायन्त आनन्दसमुद्रमग्नाः’ ‘आत्मारामाश्च मुनयो
निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः’ ‘उत्तमश्लोकलीलया’ ‘गृहीतचेता’ इत्यादिवचनेभ्यस्तेषां भगवल्लीलाकृष्टचेतसा लौकिकप्रयोजनाभावेऽपि पूर्वसंस्कारवशाद्भगवद्गुणमाधुर्यवशाच्च भगवद्गुणगानसम्भवात्। एव मुक्तानां विषयत्वमुक्तम्। मुमुक्षूणा सुलभः सुकरश्च मोक्षोपायोप्ययमेवेत्याह— भवौषधादिति। भवस्य जन्ममरणादिलक्षणससारमहारोगस्यौषधवन्निवर्तकादित्यर्थः। औषध यथा भक्षणद्वारान्तःस्थापनातिरिक्त प्रयत्नं रोगनिवृत्तौ नापेक्षते, तथायमपि श्रवणादिद्वारान्तःस्थापनातिरिक्त प्रयत्न ससारनिवृत्तौ नापेक्षत इत्यस्यौषधत्वं बोध्यम्। विषयिणामपि लौकिकविषयसुखात् परमानन्दजनकः सुलभश्चायमेव विषय इत्याह— श्रोत्रमनोऽभिरामादिति। शब्दमात्रेण श्रोत्रे अर्थेन मनश्चाभिरतो रमयतीति श्रोत्रमनोऽभिरामस्तस्मादित्यर्थः। उत्तमश्लोकगुणानुवादादिति। उद्गच्छति तमः अविद्या यस्मात्स उत्तमः, उत्तमः श्लोको यशो यस्य तस्य भगवतो गुणानुवादात् कः पुमान् विरज्येत विरक्तो भवेत्? न कोपीऽत्यर्थः। अर्थानुसन्धानपूर्वकोच्चारण वादः। तदननुसन्धानेनाप्युच्चारणमनुवाद इति प्रसिद्धेरनुवादपदेनार्थाज्ञानेप्यानुपूर्व्या भगवद्गुणनामाद्युच्चारणमात्रेणापि वक्तृश्रोतॄणामुक्त फल भवतीति सूचितम्। पुमानिति। जीवमित्यर्थः,
पितामहा मे समरेऽमरजयैर्देवव्रताद्यातिरथैस्तिमिङ्गिलैः॥
दुरत्यय कौरवसैन्यसागर कृत्वाऽतरन् वत्सपद स्म यत्प्लवाः॥५॥
‘द्वाविमौ पुरुषौ लोके’ इत्यादौ जीवमात्र एव पुरुषपदप्रयोगदर्शनात्। विना पशुघ्नादिति। पशून् गवादीन् हन्तीति पशुघ्नश्चाण्डालादिर्महापापी तस्माद्विना को विरज्येतेत्यर्थः। अत्रेद बोध्यम् — लौकिकमौषधं हि निवृत्तरोगैर्नाद्रियते। इदं भगवद्गुणानुवादरूपमौषधं तु निवृत्तसंसाररोगैरप्याद्रियते॥ तत्तु तुच्छरोगनिवर्तकम्। इदं त्वनन्तकालागतमहादुःखदायिसंसाररूपमहारोगनिवर्तकम्॥ तत्तु न सर्वरोगनिवर्तकम्, एकरोगनिवृत्तौ सत्यामपि रोगान्तरदर्शनात्। इदं त्वशेषसंसारनिवर्तकम्, ‘अशेषसङ्क्लेशशम विधत्ते गुणानुवादश्रवण मुरारे” इति वचनात्॥ तत्तु व्यभिचारि, कृतेऽप्यौषधे रोगनिवृत्त्यदर्शनात्। इदं तु न तथा, श्रोत्रमनोऽभिरामत्वात्॥ तत्तु धनादिसाध्यम्, अभिलाषवद्दातृकत्वात्। इदं तु धनादिकं विनैव लभ्यते, निवृत्ततृष्णैरुपगीयमानत्वात्॥ तत्तु प्रयत्नसाध्यम्। इदं तु सुलभं, सर्वत्र सर्वदैव स्वत एव महद्भिरुपगीयमानत्वात्॥ अतोऽस्माद्विरक्तो महापातकपुञ्जयुक्त आत्मघात्येव ज्ञेयः। “नून दैवेन विहता ये चाच्युतकथासुधाम्। हित्वा शृण्वन्त्यसद्गाथा पुरीषमिव विड्भुजः”॥ “नृदेहमाद्य सुलभं सुदुर्लभ प्लव सुकल्प गुरुकर्णधारम्। मयाऽनुकूलेन नभस्वतेरित पुमान् भवाब्धिं न तरेत् स आत्महा” इत्यादिवचनैरप्येव निश्चयात्। अत्र यद्यप्यनेकशो वचनान्युदाहरणयोग्यानि सन्ति युक्तयश्चानेकशः स्फुरन्तीत्येतावता मनसि सन्तोषो नायाति, तथापि विस्तरभयाद्विरम्यते॥४॥ न केवल संसारतारकत्वेन भगवच्चरित श्रोतव्यम्, किंत्वस्मत्कुलरक्षकचरितत्वेनापि तदवश्य श्रोतव्यमित्याशयेनाह—पितामहा मे
इति। मे मम पितामहा युधिष्ठिरादयो यत्प्लवा यो भगवानेव प्लवस्तरणसाधन नौर्येषा तथाभूताः सन्तो देवव्रताद्यातिरथैस्तिमिङ्गिलैर्दुरत्यय दुस्तरमय कौरवाणा सैन्यरूपं सागर वत्सपदामिवातितुच्छं कृत्वाऽतरन् अनायासेनैव विनिर्जितवन्तस्तस्य वीर्याणि वदस्वेति तृतीयेनान्वयः। देवव्रतो भीष्म, स आद्यो मुख्यो येषा द्रोणादीना तैः अतिरथैः ‘एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः॥ अमितान्योधयेद्यस्तु स प्रोक्तोऽतिरथस्तु सः’॥ इति लक्षणलक्षितैः तिमिङ्गिलैर्महामत्स्यतुल्यैः। तत्र शतयोजनविस्तृतो मत्स्यस्तिभिः, ‘अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः’ इति वचनात्। तमपि गिलन्ति ते तथा तैः। सैन्यस्य महत्त्वात् सागरोक्तिः। भीष्मादीना तिमिङ्गिलत्वमेव स्पष्टयतिसमरेऽमरसहिते सङ्ग्रामे अमरान् देवानपि जयन्तीति तथा तैः। भीष्मस्यार्यादिकभक्तत्वाद्देवव्रतत्वम्, भगवद्भक्तप्रतिपक्षपक्षपातित्वात् ज्ञातिघातकत्वाच्च तिमिङ्गिलत्व चोक्तम्। यथा प्लवाश्रिताजनाः सागरे न निमज्जन्ति, तथा भगवदाश्रिताः पाण्डवा अपि उर्वरिता इति भगवतः प्लवत्व ज्ञेयम्। स्मेति इव शब्दार्थे॥५॥ न केवल पाण्डवरक्षकत्वेनैव तच्चरित श्रोतव्यम्, किंतु मम शरीररक्षकत्वेनापीत्याशयेनाह—द्रौण्यस्त्रेति। द्रोणस्यापत्य पुमान्
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम्॥ जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यःशरणं गतायाः॥६॥
वीर्याणि तस्याखिलदेहभाजामन्तर्बहिःपूरुषकालरूपैः॥ प्रयच्छतो मृत्युमुतामृत च मायामनुष्यस्य वदस्व विद्वन्॥७॥
द्रौणिरश्वत्थामा, तस्य ब्रह्मास्त्रेण विप्लुष्टं दग्धमिद प्रत्यक्ष ममाङ्गं चकारान्मम मातुश्चाङ्गम् मे मम मातुः कुक्षिंगतः आत्त गृहीत चक्र येन तथाभूतश्च यो जुगोप रक्षितवास्तस्य वीर्याणि वदस्वेत्युत्तरेणान्वयः। आत्तचक्र इति तु स्वरूपनिर्देशमात्रम्, रक्षा तु गदयैवेति ज्ञेयम्। ‘अस्त्रतेजः स्वगदया नीहारमिव गोपतिः। विधमन्तम्०’ इति प्रथमस्कन्धोक्तेः॥ एतद्रक्षाया हेतुद्वयम् — मे मातुः शरणागतिः स्वभक्तपाण्डववशबीजत्व चेति विशेषणद्वयम्। शरण गताया इति। कुरूणा पाण्डवाना च सन्तानस्य वशस्य बीज कारणमिति॥६॥ यथाधिकार सर्वफलप्रदत्वेनापि तच्चरितमवश्य श्रोतव्यम्, अन्यथा संसारनिवृत्तिर्न स्यादित्याशयेनाह —वीर्याणीति। अखिलदेहभाजा सर्वप्राणिनामन्त अन्तःकरणे पुरुषरूपेण बहिश्च कालरूपै स्थितस्य। कालरूपैरिति कालावयवाना बहुत्वाद्बहुवचनम्। तत्रापि ये बहिर्मुखा विषयासक्तास्तेभ्यः कालरूपैर्मृत्यु जन्ममरणादिरूपं संसारं प्रयच्छतः ये चान्तर्मुखतया तत्कथाश्रवणादिपरास्तेभ्योऽन्तर्यामिरूपेणामृत मोक्षमपि प्रयच्छतस्तस्य मायया मनुष्यस्य ‘माया दम्भे कृपाया च’ इति विश्वकोशात् जनोद्धारार्थं कृपया स्वीकृतमनुष्याकारस्य श्रीकृष्णस्य वीर्याणि वीर्यप्रयुक्तकर्माणि वदस्व। ‘भासनोपसम्भाषा०’ इत्यात्मनेपदम्। तेन भगवच्चरितकथन न
केवलमस्मदुपकाराय, किंतु तेन तवाप्युपकारो भविष्यतीति सूचितम्। यद्वा स्वेति सम्बोधनम्, हे स्व गुरो इत्यर्थः। तेन कथन तवावश्यकमिति सूचितम्। अज्ञात च तव किञ्चिन्नास्त्येवेति सूचयन् पुनः सम्बोधयति— विद्वन्निति। उतेति अप्यर्थे॥७॥ एव सामान्यतो भगवच्चरित्राणि पृष्ट्वाऽथ सन्दिग्धान् युक्तिविरुद्धाश्चार्थान् पृच्छति — रोहिण्या इति पञ्चभिः। ‘बल गद सारण च दुर्मद विपुल ध्रुवम्। वसुदेवस्तु रोहिण्या कृतादीनुदपादयत्’ इति रोहिण्यास्तनयो रामस्त्वया प्रोक्तः, ‘वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्। कीर्तिमन्त सुषेण च भद्रसेनमुदारधीः॥ ऋजु समर्दन भद्र सङ्कर्षणमहीश्वरम्। अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल’ इति पुनस्तस्यैव सङ्कर्षणशब्देन देवक्या गर्भसम्बन्धः प्रोक्तः। स देहान्तर विनैकस्मिन् जन्मनि कुतो घटत इत्याक्षेपः॥८॥ मधुरापरित्यागकारण पृच्छति—कस्मादिति। भगवान् वीर्यादिमान् अत एव मुकुन्दो मोक्षदाता कालादिभयनिवारकोऽतस्तस्य कसादिभयासम्भवात् कस्माद्धेतोः पितुर्गेहाद्वज गतः? सात्त्वता यादवविशेषाणा भक्ताना पतिः ज्ञातिभिः ‘अथ कृष्णः परिवृतो
रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया॥ देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना॥८॥ कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रज गतः॥ क्व वास ज्ञातिभिः सार्धं कृतवान् सात्त्वतांपति॥९॥ व्रजे वसन् किमकरोन्मधुपुर्या च केशवः॥ भ्रातरं चावधीत् कंस मातुरद्धाऽतदर्हणम्॥१०॥ देह मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः॥ यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः॥११॥ एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम्॥ वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम्॥१२॥
ज्ञातिभिर्मुदितात्मभिः’ इति वक्ष्यमाणत्वात् गोपैः सार्द्धं सह क्व वास कृतवानित्यन्वयः॥९॥ को ब्रह्मा, ईशो रुद्रस्तयोरपि व सुख यस्मात्स केशवो भगवान् व्रजे मधुपुर्याम्, चकारात् द्वारकायां च वसन् किमकरोत्? अद्धा साक्षात्स्वयमेव कस कस्मादवधीत्? तद्वधेऽपि को दोष इत्यत आह—अतदर्हणमिति। न वधार्हमित्यर्थः। तत्र हेतुमाह—मातुर्देवक्या भ्रातरमिति। चकारः कस्मादित्यनुषङ्गसूचकः॥१०॥ मानुष देहमाश्रित्य वस्तुतः परब्रह्मत्वेऽपि नराकारमङ्गीकृत्य वृष्णिभिर्यादवैः सह यदुपुर्या द्वारकाया कति वर्षाणि अवात्सीत्? प्रभोः सर्वकरणे समर्थस्य तस्य पत्न्यः कति अभवन्?॥११॥ अज्ञेन मया कति प्रष्टव्यम्? स्वयमेव कृपया मच्छ्रवणयोग्य वक्तव्यमित्याह — एतदिति। एतत् यन्मया पृष्टम्, अन्यच्च अपृष्टमपि श्रीकृष्णस्य विचेष्टित विविधा लीला विस्तृतं यथा स्यात्तथा सर्वं त्व मे मह्य वक्तुमर्हसीत्यन्वयः। कृष्णचरितस्यापारत्वाद्दुर्ज्ञेयत्वाच्च कथमहं वक्तुमर्ह इत्याशङ्का निरस्यन् सम्बोध-
परम्परया श्रवणकीर्तनादिना कृतार्थतीर्थमेतत्कथनमावश्यकमिति सूचयन्नाह— कलिकल्मषघ्नमिति। कलियुगे देशकालमन्त्रकर्मदेवतादीना धर्महेतूना दुर्लभत्वादिदमेव कल्मषनाशकम्। तत्र हेतुः — कृष्णचरितमिति। ‘कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः। तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ इति श्रुतेः॥ सदानन्दस्वरूपस्य कृष्णस्य चरितमप्येतादृक्प्रभावमिति भावः। ननु तथापि सर्वतो विरक्तस्य शुकस्य स्वकीय किं — प्रयोजनमित्य पेक्षायामाह — भागवतप्रधान इति। ‘हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः। अध्यगान्महदाख्यान नित्य विष्णुजनप्रियः’ इत्युक्तत्वात्। भागवत शास्त्र, भागवता भगवद्भक्ताश्च प्रधाना यस्य सः। तथा च स्वप्रयोजनोद्देशाभावेऽपि भगवल्लीलाकृष्टचित्तत्त्वाच्छ्रीभागवतप्रचारेण भक्तानामुपकारायेद कथितवानित्याशयः॥ ननु तथापि भगवच्चरित्रस्य दुर्ज्ञेयतया कथमन्येन कथन सम्भवति? अन्यकथनेऽपि कथं सफलत्व सम्भवति तत्राह — सभगवानिति। भगवता सह वर्तमानः, तदन्तः स्थितो भगवानेव चरित कथितवानित्यर्थः। ‘कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा। तद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा॥ योगीन्द्राय तदात्मनाथभगवद्राताय कारुण्यतः। तच्छुद्ध विमल विशोकममृतं सत्य परं धीमहि’ इति द्वादशस्कन्धे सूतेन वक्ष्यमाणत्वात्॥ भगवदुपदिष्टत्वादेव राज्ञस्तत्कालमेव फल जातम्। अत एवेतरोपदेशे विप्रलिप्सादिदोषेन यथार्थत्वासम्भवादिदानीन्तनाना
श्रीशुक उवाच॥ सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम॥ वासुदेवकथायां ते यज्जाता नैष्ठिकी रति॥१५॥
बहुशः श्रवणेऽपि सद्यो ज्ञानभक्तिवैराग्यादि फल न दृश्यते। प्रतिपूजनमपि भक्तिमाहात्म्यादेव। लोके सर्वत्र वक्तैव पृच्छकैः पूज्यते, नतु प्रष्टा। भगवत्कथाप्रसङ्गे तु भक्तिविना तत्प्रश्नासम्भवात्प्रष्टाऽपि वक्त्रा सत्क्रियते, सूतनारदविदुरादिष्वपि सत्कारोपलम्भात्॥ ‘एत निशम्य’ इति तु पाठान्तरम्।॥१४॥ तत्कृत सत्कारमाह— सम्यगिति द्वयेन। व्याहर्तुमारभतेत्युक्त्वाऽपि पुनः शुक उवाचेति वचन श्रोतॄणा सावधानतार्थम्। क्वचित्तद भावस्तु तेषा सावधानत्वादिति ज्ञेयम्॥ शुक इति नाम तु प्रेमभरेण कीरवन्मधुरभाषणाज्ज्ञेयम्। तथाच ब्रह्मवैवर्ते व्यासप्रति भगवद्वाक्यम्। ‘व्यास त्वदीयतनयः शुकवन्मनोज्ञ ब्रूते वचो भवतु तच्छुक एव नाम्ना’ इति प्रजानुरञ्जको राजा, सोऽपि वैदिककर्मनिष्ठो राजर्षिः, तत्रापि। निवृत्तिनिष्ठां राजः सन्, तत्रार्षि सत्, तत्रापि ज्ञाननिष्ठो राजर्षिसत्तरः, परानुरक्तिरूपभक्तिमाँस्तु राजर्षिसत्तम इति त्वया तु महतामपि दुर्लभावस्था प्राप्तेत्याश्चर्येण सम्बोधयतिराजर्षिसत्तमेति। सम्यक् समीचीन व्यवसित निश्चयो यस्यास्तथाभूता तव बुद्धिः। कुत एव ज्ञायत इत्यपेक्षायामाह — वासुदेवेति। यत् यस्मात् वासुदेवस्य
मोक्षदातुः श्रीकृष्णस्य कथाया ते तव नैष्ठिकी ‘तत्कथैव श्रोतव्या, नान्यत्’ इति निष्ठा प्राप्ता रतिः प्रीतिर्जातेत्यर्थः॥१५॥ अनेन प्रश्नेन त्वमहमिमे सदस्याश्च सर्व एव पाविता इत्याशयेनाह—वासुदेवेति। वासुदेवकथायाः प्रश्नः कथाप्रवृत्तिहेतुत्वात् कथाद्वारा त्रीन् त्रिविधान् पुरुषान् पुनाति परमपुरुषार्थप्राप्तिप्रतिबन्धकपापनिरासेन तत्प्राप्तियोग्यता सम्पादयति॥ अत्र सन्देहो न कार्य इत्याशयेनाह — हीति। के ते त्रय इत्यपेक्षाया तानाहप्रश्नोत्तरस्य वक्तारं पृच्छक प्रश्नकर्तार तत्सहचरानन्यान् श्रोतृृश्च। तत्र दृष्टान्तमाह — तत्पादसलिल यथेति। तस्य भगवतः पादसलिल गङ्गा यथा त्रीन् पुरुषान् सात्त्विकराजसतामसभेदभिन्नान् त्रिलोकस्थान् वा, कुलद्वयमध्यस्थान् वा, ब्रह्माण महादेवं भगीरथं वा, श्रोतॄन् द्रष्टृन् ध्यातॄन् वा, पानकर्तृृन् दर्शनकर्तृृन् स्नानकर्तृृन् वा, पुनाति तथेत्यर्थः। कश्चित्तु तत्पादसलिलमिति शालग्रामादिचरणोदक त्रीन् पुरुषान् दातार पातार द्रष्टार च यथा पुनातीत्याह। वस्तुतस्तु तत्पादसलिलमिति तत्प्रसादवस्तुमात्रस्योपलक्षणम्, सर्वस्यैव महिमश्रवणात्। दृष्टान्तस्तु पवित्रीकरणमात्र एव, न
वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि॥ वक्तारं पृच्छकं श्रोतृृंस्तत्पादसलिल यथा॥१६॥
भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः॥ आक्रान्ता भूरिभारेण ब्रह्माणं शरण ययौ॥१७॥
गौर्भूत्वाऽश्रुमुखी खिन्ना रुदन्ती5 करुण विभोः॥ उपस्थिताऽन्तिके तस्मै व्यसन स्वमवोचत॥१८॥
पुरुषत्रयपवित्रीकरणे सम्बन्धिमात्रम्। बहुपुरुषपवित्रहेतुतया पुरुषत्रयपवित्रीकरणवचनस्यानुचितत्वात्॥ सम्बन्धिमात्रपुरुषपवित्रीकरण चोक्तम्— ‘श्रुताभिलषिता ध्याता पीता दृष्टाऽवगाहिता। गङ्गा तारयते पुंसामुभौ वशौ भवार्णवात्’ इति॥१६॥ अथ प्रसिद्ध भक्ताना दुःखमेव भगवदवतारकारणम्। तत्र प्रथम भूमेर्दुःखमाह — भूमिरिति। दृप्ता गर्विता उच्छास्त्रवर्तिनो ये नृपव्याजा नृपवेषेण वर्तमाना दैत्यास्तेषामनीकाना सैन्याना शतानामयुतैरसङ्ख्यातैर्योभूरि महान् भारस्तेनाक्रान्ता पीडिता सती भूमिः सर्वदेवाधिदेव ब्रह्माण शरण ययावित्यन्वयः॥१७॥ तद्गमनप्रकारमेवाह— गौर्भूत्वेति। गौर्भूत्वा दयोत्पादनाय सर्वदेवोपकारि गोरूप बिभ्राणा खिन्ना खेदव्याप्ता अत एव रुदन्त्यत एवाश्रूणि मुखे यस्यास्तथाभूता विभोः ब्रह्मणोऽन्तिके समीप उपस्थिता स्तुवती सती स्व व्यसन दुःख तस्मै ब्रह्मणे अवोचत विज्ञापितवती। तत्प्रकारस्तु विष्णुपुराणे स्पष्टः। तथाहि — तत्साम्प्रतमिमे दैत्याः कालनेमिपुरोगमा। मर्त्यलोक समागम्य बाधन्तेऽहर्निश प्रजाः॥ कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना। उग्रसेनसुतः कंसः सम्भूतः स महासुरः॥
अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा। सुन्दोऽसुरस्तथाऽत्युग्रो बाणश्चापि बलेः सुतः॥तथान्ये च महावीर्या नृपाणा भवनेषु ये। समुत्पन्ना दुरात्मानस्तान्न सङ्ख्यातुमुत्सहे॥ अक्षौहिण्यो हि बहुला दिव्यमूर्तिधराः सुरा। महाबला महाभागा दैत्येन्द्राणा ममोपरि॥ तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः। बिभर्तुमात्मानमहमिति विज्ञापयामि वः॥ क्रियता तन्महाभागा मम भारावतारणम्। यथा रसातल नाह गच्छेयमतिविह्वला’ इति॥१८॥ ब्रह्मा तद्भूमिदुःखमुपधार्य श्रुत्वा तन्निराकरण स्वस्य देवाना वाऽशक्य मत्वा भगवदधीन तन्मत्वा। अथानन्तरमेव भगवतः कृपोत्पादनार्थ देवैस्तया भूम्या च सह तथा त्रिनयनो महादेवस्तेन सहितश्च पयोनिधेस्तीर तीरस्थश्वेतद्वीपाख्य भगवतो धाम जगामेत्यन्वयः॥१९॥ तत्र गत्वाऽपि भगवन्तमदृष्ट्वा समाहितस्तदेकाग्रचित्तः सन् पुरुष भगवन्त पुरुषसूक्ताख्येन वैदिकस्तोत्रेण उपतस्थे तुष्टावेत्यन्वयः। ननु ब्रह्मणो जगत्स्वामित्वात्तदभिमान विहाय कथ भगवन्तं तुष्टाव तत्राह—जगन्नाथमिति। मुख्यो जगत्स्वामी भगवानेव, ब्रह्मा तु तस्थापित इति भावः। ननु तस्य जगन्नाथत्वे दैत्यानामपि स एव नाथः, अतः कथ देवपक्षपातेन दैत्यान् हनिष्यतीत्याशङ्क्याह — देवदेवमिति। देवैः सह दीव्यति क्रीडतीति तथा तम्। तत्रापि हेतुमाह -
ब्रह्मा तदुपधार्याथ सह देवैस्तया सह॥ जगाम सत्रिनयनस्तीर क्षीरपयोनिधेः॥१९॥ तत्र गत्वा जगन्नाथ देवदेव वृषाकपिम्॥ पुरुष पुरुषसूक्तेन उपतस्थे समाहितः॥२०॥ गिर समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह॥ गां पौरुषी मे शृणुतामराः पुनर्विधीयतामाशु तथैव मा चिरम्॥२१॥ पुरैव पुसाऽवधृतो धराज्वरो भवद्भिरंशैर्यदुषूपजन्यताम्॥ स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या क्षपयश्चरेद्भुवि॥२२॥
वृषाकपिमिति। भक्ताना कामान् वर्षतीति वृषः, क्लेशानाकम्पयतीत्याकपिः, वृषश्चासावाकपिश्चेति वृषाकपिस्तम्। तथाच भूम्यादिदेवाना स्वभक्तत्वाद्दैत्याना विमुखत्वाच्च देवपक्षपातेन दैत्यहनन सम्भवत्येवेत्याशयः॥२०॥ तदा च वेधाः ब्रह्मा समाधौ स्थित एव गगने समीरिताम् अदृष्टवक्तृका गिर वाणीं निशम्य श्रुत्वा त्रिदशान् देवान् प्रति ह स्फुटमुवाच। समाधावेव श्रुतत्वाद्देवैः सा न श्रुतेति ज्ञेयम्। ब्रह्मवचनमेवाह — गामित्यादिभिः सार्द्धैः पञ्चभिः। सावधानतार्थ सम्बोधयति — अमरा इति। समाधौ मया श्रुता पौरुषीं परमपुरुषस्याज्ञारूपामनुल्लङ्घ्या गा वाचं मे मत्त कथयतो यूयं शृणुत। श्रुत्वा च पुनस्तथैव आज्ञानुसारेणाशु शीघ्रमेव विधीयता युष्माभिः क्रियताम्। चिरं विलम्ब मा कार्ष्ट॥२१॥ पुंसा पुरुषेण सर्वान्तर्यामित्वात् पुरा अस्मद्विज्ञापनात् पूर्वमेव धराया ज्वरः सन्तापोऽवधृतो निश्चितोऽतो यदुष्ववतरिष्यति। अतो भवद्भिर्देवैरपि स्वस्वाशैर्यदुषु उप तत्प्रादुर्भाव-
समीपकाले जन्यताम्। तत्र कियत्कालपर्यन्तमस्माभिः स्थेयमित्यपेक्षायामाह — स इति। स भगवान् कालाख्यया स्वशक्त्या उर्व्याः पृथिव्याः भर क्षपयन् दूरीकुर्वन् यावद्भुवि चरेदिति। भगवानपि कियत्काल स्थास्यतीत्यपेक्षायामाह — ईश्वरेश्वर इति। ईश्वराणा स्वच्छन्दचारिणामस्माकमपीश्वरो नियन्ता, अतस्तस्याभिप्राय ज्ञातु त नियन्तु वा नाहं शक्त इत्याशयः। स्वकालशक्त्येत्यनेन तस्य भूभारहरणसहायेऽस्माकं महान् क्लेशः स्याद्दैत्यभय चेत्याशङ्का निरस्ता। केवल सेवार्थ वैभवविहाराद्यर्थ चावताराज्ञेति सूचितम्॥२२॥ ननु भगवान् यदुषु क्वावतरिष्यतीत्याकाङ्क्षायामाह — वसुदेवगृह इति। वसुदेवस्य गृहे साक्षाद्भगवानेव जनिष्यते प्रादुर्भूतो भविष्यति। साक्षादित्यनेनाशकलाद्यवतार वारयति। कोऽसौ भगवानित्यपेक्षाया भगवच्छब्दस्यौपचारिकार्थत्व वारयन्नाह—
पुरुषः पर इति। पुरुषोत्तम इत्यर्थः। एव देवानुक्त्वा तदङ्गनाः प्रत्याह — तदिति। तस्य भगवतः प्रियार्थ सेवाविहारादिना प्रीत्यर्थ सुराणा स्त्रियः सम्भवन्तु अवतरन्तु॥२३॥ युष्माकमवतारे कः सन्देह? यतो वासुदेवस्य चतुर्व्यूहप्रधानस्य कला अशः अनन्तः शेषोऽपि तस्य
वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः॥ जनिष्यते तत्प्रियार्थ सम्भवन्तु सुरस्त्रियः॥२३॥
वासुदेवकलानन्तः सहस्रवदन स्वराट्॥ अग्रतो6 भविता देवो हरे प्रियचिकीर्षया॥२४॥
विष्णोर्माया भगवती यया सम्मोहित जगत्॥ आदिष्टा प्रभुणांऽशेन कार्यार्थे सम्भविष्यति॥२५॥
हरेः प्रियचिकीर्षया प्रियं लीलायामुपकारेण सुख कर्तुमिच्छया तदवतारादग्रतो ज्येष्ठो भ्राता भविता अवतरिष्यतीत्यन्वयः। ‘अग्रजो भविता’ इति पाठान्तरम् तदवतारोऽपि दुर्लभ इत्याशयेन त विशिनष्टि—सहस्रवदन इति। स चास्माभिरपि पूज्य इत्याह—देव इति। तत्र हेतुमाह — स्वराडिति। स्वेनैव राजत इति स्वराट्, न तु कालकर्मादिपरतन्त्र इत्यर्थः॥२४॥ किं बहुना? यया सर्वमपि जगन्मोहित सापि प्रभुणा भगवता आदिष्टा सती स्वाशेन मोहनोच्चाटनादिना कार्यार्थे भगवल्लीलासम्पादनार्थं सम्भविष्यति यशोदायाभवतरिष्यतीत्यन्वयः। कार्यं तु देवकीगर्भसङ्कर्षण-यशोदामोहनवसुदेवविमोचनभगवत्प्रेयसीपत्यादिमोहनादिरूप तत्तल्लीलाया व्यक्त भविष्यति। तत्सम्पादने तस्याः कथं सामर्थ्य तत्राह — भगवतीति। भगवता दत्तैश्वर्यादिषड्गुणयुक्तेत्यर्थः। तत्र हेतुमाह — विष्णोर्मायेति। भगवतो माया लीलासम्पादिकाऽन्तरङ्गा शक्तिरित्यर्थः॥२५॥
विभुस्तदाज्ञापने समर्थो ब्रह्मा इत्येवममरगणानादिश्य महीं च गीर्भिर्वचोभिराश्वास्य परम सर्वलोकोत्कृष्ट स्वधाम सत्यलोक ययौ। देवाद्याज्ञापनसामर्थ्ये हेतुमाह — प्रजापतीना मरीच्यादीना पतिरिति। भूम्याश्वासन तु “अहो तव भाग्यम्, भगवत्पादैः सम्भूषिता भविष्यसि शोक च मा कार्षीः” इति बहुधा बोध्यम्। अतएव बहुवचनम्॥२६॥ एव भूमिदुःखं तदाश्वासन चोक्तम्। देवक्या अपि तद्वक्तुं तत्प्रसङ्गकथामाह — शूरसेन इति। यादवाना पतिः, सहस्रार्जुनपुत्रा ये पञ्चर्वरितास्तेषा द्वितीयः शूरसेनो मथुरा पुरीमावसन्। माथुरान् तत्सम्बन्धिनः शूरसेनान् स्वेन वासिताश्चविषयान् देशान् बुभुजे। तद्देशैश्वर्यभोग कृतवानित्यर्थः॥२७॥ ततो यादवस्य शूरसेनस्य निवासात् शूरसेनप्रभृतिकसपर्यता ये यादवेषु भूभुजः खण्डमण्डलराजानस्तेषा सा मथुरा राजधानी राजा धीयते पदाभिषिक्तः क्रियते यस्या सा मुख्यस्थानमभूदित्यन्वयः। अनेन मथुराया राजलक्ष्म्या नित्य स्थानत्व सूचितम्। तत्र हेतुमाह — यत्रेति। यत्र मथुराया हरिर्नित्य सन्निहितो वर्तते। अनेनैव मथन मथूभावे क्विप् उद्भवार्थक उसिध्मादिभ्यश्चेति
श्रीशुक उवाच॥ इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः॥ आश्वास्य च मही गीर्भिः स्वधाम परम ययौ॥२६॥ शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्॥ माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा॥२७॥ राजधानी ततः साऽभूत् सर्वयादवभूभुजाम्॥ मथुरा भगवान् यत्र नित्य सन्निहितो हरिः॥२८॥ तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः॥ देवक्या सूर्यया सार्ध प्रयाणे रथमारुहत्॥२९॥ उग्रसेनसुतः कंस स्वसु प्रियचिकीर्षया॥ रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः॥३०॥
मत्वर्थीयो लज्प्रत्ययः।7 मथा उद्भूत सारमस्यामस्तीति नामनिरुक्तिरपि ज्ञेया। ‘मथ्यते तु जगत्सर्व ब्रह्मज्ञानेन येन वा॥ तत्सारभूत यद्यस्या मथुरा सा निगद्यते’ इति गोपालतापिनीश्रुतिवचनात्। एतदर्थस्तु येन ब्रह्मज्ञानेन वाशब्दाद्भक्तियोगेन वा सर्वंजगन्मथ्यते बाध्यते तयोर्ज्ञानभक्त्यो सारभूत फलं यत्प्रसिद्ध श्रीकृष्णाख्य, यस्या नित्य सन्निहित भवति सा मथुरा निगद्यत इति। अन्यान्यपि बहूनि मथुरामाहात्म्यप्रतिपादकानि पुराणवचनानि सन्ति, तानि विस्तरभयान्न लिखितानि इति ज्ञेयम्॥२८॥ तस्या तु मथुराया कृत उद्वहो विवाहो येन स वसुदेवः सूर्यया नवोढया भूषणादिशोभातिशयेन प्रकाशबहुलया देवक्या सार्द्ध सह कर्हिचित् एकदा प्रयाणे प्रयाणार्थ रथमारुहत्। अन्यवसुदेवव्यावृत्त्यर्थमाह— शौरिरिति। शूरपुत्रः। वसुदेवभ्रातृव्यावृत्त्यर्थमाह — वसुदेव इति॥२९॥ उग्रसेनस्य सुतः कसः स्वसुः भगिन्याः देवक्याः प्रियचिकीर्षया
सन्मानाधिक्यप्राकट्येन ता प्रसादयितु स्वयं हयाना रश्मीन् प्रग्रहान् जगृहे। वसुदेव देवकीं च मुख्यस्थाने उपवेश्य स्वयं सूतो जात इत्यथः। केवलेन तेनैव स्थितेनापि शोभातिशयो न भवति राजपुत्रत्वादिति रौक्मैः सुवर्णपरिकरै रथशतैरनेकशतरथैर्वृतः वेष्टितः॥३०॥ तदा च याने प्रयाणे निमित्ते देवकः दुहित्रे देवक्यै पारिबर्हमुपायन प्रादादिति द्वयोरन्वयः। दाने हेतुमाह—दुहितृवत्सल इति। पारिबर्ह दर्शयति — हेममालालङ्कृताना गजाना चतुःशतम्। तथाविधानामश्वाना सार्धमयुत पञ्चदश सहस्राणि। तथाविधरथाना त्रिषट्शतमष्टादशशतम्॥३१॥ सुकुमारीणा नवयौवनाना दासीना समलङ्कृते द्वे शते॥३२॥ प्रयाणोपक्रमे तावद्वरवध्वोः सुमङ्गल यथा भवति तथा शङ्खादयो वाद्यविशेषा नेदुः॥३३॥ असुराणा सम्बन्धस्यानर्थहेतुत्व तत्स्नेहस्य क्षणिकत्व च दर्शयस्ततो यज्जातं तदाह — पथीति द्वयेन। पथि मार्गे प्रग्रहिण हयरश्मिग्राहक कसमाभाष्य
चतुःशतं पारिबर्ह गजानां हेममालिनाम्॥ अश्वानामयुत सार्धरथानां च त्रिषट्शतम्॥३१॥ दासीनां सुकुमारीणां द्वे शते समलङ्कृते॥ दुहित्रे देवक प्रादाद्याने दुहितृवत्सलः॥३२॥ शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभय समम्॥ प्रयाणप्रक्रमे तावद्वरवध्वो सुमङ्गलम्॥३३॥ पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक्॥ अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध॥३४॥ इत्युक्तः स खलः पापो भोजानां कुलपांसन॥ भगिनी हन्तुमारब्धः खङ्गपाणिः कचेऽग्रहीत्॥३५॥ त जुगुप्सितकर्माणं नृशस निरपत्रपम्॥ वसुदेवो महाभाग उवाच परिसान्त्वयन्॥३६॥
रेरे कंसेति सम्बोध्य अशरीरा अदृश्यरूपा वाक् भगवत्प्रेरिता वागभिमानिदेवता सरस्वती आह। तदुक्तमेवाह — यद्यप्युपस्थित स्वानर्थमज्ञस्त्व न जानासि, तथाप्यह त्वा विज्ञापयामीत्याशयेन पुनः सम्बोधयति — अबुधेति। या स्वभगिनीं वहसे अतिसन्मानपूर्वकं भर्तृगृहं प्रापयसि, तस्या अस्या अष्टमो गर्भस्त्वा हन्ता हनिष्यतीति। पुत्रपद विहाय गर्भपदोक्तिर्देवकीकन्यायामपि सन्देहार्था। अतएव कन्याहनने कंसः प्रवृत्तो भविष्यति॥३४॥ इत्येवमुक्तः स कंसो भगिनीं हन्तुमारब्धः प्रवृत्तः, अतः खङ्गपाणिः सस्ता कचे केशबन्धेऽग्रहीत्। ननु तस्य महति भोजकुले उत्पन्नस्य महाजनसमाजे कथमेव निन्दिते कर्मणि प्रवृत्तिर्जातेत्याशङ्क्याह — भोजाना कुले पासनः कलङ्करूप इति। तत्र हेतुमाह — खल इति। दुष्ट इत्यर्थः। तत्रापि हेतुमाह — पाप इति। निरन्तरं पापाचरणेन पापात्मैव जातोऽतो लोको वेदो वा तस्य न कोऽपि बाधक इत्यर्थः॥३५॥ एवमासुरसम्बन्ध-
XXXX
XXXबन्धस्यानर्थनिवर्तकत्वसंचयन वसुदेवस्य देवकीरक्षार्थ कंससान्त्वने प्रवृत्तिमाह — तमिति। तं कंस परिसान्त्वयन्
स्यानर्थहेतुत्व प्रदर्श्य साधुसम्बन्धस्यानर्थनिवर्तकत्व सूचयन् वसुदेवस्य देवकीरक्षार्थ कंससान्त्वने प्रवृत्तिमाह — तमिति। तं कंस परिसान्त्वयन् स्तुत्या कृपाविषयत्वेनोपपत्तिभिश्च साममार्गेण सम्बोधयन् वसुदेव उवाचेति सम्बन्धः। तत्र साम पञ्चविधम्, भेदो द्विविधः। तदुक्तम् — ‘सम्बन्ध — लाभोपकृतिर्ह्यभेदो गुणकीर्तनम्। साम पञ्चविध भेदो दृष्टादृष्टभय वचः’ इति। तत्र कंसान्न्यूनसम्पत्तिमत्त्वेन दानस्यासम्भवात् अल्पबलत्वेन दण्डस्यासम्भवाच्च सामभेदोपायद्वयमेव कृतवानिति ज्ञेयम्। तद्वधात्तस्य निवृत्तिर्दुष्करेति सूचयन् कंस विशिनष्टि— जुगुप्सितकर्माणमिति। न केवलमिद भगिनीहननमेव तस्य जुगुप्सित कर्म, किन्त्वन्यान्यपि बहूनि जुगुप्सितानि निन्दितानि कर्माणि यस्य तमिति स्वभावतस्तस्य निन्दितकर्मनिष्ठा प्रदर्शिता। तर्हि कदाचिद्दयावशात्तस्य ततो निवृत्तिः स्यात्तदपि न सम्भवति, अतिक्रूरत्वादित्याह — नृशसमिति। लज्जयापि निवृत्तिर्न सम्भवतीत्याह — निरपत्रपमिति। निर्लज्जमित्यर्थः। तर्हि कथं तं निवर्त्तयितुं वसुदेवः प्रवृत्तस्तत्राह — महाभाग इति। अतिधर्मिष्ठ इत्यर्थः। स्वधर्मसंरक्षणाय तस्य प्रवृत्तिः। अन्यथा दीनोपेक्षया धर्महानिः स्यादित्याशयः। तदुक्तं चतुर्थे — ‘ब्राह्मणः समदृक् शान्तो दीनाना समुपेक्षकः। स्रवते ब्रह्म तस्यापि भिन्नभाण्डात् पयो यथा’ इति॥३६॥ तत्रादौ गुणकीर्तनं करोति — श्लाघनीयगुण इति। शूरैर्जरासन्धादिभिः श्लाघनीया गुणाः शौर्यादयो
वसुदेव उवाच॥ श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः॥ स कथं भगिनी हन्यात् स्त्रियमुद्वाहपर्वणि॥३७॥ मृत्युर्जन्मवतां वीर देहेन सह जायते॥ अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः॥३८॥
यस्य स। अतः स्वसम्बन्धिना भोजकुलोत्पन्नाना यशः करोतीति तथा सः। एतादृशो भवान् उद्वाहपर्वणि विवाहोत्सवे जनसमाजे कथं भगिनीं हन्यात्? अत्र वधोऽत्यन्तमनुचितो निन्दातिशयहेतुत्वात्। भगिनीमित्यनेनाभेदो दर्शितः। तेन सह स्वसम्बन्धोऽपि सूचितः। स्त्रियमित्यनेन स्वशत्रुजननीवधान्निवृत्त्या तव महद्यशोलाभो भविष्यति, अन्यथा भयसूचकेनैतद्वधेन प्रसिद्धमपि शूरत्व दूषित स्यादित्याशयेन सूचितम्। उद्वाह —पर्वणीत्यनेन सन्तानवृद्ध्या मयि महानुपकारस्त्वया कृतः स्यादिति सूचितम्॥३७॥ स्वमृत्युप्रतीकारायैवेय हन्यते इति चेत्, “अस्या हननेऽपिमृत्युर्न प्रतिकृतो भविष्यति, तस्य सहजत्वात्” इत्याह — मृत्युरिति। ‘मृत्युतोऽपि भय तव नोचित, वीरत्वात्’ इति सूचयन् सम्बोधयति — वीरेति। जन्मवता प्राणिना देहेन सहैव मृत्युर्जायते, जननसमय एव प्रारब्धकर्मानुसारेण विधात्रा ललाटे लिखितत्वात्। ‘अद्य वाऽब्दशतान्ते वा’ इति वाकार द्वयमनास्थाद्योतकम्। तथाच वर्षशतमध्ये मृत्युः कदा भविष्यतीति सन्देहेऽपि तदन्ते तु ध्रुवो निश्चित एव। वैशब्देन “जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च” इति शास्त्रसम्मतिं सूचयति॥३८॥
ननु सत्यमब्दशतान्ते मृत्युर्भविता, तथापि देहाभावे भोगासम्भवात्तदर्थं तावद्येनकेन प्रकारेणापि देहरक्षा युक्तैवेत्याशङ्क्य प्रारब्धवशाद्देहान्तरप्राप्तेरावश्यकत्वमाह—देह इति। देहे पञ्चत्वं पञ्चमहाभूतात्मत्वमापन्ने प्राप्तुमुद्युक्ते सति देही तत्रस्थो जीवः कर्मोपस्थापित देहान्तरमनुप्राप्यैव प्राक्तन पूर्वसिद्ध वपुस्त्यजते त्यजति। एव देहत्यागे ग्रहणे वा तस्य स्वतन्त्रता नास्तीत्याह — अवश इति। तत्र हेतुमाह — कर्मानुग इति। स्वकृत कर्मानुगच्छतीति तथा॥३९॥ एतदेव दृष्टान्तैरुपपादयति — व्रजन्निति द्वयेन। यथा व्रजन् गच्छन् पुरुष एकेनाग्रतो निहतेन पदा तिष्ठन् भुवमवष्टभ्य देह बिभ्रत् पश्चादन्येनैकेन पूर्वप्रदेशादुत्पाट्य पुरो निहितेन गच्छति, तथा देहान्तरमनुप्राप्य प्राक्तन वपुस्त्यजति। अत्र दृष्टान्ते चरणौ द्वौ, भूमिस्त्वेका। दार्ष्टान्तिके तु जीव एको देहौ च द्वाविति वैषम्यमाशङ्क्य दृष्टान्तान्तरमाह—यथेति। तृणजलौका कीटविशेषः। सा यथा तृणान्तरमवष्टभ्य पूर्व तृण त्यजति, एव कर्मगति गतः कर्ममार्गे वर्तमानो जीवोऽपि देहान्तरमनुप्राप्य प्राक्तन वपुस्त्यजतीत्यर्थः॥४०॥ देहविषययोरेव स्वीकारपरि-
देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः॥ देहान्तरमनुप्राप्य प्राक्तन त्यजते वपु॥३९॥ व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति॥ यथा तृणजलौकैवं देही कर्मगति गतः॥४०॥ स्वप्ने यथा पश्यति देहमीदृशं मनोरथेनाभिनिविष्टचेतन॥ दृष्टश्रुताभ्यां मनसाऽनुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृति॥४१॥ यतो यतो धावति दैवचोदित मनो विकारात्मकमाप पञ्चसु॥ गुणेषु मायारचितेषु देह्यसौ प्रपद्यमान सह तेन जायते॥४२॥
त्यागयोर्दृष्टान्तान्तरमाह — स्वप्न इति। दृष्ट राजादि, श्रुतमिन्द्रादिशरीर ताभ्याम्। तादर्थ्ये चतुर्थी। तल्लाभाय मनसा तदनुचिन्तयन् पुरुषो यथा स्वप्ने ईदृश जाग्रद्दृष्टश्रुतसदृश शरीर राजादिरूप किमप्यनिरुक्त पश्यति तदेवाहमिति प्रतिपद्यते मन्यते, ततश्च जाग्रद्देहादपगतस्मृतिर्भवति तथेत्यर्थः। जाग्रत्येव देहस्वीकारपूर्वकदेहत्यागे दृष्टान्तान्तरमाह— मनोरथेनेति। दृष्टश्रुताभ्या मनसाऽनुचिन्तयन् मनोरथेनाभिनिविष्टा व्याप्ता चेतना बुद्धिर्यस्य स यथेदृश किमपि देह पश्यति तत्प्रपद्यते च पूर्वदेहादपगतस्मृतिश्च भवति तथेत्यर्थः। दृष्टान्ताना प्रासिद्धिं सूचयति — हीति॥४१॥ ननु “सत्यं किमपि देहमात्रं प्राप्त भविष्यति, तथाप्यस्य राजदेहस्यातिप्रियत्वादेतद्रक्षणायाकृत्यमपि क्रियते” इति चेत् “य य चापि स्मरन् भाव त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः” इत्यादिवाक्यानुसारेण चिन्तनमात्रेणैवेष्टदेहप्राप्तिसम्भवान्न तद्रक्षार्थमपि पापाचरण युक्तमित्याशयेनाह — यतो यत इति। अस्य देहस्य पञ्चत्वसमये मनः पञ्चसु गुणेषु गुणकार्यपृथ्व्यादिमहाभूतेषु मायया भगवदिच्छया देवमनुष्यादिनानादेहरूपेण
रचितेषु मध्ये यतो धावति य य देह चिन्तयति धावच्च सत् य यमाप अभिनिवेशेन प्राप्तं भवति तत्र तत्रासौ देही जायते। मनसस्तु धावन सहजमेवेत्याह—विकारात्मकमिति। नानाविधसङ्कल्पविकल्पात्मकमित्यर्थः। तथापि तदा विशेषतो देवादिस्वरूपचिन्तने को हेतुरित्यपेक्षायामाह — दैवचोदितमिति। देवादिशरीरेषु नानाविधसुखदुःखभोग-प्रदानाभिमुखेन दैवशब्दवाच्येन कर्मणा चोदितमित्यर्थः। तथा च नानायोनिगतभोगप्रदेषु कर्मसु सत्स्वपि यद्योनिगतभोगप्रद कर्म फलाभिमुख भवति, तेनैव प्रेरित मनस्तदेव शरीर चिन्तयतीति ज्ञेयम्। तर्हि मनसश्चिन्तकत्वात्तदेव जायताम्, जीवः किमिति जायते तत्राह— प्रपद्यमान इति। यतो मनसा सहात्मनः अभेद मन्यमानः अतस्तेन सहैव जायते नानायोनिषु ससरतीत्यर्थः॥४२॥ नन्वन्ते स्मरणस्यापि कर्माधीनत्वात् कदाचिद्दुष्टेन कर्मणा तदानिष्टदेहस्मरण स्यात्तर्हि तस्यैव प्राप्तिः स्यात्, न इष्टस्येत्याशङ्क्याह — ज्योतिरिति। यथा अदः सूर्य-
ज्योतिर्यथैवोदकपार्थिवेष्वद समीरवेगानुगतं विभाव्यते॥ एव स्वमायारचितेष्वसौ पुमान् गुणेषु रागानुगतो विमुह्यति॥४३॥ तस्मान्न कस्यचिद्द्रोहमाचरेत् स तथाविधः॥ आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम्॥४४॥ एषा तवानुजा बाला कृपणा पुत्रिकोपमा॥ हन्तु नार्हसि कल्याणीमिमां त्व दीनवत्सल॥४५॥8
चन्द्रादिज्योतिः उदकयुक्तेषु पार्थिवेषु वापीकूपतडागादिषु प्रतिबिम्बितसमीरस्य वायोर्वेगमनुगत चाञ्चल्यमालिन्यादियुक्तमेव विभाव्यते प्रतीयते, एव स्वमायया स्वाविद्यया रचितेषु गुणेषु देहेषु असौ पुमान् जीवो रागेणानुगतः प्रतिबिम्बिन्यायेन प्रविष्टो मुह्यति आत्माभिनिवेश प्राप्नोति। तथाच राजदेहवत् सूकरादिदेहस्थस्यापि जीवस्य तत्रात्माव्यासेन प्रेमास्पदत्वादेः सत्त्वात् न ततो राजदेहादेः कश्चिद्विशेष इति भावः॥४३॥ एव सामोपाय निरूपितम्। अथ दृष्टादृष्टोभयात्मकभेदमाह — तस्मादिति। वै यस्माद्दोग्धुः पुरुषस्य परतो द्रुह्यमानात्तत्सम्बन्धिभ्यो यमाच्च भय भवति तस्मात् स तथाविधो यादृशो द्रुह्यते तादृशः अज्ञः कर्माधीनः आत्मनः क्षेममभयमन्विच्छन् कस्यचिदपि द्रोह नाचरेदित्यन्वयः॥४४॥ इमा देवकीं तु त्व हन्तु नार्हसीत्यन्वयः। तत्र हेतु सूनयन् सम्बोधयति — दीनवत्सलेति। एषा तु कृपणा दीना, ‘दयाया भगिनीमूर्तिः’ ‘इति वचनात् दयापात्रमित्याह — तवानुजेति। तत्रापि बाला लालनयोग्या, तत्रापि चातुर्यहीना इत्याह — पुत्रिकोपमेति। मृन्मयीव कल्याणीं निर्दोषाम्॥४५॥
एवमुक्तप्रकारेण स कंसः सामभिर्भेदैश्च वसुदेवेन बोध्यमानो देवकीवधान्निवार्यमाणोऽपि न न्यवर्ततेत्यन्वयः। तत्र हेतुद्वयमाह — दारुणइति। यतः स्वयं क्रूरस्वभावः पुरुषादान् हिंसाप्रधानान् राक्षसाननुव्रतः अनुसृतश्चेति। “नाश्चर्यमेतत्, कौरवाणामपि तथात्वात्”। इत्याशयेन सम्बोधयति — कौरव्येति॥४६॥ तस्य कंसस्य त देवकीवधविषयक निर्बन्धमाग्रह ज्ञात्वा प्राप्त काल मृत्यु प्रतिव्योढुवञ्चयितु विचिन्त्य विचार्य आनकदुन्दुभिर्वसुदेव इद वक्ष्यमाण तत्र मृत्युवञ्चने अन्वपद्यत उपाय तथा निश्चितवान्॥४७॥ विचारपूर्वक त निश्चयमेव दर्शयति — मृत्युरिति चतुर्भि। स्वस्य परस्य वा उपस्थितो मृत्युर्बुद्धिमता पुंसा यावद्बुद्धिबलोदय बुद्धिबलयोरुत्कर्षपर्यन्तमपोह्यः परिहार्यः। एव प्रयत्ने कृतेऽपि यद्यसौ मृत्युर्न निवर्तेत तर्हि देहिनो देहाद्यभिमानिनोऽपराधउपेक्षाजनितो दोषः नास्त्येव, अन्यथादोषप्रसङ्ग स्यादेव। देहिन इत्यनेन देहाद्यभिमानरहितस्य न दोष इति सूचितम्॥४८॥ अत उपेक्षादोषपरिहाराय मृत्यवे मृत्युरूपेणोपस्थिताय कंसाय जनिष्यमाणान् पुत्रान् प्रदाय प्रदास्यामीति प्रतिज्ञाय कृपणा दीनामिमा देवकीमस्मा–
श्रीशुक उवाच॥ एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः॥ न न्यवर्तत कौरव्य पुरुषादाननुव्रत॥४६॥ निर्बन्ध तस्य त ज्ञात्वा विचिन्त्यानकदुन्दुभिः॥ प्राप्त काल प्रतिव्योढुमिद तत्रान्वपद्यत॥४७॥ मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम्॥ यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः॥४८॥ प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम्॥ सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥४९॥ विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया॥ उपस्थितो निवर्तेत निवृत्तः पुनरापतेत्॥५०॥
न्मोचये त्याजयामि। नन्विदमपि न युक्तम्। इयं चैका कंसेन बलाद्धन्यते, पुत्रास्तु बहवस्तेषा स्वहस्ताद्धननार्थदाने स्वस्यापि दोषाधिक्य स्यादित्याशङ्क्याह — सुता इति। यदि त्वस्या मम सुता एव न जायेरन्, सुतोत्पत्तेः पूर्व कंस एव वा म्रियेत तदा तु नैव काचिच्चिन्ता। यदि मे मम सुता जायेरन् ततोऽर्वाक् मृत्युः कंसः चेन्न म्रियेत॥४९॥ तदा विपर्ययो वा किं न स्यात् मत्पुत्रादेवास्य मरण किं न स्यात्? ननु प्रौढस्य कंसस्य तव बालकात् कथं मृत्युः स्यात्तात्राह— गतिरिति। धातुः अस्यास्त्वामष्टमो गर्भो हन्ता’ इत्युक्तवतो गतिः शक्तिर्दुरत्यया अनुल्लङ्घ्या। एतदेव प्रपञ्चयति — उपस्थित इति। उपस्थितोऽपि मृत्युर्निवर्तेत, यथा मार्कण्डेयादेः। निवृत्तोऽपि मृत्युः पुनरापतेत्, यथा रावणहिरण्यकशिप्वादेः। यद्वाअनेनोपस्थितोऽपि देवक्या मृत्युर्निवेर्तेत। देवकीहननान्निवृत्तो निवृत्तप्रायोप्यस्य कंसस्य मृत्युः पुनरापतेदित्यर्थः। अतो न पुत्रप्रदाने प्रतिज्ञाया मम कश्चिद्दोषशङ्कावकाश इत्याशय॥५०॥
किञ्च “नहि मत्कर्तृकप्रदानमात्रेणैव पुत्राणा मरण सम्भवति, जन्ममरणादेरदृष्टाधीनत्वात्” इति सदृष्टान्तमाह — अग्नेर्यथेति। वने वृक्षान् ग्रामे गृहान् वा प्रदहन् वह्निः सन्निहितानपि परित्यज्य कदाचिद्दूरस्थानपि दहति तत्र तस्य दारुवियोगयोगयोः प्राप्यदृष्टतः पुण्यपापरूपादन्यन्निमित्त नियामक यथा नास्ति, एवं जन्तोर्जीवस्यापि शरीरसंयोगवियोगयोर्जन्ममरणयोर्हेतुर्दुर्विभाव्यः अचिन्त्यः अदृष्टरूप एव। हीत्यवधारणे। अदृष्टवशात् पश्चाद्यद्भावि तद्भवतु, इदानीमिय तु तावद्रक्षिता स्यादिति भावः॥५१॥ शौरिर्वसुदेवो यावदात्मनो निदर्शन ज्ञानं तावदेव विमृश्य विचार्य पुत्रप्रदानप्रतिज्ञात निश्चित्य पापं पापार्थमुद्युक्त त कंस बहुमानपुरसरः अत्यादरपूर्वक यथा स्यात्तथा पूजयामास। प्रथम स्तोत्रनमस्कारादि कृतवानित्यर्थः॥५२॥ दूयमानेन भयेन कम्पमानेन मनसा युक्तोऽपि तस्य विश्वासाय प्रसन्नवदनाम्भोजः सन् प्रहसन् वसुदेव इदं वक्ष्यमाण नृशस क्रूरं निरपत्रप निर्लज्ज कंस प्रत्यवो-
अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यन्न निमित्तमस्ति। एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतु॥५१॥ एव विमृश्य त पापं यावदात्मनिदर्शनम्॥ पूजयामास वै शौरिर्बहुमानपुर सरम्॥५२॥ प्रसन्न9वदनाम्भोजो नृशंसं निरपत्रपम्॥ मनसा दूयमानेन विहसन्निदमब्रवीत्॥५३॥ वसुदेव उवाच॥ ॥नह्यस्यास्ते भय सौम्य यद्वै10 त्वाहाशरीरवाक्॥ पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम्11॥५४॥ श्रीशुक उवाच॥ ॥स्व12सुर्वधान्निववृते कंसस्तद्वाक्यसारवित्। वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम्॥५५॥
चदित्यन्वयः। अत्र ‘प्रसार्य वदनाम्भोजम्’ इति, ‘प्रत्यग्रवदनाम्भोज’ इति, ‘प्रहृष्टवदनाम्भोज’ इति पाठत्रयमन्यदप्यस्ति॥५३॥ “आकाशवाणीं श्रुत्वा भयेन त्वमिमा हसि, तत्र यत् यथा अशरीरवाक् त्वा आह तथा वै निश्चित अस्याः सकाशात् हिशब्दात् मत्तोऽपि ते तव भयं नास्ति। अतः सौम्यो भूत्वा अस्या हननं मा कार्षीः” इत्याशयेन सम्बोधयति — सौम्येति। नन्वेतद्धननेऽग्रे पुत्रोत्पत्तिर्न स्यात्ततो भयनिवृत्तिः स्यादेव, अन्यथा सा कथं स्यात्तत्राह — पुत्रानिति। वागनुसारेण यतो येभ्यः पुत्रेभ्यस्ते भयमुत्थित तानस्याः पुत्रान् सर्वानेव तुभ्य समर्पयिष्ये प्रदास्यामि, त्वं तु तान् जहि मां वा। न तु तत्र ममाग्रह। अष्टमो हन्तेत्युक्ते अन्योन्यापेक्षया सर्वेप्यष्टमा भवेयुरिति13 बहुवचनम्। यतस्ते अभय भयाभाव उत्थित निश्चित तानेव समर्पयिष्ये। नतु यस्मादष्टमाद्भय तमित्यकारप्रश्लेषादष्टम भगवन्तमददतोऽपि नानृतत्वमिति ज्ञेयम्॥५४॥ तस्य वसुदेवस्य वाक्ये यः सारः उपपत्तिः सत्यत्वं च तं वेत्तीति तथाभूतः
कंसः स्वसुः भगिन्याः वधान्निववृते निवृत्तो जातः। ‘सुहृद्वधात्’ इति पाठान्तरम्। ततो मनोरथस्य जातत्वात् प्रीतः सन् वसुदेवोऽपि तं कंसं ‘महाविवेकी सारग्राही भवान्’ इति प्रशस्य गृह प्राविशत् स्वगृहमागतः॥५५॥ अथानन्तर काले गर्भधारणप्रसवयोग्यकाले उपावृत्ते समुपस्थिते सति देवकी अनुवत्सरमष्टौ पुत्रान् नवमीं कन्यां च सुभद्राख्या प्रसुषुवे। भगवन्मातृत्वेन सर्वेषां ब्रह्मादीनामपि देवसावत्पूज्या साऽतस्तस्या भाग्य किं वक्तव्यमित्याशयेन देवकीं विशिनष्टि — सर्वदेवतेति॥५६॥ तत्र चानकदुन्दुभिः कीर्तिमन्नामान प्रथम जात पुत्र कृच्छ्रेण दुःखेन कंसाय क्रूरस्वभावायार्पयामास। तत्र हेतुमाह— स इति। स सत्यसङ्कल्पतया प्रसिद्धः। अतः प्रतिज्ञानृतादतिविव्हलः भृशं व्याकुलः॥५७॥ ननु “सत्यसरक्षणमदृष्टफलकम्, पुत्रार्पण तु तन्मरणजन्यदु सहदृष्टदुःखफलकम्। दृष्टादृष्टयोर्मध्ये दृष्टस्य बलवत्वात् कथं दुःखसहनमङ्गीकृत्य पुत्रमर्पयामास” इत्याशङ्क्याह— किं दुःसहमिति। साधूना सत्यसन्धाना कि दुःख दुःसहमित्यर्थः। ननु ‘पुत्रेण जयते लोकान्’ ‘पुत्रेण वसुतामेति’ ‘पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरसुतः। तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयभुवा’ इत्यादिवचनैर्दृष्टव्यवहाराच्च पुत्रस्य लोकसुखसाधनत्वात्सुखस्य सर्वापेक्षितत्वाच्च कथं पुत्रसमर्पण सम्भवतीत्याशङ्क्याह— विदु
अथ काल उपावृत्ते देवकी सर्वदेवता॥ पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम्॥५६॥ कीर्तिमन्तं प्रथमजं कसायानकदुन्दुभिः॥ अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः॥५७॥ किं दुःसहं नु साधूनां विदुषां किमपेक्षितम्॥ किमकार्यं कदर्याणां दुस्त्यजं कि धृतात्मनाम्॥५८॥ दृष्ट्वा समत्व तच्छौरेः सत्ये चैव व्यवस्थितिम्॥ कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत्॥५९
॥
षामिति। विदुषा विवेकिना प्रपञ्चदुःखहेतुत्वेन पश्यता किमपेक्षितम्? न किमपीत्यर्थः। ननु ‘हिंसाया नानृतं स्याज्जुगुप्सितम्’ इति वचनेन हिंसापरिहारार्थस्यानृतस्यादुष्टत्वात् किमर्थं पुत्रमर्पितवास्ततस्तु पलायनेनापि पुत्रसंरक्षण वरमित्याशङ्क्याह — किमकार्यं कदर्याणामिति। ‘आत्मान धर्मकृत्यं च पुत्रान् दाराश्च पीडयेत्। पीडयेद्भृत्यवर्गांश्च स कदर्य इति स्मृतः’ इति वचनात् कंसस्य चापि कदर्यत्वात् राजत्वेन प्रबलत्वाच्च ततः पलायनेनापि देशान्तरेऽपि उर्वरितत्वासम्भवात् ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायेन सर्वकुटुम्बमरणपरिहारार्थं पुत्रार्पणमेव कृतवान्। अन्यथैनमनृतवादिनं ज्ञात्वा सकुटुम्बमेव हन्यादित्यर्थः। तथापि पुत्रत्यागो दुष्कर इत्याह — दुस्त्यजमिति। धृत हृदा गृहीत आत्मा परमात्मा भगवान् यैस्तेषां किं दुस्त्यजमित्यर्थः। सत्यप्रतिज्ञस्य भगवतः सत्यप्रलभ्यत्वात्स्वस्यानकदुन्दुभित्वेन स्वगृहे तदवतारस्य निश्चितत्वात् अनृतवचनत्वे तदभावमाशङ्क्यापि पुत्रार्पण कृतवानिति भावः॥५८॥ शौरेर्वसुदेवस्य तत् पुत्रानयन समत्व सुखदुःखयोस्तुल्यत्व च सत्ये वचन एव व्यवस्थितिं च दृष्ट्वा तुष्टं मनो यस्य तथाभूतः कंसः स्वप्रसन्नता द्योतयन् प्रहसन्निदं वक्ष्यमाणमब्रवीत्। राजधर्मस्तु तथैवेति सूचयन् सम्बोधयति— राजन्निति॥५९॥
तदेवाह — प्रतीति। अयं कुमारः प्रतियातु गृहं प्राप्नोतु। अत्र हेतुमाह — नहीति। हि यस्मादस्मान्मे मम भयं नास्ति। तत्रापि हेतुमाह — यतो युवयोरष्टमादेव गर्भान्मे मृत्युर्विहितः आकाशवाण्या निरूपितः। किलावधारणे॥६०॥ आनकदुन्दुभिस्तथेत्यङ्गीकृत्य सुतमादाय स्वगृह ययौ, परन्तु तस्य कंसस्य वाक्यं नाभ्यनन्दत यथार्थं नामन्यत। तत्र हेतुमाह — असत इति। असत्त्वमेव स्पष्टयति — अविजितात्मन इति। अनवस्थितचित्तस्येत्यर्थः॥६१॥ हे भारत! एव कंसस्य शान्तिर्देवकार्यानुगुणा न भवति, भगवतोऽवतारे हि भक्तानां दुःखस्य हेतुत्वात्। अतो देवकार्यार्थमुद्यतः प्रयत्नवान् भगवान् सर्वोपायाभिज्ञो नारदः वसुदेवे गते सति। अथानन्तरमेवाभ्यैत्यागत्य कंसायेतच्छशस एकान्ते कथयामासेति सार्धत्रयस्यान्वयः। एतच्छब्दार्थमेव स्पष्टयति — ये व्रजे नन्दादयो गोपाः, याश्च यशोदाद्या अमीषा नन्दादीनां योषितः स्त्रियः, तथा ये वसुदेवाद्या वृष्णयो यादवाः, याश्च
प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम्॥ अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहित किल॥६०॥ तथेति सुतमादाय ययावानकदुन्दुभिः॥ नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मन॥६१॥ नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः॥ वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रिय॥६२॥ सर्वे वै देवताप्राया उभयोरपि भारत॥ ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः॥६३॥ एतत् कंसाय भगवान् शशसाभ्येत्य नारदः॥ भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम्॥६४॥ ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति॥ देवक्या गर्भसम्भूत विष्णु च स्ववधं प्रति॥६५॥ देवकी वसुदेव च निगृह्य निगडैर्गृहे॥ जातजातमहन्पुत्र तयोरजनशङ्क्या॥६६॥
देवक्याद्या यादवानां स्त्रियः, तथोभयोर्नन्दवसुदेवयोर्ज्ञातयः गोत्रिणः, बन्धवः सम्बन्धिनः, सुहृदो मित्राणि, तथा ये चाक्रूरादयः कंसमनुव्रताः सेवमानास्ते सर्वे एव देवताप्रायाः। तत्र मनुष्याणामपि सत्त्वात् प्रायग्रहणम्॥६२॥६३॥ भूमेर्भारायमाणानां भारवद्वर्तमानानां दैत्यानां वधोद्यमं च पूर्वोक्तप्रकारेण भगवत्प्रार्थनादिरूप ब्रह्मादिभिः कृत शशंस॥६४॥ ततः ऋषेर्नारदस्य विनिर्गमे सति कंसो यदून् सुरान् मत्वा स्ववधं स्वस्य वधार्थ देवक्या गर्भे सम्भूत जनिष्यमाण विष्णु च मत्वा। इति शब्दः पादपूरणार्थः॥६५॥ देवकी वसुदेव च निगडैः शृङ्खलैर्निगृह्य पादयोर्बद्ध्वा गृहे कारागृहे रुद्ध्वा अजनः प्राकृतजनवत् कर्मवशाज्जन्मरहितो विष्णुस्तस्य शङ्क्या सोऽयमेव स्यादिति सन्देहेन तयोर्जात जात पुत्रमहनत्। यद्यप्याकाशवाण्याऽष्टमस्यैव विष्णुत्व निश्चित, तथापि सङ्ख्याया अपेक्षाबुद्धिजन्यत्वात् पर्यायेण सर्वस्यैवाष्टमत्वसम्भवात् सन्देहः। जातंजातमिति। उत्पन्नमुत्पन्नमित्यर्थः।
न तु जन्मकाल एव हननमन्यथा क्षत्रियाणांत्रयोदशे दिने नामकरणस्य शास्त्रसिद्धतया ‘कीर्तिमन्त सुषेण च’ इत्यादिनामोक्तिरनुपपन्ना स्यात्॥६६॥ ननु कथमेवमतिदुष्कृत कृतवानित्याशङ्काया दुर्जनानां नैतच्चित्रमिति कैमुत्यन्यायेनाह-मातरमिति। भुवि ये असुतृप स्वप्राणपोषकाः लुब्धाः विषयकामुका राजानस्ते मात्रादीनपि घ्नन्ति, काऽन्यस्य वार्तेत्यर्थः। एवंविधाश्च बहव इत्याह-प्रायश इति॥६७॥ प्राक् पूर्वजन्मनि विष्णुना हत महासुर कालनेमिमिह जातमात्मान जानन् स कंसो यदुभिर्व्यरुध्यत यादवानां देवतात्वेन श्रुतत्वात्तैः सह विरोधं कृतवान्। जानन्निति। शुकेनानुक्तमप्यनुवादे सत्त्वात् नारदवचनादेव जानन्नित्यर्थः॥६८॥ उग्रसेनं च पितरं चकारान्मातरं च निगृह्य निरुध्य शूरसेनान् देशान् स्वयं बुभुजे। तन्निरोधेन यादवानां महद्दुःख जातमिति सूचयन्नाह-यदुभोजान्धकाधिपमिति। तन्निग्रहे सामर्थ्यमाह-महाबल इति॥६९॥
मातरं पितरं भातृृन् सर्वाश्च सुहृदस्तथा॥ घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि॥६७॥ आत्मानमिह सञ्जात जानन् प्राग् विष्णुना हतम्॥ महासुर कालनेमिं यदुभि स व्यरुध्यत॥६८॥ उग्रसेनं च पितरं यदुभोजान्धकाधिपम्॥ स्वयं निगृह्य बुभुजे शूरसेनान् महाबल॥६९॥ ॥इति श्रीमद्भागवते महापुराणे दशमस्कन्धे जन्मप्रकरणे जन्महेतुनिरूपणं नाम प्रथमोऽध्यायः॥१॥ ॥श्रीशुक उवाच॥ ॥प्रलम्ब14बकचाणूरतृणावर्तमहाशनै॥ मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकै॥१॥
इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये। श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र सोमवशनिरूपणे॥ प्रथमो विवृतोऽध्यायो जन्महेतुनिरूपकः॥३॥ छ॥ ॥द्वितीये योगमायाया निदेशो बलकर्षणम्॥ ब्रह्मादिभिः स्तुतः कृष्णो गर्भे तिष्ठन्नितीर्यते॥१॥ ‘यदुभिः स व्यरुध्यत’ इत्युक्तं, तमेव विरोध प्रपञ्चयतिप्रलम्बेत्यादिसार्धत्रयेण। प्रलम्बो दैत्यस्तेनैव रूपेण वर्तते, बको दैत्यः पक्षिरूपेण, चाणूरमुष्टिकौ दैत्यौ मनुष्यरूपेण, तृणावर्तो दैत्यो वात्या रूपेण। एते महाशना बहुभक्षकाः। महाशनोऽघासुर इति वा, तैररिष्टो वृषभासुरः, द्विविदो वानरः, पूतना राक्षसी, केशी दैत्योऽश्वरूप, धेनुको दैत्यो गर्दभरूपस्तैः॥१॥
अन्यैश्चासुरप्रकृतिभिर्भूपालैः बाणो बलिपुत्रः, भौमो भूमिपुत्रो नरकश्चादिर्येषा तैर्वृतः मागधो जरासन्धः सश्रयः सहायो यस्य सः स्वयं च बली कंसो यदूनां कदन दुःखं चक्रे॥२॥ ते यादवाः सकुटुम्बाः कंसेन पीडिताः कुर्वादीन् देशान् निर्विविशुः तत्र तत्र गुप्ततया स्थिता इत्यर्थः॥३॥ एके ज्ञातयः अक्रूरादयः तं कंसमनुरुन्धाना अनुवर्तमाना पर्युपासते पर्यचरन्। एवं यदुभि सह विरोध निरूप्य जातजातमहन्निति यदुक्ततत्र सङ्ख्यामाह — हतेष्विति। औग्रसेनिना कंसेन षट्सु15 देवक्या बालेषु हतेषु सत्सु॥४॥ यमनन्तं प्रचक्षते वृद्धाः कथयन्ति स वैष्णवं विष्णो16र्धाम तेजोऽशो देवक्याः सप्तमो17 गर्भो बभूव। स च तस्या हर्षशोकविवर्धनः आनन्दाशस्यावतीर्णत्वाद्धर्षः पूर्वगर्भसाधारणदृष्ट्या कंसकर्तृकमारणभयाच्च शोकः॥५॥ भगवानपि निजः स्वयं नाथः स्वामी येषां तेषां यदूनां कंसज भय विदित्वा योगमाया स्वशक्तिभूता समादिशत् आज्ञापयामास। भयज्ञाने हेतुमाह —
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः॥ यदूनां कदन चक्रे बली मागधसंश्रय॥२॥ ते पीडिता निर्विविशु कुरुपाञ्चालकैकयान्॥ शाल्वान् विदर्भान्निषधान् विदेहान् कोसलानपि॥३॥ एके तमनुरुन्धाना ज्ञातयः पर्युपासते॥ हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥४॥ सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते॥ गर्भो बभूव देवक्या हर्षशोकविवर्धनः॥५॥ भगवानपि विश्वात्मा विदित्वा कंसज भयम्॥ यदूनां निजनाथानां योगमायां समादिशत्॥६॥ गच्छ देविव्रज भद्रे गोपगोभिरलङ्कृतम्॥ रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले॥७॥ अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि॥18 देवक्या जठरे गर्भ शेषाख्यं धाम मामकम्। तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय॥८॥
विश्वात्मेति। सर्वसाक्षीत्यर्थः॥६॥ आज्ञामेव दर्शयति — गच्छेति सार्धैः सप्तभि। देवानां भद्रं मयाऽवश्यं कर्तव्यं, तत्सम्पादयेति सूचयति — सम्बोधनद्वयेन। हे देवि! हे भद्रे! त्व व्रज गच्छ। गमनयोग्यत्वं सूचयन् व्रज विशिनष्टि — गोपैर्गोभिश्चालङ्कृतमिति। तत्र नन्दस्य गोकुले व्रजे वसुदेवस्य भार्या रोहिणी आस्ते॥७॥ न केवलं सैव तत्रास्ते, किं तु अन्या अपि वमुदेवभार्या हि यस्मात् कसात् सविग्ना भीता अतो विवरेषु देशान्तरेष्वलक्ष्यस्थानेषु प्रच्छन्ना वसन्ति। तत्र गत्वा मया किं कार्यमित्यपेक्षायामाह — देवक्या इति। देवक्या जठरे स्थित शेषाख्य गर्भं तत सन्निकृष्य सम्यग्बहिर्निष्कास्य रोहिण्या उदरे सम्यङ्निवेशय। ननु आकृष्यमाणो गर्भः कथं जीवेत्तत्राह — मामक धामेति। मदीयमशभूतमित्यर्थः। अतो न मरण शङ्कनीयमिति भावः। अनेन रोहिणीदेवक्योर्गर्भसम्बन्ध एकस्यैव रामस्य कथमित्यस्याक्षेपस्योत्तर दत्त ज्ञेयम्॥८॥
देवकीजठराद्गर्भसन्निकर्षे किं प्रयोजनमित्यपेक्षायामाह — अथेति। अथ गर्भसङ्कर्षणानन्तरं शीघ्रमेव अंशभागेन अंशानां वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धमत्स्यकूर्मादीनां भागो विभागो यस्मात् सोंऽशभागस्तेन पूर्णानन्दस्वरूपेणाह देवक्याः पुत्रता प्राप्स्यामि। तवावतारेणैव मम लीलासम्पच्छोभना भविष्यतीति सूचयन् सम्बोधयति — हे शुभे इति। त्वं च नन्दपत्न्या यशोदाया भविष्यसि॥९॥ एव मदाज्ञापालनात् सर्वलोके वरदानसमर्था पूज्या च भविष्यसीत्याह — अर्चिष्यन्तीति। नानाविधैरुपहारैर्नैवेद्यैरन्यैश्च बलिभिः श्रीफलादिभिर्मनुष्यास्त्वामर्चिष्यन्ति। तत्र हेतुमाह — सर्वेति। सर्वेषां कामानामिष्टार्थाना वरा श्रेष्ठामीश्वरीं स्वामिनीमित्यर्थः। एवमप्यदातृत्वे अभजनीयता स्यादिति तद्दातृत्वमप्याह — सर्वान् कामवरान् प्रकर्षेण ददातीति तथ
अथा19हमंशभागेन देवक्याः पुत्रतां शुभे॥ प्राप्स्यामि त्वं यशोदायां नन्दपत्न्या भविष्यसि॥९॥
अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम्॥ नानो20पहारबलिभिः सर्वकामवरप्रदाम्॥१०॥
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि॥ दुर्गेति भद्रकालीति विजया वैष्णवीति च॥११॥
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च॥ माया नारायणीशानी शारदेत्यम्बिकेति च॥१२॥
गर्भसङ्कर्षणात्त वै प्राहु सङ्कर्षणं भुवि॥ रामेति लोकरमणाद्बलं21 बलवदुच्छ्रयात्॥१३॥
तामिति। ‘धूपोपहार’ इति पाठान्तरम्॥१०॥ तथा भुवि तव स्थानानि नामधेयानि च नराः कुर्वन्ति करिष्यन्ति। तत्र नामानि दर्शयति—दुर्गेतीति। इति शब्दाः प्रसिद्धिबोधकाः॥११॥१२॥ गर्भसङ्कर्षणात्त रोहिण्यास्तनय भुवि वर्तमाना जनाः सङ्कर्षण प्राहुः वक्ष्यन्ति। लोकरमणात्तस्य रामेति सम्बोधन करिष्यन्ति। बलवतामुच्छ्रयात् श्रेष्ठत्वात् बल वक्ष्यति। ‘बलभद्र बलोच्छ्रयात्’ इति पाठान्तरम्॥१३॥
एव भगवता सन्दिष्टा आज्ञप्ता योगमाया यथा भगवतोक्त तथेति तथास्त्विति पुनरत्यादरार्थम्। ओमिति च तस्य भगवतो वचः प्रतिगृह्याङ्गीकृत्य सामर्थ्यलाभाय त परिक्रम्य गा पृथ्वीं गता सती यथा तद्भगवद्वचन तथाऽकरोदित्यन्वयः॥१४॥ योगनिद्रया देवक्या गर्भे रोहिणीं प्रति प्रणीते प्रापिते सति पौरा मथुरापुरवासिनो जना “अहो कंसभयात् देवक्या गर्भो विस्रसितः पतित” इति विचुक्रुशुः। देवकीस्नेहाद्विलेपुरित्यर्थः। योगनिद्रापदेन अघटघटनाया सर्वविमोहे च सामर्थ्य द्योतितम्। अहो इति तेषा खेदद्योतकम्। कंसभयादिति शेषस्तु “सप्तमो भोजराजस्य भयाद्रोधोपरोधतः। देवक्याः पतितो गर्भ इति लोको वदिष्यति” इति विष्णुपुराणोक्त्यनुसारात्। ‘स्रसुध्वस्वधः पतन’ इत्यनुशासनानुसारेण’ ‘आचतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः। अत ऊर्ध्व प्रसूतिः स्यात्’ इति वचनाच्च पञ्चमासिकः षण्मासिको वा गर्भः प्रणीत इति ज्ञेयम्॥१५॥ भगवान् विश्वात्मा सर्वस्वरूपोऽपि भक्तानां भूम्यादीनामभयङ्करः कंसादिभय निवर्तयितुमशभागेन पूर्णानन्दरूपेणानकदुन्दुभेर्मन आविवेशेत्यन्वयः। अनेन जीवानामिव न भगवतो धातुसम्बन्ध इति सूचितम्। यथा सर्वत्र व्यापकोऽपि महाभूताग्निरयःपिण्डादिष्वाविर्भूतः सन्नेव दाह्य दहति, तथा सर्वात्माऽपि भगवान् केनचिद्रूपविशेषेणाबिर्भूयैव
शुक उवाच॥ ॥सन्दिष्टैव भगवता तथेत्योमिति तद्वचः॥ प्रतिगृह्य परिक्रम्य गां गता तत्तथाऽकरोत्॥१४॥ गर्भे प्रणीते देवक्या रोहिणी योगनिद्रया॥ अहो विस्रसितो गर्भ इति पौरा विचुक्रुशुः॥१५॥ भगवानपि विश्वात्मा भक्तानामभयङ्करः॥ आविवेशांशभागेन मन आनकदुन्दुभेः॥१६॥ स बिभ्रत् पौरुषं धाम राजमानो22 यथा रविः॥ दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह॥१७॥ ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी॥ दधार सर्वात्मकमात्मभूतं काष्ठा यथाऽऽनन्दकर मनस्तः॥१८॥
दुष्टान् हन्तीति च सूचितम्॥१६॥ स चानकदुन्दुभिः पौरुष धाम भगवत्सम्बन्धि तेजो बिभ्रत् बिभ्राणोऽतो यथा रविस्तथा राजमानः, अतएव भूतानां कंसादीनां दुरासदः आसादयितु समीपमग्नि गन्तुमशक्यः, अतएवातिदुर्धर्षः अभिभवं कर्तुमशक्यश्च सम्बभूव। हेत्याश्चर्यं सूचयति॥१७॥ ततश्च शुरसुतेन वसुदेवेन समाहित सम्यक् मनसैव वैधदीक्षया अर्पित जगता मङ्गल यस्मात्त भगवन्त देवी अदित्यवतारत्वाद्वेवमाता देवकी मनस्तो मनसा धारणया दधारेति सम्बन्धः। वैधदीक्षा तु ‘यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत्। वैधदीक्षोपदेशस्तु तादृशः कथितः प्रियः’ इति कुलार्णवोक्ता ज्ञेया। नच तया एवं धारणेऽपि तस्य तत्सम्बन्धात् स्वरूपतो गुणतो वा च्युतिरित्याह—अच्युताशमिति। सर्वात्मकत्वेऽपि न तस्य च्युत्यादिविकारः। किं
पुनस्तद्धारणे तद्विकारो नारतीति वक्तव्यमित्याशयेनाह — सर्वात्मकमिति। अत एवात्मभूतमिति। तत्र दृष्टान्तमाह—काष्ठेति। काष्ठा प्राची दिगानन्दकर चन्द्र यथा धत्ते, नहि दिक्सम्बन्धेन चन्द्रस्य कश्चिद्विकारस्तथा देवकीसम्बन्धेन भगवतोऽपि न कश्चिद्विकार इत्यर्थः॥१८॥ दुष्टस्य परशोभाप्रतिबन्धकत्वमनुपकारित्व च स्वभाव एवेति सूचयन्नाह— सेति। सर्वजगन्निवासस्य भगवतो निवासतामाप्ता सर्वजनानां परमानन्दजननयोग्याऽपि देवकी नितरा सर्वजनाल्हादकतयाऽतिशयेन न रेजे। तत्र हेतुमाह — भोजेन्द्रस्य कंसस्य गेहे रुद्धेति। अन्यैरदृश्यमाना। तत्र दृष्टान्तमाह — अग्निशिखेवेति। अग्निशिखा प्रदीपादिज्वालारूपा घटादिषु निरुद्धा यथा सर्वजनाल्हादकरी न भवति तथेत्यर्थः। दृष्टान्तान्तरमाह — सरस्वतीति। ज्ञानखले ‘परस्यै तज्ज्ञानं माऽभूत्’ इति ज्ञानवश्चके पुरुषे रुद्धा सती सर्वोपकारिणी सरस्वती वेदादिविद्या यथा सर्वजनाल्हादिका न भवति तथेत्यर्थः॥१९॥ अजितो भगवान् अन्तरा कुक्षिमध्ये यस्यारताम्, अतएव प्रभया भवन विरोचयन्तीम्, शुचि सुखपूर्वक स्मितं यस्यास्ताम्, इत्यनेनानन्दम-
सा देवकी सर्वजगन्निवास-निवासभूता नितरां न रेजे॥ भोजेन्द्रगेहेऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती॥१९॥ तां वीक्ष्य कंसः प्रभयाऽजितान्तरां विरोचयन्ती भवन शुचिस्मिताम्॥ आहैष मे प्राणहरो हरिर्गुहां ध्रुवं श्रितो यन्न पुरेयमीदृशी॥२०॥ किमद्य तस्मिन् करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम्॥ स्त्रियाः स्वसुर्गुरुमत्या बधोऽय यशः श्रिय हन्त्यनुकालमायुः॥२१॥
यस्य भगवतः प्रवेशादस्याः सर्वदुःखनिवृत्तिस्तदा सूचिता। तामेवभूता कंसो वीक्ष्य ध्रुव निश्चितमेतत्। एष मे मम प्राणहरः शत्रुर्हरिरेवास्था गुहा कुक्षि श्रितः प्रविष्टः, यत् यस्मात् पुरा इयमीदृशी प्रभावती नाभूदित्याह। स्वमनसि तर्कितवानित्यर्थः। अत्र उदरपदं विहाय गुहापदोपादानेन भगवति हरिपदोपादानेन च तस्मिन् सिंहत्वमारोप्य दशसहस्रगजबलवतोऽपि स्वस्य प्राणहरत्वं निश्चितम्॥२०॥ तस्मिन् मत्प्राणहरणायोपस्थिते हरौ अद्येदानीमाशु शीघ्रं मया किं करणीयम्। एव चेदिदानीमेव तत्सहिता देवकी हन्यतामित्याशङ्क्याह — यदिति। यस्मात् अर्थतन्त्रः प्रयोजनवशोऽपि पुमान् पूर्वसिद्ध स्वविक्रम यशो न विहन्ति न नाशयति। अस्या वधे तु अपेक्षितं यशआदि सर्वमेव विनश्येदित्याह — स्त्रिया इति। स्त्रियाः, तत्रापि स्वसुर्भगिन्या दयापात्रभूतायाः, तत्रापि गुरुमत्या गुर्विण्या अस्या अयं वधो यशः श्रियमायुश्चानुकाल तत्क्षणमेव हन्ति॥२१॥
अनिष्टं चापद्येतेत्याह — स इति। य अत्यन्तनृशंसितेन अतिक्रौर्येण वर्त्तेत स एष अतिप्रसिद्धोऽपि मादृशो जीवन्नपि सम्परेतो मृततुल्य एव। खलुशब्दोवधारणे। तत्र हेतुमाह— देहे मृत इति। अस्य तनुमानिनो देहात्माध्यासवतो देहे अमृते जीवति सत्यपि त मनुजाः शपन्ति “म्रियतामयंदुरात्मा, धिगस्य जीवितम्” इति धिक्कुर्वन्ति। मरणानन्तरं त्वयमन्ध दुःसहदुःखप्रद तमो नरक ध्रुवमवश्यं गन्ता गमिष्यतीत्यर्थः। अतोऽस्या वधस्तु नैव कर्तव्यः, पुत्र एव हन्तव्य इति भावः॥२२॥ इत्येव विचारेण घोरतमात् “स्त्रीवधविषयको घोरः, तत्रापि भगिनीवधविषयको घोरतरः, तत्रापि गर्भिणीवधविषयको घोरतमः” तस्मात् भावात् सङ्कल्पात् सम्यक् निश्चयेन निवृत्तः। तत्र हेतुमाह — स्वयं प्रभुरिति। राजत्वेन स्वतन्त्र इत्यर्थः। तथापि हरेर्वैरमनुबध्यते दृढीक्रियतेऽनेन स हरेर्वैरानुबन्धस्तत्सम्बधिनां पीडनं तत्करोतीति तथाभूतः सन् तन्मारणार्थं तस्य जन्म प्रतीक्षमाण आस्तेस्म॥२३॥ एव भयेन चिन्तनेऽपि
स एष जीवन् खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन॥ देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम्॥२२॥ इति घोरतमाद्भावात् सन्निवृत्तः स्वयं प्रभुः॥ आस्ते प्रतीक्षस्तज्जन्म हरेर्वैरानुबन्धकृत्॥२३॥ आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन्महीम्॥23 चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत्॥२४॥ ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः॥ देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन्24॥२५॥ देवा ऊचुः॥ सत्य^(३)व्रतं सत्यपरं त्रिसत्य सत्त्यस्य योनि निहितं च सत्त्ये॥ सत्त्यस्य सत्यमृतसत्यनेत्र सत्यात्मकं त्वां शरण प्रपन्नाः॥२६॥
तस्य योगिजनदुर्लभावस्था जातेत्याह — आसीन इति। आसीन उपविष्टः, संविशन् शयनं कुर्वन्, तिष्ठन् उत्थितः सन् भुञ्जानः, महीं पर्यटन्। महीमित्यत्र ‘पिबन्’ इति पाठान्तरम्। एव सर्वावस्थासु सर्वक्रियासु च भयाच्छत्रुभावेन हृषीकेश सर्वेन्द्रियनियन्तार भगवन्त चिन्तयानः कंसः सर्वमपि जगत्तन्मयमपश्यत्॥२४॥ नारदादिभिर्मुनिभिः सानुचरैरनुचरा गन्धर्वादयस्तत्सहितैर्देवैर्निद्रादिभिश्च साकं ब्रह्मा भवो रुद्रश्च तत्र वसुदेवदेवकीबन्धनागार एत्य आगत्य सर्वे रम्याभिर्गीर्भिर्वृ*षण कामवर्षिणं भगवन्तमैडयन् तुष्टुवुः॥२५॥ स्तुतिमेव दर्शयति—
सत्यव्रतमित्यादिपञ्चदशभिः। तत्र प्रतिश्रुतमवतरण
——————————————————————————————————————————————
३ ‘कालात्मा भगवान् जात इति ज्ञापयितु तथा॥ कलाभि पञ्चदशभि स्वपक्षख्यापकै स्तुति॥१॥ पक्षपातस्तुतिर्ह्येषा देवाना हितकारिणी॥ ध्रुवा तु षोडशा प्रोक्ता वृद्धौ वा तादृशौ भवेत्॥२॥ अत्र पञ्चदशभिर्भगवत्स्तोत्रमेकेन देवक्या सान्त्वनम्। काल पञ्चदशात्मा भवति स एवावतीर्ण इति तैर्ज्ञात। स द्विविधो भवति। दैत्याना हितकार्यपि पञ्चदश देवानामपि। साधारणस्तु त्रिशदा
भगवता सत्यं कृतमिति हृष्टाः सन्तः प्रथमं सत्यत्वेनैव स्तुवन्ति। सत्यं व्रतं सङ्कल्पो यस्य तम्, सत्यसङ्कल्पमित्यर्थः। तथा सत्यपरं सत्य पर श्रेष्ठ प्राप्तिसाधन यस्मिस्तम्। त्रिसत्य त्रिष्वपि कालेषु सृष्टेः पूर्व, प्रलयानन्तर, स्थितिसमये च सत्यमव्यभिचारेण वर्तमानम्। एतदेवोपपादयन्ति — सत्त्यस्य योनिमिति। सच्छब्देन पृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ। एव सच्च त्यच्च सत्त्य भूतपञ्चक ‘यदिद किञ्च तत्सत्त्यामितीत्याचक्षत’ इति श्रुतेः। तस्य योनिं कारणम्,
——————————————————————————————————————
त्मको भवतीति स्वपक्षपात्येव भगवानर्द्धेन निरूप्यते। स च पक्षपात कालकृतश्चतुर्द्धा भवति। लोककृत। स्मृतिकृत। स्मृतिर्हि लोकवादात्मिका भवति। वेदकृतस्तृतीय। भगवन्मार्गकृतश्चतुर्थं। चतुर्विधोऽपि प्रमाणप्रमेयसाधनफलैश्चतुर्द्धा। दैत्यकृतात्तस्य विशेष वक्तु तथोच्यते। तत्र प्रथम चतुर्भि श्लोकै प्रमाणप्रमेयसाधनफलान्युच्यन्ते। लोकसिद्धानि देवपक्षपातरूपाणि निरूप्यन्ते। लोके सत्यमेव प्रमाणम्, परिदृश्यमान जगदेव प्रमेयम्, गुणाभिमानिनो देवा एव साधनानि, क्षेम एव फलम्। तत्रापि दैत्यपक्षव्यतिरेकश्च साधनीय। तत्र प्रथम देवाना सत्य दैत्यानामनृत प्रमाणम्। अत सत्यरूपो भगवानवतीर्ण इति निरूप्यते। सत्यमपि देवाना हितकारि अष्टविध भवतीति अशत षोडशविधम्। वेदे सत्य पञ्चविध निरूपितम्। सत्य परमित्यत्र प्राजापत्योहारुणिरित्यत्रापि। यत् सत्य तत् पर सर्वेभ्य उत्कृष्ट यद्वा सर्वोत्कृष्ट तत् सत्यम्। एव सत्यत्वसर्वोत्कृष्टत्वयोरैक्य प्रतिपादनीयम्। अतएव सत्येन स्वर्गलोकाच्च्युति कदापि नभवतीत्यामुष्मिकफलोत्कर्ष उक्त। ऐहिकेऽपि सता सत्यमेव मूल फलम्। अत सत्य प्रमाणप्रमेयसाधनफलरूपमिति। ये देवपक्षपातिन ते सत्य एव रमन्ते। तथाच श्रुति—‘सत्य परꣳ सत्यꣳसत्येन न स्वर्गाल्लोकाच्च्य वन्ते कदाचन सत्ताꣳहि सत्य तस्मात्सत्ये रमन्ते’ इति। तदत्रापि निरूप्यते। लोके हि व्रतमुत्कृष्टम्। यस्तुवत्किंचन व्रतमातिष्ठति स पर इत्युच्यते सत्यमपि। भगवतस्तूभयं सत्यम्। सत्यमेव व्रत यस्य तादृश त्वा शरण प्रपन्ना इति सम्बन्ध। एव व्रतसत्ययोरैक्यमुक्तम्, उभयो परत्वात्। अत पर यत् पर लोके वेदे च द्वादशविध निरूपितम् सत्यं तपो दम शम दानं धर्म प्रजननमग्नय अग्निहोत्र यज्ञो मन सन्न्यासश्च’ इति तत् सर्वं भगवत सत्यमेव यथार्थमेव, नतु दैत्यानामिव तद्द्वादशविधमयथार्थम्। अत्र श्रुतिरनुमन्धेया पूर्वनिर्दिष्टा। भगवतो व्रतानि — ‘कौंतेय प्रतिजानीहि’ ‘द्वि शर नाभिसन्धत्ते’ ‘अनश्नन्नन्यो अभिचाकशीति’ ‘साधवो हृदय मह्यम्’ इत्यादिवाक्यै प्रतिपादितानि। लोकानुसारेण देवहितकारिणो नियामक सत्यमेव। अन्यथा ईश्वर केन नियमित स्यात्? यथा प्रकृते स्वसत्यवाक्यादेव समागत। लोके हि त्रयो लोका त्रय आत्मान भूरादय कायादयश्च ते उभयेऽपि त्रिशब्देनोच्यन्ते त्रयोऽपि सत्या यस्य। अनेन साधनफले एकीकृत्य निरूपिते। एव चतुर्द्धाष्टविधो निरूपित उपपत्तिरूप। उत्पत्तिरूपमष्टविध निरूपयति — ‘सत्यस्य योनिम्’ इत्यादि। यत् पूर्वमष्टविध सत्यमुक्त, तस्य सर्वस्यापि योनि कारण भगवानेव कालात्मा। श्वो दास्यामीत्युक्ते यदि श्वो न भवेत् वागसत्यैव स्यात्, एव सर्वत्र। न केवलं सत्यस्योत्सादकम्, किंतु सत्यस्य रक्षकमपि। तदाह— ‘निहित च सत्ये’ इति। सत्ये नितरा हित रक्षक। स्वयं तत्र स्थित एव रक्षा करोतीति निहितपदसमुदायार्थोऽपि। एव सत्ये स्थित्वा सत्य पालयतीत्यर्थ। अनेन सत्यस्योत्पत्तिविचारे प्रमेय साधन चोक्तम्। इतरावाद्यतयोश्चकार इममेवार्थमाह। सत्यस्य प्रलयोऽप्यत्रैवेत्याह — सत्यस्य सत्यमिति। यथा पूर्णस्य पूर्णमादायेति सत्य सत्य एव स्वाधिदैविके लीयते। सत्य एव प्रतिष्ठित सत्य फलम् तच्चाधिदवैदिक सत्य भगवानेव। अनेन यो भगवति प्रतिष्ठित स सत्य, य सत्ये स सत्यद्वारा भगवति प्रतिष्ठितो भविष्यतीत्युक्तम्। एवमुत्पत्तिस्थितिप्रलयप्रसङ्गे पञ्चविध सत्यमुक्तम्। एतावता त्रयोदशधा क्रियाशक्ति सत्यत्वे निरूपिता। ज्ञानशक्तिं सत्यत्वेन निरूपयति — ऋतसत्ये नेत्रे यस्येति। ज्ञानशक्तिर्द्विविधा — प्रमाणबलेन प्रमेयबलेन च। प्रमाण वेद, प्रमेय भगवद्धर्मा, ऋत सूनृता वाणी, वेद सत्यप्रतिपादक। अत सत्यनिरूपणप्रस्तावेऽपि ऋतनिरूपणम्। ऋतसत्ये नेत्रे प्रापके यस्येति। भगवत्प्राप्तिर्द्वेधाऽपि भवतीत्युक्तम्। एव शक्तिद्वय सत्यत्वेन निरूप्य धमिण सत्यत्वेन निरूपयन्ति। सत्यात्मकमिति। सत्य एव आत्मा स्वरूप यस्य। य सर्वानेव धर्मान् व्याप्य तिष्ठति स आत्मा, सत्यमबाधित भगवत सद्रूपम्। स्वाथे क। क फल वा। सत्यमात्माक सुख च यस्य। सच्चिदानन्दरूपो भगवान्। चिदानन्दयोरपि सत्यरूपतेति तथोक्तम्। तादृशे च जीवै कर्त्तव्य शरणगमनमेव। प्रपन्ना इति बहुवचन सर्वेषामेव देवाना सत्यतया सरक्षार्थम्।
अनेन पूर्वं वर्तमानतोक्ता। तथा सत्त्ये तस्मिन्नेव निहितं स्थितिसमीपेऽप्यन्तर्यामितया स्थितमित्यर्थः। तथा सत्त्यस्य सत्यंतस्यैव सत्त्यस्य प्रपञ्चस्य सत्य पारमार्थिक तन्नाशेऽप्यवशिष्यमाणरूपम्, अनेन प्रलयानन्तरमपि वर्तमानत्वं दर्शितम्। एव त्रिसत्यत्वमुपपादितम्। ऋतसत्यनेत्रम् \। ‘ऋत च सूनृता वाणी सत्य च समदर्शनम्’ एकादशे भगवता एवं व्याख्यास्यमानत्वात्। ‘सत्य च समदर्शनम्। ऋत च सूनृता वाणी कविभिः परिकीर्तिता’ इति। तयोर्नेत्र प्रवर्तक यद्वाते नेत्रे प्रापके यस्य तम्। एव सर्वप्रकारेण सत्यात्मक त्वा वय शरण प्रपन्नाः प्राप्ताः॥२६॥ ननु भवन्तोऽपि लोकेश्वराः किमिति मा शरण प्रपद्यन्त इत्याशङ्क्य ‘सृष्ट्यादिकारणत्वादस्मदादिशरणयोग्यः सर्वेश्वरस्त्वमेव’ इति सूचयन् प्रपञ्चस्य वृक्षरूपत्व भगवतस्तत्सृष्ट्यादिहेतुत्व चाहुः — एकायन इति द्वयेन। असौ आदिवृक्षः ‘वृश्च्यते कालेन च्छिद्यत इति वृक्षः’ समष्टिव्यष्टिदेहरूपः सर्वोऽपि प्रपञ्चः एकायनः एका प्रकृतिरयनमाश्रयो यस्य सः। द्वे सुखदुःखे फले यस्य स द्विफलः। त्रयः सत्त्वादयो गुणा मूलानि यस्य स त्रिमूलः। धर्मार्थकाममोक्षाश्चत्वारो रसा यस्य स चतूरसः। पञ्चेन्द्रियाणि चक्षुरादीनि विविधा ज्ञानप्रकाराः चिन्हविशेषा यस्य स पञ्चविधः। शोकमोहजरामृत्युक्षुत्पिपासारूपान् षडूर्मीन् जन्मा-
^(१)एकायनोऽसौ दिफलस्त्रिमूलश्चतूरसः पञ्चविधः षडात्मा॥
सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः॥२७॥
स्तित्वबृद्धिविपरिणामापक्षयविनाशरूपान् षड्विकारान् वा प्राप्नोतीति षडात्मा। सप्त त्वङ्मासरुधिरमेदोस्थिमज्जाशुक्ररूपा धातवस्त्वचो वल्कलानि
———————————————————————————————————————
१ एव प्रमाणरूपतामुक्त्वा प्रमेयरूपतामाह — एकायन इति। इदं जगद्ब्रह्माण्डात्मक वृक्षत्वेन निरूप्यते — ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेद पूर्ण पुरुषेण सर्वम्’ इति श्रुते भगवान्वृक्षरूप, स्तस्माज्जायमान जगदपि वृक्षात्मकमेव भवति। अनेन भगवतो महत्त्वं निरूपितम्। यथाऽश्वत्थादिवृक्षे एकस्मिन् कोटिश फलानि भवंति तत्रैकस्मिन् फले असंख्यानि बीजानि भवंति, एकस्य बीजस्यायं ब्रह्माण्डात्मको वृक्षो भवति। सोऽपि तादृश एव। एवमनादिनिधनो वृक्षो भगवान् अत एव क्वचिद्ब्रह्माण्डनिर्माण भगवत एव भवति, क्वचित्तत्त्वद्वारा। अक्षरमत्र फलम्। तस्य तत्त्वान्यशा, बीज ब्रह्माडमिति। शकुनिभक्षितमेव ततो निर्गत फलतीति तत्त्वानां चेतनरूपता निरूपिता। तत्र दैत्यादिकल्पे बहुबीजयुक्तादपि फलादेको वृक्ष उत्पद्यते। अतएव बाह्यादिशास्त्रेषु परमाणुभ्यो बहुभ्यो एककार्योत्पत्तिर्निरूपिता। पिप्पलादयोपि काकविष्ठातो जाता। बहुभ्य एक भवतीत्यध्यवसीयते। तद्व्यावृत्त्यर्थमाह—एकमेव अयनं यस्येति। अड प्रकृतिरक्षर वा काल इत्यन्ये। अनेनायमाम्रादिरूप सद्वृक्ष उक्त। अतोसाविति परिदृश्यमान प्रपच। द्विफल द्वे फले यस्य। सुखदुःखे अस्य फले। दैत्यानां तु दुःखमेव फलम्। ते फले नरकस्वर्गे वाच्ये। नराणां के सुख विषयात्मकम्। स्व स्वरूप गच्छतीति स्वर्ग। सृष्ट्यतरे सर्वे विषयिण इत्यत्र तु द्विविधा अपि। त्रयो गुणा सत्त्वादयो मूलानि अध प्ररोहा यस्य। अत्र त्रिविधान्यपि कर्माणि भवंति। अन्यत्र तामसान्येव क्वचिद्वा राजसानि। सात्विकानि तु न भवत्येव। चत्वार धर्मार्थकाममोक्षा रसा यस्य। अन्यत्रार्थ
—
कामावेव। पंचकर्माणि विधा प्रकारा यस्य। तानि पंचेद्रियजन्यान्यपि उत्क्षेपणापक्षेपणप्रसारणाकुचनगमनात्मकानि भंवति। अन्यत्रोत्क्षेपणाभाव। अथवा अन्नमयादय पंच। ‘स वा एष पुरुष पंचधा पंचात्मा’ इति श्रुते। ब्रह्माण्डविग्रहोपि तथा। अन्यत्र नानद। षडात्मानो यस्य, षडिद्रियाण्यात्मत्वेन निरूपितानि। अयमात्मा विज्ञानमय ज्ञानं च षड्विधमुत्पत्त्या भिन्नम्। सप्त त्वगादय त्वचो वल्कलादीनि यस्य। अष्ट प्रकृतयो विटपा शाखा यस्य, “भूमिरापोऽनलो वायु ख मनो बुद्धिरेव च॥ अंहकार इतीयं मे भिन्ना प्रकृतिरष्टधा” इति॥ नव देहच्छिद्राणि गवाक्षा यस्य। दश प्राणा च्छदा यत्र। द्वौ जीवांतर्यामिणौ खगौ यत्र। एतस्माद्वैलक्षण्यमन्यत्र ज्ञातव्यम्। हीति सर्वत्र युक्तय संतीति ज्ञापितम्॥ आदिवृक्ष इति समष्टिरूप।
यस्य स सप्तत्वक्। अष्टौ ‘भूमिरापोऽनलो वायुः ख मनो बुद्धिरेव च॥ अहंकार इतीय मे भिन्ना प्रकृतिरष्टधा’ इति भगवदुक्ता विटपाः शाखा यस्य स अष्टविटपः। नव इन्द्रियगोलकानि अक्षाः कोटरा यस्य स नवाक्षः। दश प्राणापानसमानव्यानोदाननागकूर्मकृकलदेवदत्तधनञ्जयाख्याः प्राणवायवः छदाः पत्राणि पत्रवद्रक्षका विद्यन्ते यस्य स दशच्छदी। द्वौ जीवेश्वरौ खगौ यस्मिन् स द्विखगः। हिशब्दो ‘वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेद पूर्ण पुरुषेन सर्वम्’ इति श्रुत्या भगवतो वृक्षत्वेन निरूपणात् अश्वत्थजन्यस्याश्वत्थवत्तज्जन्यस्य प्रपञ्चस्यापि वृक्षत्वेन निरूपण युक्तमेवेति सूचनार्थः॥२७॥ अस्य प्रत्यक्षसिद्धस्य सतः संसारवृक्षस्य त्वमेक एव प्रसूतिः प्रकर्षेण सूतिर्जन्म यस्मात्सः, निमित्तोपादानरूपोभयविध कारणमित्यर्थः। एवकारेण प्रकृत्यादेः पदार्थान्तरत्वनिरासः। एकपदेन सहायान्तरनिरासः। एव चैकस्यैवोपादानत्व निमित्तत्व च दर्शितम्। तथा सम्यक् निधीयतेस्मिन्निति सन्निधानं लयाधिष्ठानं त्वमेव। अनुगृह्यतेऽनेनेत्यनुग्रहः पालकश्च त्वमेव। ननु “ब्रह्मविष्णुरुद्रा एव जगज्जन्मादिष्वधिकारित्वेन प्रसिद्धा, नाहम्” इत्याशङ्क्याहुः — त्वन्माययेति। त्वन्मायया सवृतमाच्छादित चेतो येषां ते त्वामेव ब्रह्मादिरूपैर्वर्तमान नाना ब्रह्मादिरूपान् भिन्नान्
^(१)त्वमेक एवास्य सतः प्रसूतिस्त्व सन्निधानं त्वमनुग्रहश्च॥
त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये॥२८॥
स्वतन्त्रान् पश्यन्ति। ये तु विपश्चितो मायामोहरहिता विवेकिनस्ते न तथा पश्यन्ति, किंतु त्वामेकमेव तत्तद्रूपेण स्थित पश्यन्तीत्यर्थः॥२८॥
————————————————————————————————————————————
१ एव प्रमेय निरूपित भगवदात्मकम्। अत्रोपपत्ति वदन् साधनरूपमाह—
त्वमेक एवास्येति। अस्य जगत सद्रूपस्य, अनेन मायावादादिपक्षा निराकृता। ते हि वैनाशिका ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ इति वाक्यात्तेषामेव मते अस्य जगत असत्यत्वम्। अन्यथा असत अज्ञानकार्यस्य कर्ता भगवान् को वा स्यात्? तस्य सर्वस्यापि सद्रूपस्य त्वमेव प्रसूति उत्पत्तिस्थानम्। प्रकर्षेण सूतिर्यस्मादिति प्रसूतिपदेन पितराविवोत्पादकत्वं सूचितम्। त्वमेव सम्यङ् निधीयतेऽस्मिन्निति सन्निधान लयस्थान त्वमेव। अनुगृह्यतेऽनेनेति पालक। अत उत्पत्तिस्थितिप्रलयकर्ता त्वमेव। अन्यथा क्रमेणैव सूचयति—
भगवद्रक्षितो न नश्यतीति। ननु “एते गुणाभिमानिन एव ब्रह्मादय उत्पत्त्यादावधिकारिण, नाहम्” इत्याशक्याहु – त्वन्माययेति। ये त्वन्मायया संवृत सङ्कुचित चेतो मतिर्येषां ते त्वां नाना पश्यन्ति, नतु विपश्चित। त एव भगवन्त परिछिन्न जानन्ति, ये तस्यैव मायया संकुचितचित्ता भवन्ति। अल्पेन हि ग्राहकेणाल्पमेव गृह्यते। सर्ववस्तुग्रहणार्थ चित्त पुष्कलमेव। भगवत्सृष्ट मायया संकोचाभावे कथ परिछिन्न गृह्णीयात्? अत एव त्वां नाना पश्यन्ति। परिछिन्नया दृष्ट्या गृहीतो देश भिन्नतया स्वीक्रियत इति मायामोह। अत एव ये विपश्चित ते ब्रह्मादीन् परस्परविलक्षणान् पश्यन्तोऽपि तत्तत्कार्यानुरोधेन तथा तथाविध त्वामेव मन्यन्ते, नतु भिन्न पश्यन्ति। ‘ये’ इत्यते तेषा माहात्म्यनिरूपणार्थ निर्देश। अनेन सृष्टिस्थाना गुणैर्भिन्नाना स्वकार्यसिद्ध्यर्थम् अत एव यथारुचि भगवद्रूपा सेव्या इति साधनमुक्तम्।
त्वमनुग्रहश्चेति यत्पालकत्वमुक्तं तदेव स्पष्टयन्ति — बिभर्षीति। अवबोधः ज्ञानैकस्वरूपस्त्व चराचरस्य स्थावरजङ्गमात्मकस्य लोकस्य प्रपञ्चस्य क्षेमाय पालनाय मुहुः पुनःपुन सत्त्वोपपन्नानि विशुद्धसत्त्वमयानि रूपाणि मूर्तीर्बिभर्षि धत्स इत्यन्वयः। तत्र हेतुमाहुः — आत्मेति। परमात्मनः विश्वपालनस्यावश्यकत्वादित्याशयः। ननु “जगति दुष्टानामपि विद्यमानत्वात् सर्वपालने तेषामपि पालन स्यात्तथा चानर्थ एव स्यात्, न पाल-
बि^(१)भर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य॥ सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहुः खलानाम्॥२९॥
त्व^(२)य्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनाऽऽवेशितचेतसैके॥ त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपद भवाब्धिम्॥३०॥
नम्” इत्याशङ्क्य विभागमाहुः — सता सदाचारनिष्ठानामेव सुखावहानि, खलानां दुष्टानां तत्प्रतिपक्षाणां त्वभद्राणि नाशकान्येवेति॥२९॥ त्वद्भक्तास्तु
——————————————————————————————————————————————
१ फलमाह—बिभर्षीति। त्व अवबोधे आत्मनि रूपाणि विभर्षि। ये त्वा सेवन्ते पूर्वोक्तप्रकारेण, तेषा रूपाणि ज्ञानरूपे आत्मनि बिभर्षि। सायुज्य तेभ्य प्रयच्छसि। अथवा अवबोधे आत्मनि शुद्धात्मसिद्ध्यर्थं रूपाणि अवताररूपाणि बिभर्षि। येषु भक्ताश्चिद्रूपमात्मान लभन्ते। रूपाणा ग्रहणस्यान्यदपि निमित्तमित्याह — क्षेमाय लोकस्य चराचरस्येति। चराचरशब्देन ब्राह्मणा क्षत्त्रियाश्चेति न्यायविद। चरा प्राणिन अतिगुणैर्ब्रह्मादीनामपि भगवत्वात् रजसा तमसाऽप्यवतार सम्भवतीति तद्व्यावृत्त्वर्थमाह — सत्त्वोपपन्नानीति। सत्त्वेन गुणेनोपपन्नानि लोकानुसारीणि मत्स्यादीनि ब्रह्ममहादेवयोरप्याधिदैविकयोरवतारा सत्त्वरूपा एव। तत्र निदर्शनम् — सुखावहानीति। ये सर्वप्राणिषु सुखमावहन्ति, पक्षपातस्तोत्रत्वात्। दैत्यानामपि सुखदानि भविष्यन्तीत्याशक्याह — सतामेव सुखदानि, खलाना त्वभद्राणि। लक्षणपर्वक दैत्याना निर्देश — खलानामिति। सर्वदोषनिधान खला ये परेभ्यो दुःखदातार। मुहुरिति सर्वेषां खलानां वारंवारम्।
२ एव लौकिकप्रकारेण चतुर्णांनिरूपणमुक्त्वा स्मृतिप्रकारेण पुनश्चतुर्णां निरूपणमाह — त्वयीति चतुर्भि। स्मृतिषु योगो धर्म, स च योगो बहुविध। इति यो देवहितो धर्मरूपस्त निरूपयति — हेअंबुजाक्ष। अखिलसत्त्वधाम्नि त्वयि समाधिना आवेशितचेतसा करणेन त्वत्पादपोतेन भवाब्धिं गोवत्सपद कुर्वन्ति। योगे प्रत्यक्षो भगवान् संसारात्तारयतीति सिद्धम्। अंबुजाक्षेति दर्शनेनैव पापनाशकत्वमुक्तम्। यो योगस्तृतीयस्कंधे निरूपित स सर्वात्मको भगवद्विषयक। तदाह — अखिलसत्वधाम्नीति। अखिलाना सत्त्वानां प्राणिनां धाम स्थानम्, सर्वसत्त्वगुणनिधान वा। तादृशो भगवत्यासमताद्वेशित चित्त यस्मिन् तादृशो न समाधिना करणेन कृत्वा त्वत्पाद पोतो भवति। समुद्रतरणसाधन पोतश्चरणस्य पृथ्वीरूपस्य आकाशरूपस्य वा अक्षररूपस्य वा पोतत्वम्। भूमिश्च सर्वजननी आकाश च। भगवद्भावकसमाधौ भगवति विद्यमाने पादस्य पोतत्वाभावात् समाधिकल्पितस्य च संसारमध्यपातात् कथं पोतत्वमित्याशक्याह — महत्कृतेनेति। महद्भि कृतेन। महान्तो हि सर्वस्यापि पदार्थस्य साध्यसाधनतामवगच्छन्ति। अत समाधावेव भगवत्स्फूर्तौ स पाद संसारतारको भवतीत्यलौकिकसामर्थ्येन न युक्तिविरोध शङ्कनीय, ‘अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्’ इति स्मृते। यथा यागादि स्वर्गसाधन तथेदमप्यदृष्टद्वारा भविष्यतीत्याशक्य तन्निराकरणार्थमपि महत्कृतेनेत्युक्तम्। पादपोतो महान् कृत। हृदय संसारपार चाभिव्याप्य यथा तिष्ठति तावान् कृत इत्यर्थ। करण समाधिरेव। गोवत्सपदमिति तीर्णसंसारस्यास्थापितत्वाद्वत्सपदकरणम्। अनेन संसारे स्थिता एव संसार तुच्छ मन्यन्ते। अनतिगम्भीरत्वाय वत्सपदम्। समाधौ स्थित समाधिनिर्वाहर्क संसारमिति तुच्छत्वेन मन्यते। सिद्धो योग स्वयमेव सर्वमेव संसार शोषयित्वा स्वनिर्वाहकमेव स्थापितवान्। नच ते महापुरुषा अन्येषामुद्धारमकृत्वा वत्सपदत्वमात्रे जातेऽपि स्वयमेव तरन्ति। अतो वत्सपदमेव कृत्वा यावदन्येषामुद्धारो भवति तावत्तूष्णीं तिष्ठन्ति। अत उक्तम् ’ वत्सपद कुर्वन्ति’। इति प्रमाणसमाप्ति।
कृतार्था एवेत्याहुः — त्वयीति। “तव कृपादृष्ट्यैव संसारतापनिवृत्तिः, नान्यथा इति सूचयन्तः सम्बोधयन्ति — अम्बुजाक्षेति। अखिलसत्त्वधाम्नि शुद्धसत्त्वमूर्तौ त्वयि समाधिना आवेशित स्थिरीकृत यच्चेतस्तेनैव निमित्तेन एके मुख्या विवेकिनः महद्भि कृतेन संसारतारकत्वेन सेव्यतया स्वीकृतेन, यद्वा इदमपि प्रपञ्चवन्मायामयमिति कुवादमनादृत्येदमेव महत्सर्वोत्कृष्टमिति संसारतारकतया स्वीकृतेन त्वत्पादरूपेण पोतेन नौकारूपेण भवाब्धिंसंसारसमुद्रं गोवत्सपदं गोवत्सपदमिव तुच्छीकुर्वन्ति। दुस्तर संसारमनायासेनैव तरन्तीत्यर्थः॥३०॥ ननु “पादपोतेन पूर्वे चेत्संसारार्णवपारगतास्तर्हि पादपोतोऽपि तैः सहैव गतः स्यात्, लोके पोतस्यापि पारगमनदर्शनात्। तर्हीदानीन्तनाः कथं पार गच्छेयु” इत्याशङ्क्याहुः — स्वयमिति। यथा सूर्याश्रितानामन्धकारभय नास्ति, तथा त्वदाश्रितानामविद्यारूपान्धकारभयं नास्तीति सूचयन् सम्बोधयति — हे द्युमन्निति। भवत्पादपोतेन स्वयं सम्यक् अनायासेन पुनरावृत्तिरहित यथा स्यात्तथा भवार्णवमुत्तीर्य भवत्पदाम्भोरुहनावमत्र संसारे निधायान्येषामुत्तरणार्थ संस्थाप्य ते महान्तो याताः पार गताः। संसाराद्विमुक्ता इत्यर्थः। नौनिधानं नाम भक्तिमार्गप्रवर्तनम्, तेन नेदानीन्तनाना संसारतरणमशक्यमिति भावः। तत्प्रवर्तने हेतुमाहुः — अदभ्रसौहृदा इति। अदभ्रमनल्प सौहृद दीनेषु कृपा येषा ते तथा। अम्भोरुहेति विशेषणेन यथा कमलं सन्तापनिवर्तकं सुखजनकं च तथा पदकमलमपीत्यन्यमार्गेभ्यो भक्तिमार्गस्योत्कर्षः सूचित। अवश्य चैतदुत्तरणाय प्रयत्नो विधेय इत्याशयेनाहुः — भीममिति। नरकादिदुःखैर्भयङ्करमित्यर्थः।
स्व^(१)यं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः॥
भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान्॥३१॥
तत्र हेतुमाह — सुदुस्तरमिति। कामक्रोधादिभिस्तज्जन्यैः पापैश्च तिमिङ्गिलतुल्यैस्तद्विमुखानां दुस्तरमित्यर्थः। तत्र हेतुमाह — सदनुग्रहो भवानिति। यतो भवान् सतः शरणागतान् स्वभक्तानेवानुगृह्णाति,कामक्रोधादिभ्यो रक्षणेन संसारादुद्धरतीत्यर्थः॥३१॥
———————————————————————————————————————
१ तादृशेन प्रमाणेन यत्सिद्ध्यति तत्प्रमेयमाह — स्वयं समुत्तीर्येति। तीर्णस्यास्थापनेनैव वत्सपदकरणात् सम्पूर्णानुवादे सुदुस्तर भवार्णव भीममित्युक्तम्। मोक्षप्रतिपादकत्वात् सर्वशास्त्राणां मोक्ष सम्प्रदायश्च प्रमेय भवति। स्वयं समुत्तीर्य भवत्पदाम्भोरुहनावमत्रैव निधाय ते याता। सम्यगुत्तरण दुर्घटत्वे सति वक्तव्यमिति दुर्घटत्वमाह — समुद्रो हि दुस्तर स्वत। तत्रापि नक्रादिभि कृत्वा सुदुस्तर व्यसनमृत्युजरादिभि अलौकिककरणसामर्थ्यघातक। स्वतोऽपि भीमो भयानक। द्युमन्निति सम्बोधन चरणस्त्रिविधदोषनिवारणसमर्थ इति ज्ञापयति। यथा सूर्य अन्धकार सर्वजगत्पूर्णं जाड्यभयं च स्वत एव निवारयति, तथा त्वच्चरणप्रसादात्तेऽपि संसारमुत्तीर्णा हि। कथमन्येषामुद्धार? का वा अन्येषामुद्धारे तेषामपेक्षा? तत्परिहारार्थमाह — अद भ्रसौहृदा इति। अदभ्रमच्छिद्र सफल सौहृद येषामिति। अनेन पूर्वमेव कृत सौहृद सार्थकमेवेति तेषामवश्यमुपायकरणम्। तमुपायमाह — भवत्पदाम्भोरुहनावमिति। तेषु उत्तीर्णेषु तद्नुसरणेनैव भूयान् संसारो गत इति। पोतरूपोऽपि पाद सुखद सर्वप्रदर्शक तत्कृपया अनतिगम्भीर अम्भोरुहनौकारूपो जात, समुद्रश्च नदीरूपो जात। तदाह — भवत्पदाम्भोरुहनावमित्यत्रैव निधाय याता। ननु ते महता प्रयासेन भगवन्तमाराध्य वशीकृत्य चरणमारुह्य सर्वंचरणे निवेश्य याता, तदुपदेशिनस्तु न तद्विधा इति कथ तरण भविष्यतीत्याशक्याह — सदनुग्रहो। भवानिति सत्सु अनुग्रहो यस्य भवानित्यस्मिन्नर्थे सम्मतिरुक्ता।
एवं भगवद्भक्तानां कृतार्थत्वमुक्त्वा तद्विमुखानामनर्थप्राप्तिमाहुः — य इति। तद्विमुखानां तु त्वत्कृपादृष्टिविषयत्वाभावान्न कदापि संसारतापनिवृत्तिरिति सूचयन्तः सम्बोधयन्ति — हे अरविंदाक्ष इति। येऽन्ये भवद्विमुखास्ते कृच्छ्रेण विषयसुखत्यागपूर्वकतपआदिसाधनप्रयासेन पर पदमारुह्य मोक्षसन्निहितं सत्कुलजन्मादि प्राप्यापि ततोऽधः नरके पतन्तीत्यन्वयः। तानेव दर्शयन्ति — नेति। ‘न आदृतौ युष्मदघ्रीयैस्तेभ्यो नातो नरकभाग्भिरसत्प्रसगैः’ इति भगवदनादरेण नरकपातस्योक्तत्वात्। अनादरे हेतुमाहुः — विमुक्तमानिन इति। संसारे पतिता अपि ‘विमुक्ता वयम्’ इति मन्यमाना
येन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः॥
आरुह्य कृच्छ्रेण परं पद ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः॥३२॥
भ्रान्ता इत्यर्थः। तत्र हेतुमाहुः — अविशुद्धबुद्धय इति। तत्रापि हेतुमाहुः — त्वयीति।25 त्वयि अस्तो निरस्तो यो भावो भक्तिस्तस्मात्। भक्तेरभावान्न विशुद्धा बुद्धिर्येषा त इत्यर्थः॥३२॥
————————————————————————————————————————————
१ साधन महतामुपदेशप्रकार, स च अर्थादुक्त इति साधननिरूपणे तदतिरिक्तसाधनान्येव निराकरोति
—
येन्येऽरविदाक्षेति। अन्ये निरीश्वरसाख्यानुवर्तिन। तेहि पूर्वज्ञानानुसारेण भगवन्तमुपासते। एव बहुजन्मभि प्रवृद्ध ज्ञानं विकर्मसहितम्। भगवदशमात्मत्वेन स्फुरित त्याजयित्वा निरीश्वरसाख्य मायावाद वा अवलबते चेत्पूर्ववदपि तिष्ठेयु, तथापि कृतार्था भवेयु। तथा बुद्धिर्विकर्मफला। ते च पूर्वज्ञानेन देहेन्द्रियप्राणान्त करणाध्यासरहिता जाता। महता कष्टेन सर्वस्वदक्षिणया सर्वबन्धुपरित्यागेन सर्वसुखवैमुख्येन तपसा श्रद्धया ब्रह्मात्मभावना प्राप्तवन्त। तदेव तेषा पर पदम्। य इति प्रसिद्धा। अन्ये भगवद्रहिता भगवद्विचारेण यान् भगवानन्यान् मन्यते। अरविदाक्ष कमलनयनेति सम्बोधनेनासुरपक्षपातात्तेष्वदर्शन सूचितम्। नहि रात्रौ कमले विकाशोऽस्ति, येन रात्रिस्थैरामोदोऽनुभूयेत। अतस्तेऽन्य एव। पूर्ववासनया आत्मान विमुक्तमेव मन्यन्त इति विमुक्तमानिन, नतु विमुक्ता। ज्ञान शास्त्रोत्थ विषयत्वेनात्मान गृह्णाति। अत स्तस्मान्न फलम्, विषयान्तरवत् तस्याप्यभिमानजनकत्वात्। अत एवत्वयि पूर्वं स्थितो भाव साधनत्वेन परिग्रहात् अस्त अस्तगतो यो भावस्तस्माद्धेतो न विशुद्धा बुद्धिर्येषाम्। अन्यथाऽहङ्कारादिसर्वदोषसम्बन्धे स्वात करणे दुष्टे जाते महान्तस्ते कथं न जानीयुर्वयं दुष्टा इति, तदा तं मार्गं परित्यज्य यत्नमपि कुर्युः। अत अविशुद्धबुद्धयएव जाता। परमशुद्ध्या च दोषा स्फुरन्ति। ज्ञानस्य पूर्वावस्थैषा, यत्स्वदोषस्फुरणम्। अत कृच्छ्रेणापि पर पद ब्रह्मभावमारुह्य अनादृतयुष्मदघ्रय पतन्त्येव। जीवस्य प्रकृतेरपि परस्परप्राप्तौ उच्चगतो निरालंबने मार्गे भगवच्चरणातिरिक्तमवलम्बन संभवति यतो वियद्विष्णुपदमेव। भगवच्चरणावलंबनेनैव पुरुषस्योर्ध्वगमनम्। शृंखलद्वीपे श्रीपादारोहणे शृंखलापरित्यागवत् अस्य चरणस्य ग्रहणादिक्लेशपरित्यागा भावायाह
—
अनादृतेति। आदरमात्रेणापि न पतति। आदर एव वा चरणस्थितौ हेतु।
त्वद्भक्तास्तु कदाचिदपि न पतन्तीत्याहुः — तथेति। यथा त्वद्विमुखाः स्वाधिकाराद्भ्रश्यति, तथा हे प्रभो! हे माधव! तावकास्त्वद्भक्ताः क्वचित्कदाचिदपि मार्गात् भजनाधिकारात् न भ्रश्यन्ति, भरतचित्रकेतु गजेन्द्रप्रह्लादादीनां जन्मान्तरेऽपि भक्तिसद्भावदर्शनात्। किन्तु निर्भयाः कालकर्मादिभयरहिताः सन्तः विनायका विघ्नकर्तारस्तेषामनीकिनी सेनास्तासां पालकानां मूर्द्धसु विचरन्ति विघ्नान् जयन्ति। तेषां भगवद्भजने विघ्न कर्तु विघ्नकर्तारो न शन्कुवन्तीत्यर्थः। तत्र हेतुमाहुः — त्वयाभिगुप्ता इति। तत्र हेतुं वदन्तो भक्तान् विशिंषन्ति — त्वयि बद्ध सौहृद प्रेमातिशयो यैस्त इति। प्रभो इति सम्बोधन रक्षाया सामर्थ्यसुचकम्। माधवेति सन्बोधनेन। तत्र हेतुः सूचितः — “मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी। नारायणीति विख्याता विष्णुमाया सना-
त^(१)था न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदा॥
त्वयाऽभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो॥३३॥
तनी॥ महालक्ष्मीस्वरूपा च वेदमाता सरस्वती॥ राधा वसुन्धरा गङ्गा तासां स्वामी च माधवः” इति ब्रह्मवैवर्तोक्तेर्मायादिस्वामित्वात् तद्रक्षितानां कथं पतनमिति भावः॥३३॥
——————————————————————————————————————————
१. नन्वेव सति भक्तिमार्गानुसारेणापि भगवद्भजने विकर्मादिना कालान्तरे पुनर्बुद्धिनाशप्रसङ्ग, साधनत्वेनैव भक्तिमार्गस्यापि स्वीकारात्। अतस्तुल्यत्वात् किं मार्गान्तरदूषणेनेत्याशङ्क्य स्मार्त्तस्यापि भगवन्मार्गस्य फलमाह — तथेति। हे माधव! ते पूर्वं तद्वत् प्रवृत्ता अपि तावका सन्त क्वचिदप्यारोहणावस्थाया भ्रश्यन्त्यपि न पादोप्यध प्रमादादपि न पतन्ति आरुह्यमाण मार्गात् स्वमार्गादपि न पतन्ति, मार्गस्यैव तथात्वात्। यथा वस्तुरक्षकाणा मध्ये सुगन्धरक्षक सौरभ्य प्राप्नोत्येव, लशुनादिरक्षकस्तद्विपरीतम्। यद्यपि स्वतंत्रतया भगवान्न सेवितस्तथापि भगवानिति तस्य पातो न भवत्येव। माधवेति सम्बोधन रात्रावपि विलासेन तत्रत्यानां दर्शनार्थम्। तेन विकर्मतुल्यत्वेऽपि सेवापरत्वात् भगवद्दर्शनं नान्येषामिति निरूपितम्। अत एव तावका। अभ्रशे हेतु — त्वयि बद्धसौहृदा इति। सौहृद स्नेह रज्जुस्थानीय स स्वात्मान जीव भगवच्चरणे बध्नाति। अतो युक्त एव तेषामभ्रश। नन्वन्ये कालादय कथं तान् न भ्रशयन्ति भक्तिं वा न नाशयन्तीत्याशङ्क्याह — त्वया अभिगुप्ता विचरन्तीति। त्वया अभित बाह्याभ्यन्तरसर्वभावेन रक्ष्यमाणा बुद्ध्यादीनामपि नाशासम्भवात् अन्यप्रवेशासंभवाच्च न भ्रश्यन्तीति युक्तम्। अत एव विचरन्ति। सर्वत्र विशेषेण अनिन्दया सर्वेषु लोकेषु भ्रमन्ति। कालादिभयरहिता निर्भया। यदन्येषां त्यागस्थान भयस्थान तदेव तेषा परिभ्रमणस्थानमित्याह —विनायकानीकपमूर्द्धस्विति। विनायका विघ्नकर्तार विशब्देन विघ्ना उच्यन्ते तेषां नायका जनका एव भवन्ति तेषामनीक सेना एकस्मिन् विघ्नार्थे प्रवृत्ते तदशक्तौ तत्सहायार्थं बहव समायान्ति। ते सर्वे स्वतंत्रा नियामकाभावात् कार्यं न करिष्यन्तीत्याशक्य तद्रक्षका अपि समायाति तेऽनीकपास्तेपि बहव भ्रशयितु समागता भगवदीयसुदर्शनादिभयात् अस्पृष्टैव निकटे तिष्ठन्ति। यथा प्रह्लादे तेष्वेवारोहणार्थ भगवद्भक्ता पाद प्रयच्छन्ति तेषामध पातनसामर्थ्याभावात् प्रतिष्ठाहेतव एव भवन्ति। यथा जडभरते मारणार्थमुद्यता प्रतिष्ठाहेतव एव जाता। तेषां मूर्द्धान सर्व सामर्थ्यस्थानानि परमकाष्ठापन्नानि। एव तेषा विचरणे हेतु - प्रभो इति। एतत्सामर्थ्य त्वदीयमेव। अतस्ते समर्था अपि न द्विषन्ति। अतो भक्तिमार्गान्मार्गांतर साधनत फलतश्च न समीचीनमित्युक्तम्।
सता सुखावहानि रूपाणि बिभर्षीत्युक्तम्, तत् केन प्रकारेण सुखावहत्वमित्यपेक्षायामाहुः — सत्त्वमिति। स्थितौ निमित्तभूताया स्थितिः पालनम्, जगत्पालनार्थ भवान् विशुद्धं रजस्तमोभ्यामननुविद्ध सत्त्व सत्त्वमय वपुश्च अमृत पुष्णातीति वपुः उपासकानामानन्दपोषक शरीर श्रयते बिभर्ति। येन वपुषा युक्तस्य तव वेदादिभिः स्वधर्मैस्सहार्हण पूजन जनः आश्रमचतुष्टये स्थितः प्राणी समीहते करोति। तत्र वेदो वेदाध्ययन ब्रह्मचारिधर्मः। क्रियायोगः कर्मानुष्ठान गृहस्थधर्मः। तपो वनवासादि वानप्रस्थधर्मः। समाधिर्यतिधर्मः। ननु “सत्यसङ्कल्पस्य सङ्कल्पमात्रेणैव जगत्स्थितिः सम्भवति, आराधन तु शास्त्रतः प्राप्तमेव। किं वपुर्धारणेन?” इत्याशङ्क्याहुः
—
शरीरिणामिति। शरीरिणा श्रेयसामुपायन उप समीपे आधिक्येन वा अयनं प्राप्तिर्यस्मात्तत्। यद्यपि सर्वं सङ्कल्पमात्रेणेव सिद्ध्यति, तत्र च शास्त्रं प्रमाणभरित, तथापि तत्सामान्यस्य विवादग्रस्तत्वात्तत्र विश्वासाभावेन तदुक्तमार्गे
स^(१)त्त्वं बिशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेय उपायन वपुः॥
वेदक्रियायोगतपः समाधिभिस्तवार्हण येन जनः समीहते॥३४॥
कस्यापि प्रवृत्तिर्न स्यात्, फलं तु दूरतः अवतारग्रहणेन। साक्षात्फलप्रदाने तु शास्त्रप्रामाण्यस्यापि निश्चयात्तदुक्तमार्गे सुतरा प्रवृत्तिरित्याशयः। जन इत्येकवचन दुर्लभत्वसूचनाय॥३४॥
———————————————————————————————————————————
१. एव स्मृतिमार्गेण भगवत्पक्षपातमुक्त्वा वैदिकमार्गेण पूर्ववदाह — सत्त्वमित्यादिचतुर्भि। वेदो हि द्विविध, प्रवृत्तिनिवृत्तिमार्गप्रतिपादक। तादृशोऽपि पुन प्रत्येक द्विधा। भिन्नै अधिकारिभिर्द्विविधः। तत्र प्रवृत्तावर्थावबोधावध्ययनमनुष्ठान चेति ब्रह्मचारिणो गृहस्थस्य चाधिकारेण सिद्धम्। तप आत्मनि च स्थिति उत्तमाश्रमस्थयोर्निवृत्तौ क्रमेणैव सिद्धम्। एतद्वेदानुसारेणाश्रमचतुष्टये धर्मानुष्ठान दैत्याशानामपि तुल्यमिति। भगवान् सत्त्वमूर्ति स्वसत्त्व प्रकटीकृत्य सात्त्विकानेव तत्तद्धर्मेषु प्रेरयति, विपरीताश्च निवर्तयति। अन्यथा आश्रमस्थेष्वेव केचिदध्ययनादिकं यथाशास्त्रं कुर्वन्ति केचिन्नेति व्यवस्था न स्यात्। वैदिकाश्च सर्वे धर्मा परिपाल्यमाना एव जगति प्रवर्तन्ते। अत स्थितौ स्थित्यर्थं यदा भवान् विशुद्ध सत्त्व सत्त्वगुण श्रयते तदैव तेन सत्त्वगुणेन लोके प्रसृतेन व्याप्ता आश्रम स्था क्रमेण वेदाध्ययन क्रियायोग कर्मानुष्ठानं तपो वनवासादिः समाधिरात्मस्थितिश्चेति चतुर्विधान् धर्मान् सम्यगनुतिष्ठन्ति। ततोऽपि तेन धर्मेण शुद्धान्त करणास्तवार्हण समीहन्ते। शुद्धैरेव हि भगवत्सेवा कर्तुं शक्यत इति। ननु वेदेनैव कार्यसिद्धौ किं सत्त्वगुणेनेत्याशक्याह — शरीरिणामित्यादि। यदि फलदाता कोऽपि न स्यात् प्रथमप्रवृत्त विसवादिन दृष्ट्वा कोऽपि न प्रवर्त्तेत। ननु अदृष्टादिद्वारा भूतसंस्कारद्वारा वा कार्यसिद्धौ किं सत्त्वमूर्त्येत्याशक्याह — शरीरिणामिति। ते हि शरीराभिमानिनो विद्यमानशरीराश्च। यदि प्रथमशरीरभिन्नतया आत्मानं जानीयु तदा कर्तृसमानाधिकरणमदृष्टमुत्पद्येतैव देहान्तरे वा फले प्राप्ये भूतसंस्कारो भवेत् उभयोश्चाभावात् फलदाता भगवानेवापेक्ष्यते। तदाह — श्रेय उपायनमुप समीपे आनीय समर्पण यस्मात्। वपुरिति दैवगत्या फलसिद्धिज्ञानाभावाय। अस्तु वा फलसिद्धि तस्य धर्मस्य भगवद्भजने करणत्व सहायत्व वा चेन्न स्यात्तदा क्षयिष्ण्वेव फलमिति पूर्वदोषा निवृत्तिरतो वैदिके मार्गे सर्वधर्मप्रवर्त्तको भगवानिति देवाना पक्षपोषक। जन इत्येकवचन जात्यभिप्राय दुर्लभत्वज्ञापनाय।
एवं त्वय्यम्बुजाक्षेत्यादिश्लोकपञ्चकेन भगवद्भक्तानामेव मोक्षो, नान्येषामित्युक्तम्। तत्र ‘तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इत्यादिश्रुतिभ्यो मोक्षस्य ज्ञानैकलभ्यत्वानिश्चयात् किं भक्त्या किं वा भगवदवतारेणेत्याशक्याहुः — सत्त्वमिति। “भवदग्रेऽस्माभिरतितुच्छैः किं बहु वक्तव्यम्? सर्वजनकत्वेन सर्वज्ञत्वात्" इत्याशयेन सन्बोधयन्ति — हे धातरिति। निजं भवदीयसत्त्वं विशुद्धसत्त्वमयमिदं वपुश्चेत् यदि प्रकटितं न भवेत् तदा तद्भजनाभावेन अज्ञान च तत्कृताभिधा देवमनुष्यतिर्यगादिभेदबुद्धिश्च तयोरपमार्जन निवर्तक विज्ञान तव तत्त्वसाक्षात्कारात्मकमपि न भवेदित्यनुषङ्गः। ‘वासुदेवे भगवति भक्तियोगः प्रयोजितः। जनयत्याशु वैराग्यं ज्ञानं यत्तदहैतुकम्’ इत्यादिवाक्यैर्ज्ञानस्य भक्तिजन्यत्वनिश्चयादित्याशयः। ननु “सत्यसङ्कल्पादि-
स^(१)त्त्वं न चेद्धातरिद निजं भवेद्विज्ञानमज्ञानभिदापमार्जनम्।
गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुण॥३५॥
गुणको भगवानेवाह जात इति कथं ज्ञायते? तत्राहुः — गुणेति। येनैव हेतुना यस्य च भवतः सम्बन्धी गुणः प्रकाशबाहुल्यदुर्धर्षत्वादिरूपः देवकीवसुदेवयोः प्रकाशते अतस्तैर्गुणप्रकाशैर्भवान् सत्यसंकल्पादिपूर्णगुणकोऽनुमीयत इत्यन्वयः॥३५॥
———————————————————————————————————————————
१. ननु ब्रह्मचारिणो गृहस्थस्यापि श्रेयोदानार्थमात्मविवेकस्याजातत्वात् सत्त्वाश्रयण भवतु नाम, ज्ञानस्य तु सिद्धफलदातृत्वात् असिद्धफलेपि साक्षादेव फलजननसंभवात् तज्ज्ञाने तत्साधने तपसि वा भगवत सत्त्ववपुर्नापेक्ष्यत इत्याशक्याह — सत्त्व न चेदिति। इदं शुद्धसत्त्व सर्वरक्षक सर्वकर्मफलदातृ चेन्न भवेत् विज्ञानमपि न भवेत्। ‘सत्त्वात् सञ्जायते ज्ञानम्’ इति सत्वाभावे ज्ञान न स्यात्। नच शास्त्रसिद्धेन सत्त्वगुणेन ज्ञानमुपस्थापयितुं शक्यते, परकीयत्वात्। यस्मिन् क्षणे शास्त्रानुसन्धान तदर्थानुष्ठान वा तदैव तत्सत्त्वमाविर्भवति, तद्धर्मत्वात्। इदं तु निजं नच तैरपि स्वमूलकारणभूत सत्त्वमुत्पादयितुं शक्यते, तेषां कर्त्रभावादिति ज्ञापयति — हे धातरिति। विज्ञानमनुभव स च सत्त्वैकरूपे अत करणे भवति यथा यथा च विशुध्यते तथा तथा अकामहतो भवतीति शुद्धसत्त्वाविर्भाव एव विज्ञानं युक्तम्। यथोत्पन्ने जगत्यन्ने सत्या क्षुधि अन्नसंपादनं सुकरम्। नतु क्षुदनन्तरं तत्सपादनं शक्यम्। अतो भगवता सत्त्वे आविर्भाविते तत्कृपया भगवता सह सत्त्वमपि हृदये समागच्छेत्, न त्वन्यथा। निषिध्यमानं ज्ञानं शास्त्रीयं भविष्यतीत्याशङ्क्य विशिनष्टि — अज्ञानभिदापमार्जनमिति। अज्ञाननाशक विज्ञानमात्मानुभव, भेदनाशक तु भगवद्विज्ञानम्। उभयो साक्षात्कारे देहाद्यध्यासनिवृत्ति शुद्धाद्वैत च स्फुरति। तच्च ज्ञानं न विषयविषयिभावेन तादृशस्य पुरुषार्थासाधकत्व पूर्वमुक्तम्। आविर्भावस्तु भगवत स्वरूपस्य वा न शुद्धसत्त्वव्यतिरेकेण सम्भवति। यदि ज्ञाने सत्त्वापेक्षा सुतरा तपसि तदपेक्षेति न तत् पृथक् निरूपितम्। न चेद्भवेदिति इति पदव्यतिरिक्त सर्वमावर्त्तते। अर्थवशात् पदानां व्यवस्था। अज्ञानभिद्विज्ञान मार्जनमापेति न व्याख्यानम्। ननु अस्य सत्त्वस्य स्वतो ज्ञानरूपत्वाभावात् साधने उपयोग। यद्यन्ययैव भगवदाविर्भावो भवेत् आत्मनो वा तदा किं सत्त्वेन। तत्रेंद्रियाणां प्रकाशः लोकदृष्ट स्वकारणप्रकाशमाक्षिपति। तत्र प्रवर्त्तकस्य भगवत अभिमानिनो जीवस्य च प्रकाशोऽवश्यभावी। अतस्तदनुसन्धानेनैव तद्व्यवधायकमलनिवृत्तौ तदुभयो प्रकाशो भविष्यतीति व्यर्थ सत्त्वमिति चेत्तत्राह — गुणप्रकाशैरनुमीयते भवानिति। गुणानामिन्द्रियविषयादीना प्रकाशैर्ज्ञानै प्रेरकोभिमानी च अनुमीयते अस्तीति। स ह्यनाविर्भूत एव तथा करोति। आविर्भावस्तु केन कर्तव्यो भवेत्। नच स्वरूपसत्त्व कार्यकरणं वा प्रकृते प्रयोजकम्। आविर्भावस्तु सत्त्वाधीनं इति पूर्वमवोचाम। नच प्रकाशोऽपि कार्यं व्यतिरेकेण न संभवति। अन्यथा गुणप्रकाशो न भवेदिति वक्तव्य यस्य संबधी वा गुण प्रकाशते येन वा गुण प्रकाशते नतु सम्बन्धिन करणस्य वा प्रकाशमपेक्षते। अत प्रकाशार्थमवश्यं सत्त्वगुणोपेक्षित।
पुनश्च भक्ताभक्तयोरुत्कर्षापकर्षावाहुः — नेति। यद्यपि गुणजन्मकर्मभिः स्वीकृते तव नामरूपे त्वद्विमुखानां मनोवचोभ्यां न निरूपितव्ये मनसा चिन्तनार्हे वचसा कीर्तनार्हे च न भवतः अथापि तथापि हे देव! बहुधा द्योतमानक्रियाया भवदुपासनाया वर्तमाना भक्ताः प्रतियन्ति नामानि कीर्तयन्ति रूपाणि च पश्यन्तीत्यन्वयः। हीति प्रसिद्धिं सूचयति, ‘यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय’ इति तृतीयोक्तेः। अनिरूपितव्यत्वे हेतु वदन्तो भगवन्त विशिषन्ति — अनुमेयवर्त्मन इति। अनुमेय महता प्रयत्नेन सूक्ष्मया बुद्ध्या विज्ञेय वर्त्म प्राप्तिसाधन यस्य
न^(१) नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः॥
मनोवचोभ्यामनुमेयवर्त्मनो26 देव क्रियायां प्रतियन्त्यथापि हि॥३६॥
तस्येत्यर्थः। तत्कथं तत्प्राप्तिसाधनस्य नामसङ्कीर्तनादेर्भगवद्विमुखानां विषयाविष्टानां मनोवचसोर्विषयत्वं स्यादित्याशयः। अनुमेयवर्त्मत्वे हेतुमाहुः — तस्येति। मनइंद्रियादिसङ्घातस्य साक्षिण इत्यर्थः। तत्र गुणैर्दीनवत्सल इत्यादि, जन्मभिः रामः कृष्णः नन्दनन्दन इत्यादि, कर्मभिः गोवर्धनोद्धरण इत्यादि॥३६॥
———————————————————————————————————————————
१ एव प्रमाणप्रमेये वैदिकप्रकारेण भगवद्रूपे विचारिते। साधनं विचारयति — न नामरूपे इति। वैदिकमार्गानुसारेण साधनं भगवान् सर्वपुरुषार्थेषु। स च गुणातीत एव, वेदे गुणाभावात्। फलदानार्थपरभगवान् देवपक्षपातार्थ तथा कृतवान्। अत सगुण साधनमिति पक्ष निराकरोति — न नामरूपेति। ते नामरूपे गुणजन्मकर्माभिर्न निरूपितव्ये। साक्षी भगवान् सर्वकर्मफलदाता कर्माध्यक्ष, स एव साधन गुणै कृत्वा यानि कर्माणि जन्मानि च तानि तव न सत्येव किंतु क्रियाशक्त्यैव सद्रूपया धर्मरूपेण प्रकटस्य तवाविर्भाव कर्माणि। आनदरूपेण प्रकटस्य जन्मानि तैरेव च नामरूपे। अन्यथा प्राकृतत्वे सति न कोऽपि पुरुषार्थ सिद्ध्येत्। भवतु वा भगवत कल्पान्तरे। तथाभूते अपि न तु शास्त्रे साधनत्वेन निरूपितव्ये। तदा तस्य फलदातृत्व न स्यात्, कर्माध्यक्षत्वाभावात्। किंच सगुण चेन्मनसा वचसा च व्याप्य भवति। तत मानस वाचनिकमेव फलं प्रयच्छेत्, न त्वात्मरूप भगवद्रूप वा। भगवाश्च मनोवचोभ्यामनुमेयमेव तर्क्यमेव वर्त्म यस्य तादृश, नतु प्रत्यक्षविषय। ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। पराचि खानि व्यतृणत् स्वयंभू’ इत्यादिश्रुतिवाक्यै। तर्हि नामरूपाण्येव न सन्तीति चेत्तत्राह — देव क्रियाया प्रतियन्त्यथापि हीति। हे देव सर्वपूज्य! क्रियाया श्रौत्या तात्रिक्या च नामरूपे प्रतियन्ति। ‘विष्णोर्नुकम्०’ ‘तदस्य प्रियम्०’‘इद विष्णु०’ ‘प्रतद्विष्णु०’ षडक्षरादिरामादिमत्राश्च। ‘यस्यै देवतायै हविर्गृहीत स्यात्ता मनसा ध्यायेद्वषट् करिष्यन्’ इति श्रुतेर्ध्यानादिविधानाच्च। नामरूपाभावे ध्यानं मंत्रश्च न भवेताम्। इमामेवोपपत्तिमाह हि शब्दः। अत एव तदन्यथानुपपत्त्या प्रतियन्ति। यत प्रतियन्ति अत प्राकृतत्वाभावाद्दिव्यान्येव तान्यानन्दमयानीत्यध्यवसीयन्ते।
श्रवणादिभक्त्या भक्तानामेव मोक्ष इत्युपसंहरति — शृण्वन्निति। मङ्गलानि श्रवणादिपरस्य मोक्षप्रतिबन्धकदुरितानिरासपूर्वक पुण्यावहानि ते तव नामानि रूपाणि चकारात् कर्माणि च वक्तरि सति शृण्वन्, श्रोतरि सति गृणन् कीर्तयन्, श्रोतृवत्क्रोरभावे स्वयमेव संस्मरयन्, चिन्तयन्, चकारादन्यानपि स्मारयन् क्रियासु लौकिकालौकिकव्यापारेषु वर्तमानोऽपि युष्मच्चरणारविन्दयोराविष्टमासक्त चित्त यस्य सः। पुनर्भवाय संसारप्राप्तये न कल्पते न योग्यो भवतीत्यर्थः। प्रयत्नं विना मानसिकव्यापारः स्मरणम् सप्रयत्नश्च सञ्चिन्तनमिति भेदः॥३७॥ भवदवतारेणास्मद्वाञ्छित सर्वमेव जातप्रायमित्याहुः — दिष्ट्येति। आश्रितार्तिहरणशीलस्य तव तदर्थमवतारो युक्त एवेत्याशयेन सम्बोधयन्ति — हे हरे इति। तव जन्ममात्रेण भवतः पदः पादभूताया अस्या
शृ^(१)ण्वन् गृणन् संस्मरयंश्च चिन्तयन्नामानि रूपाणि च मङ्गलानि ते॥
क्रियासु27 युष्मच्चरणारविन्दयोराविष्टचेता न भवाय कल्पते॥३७॥
दि^(३)ष्ट्या हरेऽस्या भवतः पदो भुवो भारोऽपनीतस्तव जन्मनेशितु॥
दि^(४)ष्ट्यांऽकितां त्वत्पदकैः सुशोभनैर्द्रक्ष्याम गां द्यां च तवानुकम्पिताम्॥३८॥
भारार्ताया भुवो दैत्यादिजनितो भारोपनीतो दूरीकृत एवेति दिष्ट्या भद्रं जातम्। किञ्च सुशोभनैर्वज्राङ्कुशादिभिः शुभलक्षणैस्त्वत्पदकैस्तव कोमलैश्चरणैरङ्किता तव त्वयानुकम्पिता कृपादृष्ट्यावलोकिता गां पृथ्वीं द्या स्वर्गं च वयं द्रक्ष्यामेत्यपि दिष्ट्या भद्रमेव। जन्ममात्रेण चरणस्पर्शेन वा कथ
———————————————————————————————————————
१. एव सर्वाण्येव रूपाणि नामान्यानन्दमयानीति तानि सर्वपुरुषार्थसाधकानि निरूपितानि। तै फलमाह— शृण्वन् गृणन्निति। साङ्गानि कर्माणि वैदिकान्यवश्यंफलदातृृणि ‘यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु॥ न्यून सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्’ इति स्मृते संपूर्ण चेज्जातं फलं जनयेदेव। तच्च फलं मोक्षएवेति स्वर्गपदविचारे निबन्धे निरूपितम्। तदेवात्राप्याह — ते नामानि शृण्वन् परैरुच्चारितानि रूपाणि च कीर्त्यमानानि ये शृण्वन्ति, तदनु गृणन्ति, उभयविधान्यपि श्रोतरि सति। अन्यदा स्मरन्ति तदपि स्मरणं ध्यानरूपमिति संस्मरणमुक्तम्। चकारात् स्मारयन् उपदेशादिदानेन श्रावयन् वादयन्नपि चिन्तयन् योगागध्यानत्वेन। तथैव चित्तनिरोधेन नामावृत्तिर्नाम ध्यानम्, अप्रयत्नश्चित्तव्यापार स्मरणम्, सप्रयत्नश्चित्तव्यापारश्चिन्तनमिति विशेष। तदेव रूपपरिकल्पने ध्यानमित्युच्यते। चकाराद्भगवत्सम्बन्धिनामप्यन्येषां श्रवणादिकं फलसाधकमित्युक्तम्। मङ्गलानीति तत्र प्रतिबन्धाभावो निरूपित। अन्यथा तस्याप्यसिद्धाविच्छायामपि सत्यां कार्यं न स्यात्। तदर्थमन्यच्च कर्त्तव्यमापद्येत। ते इति। मङ्गलरूपस्य तव। उत्तरत्र वा सम्बन्ध। क्रियासु यज्ञादिषु भवत्सेवारूपासु वा लौकिकक्रियासु यस्त्वच्चरणारविन्दयोराविष्टचित्त स सर्वथा भवाय संसाराय न कल्पते न समर्थो भवति। ‘स्मरणेन क्रिया पूर्णा चित्तावेशश्च तत्र हि॥ ज्ञानक्रिये यदा विष्णुस्तदा मोक्षो न संशय’॥ स दोष एव हि संसारे कल्पते। एवकृते सर्वदोषनिवृत्तौ संसारासामर्थ्यं युक्तमेव।
३. एव वैदिकप्रकारेण चतुष्टयमुक्त्वा स्वसिद्धातानुसारेण चतुष्टयमाह — दिष्ट्येति चतुर्भि। भगवच्छास्त्रे भगवानेव प्रमाणादिचतुष्टयम्। भगवत्साक्षात्कार साक्षात्कृतो वा भगवान् प्रमाणम्। ‘भूमिप्रसङ्गात् वयं कृतार्था जाता’ इति वदन्त सर्वमेव जगत् भगवता कृतार्थमासीदित्याहु। हरे! ते पदो भुवपादरूपाया भूमेस्ते जन्मना भारोपनति। मर्द्दन
भारापगमादि तत्राहुः — ईशितुरिति। देवानां पादस्पर्शोऽपि भुवो दुर्लभ, किं पुनर्देवदेवस्य भगवतः पादस्पर्श इत्याश्चर्यम्? भगवत्कृपायाः कृत्यमित्याशयः। अदित्याः कुण्डलदानाद्यर्थ स्वर्गे गमनात्तत्रापि पादाङ्कितत्वं बोध्यम्॥३८॥ भारोऽपनीतस्तव जन्मनेति जीववज्जन्मोक्त्यापराधमाशङ्क्य तन्निरासाय संकल्पमात्रे भूभारहरणादि कर्तु समर्थस्यापि तवावतारे स्वजनानां श्रवणादिसुखपूर्वकोद्धारार्थलीलासंङ्कल्पः एव कारणमित्याहुः — न तेऽभवस्येति। हे ईश! ते तव भवस्य जन्मनः कारण विनोद क्रीडासङ्कल्प विनान्यन्न तर्कयामः। ननु जीववन्ममापि जन्म कुतो नेत्याशङ्क्याहुः — भवइति। आत्मनि जीवात्मन्यपि भवो जन्मनिरोधः मरणं स्थितिश्चेत्येते त्रयो यतस्त्वयि निमित्ते सति अविद्यया देहेन्द्रियान्तःकरणादावात्माध्यासेनैव
नं तेऽभवस्येश भवस्य कारणं विना विनोद बत तर्कयामहे॥
भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि॥३९॥
कृता भवन्ति, अविद्यानिवृत्तौ तु तस्यापि जन्मादयो न भवन्ति। तव तु जन्मादि तद्वत्कथं स्यात्। तत्र हेतुमाहु — अभवस्येति। अविद्याराहित्येनासंसारिण इत्यर्थः। तत्र हेतु सूचयन्तः सम्बोधयन्ति — हे अभयेति। स्वयं भयरहितोऽन्यभयनिवर्तक-श्चोभयथाप्यभयस्तत्सम्बोधनम्। अविद्यानिवारणेन जीवाभयप्रदस्य कथमविद्याधीनत्वं स्यादित्याशयः। तत्र हेतु सूचयन्तः पुनः सम्बोधयन्ति — हे आश्रयेति। अविद्यादिसकलाधारभूतेत्यर्थः। तत्रापि हेतुः — ईशेति। सम्बोधनेन सूचितलोकवज्जन्मप्रतीतेराश्चर्य तव लीलाया इति सूचयन्ति — बतेति॥३९॥
————————————————————————————————————————————
क्लेशस्तु परमानन्दप्राकट्येनैव गच्छतीति भारहानौ जन्मन एव करणत्वम्, नतु किंचित्तव कर्त्तव्यमस्ति। तत्र हेतु – ईशितुरिति। ईशप्राकट्यमेव सर्वानर्थनिवर्त्तकम्। भूमिभारनिराकरणं च तवावश्यकमस्माकं च हितकारि, यतस्तव चरणरूपा भू। सर्वोऽपि स्वचरणभार दूरीकरोति। उपास्ये च दोषाभाव। सर्वेषां हितकारी। एतत्करण चावश्यकम्, यतो हरिस्त्वम्। भगवज्जन्मनोऽलौकिकत्वात् क्लृप्तप्साधनभावात् सर्वात्मकत्वाच्च भगवतोऽसम्भावितमिति दिष्ट्येत्युक्तम्। केचित्तु इदमुदरे समागमनं भूमेर्भारहरणमेव, नतु तव जन्मेत्याहु। अतो भूमावानन्द एव केवलप्रकट इति। अन्यदपि जातमाह — दिष्ट्याकितामिति। देवा अपि भुवनं न स्पृशन्ति, किं पुनर्भगवान् स्पृक्ष्यति? अतोऽसंभावितमपि यद्भविष्यति तद्दिष्ट्येति। सर्वरूपत्वाद्भगवत मनुष्यादिरूपेण भुव स्पृशत्येव, किमाश्चर्यमित्याशङ्क्याह — अकितैरिति। ध्वजवज्राङ्कुशादिचिन्हैरङ्कितैरङ्कितामिति पाठे शङ्कापरिहारार्थं सुशोभनै सर्वलक्षणसम्पन्नै पदै अङ्किता चिन्हिता गां द्रक्ष्याम इति महद्भाग्यमस्माकम्। भूमि पद गृह्णातीत्यपि भाग्यम्। पद छायामपि जनयतीत्यपि पुरुषपदमुद्धृता च भू ब्रह्मणो दुहितेति सानुरागाया भगवति दर्शन दिष्ट्या। अत्र तामित्यनुक्त्वा गामिति यदुक्तवास्तेन पदाङ्किता सती सर्वेषां सकलकामदोग्ध्री भविष्यतीति सूच्यते। अपरं च। पूर्वमियमेव या गोरूपा अश्रुमुखीत्वादियुक्ता दृष्टा, सा परमानन्दरूपपदाङ्किता द्रक्ष्यत इत्यपि महद्भाग्य न इत्यपि गोपदेन ज्ञाप्यते। किंच पदैरेवानुकम्पिता त्वया वा द्या च द्रक्ष्याम। देवानां सर्वोपकारकरणात् अदित्या कुण्डलदानादिना च द्यौरनुकम्पिता।
४ ‘दिष्ट्याङ्कितै’ इति पाठान्तरे पदविशेषण ज्ञेयम्। *अतोऽस्माकमेवभाग्यं यदुभयं द्रक्ष्याम। दर्शनं प्रमाणमाविर्भावं प्रमेयमिति। आविर्भाव समर्थयन्ति — न तेऽभवस्येति। ते अभवस्य जन्मरहितस्य भवस्य जन्मन कारणं विनोदं विना न तर्कयामहे। विनोदो लीला।
प्रस्तुतं प्रार्थयन्ते — मत्स्येति। हे ईश कर्तुमकर्तुमन्यथा कर्तुं समर्थ! अन्यदा यथा मत्स्यादिषु कृतावतारः संस्त्वं नः अस्मान् देवान् त्रिभुवनं त्रिभुवनस्थान् साधुजनाश्च पासि तथाऽधुनापि भुवो भारं हरेत्यन्वयः। एवं परमोपकारिणः परिपूर्णस्य तव नमनव्यतिरेकेण प्रत्युपकारे वयमसमर्था इति सूचयन्तो हे यदूत्तम! ते वन्दनमिति वदन्तः सर्वे प्रणमन्ति। अश्वो हयग्रीवः। राजन्य श्रीरामः। विप्रः परशुरामः। विबुधो वामनः॥४०॥
मत्स्याश्वकच्छपनृसिंहवराहहंस–राजन्यविप्रविबुधेषु कृतावतारः।
त्वं पासि नस्त्रिभुवनं च यथाऽधुनेश भारं भुवो हर यदूत्तम वन्दनं ते॥४०॥
—————————————————————————————————————————————
वे कालस्य वा नोद प्रेरणम्। कालो हि स्थिर सर्वानेव मर्यादया यथासुख करोति सजन्मना नोद्यते अन्यथा क्रियते। विना वि संसारनौकाया वा। अन्यथा संसारनौ पार न गच्छेत्। अस्मिन्नर्थे नते नम्रे शरणागते पुरुषे भवनिवारकस्य यो भवो जन्म तस्य कारणं विना विनोद न तर्कयामह इति सम्बन्धो ज्ञेय। यद्वा, नतो य इभो गजेंद्रस्तस्य वममृत मोक्षो यस्मात्तादृशस्येत्यग्रे पूर्ववत्। तथाच पशुजातीयस्यापि नतिमात्रेण भवनिवारकस्य भवोऽसम्भावित इति तस्य हेतु त तर्कयाम हे इति भाव। नौकारहिता वा ससृतिः तस्या सत्या सर्वप्रेरण तव भवस्य कारणम्। यद्यप्यत्र प्रमाणं नास्ति यथार्थद्रष्टुराप्तस्याभावात् अद्यापि त्वयाप्यनुक्तत्वात्। अत स्वयमेव तर्कयामहे। वस्तुतस्तु लीलाऽपि भवति न वेति सन्देह एव। ननु सर्वस्यापि जीवस्य मदशस्य यथा भव तथा ममापीति, कथमभवस्येत्युच्यते तत्राह — भवो निरोध इति। सर्वस्यापि प्राणिन उत्पत्तिस्थितिप्रलया अविद्यया देहाद्यध्यासेन भवन्ति, स्वतो जीवानां जन्माभावात्। तदपि त्वयि सति भवति, अन्यथा निराधारे जगत्युत्पत्तिर्न स्यात्। तत्रापि त्वय्युदासीने न भवति। अनित्ये न भवति। असमवायित्वे न भवति। आधारसमवाययोरवश्यापेक्षणात्। तव चोत्पत्तौ जगत अनादित्व भज्येत, अलीकत्व च स्यात्। यथा तव भव आकस्मिक एवमेव जगतोऽपि भवेत्। अत अभवे आश्रयरूपे आत्मरूपे सत्ये जीवानामुत्पत्त्यादिर्भवेत्। + एव भगवतो लीलया प्रादुर्भाव स्वरूपनिमित्ताज्ञानं वा। अन्यथा सर्वमेव जगन्नस्यादिति आनन्दाविर्भावो भगवान्निरूपित। स एव साधनमित्याह। मत्स्याश्वेति — यथा पूर्वं नवावतारा जाता एवमयमपि दशम। त्रयो जलजा, त्रयो वनजा, त्रयो लोकजा। मत्स्याश्वकच्छपा, नृसिंहवराहहंसा, राजन्यविप्रविबुधाश्च। तमोरज सत्त्वसमानाऽऽकृतय। अश्वो हयग्रीव। अश्वोऽपि जलज हयग्रीवोऽपि जलज, ‘अप्सु योनिर्वा अश्व’ इति श्रुते। नृसिह काष्ठजत्वाद्वनज। वराह आरण्यप्रकृतिक इति। अक्षजोऽपि बहिर्वायुस्थानत्वादारण्य। राजन्यो रघुनाथ। विप्र परशुराम। विबुधो वामन। तरतमभावात्त्रित्वम्। मत्स्यादश्व उत्तम। अश्वादपि कूर्म, वास्तव्यत्वात्। नृसिंहाद्वराह, भूम्युद्धारपूर्वकहिरण्याक्षमारकत्वात्। ततोऽपि ज्ञानप्रदो हंसो महान्। क्षत्त्रियब्राह्मणदेवेषु तरतमभाव स्पष्ट। एभिर्नवविधै नवविधा अपि रक्षिता। इदानीमेकेनैव नवविधा रक्षणीया। अयमेव भगवान् तत्तज्जात्यनुकाररूपेष्ववतारं कृत्वा पाति। अधुना ततोप्यधिक विज्ञापयन्ति। त्वमेतेषु पूर्वं कृतावतार नास्मान् त्रिभुवन चकाराद्धर्मादिकमपि पासि। तथा अधुना हे ईश सर्वसामर्थ्यरूपेणावतीर्णस्तथापूर्वोक्तत्रय देवत्रैलोक्यधर्मरक्षाभूमेर्भारनिराकरण चाधिकम्। अस्यापि लोके व्यवहार। यदूत्तमेति। प्रत्युपकार। ते वन्दन नमस्कार एव प्रत्युपकार इत्यर्य। एतान्येव भगवतो दश रूपाणि सर्वपुरुषार्थसाधकानि। अत्र दृष्टान्तत्वेन मत्स्याद्युक्तेरय भाव। भूभारभूतासुरराजन्यहननार्थ ह्यवतार। एव सति तै सह युद्धं सम्भाव्यते। तच्च स्नेहातिशयेन भक्तै सोढुमशक्यमतो रूप चेदपौरुष जन्म ते मय्यमावित्यादिना देवकीवद्ब्रह्मादयो माहात्म्यज्ञानवन्तोऽपि भक्तत्वेन भूभारहरणे प्रकारविशेष प्रार्थयन्ति। यावत्स्वस्यैश्वर्य्याद्यप्राकट्येन निगूढत्वेनान्यतो वा शत्रुहननं भवति तावन्न स्वयं युद्धं कार्यमिति। तत्र प्रलयाब्धौ सत्यबव्रतादिभक्ता रक्षणीया। एव
एवं भगवन्तं स्तुत्वा देवकीमाश्वासयन्ति — दिष्ट्येति। भगवान्मातृत्वेन पूज्यत्वं मत्वा स्वयमपि मातृत्वेन सम्बोधयन्ति — हे अम्बेति। यः परः पुमान् पुरुषोत्तमः अंशेन वा राघवावतारेण नोऽस्माकं भवायोद्भवायासीत् स इदानीं साक्षात् पूर्णेनैव रूपेण ते तव कुक्षि गत इति दिष्ट्या भद्रमेव जातमित्यन्वयः।
दि^(१)ष्ट्याऽम्ब ते कुक्षिगतः परः पुमानशेन साक्षाद्भगवान् भवायनः॥
मा भूद्भय भोजपतेर्मुमूर्षोर्गोप्ता यदूनां भविता तवाऽऽत्मजः॥४१॥
कसाद्बिभेमीति चेत्तत्राहुः — मेति। भोजपतेः कसाद्भय माभूत् न कुरु। तत्र हेतुमाहुः — मुमूर्षोरिति। आसन्नमृत्योरित्यर्थः। तथापि यावज्जीवमस्मदपेक्षया
————————————————————————————————————————————
सति पुरुषादिरूपेण रक्षणे क्रियमाणे लोकरीत्या क्लेशमकरादिभयसम्भावनया स्नेहेन भक्तानां क्लेश स्यादिति तदभावाय येन रूपेण जलसञ्चार सुखावहस्तद्रूप जगति हीनजातीयमपि मात्स्यमङ्गीकृत्य रक्षितवास्तथाऽधुनोक्तरीत्येति प्रार्थना। अत एव स्वैश्वर्य्यादिविरुद्धमपि याचकत्वमङ्गीकृत्य भीमेन जरासन्ध मारितवान् नतु स्वयम्। हयग्रीवो ब्रह्मण सत्त्रे प्रादुर्भूत सन्नसुरहननवेदरक्षादिकं कृतवान्। इहापि राजसूये प्रकटो ब्राह्मणसम्माननेन मर्यादा स्थापयित्वा वेदविरुद्धवादिनं चैद्यमनायासेन मारितवान्। कच्छपस्तु ‘मेनेङ्गऽकण्डूयनम्’ इत्यादिवाक्यै सुखसाधनत्वेनैव मन्दर दधार। तद्वदिहापि वीर्यबलाधिक्यजबाहुकण्डूशान्त्यर्थमेव युद्धं कार्यम्, न तु प्रतिभटोपस्थितिमात्रत। तदा त्वन्य एव प्रेरणीय इति प्रार्थना। अतएव यत्र युद्धं कृतं तत्र तथैव कृतमिति ज्ञेयम्। क्रीडार्थं मृगयावत्। अतएव ‘विक्रीडित तज्जगदीशयो परम्’ इति वचनम्। यथाऽमृतदानार्थमेव मन्दरधारण तथेहापि स्वस्वरूपामृतदानार्थमेव गोवर्द्धनोद्धरणम् तेन रक्षा च कृतवान्। नृसिंहस्तु भक्तपितरमपि पूर्वभक्तमपि भक्तरक्षार्थमकस्मात् प्रादुर्भूय मारितवान्। लक्ष्म्यादीनामप्यगम्यो दैत्यत्वेऽपि भक्तमात्रगम्य इत्यपि ज्ञापितवान्। इहापि पाण्डव रक्षार्थं तत्पितामहादीन् भक्तानप्यासुरावेशिनो मारितवान्। तथैव कंसादीनपि। वनवासे पार्थरक्षार्थमकस्मादाविर्भूय शिष्टशाकान्न भक्षयित्वा सर्वं समाहितवान्। वराहस्तु यदुद्धारार्थ प्रवृत्त, स्तत्रैतादृक्पक्षपातवान् येन तन्मात्रविशेषगुणग्राहकेन्द्रियस्यैवाधिष्ठाने प्रकटोऽभवन्नतु नृसिंहादिवत्। इहापि पाण्डवरक्षार्थमागच्छस्तन्मात्रगुणग्राहिविदुरगेह एव स्थितोऽभवत्, न त्वन्यत्र। तथा व्रजस्थानुद्धर्तुं तन्मात्रसम्बन्धिनि स्थले स्वयमाविर्भूय तथा कृतवान्, न तु अन्यत्र स्थित। एवमेव वैदर्भ्युद्धारं कुर्वन् हिरण्याक्षवन्मध्ये मार्गप्रतिबन्धकर्ताररुक्मिणमुपेक्ष्यैव स्वकार्यं कृतवान्, नतु तदैव हतवानग्रे च तथा हतवान्। हसस्तु तत्त्वमुपदिश्य ब्रह्मादिविषादहन्ता। इहापि वेदमर्यादाविरोधिगुरुवधादेर्विमुखस्य तच्चिन्ताविषाद तत्त्वोपदेशेन हतवान्, अन्यथा भूभारहरणं न स्यात्। राजन्यस्तु मज्जनसाधन तारक कृत्वैकभक्तार्थमनेकान् दैत्यानवधीत्, तथेहापि भूमिनिमित्तमनेके मारणीया। एतेनैकस्या भुवो निमित्तमनेकान् कथं वधिष्यामीति शङ्काऽपास्ता। द्वेषादिभावस्यापि तारकत्वं स्पष्टम्॥ विप्रस्तु ब्रह्मवृत्तिरपि घोर क्षात्रमूरीकृत्यासुरराजन्यानवधीत्। इहापि ब्रह्मत्वेन समत्वेऽपि दैत्यवध कार्य एव। विबुधस्तु मातृप्रार्थनयाविर्भूय ब्रह्माद्यशक्य त्रिभुवनहरणं वाङ्मात्रेण कृतवान्। एवमत्र वृकासुरवधे स्पष्टम्। देवकीप्रार्थनयाविर्भूय ब्रह्मादिदुराप स्वानन्दं यादवेभ्यो दत्तवान्। राज्यलिप्सु कंस मारयित्वोग्रसेनाय राज्यं दत्तवान्, नतु स्वयं गृहीतवानिति।
१. एव नमस्कारान्त भगवास्तुत। कंसादिवधस्त्वप्रयोजक। तस्मान्न विशेषेण गणित। प्रसङ्गात्तच्चरित फलरूप निरूपयन् देवकीसान्त्वनमप्याह — दिष्ट्यावेति। हे अम्ब मात! सर्वात्मकस्य भगवतो माता मातैव नृसिंहादिवदकस्मादेवाविर्भावो युक्त यत्ते कुक्षिगत एतद्दिष्ट्या। उक्तमर्थमुपपादयितुमाह — पर पुमानिति। पुरुषोत्तम इत्यर्थ। अशेन तव कुक्ष्यैकदेशेन प्रद्युम्नाशेन पुत्रो वा साक्षाद्भगवानिति ज्ञानक्रियाशव्यावृत्त्यर्थं तवोदरे त्वदर्थं नागत। किंतु भवाय नोऽस्माकमवोद्भवाय तव कुक्षि गत। तर्हि मम का गतिरिति चेत्तत्राह — तव भयमाभून्न भविष्यति। आशसाया प्रथमार्थे छदसि लुङ्ल्ङ्लिट् इति लृङर्थे लुङ्। ‘माङि लुङ्’ इति सूत्रादपि तथा। भोजपते कंसात्। स हि वचनेनैव भीषयति, न तु क्रिया कर्तुं शक्त। वचनं च
स प्रबल एवेत्याशङ्क्याहुः—
सर्वेषां यदूनामयं तवात्मजो गोप्ता रक्षको भविता। किं पुनर्युवयोः स्वस्य वा रक्षणे सन्देहः?॥४१॥ यस्य रूपं यथा यथावत् अनिदमिदं दृश्यं विश्वं तस्माद्विलक्षणं भवति तं पुरुषं सर्वान्तर्यामिणं भगवन्तमित्येवमुक्तप्रकारेणाभिष्टूय स्तुत्वा ब्रह्मेशानौ पुरोधाय अग्रतः कृत्वा देवा दिव स्वर्गप्रति ययुः॥४२॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना। श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये। श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र हरेर्जन्मनिरूपणे। द्वितीयो विवृतोऽध्यायो गर्भवासनिरूपकः॥६॥ ॥छ॥ ॥छ॥ ॥तृतीये श्रीहरेर्जन्म पितृभ्यां संस्तुतिस्तथा॥ गोकुले नयनं तस्य वसुदेवेन वर्ण्यते॥१॥ एव देवानां गमनानन्तरं
श्रीशुक उवाच॥ ॥इ^(१)त्यभिष्टूय पुरुषं यद्रूपमनिदं यथा॥ ब्रह्मेशानौ पुरोधाय देवा प्रतिययुर्दिवम्॥४२॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे जन्मप्रकरणे भगवतो गर्भागमननिरूपणं नाम द्वितीयोऽध्यायः॥२॥
श्रीशुक उवाच॥ ॥अ^(२)थ सर्वगुणोपेतः कालः परमशोभनः॥ यर्ह्येवाजनजन्मर्क्ष शान्तर्क्षग्रहतारकम्॥१॥
भगवतः प्रादुर्भावं निरूपयति — अथेति। अथ ब्रह्मादिगमनानन्तरमित्यर्थः। तेन ब्रह्मादिदेवसान्निध्यात् कालादेर्गुणवत्व जातमितिशङ्का निराकृता भवति। तस्मिन् अजने जनार्दने जायमाने सति यर्हि परमशोभन कालादिर्बभूव तदा देवक्या विष्णुराविरासीदिति सार्द्धाष्टमश्लोकगते-
———————————————————————————————————————————————
तस्योपेक्ष्यम्। यतोऽप मुमूर्षु, मुमूर्षूणां विक्लवा गिरो भवन्ति। ननु वचनमात्रेणैव कथं भयनिवृत्तिस्तत्राह— गोप्ता यदूनां भविता तवात्मज इति। तव रक्षाया क सदेहः? यदूनां सर्वेषामेव तवात्मजो गोप्ता भविष्यति। अनेन स्वरूपकार्यमानुषङ्गिक च कार्यमुक्तम्।
१. उपसंहरति — इतीति। पुरुषमिति स्वतन्त्रतया सर्वकार्यकर्तृत्वमुक्तम्। यद्रूप पूर्वं स्तोत्रे यादृशं रूपं निरूपितम्। अनिद यथैतदुक्तं तथा च न भवति, दैत्यानामपि मुक्तिदानेन हितकर्तृत्वात्। इदमेव भवदपि तथा न भवति प्रकारभेदेन सर्वमेव सत्यं सर्वमसत्यमित्यर्थः। ब्रह्मेशानौ कथंचिदत्रैव स्थास्यत इति शङ्कया तौ पुरोधायग्रे कृत्वा देवा दिव प्रति ययु। प्रतिदिवमिति एकविंशतिस्वर्गा शत स्वर्गाश्चेति मतभेदेन स्वस्वस्वर्गे स स देवो गत इत्यर्थ। ययुरिति मध्ये दैत्यकृतो विघ्न कोऽपि न जात इति ‘या प्रापणे’ इति धातुना सूचितम्। गर्भस्तुतिव्याख्या सुबोधिनीस्था टिप्पणेऽक्षरशो गृहीतास्तीति बुधैरवगन्तव्यम्।
२. “जननं वर्णनं स्तोत्रे सान्त्वनं गमनं तथा॥ षड्विधो भगवानत्र तृतीये विनिरूप्यते॥१॥ रूपान्तरस्वीकरणमध्यायार्थ इहोदित॥ प्रतीयमानो भगवानिति षड्विध उच्यते॥२॥ अष्टभिश्च चतुर्भिर्वै दशभिश्चाष्टभिस्तथा॥ चतुर्दशभिरष्टाभि षडर्था क्रमतोऽत्र हि॥३॥ ऐश्वर्यमष्टधा यस्मादर्धमात्रा हरौ परा॥ सार्द्धाष्टभिरत प्रोक्तमैश्वर्यं सर्वमङ्गलम्॥४॥ अधिकारिणि काले वै अनन्ता भगवद्गुणा॥ खंडशस्तेऽवयवश सर्वेषां फलबोधका॥५॥ मूले समागत काल स्वकीयान् सकलान् गुणान्॥ हरौ प्रदर्शनार्थाय प्रकटीकृतवान् यथा॥६॥ देशोऽपि त्रिविधश्चैव भूतान्यपि तथैव च”॥ इति सुबोधिनीकारिका।
नान्वयः। “भगवत्प्रादुर्भावे न कालादिशोभनत्व हेतुः, तस्य स्वातन्त्र्येण कालादिपारतन्त्र्याभावात्। किन्तु तत्प्रादुर्भावसान्निध्यमेव कालादिशोभनत्वे हेतुः” इति सूचयितु जायमानेऽजने तस्मिन्नित्याद्युक्तम्। तस्मिन् स्वतन्त्रत्वेन प्रसिद्धे कालकर्मादिवशवर्तिजन्मरहिते भगवति। तत्र हेतुमाह — जनार्दने इति। जनानामविद्यामर्दयतीति तथा तस्मिन् यो हि स्वाश्रितजनाना जन्मादिहेतूनविद्याकालकर्मादीन् निवर्तयति स स्वयं कथमविद्या दिवशवर्तिजन्मवान् स्यादिति भावः। कालस्य शोभनत्वे हेतुमाह — सर्वगुणोपेत इति। तानेव गुणानाह — यर्ह्येवेति। अजनो भगवास्तस्माज्जन्म यस्य, तस्य ब्रह्मणः ऋक्ष रोहिणी नक्षत्र यर्ह्येव बभूव तदा देवक्या विष्णुराविरासीत्। एवमग्रेऽपि सर्वत्र यर्ह्येवेत्यनुषङ्गेणान्वयो बोध्यः। तस्य नक्षत्रस्य सहायकानामानुगुण्यमाह — शान्तेति। शान्तानि ऋक्षाणि अश्विन्यादीनि, ग्रहा आदित्यादयः, तारकाः अन्यानि नक्षत्राणि यस्मिंस्तत्। तत्रर्क्षग्रहाणां शान्तत्वं दुष्टस्थानस्थितिराहित्यम्, तारकाणां तूत्पातसूचनराहित्यम्॥१॥ एव कालगुणानुक्त्वा देशगुणानाह — दिश इति। देशस्त्रिविधः। तत्राधोदेशो भूमिः, उपरि गगनम्, परितो दिश इति। तत्र दिशः प्रसेदुः निर्मला जाताः। निर्मलानामुडुगणानां नक्षत्रादीनामुदयो यस्मिंस्तथाभूत यर्हि
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम्॥ मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा॥२॥
नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः॥ द्विजालिकुलसन्नादस्तबका वनराजयः॥३॥
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः॥ अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत॥४॥
गगन बभूव। मङ्गलानि पुत्रजन्मादीनि भूयिष्ठानि येषु तथाभूताः पुरादयो यस्या तथाभूता यर्हि मही बभूव। तत्र पुराणि हट्टादिमन्ति, तद्रहिता ग्रामाः गोगोपनिवासस्थान व्रजः, आकरः सुवर्णमण्याद्युत्पत्तिस्थानम्॥२॥ अथ जलगुणानाह — नद्य इति। प्रसन्नानि पङ्करहितानि सलिलानि यासा तथाभूता यर्हि नद्यो जाताः। एवं जङ्गमजलगुणमुक्त्वा स्थावरजलगुणमाह— ह्रदा इति। जलरुहाणा कमलादीना श्रीः शोभा येषु तथाभूता ह्रदा जाताः। भूमेर्गुण गन्धातिशय द्योतयन्नाह — द्विजेति। द्विजानां पक्षिणामलीनां भ्रमराणां च कुलानां सङ्घानां गन्धमत्तानां सन्नादो मनोहरशब्दो येषु ते स्तबका पुष्पगुच्छाः यासां तास्तथाभूता वनराजयः वृक्षपङ्क्तयो यर्हि बभूवुः। यद्यपि वर्षाकाले जलानां स्वच्छता रात्रौ कमलशोभा पक्ष्यादिशब्दश्च न सम्भवति, तथापि भगवत्प्रादुर्भावमहिम्ना जातमिति बोध्यम्॥३॥ वायुगुणानाह — ववाविति। सुखस्पर्श इति शीतत्व मन्दत्व चोक्तम्। पुण्यगन्धवह इति सुगन्धित्वम्। शुचिः यमुनाजलसम्बन्धी। तेजसो गुणमाह — अग्नय इति। द्विजातीनां ब्राह्मणादीनां श्रौतस्मार्तकर्माङ्गभूताः अग्नयश्च पूर्वं शान्तास्तत्र तस्मिन् समये समिन्धत। अडागमाभाव आर्षः। सम्यक् होमा बभूवुरित्यर्थः॥४॥
साधूनां मनांसि प्रसन्नान्यासन्। के ते साधव इत्यपेक्षायामाह — असुरद्रुहामिति। असुरकर्तृकद्रोहवतामित्यर्थः। तेन भगवद्भक्तानां प्रह्लादादीनामपि सङ्ग्रहः। असुराणां मनःप्रसादाभावः सूचितः। दिवि स्वर्गे दुन्दुभयः स्वयमवादिता अपि नेदुर्दध्वनुः। तेन भगवन्माहात्म्याज्जडानामपि चैतन्यसादृश्यं सूचितम्। तथोक्त हरिवंशे — ‘अनाहता दुन्दुभयो देवानां प्राणुदंस्तदा’ इति॥५॥ तदा तस्मिन् समये किन्नरा गन्धर्वाश्च भगवद्गुणाञ्जगुः। सिद्धाश्चारणाश्च भगवन्तं तुष्टुवुः। अप्सरोभिः सम सह विद्याधर्यश्च ननृतुः॥६॥ मुनयः सुष्ठु निर्मलानि मनांसि मुमुचुः, भगवद्ध्यानपराणि कृतवन्तः। देवास्तु सुमनांसि पुष्पाणि मुमुचुः ववृषुः। अतएवमन्वयमभिप्रेत्यैव पुष्पादिपद विहायभयार्थकसुमनःपदप्रयोगः। यद्वा मुनयस्तुष्टुवुरित्यनुषङ्गः। मुदा हर्षेणान्विताः पूर्णा इति मुनीना दैवानां च विशेषणम्। अनुसागर सागरगर्जनसहित यथा भवति तथा जलधरा मेघा मन्द मन्द जगर्जुः गम्भीरशब्दं कृतवन्तः। तथोक्तं विष्णुपुराणे — ‘सिन्धवो निजशब्देन वाद्य चक्रुर्मनोहरम्’ इति। तम उद्भूते तमसा व्याप्ते
मनास्यासन् प्रसन्नानि साधूनामसुरद्रुहाम्॥ जायमानेऽजने तस्मिन्नेदुर्दुन्दुभयो दिवि॥५॥
जगु किन्नरगन्धर्वास्तुष्टुवु सिद्धचारणाः॥ विद्याधर्यश्च ननृतुरप्सरोभि सम तदा॥६॥
मुमुचुर्मुनयो देवा सुमनांसि मुदान्विता॥ मन्द मन्द जलधरा जगर्जुरनुसागरम्॥
निशीथे तम उद्भूते जायमाने जनार्दने॥७॥ देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशय॥
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः॥८॥
निशीथे अर्धरात्रे। नच “गगन निर्मलोडुगणोदयम्, दिश प्रसेदुः” इत्युक्तिविरोधः शङ्कनीयः। सर्वथा मेघाद्यभावे कालगुणवैपरीत्येन भयसूचकत्व सर्वगुणोपेत इत्युक्तिविरोधश्च स्यादतस्तदनुकूला मेघादयः सन्तीति ज्ञेयम्॥७॥ देवरूपिण्यामिति। देवमात्रदित्यवतारभूतायामित्यनेन वसुदेवभार्यासु बहुषु सतीषु देवक्यामेव किमिति प्रादुरभूदित्याशङ्का निरस्ता, तस्या एव तदवतारयोग्यत्वात्। एतदेव दृष्टान्तेन स्पष्टयति — यथेति। यथाऽन्यासु दिक्षु सतीष्वपि प्राच्या दिश्येवेन्दुः प्रादुर्भवति योग्यत्वात्, तथाऽन्यासु सतीष्वपि देवक्यामेव भगवानाविरासीदित्यर्थः। इव शब्दस्तथार्थः। न्यूनकलोऽपि चन्द्रः प्रादुर्भवतीति दृष्टान्तेन भगवतोऽप्यशावतारशङ्का स्यात्तन्निवृत्त्या भगवतः पूर्णत्वज्ञापनार्थमाह— पुष्कल इति। पूर्ण इत्यर्थः। विष्णुशब्दस्य व्यापकवस्तुवाचकत्वात्तद्वाच्यस्य भगवतो व्यापकत्वमाह — सर्वगुहाशय इति। सर्वेषां प्राणिनां गुहास्वन्त करणेषु शेते नियामकतया तिष्ठतीति तथेत्यर्थ॥८॥
एव भगवतः प्रादुर्भाव निरूप्य प्रादुर्भूत त वर्णयति — तमिति द्वाभ्याम्। तं पुरुषोत्तमत्वेन शास्त्रे प्रसिद्धं, अद्भुतं सर्वाश्चर्यरूप, बालक वसुदेव ऐक्षत अपश्यदित्यन्वयः। अम्बुजे इव ईक्षणे नेत्रे यस्य तम्। चत्वारो भुजा यस्य तम्। शङ्खगदादीन्युद्यतानि उद्धृतानि आयुधानि येन तम्। आदिशब्देन चक्रपद्मयोः सङ्ग्रहः। ‘विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्प्पहन्ता’ इति वाक्यात् शङ्खस्याप्यायुधत्वम्। कमलं तु क्रीडनकम्।
त^(१)मद्भुत बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम्॥
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम्॥९॥
श्रीवत्स लक्ष्म चिह्न वक्षसि रोमावर्तविशेषो यस्य तम्। गलेन शोभतेऽसौ गलशोभी स कौस्तुभो यस्य तम्। पीते अम्बरे यस्य तम्। सान्द्रो हि स्निग्धो यो नीलपयोदो मेघस्तद्वत् सौभगं सौन्दर्यं वर्णो यस्य॥९॥
——————————————————————————————————————————————————
१. एव भगवत प्रादुर्भावमैश्वर्येण निरूप्य वीर्यनिरूपणार्थं भगवन्तमनुवर्णयति — तमद्भुतमिति द्वाभ्याम्। अत्र निवृत्ता सर्वे श्रोतारो बहि संवेदनरहिता जाता इति ज्ञापयितुं पुन शुकोक्तिकथनम्। “दशलीलानिरूप्योऽयं पुरुषो द्वादशात्मक। द्विगुणो भगवानत्र प्रादुर्भूत इतीर्यते॥ सर्वेषां प्राणरूपश्च ऐहिक पारलौकिक। ज्ञानक्रियोभययुतो दशलीलाप्रवर्त्तक॥ सगुण नवधा भक्ति निर्गुणा च प्रवर्त्तयन्। काण्डद्वयार्थ तनुते सोऽत्र द्वादशधा मत॥ सर्वप्रकाशकश्चैव कालात्मेन्द्रियनायक। आत्मा कार्य च भूतानि अह तत्त्वमुभौ त्रय॥ अक्षर भगवाश्चेति द्वादशात्मा हरि स्वयम्”॥ तत्र प्रथम दशधा स्वरूपलक्षणानि वर्णयति — तमिति। त प्रसिद्ध लोकवेदयो ‘अतोऽस्मि लोके वेदे च प्रथित पुरुषोत्तम’ इति। आश्रयभूत सर्व मूलभूतत्वात् सृष्टिरूप इति केचित्। अद्भुतमिति। अलौकिकमेव ह्यद्भुतम्, न तु लोकवदसिद्धम्। इदं हि प्रमेयबलं प्रमाणादतिरिक्तम्। तदेव हि वीर्यं भवति यलौकिकै वैदिकैश्चाप्युल्लङ्घ्यमाश्चर्यं तदैव भवति। अनेन तद्रूप दृष्टमेवोपपद्यते। नतु स्मर्तुं वर्णयितुं वा शक्यते इत्युक्तम्। एव सर्वैर्वर्णयितुं शक्यमशक्यं चोक्तं पदद्वयेन। बालकमिति। बाले बाले को ब्रह्मांडविग्रहो यस्य। अद्भुतश्च बालको न स्वरूपतो वक्तुं शक्य। बालानामपि क सुख यस्मादिति। बाल को ब्रह्मा यस्य। बलसम्बन्धिनो ये बाला तेषां क शिरोभूतम्। एवमद्भुतपराक्रमत्वेन यशो निरूपितम्। अलौकिकशोभा निरूपयति — अम्बुजेक्षणमिति। अम्बुजतुल्ये कमलतुल्ये ईक्षणे यस्य। अम्बुजा वा लक्ष्मी ईक्षणे यस्य। अम्बुजौ वा सूर्याचन्द्रमसावीक्षणे यस्य। अम्बुजे वा पञ्चाग्निविद्यया साधितरूपवति ईक्षणं ज्ञानं यस्य। अम्बुजाया इ काम तदेव क्षणं सुखं यस्य। अम्बुजे ब्रह्मांडे वा पालनार्थमीक्षणं यस्य। क्षणं सुखं यस्य वा, भोगायतनत्वात्। अम्बुजाया पृथिव्यामेव ईक्षणं यस्य, नान्यत्र। एवमनेकधा भगवत श्रीर्निरूपितव्या ज्ञानात्मिका। मध्ये निविष्टभ्रमरमेव अंबुजं नेत्रतुल्यं भवति निश्चलश्च भ्रमरस्तेन मकरन्दपूरस्तत्र निरूपित। दयामृतादयोऽत्र मकरन्दा तत्सम्बन्धे सर्वोऽपि मधुपो भवतीति निरूपयितु प्राकृतैरप्युपमीयते। यथा वा जलेऽद्भुतरूप भवति कमलमेव सपूर्णेपि रूपेऽद्भुतरूपे नेत्रे भवत। अनेनाद्भुता ज्ञानशक्तिर्निरूपिता। क्रियाशक्तिं निरूपयन् चतुर्विधमपि ज्ञानमाह — चतुर्भुजमिति। चत्वारो भुजा क्रियाशक्तयो यस्य। चतुर्विधकार्यार्थं हि भगवदवतार, तान्येव कार्याणि चतुर्भुजरूपेणोच्यन्ते। चत्त्वारो वा पुरुषार्था धर्मादय भूतानि वा दिक्पाला वा भुजा भुजेषु वा यस्य। अनेन द्विगुण पुरुष उक्त, लौकिकोऽलौकिकश्च। “धातको रक्षकौ चोक्तौ विरोधेऽप्यतिसङ्कटे। वेदोक्त द्विविधं ज्ञानं भक्तिर्भगवतस्तथा”॥ शङ्खगदाद्युदायुधमिति वैराग्यम्। शङ्ख तदादिश्च गदा तदादिश्च। “अपा तत्त्व दरवरम्, भुवनात्मकं कमलम्, प्राणात्मको वायु गदा, तेजस्तत्व सुदर्शनम्"। एव शङ्खपद्मगदाचक्राणि क्रमेण निरूपितानि। “मधुसूदनो माधवश्च त्रिवृन्नारायणस्तथा"॥ शंखगदादीन्येव उद्गतान्यायुधानि यस्य। इन्द्रिय देहप्राणान्त करणैरेव सर्वमारणमित्याकाशलक्षणम्। शरीरमन्यानि महाभूतान्यायुधानि उदायुधानि वा। तत्रैव सर्वान् मज्जयन्ति, नतु छित्वापि त्यजन्ति। एव षड्गुणो भगवान्निरूपित। पुनरैश्वर्यादयो वैदिका उच्यन्ते। श्रीवत्सलक्ष्मीत्यादि।
महार्हममूल्यं यद्वैदूर्यम्, तन्मयानि यानि किरीटकुण्डलानि, तेषां त्विषा प्रभया परिष्वक्तानि अनुविद्धानि सहस्रमपरिमितानि कुन्तलानि केशा यस्य
म^(१)हार्हवैदूर्यकिरीटकुण्डल-त्विषा परिष्वक्तसहस्रकुन्तलम्॥
उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमान वसुदेव ऐक्षत॥१०॥
तम्। उद्दामैरत्युत्कृष्टैः काञ्च्यादिभिर्विरोचमानमतिशयेन शोभमानम्। तत्र काञ्ची कटिसूत्रम्, अङ्गदानि बाहुभूषणानि, कङ्कणानि करभूषणानि,आदिपदेन भूषणान्तराणि सर्वाणि सङ्गृहीतानि॥१०॥
——————————————————————————————————————————————
श्रीवत्सो लक्ष्म यस्य, श्रीवत्सा यस्य। यल्लक्ष्म्या जनक तद्भगवतश्चिह्न व्यावर्त्तकम्। सा हि ब्रह्मानन्दो भवति। तस्या मूल ब्रह्मैव, यत् सर्ववेदप्रतिपाद्यम्। स भगवत असाधारणो धर्म। सर्वात्मकस्य भगवत जगद्ब्रह्मकालादिलक्षणधर्मवत ब्रह्म हि मुख्य लक्षण भवति। अत एव हि सर्वब्रह्माधारवतो भृगो पदं तत्र प्रतिष्ठित भवति, स्वाश्रयत्वात्। लक्ष्म्याश्च स जनको भवति ‘भृगो ख्यात्या समुत्पन्नाः श्री पूर्वम्’ इति वाक्यात्। ब्रह्मलक्षणत्वेनैवैश्वर्यं निरूपितम्। वीर्यं निरूपयन् कयाचिदवस्थया अवस्थित ब्रह्म जीवाख्य लक्षणान्तरत्वेनाह — गलशोभिकौस्तुभमिति। गले शोभायुक्त कौस्तुभो यस्य। स हि सर्वजीवाना स्वरूपभूत ‘चैत्यस्य तत्त्वम्’ इति वाक्यात्। क्रियाशक्तेर्ज्ञानशक्तिरुत्तमेति। मुक्तजीवानां सरस्वतीस्थानप्रापणार्थं कण्ठे कौस्तुभस्थापनम्। जीवानामुभयविधत्वज्ञापनाय मध्ये स्थापनम्। केचन क्रियानिष्ठा केचन ज्ञाननिष्ठा इति। अत एव सर्वाङ्गवर्णनाया कौस्तुभो मणिरुभयत्र निरूपित। ‘कण्ठ च कौस्तुभमणेरधिभूषणार्थंचैत्यस्य तत्त्वममल मणिमस्य कंठे’ इति च। अत एव शोभा द्विविधा, क्रियाकृता ज्ञानकृता च। जीवस्तूभयधर्मयुत इति शोभायुक्त उक्त। एव ब्रह्मद्वयसम्बन्ध भगवति निरूप्य जीवाना तथात्वहेतुभूता माया भगवत प्रदेशविशेषावरिकाम। पीतांबर निरूपयति—
पीतमंबरं यस्येति। आकाशतनो रविकरसम्बन्ध एव शोभाहेतुर्भवति। पीतत्व तामसराजससम्बन्धात्। अन्यथा त्रिविध मे रूपमिति पीतत्व नोपपद्येत यदग्ने रोहित रूप तेजसस्तद्रूप यत् शुक्ल तदपा यत् क्रष्ट्य तदन्नस्य’ इति श्रुते। व्यामोहिका तु माया तथैव भवति लयविक्षेपात्मिका। प्रभा वर्णयति—
सान्द्रपयोदसौभगामिति। सान्द्रो हि स्निग्धो नील पयोदो मेघ। परमानन्दस्य नीलरूपत्वे प्रकारचतुष्टय पूर्व निरूपितम्। आकाशकालभूमिवैकुण्ठैस्तस्य धर्मा इदानीं निरूप्यन्ते। यस्तु स्वकाले सर्वानन्ददायी अन्नोत्पादक तापनाशकश्च स सान्द्र पयोद। एवमेव भगवानपि पृथिव्या स्वर्गस्य धर्मस्य भक्तानां च सर्वानिष्टनिवृत्तिपूर्वकसर्वेष्टकर्त्ता। सर्वत्र पूर्णगुणोऽपि बहूपमोभूदिति प्राकृतोपमानदोष, अन्यथा बोधनं न सङ्गच्छेत। स्निग्धप्रावृट्घनश्याम इत्यर्थ। अनेन कान्तिलक्षणा श्रीर्निरूपितेति सुबोधिन्याम्।
१ एव मूलभूते ब्रह्मणि स्वयं स्थित्वा स्वाशान् जीवान् कृतार्थान् कृत्वा भूमेष्ठान् जीवान् व्यामोहेन स्वरूपज्ञानरहितान् विधाय तेभ्यश्चतुर्विधपुरुषार्थान् प्रयच्छतीत्युक्तम्। तत्र ज्ञानक्रिययो प्रकारभेदा सन्तीति ज्ञापयितुं सर्वशास्त्ररूपाणि भगवदाभरणान्यनुवर्ण्यन्ते—
ज्ञानवैराग्यरूपेण महार्हेति। महानर्हो मूल्यं यस्य तादृशवैदूर्ययुक्त किरीट कुण्डले च तेषां त्विषा कान्त्या परिष्वक्ता आलिंगिता सहस्र कुन्तला यस्य। भगवन्मुखनिरीक्षका शास्त्राभिज्ञा जीवा भगवन्मुखामोदपानरता षट्पदा इव भक्तौ परितश्चकासति तेषा वेदा साख्ययोगौ च शोभाजनका भवन्ति। वेदसांख्ययोगानां प्राप्तिश्च सर्वलोकप्रसिद्धा गुरोरेव भवतीति महार्हवैदूर्यरूपेण निरूपित। वेदे काण्डद्वितीय योगोऽपि साधनफलरूपो द्विविध। साङ्ख्यमपि न्यासज्ञानभेदेन द्विविधम्। एव षट्शास्त्राणि निरूपितानि भवन्ति तान्येव पदानि त्रयाणामपि भेदा सहस्र सन्तीति ज्ञापयितुं कुन्तलानां सङ्ख्या निरूपिता। लौकिकज्ञानविस्मरणार्थं परिष्वङ्गोनिरूपित। एव लोके ज्ञानं निरूप्य क्रिया निरूपयति—
उद्दामेति। कर्माण्यनन्तान्येव, तथापि त्रिविधानि निरूप्यन्ते। काच्यङ्गदकङ्कणरूपाणि तम सत्वरजोरूपाणि एतानि त्रीणि चेदादिभूतानि स्वसजातीयानि
स आनकदुन्दुभिर्वसुदेवस्तदा हरिं सुतं विलोक्य विस्मयेनाश्चर्येण उत्फुल्ले विकसिते विलोचने यस्य सः। कृष्णावतारनिमित्तः कर्तव्यो य उत्सवस्तत्र सम्भ्रमस्त्वरा यस्य सः। मुदा हर्षेण आप्नुतः व्याप्तः सन् द्विजेभ्यो ब्राह्मणेभ्यो गवामयुत दशसहस्रमस्पृशत्, कंसनिगृहीतत्वेन तदा दानस्याशक्यत्वात् मनसा दानं सङ्कल्पितवानित्यर्थः॥११॥ अथ गोदानसङ्कल्पानन्तर नताङ्गः कृतदण्डवत्प्रणामः ततश्चोत्थाय कृताञ्जलिः सन्नेनमस्तौदित्यन्वयः
स^(१) विस्मयोत्फुल्लविलोचनो हरिं सुत विलोक्यानकदुन्दुभिस्तदा॥ कृष्णावतारोत्सवसम्भ्रमोऽस्पृशन्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम्॥११॥
अथै28नमस्तौदवधार्य पूरुषं पर नताङ्गः कृतधीः कृताञ्जलिः। स्वरोचिषा भारत सूतिकागृह विरोचयन्तं गतभीः प्रभाववित्॥१२॥
ननु पुत्रे जाते जातकर्मादिसंस्कारः कर्तव्यो, न तु तत्स्तुतिरित्याशङ्क्यह — पर पुरुषमवधार्य निश्चित्येति। नहि तत्र परमेश्वरत्वनिश्चये प्राकृतवत् संस्कार उचित इत्याशयः। तथाऽवधारणे हेतुमाह — स्वरोचिषा स्वप्रकाशेन सूतिकागृहं विरोचयन्तमिति। एव प्रका-
———————————————————————————————————————————
बहून्येव जनयिष्यन्ति। लोके काञ्ची सदामा भवति, इयं तुद्दामा दामरहिता हि सा प्रचुरापि वैदिकी कृतिर्न लोकानुसारिणी। भूमौ मायाव्याप्तानामेव तत्राधिकार इति पीताम्बरोपरि काञ्ची तिष्ठति। लौकिकानि तानि व्यावर्तयितु लौकिकसूत्राभाव उक्त। उत्कृष्टानि वा लौकिकानि तत्र साधनानि निरूपितानि। अङ्गदानि बाहुमध्ये तिष्ठन्ति। अङ्ग द्यति खण्डयतीति राजस तद्भवति सात्त्विकराजसयोर्विभागहेतुत्वात्। आदिशब्देन मुद्रिका अङ्गदस्थानीयान्यन्यान्याभरणानि क्षुद्रघण्टिकानूपुरादीनि च निरूप्यन्ते। तै सर्वैरेव धर्ममार्गवर्तिभिर्भगवत्संबन्धिभिर्विरोचमानो भगवान् भवति। ‘वेदे रामायणे चैव पुराणे भारते तथा॥ आदावन्ते तथा मध्ये हरि सर्वत्र गीयते’ इति। ननुएतादृशो भगवानिति किमर्थमुच्यते तत्राह — वसुदेव ऐक्षतेति। पूर्वोक्तानां धर्माणां लौकिकत्वमलौकिकत्वं च सम्भवति। यदि वसुदेवो न ज्ञास्यति तदा लौकिकान्येवैतानीति मस्यते। अथ ज्ञास्यति तदोक्तव्याख्यानमुभयार्थ तादृशधर्मयुक्त दृष्टवानिति शुक आह। एतत् ज्ञानं स्तोत्रे स्पष्ट भविष्यति सुबोधिन्याम्।
१. एवं भगवन्तं दृष्ट्वा शुद्धसत्वात्मको वसुदेव क्रिया ज्ञानं च प्रकटीकृतवानित्याह — द्वाभ्याम्। दानं क्रियास्वरूपज्ञानबोधकं स्तोत्रम्। कर्माण्यधिकारचतुष्टय श्रद्धा चाङ्गम्। अर्थी विद्वान् समर्थ शास्त्रेणापर्युदस्तश्च। इदं च कर्म नैमित्तिक तस्यापेक्षाज्ञापको हर्षः स चासाधारण एव भगवन्निष्ठो भवति। तदाह— विस्मयोत्फुल्लविलोचन इति। एतत्सर्वपरिज्ञाने। स इति पूर्वोक्तो वसुदेवो हेतु। अलभ्यलाभाद्विस्मय स विस्मयोन्त प्रविष्ट उत्फुल्ले विलोचने करोति। पूर्वं हरिसुतो भविष्यतीति श्रुतम्। इदानीं हरि सुत विलोक्यानेन विधत्ता उक्ता। निमित्तज्ञानेनैव नैमित्तिकमपि ज्ञानकरणात् स्पष्ट भविष्यति। आनकदुन्दुभिरिति सामर्थ्यात्। असामर्थे आनका दुन्दुभयश्च कथं नेदु। कृष्णस्यावतारे य उत्सवः मनसो विलास तस्मिन् जाते सम्यक् भ्रमो यस्य। तादृशश्च भगवच्छास्त्रे स्मृतिशास्त्रे चोत्सवाविष्ट तादृशे कर्मणि शास्त्रेणापर्युदस्त। पुत्रस्य सर्वलक्षणसम्पत्तावेव तथाधिकार इति कृष्णपदम्। मुदेति हर्ष स्नेहात्मक इति भक्तिसूचक। गवामयुत द्विजेभ्य अस्पृशत्। ब्राह्मणानुद्दिश्य दशसहस्रं गावो दत्ता। ननु स्नात्वागावो देया, कपमेवमेव संकल्प कृतवानित्याशक्याह — मुदा प्लुत इति। हर्षजलेनैव स्नातवानित्यर्थ इति सुबोधिनी।
शकत्वेऽपि कलुषितान्तःकरणस्यैव निश्चयो न सम्भवतीत्याशङ्क्याह — कृतधीरिति। भगवद्भक्त्या निर्मलीकृतबुद्धिरित्यर्थः। ननु कंसभयव्याकुलस्य कथं स्तुतिकरणं सम्भवतीत्याशङ्क्याह — गतभीरिति। गता निवृत्ता भीर्भय यस्य सः। तत्र हेतुमाह — प्रभावविदिति। स्वभक्तप्रतिपक्षिदुष्टविनाशकरूपभगवत्प्रभाव वेत्तीति तथा॥१२॥ तत्कृता भगवत्स्तुतिमेव दर्शयति — विदितोऽसीत्यादिना। भवान् त्वं मया विदितोऽसि। कथभूतो विदितोऽस्मीत्यत आह — प्रकृतेः परः। केवलश्चासावनुभवश्चानन्दश्च तावेव स्वरूप यस्य स ज्ञानानन्दैकस्वरूपः, अतएव पुरुषः पुरुषोत्तम इति। एवभूतस्य तव शाब्दमपि ज्ञानं दुर्लभम्, मम तु त्वत्कृपया साक्षात्कारोऽपि जात इत्याशयेनाह — साक्षादिति। तस्य दुर्लभत्वे हेतुमाह — सर्वेति। सर्वेषां प्राणिनां
वसुदेव उवाच॥ विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः॥ केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक्॥१३॥ स एव स्वप्रकृत्येद सृष्ट्वाऽग्रे त्रिगुणात्मकम्॥ तदनु त्व ह्यप्रविष्टः प्रविष्ट इव भाव्यसे॥१४॥
बुद्धीः पश्यतीति सर्वबुद्धिदृक्। नहि सर्वसाक्षिणः साक्षात्कारस्तत्कृपां विना सम्भवतीति भाव॥१३॥ ननु देवकीजठरप्रविष्टस्य मम कथं पुरुषोत्तमत्वमित्याशङ्क्य सर्वोपादानत्वेन सर्वस्मिन् जगति प्रविष्टस्यापि तव क्षतिर्नास्ति, किं पुनर्वक्तव्य देवकीगर्भप्रवेशे क्षतिर्नास्तीति इत्याशयेनाह—
स इति। स सच्चिदानन्दस्वरूप एव त्वमग्रे सृष्ट्यादौ स्वशक्तिरूपया प्रकृत्या त्रिगुणात्मकमिदं विश्वं सृष्ट्वा तदनु ततः पश्चात् अप्रविष्टोऽपि प्रविष्ट इव भाव्यसे ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुत्या निरूप्यसे इत्यर्थः। हीत्यप्यर्थे॥१४॥
————————————————————————————————————————
तज्ज्ञान स्वस्य वर्त्तत इति ज्ञापयन् भगवन्तं स्तौतीत्याह — अथैनमिति। अथ कर्मसमाप्तिविधाय तदनन्तरमेन पुत्रत्वेनाविर्भूत भगवन्तमस्तौत्। स्तोत्रमुत्कृष्टे कर्तव्यमिति कथं पुत्रे स्तोत्रमित्याशङ्क्याहअवधार्य पूरुष परमिति। पूर्वोक्तवर्णनप्रकारेण पर पुरुष पुरुषोत्तम एवायमित्यवधार्य अभिनन्दनात्मकमपि स्तोत्रं भवतीति तद्व्युदासार्थ नताङ्ग नतमङ्ग यस्य, नमस्कार कृत्वेत्यर्थ। यो भगवान् जातो यादृशस्त तथैव ज्ञात्वा स्तोत्रमुचितमन्यथा चेत्प्रतिपद्यते तदा अयुक्तमिति। तद्व्युदासार्थमाह — कृतधीरिति। यद्यपि पूर्वं पुरुषोत्तम आविर्भाविष्यतीति ज्ञानं न स्थितं तथापि प्रदर्शितैर्भगवतोऽवयवादिभिः कृता धीर्यस्य। समानयोरपि तथात्व सम्भवतीति तद्व्युदासार्थं कृताञ्जलिरिति। अञ्जलिर्महत एव क्रियते। स्तोत्रं कायवाङ्मनोभि कर्तव्यम्। तत्र कृताञ्जलिरिति स्तोत्रे कायस्थिति कृतधीरिति मनस्तोत्रं वाचनिकम्। ननु स्तोत्रमुच्चै कर्तव्यम्, तथा सति प्राहरिकाणा जागरण भवेदित्याशक्य कसभय तस्य नास्तीत्याह — गतभीरिति। तत्र हेतु प्रभावविदिति। भगवत कालादिनियमन जानातीति प्रभाववित्। ननु विद्यमानमपि सामर्थ्यं न प्रकटयेच्चेत् प्रमाणसिद्ध वा शालग्रामादिवत् सामर्थ्यं स्यात् तदा विपरीत भवेदित्याशक्य प्रकटतेज पुञ्जेन प्रकटमेव सामर्थ्यं तस्येत्याह — स्वरोचिषा स्वस्वरूपकान्त्या सूतिकागृह विरोचयन्तम्। कोटिमणितेजसा यथा गृहं प्रकाशितं भवति तथा प्रकाशयन्तम्। भारतेति सम्बोधनं विश्वासार्थम्। “द्वादशात्मा हरिज्ञेयस्त्रिधा च नवधा तथा। नवधा वैदिक प्रोक्तस्त्रिधा लौकिक उच्यते॥ यज्ञस्तु पञ्चधा प्रोक्तश्चतुर्द्धा भगवानिति। पञ्चात्मकश्चतुर्मूर्तिस्तन्त्रवेदेन सस्मितम्॥ लौकिकस्त्रिगुण प्रोक्त स्मृतिश्चैव हि लौकिकी। नवधा वसुदेवोऽस्तौत् त्रिधा चैव हि देवकी॥ एकेन प्रार्थन पूर्व द्वाभ्या चैव तथापरम्। दशभिः पञ्चभिश्चैव निरूप्येते स्तुती उभे॥ शास्त्रतो भगवानेव प्रतीत्यापि दृढीकृत। बाधक त्वन्यथा ज्ञानमज्ञान चापि हेतुत" इति सुबोधिनी।
अत्र दृष्टान्तमाह— यथेति। यथेमेऽविकृता भावा महदादयस्तथेत्यर्थः। एतदेव विवृणोति — ते इति। ते महदहङ्कारशब्दादिपञ्च, तन्मात्राः सप्त, विकृतैः पृथिव्यादिपञ्चमहाभूतानि एकादशेन्द्रियाणि चेत्येवं षोडशभि सह सन्निपत्य मिलित्वा विराज ब्रह्माण्ड जनयन्ति। सन्निपतने हेतुमाह — नानेति। यतः पृथग्भूता सन्तो नानावीर्याः विरुद्धनानास्वभावा विशिष्टकार्यजनने समर्थाः न भवनीत्यर्थः। हिशब्दोऽस्यार्थस्य शास्त्रप्रसिद्धिं सूचयति, तृतीयस्कन्धे तथोक्तत्वात्॥१५॥ एव विराज समुत्पाद्य तत्रानुगता इव प्रविष्टा इव दृश्यन्ते, परन्तु तेषां महदादीनामिह सृष्टे कार्ये सम्भवः पश्चात्प्रवेशो नास्ति। तत्र हेतुमाह — प्रागेव विद्यमानत्वादिति। नहि कार्योत्पत्त्यनन्तरमुपादान तत्र प्रविशति, तत्समवेतत्वेनैव कार्यस्योत्पन्नत्वादित्यर्थः॥१६॥ एव दृष्टान्ते उपपादितमर्थ दार्ष्टान्तिके अतिदिशति —एवमिति। एव महदादिवत् भवानपि कार्योत्पत्त्यन्तर तत्राप्रविष्टोऽपि, तदुपादानत्वेन प्रागेव विद्यमानत्वात् प्रविष्ट इव भाव्यस इत्यर्थः। ननु यद्यहमप्रच्युतस्वरूप एव कारणतया कार्येषु वर्ते, तर्हि तेष्विन्द्रियैर्गृह्यमाणेषु सत्सु मम ग्रहण कुतो न भवतीत्यपेक्षायामाह — बुद्ध्यनुमेयलक्षणैरिति। बुद्ध्या रूपादिज्ञानेनानुमेय लक्षण स्वरूप येषां तैर्गुणैः कार्यैरिन्द्रियैर्ग्राह्यैर्गुणैर्घटादिविषयैः सह सन् वर्तमा-
यथेमेऽविकृता भावास्तथा ते विकृतैः सह॥ नानावीर्याः पृथग्भूता विराजं जनयन्ति हि॥१५॥ सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव॥ प्रागेव विद्यमानत्वान्न तेषामिह सम्भव॥१६॥ एव भवान् बुद्ध्यनुमेयलक्षणैर्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः॥ अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः॥१७॥
नोऽपि भवान् तद्गुणाग्रहः तैर्गुणैः सह न ग्रहो ग्रहण यस्य तथाभूतः। अनुमानप्रयोगस्तु — ‘रूपाद्युपलब्धिकरणजन्यक्रियात्वात् या या क्रिया सा करणजन्या, यथा छिदिक्रिया। तथा चेय तस्मात्तथा’ इत्यनुमानेन सामान्यतः करणे सिद्धे नेत्रगोलकाद्यन्वयव्यतिरेकाभ्यां चक्षुरादिविशेषसिद्धिः। अयं भावः — नहि ग्राह्यैः सह भावमात्र ग्रहणे कारणम्, किन्तु इन्द्रियाणां शक्तिः। सा च कार्यैकसमधिगम्या, यथा कार्यमेव कल्प्यते। तथाच यथा चक्षुषा29 रूपग्रहणे सत्यपि सामर्थ्याभावाद्रसंग्रहण न भवति, तथैवेन्द्रियैर्विषयग्रहणेऽपि सामर्थ्याभावादेव भगवद्ग्रहणं न भवति। एवमविषयत्वं च ‘पराञ्चिखानि व्यतृणत् स्वयभूस्तस्मात् पराड् पश्यति नान्तरात्मन्’ इति श्रुत्या सर्वबुद्धिदृगित्यत्र चोक्तम्। तत्कृपया तु इन्द्रियविषयत्वमपि भवति, ‘कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्’ ‘दर्शयामास लोकं स्वम्’ इत्यादिवाक्येभ्यस्तथैव निश्चयात्। एव तावदुपादानतया प्रागेव विद्यमानत्वात् पश्चात् प्रवेशो नास्तीत्युक्तम्। इदानीं तु “परिच्छिन्नस्यैव नीडे पक्ष्यादिवत् प्रवेशः सम्भवति, तव त्वनावृतत्वादपरिच्छिन्नत्वेन बहिरन्तर्भेदाभावात् कुतः प्रवेश” इत्याह — अनावृतत्वादिति। अनावृतत्वे हेतूनाह — सर्वस्येति। नहि सर्वस्वरूप-
स्यावरण सम्भवति, तद्भिन्नस्यावरकस्याभावादित्यर्थः॥ सर्वात्मन इति। सर्वस्यात्मनोऽन्तर्यामिण इत्यर्थः। नह्यावृतः परवशो नियामको भवितुमर्हतीत्याशयः॥आत्मवस्तुन इति। ‘अत सातत्यगमने’ इति धातोः अतति व्याप्नोतीत्यात्मा, स चासौ वस्तु च परमार्थभूतस्तस्यैवभूतस्याप्यावरणं न घटत इत्यर्थः। अतो न तव स्वरूपतो गुणतो वा क्षतिरिति सिद्धम्॥१७॥ ननु “यर्हिसर्वोपादानतया सर्वस्वरूपोऽहमेव, तर्हि कथ नैयायिकमीमासकादिजन आत्मव्यतिरिक्तमपि पदार्थ सत्त्वेनाङ्गीकरोति” इत्याशङ्क्याह— यइति। यः पुमानात्मनो दृश्येषु प्रकाश्येषु गुणेषु गुणकार्येष्वाकाशादिषु स्वव्यतिरेकतःआत्मभिन्नतया सन्निति व्यवस्यते सत्त्व निश्चिनोति स अबुधः। अत एव तत्र हेतुमाह — यत इति। यतो विवेकिभिस्त्यक्तमस्वीकृतमप्यात्मव्यतिरिक्तमपि वस्तु स उपाददत् स्वीकुर्वन्भवतीत्यर्थः। ननु ‘तर्हि कथ तथा स्वीकारेण सर्वोऽपि व्यवहार’ इत्याशङ्क्याह—विनेति। अनुवाद वाग्व्यवहार विना वाग्व्यवहारमात्र भवतु, तथापि मनीषित विचारित सत्तु तत् आत्मव्यतिरिक्तस्य सत्तया स्वीकरण सम्यक् न भवतीत्यर्थः॥१८॥
य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुध॥ विनानुवाद न च तन्मनीषित सम्यग्यतस्त्यक्तमुपाददत् पुमान्॥१८॥ त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात्॥ त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते त्वदाश्रयत्वादुपचर्यते गुणैः॥१९॥
कि तत्र प्रमाणमित्यपेक्षायामाह — त्वत्त इति। त्वत्त एवास्य विश्वस्य जन्मादीन् वदन्ति ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसविशति, सर्वं खल्विद ब्रह्म’ इत्यादयःश्रुतयो वर्णयन्तीत्यर्थ। तर्हि विकारित्व स्यादित्याशङ्क्याह - अविक्रियादिति। तत्र हेतुमाह - अनीहादिति। ईहा चेष्टा, कामना वा तद्रहितात्। तत्रापि हेतुमाह - अगुणादिति। गुणाधीनत्वाभावादित्यर्थः। ननु एकस्यैवानीहत्व जगज्जन्मादिकर्तृत्व च विरुद्धमेवेत्याशङ्क्याह - त्वयीति। हे विभो! सर्वदा सर्वथा सर्वत्र समर्थः, त्वय्येतन्नो विरुद्ध्यते। तत्र हेतुमाह - ईश्वरे ब्रह्मणीति। अचिन्त्यानन्तशक्तित्वात्। तथापि कथं न विरोध इत्यपेक्षायामाह - गुणैरिति। रजआदिगुणैः कुर्वद्भिर्जगज्जन्मादिकर्तृत्व त्वय्युपचर्यते। यथा भृत्यकर्तृत्व तत्स्वामिनीत्यर्थः। उपचारे हेतुमाह– त्वदाश्रयत्वादिति। तेषा गुणानामाश्रयत्वादित्यर्थः। तथाच गुणद्वारा कर्तृत्वम् स्वतस्त्वनहित्वादिति न विरोध इति भावः॥१९॥
नन्वेव चेद्ब्रह्मविष्णुरुद्रेभ्यः सृष्ट्यादिप्रतिपादकशास्त्रविरोधः स्यादित्याशङ्क्य ब्रह्मादिस्वरूपमपि त्वमेव बिभर्षि इत्याह
—
स त्वमिति। खल्वित्यवधारणार्थः। सच्चिदानन्दात्मकः परमेश्वरस्त्वमेव त्रिलोकस्य स्थितये पालनाय स्वमायया स्वेच्छयैव सत्त्वेन गुणेनात्मनः स्वस्य शुक्ल स्वच्छ शान्तवर्ण विष्णुरूप बिभर्षि धारयसि। तथा त्रिलोकस्य सर्गाय रजसा उपबृंहित प्रकटित रक्त रागयुक्त ब्रह्मस्वरूप बिभर्षि। तथा जनानामत्यये सहाराय तमसा गुणेन कृष्णं क्रोधादितमः कार्ययुक्त रुद्ररूप बिभर्षि। अत्र शुक्लादिशब्दाः ‘अजामेका लोहितशुक्लकृष्णाम्’ इति श्रुत्युक्तसत्त्वादिवर्णपराः सत्त्वादिगुणकार्यशान्तिरागक्रोधादिपराश्च, न स्वीकृतमूर्तिवर्णपराः। सत्त्वमूर्त्तेर्विष्णोस्तमोमूर्तेः रुद्रस्य च मूलोक्तवर्णवैपरीत्यनिश्चितत्वात्॥२०॥ एव भगवत्सान्निध्याद्वसुदेवस्य सर्वज्ञता जातेति भूत कार्यं निरूप्य भाव्यपि अवतारप्रयोजनमाह
—
त्वमिति। अस्य लोकस्य साधुजनस्य रिरक्षिषू रक्षितुमिच्छुः सन् मम
स त्व त्रिलोकस्थितये स्वमायया बिभर्षि शुक्ल खलु वर्णमात्मनः॥ सर्गाय रक्त रजसोपबृहित कृष्ण च वर्णं तमसा जनात्यये॥२०॥ त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर॥ राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमू॥२१॥ अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाऽग्रजांस्ते न्यवधीत् सुरेश्वर॥ स तेऽवतार पुरुषै समर्पितं श्रुत्वाऽधुनैवाभिसरत्युदायुधः॥२२॥
गृहे त्वमवतीर्णोऽसि, युक्त चैतत्तवेत्याशयेन सम्बोधयति— अखिलेश्वरेति। रक्षाया सामर्थ्यं सूचयन् पुनः सम्बोधयति — विभो इति। अतः साधुरक्षार्थ राजन्या इति संज्ञामात्र येषा, वस्तुतस्त्वसुरा एव। तेषा कोटिशो यूथानि तानि ये पान्ति तैर्निर्व्यूह्यमाना इतस्ततश्चाल्यमानाश्चमूः सेना निहनिष्यसे संहरिष्यसि॥२१॥ एव भगवन्माहात्म्यं कार्यं च ज्ञात्वापि लौकिकस्यालौकिकात् प्रबलत्वात् कंसाद्भीतः सस्तत्प्रतीकारस्यावश्यकर्तव्यत्व सूचयस्तद्दुश्चेष्टित विज्ञापयति — अयं त्विति। ‘तवावतारः सतामेव सुखावहो, न खलानाम्’ इति सूचयितुं तुशब्दः। अयं कंसः असभ्यः सभानर्हः खल एव। अतो नौ आवयोर्देवकीवसुदेवयोर्गृहे तव जन्म भविष्यतीति श्रुत्वा त्वयि शत्रुत्वारोपात्त्वच्छङ्कया ते तवाग्रजान् मम षट्पुत्रानवधीत हतवान्। ‘त्वयि तु तद्भयशङ्का नास्त्येव, देवपक्षपातश्च त्वयाऽवश्य कार्य’ इति सूचयन् सम्बोधयति — सुरेश्वरेति। सोऽतिक्रूरस्वभावः पुरुषैर्द्वारे स्थापितैः स्वपुरुषैः समर्पितं श्रावितं ते तवावतारं श्रुत्वा उदायुधः गृहीतखड्गःसन्नधुनैवाभिसरति आगमिष्यतीत्यर्थ। सेवकेन स्वाम्यग्रे वृत्तनिवेदनमात्रमेव कर्तव्यम्, कर्तव्यं तु स्वयमेव स करिष्यति। इति वृत्तनिवेदनं कृत्वा वसुदेवस्तूष्णीं बभूव॥२२॥
अथ तत्स्तुत्यनन्तरं कंसाद्भीता देवकी एनमात्मजं स्वसकाशात् प्रादुर्भूत महापुरुषस्य भगवतो विष्णोर्लक्षणानि चतुर्भुजत्वादीन्यसाधारणचिन्हानि यस्य, तथाभूतं वीक्ष्य महापुरुषं ज्ञात्वा भयनिवृत्तेः प्रहसितमुखी सती तमुपाधावत् अस्तौत्॥२३॥ तत्कृता स्तुतिमाह—
रूपमिति। यत्तद्रूप परमार्थ वस्तु वेदाः प्राहुः प्रतिपादयन्ति स साक्षादध्यात्मदीपः देहेन्द्रियान्तःकरणादिसङ्घातप्रकाशको विष्णुस्त्वमेवेत्यन्वयः। परमार्थत्वे हेतुमाह—
आद्यमिति। सर्वकारणभूतमित्यर्थः। तत्र ज्ञापकमाह—
सत्तामात्रमिति। यस्य कारणतया कार्येष्वन्वितस्य स्वरूपसतया सर्वमपि विश्व सदिति प्रतीयत इति भावः। तर्हि सर्वकारणत्वात् परिणामादिविकारः स्यादित्याशङ्क्याह—
निर्विकारमिति। तत्र हेतुमाह—
निर्गुणमिति। लोके गुणकार्यस्यैव
श्रीशुक उवाच॥ अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम्॥ देवकी तमुपाधावत् कंसाद्भीता शुचिस्मिता॥२३॥
देवक्युवाच॥ रूप यत् तत् प्राहुरव्यक्तमाद्य ब्रह्म ज्योतिर्निर्गुण निर्विकारम्॥ सत्तामात्र निर्विशेष निरीह स त्व साक्षाद्विष्णुरध्यात्मदी^(१)पः॥२४॥
विकारो दृष्ट, तत्तु ततो भिन्नमित्यर्थः। तर्हि जडकारणत्वेन तस्यापि जडत्वापत्तिरित्याशङ्क्याह—
ज्योतिरिति। चिद्रूपमित्यर्थः। कारणत्वात् सक्रियत्वं स्यादित्याशङ्क्याह—
निरीहमिति। तत्र हेतुमाह—
ब्रह्मेति। व्यापकत्वेन तस्य क्रिया न सम्भवतीत्यर्थः। तस्य तर्हि कुतो न प्रतीतिरित्यत आह—
अव्यक्तमिति। अतीन्द्रियमित्यर्थः॥ तत्रापि हेतुमाह—
निर्विशेषमिति। जातिगुणक्रियावयवादिविशेषरहितमित्यर्थः॥२४॥
——————————————————————————————————————————
१ “त्वयि भयशङ्कैव तावन्नास्तीति श्लोकचतुष्टयेनाऽऽहदेवकी किञ्चिद्विज्ञापयितुम्॥ रूपमिति। यत्तत्किमपि रूप वस्तु प्राहुर्वेदा। किं तद्वस्तु तदाह — अव्यक्तम्। अत्र हेतु — आद्य कारणम्। किं परमाणव? न, ब्रह्म बृहत्। किं प्रधानम्? न, ज्योतिश्चेतनम्। किं वैशेषिकाणामिव ज्ञानगुणम्? न, निर्गुणम्। किं मीमांसकानामिव ज्ञानपरिणामि? न, निर्विकारम्। किं पुष्कराक्षादीनामिव शक्तिविक्षेपपरिणामि? न, सत्तामात्रम्। तर्हि किं सामान्यम्? न निर्विशेषम्। तर्हि किं कारणत्वात् सक्रियम्? न, निरीहम्। सन्निधिमात्रे कारणम्। एवंभूतं किमपि कार्यकल्प्य यद्वस्तु स एव साक्षात् विष्णुरिति। अपरोक्षश्चेत्याह — अध्यात्मदीप इति। बुद्ध्यादिकरणसङ्घातप्रकाशक इत्यर्थ। अथवा अव्यक्त न केनापि प्रकारेण व्यज्यत इत्यव्यक्तम्। कथं उत्पत्या तावन्न व्यज्यत इत्याह — आद्य सर्वस्य कार्यस्याऽऽद्यम्, अनादीत्यर्थ। तथा ब्रह्म ज्योतिर्निर्गुण निर्विकारमिति चतुर्भि पदैर्देशेन प्रकाशेन च गुणेन च विकारेण च व्यक्तिं निराकरोति। तथा सत्तामात्रमिति विशेषणेन निर्विशेषमिति, सामान्येन निरीहमिति, क्रियया च व्यक्तिं निराकरोति। अन्यत्समानम्। एवम्भूतस्य तव न भयशङ्केति भाव”। इति श्रीधरस्वामिभिर्व्याख्यातम्॥ सुबोधिन्या तु श्रीवल्लभाचार्यैरेव व्यवारि।
एव सर्वकारणत्वमुक्त्वा प्रलयावशिष्टत्वमाह — नष्ट इति। चतुर्मुखतन्मानेन वर्षशतात्मकमायुः परशब्दवाच्यार्थः, स्तस्यार्धपरार्धम्। कालवेगेन हेतुना द्विपरार्धस्य ब्रह्मायुषोऽवसाने समाप्तौ सत्यां लोके चतुर्दशभुवनात्मके नष्टे सति महाभूतेषु पृथिव्यादिपञ्चमहाभूतेषु एतदिन्द्रियाणां देवतानां चोपलक्षणम्। आदिभूत भूतानामादिमहङ्कार गतेषु स्वस्वकारणपरम्परयाऽहङ्कारे लीनेषु सत्सु तस्मिन्नप्यहङ्कारे व्यक्त महत्तत्त्व याते इति शेषः। तस्मिन् व्यक्ते महत्तत्त्वेप्यव्यक्त प्रधान याते प्राप्ते तस्मिन्नपि प्रधाने त्वयि लीने सतीति शेषः। भवानेक एव शिष्यते। अतः शेषादेव शेषसज्ञः शेषशब्दाभिधेयः॥ यद्वा अशेषसज्ञः इति पदछेदः। अशेषात्मके प्रधाने प्रज्ञा ‘एव मयीदं सर्वं लीनमस्ति, पश्चादेवमुद्बोधनयिम्’ इति प्रज्ञा
नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूत गतेषु॥ व्यक्तेऽव्यक्त कालवेगेन याते भवानेकः शिष्यते शेषसज्ञः॥२५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम्॥ निमेषादिर्वत्सरान्तो महीयांस्त त्वेशान क्षेमधाम प्रपद्ये॥२६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भय नाध्यगच्छत्॥ त्वत्पादाब्ज प्राप्य यदृच्छ्याऽद्य स्वस्थः शेते मृत्युरस्मादपैति॥२७॥
यस्य सः॥२५॥ कालवेगेन यातेत्युक्त्या कालस्यापि स्वातन्त्र्यप्रतीतेस्तस्यापि भगवत्पारतन्त्र्य वदन्ती त शरण व्रजति — य इति। हे अव्यक्तबन्धो! अव्यक्त प्रधान तत्प्रवर्तकः योऽयमुत्पत्तिप्रलयादिहेतु निमेषः आदिः सूक्ष्मावस्था यस्य सः वत्सरान्तः संवत्सरपर्यन्तस्थूलस्तदावृत्त्या च द्विपरार्धलक्षणो महीयान् कालः, येन कालेन सर्वमपि विश्वं चेष्टते विपरिवर्तते तं तस्योक्तस्य ते तव चेष्टा शक्तिविशेषमाहुः महान्तो वर्णयन्ति। यस्य चेष्टामाहुस्तमीशान प्रकृतिकालादिनियन्तारमत एव क्षेमधाम अभय स्थान त्वा त्वा प्रपद्ये शरणं व्रजे॥२६॥ क्षेमधाम त्वमेवेति स्पष्टयन्ती शरणागतेः फलमाह—
मर्त्य इति। मर्त्यः मरणशील, इदं जन्मादीनामप्युपलक्षणम्। जन्ममरणादिससारी जनः मृत्युरेव व्यालः महासर्पः तस्माद्भीतः सर्वाल्लोकान् पलायन् पलायमानः तत्तल्लोक मृत्युभयरहित श्रुत्वा तत्र लोकप्राप्तिसाधनान्यनुष्ठाय तं तं लोकं गच्छन्नपि निर्भयं स्थानं नाध्यगच्छत् न प्राप। हे आद्य! यदृच्छया केनापि सुकृतविशेषपरिपाकेन त्वत्कृपया त्वत्पादाब्ज सेव्यतया प्राप्य स्वस्थः निर्भय एव शेते तिष्ठति। तत्र हेतुमाह—
अस्मात् प्राप्तत्वच्चरणकमलात् पुरुषात् मृत्युरपैति। निवर्तत इत्यर्थः। आद्येति सम्बोधनेन सर्वकारणत्वादिति हेतुः सूचितः। अब्जपदेनानन्दजनकत्वं च सूचितम्॥२७॥
एव मृत्युनिवारकत्वेन स्तुत्वा प्रस्तुतकार्यं विज्ञापयति — स इति। स उक्तविधः परमेश्वरस्त्वं घोरात् क्रूरस्वभावेन भयङ्करात् उग्रसेनात्मजात् कंसात् त्रस्तान् भीतान् नोऽस्मान् त्वत्सेवकान् त्राहि पाहि। डित्त्वेऽप्यय धातुरुभयपदी, बहुशः परस्मैपदप्रयोगदर्शनात्। पालने हेतुमाह — भृत्येति। यतो भृत्यानां विशिष्ट महान्त त्रास हन्तीति तथाभूतोऽसीत्यर्थः। किं ञ्चेद रूप मासदृशा मासचक्षुषा प्रत्यक्ष त्वं मा कृषीष्ठाः मा कृथाः। तत्र हेतुमाह — ध्यानधिष्ण्य मुमुक्षूणां ध्यानयोग्यमिति। तत्र हेतुमाह — पौरुषमिति। ऐश्वर्यमित्यर्थः॥२८॥ एतद्रूपप्रदर्शने को दोष इत्याशङ्क्य रूपान्तर कथचिद्गोपयितुमपि शक्यम्, इदं तु न तथा। तथा चास्या विष्णुः प्रादुर्भविष्यतीति श्रुतवतः कंसान्महद्भय स्यादित्याशयेनाह — जन्मेति। असौ पापाचारः कंसो मयि ते तव जन्म मा विद्यात् न जानातु। यतः पूर्वं बहवः पुत्राः कंसेन विहिसिता अत इदानीं भवत एव हेतोः निमित्तात् कंसादहं समुद्विजे बिभेमि
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान् भृत्यवित्रासहाऽसि॥ रूपं चेद पौरुषं ध्यानधिष्ण्य मा प्रत्यक्षं मांसदृशां त्वं कृषीष्ठाः॥२८॥ जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन॥ समुद्विजे भवद्धेतो कंसादहमधीरधीः॥२९॥ उपसंहर विश्वात्मन्नदो रूपमलौकिकम्॥ शङ्खचक्रगदापद्मश्रिया जुष्ट चतुर्भुजम्॥३०॥ विश्व यदेत् स्वतनौ निशान्ते यथाऽवकाश पुरुष परो भवान्॥ बिभर्ति सोऽय मम गर्भगोऽभूदहो नृलोकस्य विडम्बनं हि तत्॥३१॥
तर्हि पूर्वोक्ते मत्प्रभावे तव किं निश्चयो नास्तीत्याशङ्कानिरासाय सम्बोधयति — मधुसूदनेति। महाबलपराक्रम मधुदैत्यं हतवतस्तव कंसहनने कः सन्देह इत्याशयः। तर्हि कथं विभेषीत्याशङ्क्याह — अधीरधीरिति॥२९॥ ‘प्रत्यक्षं मा कृथा’ इत्युक्तमेव स्पष्टयति — उपसंहरेति। अदो रूपमुपसंहर। रूपोपसंहारो नाम स्वरूपान्तर्भावः, तस्मिन् सति अवतार एव निष्फलः स्यादित्याशङ्क्याह — अलौकिकमिति। तदेव दर्शयति — शङ्खेत्यादि। तथा चा लौकिकमुपसंहृत्य लौकिकसदृशेन रूपेणैव स्थेयमित्यर्थः। सङ्कल्पमात्रेण विश्वरूपेणैव स्थेयमित्यर्थः। सङ्कल्पमात्रेण विश्वरूपेण स्थितस्यैवकरणायासस्तु तव नास्त्येवेत्याशयेन सम्बोधयति — विश्वात्मन्निति॥३०॥ ननु “किमिति रूपमिदमुपसंहर्तव्यमेव। एवंभूतेन मया पुत्रेण महती श्लाघा स्यात्। कंसहनने त्वहं समर्थं एवेति तद्भय तु त्वया नैव कर्तव्यम्” इत्याशङ्क्याह — विश्वमिति। यत् यतः परः पुरुषो भवान् निशान्ते प्रलयावसाने सृष्टिस्थितिसमये एतदसङ्ख्यातब्रह्माण्डात्मकंविश्वं स्वतनौ स्वशरीरे यथावकाशमसङ्कीर्णं यथा भगवति तथा बिभर्ति धारयति सोऽयं मम गर्भगोऽभूदिति यत्तत् हि यस्मात् नृलोकस्याहो विडम्बनमतिशयेनोपहासास्पदम्, असम्भावितत्वात्। तस्माददो रूपमुपसहरेति शेष॥३१॥
एव पितृभ्यां संस्तुत सम्प्रार्थितश्च भगवाश्चतुर्भुजादिरूपेणाविर्भावे कारणमाह — त्वमिति चतुर्दशभिः। पूर्वे सर्गे इतस्तृतीये पूर्वजन्मनि स्वायम्भुवे मन्वन्तरे हे सति मातः! त्वमेव पृश्निर्नाम अभूः। तदाऽयं वसुदेवः अकल्मषः सर्वदोषरहितः सुतपानाम प्रजापतिरभूत्॥३२॥ वै इति। अत्र सन्देहो न कार्यः। युवा यदा ब्रह्मणा प्रजासर्गे निमित्ते आदिष्टौ ततः तदा इन्द्रियग्राम सम्यक् नियम्य वशीकृत्य परममुग्र तपस्तेपाथे कृतवन्तावित्यर्थः॥३३॥ तपसः परमत्व दर्शयस्तत्प्रकारमाह — वर्षेति। वर्षादीन् कालगुणान् ऋतुधर्माननुक्रमेण प्राप्तान् सहमानौ। धर्मः सूर्यकिरणसम्बन्धकृतस्तापः। आतपस्तु तत्सम्बन्धाभावेऽपि साधारणो ग्रीष्मऋतुनिमित्तोष्णतापञ्चाग्निविधिनाग्निसम्बन्धकृतो वा। सहनं नाम तत्प्रतीकारोपायमुपेक्ष्य स्थितिः। श्वासः प्राणवायुस्तन्निरोधेन प्राणायामेन विनिर्धूता निवृत्ता मनोमलाः कामक्रोधादयो ययौस्तौ॥३४॥ शीर्णानि वृक्षेभ्यः स्वयं पतितानि
श्रीभ० उ०॥
त्वमेव पूर्वे सर्गेऽभू पृश्निः स्वायम्भुवे सति॥ तदाऽयं सुतपा नाम प्रजापतिरकल्मषः॥३२॥
युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः॥ सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः॥३३॥
वर्षवातातपाहिम–घर्मकालगुणाननु॥ सहमानौ श्वासरोध—विनिर्धूतमनोमलौ॥३४॥
शीर्णपर्णानिलाहारावुपशान्तेन चेतसा॥ मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः॥३५॥
एव30 वां तप्यतोर्भद्रे तप परमदुष्करम्॥ दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः॥३६॥
तदा वां परितुष्टोऽहममुना वपुषाऽनघे। तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः॥३७॥
शुष्कानि पर्णानि अनिलश्चाहारो ययोस्तौ, मत्तः सकाशात् कामानभीष्टानर्थानभीप्सन्तौ उपशान्तेन रागादिभिरकलुषितेन चेतसा मदाराधनमीहतुः। मम परिचर्यापूर्वकं ध्यानं कृतवन्तावित्यर्थ॥३५॥ हे भद्रे! मय्येवात्मा मनो ययोस्तयोर्वा युवयोरेवमुक्तप्रकारेण परमदुष्करमतितीव्र तपस्तप्यतोः कुर्वतोः सतोर्दिव्यानां देवमानपरिमितानां वर्षाणां सहस्राणि द्वादशेयुरतिक्रान्तानि बभूवुः। एव चतुर्युगव्यतीतेऽपि कलिकालादिधर्मास्तयोर्बाधका न जाता इति सूचितम्॥३६॥ हे अनघे सकलदोषरहिते! तदा युवयोः कामदित्सया वरदानेच्छया वरदराट् वरप्रदेषु श्रेष्ठोऽहममुना चतुर्भुजादिमता वपुषा प्रादुरासमिति द्वयोरन्वयः। प्रादुर्भावे हेतुमाह — वा युवयोः परितुष्ट इति। परितोषेऽपि हेतूनाह — तपसा शीर्णपर्णा-
हारादिना, श्रद्धया मद्विषयकविश्वासेन, नित्यं निरन्तरं भक्त्या प्रेम्णा स्वहृदि भावितः चिन्तितश्चेति॥३७॥ तदा ‘वरो व्रियताम्’ इति मयोक्ते सति वा युवाभ्यां कर्तरि षष्ठी। मादृशः मत्सदृशः सुतो वृतः याचितः। वरदराडित्यनेन सकृदङ्गीकारेऽपि वारवारमाविर्भावे कारणमुक्तम्॥॥३८॥ यद्यपि मे मत्तो मोक्षदातुः सकाशात् संसारापवर्गो मोक्ष एव वरणयोग्यस्तथापि दम्पती युवामपवर्ग न वव्राथे। तत्र हेतुद्वयमाह — अजुष्टेति। न जुष्टाः न सेविताः ग्राम्यविषयाः गृहसम्बन्धिनः शब्दादयो याभ्यां तौ। तथा न विद्यते अपत्य ययोस्तौ। तथा चाननुभूतगृहस्थदुःखत्वेन वैराग्याभावाद्विषयासक्तिसत्त्वाच्च पुत्रमेव वव्राथे, नापवर्गमिति भावः। ननु पूर्वं तु ‘विनिर्धूतमनोमलौ’ इत्युक्त्या विषयासक्त्यभाव एवोक्तः, इदानीं कथं पुनस्तदासक्तिर्जातेत्यत आह — मोहितौ मम माययेति। यद्यपि भगवत्प्रसादे संसारे हेतुभूताया मायाया निवृत्तिरेवोचिता,
प्रादुरास वरदराङ् युवयोः कामदित्सया॥ व्रियता वर इत्युक्ते मादृशो वां वृतः सुत॥३८॥
अजुष्टग्राम्यविषयावनपत्यौ च दम्पती॥ न वव्राथेऽपवर्ग मे मोहितौ मम31 मायया॥३९॥
गते मयि युवां लब्ध्वा वर मत्सदृश सुतम्॥ ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ॥४०॥
अदृष्ट्वाऽन्यतम लोके शीलौदार्यगुणै समम्॥ अहं सुतो वामभव पृश्निगर्भ इति श्रुतः॥४१॥
तयोर्वां पुनरेवाहमदित्यामास कश्यपात्॥ उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः॥४२॥
तथापि तयोस्तपआदिभिर्विशुद्धतया भगवदवतारयोग्यत्वात्तयोर्विमुक्तावतारादिलीलैव न सिद्ध्येदतस्तत्सिद्धये भगवदिच्छारूपया मायया तयोर्मोहः स्थित इति ज्ञेयः॥३९॥ तथास्त्विति वरं दत्त्वा मयि गते सति युवां मत्सदृशं सुतं वरं लब्ध्वा तत्प्राप्तिनिश्चयं कृत्वा ग्राम्यान् भोगान् शब्दादिविषयान् अभुञ्जाथाम्। एवं च युवां प्राप्तमनोरथौ जाताविति वाक्यान्तरम्। शीलं चित्तकोमलतां, औदार्यं दातृत्वम्, गुणाः करुणादयस्तैः समं स्वसदृशं लोकेऽन्यतममदृष्ट्वा अहमेव वा युवयोः सुतोऽभवम्। पृश्निसंज्ञायास्तव गर्भे भूतत्वात् ‘पृश्निगर्भ’ इति श्रुतःप्रसिद्धः। अस्य रूपस्योपासनं द्वापारे ज्ञेयम्, ‘विष्णुर्यज्ञः पृश्निगर्भः’ इति एकादशे तथैव वक्ष्यमाणत्वात्॥४०॥ तयोरेव वा युवयोः कश्यपादितिरूपाभ्या स्थितयोर्यः कश्यपाददित्यामास जातः इन्द्रानुजत्वादुपेन्द्र इति, वामनत्वात् ह्रस्वाङ्गत्वाच्च वामन इति च विख्यातः प्रसिद्धः सोऽपि पुनरहमेवासमित्यन्वयः॥४१॥४२॥
तयोः कश्यपादित्योरेव युवां युवयोरस्मिंस्तृतीये भवे जन्मनि तेन प्राक् प्रदर्शितेनैव चतुर्भुजादिविशिष्टेन वपुषाऽहं भूयो जातः पुनः प्रादुर्भूतः। तस्या स्वप्रादुर्भावयोग्यतां सूचयन् सम्बोधयति — हे सतीति। मे मम व्याहृतं ‘युवयोर्मत्सदृशः पुत्रो भविष्यति’ इति भाषितमेवं हे सति! सत्यमेव जातम्॥४३॥ चतुर्भुजस्वरूपेण प्रादुर्भावे हेतुमाह — एतदिति। प्राक् प्रथमं मे मम भगवतो जन्मनः स्मरणाय ज्ञानाय एतच्चतुर्भुजादिविशिष्टं रूपं वा युवयोर्दर्शितम्। अन्यथा मर्त्यस्य लिङ्गेन शरीरेण मद्भव मद्विषयकं ज्ञानं न जन्यते। अनन्तरं त्वदिच्छया बालरूपमपि गृहीष्यामीति भावः॥४४॥ इदानीं तु ताभ्यामप्रार्थितमपि मोक्षं प्रयच्छति, लीलाकार्यस्य सिद्धत्वात्। युवामिति॥ इदानीं तु पुत्रभावेन ब्रह्मभावेन चासकृत् पुनःपुनर्मा चिन्तयन्तौ मयि कृतस्नेहौ च युवापरा सर्वत उत्कृष्टा मम लोकप्राप्तिरूपा गतिं मोक्षं यास्येथे॥४५॥ इत्युक्त्वा हरिस्तूष्णीमासीत्। अत्र ‘यदि
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषा युवाम्॥32 जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति॥४३॥ एतद्वां दर्शितं रूप प्राग्जन्मस्मरणाय मे॥ नान्यथा मद्भवं ज्ञान मर्त्यलिङ्गेन जन्यते33॥४४॥ युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत्॥ चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम्॥४५॥ ॥*34श्रीशुक उवाच॥ ॥इत्युक्त्वासीद्धरिस्तूष्णी भगवानात्ममायया॥ पित्रो सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः॥४६॥ ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात्॥ यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाऽजनि नन्दजायया॥४७॥ तया हृतप्रत्ययसर्ववृत्तिषु द्वा स्थेषु पौरेष्वपि शायितेष्वथ॥ द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः॥४८॥
कंसाद्बिभेषि त्व तर्हि मा गोकुल नय। मन्मायामानयाशु त्व यशोदागर्भसम्भवाम्’ इत्यय श्लोकशेषो ज्ञेयः, ‘भगवत्प्रचोदित’ इति लिङ्गात्। ततश्च पित्रोर्देवकीवसुदेवयोः सम्पश्यतोरेव सतोर्भगवानात्ममायया स्वेच्छया सद्य एव प्राकृतः शिशुरिव बभूव। ‘बबन्ध प्राकृत यथा’ इति वक्ष्यमाणत्वादत्रापि चेति शेषः॥४६॥ ततश्च भगवता प्रचोदितः स शौरिः वसुदेवः सुतं सम्यक् आदाय आस्तृतकोमलवस्त्रे पात्रे संस्थाप्य गृहीत्वा यदा सूतिकागृहाद्बहिर्गन्तुमियेष ऐच्छत् तर्ह्येव या अजाशब्दवाच्यत्वेन प्रसिद्धा योगमाया, सा नन्दजायया यशोदया निमित्तभूतया अजनि जाता॥४७॥ अथानन्तरमेव तया योगमायया हृताः प्रत्ययार्थाः ज्ञानहेतुभूताः सर्वा वृत्तयश्चक्षुरादिवृत्तयो येषा जाग्रतामपि तथाभूतेषु
द्वारपालेषु सत्सु, तथा पौरेषु पुरवासिजनेष्वपि शायितेषु सत्सु या बृहद्भिः कपाटैः आयसैर्लोहमयैः कीलशृङ्खलैश्च पिहिता आच्छादिताः, अतएव दुरतिक्रमाः द्वारस्तु सर्वा वसुदेवे आगते स्वयं व्यवर्यन्त व्यशीर्यन्त विवृत्ता जाता इत्यन्वयः। ‘व्यव्रियन्त’ इति वक्तव्ये गुणश्छान्दसः। ‘व्यशीर्यन्त’ इति पाठान्तरम्। अनेनैव वसुदेवपादनिगडोऽपि स्वयमेव पतित इति ज्ञेयम्। तत्र हेतुं सूचयन् वसुदेव विशिनष्टि — कृष्णवाह इति। संसारबन्धमपि कर्षति निवर्तयति स कृष्णः, तस्य वाहे आगते द्वारविवृतौ किमाश्चर्यमित्याशयः। तत्र दृष्टान्तमाह —यथा तमो रवेरिति। रवेः सूर्यस्यागमने तमोऽन्धकारो यथा विशीर्यते तद्वदित्यर्थः। उपाशु मन्दं मन्दं गर्जितं यस्य, तथाभूतः पर्जन्यो मेघो ववर्ष। पूर्वं वर्षातो निवृत्तोऽपि तदा मार्गे जनसञ्चाराभावाय ववर्षेत्याशयः। तदा च फणैर्वारि निवारयन् शेषः अनन्तः अन्वगात् वसुदेवस्य पृष्ठतो जगाम॥४८॥४९॥ मघोनि इन्द्रे असकृत् पुनः पुनः वर्षति सति गम्भीरोऽगाधो यस्तोयौघो जलपूरस्तस्य जवेन
ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः॥ ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन् फणैः॥४९॥ मघोनि वर्षत्यसकृद्यमानुजा गम्भीरतोयौघजवोर्मिफेनिला॥ भयानकाऽऽवर्तशताकुला नदी मार्ग ददौ सिन्धुरिव श्रियः पतेः॥५०॥ नदव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तानुपलभ्य निद्रया॥ सुतं यशोदाशयने निधाय तत्सुतामुपादाय पुनर्गृहानगात्॥५१॥ देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम्॥ प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः॥५२॥
वेगेन ये ऊर्मयस्तरङ्गास्तैः फेनिला फेनव्याप्ता, आवर्ता भ्रमाः तेषां शतैराकुला व्याप्ता, अतएव भयानका अपि यमानुजा यमुनानदी वसुदेवाय मार्ग ददौ जानुमात्रजला जाता। यथोक्तं विष्णुपुराणे — “यमुना चातिगम्भीरा नानावर्तशताकुलाम्। वसुदेवो वहन् विष्णु जानुमात्रवहा ययौ” इति। मार्गदाने दृष्टान्तमाह — सिंधुरिवेति। श्रियः पतेः ‘राघवत्वेऽभवत्सीता’ इति वाक्यात् सीतापतेः श्रीरामस्य समुद्रो यथा मार्ग ददौ तथेत्यर्थः॥५०॥ शौरिर्वसुदेवः नन्दव्रजमुपेत्य सम्प्राप्य तत्र निद्रया योगमायया तान् नन्दादीन् गोपान् प्रसुप्तानुपलभ्य दृष्ट्वा तं सुतं यशोदायाः शयने शय्याया निधाय संस्थाप्य तस्याः सुतामुपादाय गृहीत्वा स्वगृहान् पुनरगात्। द्वारविवृतिरत्रापि बोध्या॥५१॥ ततस्ता दारिका कन्या देवक्याः शयने शय्याया न्यस्य निधाय अथानन्तरं पदोः पादयोः लोह निगडं प्रतिमुच्य बद्ध्वा आवृतः पिहितकपाटः सन् पूर्ववदास्ते स्म॥५२॥
नन्दस्य पत्नी यशोदा तु पर केवलं मयि किञ्चिज्जातमित्येवाबुध्यत, तस्य लिङ्गं कन्या पुत्रो वेति तु नाबुध्यत। तत्र हेतुद्वयमाह — प्रसवपीडया परिश्रान्तेति। निद्रया योगमायया अपगता स्मृतिः विवेको यस्याः सा॥५३॥ इति श्रीवल्लभाचार्य वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र हरेर्जन्मनिरूपणे॥ तृतीयो विवृतोध्यायः प्रादुर्भावनिरूपकः॥३॥छ॥छ॥छ॥ मायावाक्यं समाकर्ण्य कंसो भीतोऽथ मन्त्रिभिः॥ मन्त्रं समर्थयामास चतुर्थे तन्निरूप्यते॥१॥ एवं सप्रपञ्चं भगवदवतारं निरूप्याथ तदग्रिमं वृत्तं निरूपयति — बहिरिति। बहिर्द्वारः पुरद्वारः अन्तःपुरद्वारश्च सर्वाः पूर्ववदेवावृताः मायाप्रभावेण स्वयमेव पिहिता जाताः। तावत् सा कन्याऽपि न रुरोद। ततस्तदनन्तरं च बालध्वनि कन्यारोदनं श्रुत्वा वसुदेवाधिष्ठित-
यशोदा नन्दपत्नी च जातं परमबुध्यत॥ न तल्लिङ्गं परिश्रान्ता निद्रयाऽपगतस्मृतिः॥५३॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे जन्मप्रकरणे भगवत्प्रादुर्भावनिरूपणं नाम तृतीयोध्यायः॥३॥ श्रीशुक उवाच॥ बहिरन्तः35 पुरद्वारः सर्वाः पूर्ववदावृताः॥ ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः॥१॥ ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत्॥ आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते॥२॥ स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः॥ सूतीगृहमगात्तूर्णं प्रस्खलन् मुक्तमूर्धजः॥३॥
गृहपालाः समुत्थिताः॥१॥ ते गृहपालाः तूर्ण शीघ्रमुपव्रज्य कंससमीपं गत्वा यत् गर्भजन्म उद्विग्नो भीतः सन् प्रतीक्षते तत् देवक्या अष्टमगर्भजन्म भोजराजाय कंसाय आचख्युः॥२॥ स कंसः श्रुत्वा तूर्णमेव तल्पादुत्थाय तूर्णमेव सूतीगृहमगादित्यन्वयः। तत्र हेतुमाह —कालोऽयमिति। तद्वधसमयोऽयमित्यर्थः। मृत्युरयमिति वार्थः। इति कृत्वा विह्वलः व्याकुल इति। व्याकुलतालिङ्गमाह — प्रस्खलन् विक्षिप्तगतिः सन्, तथा मुक्ता विक्षिप्ता मूर्धजाः केशा यस्य स इति। अनेन तस्य प्रस्थान एवापशकुन जातमिति सूचितम्। अत एवाग्रे कन्यामारणरूपेष्टाप्राप्तिः शोकरूपानिष्टप्राप्तिश्चेति ज्ञेयम्॥३॥
त भ्रातर देवी देवमाता देवकी करुण दैन्य यथा स्यात्तथाऽऽहेत्यन्वयः। तत्र हेतुमाह — कृपणेति। पूर्वबालकवधस्मरणेन दीनेत्यर्थः। हेत्वन्तरमाह — सतीति। धर्मबुद्धिरित्यर्थः। “स्वपुत्रं सङ्गोप्य तत्प्रतिनिधितया मारणार्थ परकीयकन्याप्रदाने महानधर्म” इति ज्ञात्वा तन्मा भूदित्याशयवतीत्याशयः। तद्वाक्यमाह — स्नुषेयमिति सार्धद्वयेन। प्रसादित एव त्यक्षतीत्याशयेन दुष्टमपि सुजनत्वेन सम्बोधयति — कल्याणेति। स्त्रिय हन्तुं नार्हसीति स्त्रियाः सकाशात्तव भयाभावात्, एतद्वधे दोषाधिक्याच्चेत्याशयः। दीना चेयमित्याह — स्नुषेय तवेति। स्नुषा36वत्त्वया पालनयोग्येत्यर्थः॥४॥ “मयि तव क्रौर्यमयुक्तम्’ इत्याशयेन सम्बोधयति — भ्रातरिति। एकस्यैव हन्तव्यत्वेपि त्वया बहवः शिशवो हताः। ‘न च ते हिंसनयोग्या, निरपराधित्वाच्छोभातिशयवत्त्वाच्च’ इत्याशयेनाह — पावकोपमा इति। त्वया हिंसिता इत्युक्ते तद्वैमनस्यमाशङ्क्य तत्प्रसादार्थमाह — दैवनिसृष्टेनेति। अस्मत्प्रारब्धप्रेरितेन त्वया निमित्तमात्रेण हिंसितास्तेन न तव कोऽप्यपराध इत्यर्थः। इयमेका पुत्रिका प्रदीयतामिति। यदि किञ्चिदन्यदपत्य जायेत तदा
तमाह37 भ्रातर देवी कृपणा करुणं सती॥ स्नुषेयं तव कल्याण स्त्रिय मा हन्तुमर्हसि॥४॥ बहवो हिंसिता भ्रातः शिशवः पावकोपमा॥ त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम्॥५॥ नन्वह ते ह्यवरजा दीना हतसुता प्रभो॥ दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम्॥६॥ श्रीशुक उवाच॥ उपगुह्यात्मजामेवं रुदन्त्या दीनदीनवत्॥ याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः॥७॥
तद्धन्तव्यमित्येकपदेन सूचितम्॥५॥ स्वदैन्य दर्शयन्त्युक्तमेव स्पष्टयति — नन्विति। मयि तव कृपैव युक्तेत्याशयेन सम्बोधयति — हे अङ्केति। तत्र हेतुमाह — ते तवावरजा कनीयसी भगिनी। ‘अत्र तु तवापि न सन्देहः’ इत्याशयेनाह — हीति। तत्रापि दीनेति। तत्र हेतुमाह — हतसुतेति। ‘अत्रापि न सन्देह’ इत्याह — नन्विति। त्वंच मत्प्रार्थितदाने समर्थोऽसीत्याशयेन सम्बोययति — हे प्रभो इति। मन्दायै मन्दभाग्यायै मह्यमिमा प्रजा कन्यां दातुमर्हसि। ‘इतोऽग्रे को वेदापत्यान्तरं भविष्यति न वा’ इत्याशयेनाह — चरमामिति॥६॥ एवं तया याचितोऽपि कंसस्ता विनिर्भर्त्स्य वचसा तिरस्कृत्य आत्मजा कन्यामुपगुह्य उरसि बाहुभ्यां सवेष्ट्य दीनादपि दीनवद्रुदन्त्यास्तस्या हस्तात्तामाचिच्छिदे आकृष्य जग्राह। ‘तस्यैव क्रौर्यं नाश्चर्यम् स्वभावत्वात्’ इत्याशयेनाह — खल इति। ‘क्रूरे नीचेऽधमे खलः’ इति विश्वकोशः। वस्तुतस्तु न दीना, ‘पुत्रस्यान्यत्र नीतत्वात्’ इति वतिप्रयोगः॥७॥
ता कन्या चरणयोर्विपरीततया गृहीत्वा अङ्गणे स्नानाद्यर्थ स्थापितायाः शिलायाः पृष्ठे उपरि अपोथयत् बलात् प्रक्षिप्तवान्। निर्दयत्वेन खलत्वं समर्थयन्नाह — जातमात्रामिति। अतिकोमलामित्यर्थः। सर्वथा विरुद्धकर्तृत्व सूचयन्नाह — स्वसुः सुतामिति। एव विरुद्धाचरणे हेतुमाह — स्वार्थेति। स्वप्रयोजनमुद्दिश्योन्मूलित त्यक्त सौहृद स्नेहो येन सः॥८॥ सा तस्य हस्तान्न शिलापृष्ठे पतिता, किंतूत्पत्य ऊर्ध्वं गत्वा सद्य एव देवी सती अम्बर आकाशे गता। तत्र स्थिता सती सायुधा आयुधैः सहिताः अष्टौ महान्तो भुजा यस्याः, तथाविधा कंसादिभिः सर्वैरदृश्यत। नच तस्या इदमत्याश्चर्यमित्याशयेनाह — विष्णोरनुजेति। विष्णोराज्ञया एवंविधानेककार्यार्थ तत्पश्चाज्जाता योगमायेत्यर्थः॥९॥ तां वर्णयति — दिव्यस्रगादिभिर्भूषिता। स्रजो मालाः, अम्बराणि वस्त्राणि, आलेपश्चन्दनादिः, रत्नयुक्तान्याभरणानि च॥ आयुधानि दर्शयन् विशिनष्टि — धनुरादिगदान्तानि
तां गृहीत्वा चरणयोर्जातमात्रां स्वसु सुताम्॥ अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः॥८॥ सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बर गता॥ अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा॥९॥ दिव्यस्रगम्बरालेपरत्नाभरणभूषिता॥ धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा॥१०॥ सिद्धचारणगन्धर्वैरप्सरः किन्नरोरगैः॥ उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत्॥११॥ किं मया हतया मन्द जातः खलु तवान्तकृत्॥ यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान्38 वृथा॥१२॥ इति प्रभाष्य त देवी माया भगवती भुवि॥ बहुनामनिकेतेषु बहुनामा बभूव ह॥१३॥
धारयतीति तथा॥१०॥ उपाहृताः समर्पिता उरुवो बलयः पूजासाधनानि यैस्तैः सिद्धादिभिः स्तूयमानेद वक्ष्यमाण कंस प्रत्यब्रवीत्॥११॥ तद्वाक्यमाह — किमिति। मन्द हे मन्दबुद्धे! हतयाऽपि मया तव किं प्रयोजन सिद्ध्यति? न किमपि। तत्र हेतुमाह — जात इति। खलुशब्दोऽवधारणे। तवान्तकृत् नाशकर्ता पूर्वशत्रुः पूर्वजन्मनि त्वां हतवान् स यत्र क्व वा प्रदेशे जात एव। अतः कृपणान् दीनानन्यान् वृथा प्रयोजनविना मा हिंसीः। ‘कृपणाम्’ इति पाठे तु देवकीं वृथा मा हिंसीः, यद्वा मा मा कृपणा वृथा हिंसीः हिंसितवानसीति॥१२॥ इत्येवं तं कंसं प्रभाष्य सा भगवती माया भुवि बहुनामनिकेतेषु नानासंज्ञकस्थानेषु बहूनि दुर्गासङ्कटादीनि नामानि यस्यास्तथाभूता देवी पूज्या बभूव। तत्प्रसिद्धि द्योतयति —हेति॥१३॥
तया माययाऽभिहित कथितमाकर्ण्य कंसः परमविस्मितः ‘कथं देववाणी अन्यथा जाता’ इत्याश्चर्ययुक्तः शत्रोरन्यत्र जातत्वाद्देवकीवसुदेवयोर्निबन्धस्य व्यर्थत्व मत्वा तौ विमुच्य प्रश्रितो विनीतः सन्नब्रवीत्॥१४॥ तदाह — अहो इति सार्धैरष्टभिः। अहो भगिनि! अहो भाम हे भगिनीपते! पाप्मना पापीयसा मया वा युवयोर्बहवः सुता हिंसिताः। बतेति खेदे। तत्त्वत्ययुक्तं कृतम्। तदेव दृष्टान्तेन स्पष्टयति — पुरुषान् अत्तीति पुरुषादो राक्षसः, स यथा स्वापत्यमेव हिनस्ति तद्वदिति॥१५॥ स त्वह त्वत्पुत्रहन्ता कान् नरकादिलोकान् गमिष्यामि?। लोकनिर्धाराभावेऽपि यातनालोकगमने तु निश्चय एवेत्याशयेनाह — वै इति। तत्र हेतुमाह — त्यक्तकारुण्य इति। करुणापात्रभगिनीपुत्रवधादित्याशयः। तत्र दृष्टान्तमाह — ब्रह्महेवेति। स यथा त्यक्तकारुण्यान्नरकं गच्छति तथेत्यर्थः। अयं लोकोऽपि न मम सुखदं इत्याशयेनाह— श्वसन् जीवन्नप्यहं मृततुल्यं एवेति। तत्र हेतुमाह — त्यक्तेति।
तयाऽभिहितमाकर्ण्य कंसः परमविस्मितः॥ देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत्॥१४॥
अहो39 भगिन्यहो भाम मया वां बत पाप्मना॥ पुरुषाद इवापत्यं बहवो हिंसिताः सुताः॥१५॥
स त्वह त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः॥ कॉल्लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन्॥१६॥
दैवमप्यनृत वक्ति न मर्त्या एव केवलम्॥ यद्विश्रम्भादहं पापः स्वसुर्निहतवान् शिशून्॥१७॥
त्यक्तास्तदननुमता चरणेनोपेक्षिता ज्ञातयः, सुहृदो मित्राणि च येन सः। अतस्तैर्धिक्कृतत्वादित्याशयः। तथाकरणे मम क्रूरतैव हेतुरित्याह—
खल इति॥१६॥ न केवलमत्र ममैव दोषः, ‘किन्तु देवेषु सत्य मनुष्येष्वनृतम्’ इति शास्त्रीयनियमविपर्ययादप्यकार्य कृतमित्याह—
दैवमिति। यद्विश्रम्भादिति। यस्य ‘अस्या अष्टमो गर्भस्त्वा हन्ता’ इति वचनस्य विश्वासादह स्वसुर्भगिन्याः शिशून् मुग्धान् पुत्रान् निहतवान्। ननु ‘तवापि तत्र विश्वासः कथं जातः?’ इत्यपेक्षाया ‘पापवशात्’ इत्याशयेनाह—
पाप इति॥१७॥
“शोकस्तु दुष्कृतिनामविवेकिनामेव भवति, युवां तु सुकृतिनावतो विवेकेन शोको न युक्त” इति सूचयन् सम्बोधयति — हे महाभागाविति। युवामात्मजान् प्रति मा शोचतम्। तत्र हेतुमाह — स्वकृतभुज इति। स्वप्रारब्धफलभोक्तृृनित्यथः। तैरपि पूर्वं तादृशमेव कृतम्, येन बाला एव मद्धस्तान्मृता इत्याशयः। शोकस्तैः सह सवासेन सुखानुभवार्थमेव, स च जीवानां सर्वेषामपि दुर्लभ एवेत्याह — जन्तव इति। जन्तवो जीवाः सदैकत्र नैवासते, एकत्र वासेऽपि सम्यक् सुखपूर्व तु नैवासते। तत्र हेतुमाह — दैवाधीनां इति। प्रारब्धकर्माधीना इत्यर्थः। तथाच प्रारब्धकर्मणो विचित्रत्वात् कर्माधीनाना मध्ये केनचित् पुरुषेण प्रारब्धवशात् सुखं भोक्तव्यम्, केनचिच्च प्रारब्धानुसारेण दुःखं भोक्तव्यम्। तद्भोगयोः परस्परविरुद्धतया स्नेहपूर्वकसहसंवसतामसम्भवात् तद्भोगसिद्ध्यर्थ जीवा वियुज्यन्ते विरुद्ध्यन्तैवेति भावः। ‘सहासत’ इति पाठान्तरम्॥१८॥ ‘जन्तवः सदा नासते’ इत्यनेन यज्जन्ममरणादिकमुक्तं तदपि देहानामेव, नात्मन इति सदृष्टान्तमाह — भुवीति। यथा भुवि आधारभूताया भौमानि घटादीनि आयान्ति अपयान्ति च भवन्ति न भवन्ति च तथात्मन्याधारभूते भूतानि देहा एवायान्ति अपयान्ति च। यथा चैतेषु भौमेषु विक्रियमाणेष्वपि नूनं विक्रियते तथैव देहेषु जन्ममरणादिभिर्विक्रियमाणेष्वप्ययमप-
मा शोचत महाभागावात्मजान् स्वकृतभुजः॥ जन्तवो न सदैकत्र दैवाधीना समासते40॥१८॥
भुवि भौमानि भूतानि यथाऽऽयान्त्यपयान्ति च॥ नायमात्मा तथैतेषु विपर्येति यथैव भूः॥१९॥
यथाऽनेवविदो भेदो यत आत्मविपर्यय॥ देहयोगवियोगौ च संसृतिर्न निवर्तते॥२०॥
तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि॥ माऽनुशोच यत सर्व स्वकृतं विन्दतेऽवशः॥२१॥
रोक्षतया प्रत्यभिज्ञायमान आत्मा जीवो न विपर्येति जन्मादिविकारं न प्राप्नोतीत्यर्थः॥१९॥ ‘एव निर्विकारैकात्मज्ञाने सति न शोकाद्यवकाशः। अज्ञानतस्तु कदापि संसारदुःखं न निवर्तते’ इत्याह — यथेति। यथा यथावत् अनेवविदः एव निर्विकारैकात्मतत्त्वमजानतः आत्मविपर्ययः देहेन्द्रियान्तः — करणादावात्मबुद्धिर्भवति, यत आत्मविपर्ययाद्भेदः ‘अहं भिन्नोऽयं भिन्नं, इदं मदीयमिदं परकीयम्’ इति भेदबुद्धिर्भवति, ततस्तदनुरूपं कर्म, तदनुरूपेण देहेन योगवियोगौ भवतः। अतः संसृतिः जन्ममरणादिदुःखं न निवर्तते॥२०॥ उक्तमेवोपसंहरति — तस्मादिति। यतः सर्वोऽपि प्राणी अवशः सन् स्वकृतं स्वकृतकर्मफलं जन्ममरणसुखदुःखादिकं विन्दते लभते। तस्मात् हे भद्रे! मया व्यापादितानपि स्वतनयान् माऽनुशोचेत्यन्वयः। वसुदेवापेक्षया व्याकुलताधिक्यात् स्नेहाधिक्याच्च सुबुद्धित्वेन सान्त्वयन् देवकीं सम्बोधयति — भद्रे इति। अपिशब्दो यद्यप्येव परमार्थविचारे मम दोषो नास्ति, तथाप्यज्ञव्यवहारे तथेति सूचनार्थः॥२१॥
ननु “यदि सर्वः स्वकृतमेव विन्दते, तर्हि कथं हन्तुः प्रायश्चित्तविधान तद्विना नरकादिश्रवण च सङ्गच्छत” इत्याशङ्क्याह — यावदिति। यावत् ‘हतोस्मि, हन्तास्मि’ इत्यात्मानं मन्यते देहगतमेव हननस्य कर्मत्वं कर्तृत्वं चात्मगतं मन्यते तावत् बाध्यबाधकताभियात् तज्जनितं पापं तत्फलं दुःखं च प्राप्नुयात्। विहितनिषिद्धसर्वकर्मणामुपलक्षणमिदम्। तत्र हेतुमाह — तदभिमानी इति। देहात्माभिमानीत्यर्थः। तत्रापि हेतुमाह — अज्ञ इति। अज्ञत्वमेव स्पष्टयति — अस्वदृगिति। न स्वरूपभूतमात्मानं पश्यतीति तथा सः॥२२॥ ननु “त्वमपि देहात्माभिमान्येव, नात्मज्ञः, देहाभिमानं विना शत्रुत्वादिकल्पनासम्भवात्। त्वं च शत्रुत्वं प्रकल्प्य मत्पुत्रान् हतवान्। अतस्तद्दोषात् कथं तव निस्तार” इत्याशङ्क्य ‘युष्मत्क्षमया’ इत्यभिप्रेत्याह — क्षमध्वमिति। मम दौरात्म्यं पुत्रहननरूपं दुष्टत्वं यूयं क्षमध्वम्, यतो भवादृशाः साधवो दीनवत्सलाः मादृशेषु स्वापराधवशेन नरकादिदुःखस्यावश्यभावि-
यावद्धतोऽस्मि हन्ताऽस्मीत्यात्मान मन्यतेऽस्वदृक्॥ तावत्तदभिमान्यज्ञो बाध्य41बाधकतामियात्॥२२॥
क्षमध्व मम दौरात्म्य साधवो दीनवत्सलाः॥ इत्युक्त्वाऽश्रुमुखः पादौ श्या^(२)लः स्वस्रोरथाग्रहीत्॥२३॥
त्वाद्दीनेष्वपि प्रीतियुक्ता भवन्ति। महत्त्वद्योतनाय बहुवचनम्। इत्येवमुक्त्वा अथानन्तरमेव वदन्नेव अश्रूणि मुखे यस्य तथाभूतः श्यालो वसुदेवस्य पत्नीभ्राता कंसः स्वस्रोर्वसुदेव —देवक्योः पादावगृहीत् पादग्रहणपूर्वकं प्रणामं कृतवान्। ‘स्वस्रो’ इति द्विवचनानुपपत्त्या अजहत्स्वार्थलक्षणया एकेन स्वसृशब्देन तत्पतेर्वसुदेवस्य ग्रहणम्। यथा प्राणशब्दलिङ्गवन्मन्त्रोपधेयेष्टकया सम्बन्धेन प्राणभृत उपदधातीत्यत्र बहुत्वानुपपत्त्या तद्गणनयात्यनेकेष्टकाग्रहणम्॥२३॥
—————————————————————————————————————————
२. “श्याल कंस। स्वस्रोरिति स्वसृशब्देन द्विवचनानुपपत्त्या मिथुनगणनद्वारा मिथुनिलक्षणया स्वसृतत्पत्योरभिधानम्। लिङ्गसमवायन्यायेन प्राणभृत उपधातीतिवत्। देवकीवसुदेवयो प्रत्येक पादमग्रहीदित्यर्थ। श्यालशब्देन वा कथचिद्वसुदेवाभिधानम्” इति श्रीधरस्वामिभिर्व्याख्यातम्। तत्र श्यालशद्बेन कथचिद्वसुदेवाभिधानपक्षे तु ‘अनचि च’ इति सूत्रेण सद्वित्वयुक्त ‘श्यालस्वस्रो’ इत्येकं पदं ज्ञेयम्। श्रीवल्लभाचार्यैस्त्वेव व्यवारि — “स्वसृशब्देनैव स्वसृ तत्पती अभिधीयेते। तत्सम्बन्धादेव वसुदेवस्य मान्यत्वात् साक्षात्त प्रति नमस्कारेऽपि दोषाभावादेकस्य एव पादौ द्विवद्गृहीतवानिति ज्ञापयितुं एकशेषशास्त्रे ‘पुमान् स्त्रिया’ इत्यादिसूत्रेषु च चतुर्षु तृतीया ज्ञापयति — अप्रधानं न शिष्यत इति। अन्यथा स्त्रीपुरुषयोरिति प्रयोगो न स्यात्। स्त्रीपुंसाभ्यामिति च न सिद्ध्येत्। अत्रापि तद्भर्त्रा सहिता स्वसैवावशिष्यते इति”।
उक्तमेव विमोचनमुपसंहरति — मोचयामासेति। एवमात्मनः सौहृद प्रेम पादग्रहणादिना दर्शयन् देवकीं वसुदेव च निगडात् पादबन्धनभूतात् लोहशृङ्खलान्मोचयामासेत्यन्वयः। तत्र हेतुमाह— कन्यकागिरा विश्रब्ध इति। ‘एतौ निर्दुष्टाविति कृतविश्वास’ इत्यर्थः॥२४॥ देवकी सम्यगनुतप्तस्य भ्रातुर्दौरात्म्य क्षान्त्वा क्षमा कृत्वा रोष च व्यसृजत् तत्याज। वसुदेवश्च क्षमा कृत्वा भगवन्मायामाहात्म्यानुसन्धानेन प्रहस्य तं कंसमुवाच। तयोर्धैर्यस्याश्चर्यं सूचयति — हेति॥२५॥ हे महाभागेति सम्बोधन प्रशंसार्थम्। पाठान्तरे ‘महाराज’ इति सम्बोधन मारणस्यादोषज्ञापनार्थम्। यथा त्वं वदसि तदेतदेवमेव तथैव। तदेव स्पष्टयति — देहिनामात्माज्ञानप्रभवैव देहादावहधीः। यतोऽहधियः स्वपरेति भिदा भेददृष्टिर्भवति॥२६॥ भेददर्शने दोषमाह — शोकेति। पृथग्दृशः देहाद्यात्माध्यासेन भेददर्शिनः शोकादिभिरन्विताः युक्ताः सन्तो भावैर्देवदैत्यादिभिर्निमित्तभूतैर्भाव देवदैत्यादिरूप मिथः परस्पर घ्नन्तमपि
मोचयामास निगडाद्विश्रब्धः कन्यकागिरा॥ देवकी वसुदेवं च दर्शयन्नात्मसौहृदम्॥२४॥ भ्रातुः समनुतप्तस्य क्षान्त्वा42 रोष च देवकी॥ व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह॥२५॥ एवमेतन्महाभाग43 यथा वदसि देहिनाम्॥ अज्ञानप्रभवाऽहधी स्वपरेति भिदा यतः॥२६॥ शोकहर्षभयद्वेषलोभमोहमदान्विताः॥ मिथो घ्नन्तं न पश्यन्ति भावैर्भाव पृथग्दृशः॥२७॥ श्रीशुक उवाच॥ कंस एवं प्रसन्नाभ्यां विशुद्ध प्रतिभाषितः॥ देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम्॥२८॥ तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः॥ तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया॥२९॥
कालरूपं परमेश्वरं न पश्यन्ति, किन्त्वात्मानमेव तत्र कारणं मन्यन्ते, तेन च नरकादिदुःखमनुभवन्तीत्याशयः। शोक इष्टविधाते सन्तापः। हर्षः इष्टप्राप्तौ मोदः। इष्टविघातकाद्भय तत्र द्वेषश्च। लोभ इष्टलाभेऽपि तदाधिक्येच्छा। मोहः कर्तव्याकर्तव्याननुसन्धानम्। मदो विद्याधनाभिजनादिभिः गर्वः। एते सर्वे दोषा भेददर्शनादेव भवन्ति, नान्यथा॥२७॥ प्रसन्नाभ्यां देवकीवसुदेवाभ्यामेव विशुद्धनिष्कपटयथा स्यात्तथा प्रतिभाषितोऽनुज्ञातश्च कंसो गृहमविशत्॥२८॥ ‘जातमपि विवेकज्ञान भगवद्विमुखानां हृदि सुस्थिर न भवति’ इति प्रदर्शयन्नाह—
तस्यामिति। पूर्वमविचारेण स्वत एव नालहननादिक यत् कृत तत् सर्वमन्यथा जातम्, अतोऽतःपर यत्कर्तव्यं तद्विचारेण कर्तव्यमिति विचारार्थमन्त्रिणआहूय यद्योगनिद्रया यदन्यत्र शत्रुजन्मादिकमुक्तं तत् सर्वं तेभ्यः कंस आचष्ट कथितवानित्यन्वयः॥२९॥
भर्तुः कंसस्य गदितं वचनमाकर्ण्य दैतेयास्तं कंसं प्रत्यूचुरित्यन्वयः। ‘भगवदवतारस्य देवपक्षपातित्वात् तच्छ्रवणेन तेषां देवान् प्रत्यमर्ष एव जात’ इत्याह — देवानिति। तत्र हेतुमाह — देवशत्रव इति। ‘ननु यदि भगवानेव देवपक्षपाती, तदा तेषामुपायविचारेऽपि किं स्यात्’ इत्याशङ्क्याह — नातिकोविदा इति। केवलं शुष्कतर्कनिष्ठा, न परमार्थविचारे निपुणा इत्यर्थः॥३०॥ तदुक्तिमेव दर्शयति — एवमिति त्रयोदशभिः। आज्ञामात्रं त्वया कर्तव्यमिति सूचयन्तः सम्बोधयन्ति — भोजेन्द्रेति। एव योगनिद्रयोक्तं चेत्तर्हि पुरग्रामादिषु वर्तमानान् अनिर्दशान् अनिर्गतदशदिनान्निर्दशान् निर्गतदशदिनाश्च शिशून् अद्य वै अविलम्बेनैव हनिष्याम इत्यन्वयः। तथाच यदि क्वचिज्जातोऽस्ति तदा बालेष्वेव भविष्यति। एवं च कुत्र क इति निश्चयाभावेऽपि बालेषु सर्वेषु हतेषु
आकर्ण्य भर्तुर्गदित तमूचुर्देवशत्रवः॥ देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः॥३०॥
एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु॥ अनिर्दशान्निर्दशाश्च हनिष्यामोऽद्य वै शिशून्॥३१॥
किमुद्यमैः44 करिष्यन्ति देवाः समरभीरव॥ नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव॥३२॥
अस्यतस्ते शरव्रातैर्हन्यमानाः समन्तत॥ जिजीविषव उत्सृज्य पलायनपरा ययु॥३३॥
केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः॥ मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः॥ ३४॥
सत्सु सोऽपि हत एव स्यादिति भावः॥३१॥ नन्वेव बालवधे आरब्धे क्रुद्धा देवा अपि युद्धाद्युद्यमान् करिष्यन्तीत्याशङ्क्याहुः—
किमिति। देवा उद्यमैः किं करिष्यन्ति? तत्र हेतुमाहुः — समरभीरव इति। तत्रापि हेतुमाहुः — तव धनुषो ज्याघोषैर्नित्यमुद्विग्न भीत मनो येषां ते॥३२॥ एतदेव स्पष्टयन्तस्तत्र हेतुमाहुः — अस्यत इति। अस्यतो विध्यतस्ते तव शरव्रातैः शरसमूहैः समन्ततः हन्यमानाः अतो जिजीविषवो जीवितुमिच्छवः, अतएव पलायन पर जीवनोपाय येषां तथाभूताः सन्तोरणभूमिमुत्सृज्य परित्यज्य ययुरित्यन्वयः॥३३॥ एवं ये दूरस्थास्ते पलायिताः, ये तु निकटवर्तिनः पलायनेऽशक्तास्तेषामवस्थामाहुः — केचिदिति।
दीना भयेन प्रकम्पितगात्राः, अतएव न्यस्तानि त्यक्तानि शस्त्राणि यैस्तथाभूताः केचिद्दिवौकसो देवाः प्राञ्जलयः मूर्द्धनि बद्धाञ्जलिपुटा जाताः। केचिच्च मुक्ताः कच्छा शिखाश्च यैस्तथाभूताः सन्तो ‘भीतास्म’ इति वादिनो जाताः॥३४॥ विस्मृतानि अस्त्राणि समन्त्राणि शस्त्राणि च यैस्तान्, विरथान् रथहीनान्, भयेन संवृतान् शरणागतान्, अन्यासक्तान् अन्येन युद्धकर्त्रा सहागतान्, विमुखान् युद्धात्पराङ्मुखान् भग्नचापान् अयुध्यतः युद्धमकुर्वतश्च त्वं न हसि। एवं स्वधर्मपालनमेव तेषां जीवनहेतुः, अन्यथा पूर्वमेव ते मृताः स्युरिति भावः॥३५॥ यद्यप्येव भीतानां देवादीनां तावदुद्यमएव न सम्भवति, तथापि यदि करिष्यन्ति तदा तेषामुद्यमोऽस्मास्वकिञ्चित्कर एवेत्याहुः — किं क्षेमेति सार्द्धेन। विबुधैर्देवैः किं किमनिष्ट कर्तुं शक्यम्? न किमपीत्यर्थः। कुत इत्यपेक्षाया सामर्थ्याभावे हेतु सूचयन्त आहुः — क्षेमे स्त्रीसन्निधानादिनिर्भयप्रदेशे शूरैरिति। “तत्र शूरत्वमेव कथं स्यात्? युद्धादावेव तत्प्रसिद्धि-
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान्॥ हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः॥३५॥ किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः॥ रहोजुषा किं हरिणा शंभुना वा वनौकसा॥ किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता॥३६॥ तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे॥ ततस्तन्मूलखनने नियुक्ष्वास्माननुव्रतान्॥३७॥ यथाऽऽमयोऽङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम्॥ यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते॥३८॥
र्भवति” इत्याशङ्क्य ‘आत्मश्लाघामात्रमेव तेषां शूरत्वम्’ इत्यभिप्रेत्य शुरत्वमेव स्पष्टयन्ति — असंयुगे संयुगादन्यत्रैव विकत्थन प्रौढिवादो येषां तैः। तथा हरिणाऽपि किम्? न किञ्चिद्भयमित्यर्थः। तत्रापि सामर्थ्याभावे हेतु सूचयन्त आहुः — रहोजुषेति। लोकातीतवैकुण्ठादिस्थानवासिनेत्यर्थः। तथा शम्भुना रुद्रेणापि किं भयम्?। तत्रापि सामर्थ्याभावे हेतुमाहुः — वनौकसेति।45 अल्पवीर्येणेन्द्रेणापि किम्? ब्रह्मणा वाऽपि किम्? तस्यापि दुर्बलत्वं सूचयन्त आहुः — तपस्यतेति। तपोनिष्ठेन॥३६॥ एव यद्यपि देवा न किमप्यनिष्टं कर्तुं शक्तास्तथापि, सापत्न्यात् शत्रुत्वात्ते नोपेक्ष्याः। अकिञ्चित्करत्वेन नोपेक्षणीया इति वयं मन्महे मन्यामहे। ततस्तस्मात्तेषां मूलखनने अनुव्रतान् स्वसेवकानस्मान् नियुक्ष्व आज्ञापय॥३७॥ उपेक्षाया
को दोष इत्यपेक्षायामाह — यथेति। यथा अङ्गे शरीरे उत्पन्नः आमयो ज्वरादिरोगो नृभिर्यथेष्टस्नानभोजनादि कुर्वद्भिः प्रथमं समुपेक्षितः अचिकित्सितः, अतएव यदा रूढपदः बद्धमूलस्तदा चिकित्सितुमौषधादिप्रयोगेण निवर्तयितुं न शक्यते। एवं लौकिकं दृष्टान्तमुक्त्वाऽलौकिकं दृष्टान्तमाह — यथा चेन्द्रियग्रामः इन्द्रियसमूहः प्रथमत उपेक्षितः असन्नियमितो यदा विषयासक्तो भवति तदा संयमितु न शक्यते, तथोपेक्षितो रिपुरपि यदा बद्धबलो महान् भवति, तदा न चाल्यते स्थानाच्चालयितुमपि न शक्यते। तद्धननं तु दूरत इत्यर्थः॥३८॥ तर्हि किं तेषां मूलं यद्विनाशितव्यमित्यपेक्षायामाहुः — विष्णुरेव देवानां मूलमिति। हीत्यवधारणे। ननु “तस्य रहोजुट्त्वोक्तेः कथं विनाशः सम्भवति" इत्यपेक्षायामाह— यत्रेति। यत्र सनातनः सनातनवेदप्रतिपादितो धर्मः पुण्यादृष्टापूर्वादिपदवाच्यस्तत्रैव स आविर्भवतीति शेषः। तर्ह्यपूर्वस्याप्यदृष्टत्वात् कथं तज्ज्ञानमित्यपेक्षायामाहुः — तस्येति। तस्य च धर्मस्य ब्रह्मादयो मूलमित्यनुषङ्गः। ब्रह्म वेदः उपायज्ञापकः, गावः हविर्हेतुभूताः, विप्रा उपदेष्टारः, तपः कृच्छ्रादि, सदक्षिणा यज्ञाश्चोपायभूताः॥३९॥
मूल हि विष्णुर्देवानां यत्र धर्म सनातन॥ तस्य च ब्रह्म गोविप्रास्तपो यज्ञाः सदक्षिणाः॥३९॥ तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिन॥ तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः॥४०॥ विप्रा गावश्च वेदश्च46 तप सत्य दमः शम॥ श्रद्धा दया तितिक्षा च ऋतवश्च हरेस्तनू॥४१॥ स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः॥ तन्मूला देवता सर्वा सेश्वराः सचतुर्मुखाः॥ अय वै तद्वधोपायो यदृषीणां विहिसनम्॥४२॥
तस्मात् विष्णोराविर्भावहेतुत्वात् हे राजन्! ब्रह्मवादिन वेदोपदेशकर्तृृन् ब्राह्मणान् तपस्विनश्च यज्ञशीलान् यज्ञाद्यनुष्ठातृृन् हविर्दुघा गाश्च सर्वात्मना सर्वप्रयत्नेन वयं हन्म इत्यन्वयः। सम्बोधनेन तव प्रभावादिति सूचितम्॥४०॥ उक्तमेव स्पष्टयन्ति — विप्रा इति। यतो विप्रादयो हरेस्तनूः तन्वः, अतस्तेषां वध एव तद्वध इत्याशयः॥४१॥ हिशब्दोऽवधारणे। द्वितीयो हिशब्दो हेतौ। हि यस्मात् स हरिरेवासुरद्विट्, अतः स एव हन्तव्य इति शेषः। ननु “देवा अपि द्वेषिणः सन्त्येव, कथं स एवेत्यवधारणम्?’ तत्राहुः — सर्वेषां सुराणामध्यक्षः स्वामीति। “स्वामित्वमपि न लोकवत्, किन्तु तन्मूलतया” इत्याहु — तन्मूला देवताः सर्वा इति। एवमुक्तेऽपि ‘रुद्रस्य ब्रह्मणश्च स्वातन्त्र्यशङ्का माभूत्’ इत्याशयेनाहुः — सेश्वराः सचतुर्मुखा इति। सर्वमूलत्वे हेतुमाहुः — गुहाशय इति। गुहा अन्तःकरण तत्र शेतेऽनियामकतया तिष्ठतीति तथा। “एव
विप्रादीनां हरितनुत्वेऽपि तेषु वेदज्ञा ऋषय एव मुख्या, उपदेष्टृत्वात्। अतस्तेषां हिंसनमेव तद्वधे मुख्य उपाय” इत्याहुः — अयमिति॥४२॥ एवं दुष्टैर्मन्त्रिभिः सह कंसः सम्मन्त्र्य ब्रह्महिंसा हित मेन इत्यन्वयः। ननु “क्षत्त्रियस्य ब्राह्मणरक्षणमेव युक्तम्, ब्राह्मणहिंसा तु सर्वथाऽनुचितैव, अनर्थहेतुत्वात्। इति मन्त्रिणा दुष्टत्वेऽपि ता कथं हित मेने" इत्याशङ्क्याह — असुर इति। ननु ‘असुरा अपि प्रल्हादबलिप्रभृतयो धर्मिष्ठाः श्रुता’ इत्याशङ्क्याह — दुर्मतिरिति। तत्रापि हेतुमाह — कालपाशावृत इति। आसन्नमृत्युरित्यर्थः॥४३॥ ततश्च सर्वदिक्षु साधुलोकस्य सदाचारनिष्ठब्राह्मणादिजनस्य कदने दुःखोत्पादने दानवान् सन्दिश्य आज्ञाप्य स्वयं गृहमाविशत्। ‘दानवानामपि तदाज्ञया महानुत्सवो जात’ इत्याशयेन विशिनष्टि— कदनप्रियानिति। कदनं परदुःखोत्पादनं प्रियं येषां तानित्यर्थः। तेषां सर्वत्र गमने सर्वोपद्रवे च सामर्थ्यं सूचयन्नाह — कामरूपधरानिति।
श्रीशुक उवाच॥ ॥एव दुर्मन्त्रिभिः कंस सह सम्मन्त्र्य दुर्मतिः॥ ब्रह्महिसां हित मेने कालपाशावृतोऽसुरः॥४३॥ सन्दिश्य साधुलोकस्य कदने कदनप्रियान्॥ कामरूपधरान् दिक्षु दानवान् गृहमाविशत्॥४४॥ ते वै रजःप्रकृतयस्तमसा मूढचेतस॥ सतां विद्वेषमाचेरुरारादागतमृत्यवः॥४५॥ आयुः श्रिय यशो धर्म लोकानाशिष एव च॥ हन्ति श्रेयांसि सर्वाणि पुसो महदतिक्रमः॥४६॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे जन्मप्रकरणे कंसोद्यमनिरूपणं नाम चतुर्थोऽध्यायः॥४॥ ॥छ॥
॥छ॥
यथेष्टवेषधारिण इत्यर्थः॥४४॥ ते कंसाज्ञप्ता दैत्या अपि सता विद्वेषमुपद्रवमाचेरुः कृतवन्त इत्यन्वयः। तेषामपि असदाचरणेदुर्बुद्धित्वमेव हेतुमाह — रजःप्रकृतय इति। रजसा गुणेन विक्षिप्तस्वभावा इत्यर्थः। तमसा मूढमर्थानर्थविवेके असमर्थ चेतो येषां ते। एवं बुद्धिभ्रंशेऽपि हेतुमाह — आरात् समीपमागतो मृत्युर्येषां ते इति॥४५॥ न केवलं पुंसः आयुरेव महतामतिक्रमस्तिरस्कारो हन्ति, किन्त्वायुरादीनि सर्वाण्येव श्रेयांसि हन्तीत्यन्वयः। श्रेयास्येव दर्शयति — श्रियं धनसम्पत्तिम्, यशः कीर्तिम्, धर्म पुण्यम्, तत्प्राप्यान् स्वर्गादिलोकाश्च, आशिषः अन्याश्चाकाङ्क्षितान् पुत्रादीन्॥४६॥ इति श्रीवल्लभाचार्य — वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र हरेर्जन्मनिरूपणे॥ चतुर्थो विवृतोऽध्यायः कंसोद्यमनिरूपकः॥३॥ ॥
॥ ॥
एवं चतुर्भिरध्यायैः कृष्णजन्म निरूपितम्। अष्टाविंशतिभी रोधस्तामसानां निरूप्यते॥१॥ पञ्चमे जातकं कृत्वा नन्दो दातुकरं गतः॥ मथुरा वसुदेवेन सङ्गतश्चेति वर्ण्यते॥२॥ एवं ‘तस्या रात्र्या व्यतीतायाम्’ इत्यादिना कंसकृत उद्योगो निरूपितः। अथ व्रजे भगवज्जन्ममहोत्सवं निरूपयति — नन्दस्त्वित्यादिना। तुशब्देन वसुदेवान्नन्दे विशेषं सूचयति — भगवत्प्राकट्ये वसुदेवो जाताह्लादोऽपि कंसभिया सङ्कुचितमनाः, अत एव जातकर्मादिकं कर्तुं नाशक्नोत्। नन्दस्त्वात्मजे उत्पन्ने श्रीकृष्णे पुत्ररूपेण प्रादुर्भूते सति जाताह्लादः, अतएव महामनाः अतिविस्तृतमनाः दानादावत्युदारचित्तो दैवज्ञान् ज्योतिर्विदो विप्रान् आहूय स्वयं स्नातः, अत एव शुचिः। ततोऽलङ्कृतश्च सन्। ‘वेदज्ञान्’ इति पाठे तु “यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति” इति श्रुतेः सर्वदेवतासान्निध्यार्थं वेदविदामाह्वानं ज्ञेयम्॥१॥ ब्राह्मणैः स्वस्त्ययनं माङ्ग-
श्रीशुक उवाच॥ ॥ न^(१)न्दस्त्वात्मज47 उत्पन्ने जाताह्लादो महामनाः॥ आहूय विप्रान् दैवज्ञान्48 स्नातः शुचिरलङ्कृत॥१॥ वाचयित्वा स्वस्त्ययन जातकर्मात्मजस्य वै॥ कारयामास विधिवत् पितृदेवार्चन तथा॥२॥ धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते॥ तिलाद्रीन् सप्त रत्नौघशातकौम्भाम्बरावृतान्॥३॥
लिकं सूक्तं वाचयित्वा आत्मजस्य पुत्रस्य जातकर्माख्यं संस्कारविशेषं विधिवत् कारयामास। वै इति सन्देहाभावाय। तथा विधिवत् पितृदेवार्चनं नान्दीश्राद्धादिकं च कारयामास। विधिवदित्यस्याग्रेऽपि यथोचित सम्बन्धः॥२॥ सम्यगलङ्कृते धेनूना
————————————————————————————————————————
१. ‘एव चतुर्भिरध्यायैर्जन्म विष्णोर्निरूपितम्। हेतूद्यमोत्तरागैश्च राजसादिगुणैर्युतम्॥ सप्तसप्ततिभि कृत्य हरेरत्र निरूप्यते। भगवान् स्वेन धर्मैश्च सप्तधैकादशेद्रियै॥ कृत्य चकार यस्माद्धि ततस्तावद्भिरुच्यते। त्रिविधानि च कर्माणि त्रिविधाना हिताय हि॥ तत्त्वातिक्रमणे रोधस्तामसे राजसे भवेत्। कालातिक्रमणे शिष्टे कालस्तत्रैकविंशति॥ ‘द्वादश मासा पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश’ इति श्रुते॥ लौकिकेषु तु धर्मेषु यत्रैव हरिवेशनम्। निवर्त्तते तदेवात्र वह्नेर्दारुमय यथा॥ स्वभावस्यान्यथाभावो नैव शक्य कथंचन। अतस्त्रिविधजीवेषु त्रिविधा भगवत्कृति॥ लौकिकं तामसे मुख्यं कामाता च कृति स्फुटा। कामोद्भूते तथा प्रीतिस्तेनादौ तन्निरूप्यते॥ बाललीला मध्यलीला प्रौढलीला तथैव च। कामलीलेति लोके वै चतस्र सुवदा स्मृता॥ एकं भगवत कार्यं बह्वर्थानां च साधकम्। प्रपंचविस्मृति सर्वा तदासक्तिश्चवर्ण्यते॥ येनैव त्रिविधा भक्ता न स्मरति जगत् क्वचित्। कृष्णे च सन्नतात्मानस्तत्कायभगवत्कृतम्॥ बाललीला सप्तविधा प्रथमा सा निरूप्यते। बालभावरता ये हि तेषां रोधस्ततो भवेत्॥ उत्सवाविष्टचित्ता ये येऽप्याश्चर्याभिवेशिन। अलौकिकरता ये हि ये चोपद्रविणोत्सुका॥ स्त्रीस्वभावरता ये वै ये च तत्त्वे च लौकिके। सर्वोद्योगपरा ये च तेषां रोधो निरूप्यते॥ जन्मोत्सवो हरेरत्र पञ्चमे विनिरूप्यते। आवश्यकं परित्यज्य कृतं तदिति सूच्यते॥ अन्यथा ज्ञानशंका च तेनैव विनिर्वायते। उत्सवस्त्वन्यथा न स्यात् द्रव्यानयनमेव च॥ आसक्तिबोधनार्थाय तस्यांते भयवर्णनम्" इति सुबोधिनीकारिका।
नवप्रसूताना गवा नियुते द्वे लक्षे। तथा रत्नौघैः रत्नसमूहैः शातकौम्भेन सुवर्णेन अम्बरैः उत्तमवस्त्रैश्चावृतान् सप्तसङ्ख्याकान् तिलाद्रींश्च विप्रेभ्यः प्रादादित्यन्वयः। अद्रिपरिमाणं तु भविष्योत्तरे उक्तम्—
‘उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिर्मतः॥ त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्तितः”॥ द्रोणसङ्ख्या च —“खारी द्रोणाढकप्रस्था कुडव च पल पिचु। शाणको मासकश्चेति यथापूर्वं चतुर्गुणा” इति॥३॥ ननु ‘किमर्थं जातकर्मादिकरणम्’ इत्यपेक्षयामाह — कालेनेति। यतः कालादिभिर्द्रव्याणि शुद्ध्यन्ति, यतश्चात्मविद्यया ‘अहं ब्रह्मास्मि’ इति साक्षात्कारेण भगवदुपासनया वा आत्मा जीवः शुद्ध्यति, अतो जातस्य पुत्रस्य विशुद्ध्यर्थं तत् सर्वं कृतवानित्याशयः। विशुद्ध्यर्थमित्युपलक्षण भगवत्प्रसादादेः, ‘विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च’ इति वक्ष्यमाणत्वात्। तत्र कालेन भूमिपाषाणादीनां जन्ममरणादिप्रयुक्ताशौचवता च शुद्धिः, स्नानेन देहस्य, शौचेन प्रक्षालनेन हस्तपादादिदेहावयवानां वस्त्रपात्रादीनां चामेध्यस्पृष्टानाम्, संस्कारैर्जातकर्माभिषेकादिभिः बालस्य राजादेश्च, तपसेज्यया च इंद्रियाणां मनसश्च, दानै-
कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया॥ शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्मात्मविद्यया॥४॥ सौमङ्गल्यगिरो विप्राः सूतमागधबन्दिनः॥ गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः॥५॥ व्रजः सम्मृष्टससिक्तद्वाराजिरगृहान्तरः॥ चित्रध्वजपताकास्रक्चैलपल्लवतोरणैः॥६॥ गावो वृषा वत्सतरा हरिद्रातैलरूषिता॥ विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः॥७॥ महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः॥ गोपाः समाययू राजन्नानोपायनपाणय॥८॥
र्व्यवहारोपार्जितधान्यादिद्रव्याणाम् मनसश्च, सन्तुष्ट्याऽपि मनस इति विवेकः॥४॥ विप्रादयः सौमङ्गल्यगिरः स्वस्तिवाचका बभूवुः। तत्र “सूताः पौराणिकाः प्रोक्ता मागधा वशशसकाः। बंदिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः" इति भेदः। मुहुरित्यस्य सर्वत्रान्वयः। अन्ये च गायका जगुः, भेर्यो दुन्दुभयश्च नेदुः॥५॥ सम्यक् मृष्टानि निःसारितरजस्कानि ततश्चन्दनपुष्पादिजलैः ससिक्तानि च द्वाराणि अजिराणि अङ्गणानि गृहान्तराणि गृहमध्यानि च यस्मिस्तथाभूतो व्रजश्चित्रध्वजादिभिर्भूषितो जात इति शेषः। चित्रेति प्रत्येकविशेषणम्, गरुडादिचिह्निता ध्वजाः, जययन्त्राङ्किताः पताकाः। स्रजा पुष्पमालानां, चैलानां वस्त्रखण्डानां, पल्लवानां च त्रिविधानि तोरणानि च तैः॥६॥ हरिद्रायुक्ततैलेन रूषिता लिप्ताः, विचित्रा धातवो गैरिकादयश्च बर्हाणि मयूरपिच्छानि च स्रजः पुष्पमालाश्च वस्त्राणि च काञ्चनमालाश्चालङ्कारतया विद्यन्ते येषां तथाभूतां गवादयो बभूवुरिति शेषः॥७॥ “राज्ञामेवमुत्सवो भवति, तं त्वं जानास्येव" इति सूचयन् सम्बोधयति—
राजन्निति। महार्हाणि अमूल्यानि यानि वस्त्रादीनि तैर्भूषिताः नानाविधान्युपा-
यनानि प्रदेयानि वस्त्राभरणादीनि पाणौ येषां ते गोपा सम्यक् सादरा हृष्टाः आययुः॥८॥ यशोदायाः सुतोद्भवमाकर्ण्य प्रमुदिताः प्रहृष्टा गोप्यश्चात्मान वस्त्रादिभिर्भूषयाञ्चक्रुरित्यन्वयः। आकल्पा अलङ्काराः। आदिपदेन चन्दनमालादिसङ्ग्रहः॥९॥ नवकुङ्कुमकिञ्जल्कैर्मुखपङ्कजेषु भूतिः शोभा यासां ताः। बलिभिः स्वर्णमुद्रारत्नहारानर्घ्यवस्त्रनारिकेलादि-फलाक्षतदूर्वाचन्दनपुष्पमालाद्यैः पाणिभिर्गृहीतैः सह त्वरितं यथा स्यात्तथा नन्दगृहं जग्मुरित्यन्वयः। यद्यपि स्थूलश्रोणिकुचत्वात् तासां बलि गृहीत्वा त्वरितगमनमसम्भावितमेव, तथाप्यत्यौत्सुक्यवशात्तथा जग्मुरित्याशयेनाह—
पृथुश्रोण्यश्चलत्कुचा इति॥१०॥ ताश्च गोप्यो नन्दालयनन्दगृहं प्रति व्रजतीर्व्रजन्त्यः पथि मार्गे विशेषतो रेजुरित्यन्वयः। शोभातिशय प्रदर्शयस्ता विशिनष्टि—
सुमृष्टानि निर्मलीकृतानि मणिमयानि कुण्डलानि यासां ताश्च, निष्काः पदकाख्यभूषणानि कण्ठे यासां ताश्च, चित्राणि
गोप्यश्चाकर्ण्य मुदिता यशोदाया सुतोद्भवम्॥ आत्मानं भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभि॥९॥ नव49कुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः॥ बलिभिस्त्वरित जग्मुः पृथुश्रोण्यश्चलत्कुचाः॥१०॥ गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश्चित्राम्बरा पथि शिखाच्युतमाल्यवर्षा॥ नन्दालयं सवलया व्रजतीर्विरेजुर्व्यालोलकुण्डलपयोधरहारशोभाः॥११॥ ता
आशिष प्रयुञ्जानाश्चिरं पाहीति बालके॥ हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो जनमुज्जगुः॥१२॥
अम्बराणि वस्त्राणि यासां ता। शिखाभ्यश्च्युतानि गलितानि माल्यानि, तेषा वर्षाणि वृष्टयो यासु ताः। वलयैः कङ्कणैः सहिता भूषिता इति सवलया। व्यालोलैर्गतिवशेन प्रचलद्भिः कुण्डलपयोधरहारैः शोभा यासां ता॥११॥ तत्रागतानां कृत्यमाह — ता इति। ता गोप्यो बालके श्रीकृष्णे चिरं पाहीत्येवमाशिषः प्रयुञ्जानाः सत्यो हरिद्राचूर्णतैलाद्भिर्मिलितैर्जन सिञ्चन्त्यश्च उच्चैर्जगुरित्यन्वयः। चिरं पाहीत्यनेन लोके हि बालके ‘त्वं चिरं जीव’ इत्येवमेवाशिषः प्रयोगो भवति, सतु भगवत्यनुचित एवेति तासां तत्र स्नेहाधिक्यात् तत्कृपया यथोचितमेव प्रयोगो जातः। एवमपि चिरजीवन तु फलत्येवेति ज्ञेयम्। यद्वा ‘भो परमेश्वर! एनं चिरं पाहि’ इत्याशिषः प्रयुञ्जानाः॥१२॥
श्रीकृष्ण नन्दस्य व्रज प्रत्यागते अवतीर्णसात यो महानुत्सवस्तस्मिन् विचित्राणि नानाविधानि वादित्राणि अवाद्यन्त’ इत्यन्वयः। ‘श्रीकृष्णावतारो दुर्लभ’ इति सूचयन्नाह — विश्वेश्वर इति। तत्र हेतुं सूचयन्नाह — अनन्ते इति। देशकालवस्तुपरिच्छेदरहिते इत्यर्थः॥१३॥ हृष्टा गोपाश्च दध्यादिभिः परस्परमासिञ्चन्तो, नवनीतैर्मुखं विलिम्पन्तश्च चिक्षिपुः। परिहासार्थ दध्यादिपङ्के पातयामासुरित्यर्थः॥१४॥ महामना अत्युदारचित्तो नन्दश्च तेभ्यः पूर्वोक्तेभ्यो गोपेभ्यो गोपीभ्यश्च, सूतादिभ्यस्तथा येऽन्ये च विद्योपजीविनो गायकाः, वादकाः, वैद्याः, ज्योतिर्विदो, नर्तकाः, शाकुनिकाश्च तेभ्यश्च वासोऽलङ्कारगोधन दत्तवानिति शेषेणान्वयः॥१५॥ न केवलमेतावन्मात्रमेव दत्तवान्, किन्तु ये यान् यान् कामान् अयाचन्त तान् तैस्तैः कामैः पदार्थैः अदीनात्मा उदारचित्ततया प्रहृष्टचित्तो यथोचित जातिविद्याद्यनुरूप यथा स्यात्तथा अपूजयत्, स तत्तत्प्रदानेन सत्कृतवानित्यर्थः। एवं दानादेः प्रयोजन-
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे॥ कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते॥१३॥
गोपाः परस्परं हृष्टा द^(१)धिक्षीरघृताम्बुभि॥ आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः॥१४॥
नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम्॥ सूतमागधबन्दिभ्यो येऽन्ये विद्योपजीविनः॥१५॥
तैस्तैः कामैरदीनात्मा यथोचितमपूजयत्॥ विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च॥१६॥
रोहिणी च महाभागा नन्दगोपाभिनन्दिता॥ व्यचरद्दिव्यवासः स्रक्कण्ठाभरणभूषिता॥१७॥
माह—
विष्णोरिति। आराधन सन्तोषस्तदर्थमित्यर्थः। तस्यापि प्रयोजनमाह—
स्वपुत्रस्योदयाय, समृद्धये इत्यर्थः। चकारान्नवग्रहदिक्पालादीनपि तदर्थमपूजयदिति ज्ञेयम्॥१६॥ यद्यपि कंसभयाद्वजे स्थिताया रोहिण्या उत्साहो न सम्भवति, तथापि भगवत्प्राकट्यप्रभावात्तस्या अप्युत्साहोऽभूत्तमाह—
रोहिणी चेति। नन्दगोपेनाभिनन्दिता ‘त्वदागमनमङ्गलेनैव मम पुत्रो जातः। यशोदायाः पुत्रजन्मना कार्ये निरोधात् तदतिरिक्तस्त्र्यभावाच्च त्वयैव सर्वं कार्यं कर्तव्यम्’ इति प्रोत्साहिता दिव्यवस्त्रादिभिर्भूषिता च सती रोहिणी विशेषेण श्रीकृष्णजन्मोत्सवानन्देन गृहिणीवाचरत्। समागतस्त्रीजनसन्मानादिकर्त्री जातेत्यन्वयः। श्रीकृष्णबलदेवयोर्जन्ममहोत्सवबालचरित्राद्यानन्दानुभवात् तद्भाग्यमाहात्म्यातिशयमाह—
महाभागेति। देवक्यादीनामेतदननुभवात् ताभ्यो महाभाग्यवतीत्यर्थः॥१७॥
———————————————————————————————————————————————————————————
१ “दधिक्षीरघृताम्बुभि परस्परमासिञ्चन्त। दध्यादि मुखेषु विलिम्पन्त। नवनीतै पिण्डै चिक्षिषु अन्योन्यस्योपरि प्रक्षिप्तवन्तः। अथवा यस्य यत्प्राप्ति। केचिद्दध्ना केचित् क्षीरेण घृतेनाम्बुभि। आसेचनम् तुल्यतया लेपनम्, आधिक्ये अतिरसाविष्टेन नवनीतैः क्षेप। अतिमत्ततया एव सर्वेषां महानुत्सव उक्त" इति सुबोधिनी।
ननु ‘एवं सर्वेषां वाञ्च्छितप्रदानं नन्देन कथं सम्भवति? यथाकथंचित् सर्वस्वदानेन वाञ्च्छापूरणेऽपि नन्दस्य समृद्ध्यभावः स्यात्" इत्याशङ्क्याह—
तत इति। ततो भगवत्प्रादुर्भावादारभ्य नन्दस्य व्रजो धनपुत्रपश्वादिसर्वसमृद्धिमान् जातः। अतो नन्दस्य समृद्धौ किं वक्तव्यम्?। तत्र हेतुमाह—
हरेरिति। हरेर्निवासेन हेतुना ये आत्मनो व्रजस्य गुणाः सर्वप्रियत्वादयस्तैः रमायाः आक्रीड विहारस्थानमभूत्। ‘यत्रैव राजा तिष्ठति तत्रैव सर्वाऽपि समृद्धिरिति तु तव विदितमेव’ इत्याशयेन सम्बोधयति—
नृपेति॥१८॥ राज्ञे द्रव्यदानमप्यावश्यकमिति तु तवापि सम्मतमित्याशयेन सम्बोधयति—
कुरूद्वह इति। एवं श्रीकृष्णजन्ममहोत्सवं कृत्वा गोकुलरक्षाया गोपान्निन्रूप्य आदिश्य कंसस्य वार्षिक्यं प्रतिवर्षं देयं करं स्वामिग्राह्यं भागं दातुं नन्दो मथुरां गत इत्यन्वयः॥१९॥ ततश्च वसुदेवो भ्रातर सन्मित्र नन्दमागतमुपश्रुत्य तस्य नन्दस्यावमोचनम्, अवमुच्यते शकटादि यत्र ‘तद्वसतिस्थान’ यया-
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान्॥ हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप॥१८॥
गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः॥ नन्द कंसस्य वार्षिक्य करं दातुं कुरूद्वह॥१९॥
वसुदेव उपश्रुत्य भ्रातर नन्दमागतम्॥ ज्ञात्वा दत्तकर राज्ञे ययौ तदवमोचनम्॥२०॥
तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम्॥ प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः॥२१॥
पूजितः सुखमासीन पृष्ट्वाऽनामयमादृतः॥ प्रसक्तधी स्वात्मजयोरिदमाह विशाम्पते॥२२॥
वित्यन्वयः। ‘करदानात् पूर्वं तुतत्र राजभृत्यानामागमनसम्भवादत्तग्रे प्रश्नादिकरणे नन्दे मैत्री प्रकटा स्यात्, तच्छ्रवणात् कंस कि कुर्यात् ‘इति भयात् पूर्वं न गतः। राज्ञे दत्तः करो येन तथाभूतं ज्ञात्वा तु ययौ॥२०॥ तं प्रियतममागतं वसुदेवं दृष्ट्वा प्रीतः प्रसन्नचित्तः प्रेम्णा विव्हलो व्याकुलश्च नन्दः सहसा झटिति उत्थाय दोर्भ्यां भुजाभ्यां सस्वजे आलिङ्गितवानित्यन्वयः। उत्थाने दृष्टान्तमाह — देह इति। मूर्च्छितो देहो यथा प्राणे समागते शीघ्रमेवोत्तिष्ठति तथेत्यर्थः॥२१॥ ततश्च नन्देन पूजितः पाद्यासनादिना सत्कृतः अनामय कुशलं पृष्ट्वा आदृतश्च। अतः सुखं यथा स्यात्तथा आसीन उपविष्टो वसुदवो नन्दं प्रतीद वक्ष्यमाणमाहेत्यन्वयः। एवमागत्य प्रश्ने हेतुं सूचयन्नाह — प्रसक्तेति। आत्मजयो रामकृष्णयोः प्रसक्ता धीर्यस्य सः। तद्वृत्तान्तज्ञानार्थ भङ्ग्यन्तरेण पृष्टवानित्याशयः। ‘तद्गूढप्रश्नाभिप्रायज्ञाने त्वं समर्थोऽसि, बहुदेशाधिपतित्वात्’ इत्याशयेन सम्बोधयति — विशा देशानां पते इति॥२२॥
तद्वाक्यान्येवाह — दिष्ट्येति षड्भिः। हे भ्रातः! अप्रजस्य अपत्यरहितस्य ते तव इदानीं यत् प्रजा समपद्यत प्राप्ता तत् दिष्ट्येत्यन्वयः। ‘दिष्ट्या’ इति आनन्दद्योतकमव्ययम्। तेनास्माकं महानानन्दो जात इत्यर्थः। एवमग्रेऽपि। आनन्दाधिक्ये हेतुमाह — प्रजाया आशाया निवृत्तस्येति। तत्रासामर्थ्यं हेतुमाह — प्रवयस इति। वृद्धस्येत्यर्थः। न च “अग्रे मथुरावासिना बृद्धानामपि भगवद्दर्शनादिना यौवनप्राप्तेर्वक्ष्यमाणत्वान्नन्दादीना सा कुतो न” इति शङ्कनीयम्, वृद्धस्याभिनवबालके स्नेहाधिक्यस्य तद्बालचरित्रानुभवसुखाधिक्यस्य च प्रसिद्धत्वात्तदर्थ भगवदिच्छयैव तेषां वृद्धत्वस्थितिः। पुत्रपदोपादानेऽनृतवादः स्यात्, कन्येत्युक्तौ च नन्दस्य भ्रमः प्रश्नादिक च स्यात्, अत उभय विहायो उभयसाधारणस्य प्रजापदस्योपादानमिति बोद्ध्यम्॥२३॥ अद्य भवान् पुनर्भवः पुनर्जात इव उपलब्धो दृष्ट इत्यपि दिष्ट्येत्यन्वयः। तत्र हेतुमाह — संसारेति। “यथा चक्रे स्थितानां पिपीलिकादीनां तत्र स्थितिरपि दुर्लभा, परस्परं दर्शनं मेलनं त्वशक्यमेव, यदि कदाचिद्दर्शनादिकं भवति तदा पुनर्जातस्येव भवति, तथा संसारेऽपि” इति सूचयितु चक्रपदम्।
वसुदेव उवाच॥ दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते॥ प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत॥२३॥ दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भव॥ उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम्॥२४॥ नैकत्र प्रिय! संवासः सुहृदां चित्रकर्मणाम्॥ ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा॥२५॥ कच्चित् पशव्य निरुजं भूर्यम्बुतृणवीरुधम्॥ बृहद्वन तदधुना यत्रास्से त्व सुहृद्वृतः॥२६॥
तत्रापि दुःखहेतुपापाना बाहुल्यात्तद्वशाच्छत्रूणा दर्शन सम्भवत्यपि प्रियाणा मित्राणा दर्शन तु दुर्लभमेव, सुखहेतुपुण्याना दुर्लभत्वादित्याशयः॥२४॥ उक्तमेव स्पष्टयति — नेति। हे प्रिय! सुहृदा मित्राणा सम्यक् सुखपूर्वकमेकत्र वासो नैव भवति। तत्र हेतुमाह — चित्रकर्मणामिति। कर्मणा विचित्रत्वात्तद्वशवर्तिना मध्ये कस्यचित् पुण्यवशात् सुख भोक्तव्यम्, कस्यचित् पापवशाद्दुःख भोक्तव्यम्, तथा चोभयविधभोगयोः परस्परविरोधेन परस्परप्रीतिपूर्वकमेकत्र स्थितानामसम्भवात्तद्वशाद्वियुज्यन्ते इत्यर्थः। तत्र दृष्टान्तमाह — ओघेनेनि। प्लवन्तीति प्लवाः तृणकाष्ठादयः, तेषा स्रोतसो नद्या ओघेन प्रवाहेण व्यूह्यमानाना नीयमानाना क्षणमात्र मिलितानामपि यथा एकत्र स्थितिर्न भवति तद्वदित्यर्थः॥२५॥ पुत्रयोः प्रसक्तबुद्धित्वात् पशव्यादिरूपे तस्मिन् वने निर्दोषगोपयोदध्यादिप्रभूतगोपिकास्तन्यादिना पुत्रक्षेमविवित्सया पृच्छति — कच्चिदिति। यत्र त्वमास्से, तद्बृहद्वन कच्चित् पशव्य पशूना हितमस्तीत्यन्वयः। कच्चिदितीष्टपरिप्रश्ने, तेन तदस्माकमित्यर्थः। पशव्यत्वमेव स्पष्टयति — निरुज रोगरहितम्। भूरीणि अम्बूनि तृणानि वीरुधो लताश्च यस्मिस्तत्। कालान्तरनिवासस्थानप्रश्नस्यानुपयोगादाह — अधुनेति। अधुनाऽप्येकाकी कदाचित् कार्यार्थमन्यत्रापि
तिष्ठति तत्प्रश्नोऽप्ययुक्तोऽत आह — सुहृद्भिः बधुभिर्वृत इति॥२६॥ हे भ्रातः! मात्रा सह मम सुतो भवन्तं तात पितर मन्वानो भवद्भ्यांदम्पतिभ्यामुपलालितो भवद्वजे कच्चित् कुशलमास्ते इति शेषेणान्वयः॥२७॥ एवं पुत्रयोः कुशल पष्ट्वा “त्वमस्माकं सुहृदामुपकारेण कृतार्थ एव, यशोधर्मादिलाभात्। मम तु कंसभयात् पुत्रादीना स्थानेषु निलीय स्थितत्वात्तत्पालने सामर्थ्याभावेन धनादिकं सर्व व्यर्थमेव” इत्याशयेन सामान्यतो लोकमर्यादामाह — पुंस इति। हि यस्मात्। पुंसस्त्रिवर्गो धर्मार्थकामाख्यः सुहृदो भ्रातृपुत्रादिबन्धून् प्रति अनुभावितः सम्पादित एव विहितो बृद्धैरनुज्ञातोऽतस्तेषु सुहृत्सु क्लिश्यमानेषु सत्सु त्रिवर्गोऽर्थाय न कल्पते सुखाय न भवति॥२८॥ एवं वसुदेवेन पृष्टो नन्दः ‘त्वत्पृष्ट मद्वजपशव्यादिकमस्त्येव, तत् किं वक्तव्यम्? तव दैन्यानुभवेन ममापि सुख नास्ति’ इत्याशयेनाह — अहो इति। ‘धर्मात्मनोऽपि दुःखमाश्चर्यमेव’ इत्याह — अहो इति। देववाणीप्रामाण्याद्यदि शत्रुत्वेन मारणीयस्तदाऽष्टम एक एव मारणीयः, कंसेन तु दुष्टतया ते तव भार्याया देवक्याः पुत्रा बहवो हताः। एका अवरजा पश्चाज्जाता कन्याऽवशि-
भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे॥ तात भवन्त मन्वानो भवद्भ्यामुपलालित॥२७॥ पुसस्त्रिवर्गो विहित सुहृदो ह्यनुभावितः॥ न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते॥२८॥ नन्द उवाच॥ अहो ते देवकीपुत्राः कंसेन बहवो हताः॥ एकाऽवशिष्टाऽवरजा कन्या साऽपि दिवं गता॥२९॥ नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जन॥ अदृष्टमात्मनस्तत्त्व यो वेद न स मुह्यति॥३०॥ वसुदेव उवाच॥ करो वै वार्षिको दत्तो राज्ञे दृष्टा वय च वः॥ नेह स्थेयं बहुतिथ सन्त्युत्पाताश्च गोकुले॥३१॥
ष्टा तन्मारणादुर्वरिता, साऽपि दिव स्वर्ग गता॥२९॥ “यदि साप्यत्र तिष्ठेत्तदा तत्पुत्रादिद्वारापि देवकीवशः प्रवर्तेत। तदपि नाभूदिति न केवल कंसस्यैवाय दोषः, किन्तु स्वभाग्यमपि तादृशम्। अन्यथा तस्या देवतात्वेन कंसकृतभयाभावादत्रैव तिष्ठेत्” इति सूचयन् एतादृशेऽर्थे सर्वत्रादृष्टमेव प्रयोजकमिति सामान्यत आह — नूनमिति। निश्चितमय जनः अदृष्टनिष्ठः, अदृष्ट एव निष्ठा स्थितिर्यस्य तथाविधः। अदृष्टशब्दवाच्यपुण्यपापाधीनमेवास्य जन्ममरणयोगवियोगसुखदुःखादिकं सर्वमित्याशयः। तथाऽदृष्टपरम, अदृष्टमेव परम नियामक यस्य सः लौकिकालौकिकव्यापारे प्रवृत्तिरप्यस्य पूर्वादृष्टाधीनेत्यर्थः। हि यस्मादेवमतोऽदृष्टमेवात्मनः स्वस्य तत्त्व संयोगवियोगदुःखसुखादिकारण यो वेद जानाति स न मुह्यति। तथाच त्वयाऽपि मोहो न कार्य इत्याशयः॥३०॥ एव प्रश्नोत्तराभ्या स्वपुत्रयोः कौशल्य नन्दस्य स्वकर्तृकपुत्रप्रस्थापनकन्यानयनज्ञानाभाव च निश्चित्य कंसकृतमन्त्रश्रवणेन उपद्रवशङ्काकुलचित्तो नर्न्द भयमुत्पादयन् व्रज प्रेषयति — कर इति। वो युष्माभिर्वार्षिक करो राज्ञे दत्तो वयं च दृष्टा। अत कार्यस्य
जातत्वादिह स्थाने बहुतिथ बहुकाल न स्थेयम्। तत्र हेतुमाह — गोकुले उत्पाताः सन्तीति। चकारो ‘धनिना राजसन्निधाने चिर स्थितौ ततोऽपि भय स्यात् ‘इति सूचनाय। वैष्णवे स्पष्ट तथोक्तेः॥३१॥ शौरिणा वसुदेवेन इत्येवं प्रोक्ता नन्दादयो गोपास्त वसुदेवमनुज्ञाप्य पृष्ट्वा अनडुद्युक्तैर्वृषयोजितैरनोभिः शकटैर्गोकुल ययुरित्यन्वयः॥३२॥ इति श्रीवल्लभाचार्य— वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ पञ्चमो विवृतोऽध्यायो जन्मोत्सवनिरूपकः॥३॥ षष्ठे तु पूतनामोक्षः कृष्णस्याद्भुतकर्मणः॥ लीला रक्षा च गोपीभिराश्चर्य च निरूप्यते॥१॥ ‘शौरेर्वसुदेवस्य वचो न मृषा’ इति विचिन्तयन् उत्पातागमशङ्कायुक्तो नन्दः पथि मार्गे एव हरि शरणागतदुःखहारिण भगवन्त शरण जगामेत्यन्वयः॥१॥ कंसेन प्रहिता प्रेषिता
श्रीशुक उवाच॥ ॥ इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः॥ अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम्॥३२॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे जन्मोत्सवनिरूपणं नाम पञ्चमोऽध्याय॥५॥
श्रीशुक उवाच॥॥ न^(१)न्द पथि वचः शौरेर्न मृषेति विचिन्तयन्॥ हरि जगाम शरणमुत्पातागमशङ्कितः॥१॥
कंसेन प्रहिता घोरा पूतना50 बालघातिनी। शिशूंश्च चारनिघ्नन्ती पुरग्रामव्रजादिषु॥२॥
न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु॥ कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि॥३॥
पूतना पुरग्रामादिषु शिशून्निघ्नन्ती चचारेत्यन्वयः। ‘न केवलं कंसप्रेरणयैव बालान् हन्ति, किन्तु तस्या अपि तत्राग्रहः’ इत्याशयेनाह — बालघातिनीति। ननु “स्त्रीणां बालेषु स्नेहाधिक्यात् कथं तया बालहननं सङ्गच्छते?” तत्राह — घोरेति। क्रूरस्वभावेत्यर्थः॥२॥ ननु “यदि तस्याः स्वभावत एव बालघातकत्व, तदा कथं बालकानांजीवनम्? व्रजेऽपि बालास्तया मारिताः स्युः" इत्यपेक्षयामाह — नेति। यत्र पुरादिषु स्वकर्मसु दृष्टादृष्टफलकेषु लौकिकालौकिकव्यापारेषु वर्तमाना जनाः सात्त्वतां भक्तानां भर्तुः पालकस्य भगवतः श्रवणादीनि न कुर्वन्ति, तत्रैव यातुधान्यो राक्षस्य., चकारादन्येऽपि विघ्नकर्तारो विघ्नान् कुर्वन्ति इति शेषेणान्वयः। तत्र हेतुमाह — रक्षोघ्नानीति। श्रवणादिनवभक्तीनां रक्षोविनाशकत्वात् तदन्यतरसत्त्वे विनाश-
——————————————————————————————————————————
१ “चरित्रमद्भुत शास्त्रे लोकेऽपि भगवत्कृतम्। पूतनासु पय पान षष्ठे रक्षा निरूप्यते॥ एक कार्य भगवतो बह्वर्थाना तु साधकम्। अतो दुष्टवधो रक्षा बालकाना तत कृता॥ वीर्यंभगवतो वर्ण्यंमायया भगवत्कृतम्। दुःख तस्मात्तु मुक्तिर्हि निरोधोक्तेर्न दूषणम्॥ भयं निवर्त्य वीर्येण द्विविध बाह्यमान्तरम्। आन्तर शब्दज बाह्य पूतनाजनित तथा”॥
भिया तेषा तत्र गमनाभावान्न तत्रत्यबालविनाशो, व्रजे तु साक्षाद्भगवतो विद्यमानत्वान्न तत्रत्यानां बालकानां विनाशः॥३॥ यद्यपि जगन्मोहकारणभूतमायाधिपतेर्भगवतो विद्यमानत्वान्न तत्र पूतनाया आगमनमायाप्रभावश्च सम्भवति, तथाप्यद्भुतकर्मणः स्वलीलासिद्धीच्छावशात् तत्रागमनादिकं जातम् तन्निरूपयति — सेति। सा खेचरी आकाशचारिणी पूतना एकदात्मान योषित्त्वा51 वरां नारीमिव कृत्वा नन्दगोकुलमुपेत्यागत्य गृह प्राविशदित्यन्वयः। आकाशचारित्वे निःशङ्कतया परगृहप्रवेशादौ च तत्सामर्थ्यमाह — कामचारिणीति। यथेष्टरूपधारणान्तर्धानगमनादौ समर्थेत्यर्थः॥४॥ “तांप्रविशन्तीं व्रजवासिनः कुतो न वारितवन्त?” स्तत्राह — तामिति। तां राक्षसीं गोप्यो वनिता वरस्त्रियममंसतेत्युत्तरे52णान्वयः। तथाच न वारितवत्यः। तत्सौन्दर्यातिशय दर्शयन् दृष्टान्तमाह— अम्भोजेति। अम्भोजयुक्तेन करेण हेतुना पति भगवन्तं द्रष्टुमागतां रूपिणीं सुन्दरीं श्रियं लक्ष्मीमि-
सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम्॥ योषित्त्वा माययाऽऽत्मानं प्राविशत् कामचारिणी॥४॥ तां केशबन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम्॥ सुवाससं कम्पितकर्णभूषण– त्विषोल्लसत्कुन्तलमण्डिताननाम्॥५॥ वल्गुस्मितापाङ्गविसर्गवीक्षितैर्मनो हरन्ती वनितां व्रजौकसाम्॥ अमंसतम्भोजकरेण रूपिणीं गोप्य श्रियं द्रष्टुमिवागतां पतिम्॥६॥ बालग्रहस्तत्रविचिन्वती शिशून् यदृच्छया नन्दगृहेऽसदन्तकम्॥ बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहित भसि॥७॥
वेत्यन्वयः। सौन्दर्यमेव स्पष्टयस्तां विशिनष्टि — केशबन्धे धमिल्ले संसक्ता मल्लिका कुसुमानि यस्यास्ताम्। बृहद्भ्या नितम्बाभ्या स्तनाभ्या च बृहद्भ्यामुभयत आक्रान्तमिव कृच्छ्र कृश मध्यमुदरं यस्यास्ताम्। सुवासस सुष्टु रमणीये वाससी यस्यास्ताम्। कम्पितयो कर्णभूषणयोस्त्विषा दीप्त्या उल्लसद्भिः कुन्तलैर्मण्डितमानन यस्यास्ताम्॥५॥ वल्गु रम्यं स्मितं येषु तथाभूताः अपाङ्गविसर्गाः कटाक्षमोक्षा येषु तैर्वीक्षितैर्व्रजौकसा मनो हरन्तीम्, अतो गोपा अपि हृतमनस्त्वेन तां न वारितवन्तः। तथाच केनाप्यनिवारिता सती नन्दगृह प्रविवेशेत्याशयः॥६॥53 तत्र नन्दगृहे यदृच्छया स्वमरणहेतुप्रारब्धेन प्रविष्टा तल्पे शय्याया शयानमसता दुष्टानामन्तक मारकं बालकं श्रीकृष्णं ददर्शेत्यन्वयः। ननु “नन्दगृहे वैभवातिशयस्य सत्त्वात् तत् कुतो न दृष्टवती?" इत्याशङ्क्य ‘बालान्वेषणपरायास्तस्याऽन्यत्रासक्त्यभावात्’ इत्याशयेनाह — शिशून् विचिन्वतीति। तत्र हेतुमाह — बालग्रह इति।
बालान् मारयितुं गृह्णातीति, तथा दृष्ट्वा च तमङ्कमारोपयत्। ननु ‘स्वयमप्यसतामन्तकं दृष्ट्वा कुतो न बिभियात्’ इत्यत आह — प्रतिच्छन्नेति। बालनाट्येन प्रतिच्छन्न तिरोहित निजमुरु अधिक तेजो येन तमित्यर्थः। तत्र दृष्टान्तमाह — अग्निमिवेति।54 भसि भस्मन्याहित स्थापितमग्निमिवेत्यर्थः॥७॥ तेजस आच्छादनप्रकारमेव विशेषतो दर्शयति — विबुध्येति। तां पूतना बालकमारिकाग्रह विबुध्य ज्ञात्वा स भगवान्निमीलितेक्षणो जातः। तथा ज्ञाने हेतुमाह— चराचराणामात्मा, अन्तःकरणसाक्षीत्यर्थः। ननु ‘असदन्तकत्वेऽपि कदाचित्तस्याप्यन्तः स्यात्’ इत्याशङ्क्याह — अनन्तमिति। भ्रान्त्या तस्याङ्करोपणे दृष्टान्तमाह — यथेति। अबुद्धिश्चासौ रज्जुधीश्च स, यथा कश्चिदज्ञानतो रज्जुबुद्ध्या सुप्तमुरग गृह्णाति तद्वदित्यर्थः॥८॥ ननु ‘यशोदारोहिण्यौ तां कथं न न्यवारयेताम्, तत्राह — तामिति। तीक्ष्ण क्रूरं चित्तं यस्यास्ताम्, अतिशयेन वाम मनोहरं चेष्टितं यस्यास्ताम्, वरस्त्रियं
विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः॥ अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः॥८॥ तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोशपरिच्छदासिवत्॥ वरस्त्रियं तत्प्रभया च धर्षिते निरीक्षमाणे जननी व्यतिष्ठताम्॥९॥ तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं घोराऽङ्कमादाय शिशोर्ददावथ॥ गाढ कराभ्या भगवान् प्रपीड्य तत्प्राणैः समं रोषसमन्वितोऽपिबत्॥१०॥ सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाऽखिलजीवमर्मणि॥ विवृत्य नेत्रे चरणौ भुजौ मुहुर्निस्विन्नगात्रा क्षिपती रुरोद ह॥११॥
सहसैव अन्तरा गृहमध्ये वीक्ष्य तस्याः प्रभावाद्भगवदिच्छया च धर्षिते अभिभूते मोहिते सत्यौ जननी जनन्यौ निरीक्षमाणे एव व्यतिष्ठताम्, नतु निवारितवत्यावित्यन्वयः। अन्तरतैक्ष्ण्ये बहि55र्मार्दवे दृष्टान्तमाह — कोशपरिच्छदासिवदिति। मृदुचित्रचर्ममयः कोशः परिच्छदः आवरण यस्य असेः खड्गस्य तद्वदित्यर्थः॥९॥ एवं सर्वथा प्रतिबन्धाभावे सति यत् कृतवती तदाह — तस्मिन्निति। सा घोराऽतिक्रूरस्वभावा तमङ्कमादाय तस्मिन् शिशोर्मुखे इति शेषः। दुर्जरं वीर्य यस्य, तथाभूतं विषं यस्मिंस्तम्। अत एव उल्बण प्राणहरत्वेन भयङ्करं स्तनं ददौ॥ अथानन्तरमेव रोषसमन्वितो भगवान् गाढं दृढं यथा भवति तथा कराभ्यां तत्तस्याः स्तनं प्रपीड्य अप्रसूतायास्तस्मिन् स्तन्याभावात् केवलं विषमपथ्यं मत्वा प्राणैः समं सह अपिबत्॥१०॥ बालरूपेणापि भगवता तथाग्रहणेन स्तनपानेन तस्या महती पीडा जाता तामाह — सेति। सा पूतना भगवतो ग्रहणेन
स्तनपानेन चाखिलयज्जीवस्य मर्म, यस्मिन् किञ्चिदपि प्रहारमात्रेण जीवो देह त्यजति, तस्मिन्निष्पीड्यमाना अत एव ‘मुञ्च मुञ्च, अलम्’ इति प्रभाषिणी, नेत्रे विवृत्य चरणौ भुजौ च मुहुः पुनः पुनः क्षिपती चालयन्ती, निःस्विन्नानि स्वेद्युक्तानि गात्राणि यस्यास्तथाभूता च सती रुरोद आर्तनादं चकार। ‘ह’ इत्याश्चर्ये। ‘बालग्रहणमात्रेणापि तस्या एव पीडा जाता’ इत्याश्चर्यम्॥११॥ एवप्रभावाऽपि सा भगवत स्तनद्वारा प्राणाकर्षणमात्रेण मारितेति भगवन्माहात्म्यं प्रदर्शयिष्यन् तदाकृष्यमाणप्राणकृतशब्दमाहात्म्यमाह — तस्या इति। तस्याः पूतनायाः अतिगभीररहसा महावेगवता स्वनेन साद्रिः पर्वतसहिता मही, सग्रहा आदित्यादिग्रहसहिता द्यौश्च चचाल। रसातलानि अधोलोका दिशश्च प्रतिनेदिरे। वज्रनिपातशङ्कया भयेन जनाश्च क्षितौ निपेतुरित्यन्वयः॥१२॥ आकृष्टानां प्राणानां पुनरावृत्तिमाशङ्क्य सर्वजनीन तस्या मरणमाह — निशाचरीत्थमिति। इत्थं प्रपीडनेन व्यथितस्तना
तस्याः स्वनेनातिगभीररहसा साद्रिर्मही द्यौश्च चचाल सग्रहा॥ रसा दिशश्च प्रतिनेदिरे जना पेतु क्षितौ वज्रनिपातशङ्कया॥१२॥ निशाचरीत्56थव्यथितस्तना व्यसुर्व्यादाय केशांश्चरणौ भुजावपि॥ प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप॥१३॥ पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान्॥ चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम्॥१४॥ ईषामात्रोग्रदंष्ट्रास्य गिरिकन्दरनासिकम्॥ गण्डशैलस्तन रौद्र प्रकीर्णारुणमूर्धजम्॥१५॥
प्राणाकर्षणेन नाडीनामप्याकर्षणात् मुख व्यादाय उद्घाट्य मृत्युपीडया स्वमायाधारणाया सामर्थ्याभावान्निजरूप राक्षसीरूपमास्थिता व्यसुः प्राणविहीना केशान् चरणौ भुजावपि प्रसार्य वज्रेणाहतो वृत्रासुर इव गोष्ठे व्रजे अपतत्। नृपेति सम्बोधन विश्वासार्थम्॥१३॥ तस्या अल्पत्वशङ्कानिरासार्थ देहस्य महत्त्वमाह—
पतमानोऽपीति। पतन्नपि तस्या देहः त्रिगव्यूत्यन्तरद्रुमान् षट्कोशमध्यवर्तिनो वृक्षान् चूर्णयामास। अपिशब्देन कृत्रिमसामर्थ्यदशाया तु ततोऽपि महान् भवितुमर्हतीति सूचितम्। यद्वा न केवलं जीवन्नेव जीवान् जघान, किंतु पतन्नपीति सूचितम्। तद्गोमनुष्यादीन् विहाय द्रुममात्र चूर्णीकरण महदद्भुतमाश्चर्यमासीत्॥१४॥ रौद्रं भयकरं तत् कलेवरंवीक्ष्य गोपा गोप्यश्च तत्रसुरिति तृतीयेनान्वयः। रुद्रत्वहेतुभूतानि विशेषणान्याह—
ईषालाङ्गलदण्ड, तत्प्रमाणा उग्रा दष्ट्रा यस्मिस्तदास्य यस्मिंस्तत्। गण्डशैलौ गिरेश्चुतौ स्थूलोपलौ, ताविव स्तनौ यस्मिंस्तत्। प्रकीर्णा अरुणा मूर्धजाः केशा यस्मिस्तत्॥१५॥
अन्धकूपाविव गम्भीरे अक्षिणी यस्मिंस्तत्। पुलिनवदारोहौ जघने, ताभ्यां भीषणम्। बद्धाः सेतव इव भुजौ ऊरू अङ्घ्री च यस्मिंस्तत्। शून्यतोयह्रदं इव उदरं यस्मिस्तत्॥१६॥ ‘पूर्वं तु तस्याः शब्देनापि भीता’ इत्याह — पूर्वं त्विति। तस्याः निःस्वनितेन शब्देन भिन्नानि हृदादीनि येषां ते। एतच्चरितं शास्त्रान्तरप्रसिद्धमिति सूचयति — स्मेति॥१७॥ तस्याः पृतनायाः उरसि अकुतोभयं निर्भयं यथा स्यात्तथा क्रीडन्त हस्तपादादि चालयन्त बालं च वीक्ष्य जातः सम्भ्रमः स्नेहौत्कण्ठ्येन त्वराविशेषो यासां तां गोप्यस्तूर्णमेव समभ्येत्य समीपं गत्वा जगृहुरित्यन्वयः। अनेन गोपापेक्षया गोपीनां तस्मिन् स्नेहाधिक्यं साहसं च सूचितम्॥१८॥ ताः गोप्यो यशोदारोहिणीभ्यां समसह बालस्य सर्वशः सर्वेष्वङ्गेषु गोपुच्छभ्रमणादिभिः सम्यक् रक्षा विदधिरे इत्यन्वयः। अत्र यशोदारोहिण्योः शोकातिशयेन वैय्यग्र्यादप्राधान्यं बोध्यम्॥१९॥ आदिशब्दोक्तानि रक्षा—
अन्धकूपगभीराक्षं पुलिनारोहभीषणम्॥ बद्धसेतुभुजोर्वङ्घ्रि शून्यतोयह्रदोदरम्॥१६॥
सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम्॥ पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः॥१७॥
बाल च तस्या उरसि क्रीडन्तमकुतोभयम्॥ गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमा॥१८॥
यशोदारोहिणीभ्यां ता सम बालस्य सर्वतः॥ रक्षां विदधिरे सम्यग् गोपुच्छभ्रमणादिभिः॥१९॥
गोमूत्रेण57 स्नापयित्वा पुनर्गोरजसाऽर्भकम्॥ रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः॥२०॥
गोप्यः सस्पृष्टसलिला अङ्गेषु करयोः पृथक्॥ न्यस्याऽऽत्मन्यथ बालस्य बीजन्यासमकुर्वत॥२१॥
साधनान्तराणि प्रदर्शयन् उक्ता रक्षामेव विवृणोति — गोमूत्रेणेति। अर्भक बाल गोमूत्रेण स्नापयित्वा पुनर्गोखुररजसा च स्नापयित्वा शकृता गोमयेन केशवादिभगवन्नामभिश्च द्वादशाङ्गेषु तिलकस्थानेषु रक्षा चक्रुरित्यन्वयः। तानि नामानि स्थानानि चोक्तानि पद्मोत्तरखण्डे — ‘ललाटे केशवं ध्यायेन्नारायणमथोदरे। वक्षःस्थले माधव तु गोविन्द कण्ठकूबरे॥ विष्णु च दक्षिणे कुक्षौ बाहौ च मधुसूदनम्। त्रिविक्रम कन्धरे तु वामनं वामपार्श्वके॥ श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे। पृष्ठे च पद्मनाभं च कट्या दामोदरं न्यसेत्’ इति॥ एवं भगवन्नामभी रक्षाकरणेन तासां सहजं वैष्णवत्वं बोधितम्॥२०॥ एवं प्रथममतिसंभ्रमेणानाचान्ता एव रक्षाकृत्वा किञ्चिल्लब्धाश्वासा यथाविधान रक्षा चक्रुरित्याह— गोप्य इति।
संस्पृष्टसलिलाः आचान्ताः आत्मनीति षष्ठ्यर्थे सप्तमी। प्रथममात्मनः स्वस्याङ्गेषु करयोश्च पृथगजाद्येकादशबीजानि न्यस्याथानन्तरं बालस्याङ्गेषु तथैव बीजन्यासमकुर्वतेत्यन्वयः। तत्राजाद्येकादशबीजानां मध्ये करशुद्धौ त्रीणि, करयोः सन्धिषु चत्वारिचत्वारि, तथाङ्घ्र्यादावेकैकस्मिन्नङ्गे एकैकमिति विवेकः॥२१॥ बालेकृतां रक्षा दर्शयति — अव्यादिति। अजः कर्माधीनजन्मरहितो भगवान् अङ्घ्रिमङ्घ्री अव्यात् रक्षतु। तवेत्यस्य सर्वत्रान्वयः। तव जानु जानुनी अणिमान् दुर्ज्ञेयो भगवानव्यात्। अथ ऊरू यज्ञोऽव्यात्। कटितटमच्युतोऽव्यात्। जठर नाभेरुपरिभाग हयास्यः श्रीहयग्रीवोऽव्यात्। हृत् हृदयं केशवोऽव्यात्। त्वदुरः तव वक्षः ईशः सर्वनियन्ताऽव्यात्। कण्ठमिनः सूर्यान्तःस्थितो नारायणोऽव्यात्। भुजं भुजौ विष्णुरव्यात्। उरुक्रमो वामनो मुखमव्यात्। ईश्वरः कं शिरोऽव्यात्॥२२॥ एवमङ्गेषु रक्षां कृत्वा बाह्यतोपि सर्वतो रक्षां कृतवत्यस्तामाहुः — चक्रीति।
अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू यज्ञोऽच्युत कटितटं जठरं हयास्यः॥ हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुज मुखमुरुक्रम ईश्वर कम्॥२२॥ चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्त्वत्पार्श्वयोर्धनुरसी मधुहाऽजनश्च। कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्॥२३॥ इन्द्रियाणि हृषीकेषः प्राणान् नारायणोऽवतु॥ श्वेतद्वीपपतिश्चित्त मनो योगेश्वरोऽवतु॥२४॥
चक्री चक्रधरो हरिस्त्वदग्रतोऽस्तु रक्षतु। सहगदो गदाधरो हरिस्तव पश्चात् पृष्ठतो रक्षतु। धनुरसी धनुर्धरः58 असिधरश्च। धनुर्धरो मधुहा मधुदैत्यनिहन्ता भगवास्तवैकपार्श्वतो रक्षतु। खड्गधरः अजनः कर्माद्यधीनजन्मरहितः स्वतन्त्रो भगवानेकपार्श्वतो रक्षतु। शङ्खधरः उरुगायो विपुलकीर्तिर्भगवान् कोणेषु उक्तावशिष्टशरीरचतुर्भागेषु रक्षतु। उपेन्द्रो वामनः उपरि रक्षतु। तार्क्ष्यः गरुडारूढः क्षितौ रक्षतु। हलधरः सङ्कर्षणः क्षितावधस्ताद्रक्षतु। पुरुषः सर्वान्तर्यामी समन्तात् चराचरेभ्यः सर्वतो रक्षतु॥२३॥ एवं बही रक्षा कृत्वाऽन्तरङ्गा रक्षामकुर्वस्तामाहुः — इन्द्रियाणीति। हृषीकाणि इन्द्रियाणि, तेषामीशः तवेन्द्रियाणि अवतु। नार जीवसमूहमयते प्रेरयति प्रविशति वा स नारायणः तव प्राणान् प्राणापानसमानव्यानोदानादीन् जीवनहेतुभूतान्59 वायुविशेषान् अवतु। अन्तःकरणचतुष्टयरक्षामाहुः — श्वेतद्वीपपतिः वासुदेवश्चित्तमवतु। योगेश्वरो योगिभिः सराध्योऽनिरुद्धो मनोऽवतु॥२४॥
पृश्निगर्भःप्रद्युम्नस्तु ते बुद्धिमवतु। परः सवसहता सङ्कर्षणः भगवानात्मानमहङ्कारमवतु। क्रीडन्तं त्वां गोविन्दः पातु। शयानं त्वा माधवो लक्ष्मीपतिः पातु। नच “भगवन्नामभिरेव तस्य भगवतो रक्षा कथं सङ्गच्छते” इति शङ्क्यम्, तासाम् ‘अयमेव भगवान्’ इति ज्ञानाभावात्। नच “तदानीं कथं गोविन्दनामप्रसिद्धिः? इन्द्रेणाग्रे तस्य करिष्यमाणत्वात्” इति शङ्कनीयम्, भगवतो लीलानां नाम्ना मन्त्राणां चानादिशास्त्रसिद्धत्वात्॥२५॥ व्रजन्त बाललीलया गच्छन्तं त्वां वैकुण्ठाख्यो भगवानव्यात्। आसीनं त्वां श्रियो लक्ष्म्याः पतिरव्यात्। यज्ञभुक् यज्ञभोक्ता विष्णुर्भुञ्जान त्वां पातु। तस्य पालने सामर्थ्यमाहुः — सर्वेति। सर्वे ये दुःखप्रदा ग्रहास्तेषां भयङ्करः, ‘यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्’ इति वाक्यात्॥२६॥ तथा ये डाकिन्यादयो देहप्राणेन्द्रियद्रुहस्ते सर्वे नश्यन्त्विति तृतीयेणान्वयः। डाकिन्यो दुष्टाः स्त्रिय एव। यातुधान्यः यक्षरा-
पृश्निगर्भस्तु ते बुद्धिमात्मान भगवान् परः॥ क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः॥२५॥
व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः॥ भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः॥२६॥
डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः॥ भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः॥२७॥
कोटरारेवतीज्येष्ठापूतनामातृकादयः॥ उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः॥२८॥
स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये। सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः॥२९॥
श्रीशुकउ० इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम्। पाययित्वा स्तनं माता संन्यवेशयदात्मजम्॥३०॥
क्षसादिस्त्रियः। कूष्माण्डादयो रुद्रगणे प्रसिद्धाः। केचिदर्भकानेव गृह्णन्तीति तथा॥२७॥ नच “पूतना तु मृतैव, कथं पुनस्तन्नाशप्रार्थना?" इति शङ्कनीयम्, तासां तदज्ञानात्। अनादिसिद्धमन्त्रकथनमात्रमेतत्। हीति प्रसिद्धौ। उन्मादा अपस्माराश्च चित्तभ्रान्तिकर्तारो ग्रहविशेषाः॥२८॥ स्वप्ने दृष्टा महोत्पाता भाविदुःखमहोत्पातादिसूचकाः। तथा ये वृद्धग्रहा बालग्रहाश्च। ननु “कथमेव प्रार्थनामात्रेण तेषां विनाशः सम्भवति?” तत्राह — विष्णोर्नामग्रहणभीरव इति। अस्मत्कृतभगवन्नामग्रहणमात्रेण भयादपसरन्विति भावः॥२९॥ इत्येव कृष्णे प्रणयेन प्रेमातिशयेन बह्वीभिर्गोपीभिः कृतं रक्षणं यस्य तमात्मजं माता यशोदा स्तनं पाययित्वा ‘स्तनपानं हि बालानां स्वास्थ्यज्ञापकम्’ अतस्तस्य तद्दृष्ट्वा स्वाथ्यं ज्ञात्वा स्वयमपि स्वस्थचित्ता सन्यवेशयत् शनैः शाययामास॥३०॥
तावत्कालेन नन्दादयो गोपाः मथुरायाः सकाशाद्वजमागताः सन्तः पूतनायाः देह विलोक्यातिविस्मिता बभूवुरित्यन्वयः॥३१॥ विस्मितानां वाक्यमाह — नूनमिति। ‘बत’ इति विस्मये। नूनं निश्चितं आनकदुन्दुभि पूर्वजन्मनि ऋषिः तपस्वी सन् इह सञ्जातः। अथवा पूर्वजन्मनि योगेशोऽष्टाङ्गयोगवान् समास बभूव। कुतः? हि यस्मात् वसुदेवः सः ‘सन्त्युत्पाताश्च गोकुले’ इति यदाह स एवोत्पातो दृष्ट इत्यर्थः60॥३२॥ ततस्ते नन्दादयो व्रजौकसस्तत्पूतनाकलेवरम् अवयवशः परशुभिश्छित्त्वा दुर्गन्धभयात् दूरे क्षिप्त्वा काष्ठधिष्ठित काष्ठाधिष्ठित काष्ठैर्वेष्टित च कृत्वा न्यदहन्नित्यन्वयः॥३३॥ विस्मयान्तरमाह —दह्यमानस्येति। दह्यमानस्य देहस्य सम्बन्धी अगुरुसौरभवत् सौरभं यस्य तथाभूतो धूम उत्थितः। तत्र हेतुमाह — कृष्णेति। कृष्णेन निर्भुक्तः स्तनः प्राणाश्च यस्य स कृष्णनिर्भुक्तः, अतः सपदि भोगसमय एव आसमन्तात् आहतः पाप्मा यस्य तस्य देहस्येति। भगवत्सम्बन्धादेव दुर्गन्धहेतुशवसम्बन्ध्यपि
तावन्नन्दादयो गोपा मथुराया व्रज गताः॥ विलोक्य पूतनादेहं बभूवुरति विस्मिता॥३१॥
नूनं बतर्षि सञ्जातो योगेशो वा समास सः॥ स एव दृष्टो ह्युत्पातो यदाहाऽऽनकदुन्दुभि॥३२॥
कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः॥ दूरे क्षित्त्वाऽवयवशो61 न्यदहन् काष्ठधिष्ठितम्॥३३॥
दह्यमानस्य देहस्य धूमश्चागुरुसौरभः॥ उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः॥३४॥
पूतना लोकबालघ्नी राक्षसी रुधिराशना॥ जिघासयाऽपि हरये स्तनं दत्त्वाऽऽप सद्गतिम्॥३५॥
धूमः सुगन्धिर्जातः॥३४॥ अत्र यद्यपि ‘दह्यमानस्य देहस्य’ इत्यस्य श्लोकस्य ‘कटधूमस्य’ इत्यनेनासङ्गतेः स्पष्टत्त्वात्तन्मध्ये षट् श्लोकाः प्रक्षिप्ता इत्याहुः श्रीमदाचार्या62स्तथापि, सर्वपुस्तकेषु दर्शनात्तेऽपि व्याख्यायन्ते। प्रसङ्गात् कैमुत्यन्यायेन भक्तेर्महिमानमाह — पूतनेति षड्भिः। लोकबालघ्नी क्रूरस्वभावा पूतनाऽपि कृष्णाय स्तनं दत्त्वा यदि सद्गतिमाप, तदा सुशीलो दयालुः सद्गतिमाप्नुयात् अत्र किं पुनर्वक्तव्यमित्यन्वयः। स्तनं दत्त्वेत्यस्य विषं दत्त्वेत्यर्थः, पूर्वं दुर्जरवीर्यत्वोक्तेः। ‘अहो स्वकीयं स्तनकालकूटम्’ इति तृतीये उद्धवोक्तेश्च॥ यदि विषं दत्त्वाऽपि सद्गतिमाप, तदा प्रियतम नवनीतादि दत्त्वा सद्गतिमाप्नुयादत्र किं पुनर्वक्तव्यम्?। राक्षसी जातितो दुष्टाऽपि
यदि सद्गतिमाप, तदा उत्तमो ब्राह्मणादिस्तामाप्नुयादिति किं वक्तव्यम्?। रुधिरमशन यस्याः सा आहारादिव्यवहारतोऽपि दुष्टा यदि सद्गतिमाप, तदा व्रतादिसदाचारनिष्ठस्तामाप्नुयादत्र किमसम्भावितम्?। जिघासया तद्धननेच्छया दत्त्वाऽपि यदि सद्गतिमवाप, तदा श्रद्धया आस्तिक्येन भक्त्या प्रेम्णा च यच्छस्तामाप्नुयादत्र किंवक्तव्यम्? प्रेमवत्वे दृष्टान्तमाह — अनुरक्ताः प्रीत्यतिशययुक्तास्तस्य कृष्णस्य मातरो यथा प्रियतम वस्तु तस्मै प्रयच्छन्ति स्म तथेति। एवं दुष्टेभ्योऽपि सद्गतिप्रदाने हेतु सूचयन्नाह — हरय इति। दुःखहरणशीलत्वादित्याशयः। तत्र हेतुमाह — परमात्मन इति। परमात्मानुग्रहं विना दुष्टानामुद्धारासम्भवात् इत्याशयः॥३५॥३६॥ एवं सामान्यतो भक्तानां सद्गतौ कैमुत्यन्याय प्रदर्श्य व्रजभक्तानामपि सद्गतौ तमाह — पद्भ्यामिति द्वाभ्याम्। भगवान् श्रीकृष्णः पद्भ्या यस्याः पूतनाया अङ्ग देह समाक्रम्य स्तनमपिबत् सा यातुधानी राक्षस्यपि यदि जनन्योर्देवकीयशोदयोरुचिता गति स्वर्गमवाप, तदा कृष्णेन भुक्त स्तनक्षीर यासा ता गावो मातरश्च तां गतिमनुप्राप्ता इति किमु वक्तव्यमिति द्वयोरन्वयः स्वर्गपदमत्र वैकुण्ठाख्यभगवद्धामपरम्, न तु देवलोकपरम्। “यन्न दुःखेन सम्भिन्न न च ग्रस्तमनन्तरम्। अभिलाषोपनीत च तत् सुखं स्वःपदास्पदम् '
कि पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने॥ यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा॥३६॥
पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः॥ अङ्ग यस्याः समाक्रम्य भगवानपिबत् स्तनम्॥३७॥
यातुधान्यपि सा स्वर्गमवाप जननीगतिम्॥ कृष्णभुक्तस्तनक्षीराः किमु गावोनु मातरः॥३८॥
पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम्॥ भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः॥३९॥
इति श्रुतेः। ‘ब्रह्मादयो लोकपालाः स्वर्वास मेऽभिकाङ्क्षिणः’ इति वैकुण्ठेऽपि स्वर्गपदप्रयोगदर्शनात्, ‘पूतनापि त्वामेव देवापिता’ इति भगवत्प्राप्तेर्वक्ष्यमाणत्वात्, ‘जननीगतिम्’ इत्युक्त्या देवलोकस्य नश्वरत्वेन जननीगतित्वासम्भवाच्च। “न केवलं स्तनपानमात्रमेव मोक्षहेतुः, किन्तु चरणसम्बन्धोऽपि” इति सूचयितुं ‘पद्भ्यामङ्गं समाक्रम्य’ इत्युक्तम्। तदेव स्पष्टयन्नाह — भक्तहृदिस्थाभ्यामिति। चरणसम्बन्धस्य मोक्षहेतुत्वज्ञापकमाह — लोकवन्दितैर्ब्रह्मवादिभिरपि वन्द्याभ्यामिति। वत्साहरणलीलाया गोपवत्सरूपेण वर्तमानस्य तां गोप्यो गावश्च सर्वा एव मातरोऽभवन्निति बहुवचनम्॥३७॥३८॥ तासां पुन संसारासम्भवमेवाह — पयासीति द्वयेन। देवकीपुत्रः श्रीकृष्णः पुत्रस्नेहेन पुत्रदृष्ट्या यः स्नेहस्तेन स्नुतानि अवगलितानि यासां गवां गोपीनां पयास्यलसन्तोषपूर्वकमपिबत् तासामविरतं निरन्तरं कृष्णे सुतेक्षणं पुत्रदृष्ट्या स्नेहं कुर्वतीनां पुनः संसारो न कल्पते न योग्यो भवतीति द्वयोरन्वयः। तत्र
हेतुमाह — अज्ञानेन सम्यग्भवतीति। तथेति भगवत्प्रेमवत्वेनाज्ञाननिवृत्तेरावश्यकत्वादिति भावः। तत्र हेतुमाह — कैवल्याद्यखिलप्रद इति। यतो मोक्षादिचतुर्विधपुरुषार्थप्रद इत्यर्थः। तत्र सामर्थ्यमाह — भगवानिति। ‘राजन्!’ इति सम्बोधनेन बुद्धिमत्त्वेन भगवत्प्रभावज्ञत्वान्नात्र किञ्चिदन्यथा मन्तव्यमिति सूचयति॥३९॥४०॥ प्रासङ्गिकं समाप्य प्रस्तुतमाह — कटधूमस्येति। कटस्य श्मशानस्य चितायाः सम्बन्धिनो धूमस्य सौरभ्यमगुरुधूमसुगन्धतुल्यसुगन्ध ये पूतनागमनात् पूर्वमेव गोचारणाद्यर्थं दूरं गतास्ते व्रजौकसो व्रजवासिनोऽवघ्राय ‘किमिदमाश्चर्यम्’? कुतो वा गन्ध आयाति?, इति वन्दतो व्रजमाययुः॥४१॥ ते आगता गोपास्तत्र स्थितैर्गोपैर्वर्णित पूतनागमनम्, आदिपदेन तत्स्वरूपचेष्टादिकं, तस्या निधनं मरणं, शिशोःकृष्णस्य स्वस्ति सुखेन स्थितिं च श्रुत्वा सुविस्मिता आसन्निति॥४२॥ प्रोष्य मथुरायामुषित्वा आगतो नन्दः स्वपुत्रं श्रीकृष्णमादायाङ्कमारोप्य मूर्धन्युपाघ्राय
तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम्॥ न पुन कल्पते राजन् संसारोऽज्ञानसम्भवः॥४०॥
कटधूमस्य सौरभ्यमवघ्राय व्रजौकस॥ किमिद कुत एवेति वदन्तो व्रजमाययुः॥४१॥
ते तत्र वर्णित गोपैः पूतनागमनादिकम्॥ श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः॥४२॥
नन्दः स्वपुत्रमादाय प्रोष्यागत63 उदारधीः॥ मूध्न्युर्पाघ्राय परमां मुदं लेभे कुरूद्वह॥४३॥
य एतत् पूतनामोक्ष कृष्णस्याऽऽर्भकमद्भुतम्॥ शृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम्॥४४॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधप्रकरणे पूतनामोक्षनिरूपणं नाम षष्ठोऽध्यायः॥६॥
परमा मुद लेभे। तन्निर्मुक्तिनिमित्तं दानोत्सवादिकं च कृतवानिति सूचयन्नाह — उदारधीरिति। ‘यथा त्वकुशलेन युधिष्ठिरादीना परमानन्दोऽभूत्तथा’ इति सूचयन् सम्बोधयति — कुरूद्वहेति॥४३॥ एतच्छ्रवणादिफलमाह — य इति। कृष्णस्य सदानन्दस्वरूपस्य भगवतोऽद्भुतमार्भक बालचरितमेतत् पूतनामोक्षाख्यं यो मर्त्यो मनुष्यो श्रद्धया आदरेण शृणुयात् श्रवणकीर्तनादिना धारयेत् स गोविन्दे तस्मिन्नेव रतिं लभत इत्यन्वयः। अद्भुतत्व ह्येकस्यापि बह्वर्थकत्वं तथा ह्यनेन कर्मणा कंसस्य तिरस्कारः। नन्दादीनां स्वरक्षाया सावधानता। स्त्रीवधेऽपि स्वस्य निर्दोषता। बालरूपेणैव तस्या वधे। कृते स्ववीर्यप्राकट्यं तस्यास्तत्कुलस्य तद्भक्षितबालानां च मोक्षः। तेनासाधारणस्वयशसः प्रकटीकरणम्। असाधारण हि यशोऽसाधारणे
कर्मणि कृते सत्येव भवति, यदि स्नेहवत्स्वेव मुक्तिं दद्यात्तदा सर्वसाधारणेनासाधारणं यशो न स्यात्। भयद्वेषादिमत्स्वपि स्नेहादिमत्समानफलदानेन त्वसाधारणेनासाधारणं यशो भवति। तच्छ्रवणादिपराणां माहात्म्यत्वात्तत्पूर्वकसर्वतोऽधिस्नेहरूपा भक्तिः। स्वसम्बन्धमात्रेण तस्या सुगन्धाधाने व्रजौकसामाश्चर्य, दुष्टाया राक्षस्यास्तन्यपान निन्दित कृतमिति कुतो भगवत्वमित्यज्ञाना मोहश्च। एव सर्वत्रैकस्यापि भगवत्कर्मणोऽनेकार्थकत्वं बोध्यम्॥४४॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ षष्ठोऽध्यायो गतो वृत्तिं पूतनामोक्षबोधकः॥३॥ सप्तमे शकटोत्क्षेपस्तृणावर्तविमर्दनम्॥ मुखे विश्वप्रकाशश्च कृष्णलीला निरूप्यते॥१॥ एवं श्रीकृष्णस्य बालचरितश्रवणेन निर्वृतः पुनस्तदेव प्रष्टुं प्रथमं तस्यान्यावतारचरितान्यभिनन्दति — येनयेनेति। अन्तःकरणवृत्तिज्ञानेऽन्यथाकथने दण्डे च सामर्थ्यं तवास्तीति सूचयन् सम्बोधयति — प्रभो इति। यद्यपि येन येन मत्स्याद्यवतारेण भगवान् यानि यानि कर्माणि करोति तानि नोऽस्माकं श्रोतॄणां कर्णयोः रम्याणि ‘रस्यानि’ इति पाठान्तरम्। शब्दत
राजोवाच॥ येन^(१) येनावतारेण भगवान् हरिरीश्वरः॥ करोति कर्णरम्याणि64 मनोज्ञानि च नः प्रभो॥१॥
एव सुखावहानि तथा मनोज्ञानि अर्थतो मनसो हर्षकराणि च भवन्त्येव, तथापि यच्छृण्वतः पुंसः श्रवणाधिकारिप्राणिमात्रस्याचिरेण शीघ्रमेव हरौ भक्तिः प्रेमातिशयः तत्पुरुषे भगवद्भक्ते सख्यं च भवति, तदेव हरेश्चरितं वदेति द्वयोरन्वयः। ‘त्वां प्रार्थये, न त्वाज्ञापयामि’ इत्याह — मन्यसे चेदिति। ‘मद्भृत्योऽयम्, श्रवणेन कृतार्थो भवतु’ इति यदि मन्यसे तर्हि वदेत्यर्थः। अवतारेण कर्मकरणे प्रयोजनं तु भक्तदुःखहरणमेव इत्याशयेनाह — हरिरिति। तत्र सामर्थ्यं सूचयन्नाह — ईश्वर इति। कर्तुमकर्तुमन्यथाकर्तु समर्थ इत्यर्थः॥१॥
———————————————————————————————————————————
१ “अतोऽप्यलौकिक लोक विशेषाशक्तिबोधकम्। सप्तमे त्रिविधं प्राह शकटोत्पाटनादिकम् \। उत्क्षेपणमध क्षेप प्रसारणमितीर्यते। राजसानां तामसानां सात्विकानां च सङ्ग्रहे॥ सुप्तचित्तमथोल्लास्य त्याजयित्वा च लौकिकान्। स्वासक्तिसिद्धये प्रीत्या दुःखं च कृतवान् भवेत्॥ यशो हि सर्वग चेत् स्यात् स्वासक्त्यैव च तद्भवेत्। यशोदानन्दयोरत्र निष्प्रपंचो विधीयते॥ आनुषगिकमन्येषां गोपानां सर्वदेहिनाम्। गोपीनामिति तत्राद्ये यशोदाया वितन्यते”॥
ननु ‘मनोग्लानेः सत्त्वात् कथं हरौ भक्तिः स्यात्?, तत्राह — अरतिरपैतीति। अरतिर्मनोग्लानिरपैति अपगच्छति। ननु ‘ग्लानिकारणस्य तृष्णायाः सत्त्वे कथं सा न स्यात्?" तत्राह — विविधा तृष्णा चापैतीति। अन्तःकरणशुद्धौ तृष्णापगमोऽपि कथमित्यत आह —सत्त्वमन्तःकरणं च शुद्ध्यतीतिः कामक्रोधादिहेतुभूतदुरितरहित भवतीत्यर्थः॥२॥ ‘यच्छब्देन कीदृशं चरितं तव श्रोतव्येनाभिप्रेतम्’ इत्यपेक्षाया सहेतुकं तत् स्पष्टयति — अथेति। यस्मान्महाफलमथ तस्मात् पूर्वोक्तादन्यदप्यद्भुतमाश्चर्यजनक कृष्णस्य तोकाचरितं बालचरितं वदेति पूर्वस्यानुषङ्गः। ‘अवतारान्तरकृतमपि चरितं कृष्ण चरितमेव, तस्यावतारित्वात् इत्याशङ्क्याह — मानुषमिति। मानुषं लोकं भूलोकमासाद्य प्राप्य तज्जाति मानुषजातिमनुरुन्धत अनुकुर्वत इत्यर्थः॥३॥ एवं सम्प्रार्थित आह — कदाचिदिति। ‘त्रैमासिकस्य च पदा शकटोपवृत्त’ इति ज्ञापकात् तादृशस्यैवोत्थानसम्भवाच्च मासत्रयवयसि सति उत्थान नामोत्तानशायिनः शिशोस्तिर्यक्शयनसामर्थ्योद्गमः, तस्मिन् सति करणीये कौतुकाप्लवे उत्सवाभिषेके तस्मिन्नेव दिने जन्मर्क्षस्य रोहिणीनक्षत्रस्य
यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंसः॥ भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत्॥२॥ अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम्॥ मानुष लोकमासाद्य तज्जातिमनुरुन्धत॥३॥ श्रीशुक उवाच॥ कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम्॥ वादित्रगीतद्विजमन्त्रवाचकैश्चकार सूनोरभिषेचन सती॥४॥ नन्दस्य पत्नी कृतमज्जनादिक विप्रैः कृतस्वस्त्ययन सुपूजितैः॥ अन्ना65द्यवासः स्रगभीष्टधेनुभि सञ्जातनिद्राक्षमशीशयच्छनैः॥५॥
योगे च सति महोत्सवे समवेतानां मिलितानां पुरस्त्रीणां मध्ये वादित्रैर्गीतैः ब्राह्मणानां मन्त्रवाचकैश्च सह ब्राह्मणैः क्रियमाण प्रोक्षणरूप सूनोरभिषेचन सती यशोदा चकार इत्यन्वयः॥४॥ अन्नादिभिः सुपूजितैः सत्कृतैर्विप्रैः कृतस्वस्त्ययन कृतरक्षाबन्धनादिकं सञ्जातनिद्राक्ष सञ्जातनिद्रे अक्षिणी यस्य तं बालं नन्दस्य पत्नी यशोदा शनैर्निद्राभङ्गो यथा न स्यात्तथा अशीशयत् शकटस्याधस्तात् प्रेङ्खे शायितवतीत्यर्थः।66 ‘नन्दस्य पत्नी’ इत्यनेन, उत्सवे समागतानां सन्माननमवश्यतया कर्तव्यम्, अन्यथा तेषां वैमनस्य स्यात् इति सूचितम्। ‘कृतमज्जनादिकम्’ इत्यादिशब्देन वस्त्राभरणादि परिधाय्य कस्तूरीगोरोचनतिलकादिकरणं गृह्यते। अन्नं च आद्यतदुपकरणं च। ‘अन्नाज्य’ इति पाठे तु अन्नं च आज्यं च घृतं च वासांसि च स्रक्मालां च अन्यच्चाभीष्ट प्रार्थित धेनवश्च तैः॥५॥
औत्त्थानिके उत्थानोत्सवे औत्सुक्यमुत्साहयुक्तं मनो यस्याः सा। तत्र हेतुमाह — मनस्विनी। उदारचित्ता सा यशोदा समागतान् व्रजौकसो वस्त्रालङ्कारादिभिः पूजयती सती सुतस्य रुदित निश्चयेन नैवाशृणोत्। नच श्रुत्वाऽपि कार्यव्यग्रतयोपेक्षितवती। भगवास्तु स्तनार्थी सन् रुदन् चरणावुदक्षिपत् उर्ध्वं चालितवान्॥६॥ तदा शकटस्याधः शयानस्य शिशोरल्पकः अल्पप्रमाणश्चासौ प्रवालवन्मृदुश्च योऽङ्घ्रिस्तेन हतम्, अत एवातिध्वस्तानि नानारसवन्ति कुप्यभाजनानि स्वर्णरजतातिरिक्तकांस्यादिमयानि पात्राणि यथा भवन्ति तथा। तथा चक्रे च अक्षश्च चक्राक्षाः, व्यत्यस्ताश्चक्राक्षा यस्मिन् विभिन्नः कूबरो युगन्धरो यस्मिस्तच्च तच्च यथा भवति तथा च अनः शकट व्यवर्तत विपरीतमपतत्॥७॥ यशोदा प्रमुखा यासां ताया औत्थानिके
औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकसः॥ नैवाशृणोद्वै रुदितं सुतस्य सा रुदंस्तनार्थी चरणावुदक्षिपत्॥६॥ अधः शयानस्य शिशोरनोऽल्पकप्रवालमृद्वङ्घ्रिहतं व्यवर्तत॥ विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम्॥७॥ दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः॥ नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटविपर्यगात्॥८॥ (इति67 ब्रुवन्तोऽतिविषादमोहिता जनाः समन्तात् परिवब्रुरार्तवत्॥) ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः॥ रुदताऽनेन पादेन क्षिप्तमेतन्न संशयः॥९॥
कर्मणि समागता व्रजस्त्रियः नन्दादयो गोपाश्च सर्वेऽपि जनाः तत् पतितं शकटं दृष्ट्वा तत्पतनमद्भुतमाश्चर्यजनकम्, अतस्तस्य दर्शनेनाकुलाः सम्भ्रान्ताः तथोत्पातशङ्कयाऽतिविषादेन दुःखेन मोहिताश्च सन्तः “कथं वै शकट स्वयमेव विपर्यगात् विपरीतमपतत्” इति ब्रुवन्तः शकटं बाल च समन्तात् सर्वतः आर्तवत् परिवव्रुःपरिवेष्टितवन्त इति सार्धान्वयः। क्वचित्’ इति ब्रुवन्त’ इति श्लोकार्द्ध नास्ति। तत्र विपर्यगात् इत्यूचुरिति क्रियाविशेषेणान्वयः॥८॥ तदा अव्यवसिता ‘किं कश्चिदुत्पातः, किंवा स्वाभाविकमस्य पतनम्’ इत्यत्र अनिश्चिता मतिर्येषां तान् गोपान् तथाभूता गोपीश्च ‘प्रतिरुदता अनेन बालेन पादेनैतच्छकटमाक्षिप्त पातितम्, अत्र संशयो नास्ति’ इति तत्र क्रीडन्तो बालका ऊचुरित्यन्वयः॥९॥
ते एवमुक्ता नन्दादयो गोपाः बालभाषितमिति कृत्वा न श्रद्दधिरे तद्वाक्ये विश्वास न जग्मुः। ‘उत’ इति वितर्के। “बालेन कथमेतस्य महतः पातनं सम्भवति? एते तु बालाः किं जानन्ति?” इति तर्कितवन्त इत्याशयः। ‘कुत एव विपरीतं तर्कित’ तत्राह — अप्रमेयमिति। यस्मादप्रमेयममित बुद्ध्यगोचर बल यत् तस्य बालकस्यास्ति तत् ते न विदुः’ अतो विपरीततर्केण श्रद्दधिरे इति॥१०॥ ‘अतो लौकिकीं रीतिमेव कृतवन्त’ इत्याह — रुदन्तमिति। ग्रहशङ्किता ‘यस्मिन् प्रविष्टः कश्चित् ग्रहो रोदन कारयति’ इति शङ्कायुक्ता यशोदा रुदन्त सुतमादाय प्रथम स्तनं न दत्तवती, किंतु प्रथम सूक्तै राक्षोघ्नैर्मन्त्रैः कृत्वा विप्रैः कृतस्वस्त्ययनं कृतरक्षाबन्धनादिकं सन्तं स्तनमपाययत्॥११॥ भगवत्प्रभावानभिज्ञविप्रचेष्टितमाह — पूर्ववदिति। बलिभिर्बलवाद्भिर्गोपैः। यद्वा अष्टदिक्षु स्थापितैर्दध्यादिभिः सहितसपरिकरपरिकरास्तदवयवात्, तत्सहितं गोपैः पूर्ववत् स्थापितं शकटं विप्रा हुत्वा ग्रहादिशान्त्यर्थ होमं विधाय दध्यादिभिरर्चयाञ्चक्रुः॥१२॥ भगवत्प्रभावानभिज्ञस्य नन्दस्याभिप्रायं चेष्टित चाह — ये इति चतुर्भिः। ‘ये ब्राह्मणा असूयादिदोषविव-
न ते श्रद्दधिरे गोपा बालभाषितमित्युत॥ अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥
रुदन्तं सुतमादाय यशोदा ग्रहशाङ्किता॥ कृतस्वस्त्ययन विप्रैः सूक्तैः स्तनमपाययत्॥११॥
पूर्ववत् स्थापितं गोपैर्बलिभिः सपरिच्छदम्॥ विप्रा हुत्वाऽर्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः॥१२॥
येऽसूयानृतदम्भेर्ष्याहिसामानविवर्जिताः॥ न तेषां सत्यशीलानामाशिषो विफलाः कृताः॥१३॥
इति बालकमादाय सामर्ग्यजुरुपाकृतै॥ जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः॥१४॥
वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः। हुत्वा चाग्नि द्विजातिभ्यः प्रादादन्न महागुणम्॥१५॥
र्जितास्तेषाम्, सत्ये यथार्थभाषणे शीलं येषां तेषां कृताः तैः प्रयुक्ता आशिषो विफला न भवन्ति’ इति समाहितः कृतनिश्चयो नन्दगोपो द्विजोत्तमैर्बालकस्याभिषेकादिकं कारयित्वा द्विजातिभ्योऽन्नादिकं प्रादात्, ते च अनु अनन्तरमेव आशिष अयुञ्जत योजितवन्त इति चतुर्णामन्वयः। असूया परगुणे दोषाविष्करणम्। अनृतं मिथ्याभाषणम्। दम्भः परंप्रति स्वोत्कर्षख्यापनम्। ईर्ष्या परगुणासहनम्। हिंसा परपीडनम् एव। कायवाङ्मनोदोषराहित्यमित्युक्तम्॥१३॥ बालकमानीय सामर्ग्यजुभिर्मन्त्रै उपाकृतैः अभिमन्त्रितैः पवित्राः सर्वारिष्टनिवर्तकाः ओषधयो येषु तैर्जलैः साधनभूतैर्द्विजैः कर्तृभिरभिषिच्याभिषेकं कारयित्वा॥१४॥ द्विजैः स्वस्त्ययन पुण्याहं वाचयित्वा अग्निं हुत्वा ग्रहादिशान्त्यर्थं हावयित्वा महागुण षड्रससुगन्धादियुक्तमन्नं द्विजातिभ्यः प्रादात्, भोजितवानित्यर्थः॥१५॥
सर्वगुणोपेता बहुदोग्धीः सुंदरीः साध्वीश्च अलङ्कारार्थं वासः स्रक् पुष्पमाला, रुक्ममयी माला च विद्यते यासांतां गावश्च गाः प्रादात्। दानप्रयोजनमाह — आत्मजस्याभ्युदयः ‘सर्वोपद्रवशान्तिपूर्विकाऽभिवृद्धिः ’ स एवार्थः प्रयोजनं तदर्थमिति॥१६॥ ते च विप्रा मन्त्रविदो युक्ताः ‘श्रद्धावान् भजते यो मा स मे युक्ततमो मत’ इति वचनात् भगवदुपासकाः, अतस्तैर्या आशिषः प्रोक्तास्तास्तस्मिन् कदाचिदपि निष्फला अन्यथा न भविष्यन्ति, किंतु तथैव जाता इति स्फुट निश्चितमेवैतत्॥१७॥ चरितान्तरमाह — एकदेति। ‘एकहायन आसीन’ इति षड्विंशाध्याये वक्ष्यमाणत्वात् एकाब्दवयसि सति आरोहमुत्सङ्गमारूढं सुतं लालयन्ती भुजाभ्यामुत्तोलनान्दोलनमुखचुम्बनादिभिरुल्लासयन्ती सती यशोदा गिरिकूटवत् गिरिसमूह
गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः॥ आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत॥१६॥
विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः॥ ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम्॥१७॥
ए^(१)कदाऽऽरोहमारूढ लालयन्ती सुतं सती॥ गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत्॥१८॥
भूमौ निधाय तं गोपी विस्मिता भारपीडिता॥ महापुरुषमादद्ध्यौ जगतामास कर्मसु॥१९॥
वत् शिशोर्गरिमाण भारं न सेहे। अत्र यदि भगवान् गुरुर्न स्यात्तदाऽनवतारे सति तृणावर्तेन यशोदा मारिता स्यात्, एकदैव एवं गुरुत्वे च स्वाक्रान्ता सा स्वेनैव सञ्चूर्णिता स्यात्, अतो मामुत्सङ्गादुत्तारयत्विति एतदर्थं तृणावर्तमायान्तं ज्ञात्वा स्वयमेव भगवान् क्रमेण गुरुर्जात इति बोध्यम्॥१८॥ एवं भारेण पीडिता, अत एव ‘कथमकस्माच्छिशोरलौकिको भारो जात’ इति विस्मिता च सती गोपी यशोदा तं बाल भूमौ निधाय उत्पातशङ्कया जगता महापुरुषं सर्वारिष्टनिवारक भगवन्तमादध्यौ ‘त्वया दत्तः पुत्रस्त्वयैव संरक्षणीय’ इति प्रार्थितवती। ततश्च गृहकर्मसु आस बभूव॥१९॥
——————————————————————————————————————————
१ सर्व चरित्र हितकृद्गुणकृच्च ततोऽधिकम्। तत्रापि स्नेहजनक तद्वक्तव्यमिति स्थिति॥ वाचिक कायिक चोक्त मानस तूच्यतेऽधुना। अन्यथाऽज्ञानत सर्वं करोतीति भविष्यति॥ लौकिके नापि भावेन यावत् कृष्णैकतन्त्रता। तावन्नूतनकृत्यानि न करोति हरि स्वयम्॥ वर्ण्येन तु परा वृत्तिर्धर्माणा भवतीति हि। अतो वर्षांतरे कृत्यं तृणावर्तगतं कृतम्॥ देहबुद्धिर्भगवति निवृत्ता चेन्निवर्तये। तत्पराणां देहमति सजातीया विशेषत॥ पूतनावधमारभ्य कंसो जानाति गोकुले। हरिरस्ति जगद्वद्यो मम हतेति सर्वथा॥ तमाहतु तृणावर्तं तत प्रेषितवान् स्वयम्। त्रयो ह्यत्यतबलिनः सर्वकार्यविचक्षणाः॥ तृणावर्तो बक केशी तत्राप्यादौ महान् स्मृतः। तृणवत् सकल विश्वमावर्तयति सर्वथा॥ तृणावर्तस्तत प्रोक्तस्तमादौ प्राहिणोत्तत॥
तदा चासीनमर्भकं चक्रवातस्वरूपेण तृणावर्तो दैत्यो जहारेत्यन्वयः। ‘दैत्य’ इति तस्य भावतो दुर्वृत्तत्वमुक्तम्। तृणवत् सकलं विश्वमावर्तयतीति व्युत्पत्त्या नाम्ना ‘तृणावर्त’ इति तस्य बलिष्ठत्वमुक्तम्। ‘कंसभृत्य’ इति शत्रुत्वमुक्तम्। ‘तेन प्रचोदित’ इत्यनेन “पूतनावधात् मत्प्राणहरो हरिरयमेव गोकुले स्यात्” इति कंसस्य सम्भावना जातेति सूचितम्। ‘चक्रवातो’ वातमण्डली, तेन स्वरूपेणाप्रतिकार्यत्वमुक्तम्। हरणसमये च भगवान् पुनर्लघुर्जातः, अन्यथा सोऽपि तं हर्तु न शक्नुयादिति ज्ञेयम्॥२०॥ तद्धरणार्थ यदुपाय कृतवास्तदाह — गोकुलमिति। रेणुभिर्गोकुल सर्वमावृण्वन् जनानां चक्षूषि च मुष्णन् दर्शनायोग्यानि कुर्वन् महाघोरेण भयङ्करेण शब्देन दश68 दिश ईरयन् निनादयस्त जहारेति पूर्वेणान्वयः। ‘प्रदिशो दिश’ इति पाठान्तरम्॥२१॥ गोष्ठ व्रज मुहूर्तमात्रं रजसा रेणुना तमसा अन्धकारेण चावृतमभवत्। यशोदा यतो यत्र सुत न्यस्तवती स्थापितवती, तस्मिन्
दैत्यो नाम्ना तृणावर्त कंसभृत्यः प्रणोदितः॥ चक्रवातस्वरूपेण जहारासीनमर्भकम्॥२०॥ गोकुलं69 सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः। ईरयन् सुमहाघोरशब्देन प्रदिशो दश70॥२१॥ मुहूर्तमभवद्गोष्ठं रजसा तमसाऽऽवृतम्॥ सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यतः॥२२॥ नापश्यत् कश्चनाऽऽत्मानं परं चापि विमोहित॥ तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः॥२३॥ इति खरपवनचक्रपासुवर्षे सुतपदवीमबलाऽविलक्ष्य माता॥ अतिकरुणमनुस्मरन्त्यशोचद्भुवि पतिता मृतवत्सका यथा गौः॥२४॥ रुदितमनु निशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः॥ रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांसुवर्षवेगे॥२५॥
स्थाने तं नापश्यदित्यन्वय॥२२॥ कश्चनापि जनः आत्मान परं चकारात् घटपटादिकं च नापश्यत्। तत्र हेतुमाह — मोहित इति। व्याकुलचित्त इत्यर्थः। तत्रापि हेतुमाह — तृणावर्तेति। तृणावर्तेन निसृष्टाभिः प्रक्षिप्ताभिः शर्कराभिः सिकताभिरुपद्रुत इति॥२३॥ इत्येव खरात्तीक्ष्णात् पवनचक्रात् पासुवर्षे सति सुतस्य पदवीं मार्गमविलक्ष्य अदृष्ट्वा अबला ‘तद्दर्शनोपाये असमर्था’ माता यशोदा अतिकरुणमतिदैन्य यथा भवति तथा तमनुस्मरन्ती ‘अकृतार्थाऽहम्’ इत्यात्मानमशोचत्, अथ भुवि पतिता च। शोकेन व्याकुलताया दृष्टान्तमाह— मृतवत्सका यथा गौरिति॥२४॥ एव यशोदायाः परमस्नेहेन मूर्च्छापर्यतावस्था निरूपिता। अथ गोपिकानामवस्थामाह — रुदितमिति। यावत्तृणावर्त्तो वात्या रूपेण वेगवानासीत्तावद्यशोदा-
रोदन गोपीभिर्न श्रुतम्। अनु पश्चात् उपारतो निवृत्तः पासुवर्षस्य वेगो यस्मिंस्तथाभूते पवने सति तस्या रुदितं निशम्य तत्रागत्य नन्दसूनुमनुपलभ्य भृशमनुतप्ता धीर्यासा ताः, अतएवाश्रूणि मुखे यासा ता गोप्यो रुरुदुरित्यन्वयः॥२५॥ तृणावर्तोऽपि श्रीकृष्णं हरन् कियत्पर्यन्त नभो गतः, ततोऽग्रे गन्तुं नाशक्नोदित्यन्वयः। तत्र हेतुमाह — शान्तरय इति। निवृत्तवेग इत्यर्थः। तत्र हेतुमाह — भूरिभारभृदिति। भगवता तस्य मारणाय पुनर्गुरुत्वं प्रकटितम्, अतस्तद्भारेण पीडित इत्यर्थः॥२६॥ गुरुमत्तया अनया अतिगौरवेण तं कृष्णमश्माननीलमणिं पर्वतप्रायं मन्यमान अत उत्स्रष्टुं त्यक्तुमिच्छन्नपि नाशक्नोदित्यन्वयः। तत्र हेतुमाह — आत्मनो गले गृहीत इति। अनेन तेन वात्या रूप परित्यज्य दैत्यरूप गृहीतमिति ज्ञेयम्। ननु ‘बालस्य तस्य हस्तौ गृहीत्वा कण्ठ मोचयित्वा कथं न त्यक्तवान्?” तत्र हेतुगर्भविशेषणमाह — अद्भुतार्भकमिति। महाबलत्वात् य गृह्णाति तं नैव त्यजति, किन्तु संसारान्मोचयत्येवेति स्वभावत्वाच्चेत्यद्भुतत्वम्॥२७॥ गलग्रहणेनैव निश्चेष्टः, अत एव निर्गते लोचने यस्य सः,
तृणावर्तः शान्तरयो वात्या रूपधरो हरन्॥ कृष्णं नभोगतो गन्तु नाशक्नोद्भरिभारभृत्॥२६॥
तमश्मानं मन्यमान आत्मनो गुरुमत्तया॥ गले गृहीत उत्स्रष्टु नाशक्नोदद्भुतार्भकम्॥२७॥
गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः॥ अव्यक्तरावो न्यपतत् सहबालो व्यसुर्व्रजे॥२८॥
तमन्तरिक्षात् पतितं शिलाया विशीर्णसर्वावयव करालम्॥ पुरं यथा रुद्रशरेण विद्ध स्त्रियो
रुदत्यो ददृशुः समेताः॥ प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम्॥२९॥
अव्यक्तः ‘किं वक्तीति बोधायोग्यो’ रावः शब्दो यस्य सः, व्यसुः प्राणरहितो दैत्यस्तृणावर्तो बालेन सह व्रजे, तत्रापि ‘अत्रोपविश्य सर्वदोहानुसन्धानं कर्तव्यम्’ इत्यर्थे स्थापिताया महत्यां शिलाया न्यपतदित्यन्वयः। ‘पूतनायाः पादादिचालनेन भयङ्करशब्देन च व्रजवासिना महाभयं जातम्, तदधुना माभूत्’ इति तद्गलग्रहणेन नभस्येव मारणमिति ज्ञेयम्॥२८॥ तमन्तरिक्षात् निरालम्बादाकाशात् शिलाया पतितम्, अतएव विशीर्णसर्वावयवं करालभयङ्कररूप समेताः मिलिताः रुदत्यः स्त्रियः ददृशुः। तस्य पतने दृष्टान्तमाह — रुद्रशरेण विद्ध पुर यथेति। तस्योरसि लम्बमानं श्रीकृष्णं च दृष्ट्वा तं प्रादाय गृहीत्वा मात्रे यशोदायै प्रतिहृत्य समर्प्य विस्मिताश्च बभूवुरिति। ‘स्त्रिय एवं कृतवत्य’ इत्यनेन गोपेभ्यस्तासां प्रेमाधिक्यं साहसाधिक्यं च सूचितम्॥२९॥
तं श्रीकृष्णं स्वस्तिमन्तं पुनर्लब्ध्वा नन्दादयो गोपा गोप्यश्चातीव मोद हर्ष प्रापुरित्यन्वयः। तत्र हेतुमाह — मृत्युमुखात् प्रमुक्तमिति। ल्यब्लोपे पञ्चमी। मृत्युमुखं प्राप्य एवं प्रकर्षेण तं मारयित्वा मुक्तमित्यर्थः। एतदेव स्पष्टयति — पुरुषादेति। “विहायसा आकाशमार्गेण आकाशात् पतनेनैव तावन्मृत्युर्निश्चितः, किं पुनः पुरुषान् अत्तीति पुरुषादो राक्षसस्तेन नीतस्य’ इत्याशयः। किलेति प्रसिद्धौ। एवंभूतस्यागमने हर्षः प्रसिद्ध एवेत्याशयः॥३०॥ तेषां परस्परं हर्षकथामाह — अहो इति। ‘बत’ इति हर्षे। अहो आश्चर्यम्, यतोऽत्यद्भुतमेतन्न क्वापि दृष्टं श्रुतं वा। तदेव दर्शयन्ति — “अतिप्रबलेन रक्षसा एष बालो निवृत्ति मृत्युं गमितः प्रापितोऽपि स्वयमेव पुनरभ्यगात्” इति। “कोऽत्र विस्मयः? युज्यत एवैतत्” इति तेष्वेव केचिदाहुः — हिंस्र इति। अयं खलः क्रूरस्वभावः, अत एव हिंस्रः परहिंसापरायणः। अतो हिंसाजनितेन स्वपापेनैव हिंसितः। साधुः सदाचारनिष्ठश्च समत्वेन समदृष्ट्या भयाद्विमुच्यते। ‘वयं साधवः, अतोऽस्मद्बालोऽयं विमुक्त’ इति भाव॥३१॥ “एवं कार्यद्वारा पुण्यात्मानो वयमिति सामान्यतो ज्ञानेपि विशे-
त स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम्॥ गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम्॥३०॥ अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्ति गमितोऽभ्यगात् पुनः॥ हिंस्रः स्वपापेन विहिसितः खलः साधुः समत्वेन भयाद्विमुच्यते॥३१॥ किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम्॥ यत्सम्परेतः पुनरेव बालको दिष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः॥३२॥ दृष्ट्वाऽद्भुतानि बहुशो नन्दगोपो बृहद्वने॥ वसुदेववचो भूयो मानयामास विस्मित॥३३॥
षतस्तु किं तत् पुण्यमिति न जानीम” इत्याहुः — किं न इति। यत् यस्मात्तपआदिपुण्यविशेषात् परेतोऽपि मृत्युं गतोऽपि बालकः स्वबन्धून् अस्मान् प्रीणयन् हर्षयन् पुनरुपस्थितः समागतस्तत्किं नोऽस्माभिश्चीर्णमाचरितामिति न जानीमः। तप एकादशीव्रतकृच्छ्रचान्द्रायणादि, अधोक्षजस्य भगवतोऽर्चनम्, पूर्त वापीकूपतडागादीनिर्माणम्, इष्टं पञ्चयज्ञादि अग्निहोत्रादि, दत्तं तुलापुरुषादिदानम्, भूतसौहृद सर्वप्राणिषु भगवद्बुद्ध्या सन्माननम्। ‘एवं विशेषज्ञानाभावेऽपि बालस्तावत् कुशल्यागत इत्येतद्भद्रमेव जातम्’ इत्याहुः — दिष्ट्येति॥३२॥ एवंविधानि पूतनाशकटतृणावर्तनिराकरणसदृशानि बहुशोऽद्भुतानि आश्चर्यजनकानि चरितानि बृहद्वने महावनाख्ये व्रजे नन्दगोपो दृष्ट्वाविस्मितः सन् भूयः पुनःपुनर्वसुदेवस्य ‘नेह स्थेयं बहुतिथ सन्त्युत्पाताश्च गोकुले’ इति वचो मानयामास, सत्यममन्यतेत्यर्थः॥३३॥
एवं तृणावर्तस्य तृणवन्निराकरणं निरूप्य तदागमनसमये स्वगौरवदर्शनेन शङ्कितचित्तां स्वजननां गौरवहेतु स्वादरस्थ सर्वं जगद्दशयामास, तत् सप्रसङ्गमाह — एकदेति चतुर्भिः। एकदा गृहकार्यादिवैय्यग्र्याभावेन पुत्रैकप्रवणचित्ततादशायामर्भक बालकमादाय क्रीडन्तं गृहीत्वा स्वाङ्कमारोप्य भामिनी परमसौभाग्यवती यशोदा प्रस्तुत स्नुतं स्रवत्पयस्कं स्तनं पाययामास। पयःसस्रवणे पायने च हेतुमाह — पुत्रस्नेहेन परिप्लुता व्याप्तेति॥३४॥ आश्चर्यश्रवणे सावधानतार्थ सम्बोधयति — राजन्निति। पीतप्रायः स्तनो येन तथाभूतस्य, संतोषपर्यंतं न पीत इति प्रायग्रहणम्। मुखं लालयती चुम्बनादिनोल्लासयन्ती सा जननी यशोदा जृम्भतस्तन्मुखे इदं बहिर्दृश्यमानं विश्वं ददृशे। लालने हेतुमाह — रुचिरं स्मितं यत्र तदिति॥३५॥ तया दृष्टं विश्वं दर्शयति — खमिति। खमाकाशम्, रोदसी द्यावापृथिव्यौ, ज्योतिरनीक ज्योतिश्चक्रस्थं गुर्वादिज्योतिःसमूहम्, आशा दश दिशः, सूर्यादींश्च, जम्ब्व-
एकदा71ऽर्भकमादाय स्वाङ्कमारोप्य भामिनी॥ प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता॥३४॥ पीतप्रायस्य जननी सा तस्य रुचिरस्मितम्॥ मुखं लालयती राजन् जृम्भतो ददृशे इदम्॥३५॥ खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवह्निश्वसनाम्बुधीश्च॥द्वीपान्नगांस्तद्दुहितृृर्वनानि भूतानि यानि स्थिरजङ्गमानि॥३६॥ सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः॥ सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता॥३७॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे शकटभङ्गादिनिरूपणं नाम सप्तमोऽध्यायः॥७॥ ॥छ॥ ॥छ॥
दिसप्त द्वीपान्, नगान् पर्वतान्, तद्दुहितृृः नदीः, स्थिराणि स्थावराणि जङ्गमानि च यानि भूतानि तानि च ददृशे इति पूर्वेणैवान्वयः॥३६॥ राजन्! सा यशोदा सहसा अकस्मादेकदैव एवं पुत्रमुखे विश्वं वीक्ष्य भीता सती ‘एतद्दर्शनं माभूत्’ इत्यभिप्रायेण नेत्रे सम्मील्य सुविस्मिता’ किमिदं मया दृश्यते?’ इत्याश्चर्ययुक्ता आसीदित्यन्वयः। भयचिह्नमाह — सञ्जातवेपथुरिति। भयहेतुत्वेन तस्याः सौकुमार्यं सूचयन्नाह — मृगशावाक्षीति मृगशावो मृगपोतः, तस्याक्षिणी इव अक्षिणी यस्याः सा॥३७॥ इति श्रीवल्लभाचार्य — वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ सप्तमो विवृतोऽध्यायोऽनोभङ्गादि72निरूपकः॥३॥॥॥॥॥॥
नामकर्मास्य गर्गेण बाललीला तथैव च। मुखे विश्वप्रकाशादि चाष्टमे विनिरूप्यते॥१॥ अथ नामकरणवृत्तान्तमाह — गर्ग इति। हे राजन्! यदूनां पुरोहितः, अत एव पुत्रयोर्नामकरणार्थं वसुदेवेन प्रचोदितो गर्गो नन्दस्य व्रज जगाम आगतः। तस्य भगवत्संस्कारकरणयोग्यता सूचयन्नाह — सुमहातपा इति। तं गर्गंदृष्ट्वा नन्दः परमप्रीतः प्रत्युत्थाय कृताञ्जलिश्च सन् प्रणिपातपुरःसरं यथा भवति तथा अधोक्षजधिया ‘भगवानेवागत’ इति बुद्ध्या आनर्च॥२॥ एवं कृतातिथ्य कृतमतिथेर्हित पादप्रक्षालनादिभोजनान्त यस्मै तम्, अतएव सूपविष्ट सुष्ठु सुखेन मार्गश्रमराहित्येन उपविष्ट मुनि भगवत्तत्त्वमननशीलं गर्ग सूनृतया मधुरया गिरा नन्दयित्वा हर्षयित्वा नन्दो ‘हे ब्रह्मन्! पूर्णस्य निजानन्दपूर्णस्य तव वयं किं करवाम? कमप्युपकार
श्रीशुक उवाच॥ ग^(१)र्गः पुरोहितो राजन् यदूनां सुमहातपाः॥ व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः॥१॥ तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः॥ आनर्चाधोक्षजधिया प्रणिपातपुरःसरम्॥२॥ सूपविष्टं कृतातिथ्य गिरा सूनृतया मुनिम्॥ नन्दयित्वाऽब्रवीद्ब्रह्मन् पूर्णस्य करवाम किम्॥३॥ महद्विचलनं नृृणां गृहिणां दीनचेतसाम्॥ निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित्॥४॥
कर्तुं न समर्था’ इत्यब्रवीदित्यन्वयः॥३॥ ‘पूर्णश्चेत् कथं तव गृहमागत?’ इति शङ्का निराकुर्वन् ‘भवांस्त्व प्रार्थित एव महान्तमुपकारं कृतवान् इत्याह — महद्विचलनमिति। हे भगवन्! महता भवादृशानामाप्तकामानां विचलनं स्वाश्रमात् परगृहे गमनं नैव सम्भवति, प्रयोजनाभावात्। यदि क्वचित् गमनं भवति, तदा नृणां निःश्रेयसाय मङ्गलायैव कल्पते घटते, नान्यथा। स्वप्रयोजनाय न घटत इत्यर्थः। ननु “यदि महता दर्शनस्पर्शनादिना नृणां निःश्रेयसं सिद्ध्यति, तदा तद्दर्शनाद्यर्थ ते एव तदाश्रम कुतो न गच्छन्ति” इत्याशङ्क्याह — दीनचेतसामिति। दीनं व्याकुलतया विवेके असमर्थ चित्तो येषां तेषामित्यर्थः। व्याकुलत्वे हेतुमाह — गृहिणामिति। तत्तन्मनोरथैस्तत्तद्व्यापारवत्वेन व्यग्रचित्तानां गृहस्थानामित्यर्थः॥४॥
———————————————————————————————————————————
१ येनैव तु चरित्रेण सत्त्वं शुध्यति सर्वथा। सर्वस्य मूल तद्यस्मात्तदृष्टम उदीर्यते॥ नामान्यग्रे शोधकानि ततो रूपाण्यनेकधा। ज्ञानं भक्तिश्च भाग्यं च पचार्था सत्त्वशोधका॥ संस्कृतान्येव नामानि शोधकानीति संस्कृति। स्वेच्छालीलाविशिष्ट हि रूपमानदभावत॥ अन्येच्छया कृतान्यत्र चरित्राणि ततोऽन्यथा। ज्ञानप्रत्यक्षतो दृष्ट माहात्म्यज्ञानपूर्वकम्॥ स्नेहश्चलौकिके तद्वद्धेतुश्च महता कृपा। पूर्वेस्मिन् हृदये सिद्धे स्वत एवाग्रिम भवेत्॥ तत्रागद्धितये प्रोक्त गुरुर्द संगवर्जनम्।
‘त्वया बालयोर्नामकरणादि करणीयम्’ इति वक्तुं तस्य ज्ञानातिशयमाह — ज्योतिषामिति। यत् यस्मादतीन्द्रियज्ञानं भवति तत् ज्योतिषामयनं ज्योतिःशास्त्रं भवता प्रणीतं रचितम्, येन भवत्प्रणीतशास्त्रेणान्यपुमान् परावर वेद। परं कारणं पूर्वजन्मकृतं कर्म, अवरं कार्यमस्मिन् जन्मनि भावि सुखदुःखादि फलं जानातीत्यर्थः। ‘अन्ये च शास्त्रगुरूपदेशानुसारेण शास्त्रं प्रणयन्ति, भवता तु तं निरपेक्ष्यैव प्रणीतम्’ इत्याह — साक्षादिति॥५॥ न केवलं त्वं ज्योतिर्विदामेव श्रेष्ठः, किंतु ब्रह्मविदामपि श्रेष्ठः। एवं तस्य ज्ञानातिशयमुक्त्वा प्रार्थयते — त्वमिति। त्वमनयोर्बालयोर्नामकरणादिसंस्कारान् कर्तुमर्हसि कुरु। ननु ‘एतत् त्वत्कुलाचार्येण कर्तव्यम्’ इत्याशङ्क्याह — नृणामिति। हि यस्मात् जन्मना उत्पत्तिमात्रेणैव ब्राह्मणो नृणां मनुष्यमात्रस्य गुरुः, किं पुनस्त्वादृशो विद्यातपआदिमानित्यर्थः॥६॥ गर्गो यद्यप्येतदर्थमेवागतस्तथापि अत्युत्साहितं नन्द दृष्ट्वा तथोत्साहे कंसोपद्रवमाशङ्क्य तन्माभूदिति गुप्तमेवैतत् कार्यमित्यभिप्रेत्य नन्दस्योत्साहनिवृत्त्यर्थं प्रथमं तं प्रत्याचक्षाण इवाह — यदूनामिति। यतोऽहं यदूनां यदुकुलोद्भवानामाचार्योऽतस्तव पुत्रस्य नामकरणादि न
ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम्॥ प्रणीत भवता येन पुमान् वेद परावरम्॥५॥
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि॥ बालयोरनयोर्नृृणां जन्मना ब्राह्मणो गुरुः॥६॥
गर्ग उवाच॥ यदूनामहमाचार्यः ख्यातश्च भुवि सर्वदा॥ सुतं मया संस्कृतं ते मन्यते देवकीसुतम्॥७॥
कंसः पापमतिः सख्यं तव चानकदुन्दुभेः॥ देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति॥८॥
करिष्ये इति शेषः। अनेन वसुदेवपुत्रतया प्रसिद्धत्वात् रोहिणीपुत्रतया कंसभयाभावाच्च रामस्य तत्करणं सम्मतमिति सूचितम्। ‘मत्सुतस्य तत्करणे को दोषः’ इत्यपेक्षायामाह — मया संस्कृतं तव सुतं कंसो देवकीसुत मन्यते मन्येत। ‘भवानत्रागत इति, मम पुत्रसंस्कार च कृतवानिति कंसः कथं ज्ञास्यति’ इत्याशङ्क्याह — अहं भुवि सर्वतः ख्यातः प्रसिद्धश्चेति। अतो ममागमनं मत्कृत्यं च गुप्तं न स्थास्यतीति भावः॥७॥ ननु ‘एवमपि यदुकुमारः कश्चिदिति कथचिज्जानातु, वसुदेवस्य पुत्रो देवक्या जात इति कथं जानीयात्?’ तत्राह — तवानकदुन्दुभेश्च सख्य जानाति, अतस्तत्पुत्र इति मस्यते। ‘तथा मन्यताम्, ततः किम्?’ तत्राह — पापमतिरिति। पापे ‘देवक्या अष्टमपुत्रमारणे’ मतिर्यस्य सः। ननु ‘देवक्या अष्टमो गर्भः स्त्रीरूपस्तेन दृष्ट एव, अतः कथं तत्पुत्र इति मन्येत?’ तत्राह — देवक्या इति। ‘किं मया हतया मन्द! जातः खलु तवान्तकृत्’ इति देवकीदारिकावचः श्रुत्वा तस्या वचसः आकाशवाणीनारदवाक्याभ्यां सवादित्वाद्देवक्या अष्टमो गर्भः स्त्री भवितुं नार्हतीति सञ्चिन्तयन् मत्संस्कारलिङ्गेन च ‘वसुदेवो देवकीपुत्र तत्र स्थापयित्वा, तत्कन्या-
मानीय मह्यं दत्तवानिति, वसुदेवस्य देवकीपुत्रो नन्दगृहेऽरित’ इत्यागता आशङ्का यस्य स कंसः। अपीति सम्भावनायाम्। यदि वसुदेवं देवकीं वा त्वां वा मां वा बालौ वा सर्वान् वसुदेवसम्बन्धिनो हन्ता हनिष्यति, तर्हि तत्तस्य हननस्यारमत्कृतसंस्कारनिमित्तत्वात् नोऽस्माकं महान् अनयः अन्यायः अयशोरूपः पापरूपश्च स्यादिति तव सुतस्य संस्कारो मया न प्रसिद्धतया कर्तव्यः। ‘अयमनर्थस्तवापि तुल्यं एव’ इति सूचयितुं तत्साहित्यमभिप्रेत्य ‘न’ इति बहुवचनम्॥८॥९॥ एवं गर्गेण भाषितो नन्दः “केनापि भाग्योदयेनाय महानुभावो मुनिर्मम गृहमागतः, पुनरस्यागमनं तु दुर्लभमेव। अतो लौकिकमुत्सवं तु कालान्तरेऽपि करिष्ये, शास्त्रीयमावश्यककृत्य सुगुप्तमपि यद्येतद्द्वारा स्यात्तदा भद्रमेव” इत्यभिप्रेत्य प्रार्थयते — अलक्षित इति। मामकैर्मन्दतरङ्गैरपि गोपैरलक्षितः अज्ञात एवास्मिन् गोव्रजे गोशालाया रहसि एकान्ते स्थितः सन् स्वस्तिवाचनपूर्वकं द्विजातीनामावश्यकं संस्कारमात्रमेव त्वं कुरु। ‘गोव्रजे’ इत्यनेन स्थानशुद्धिरपि नापेक्षितेति सूचनेन शीघ्रता व्यज्यते॥१०॥ एवं नन्देन सम्प्रार्थितो विप्रो गर्गस्तत् गुप्ततया संस्कारकरण तु स्वस्य
इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिकावचः॥ अपि हन्ताऽऽगताशङ्कस्तर्हि तन्नोऽनयो भवेत्॥९॥ नन्द उवाच॥ अलक्षितो73ऽस्मिन् रहसि मामकैरपि गोव्रजे॥ कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम्॥१०॥ श्रीशुक उवाच॥ एव सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत्॥ चकार नामकरणं गूढो रहसि बालयो॥११॥ गर्ग उवाच॥ अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः॥ आख्यास्यते राम इति बलाधिक्याद्बलं विदुः। यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत॥१२॥
चिकीर्षित कर्तुमिष्टमेव, अतो गूढ सन् रहसिबालयोर्नामकरणंचकारेत्यन्वयः॥११॥ श्रीनन्दस्य श्रीबलभद्रे स्वकीयत्वाभिमानात्तस्य श्रीकृष्णापेक्षया ज्येष्ठत्त्वाच्च प्रथमं तमेव दर्शितवान्, अतः प्रथमं तस्यैव नामानि वर्णयति — अय हीति। अयं हि रोहिणीपुत्रः सुहृदः सर्वान् स्वसम्बन्धिनः स्वगुणैः स्वसामर्थ्यैः पालनपोषणादिभिः सुखभावादिभिश्च रमयन् लोके स्वयमेव ‘राम’ इति आख्यास्यते विख्यातो भविष्यति, मत्कर्तृकत्वं तु व्याजमात्रम्। एवमग्रेऽपि। अस्य बलाधिक्यात् बलिष्ठत्वादेनं जना बल विदुः ‘बल’ इति व्यव हरिष्यन्तीत्यर्थः। “गर्भसङ्कर्षणात्त वै प्राहुः सङ्कर्षणं भुवि” इति भगवतोक्तम्, तत्तु लोके न प्रकाशनीयम्। प्रकारान्तरेण सङ्कर्षणव्युत्पत्तिमाह — यदूनामिति। कुतश्चिद्धेतोर्विप्रतिपद्यमानानां यदूनामपृथग्भावात् परस्परशिक्षया सर्वैकमत् त्यकरणात् सम्यक् कर्षति एकीकरोतीति सङ्कर्षणमुत अपि उशन्ति मन्यन्ते, वक्ष्यन्तीत्यर्थः॥१२॥
एव रामनामकरणानन्तरं श्रीनन्दः श्रीकृष्ण प्रदर्शितवान् इति तन्नामान्याह—
आसन्निति। अनुयुग युगे युगे तन्मूर्तीर्गृह्णतोऽस्य तव पुत्रस्य शुक्लो, रक्तस्तथा पीतश्चेति त्रयो वर्णा आसन्। इदानीं तु द्वापरस्यान्ते कृष्णता गत इत्यन्वयः॥ अतः ‘कृष्ण’ इत्येक नाम भविष्यतीत्याशयः। हिशब्देन ‘कृते शुक्लश्चतुर्बाहुः’ इत्यादिवक्ष्यमाणप्रसिद्धिं सूचयति॥१३॥ शास्त्रप्रसिद्धमपि ‘वासुदेव’ इति भगवतो नाम गोपयितुं प्रकारान्तरेणाह—
प्रागिति। अयं श्रीमास्तवात्मजः प्राक् कदाचिद्वसुदेवस्य सुतो जातः, अतः अभिज्ञा ये अभितो स्वस्वरूपं जानन्ति ते एनं ‘वासुदेव’ इति सम्प्रचक्षते कथयन्ति। प्रागिति सामान्योक्त्याऽयमुनिर्जन्मान्तरवृत्त कथयतीति नन्दो मन्यते स्म॥१४॥ गुणानुरूपाणि—
‘सर्वेश्वरः सर्वज्ञः’ इत्यादीनि, कर्मानुरूपाणि— ‘
गोवर्धनोद्धरणः, कालीयदमनः’ इत्यादीनि च तव सुतस्य बहूनि नामानि सन्ति। तानि च सर्वाणि जना न विदुः, अहमपि नो वेद न जानामि॥१५॥
आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुग तनूः॥ शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत॥१३॥
प्रागय वसुदेवस्य क्वचिज्जातस्तवाऽऽत्मजः॥ वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते॥१४॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते॥ गुणकर्मानुरूपाणि तान्यह वेद नो जनाः॥१५॥
एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः॥ अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ॥१६॥
पुराऽनेन व्रजपते साधवो दस्युपीडिताः॥ अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिता॥१७॥
जातकफलमाह—
एष इति। गोपपद गोपीनामप्युपलक्षणम्। एष गोपान् गोपीः गोकुलं च नन्दयतीति तथाभूतो भविष्यति। तत्र हेतुमाह—
वो युष्माकं सर्वेषा व्रजवासिनामेव श्रेयः ऐहिक पारलौकिक च सुखमाधास्यत् आधास्यति। अनेनैव रक्षकेण सर्वाणि दुर्गाणि महतोऽप्युपद्रवान् अञ्जः अनायासेनैव यूयं तरिष्यथ अतिक्रमिष्यथ॥१६॥ ‘तव भाग्यं तु मया किं वक्तव्यम्?’ इत्याशयेन सम्बोधयति—
व्रजपते इति। पुरा अराजके यदा ब्राह्मणैर्हुङ्कारेण वेनो नाशितो, यदा च परशुरामेण सर्वे राजानो हतास्तदा दस्युभिश्चोरैर्दुष्टै रावणादिभिश्च पीडिताः साधवः सदाचारनिष्ठा जना अनेन पृथुरामादिरूपेण रक्ष्यमाणाः समेधिताः संवर्धिताश्च सन्तस्तान् दस्यून् जिग्युः निर्जितवन्तः॥१७॥
ये मानवा एतस्मिन् त्वत्पुत्रे प्रीतिं कुर्वन्ति, ते एव महाभागा धर्मादिचतुर्विधपुरुषार्थभागिनो भवन्ति। तानेतान् अरयः शत्रवो मनुष्यादयः, इन्द्रियाणि रागलोभादयश्च नाभिवन्ति न तिरस्कुर्वन्ति। तेषां पुरुषार्थलाभे विघ्नं कर्तुं न शक्नुवन्तीत्यर्थः॥ तत्र दृष्टान्तमाह— विष्णुः पक्षे येषां तान् देवान् यथा असुरा नाभिभविष्यन्ति तथेति॥१८॥ ‘त्वया दुर्लभं प्राप्तम्’ इति सूचयन् सम्बोधयति— नन्देति। यस्मादयं तवात्मजो गुणैर्भक्तवात्सल्यादिभिः, श्रिया ऐश्वर्येण, कीर्त्या यशसा, अनुभावेन प्रभावेण च नारायणसमः। त्वं च समाहितः एकाग्रचित्तः सन् एनं गोपायस्व, अस्य सेवां कुर्वित्यर्थः॥१९॥ इत्येव आत्मानं नन्दं प्रति समादिश्य सम्यगुपदिश्य गर्गे स्वगृह गते सति नन्दः प्रमुदितः सन् आत्मानमाशिषामाशीर्भिः अभिमतार्थैः पूर्णं मेने॥२०॥ “न केवलं गर्गवाक्यविश्वासेन नन्दस्य पूर्णत्वाभिमानमात्रत्वम्, किन्तु ब्रह्मादिदुर्लभभगवद्बालचरित्रानुभवेन पूर्णमनोरथत्वमस्त्येव” इत्याशयेन भगवद्बालचरित्रमाह— कालेनेति। रमयति स्वचरित्रैः सुखयतीति रामः। को ब्रह्मा, ईशो महादेवः, तयोर्व सुख यस्मात् स केशवः। तौ व्रजता गच्छताऽल्पेनैव
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः॥ नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः॥१८॥ तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः॥ श्रिया कीर्त्याऽनुभावेन गोपायस्व समाहितः॥१९॥ श्रीशुक उवाच॥ इत्यात्मानं समादिश्य गर्गे च स्वगृह गते॥नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम्॥२०॥ कालेन74 ब्रजताऽल्पेन गोकुले रामकेशवौ। जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजन्हतुः॥२१॥ तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिर ब्रजकर्दमेषु॥ तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः॥२२॥
कालेन जानुभ्यां सह ‘पाणिभ्या रिङ्गमाणौ बजे विजान्हतुः विहार चक्रतुः॥२१॥ तौ रामकृष्णौ घोषाः ‘कटिपादभूषण किङ्किण्यः’ तेषां प्रघोषेण प्रकृष्टनादेन रुचिर यथा स्यात्तथाऽङ्घ्रियुग्ममनुकृष्य व्रजकर्दमेषु गोमयगोमूत्रगोरसादिपतनेन जातकर्दमयुक्तस्थानेषु सरीसृपन्तौ द्रुत तिर्यग्गच्छन्तौ, तथा— गमने हेतुमाह— तेषां घोषाणां नादेन हृष्टं मनो ययोस्तौ लोक जनमितस्ततो गच्छन्त स्त्रियः पुरुषः वाऽनुसृत्य त्रीणि चत्वारि वा पदान्यनुगम्य, पश्चात्तेन परावृत्य दृष्टे सति तन्मुखं दृष्ट्वा त परकीयं ज्ञात्वा, मुग्धप्रभीतवत् मुग्धोऽज्ञः प्राकृतो बालो यथा परकीय दृष्ट्वाप्रकर्षेण भीतो भवति, तथा सर्वज्ञौ निर्भयावपि तौ मात्रोः रोहिणीयशोदयोरन्ति समीपमुपेयतुः झटित्याजग्मतुरित्यन्वयः॥२२॥
तदा च तयोर्मातरौ घृणया कृपया स्नुवन्त्यौ स्तनाभ्या पयः स्रवन्त्यौ निजसुतौ दोर्भ्यां भुजाभ्यामुपग्गुह्य संवेष्ट्य, स्तनंदत्त्वा स्तनं प्रपिबतोस्तयोर्मुखं निरीक्ष्य प्रकृष्टमोद ययतुः प्रापतुरित्यन्वयः। तयोर्देहशोभामाह— पङ्केन लिप्तेन कर्दमेन, अङ्गरागेण चन्दनेन च रुचिरौ। मुखशोभामाह— मुग्ध मन्द स्मित यस्मिंस्तच्चासावल्पाः सूक्ष्मा दशना यस्मिंस्तच्चेति। निज निजसुतमित्यनूक्तिस्तौ द्वावपि प्रति तयोर्द्वयोरपि स्वपुत्रबुद्धिस्तथा ते द्वेप्रत्यपि तयोरपि मातृबुद्धिश्च तुल्येति सूचनार्था॥२३॥ यहिअङ्गनानां दर्शनीया दर्शनयोग्याः कुमारलीला ययोस्तथाभूतौ जातौ, तदा अन्तर्व्रजे व्रजस्य मध्ये सर्वदर्शनयोग्ये स्थाने ताभ्यामेव गृहीतानि पुच्छानि येषा तैर्वत्सैरितस्ततोऽनुकृष्यमाणावुभावपि रामकृष्णौ तदबला ब्रजाङ्गनाः प्रेक्षन्त्यो निरीक्ष्यमाणा हसन्त्यो जहृषुःहृष्टा बभूवुरित्यन्वयः। तद्दर्शनानन्देन तासा गृहकार्यमपि सर्व विस्मृतमित्याह— उज्झितगृहा इति॥२४॥ तयो रामकृष्णयोर्जनन्यौ यशोदारोहिण्यौ शृङ्ग्यादिभ्यः स्वसुतौ निषेद्धुं तयोर्निषेध कुर्वन्त्यौ यत्र यदा गृह्याणि गृहोचितानि कार्याणि अपिशब्दात् स्नानभोजन-
तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगुह्यदोर्भ्याम्॥ दत्त्वा स्तनं प्रपिबतो स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदर्शन ययतुः प्रमोदम्॥२३॥ यर्ह्यङ्गनादर्शनीयकुमारलीलावन्तर्व्रजे तदबलाःप्रगृहीतपुच्छैः॥ वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः॥२४॥ शृङ्ग्य75ग्निष्ट्यासिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम्॥ गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम्॥२५॥
मलमूत्रत्यागादिदेहकार्याणि देवार्चनादिपरलोककार्याणि च कर्तुं न शेकाते, तदा मनसोऽलमतिशयेनानवस्थामस्वास्थ्य मापतुरित्यन्वयः। शृङ्गिणो गवादयः, दंष्ट्रिणो मर्कटादयः, असिः खङ्गः, द्विजाः पक्षिणः काकगृध्रादयः। शृङ्ग्यादिग्रहणप्रवृतौ हेतुमाह— क्रीडापराविति। ‘क्रीडासाधनानि प्रदाय, एकत्र सम्यक् स्थले स्थापयितुमप्यशक्यौ’ इति सूचयन्नाह— अतिचलाविति। ‘स्वसुतौ, तज्जनन्यौ’ इति पदद्वयेन तयोः स्नेहाधिक्यादन्यरिमन्विश्वासाभावाच्च नान्यः कश्चिदवेक्षकः कृत इति सूचितम्। अत्र भगवद्बाललीलानुभवजनितपरमानन्दो भगवन्निष्ठाया लोकनिष्ठायाश्च परस्परबिरोधश्चदर्शितः॥२५॥
‘लीलान्तर कथयामि, तत् सावधानतया शृणु’ इत्याशयेन सम्बोधयति— राजर्षे इति। अल्पेनैव कालेन गच्छता रामः कृष्णश्च अघृष्टानि भूमिघर्षणमप्राप्तानि जानूनि येषु तैः पद्भिरञ्जसा श्रमं विनैव गोकुले विचक्रमतुः विशेषेण सर्वत्र गमनं चक्रतुः॥२६॥ ततस्तदनन्तरं तु वयस्यैः समानवयस्कैर्व्रजबालकैः सह तथा सहरामो रामेण च सहितो भगवान् कृष्णो व्रजस्त्रीणा मुदं हर्षं जनयन् चिक्रीडे इत्यन्वयः। तुशब्दःपूर्ववत् पराधीनलीलाव्यावृत्त्यर्थः। ‘सहराम’ इत्यनेन नवनीतमोषणादिलीलासु रामस्यापि गौणत्व दर्शितम्॥२७॥ कृष्णस्य रुचिर मनोहर कौमार चापल कुमारावस्थाया कृत चाञ्चल्य वीक्ष्य स्वगृह समागता गोप्यस्तस्य कृष्णस्य मातुर्यशोदायाः शृण्वत्या ह स्फुट यथा भवति तथैवेति वक्ष्यमाणमूचुरित्यन्वयः। किलेत्यवधारणे॥२८॥ तदेव दर्शयति— ‘वत्सान्’ इति सार्धद्वाभ्याम्।
कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले॥ अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा॥२६॥ ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकै॥ सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम्॥२७॥ कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम्॥ शृण्वत्या किल तन्मातुरिति होचु समागता॥२८॥ वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासःस्तेय स्वाद्वत्त्यथ दधि पय कल्पितै स्तेययोगै॥ मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्ड भिनत्ति द्रव्यालाभे स गृहकुपितो यात्यु76पक्रोश्य तोकान्77॥२९॥
भो यशोदे तवाय पुत्रः अस्माकं वत्सान् मुञ्चन् भवति। “युष्माभिर्मोचनीया वत्सास्तेन मोचिताश्चेत् का हानिः?” तत्राहुः— असमये इति। अदोहकाले इत्यर्थः। तेन सर्वं दुग्धं वत्सा एव पिबन्ति, ततश्च महती हानिर्भवतीति भावः॥ ननु ‘तर्हि युष्माभिः कुतो न तत्प्रतिरोधः क्रियते?’तत्राहु— क्वचिदिति। अनवधानदशायामित्यर्थः। ‘वत्सविमोचनेन तस्य कि प्रयोजनम्’ इत्यपेक्षायामाहुः— अथेति। वत्समोचनानन्तर वत्सान् परावर्तयितु गृहान्निःसृत्य जनेषु धावत्सु सत्सु, शून्यान् गृहान् प्रविश्यास्माक दधि पयः अत्ति॥ ‘तत्त्वय भीषयितव्य’ इति चेत्तत्राहुः— क्रोशसञ्जातहास इति। ‘अय दधिचोरः कृष्ण आगतः, ताड्यताम् नह्यताम्’ इति क्रोशे कृते सति सञ्जातहासो भवति, नतु बिभेतीत्यर्थः। ‘एव चेत्तदा किञ्चिदृत्त्वा कुतो न समाधीयते?’ तत्राहु— कल्पितैः रचितैः स्तेययोगैश्चौर्योपायैःस्तेय चौर्यार्जितमेव स्वादु यथा स्यात्तथा अत्ति, नतु
दत्तम्।त्वयाऽभीक्ष्ण प्रेम्णा भोजितस्य बुभुक्षाभावात् केवल चौर्य एव तस्याभिनिवेशः, स तु न युक्तः॥ ‘भवत्वेवम्, तथाप्येकस्य तस्य भक्षणे युष्माक का महती हानिः?’ तत्राहुः— भोक्ष्यन् भोक्ष्यमाणः प्रथमतो मर्कान् मर्कटान् प्रति विभजति विभज्य ददाति, तेषां मध्ये तृप्ततया स कश्चित् मर्कटो नात्ति चेत्तर्हि विमनाः सन् दध्यादिपूर्ण भाण्ड भिनत्तीति। ‘एव चेत्तर्हि त्रिचतुरदिनानि स्वगृहे दध्यादि न स्थापनीयम्, तदलाभे पुनः कदापि युष्माक गृह स न गमिष्यति’ इति चेत्तत्राहुः— द्रव्यस्य दध्यादेरलाभे सति स ‘अहमेतेषा गृहानेव धक्ष्यामि’ इति सर्वगृहान् प्रति कुपितःसन्तोकान्प्रसुप्तान् बालानुपक्रोश्य नखाघातादिना रोदयित्वा यातीति। गृहदाहादिभयेन दध्याद्यवश्य स्थाप्यते इति भावः॥२९॥ ‘कल्पितैः स्तेययोगैः’ इति यदुक्त तत्र के ते स्तेययोगा इत्यपेक्षायामाहुः— हस्ताग्राह्ये इति। दध्यादिपदार्थे उत्तुङ्गाशिक्यस्थत्वेन हस्ताग्राह्ये सति पीठकं सस्थाप्य तदुपरिउलूखलमारोप्य, आदिपदेन तदुपरि बालमारोप्य तत्स्कन्धारोहणादिना विधिं तदवतारणोपाय रचयति। यदि च तथाप्यवतारयितुं न शक्रोति, तदा लकुटश-
हस्ताग्राह्येरचयति विधि पीठकोलूखलाद्यैश्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तदित्॥
ध्वान्तागारे धृतमणिगणं स्वागमर्थप्रदीप काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः॥३०॥
एवं धार्ष्ट्यन्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते॥
इत्थं स्त्रीभिःसभयनयनश्रीमुखालोकिनीभिर्व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत्॥३१॥
लाकादिना शिक्यस्थेषु भाण्डेषु छिद्रं रचयति। आश्चर्यमेव तस्योपायज्ञानमित्याहुः— तद्विदिति। तच्छिद्र कर्तुं छिद्रेण धारा पातयितुं धारया च स्वस्य बालाना च व्यात्त मुखं पूरयितु वेत्तीति तथेत्यर्थः। ‘नच किञ्चिदज्ञातमस्ति’ इत्याहुः— अन्तर्गृहभाण्डादिषु निहिते दध्यादौ वयुन ज्ञान यस्य सः। ‘तर्ह्यन्धकारे दध्यादि स्थापनीयम्’ इति चेत्तत्राहुः— ध्वान्तेति ध्वान्तयुक्ते आगारे गृहे, धृता मणिगणा यस्मिस्तत् स्वाङ्गमेव अर्थस्य दध्यादिपदार्थस्य प्रदीप प्रकाशक रचयति। ‘एव चेत्तर्हि सावधानतया स्थेयम्, यथैव न कुर्यात्’ इति चेत्तत्राहुः— काले इति। यर्हियस्मिन् काले गोप्यो गृहकार्येषु सुव्यग्रचित्ता भवन्ति तदैवमुपद्रव करोति। ‘तथाच गृहकार्याणामावश्यकत्वात् कथ सर्वदा सावधानता स्यात्’ इति भावः॥३०॥ किञ्च उशति देवार्चनपाकाद्यर्थ सुसंस्कृते कमनीये वास्तौ गृहे मेहनादीनि पुरीषोत्सर्गमूत्रादीनि कुरुते। एवविधानि बहूनि धार्ष्ट्यानिप्रागल्भ्यानि कुरुते। एव स्तेयोपायैर्विरचिता कृतिः कर्म येन सः त्वत्समीपे तु सुप्रतीकः साधुर्यथा तथास्ते। एव गोपीकृतमुपालम्भमुत्क्वा शुक आह— इत्थमिति। सभये नयने यस्मिंस्तच्च
तच्छ्रीयुक्तं च यत् श्रीकृष्णस्य मुखं तत् आलोकिनीभिः पश्यन्तीभिः स्त्रीभिः इत्थं व्याख्यातः कथितोऽर्थः स्वगृहे कृतः कृष्णोपद्रवो यस्याः सा यशोदा त सुतमुपालब्धु आक्षेप्तुं नैवैच्छत्, किन्त्वाक्षेपस्य ‘भयजननार्थत्वात्तद्विनैव तमतिभीत दृष्ट्वा पुनर्भयजनकवचनस्य तदस्वास्थ्यहेतुत्वेन अनौचित्य मत्वा प्रत्युत जातभयनिवृत्त्यर्थे प्रहसितमुख्यैव जाता। हीत्यवधारणे॥३१॥ ‘कदाचिदपराधान्तरे उपालंभत, तदा तु महदाश्चर्यमभूत्’ इति कथयन् लीलान्तरमाह— एकदैति। ते प्रसिद्धाः क्रीडमाना रामाद्या गोपदारकाः गोपबालका एकदा आगत्य ‘कृष्णो मृदं कोमलां मृत्तिका भक्षितवान्’ इति मात्रे यशोदायै न्यवेदयन् ‘विज्ञापयामासुरित्यन्वयः॥३२॥ तदा सा यशोदा करे हस्ते कृष्ण गृहीत्वा उपालभ्य निर्भर्त्य अभाषतेत्यन्वयः। ननु ‘पूर्वं तु महानुपद्रवस्तेन कृतः, तदा कुतो नोपालम्भं कृतवती? इदानीमल्पापराधे कथ तत् कृतवती? इत्यपेक्षायामाह— हितैषिणीति। ‘मृद्भक्ष-
एकदा78 क्रीडमानास्ते रामाद्या गोपदारकाः॥ कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन्॥३२॥
सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी॥ यशोदा भयस भ्रान्तप्रेक्षणाक्षमभाषत॥३३॥
कस्मान्मृदमदीन्तात्मन् भवान् भक्षितवान् रहः॥ वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम्॥३४॥
णस्य रोगजनकत्वात्तन्माभूत्’ इति हितमिच्छन्तीत्यर्थः। पूर्वमस्य दोषस्याभावात् तन्न कृतवती॥ ‘भगवताऽपि लौकिक बालभाव एव प्रकाशित’ इत्याह— भयेन सम्भ्रान्तप्रेक्षणे चपलनिरीक्षणे अक्षीणि यस्य तमिति॥३३॥ भाषणमेवाह— कस्मादिति। अदान्तः अवशीकृत आत्मा अन्तःकरण यस्य तत्सम्बोधनम— ‘हे अदान्तात्मन्’इति। रहः एकान्ते भवान् मृद कस्माद्धेतोर्भक्षितवान्? कि मम गृहे सितादि मृष्टं भक्ष्य नास्तीति। भक्षणे प्रमाणमाह— एते कुमारा वदन्तीति। ननु ‘तेऽनृतं वदन्ति’ इति चेत्तत्राह— तावका इति। तव हितैषिणः। ‘कुमारा’ इत्यनेन तेषामन्यथाकल्पने सामर्थ्यं नास्तीति सुचितम्। ‘ननु तर्हि भ्रमस्य सम्भवाद्भान्त्यैवैते तथा वदन्ति’ इत्याशङ्क्याह— हि यस्मात्ते तवाग्रजोऽग्रजत्वात्त्वत्तोऽस्य बुद्धिरुत्कृष्टैव सोप्यय प्रत्यक्ष तथैव वदतीति नात्र काचिदसम्भावना।श्रीरामेऽपि पुत्रवल्लाल्यमानत्वात् परकीयत्वबुद्ध्यभावाच्च नन्दयशोदयोरप्यग्रजत्वव्यवहारः॥३४॥
दयोत्पादनार्थं सम्बोधयति— अम्बेति। अह मृदं न भक्षितवान्, एते तु सर्वे मिथ्याभिशसिनः अनृतमेव वदन्ति। यदि ‘ते सर्वे सत्यगिरः यथार्थवक्तार’ इति त्वं मन्यसे, तर्हि मे मम मुखं समक्ष प्रत्यक्षं पश्य॥३५॥ ‘यद्येव त्वया मृन्न भक्षिता चेत् तर्हि व्यादेहि मुख प्रसारय’ इति तयोक्तः स हरिः व्यादत्त मुख प्रसारितवान्। ननु ‘मृदो भक्षितत्वात् कथ निर्भयतया मुख प्रसारितवान्?’ तत्राह— अव्याहतैश्वर्य इति। न विशेषेण आहतमैश्वर्य यस्य सः, ऐश्वर्यादिषड्गुणपूर्णः। तत्र हेतुमाह— भगवानिति। अन्यथा भगवत्वमेव भज्येतेत्याशयः। ननु ‘तर्हि प्रथमं कथं भयेनानृतमुक्तवान्?’ इत्याशङ्कयाह— क्रीडेति। क्रीडार्थमेव मनुजबालकः। अतः क्रीडार्थं भयानुकरणमात्रमेव कृतवान्, नतु वस्तुतस्तस्य भयमस्तीति भावः। नचानृतवदन शङ्कनीयम्, वस्तुतः सर्वस्यैव पदार्थस्य तदन्तःस्थत्वेन बहिष्ठवस्तुभक्षणासम्भवात्। ‘अनश्नन्नन्यो अभिचाकशीमि’ इति श्रुतेश्च॥३६॥ सा यशोदा तत्र विवृते मुखे विश्व ददृशे ददर्श। तदेव प्रपञ्चयति— जगत् जङ्गमं, स्थास्नु स्थावर, ख अन्तरिक्षलोक, दिशः, साद्रिद्वीपाब्धिभूगोल पर्वतद्वीपसमुद्रसहित भूर्लोकं, वायुः प्रवहः अग्निर्वैद्युतः
नाह भक्षितवानम्ब। सर्वे मिथ्याभिशंसिनः॥ यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम्॥३५॥ यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः॥ व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः॥३६॥ सा तत्र ददृशे विश्वं जगत् स्थास्नुच खं दिशः॥ साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम्॥३७॥ ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च॥ वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः॥३८॥ एतद्विचित्रं सह जीवकालस्वभावकर्माशयलिङ्गभेदम्॥ सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम्॥३९॥
इन्दुः चन्द्रः तारकाश्च तत्सहितम्॥३७॥ ज्योतिश्चक्र स्वर्लोकः, जलं, तेजोऽग्निः नभस्वान् वायुः, वियत् आकाशः, वैकारिकाणि सात्त्विकाहङ्कारकार्यभूता इन्द्रियाभिमानिन्यो देवताः, इन्द्रियाणि राजसाहङ्कारकार्याणि मन इति वैकारिकेष्वन्तर्भूतमपि देवतावैलक्षण्यज्ञापनाय पृथगुक्तम्, मात्राः तामसाहङ्कारकार्यभूताः शब्दस्पर्शरूपरसगन्धाः, त्रयो गुणाः सत्त्वरजस्तमांसि। अत्रातीन्द्रियाणामपि दर्शनं भगवद्वत्तसामर्थ्यादेव ज्ञेयम्र, ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्’ इत्यादिवाक्येभ्यस्तथा निश्चयात्॥३८॥ एव सूनोर्बालस्य तनौ शरीरे, तत्रापि विदारिते आस्ये मुखे अल्पे एव एतह्विचित्र विश्व वीक्ष्य तत्र च क्वचिदेशे सहात्मानमात्मना यशोदया कृष्णेन च सहित व्रजं च सह एकदैव वीक्ष्य शङ्कामवापेत्यन्वयः। विचित्रतामेवाह— जीवेति। जीवो भोक्ता, कालो गुणक्षोभकः, स्वभावश्च परिणामहेतुः कर्म च जन्महेतुः, आशयश्च कर्मवासनाप्रवृत्तिहेतुः, एतैर्लिङ्गानां चराचरशरीराणा भेदो यस्मिस्तत्॥३९॥
शङ्कामेवाह— किमिति। यन्मया दृष्ट तदेतत् कि स्वप्नः? ‘स्वप्नदृष्टपदार्थाना शीघ्र विलोपो भवति, प्रकृते च तद्वैलक्षण्यान्नाय स्वप्न’ इति निश्चित्य पक्षान्तरमाह— उत देवमायेति। ‘देवस्य हरेर्मम मोहने प्रयोजनाभावादन्येषामदर्शनाद्बाधादर्शनाच्चायमपि पक्षो न युक्त’ इति निश्चित्य पक्षान्तरमाह— किञ्चेति। ‘बत’ इति खेदे। मदीय एव कश्चिद्बुद्धिमोहो विपर्यासः दर्पणे मुखदर्शनवत्। “एव तर्ह्ययं कृष्णोपि कथमन्तः प्रतीयते? जगदपि कथमन्तर्बहिश्चैकरूपेण प्रतीयते? तथा सति बिम्बप्रतिबिम्बयोरिव परस्परं वैपरीत्येनैव प्रतीतिः स्यात्, अतोऽयमपि पक्षो न युक्त” इति निश्चित्य पक्षान्तरं तर्कयति— अथो इति। अथवा अमुष्य ममार्भकस्यैव यः कश्चनौत्पत्तिकः स्वाभाविकः आत्मयोगः स्वीयमैश्वर्यम् ॥४०॥ चरमं पक्षमाश्रित्याह— अथो इति। अथो अचिन्त्यैश्वर्याश्रयत्वेन परमेश्वरत्वात् अतीन्द्रियाणां परस्परविरुद्धानां चैकदैव एकत्र दर्शनात् चित्तादिभिर्यथावत् याथातथ्येन अञ्जसा अनायासेन यत्कृपा विनेति यावत् न वितर्कगोचर तर्कागोचरमिद विश्व यदाश्रयं यदधिष्ठान येन करणाधिष्ठात्रा यतश्चेतनात् प्रकाशकात् प्रतीयते तत्पद तस्य चरणार-
कि स्वप्न एतदुत देवमाया किं वा मदीयो वत बुद्धिमोहः॥ अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः॥४०॥ अथो यथावन्न वितर्कगोचरं चेतोमनः कर्मवचोभिरञ्जसा॥ यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणताऽस्मि तत्पदम्॥४१॥ अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती॥ गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः॥४२॥ इत्थ विदिततत्त्वायां गोपिकाया स ईश्वरः॥ वैष्णवी व्यतनोन्माया पुत्रस्नेहमयी विभु॥४३॥
विन्दमह प्रणतास्मीत्यन्वयः। तच्चरणं विशिनष्टि— सुदुर्विभाव्यमिति। विषयाविष्टचित्तानां भावनायाः ध्यानस्यात्यन्ताविषयमित्यर्थः॥४१॥ एव विश्वप्रतीत्या निश्चितं तस्य परमेश्वरत्वं पुनः स्वमोहकारणमायाश्रयत्वेन तन्निश्चिन्वती मायानिवृत्त्यर्थं तमेव शरण व्रजति— अहमिति। “अह यशोदा अमुष्य व्रजेश्वरस्य नन्दस्याखिलवित्तपा सकलधनाद्यधिष्ठात्री सती जाया, असौ मम पतिः, एष कृष्णो मे सुतः, सहधनाः धनादिसहिता गोप्यो गोपाश्च मे मदीया” इत्थ यस्य मायया मे मम कुत्सिता मतिरस्ति स एव मे गतिः शरणं मायातो रक्षकोऽस्तु॥४२॥ ‘एव महात्मज्ञाने जाते ब्रह्मानन्दसम्भवेऽपि भजनानन्दासम्भवाद्ब्रह्मानन्दापेक्षया भजनानन्दस्याधिक्यात् तत्सिद्ध्यर्थं स्वमायया पुनस्ता मोहितवान्’ इत्याह— इत्थमिति। ‘ज्ञानानन्तर तस्या मातृभावस्यापगमात् भगवतोऽपि स्वस्मिन् पुत्रभावनाऽपगता’ इति सूचयन्नाह— गोपिकायामिति। यशोदाया इत्थ विदित तत्त्वं यया तथाभूताया सत्या स
श्रीकृष्णो वैष्णवीं स्वशक्तिरूपा माया व्यतनोत्, तस्याः सम्मोहनार्थ विस्तारितवानित्यन्वयः। ननु ‘तस्याः परमप्रेमवत्या मोहनमप्यनुचितमेव’ इत्यत आह— पुत्रस्नेहमयीमिति। यथा पुत्रस्नेहेन परमानन्दोऽभिव्यज्यते तथेश्वरज्ञानेन स नोत्पद्यते, तथात्वभावस्यावश्यकत्वात्। ननु ‘ईश्वरज्ञाने जाते सति कथ पुनस्तत्रैव तद्विरुद्ध पुत्रज्ञान भविष्यति?’ इत्याशङ्कयाह— विभुरिति। सर्वकारणसमर्थ इत्यर्थः। तत्र हेतुमाह— ईश्वर इति। भगवन्मायया लोके एकस्मिन्नपि पुरुषादौ कालभेदेन प्राणिभेदेन च शत्रुमित्राद्यनेकबुद्धिभेदस्य प्रसिद्धत्वात्॥४३॥‘अतस्तथैव मोहो जात’ इत्याह— सद्य इति। सद्य एव नष्टा स्मृतिः ‘पूर्वोक्त परमेश्वरज्ञान’ यस्याः सा गोपी यशोदा आत्मजमारोहमङ्कमारोप्य यथा पुरा पूर्ववत् प्रवृद्धेन स्नेहेन कलिल व्याप्तं हृदयं यस्यास्तथासीदित्यन्वयः॥४४॥ मायाबलोद्रेकं यशोदाया भगवत्कृपातिशय च द्योतयन्नाह— त्रय्येति। त्रय्या वेदपूर्वभागेन कर्मकाण्डेन इन्द्रादिरूपेण, उपनिषद्भिर्वेदोत्तरभागेन ब्रह्मरूपेण, साङ्ख्यैः पुरुषरूपेण, योगैःपरमात्मरूपेण, सात्वतैः पञ्चरात्रादिवैष्णवतन्त्रैर्भगवद्रूपेण, चकारात् पशुपतिमते शिवादिरूपेण चोपगीयमानं माहात्म्य यस्य त हरिं सा यशादोऽऽत्मजममन्यत॥४५॥ एव नन्दयशोदयोरुपरि भगवतः कृपातिशयमाकलय्यातिविस्मितो राजा तत्का-
सद्योनष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम्॥ प्रवृद्धस्नेहकलिलहृदयाऽऽसीद्यथा पुरा॥४४॥ त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतै॥ उपगीयमानमाहात्म्य हरिं साऽमन्यताऽऽत्मजम्॥४५॥ राजोवाच॥ नन्द किमकरोद्ब्रह्मन्। श्रेय एव महोदयम्॥ यशोदा च महाभागा पपौ यस्या स्तनं हरि॥४६॥ पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम्॥ गायन्त्यद्यापि कवयो यल्लोकशमलापहम्॥ ४७॥
रण पृच्छति— नन्द इति। सर्वज्ञत्वं सूचयन् सम्बोधयति— ब्रह्मन्निति। नन्दो यशोदा च एवविधं श्रेयःसाधन किमकरोत्? नन्दापेक्षयापि यशोदाया आधिक्य सूचयन् विशिनष्टि— ‘महाभागा’ इति। तत्र ज्ञापकमाह— यस्या इति। यस्य तृप्तये यज्ञादयोऽपि न समर्था जाताः स दुराराध्यो हरिर्यस्याः स्नेहातिशयवशात् स्तन पपौ। एव— शब्दार्थमेव स्पष्टयति— महोदयमिति। महानुदयः फल भगवद्बाललीलानुभवरूप यस्य तदित्यर्थः॥४६॥ उक्तमेव स्पष्टयति— पितराविति ययोः प्रसन्नःसन्नवतीर्णस्तौ पितरौ देवकीवसुदेवावपि कृष्णोदारार्भकेहितं नान्वविन्देता नानुभूतवन्तौ तद्योऽनुभूतवान् स नन्दो यशोदा च कि श्रेयोऽकरोदित्यन्वयः। ‘तदनुभवे किमाश्चर्यम्’ इत्याशङ्क्य ‘दुर्लभत्वात्’ इत्याशयेनाह— गायन्ति इति। कवयो व्यासादयः सर्वरहस्याभिज्ञाःसर्वोपकारिणो यच्चरितमद्यापि गायन्ति वर्णयन्ति। तत्प्रयोजनमा— लोकशमलापहमिति। श्रोतृवक्तृप्राणिना सर्वदोषविनाशकमित्यर्थः। ‘न केवल दोषनिवर्तकम्, किन्तु सर्वाभीष्टप्रदमपि’ इत्युदारपदेन सूचितम्॥४७॥
महता कृपैवात्र कारणमित्याह— द्रोण इति। वसूनां मध्ये प्रवरः परमश्रेष्ठो द्रोणाख्यो वसुः धरया धराख्यया भार्यया सह ब्रह्मणः आदेशान् गोपालनादीन् करिष्यमाणस्तत्प्रसन्नतापन्नं ब्रह्माणमुवाचेत्यन्वयः। तत्स्वार्थकौशल्यस्याश्चर्यं सूचयन्नाह— हेति। ‘द्रोणस्याभिमते पत्न्या’ इति पष्ठोक्तिस्तु कल्पान्तरविषया, अतो न विरोधः॥४८॥ तदुक्तमेवाह— जातयोरिति। भूमेः साधनस्थानत्वात् तत्र जातयोर्नौ आवयोर्दम्पत्योर्हरौ परमा उत्कृष्टा भक्तिः स्यात्। भक्तेरुत्क्रुष्टत्वमेव स्पष्टयन् विशिनष्टि— ययेति। लोके संसारे वर्तमानो जनो यया भक्त्या दुर्गतिं संसारदुःखं तरेत् संसाराद्विमुक्तो भवेदित्यर्थः। ‘कथ तद्भक्त्या विमुक्तिः स्यात?’ इत्यत आह— महादेव इति। यदपेक्षयाऽधिकोऽन्यो देवो नास्ति, तस्मिन्नित्यर्थः। तस्य सर्वोत्तमत्वे हेतुमाह— विश्वेश्वर इति॥४९॥ ‘एवमस्तु’ इति ब्रह्मणा उक्तः स द्रोणो ब्रजे जज्ञे। स एव भगवान् ऐश्वर्यादिमान् महायशा ‘नन्द’ इति ख्यातः प्रसिद्धः। सा च धरा यशोदाऽभवत्॥५०॥ ‘सत्कुलोत्पन्नस्य तवात्र विश्वास एव युक्त’ इति सूचयन् सम्बोधयति— भारतेति। ततो ब्रह्मणः
श्रीशुक उवाच॥ द्रोणो वसूनां प्रवरो धरया सह भार्यया॥ करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह॥४८॥ जातःयोर्नौमहादेवे भुवि विश्वेश्वरे हरौ॥ भक्तिः स्यात् परमा लोके ययाऽञ्जो दुर्गतिं तरेत्॥४९॥ अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः॥ जज्ञे नन्द इति ख्यातो यशोदा सा धराऽभवत्॥५०॥ ततो भक्तिर्भगवति पुत्रीभूते जनार्दने॥ दम्पत्योर्नितरामासीद्गोपगोपीषु भारत॥५१॥ कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः॥ सहरामो वसश्चक्रे तेषां प्रीति स्वलीलया॥५२॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधप्रकरणे नामकरणादिबाललीलानिरूपण नामाष्टमोऽध्यायः॥८॥
आशीर्वादात्तयोर्दम्पत्योस्तस्मिन् पुत्रीभूते भगवति नितरां निष्कामा अनवच्छिन्ना भक्तिरासीत्। सप्तमी षष्ठ्यर्थे। तथा गोपगोपीनामपि वस्तुस्वभावादेव भक्तिरासीदित्यन्वयः। ‘भगवानपि किमिति पुत्रो जात’ इत्यत आह— जनार्दन इति। स्वस्मिन्नासक्तिं विधाय जनानामविद्यामर्दयति निर्वर्तयतीति तथा तस्मिन्नित्यर्थः। जनोद्धारार्थमवतीर्ण इति भावः॥५१॥ ‘एव चेत्तर्हि व्रजवासस्य किं प्रयोजनम्’ इत्याकाङ्क्षायामाह— कृष्ण इति। ब्रह्मण आदेश ‘संसारदुःखनिवर्तिका भक्तिर्युवयोरस्त्विति वचनं’ सत्य कर्तुं तेषां स्वस्मिन् स्नेहातिशयरूपभक्तिसिद्ध्यर्थ रामेण सह व्रजे वसन् श्रीकृष्णः स्वबाललीलया तेषा नन्दादीना प्रीति चक्र इत्यन्वयः। ‘ब्रह्मवचनमपि तेन किमिति सम्पादनीय’ तत्राह— विभुरिति। ब्रह्मणोऽपि महान् सर्वसमर्थश्च। स्वेन जगत्स्वामित्वे स्थापितस्य वचनमपि स्वेनैव सत्यं कर्तव्यम्, अन्यथा तन्मर्यादाभङ्गापत्तेः। सा चानिष्ठेति भावः॥५२॥ इति श्रीवल्लभार्य— वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्भिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागव-
तस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥अष्टमो विवृतोऽध्यायो बाललीलानिरूपकः॥३॥॥ छ॥ नवमे भाण्डभङ्गादि कृत्वा भीत्या प्रधावतः॥ कृष्णस्याप्यथ तन्मात्रा बन्धन विनिरूप्यते॥१॥ पुनर्यशोदाया भगवतः कृपातिशय प्रदर्शयँल्लीलान्तरमाह— एकदेति। एकदा गृहदासीषु कर्मान्तरे नियुक्तासु सतीषु, यशोदा स्वय दधि निर्ममन्येत्यन्वयः। स्वय निर्मन्थने हेतु सूचयन् विशिनष्टि— नन्दगेहिनीति। गेहिन्या गृहदास्यभावे गृहकार्यस्यावश्यकत्वात्, अन्यथा दध्यादिवैरस्येन महती क्षतिः स्यादित्याशयः॥१॥ तदा च दधिनिर्मन्थने काले सः प्रसिद्धो बालः तद्वालः, तस्य यानि यानि बालचरितानीह पुराणादिषु गीतानि तानि स्मरन्ती अगायतेत्यन्वयः। अनेन भगवद्भक्ताना लौकिकव्यापारेऽपि भगवत्परता प्रदर्शिता।
श्रीशुक उवाच॥ एकदा^(१)गृहदासीषु यशोदा नन्दगेहिनी॥ कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि॥१॥ यानि यानीह गीतानि तद्बालचरितानि च॥ दधिनिर्मन्थने काले स्मरन्ती तान्यगायत॥२॥ क्षौमं वासः पृथुकटितटे विभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुग जातकम्प च सुभ्रूः॥ रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्न वक्र कबरविगलन्मालती निर्ममन्थ॥३॥
॥२॥ तत्समये तस्याः शोभातिशय वर्णयति— शोभने भ्रुवौ यस्याः सा सुभ्रूः। कबरात केशबन्धात् विगलन्त्यो मालत्यो यस्याः सा यशोदा पृथुकटितटे सूत्रनद्धकाञ्चीबद्ध क्षौम कौशेय वासो वस्त्र बिभ्रती। ‘कटितटे’ इत्यनेन मन्थनावेशाद्वस्त्राननुसन्धान सूचितम्। तथा जातकम्प पुत्रस्त्रेहेन स्नुत दुग्धस्रावि कुचयुगं च बिभ्रती, चकाराज्जातकम्प शिरश्च बिभ्रती। रज्ज्वोराकर्षेण श्रमो ययोस्तयोर्भुजयोश्चलन्तौ कङ्कणौ बिभ्रती, कर्णयोः कुण्डले च बिभ्रती, स्विन्न स्वेदयुक्त वक्र बिभ्रती दधि79 निर्ममन्थेऽत्यन्वयः॥३॥
——————————————————————————————————————
१ “शास्त्रार्थतो यथा भक्तिर्हरौ भवति निश्चला। तदर्थं नवमे प्राह चरित्र परमाद्भुतम्॥ स्वरूप च कृपालुत्व हरेर्ज्ञातव्यमजसा। अतो दयासु समिश्र ज्ञानमत्र निरूप्यते॥निरोधा यदि भक्ताना स्वस्मिन् स्वस्य च तेषु च। तदोभयसुसबधादृढो भवति नान्यथा॥ज्ञानवैराग्यरूपैर्हि स्वाधीनो भगवान् भवेत्। अतोऽध्यायत्रये लीला जीवाधीना निरूप्यते॥अतिपौरुषमे तद्धि जीवानामिति निश्चय। द्वादशागमतिक्रम्य षड्भिर्वश्यो भवेद्गुणे॥ पचपर्वामविद्या हि लोकानामपि नाशयेत्। अतः पचभिरुक्तो हि विचारो भगवद्भुत॥ निवारितापि संसारे मोहिता सगना पुन। गुणगाने स कालोऽभूत् श्रमो द्वाभ्या ततोऽभवत्॥अत कृनो निषेधो हि भक्तिसार हरि पपौ। ततो रिक्ता पूर्वबुद्ध्या सगतान्यच्चकार ह॥एव निरुद्धा चद्भातो कोपयुक्तो हरिर्भवेत्। धौर्त्य दृष्ट्वा लोकदृष्ट्या प्रीता तस्मान्न पश्यति॥ जिज्ञासाया ततो दृष्ट्वा प्राप्त्यर्थ यत्नमाचरत्। विरुद्धास्तान् हरिर्ज्ञात्वा तपसे निर्गतस्तत॥पूर्णे तपसि तत्प्राप्तिरेव दशभिः रुच्यते। परोक्षवादा ऋषय परोक्ष च हरिप्रियम्॥आसक्ति चेत्स्वत कुर्यात् जीव कृष्ण पलायते। तदा दृढो निरोध स्यान्नान्यथेत्येष निर्णय॥सर्वागं चालयन् हस्तौ पादौ चैव विचालयन्। मुखाब्ज मधुराराव बिभ्रत्कृष्ण समागत” इति सुबोधिनी— कारिका।
ता दधि मथ्नन्तीं जननीं प्रत्यासाद्य आगत्य दधिमन्थान मन्थनदण्डं गृहीत्वा न्यषेधत् मन्थननिषेध कृतवान्। निषेधे हेतुमाह— स्तन्यकाम इति। दुग्धपानकाम इत्यर्थः। दधिनिर्मन्थनेऽभिनिविष्टचित्तायास्ततो निवारणे दौर्मनस्य स्यात्, अतः प्रीतिमावहन् यथा तस्याः प्रीतिः स्यात्तथा चेष्टां कुर्वन्नित्यर्थः। तदुक्तम्— “सर्वागं चालयन् हस्तौ पादौ चैव विचालयन्। मुखाच्च मधुराराव बिभ्रत् कृष्णः समागतः” इति॥४॥ तदा सा यशोदा तस्य सस्मित मुखमीक्षती सती अङ्कमारूढं तं स्नेहेन स्नुत स्तनमपाययत्। तदाच अधिश्रिते चुल्लीमारोपिते पयस्युत्सिच्यमाने अतितापेनोद्रिच्यमाने सति ‘पयसोऽनौ निष्पन्दनस्य हानिकरत्वादमङ्गलत्वाच्च’ तमतृप्तमेवोत्सृज्य त्यक्त्वा जवेन वेगेन ययौ, तदुत्तारणार्थ जगामेत्यर्थः॥५॥ जातः कोपो यस्य स कृष्णःयत्
तां स्तन्यकाम आसाद्य मथ्नन्ती जननी हरिः॥ गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन्॥४॥ तमङ्कमारूढमपाययत् स्तन स्नेहस्नुतं सस्मितमीक्षती मुखम्॥ अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते॥५॥ सञ्जातकोपः स्फुरितारुणाधर सन्दश्य दद्भिर्दधिमण्ड80भाजनम्॥ भित्त्वा मृषाऽश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः॥६॥ उत्तार्य गोपी सुशृत पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम्॥ भग्न विलोक्य स्वसुतस्य कर्म तज्जहास त चापि न तत्र पश्यती॥७॥
कोपेन स्फुरितमरुणमधर तद्दद्भिः सन्दश्य तथा दृषदश्मना दृषत्सम्बन्धिकुट्टनपाषाणेन दधिमण्डः तक्रम् तदाधारभूत भाजन ‘दधिमन्थभाजनम्’ इति पाठान्तरम्, भित्त्वा मृषा दुःखासम्भवात् मिथ्यैवाश्रूणि यस्य तथाभूतोऽन्तर गृहमध्य गतश्च सन् हैयङ्गव नवनीत जघास अभक्षयदित्यन्वयः। एव परित्यज्य गमने लोभस्यापि हेतुत्वात्तस्य चाधर एव लोभ इति वचनाद्भगवदधरात्मकत्वात्तत्रैव तेन दशः कृतः॥६॥ ततश्च गोपी यशोदा सुशृत सुपक्व पय उत्तार्य चुल्लीतःअवतार्य पुनर्दधिमन्थनस्थान प्रविश्य तत्र च दध्यमत्रक दधिभाजन भग्न सदृश्य तच्च स्वसुतस्य कर्म विलोक्य ज्ञात्वा जहास। तत्र च त कृष्णमपश्यती अन्वेषयामासेत्यन्वयः॥७॥
उलूखलाङ्घ्रेःपरिवाततस्यालूखलस्योपरि व्यवस्थित शिचि शिक्ये स्थित हैयङ्गव नवनीत कामं यथेष्ट मर्काय वानराय ददतम्, चौर्येण विशङ्किते चञ्चले यशोदागमनानुसन्धानपरे ईक्षणे यस्य त सुत दूरतो निरीक्ष्य शनैः ‘यथा पादाघातजनितशब्द स न शृणुयात्तथा’ पश्चात् पृष्ठतोऽगमत्। अत्र ‘गृहमध्ये स्वयं भक्षणं कृत्वा स शिक्य नवनीत बहिरानीयोलूखलोपर्युपविष्ट’ इति ज्ञेयम्, गृहमध्ये मर्कटप्रवेशासम्भवात् ततःपलायनासम्भवाच्च॥८॥ आत्ता भीषणार्थ गृहीता यष्टिर्यया ता जननीमागच्छन्तीं प्रसमीक्ष्य सत्वरः त्वरया शैघ्र्येण युक्तः कृष्णः ततः उलूखलादपरुह्य भीतवत् अपससार पलायितवान्। वस्तुतो भयाभावं सूचयितुंवति81प्रयोगः कृतः। तमपसरन्त गोपी यशोदा गृहीतुमन्वधावत् यशोदाया भगवत्कृपातिशय सूचयन् भगवन्त विशिनष्टि— न यमिति। तपसा विशुद्धम्, अत एव प्रवेष्टुं क्षम योग्य ईरित तदेकाकारता नीतमपि योगिना मनो य नाप तमन्व-
उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय काम ददत शिचि स्थितम्॥हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात्सुतमागमच्छनैः॥८॥ तामात्तयष्टि प्रसमीक्ष्य सत्वरस्ततोऽवरुह्यापससार भीतवत्॥ गोप्यन्वधावन्न यमाप योगिना क्षमं प्रवेष्टुं तपसेरितं मनः॥९॥ अन्वञ्चमाना जननी बृहच्चलच्छ्रोणीभराक्रान्तगतिः सुमध्यमा॥ जवेन विस्रंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत्॥१०॥ कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना॥ उद्वीक्षमाणं भयविह्वलेक्षण हस्ते गृहीत्वा भिषयन्त्यवागुरत्॥११॥
धावदित्यन्वयः॥९॥ “भगवति दोषदर्शने तावत्तद्भक्तोऽपि न प्राप्नोति तादृशोऽपि तस्मिन्नत्यासक्तश्चेत्तर्हि तत्कृपया त प्राप्नोतीति प्रतिकूलोऽपि भगवदर्थपरिश्रमः सफलो भवति। का पुनरनुकूलस्य वार्ता" इति च सूचयस्तत्कृपया यशोदा त धृतवतीत्याह— अन्वञ्चमानेति। श्रीकृष्णमनुगच्छन्ती त परामृशत् धृतवतीत्यन्वयः। ‘भगवत्प्राप्त्यर्थ देहाद्यनुसन्धान विहाय तदेकाग्रता मनसः कर्तव्या’ इति सूचयन् यशोदा वर्णयति— जननी परमप्रेमवती, बृहत्योश्चलत्योः श्रोण्योर्भरेणाक्रान्ता स्तब्धा गतिर्यस्याः सा शोभनो मध्यमः प्रदेशो यस्याः सा, जवेन वेगेन हेतुना विस्रसितात् केशबन्धाच्च्युतैः प्रसूनैरनुगतिर्गमनं यस्याः सा॥१०॥ त हस्ते गृहीला भीषयती ‘रे रे चौर’ त्वा तथा यष्ट्या ताडयामि, यथा पुनरेवमुपद्रवं न कदापि करि-
ष्यसि’ इत्येवं भर्त्सनेन भयमुत्पादयन्ती अवागुरत् यष्ट्युत्थापनेन ताडनोद्यमं कृतवती, न तु ताडयामास। ‘गुरी’ उद्यमने धातुः। ‘भिषयन्ति’ इति ह्रस्वश्न्छादसः। भयोत्पादने हेतुमाह— कृतागसमिति। कृत आगः अपराधो भाण्डस्फोटनादि येन तमिति। ताडनाभावे हेतून् दर्शयन्विशिनष्टि— प्ररुदन्तमिति। अञ्जन्ती सर्वतः प्रसरन्ती मषी ययोस्ते अक्षिणी स्वपाणिना कषन्त सम्मर्दयन्त, भयेन विह्वले ईक्षणे नेत्रे यस्य त, ‘ताडयिष्यति’ इति भावनया उद्वीक्षमाणम्॥११॥ अथ सुत ताडनाद्भीतं विज्ञाय यष्टिं त्यक्त्वा त दाम्ना बहुमियेष ऐच्छत्। तत्र हेतुमाह— अर्भकवत्सलेति। तस्मिन् बालके प्रेमयुक्ता ‘हस्ते यष्टि दृष्ट्वाऽतिबिभेति, तेन कश्चिद्देहे उपद्रवो माभूत्’ इत्याशङ्क्य यष्टिं त्यक्त्वा ताडनापेक्षया बन्धनस्य स्वल्पपीडाकरत्वाद्बद्धुमैच्छत्। ‘ननु तद्बन्धनस्याशक्यत्वात् कथ तदैच्छत्?’ तत्राह— अतद्वीर्यकोविदेति। तत्प्रभावानभिज्ञा। यद्यपि ‘मुखे विश्वदर्शनादिना तत्प्रभाव ज्ञातवती, तथापि पुनर्मोहेन तद्विस्मृतवती’ इत्याशयः॥१२॥ तथापि ‘मातृत्वात्तत्स्नेहवशात् तस्या बन्धनमनोरथमपि भगवान्पूरितवान्’ इत्याह— न चेति षड्भिः। यद्यप्यतर्न्बहिरादिराहित्येन तस्य बन्धनयोग्यता नास्ति, तथापि गोपिका यशोदा तमात्मज मत्वा यथा प्राकृत
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला॥ इयेष किल तं बहुं दाम्नाऽतद्वीर्यकोविदा॥१२॥
न चान्तर्न बहिर्यस्य न पूर्व नापि चापरम्॥ पूर्वापर बहिश्चान्तर्जगतो यो जगच्च यः॥१३॥
तं मत्वाऽऽत्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम्॥ गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा॥१४॥
बालक तन्माता बध्नाति तथा दाम्नोलूखले बबन्धेति द्वयोरन्वयः। “बन्धनं हि बहिः परिवृतेन दाम्नान्तरावृतस्य भवति, तथा पूर्वापरविभागवतो वस्तुनःपूर्वतो दाम धृत्वा परितः परिवेष्टनेन भवति। यस्य चान्तरादि नास्ति तस्य बन्धन कथ स्यात्” इत्याह— न चेत्यादि। अन्तर्बहिरादिराहित्ये हेतुमाह— पूर्वापरमिति। यश्च जगतोऽन्तर्बहिरादिरूपेण वर्तते, तस्यान्तर्बहिरादि कथ स्यादित्याशयः। ननु ‘एवमपि भिन्नस्य जगतो विद्यमानत्वात्तदन्तरस्थितस्य तस्य बन्धन कुतो न स्यात्’ इत्याशङ्कयाह— जगच्च य इति। सर्वोपादानतया सर्वरूपत्वात् स्वेनैव स्वस्य बन्धनासम्भवादित्याशयः॥१३॥ बन्धनासम्भवे हेत्वन्तरमपि दर्शयन्नाह— अव्यक्तमिति। एतदेव स्पष्टयति— अधोक्षजमिति। अध अक्षजं इन्द्रियजन्य ज्ञान यस्मात्त, प्रत्यक्षादिसर्वप्रमाणाविषयत्वान्न व्यज्यते इत्यव्यक्तमित्यर्थ। ननु ‘यद्येव सर्वथा बन्धनायोग्यस्तर्हि कथ बबन्ध?’ इत्यपेक्षायामाह— मर्त्यलिङ्गमिति। कृपया स्वीकृतमनुष्यनाट्यमित्यर्थः॥१४॥
तद्बन्धनप्रकारमाह— तद्दामेति— कृतमागः भाण्डस्फोटनादिरूपोऽपराधो येन तस्य, ‘स्वार्भकस्यं स्वभाववैपरीत्यं माभूत्’ इति भयादुपेक्षानर्हस्य, अत एव बध्यमानस्य सतस्तत् बन्धनसाधनभूत दाम व्द्यङ्गुलोन द्वाभ्यामङ्गुलिभ्यामपूर्णमभूत्। तदा सा गोपिका यशोदा तेन दाम्ना सहान्यदपि दाम सन्दधे ग्रथितवती॥१५॥ एवमुभयसन्धानेन यदेक दामासीत्तदपि द्व्यङ्गुलन्यूनं जातम्, तदा तेनापि सहान्यद्दाम सन्दधे। तदा तदपि द्व्यङ्गुलन्यूनं जातम्। एव यद्यदादत्तं सन्धानं कृत्वा गृहीतवती, तत्तद्बन्धन व्द्यङ्गुलोनमेवाभूत्॥१६॥ एवं स्वगेहस्थानि सर्वाणि दामानि सन्दधत्यपि यशोदा द्व्यङ्गुल्यपूर्त्या यदा त बद्धु न शशाक, तदा तत्प्रयासस्य निष्फलत्व दृष्ट्वासुस्मयन्तीना स्मित कुर्वतीनां मध्ये स्वयमपि स्मयन्ती विस्मिताऽभवत्॥१७॥ तदा च कृष्णः स्विन्न स्वेदयुक्त गात्रं देहो यस्यास्तस्याः, विस्रस्ताः कबरात् केशबन्धात् स्रजो यस्यास्तस्याः स्वमातुः परिश्रममितस्ततो रज्ज्वन्वेषणतत्परिवेष्टनजन्यं दृष्ट्वा
तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः॥ व्द्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका॥१५॥
यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे॥ तदपि व्द्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम्॥१६॥
एवं स्वगेहदामानि यशोदा सन्दधत्यपि॥ गोपीना सुस्मयन्तीना स्मयन्ती विस्मिताऽभवत्॥१७॥
स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः॥ दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने॥१८॥
एवं सन्दर्शिता ह्यङ्ग हरिणा भक्तवश्यता॥ स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे॥१९॥
कृपया स्वबन्धने आसीदित्यन्वयः। न च ‘एव तर्हि प्रथममेव कथ न बन्धनं गतः? तथा सति तस्याः श्रम एव न स्यात्’ इति शङ्कनीयम्। ‘अय मम वश्यः, पुत्रत्वात्’ इति, ‘अनेन भाण्डस्फोटनादि कृतम्, अतो ममापराधी’ इति च बुद्धिदोषद्वयं प्रथमं तस्या आसीत्, ततो दाम्नो व्द्यङ्गुलन्यूनता जाता, भगवत्कृपा च न जाता। ‘इदानीं तु सर्वथा तदभिमानस्य नष्टत्वाद्दैन्यमालोक्य कृपया बन्धन प्राप्त’ इति ज्ञेयम्। तत्समये नन्दरोहिण्यादीनामन्यत्र गमनं जातमिति बोध्यम्, अन्यथा तैर्बन्धनं निवारितं स्यात्॥१८॥ एव बन्धनाङ्गीकारे तात्पर्यमाह— एवमिति। ‘एवंविधलीलाश्रवणे त्वमेवोत्तमोऽधिकारी, परमभक्ततयाऽस्मदादिवत्तत्तात्पर्यनिर्धारे समर्थत्वात्’ इत्याशयेन सम्बोधयति— अङ्गेति। हीति निश्चये। एव मातृकृतबन्धनाङ्गीकारेण कृष्णेनात्मनो भक्तवश्यता सम्यक् दर्शिता। ‘तर्हि स्वातन्त्र्यं गत स्यात्’ इत्याशङ्कयाह— स्ववशेनापीति। सेश्वरमीश्वरैर्लोकनाथैर्ब्रह्मादिभिः सहितम् इदं विश्वं यस्य वशे वर्तते तेनापि, स्वतन्त्रेणेत्यर्थः।
तत्प्रदर्शनप्रयोजनं सूचयन्नाह— हरिणेति। संसारदुःखहरणत्वाज्जनानां ससारदुःखनिवृत्तिहेतुस्वभजने प्रवृत्तये एवं भक्तवश्यता सन्दर्शिता, “भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्” इत्यादौ तथोक्तेः। एवं वश्यताया प्रदर्शितायामपि भजनप्रवृत्तिर्दुर्लभा दृश्यते, तदभावे तु सा नैव स्यात्। तथाच दुःखनिवृत्तिरपि नैव स्यात्। कलावन्यस्य देशकालादेः शोधकरयाभावेन “कीर्तनादेव कृष्णस्य नरो न निरयं” व्रजेत् इति सिद्धान्तितत्वादित्याशयः॥१९॥ यशोदाया जातस्य भगवत्प्रसादस्य दुर्लभत्वमाह— नेममिति। विरिञ्चोब्रह्मा पुत्रः सन्मार्गप्रवर्तको जगत्कर्ता। भवो रुद्रः पौत्रः। तयोर्ज्ञानाद्युपदेष्टा स्वयमपि समाधिनिष्ठः। श्रीर्लक्ष्मीः अङ्गसंश्रया उरसि लब्धपदा प्रिया पत्नी। एते त्रय ईश्वरतया शास्त्रप्रसिद्धाः भगवत्प्रसादं न लेभिरे इति न, अपि तु लेभिरे। परतु विमुक्तिदात् भगवतः सकाशात् यदिम स्वबन्धनादिपर्यन्तमनेकविधबालचरित्रचमत्कारैर्मनोरथपूर्तिरूप प्रसाद गोपी जात्याचारादिहीनाऽपि यशोदा प्राप प्राप्तवती, तत् ततु नैव लेभिरे इत्यन्वयः। यद्वा इम प्रसाद ब्रह्मादयो ‘न लेभिरे न लेभिरे न लेभिरे’ इति नञ्त्रयप्रयोगवशात् क्रियापदावृत्तिः
नेम विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया82। प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात्॥२०॥
नायं सुखापो भगवान् देहिनां गोपिकासुतः। ज्ञानिनां चाऽऽत्म83भूतानां यथा भक्तिमतामिह॥२१॥
प्रसादस्य दौर्लभ्यदार्ढ्यार्था बोध्या। ‘अङ्गसश्रयाः’ इति विसर्गान्तगतिपाठे ब्रह्मादित्रयाणां विशेषणं निर्दोषकत्वसूचकम्। तत्र ब्रह्मा नाभिसंश्रितो, भवो ध्यानेन चरणसश्रितः, लक्ष्मीर्वक्षः श्रिता॥२०॥ फलितमाह— नायमिति। अय भगवान् इह संसारे वर्तमानाना देहिनां मध्ये यथा भक्तिमता सुखापः ‘सुखेनाप्यते इति सुखापः’ सुलभः, यद्वा सुखमापयतीति सुखापः सुखदस्तथा ज्ञानिनामपि सुखापो न भवतीत्यन्वयः। ‘अन्येषा सुखापो न भवतीति तु कि वक्तव्यम्?’ इति सूचयितुमप्यर्थे चकारः। ज्ञानिनांसर्वोत्तमत्वमाह— आत्मभूतानामिति। ‘ज्ञानी त्वात्मैव मे मतः’ इति भगवद्वचनात्। निवृत्तदेहाद्यात्माभिमानाना प्राप्तब्रह्मात्मैकभावानामपीत्यर्थः। ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्’ इति भगवतैव तेषां क्लेशस्योक्तत्वादितिज्ञेयम्। ‘आत्मपोतानाम्’ इति पाठान्तरे तु आत्मैव पोतः संसारोत्तरणसाधन येषामपीत्यर्थः। ‘अत्र न कश्चित्सन्देहः, प्रसिद्धत्वात्’ इत्याशयेनाह— गोपिकासुत इति। यतो गोपिकाया जात्यादिहीनाया अपि भक्तिवशात् सुतोऽपि जात, नच ज्ञानिनामित्याशय॥२१॥
एवंभक्त्या बद्धस्याप्यन्यमोचकत्वात्तस्येश्वरत्वे न क्षतिःइत्याशयेन यमलार्जुनभञ्जनलीलामाह— कृष्णस्त्विति। तुशब्दो लीलान्तरत्वद्योतकः। यदा सर्वा गोपिका बन्धविमोचनार्थं यशोदां सम्प्रार्थ्य विमोचने निराशाः सत्यो यथायथ गताः, मातरि यशोदाया च गृहकृत्येषु व्यग्राया सत्या तदा श्रीकृष्णोऽपि ‘यदि अस्यामपि मद्बन्धनावस्थायामियं मां हित्वा गृहकार्येष्वासक्ता तदाऽनयोः पातयित्वाऽस्याः प्रपञ्चविस्मृतिं स्वमिन्नासक्ति च करिष्यामि’ इत्यभिप्रेत्य अर्जुनवृक्षावद्राक्षीत्। ननु ‘तयोर्निरपराधिनोः पातनमप्ययुक्तमेव’ इत्यत आह— पूर्वमिति। पूर्वजन्मनि गुह्यकौ यक्षौ, धनदात्मजौ कुबेरपुत्रौ, अतस्तयोरुद्धारस्याप्यावश्यकत्वात्तदर्थ तयोः पातनमिति भावः। तदावश्यकत्वे तत्र सामर्थ्यं च हेतु सूचयन्नाह— प्रभुरिति।
कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः॥ अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ॥२२॥ पुरा नारदशापेन वृक्षतां प्रापितौ मदात्॥ नलकूबरमणिग्रीवाविति ख्यातौ श्रियाऽन्वितौ॥२३॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे श्रीकृष्णबन्धननिरूपणं नाम नवमोऽध्यायः॥९॥ राजोवाच॥कथ्यता84ं भगवन्नेतत्तयो शापस्य कारणम्॥ यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः॥१॥ श्रीशुक उवाच॥
सर्वस्वामीत्यर्थः॥२२॥ ‘धनदात्मजौ चेत् कथं वृक्षतां गतौ’ तत्राह— पुरेति। पुरा पूर्वजन्मनि यो नारदस्य शापस्तेन वृक्षता प्रापितौ। शापे हेतुमाह— मदादिति। मदे हेतुमाह— नलकूबरमणिग्रीवाविति ख्यातौ महत्त्वेन प्रसिद्धाविति। तत्र हेतुमाह— श्रियान्विताविति। धनदपुत्रतया महदैश्वर्ययुक्तावित्यर्थः॥२३॥ इति श्रीवल्लभाचार्य— वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ नवमो विवृतोऽध्यायः कृष्णबन्धनिरूपकः॥३॥ दशमे त्वृषिशापेन वृक्षता गतयोः पुनः॥ ताभ्या स्तुतेन कृष्णेन विमुक्तिर्विनिरूप्यते॥१॥ ‘पुरा नारदशापेन वृक्षता प्रापितौ’ इति श्रुत्वा तस्य
नारदस्य परमभागवतस्वेनाल्पापराधे क्रोधोसम्भवन शापहेतुक्रोधजनकापराधस्य महत्त्वं सामान्यतो ज्ञात्वाऽपि तद्विशेष पृच्छति— कथ्यतामिति। सर्वज्ञत्वं सूचयन् सम्बोधयति— हे भगवन्निति। तयोर्नलकूबरमणिग्रीवयोर्यद्विगर्हित निन्दितं शापस्य कारण कर्म, येन कर्मणा देवर्षेर्भागवतोत्तमस्यापि तमः क्रोधोजातस्तत् कथ्यतामित्यन्वयः॥१॥ एवं पृष्टस्तयोरपराधानाह— रुद्रस्येति पञ्चभिः। धनदस्य रुद्रसेवकस्य पुत्रत्वेन तावपि रुद्रस्यानुचरौ सेवायोग्यावेव भूत्वा ता परित्यज्य मदो हर्ष उत्कटो ययोस्तौ। तत्र हेतुमाह— सुदृप्तौ अतिगर्वितौ। तत्रापि हेतुमाह— धनदात्मजाविति। वारुणीं वरुणनिर्मिता बुद्धिभ्रशकरीं मदिरा पीत्वा, तत्पानादेव मदेन आघूर्णिते लोचने ययोस्तादृशौ भूत्वा॥२॥ मन्दाकिन्या गङ्गायां ‘सामीप्ये85सप्तमी’ गङ्गासमीपे, तत्रापि कैलासस्य श्रीमहादेववासस्थानस्योपवने भगवच्चिन्तकयोगिजनस्थाने वने पुष्पिते सति रम्येऽनुगायद्भिः स्त्रीजनैः सह
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ॥ कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ॥२॥
वारुणी मदिरां पीत्वा मदाघूर्णितलोचनौ॥ स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने॥३॥
अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि॥ चिक्रीडतुर्युवतिभिर्गजाविव करेणुभि॥४॥
यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव॥अपश्यन्नारदो देवौ क्षीवाणौ समबुध्यत॥५॥
नलकूबरमणिग्रीवौ चेरतुरिति द्वयोरन्वयः॥३॥ एवभूते स्थाने स्त्रीभिः सह क्रीडनमनुचितम्, तत् कृतवन्तावित्युक्तम्। इदानीं “गङ्गा पुण्यजला प्राप्य त्रयोदश विवर्जयेत्॥ शौचमाचमनं चैव निर्माल्य मलकर्षणम्॥१॥ तैलसम्मर्दन क्रीडा प्रतिग्रहमथो रतिम्॥ अन्यतीर्थाभिलाषं च अन्यतीर्थप्रशसनम्॥ वस्त्रत्यागं तथा खात सहार चैव वर्जयेत्” इतिपाद्मे गङ्गाया तथाक्रीडानिषेधात्तमपि निषेधमुल्लङ्घितवन्तावित्याह— अन्तरिति। अम्भोजाना वनानि तेषा राजयः पङ्कयो विद्यन्ते यस्या86 तस्या गङ्गायामन्तर्मध्ये प्रविश्य करेणुभिःसह गजाविव युवतिभिः सह चिक्रीडतुरित्यन्वयः॥४॥ ‘महतो वशे उत्पन्नोपि प्रमाद्यतीति, स्वदृष्टान्तेन ज्ञेयम्’ इति सूचयन् सम्बोधयति— कौरवेति। यदृच्छया अकस्मादेव तत्रागतो नारदस्तौ देवावपश्यत् दृष्ट्वाच क्षीबाणौ मत्तौ समबुद्ध्यतेत्यन्ययः। ‘भाव्यर्थपरिज्ञान देवयोनीनामुपकारकर्तृत्व’ च सूचयन्नाह— देवर्षिरिति। सर्वकरणसामर्थ्य सूचयन्नाह— भगवानिति। तथाबोधे हेतुमाह-
तमिति। देव्यःअप्सरसो यतो विवस्त्रा, अतस्तं नारद दृष्ट्वाव्रीडिताः शापशङ्किताश्च शीघ्र वासासि पर्यधुः। विवस्त्रौ तौ गुह्यकौ तु नैव वस्त्र पर्यधत्तामिति॥५॥६॥ मदिरया मत्तौ श्रीमदेन चौन्ध विवेकशून्यौ। ‘न चैतत्तयोर्युक्तम्’ इत्याशयेनाह— सुरात्मजाविति। एवभूतौ तौ दृष्ट्वा नारदस्तयोरनुग्रहार्थाय शाप दास्यन्निदं वक्ष्यमाण जगौ। नच ‘शापानुग्रहयोः परस्परविरोधाच्छापस्य कथमनुग्रहार्थत्वम्’ इति शङ्क्यम्, यदि वक्ष्यमाणप्रकारक शाप न दद्यात्तदा ‘अत्यन्तनिन्दितैर्दोषैर्जन्तुः स्थावरता व्रजेत्’ इति वाक्यात् स्वकर्मवशाद्यत्रकुत्र तयोः स्थावरत्व स्यादेव, तत्र च श्रीकृष्णदर्शनाद्यभावेन सर्वदोषनिवृत्तिपूर्वकभक्त्यादिपुरुषार्थलाभो न स्यादतः शापस्त्वनुवादमात्रम्। तथैव वक्ष्यति— अतोऽर्हतः स्थावरतामिति। वस्तुतस्त्वनुग्रह एव, अतो न विरोधः कश्चित्। अनुग्रहो मदनाशः, अर्थश्च श्रीकृष्णदर्शनम्, तदर्थम्। यद्वा अनुग्रहस्य योऽर्थः फलं भगवद्दर्शनादि, तदर्थम्। तत्रापि शापे हेतुर्मदिरेत्यादि विशेषणद्वयम्, अनुग्रहे हेतुः सुरात्मजत्वम् ’ इति विवेकः ’ वस्तुतः क्रोधाभावसूचनार्थ। ‘जगौ’ इत्युक्तम्। तदपि गान स्वमनस्येव बोध्यम्, तयोः प्रमत्तयोः स्त्रीणा च विवेकहीनानामग्रे कथनस्य प्रयोजनाभावात्॥७॥ तद्वाक्यान्येवाह— पञ्चदशभिः। तत्र प्रथम श्रीमदं निन्दति—
तं दृष्ट्वा ब्रीडिता देव्यो विवस्त्राः शापशङ्किताः॥ वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ॥६॥
तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ॥ तयोरनुग्रहार्थाय शाप दास्यन्निदं जगौ॥७॥
नारद उवाच॥ न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रशो रजोगुणः॥ श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासवः॥८॥
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः॥ मन्यमानैरिमं देहमजरामृत्यु नश्वरम्॥९॥
नहीति द्वयेन। जोण्यान् प्रियान् विषयान् जुषतः सेवमानस्य पुसो यथा श्रीमदो बुद्धिभ्रंशः बुद्धिं भ्रंशयतीति तथा विवेकनाशको भवति, तथा ततोऽन्यः आभिजात्यादिः अभिजातिः सत्कुलजन्म तदुद्भवः आभिजात्यो मदः, आदिशब्दात् ‘जन्मैश्वर्यश्रुतश्रीभिरैधमानमदः पुमान्’ इत्यादिषूक्तः विद्यादिजनितो मदः तथाऽन्यो वा रजोगुणः रजःकार्यभूतो हास्यहर्षादिरूपो बुद्धिभ्रंशकरो नहि भवति। ‘कुत एव’ तत्राह— यत्रेति। यत्र यस्मिन् श्रीमदे सत्येव धर्मपादचतुष्टयनाशकाधर्मपादचतुष्टयख्यादिसम्बन्धो भवतीत्यर्थः॥८॥ यत्र च श्रीमदे सति इमं नश्वरमपि देहमजरामृत्यु अजरः क्षयशून्यश्चासावमृत्युश्च यथा तथा मन्यमानैर्जनैः पशवो भक्षणाद्यर्थ हन्यन्ते। ननु ‘अम्बरीषप्रल्हादध्रुवयुधिष्ठिरादिमहात्मना धनादिसत्त्वेऽपि दोषाश्रवणात्, प्रत्युत सत्कीर्तिसद्भावाच्च कथं धनादेर्दुष्टत्वम्?‘इत्याशङ्क्याह— निर्दयैरजितात्मभिरिति। अम्बरीषादीना जितेन्द्रियत्वेन श्रीमदाभावाद्दयलुत्वाच्च न धनादिजनितोपद्रवो जातः, किन्तु परोपकार एव। अतो धर्मकीर्त्यादेरेव प्रसिद्धिरित्याशयः॥९॥
देहाभिमानेन परद्रोहकर्तुर्दोषमाह—
देवसंज्ञितेति त्रिभिः। प्रथमं नरदेवभूदेवसज्ञितमपि शरीरमन्ते प्रारब्धकर्मावसाने मरणानन्तरं श्वादिभिर्भक्षित विट्सज्ञितः, पुत्रादिभिर्दग्धंभस्मसज्ञितम्, अन्यथा त्यक्त च कृमिसज्ञितं भवति। तत्कृते तत्रात्माभिमानेन तत्सुखार्थ यो भूतध्रुक् प्राणीद्रोहकर्ता स स्वार्थ स्वहित। किं वेद? नैव वेद। मूर्ख एव स इत्यर्थः। कुत इत्यत आह—
यतो भूतद्रोहान्निरयो नरकयातना भवतीति॥१०॥ ‘ननु मरणानन्तर यत्किञ्चित्सज्ञितमस्तु, जीवदशाया तु स्वाधीनत्वमस्त्येव। अतस्तत्सुखार्थ यतितव्यमेव’ इत्याशङ्क्य जीवदशायामपि स्वत्वानिश्चयमाह—
देह इति। अयं देहः कि स्व स्वकीयः? स्वाधीनत्वेन प्रसिद्धत्वात् किवा अन्नदातुः? तदन्नेन पाल्यमानत्वाव, किवा निषेक्तु पितुः? तद्वीर्योद्भवत्वात्, किंवा मातुरेव? तदुदरोद्भवत्वात् किंवामातुः87 पितु. ‘मातामहस्य?‘तत्कन्यापुत्रत्वात, उपलक्षणमेतत् पितामहादिसर्वसम्बन्धिनाम्, तेषामपि स्वकीयाभिमानस्य सत्त्वात्। किंवा बलिनः राजादेः? तेनापि बलाद्विष्टि ग्रहणस्य प्रसिद्धत्वात्, किंवा क्रेतुः? तेनापि द्रव्यदानेन स्वीकरणात, किवाऽग्नेः? अन्ते तेन भस्मीकरणात्, किंवा शुनः? अन्ते तेन भक्ष-
देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम्॥भूतभुक् तत्कृते स्वार्थ कि वेद निरयो यतः॥१०॥
देह किमन्नदातु स्व निषेक्तुर्मातुरेव च॥मातु पितुर्वा बलिनः क्रेतुरग्नेःशुनोऽपि वा॥११॥
एवं साधारणं देहमव्यक्तप्रभवाप्ययम्॥ कोविद्यानात्मसात् कृत्वा हन्ति जन्तूनृतेऽसत॥१२॥
असतःश्रीमदान्धस्य दारिद्र्यं परमञ्जनम्॥ आत्मौपम्येन भूतानि दरिद्रः परमीक्षते॥१३॥
णात्, अपिशब्दादन्येऽपि काकादयो भक्षका गृहीतव्याः॥११॥ ‘एतेषु अमुकस्यैवायम्’ इति निर्धारयितुमशक्यत्वादेव साधारणमव्यक्तं प्रधान तत एव प्रभवस्तस्मिन्नेवाप्ययो लयश्च यस्य त देहमात्मसात् कृत्वा आत्मेति मत्वा तत्सुखार्थ असतो मूढादृते विना को वा विद्वान् जन्तून् हन्ति? न कोपीत्यर्थः॥१२॥ एवं श्रीमदादेदोंष निरूप्य तत्प्रतीकार निश्चिनोति— असत इति असतःअवशीकृतेन्द्रियान्त करणस्य, अत एव श्रीमदेनान्धस्य विवेकशून्यस्य कर्तव्यमकर्तव्यं चापश्यतःदारिद्र्य पर केवलमञ्जनम्। अत्रे बोध्यम्— यथा रोगरहितस्य पुरुषस्य बलपुष्ट्यादिगुणकरमपि दुग्धघृतादि वस्तु रोगग्रस्तस्य रोगवृद्धिद्वारा तदेव दुर्बलत्वादिसम्पादक भवति तन्निरोधविना औषधान्तरस्या अकिञ्चित्करत्वात्तन्निरोध एव रोगनिवृत्तौ मुख्य उपायः, तथा वशीकृतान्तःकरणस्य महात्मनः धन च धर्मैकफल यतो वै ज्ञान सविज्ञानमनुप्रशान्तीत्युक्तरीत्या धर्मादिद्वारा विवेकहेतुरपि
धनादिकमसतो मदद्वारा जडताहेतुरेव भवति तन्निवृत्तिरूपं दारिद्र्यं विना उपदेशाद्युपायस्यीकिञ्चित्करत्वात् दारिद्र्यमेव मुख्य उपाय इति। ‘लोके दरिद्रस्यैव विवेकदर्शनात्’ इत्याह— आत्मौपम्येनेति। आत्मा उपमा यत्र तज्ज्ञानमात्मौपम्यम्, तेन भूतानि दरिद्रः पर केवलमीक्षते, ततो न द्रुह्यति। प्रत्युत परसुखप्राप्तिदुःखनिवृत्तिसाधने स्वदृष्टान्तेनैव प्रवर्तते इति भावः॥१३॥ ‘साम्यदर्शन दरिद्रस्यैव घटते, नान्यस्य’ इत्यत्र दृष्टान्तमाह— यथेति। कण्टकेन विद्धमङ्ग यस्य स यथा जन्तोर्जीवान्तरस्य ता कण्टकवेधजन्या व्यथा नेच्छति तन्निवृत्त्यर्थं यतते च, तथा अविद्धकण्टक, न कदापि विद्धः लग्नः कण्टको यस्य स ता व्यथा नेच्छति तदुद्धारप्रयत्न च करोतीति न दुःखानुभवाभावात्। कण्टकविद्धाङ्गस्य तदनिच्छाया हेतुमाह— जीवेति। यतो लिङ्गैर्मुखम्लान्यादिभिश्चिन्हैजींवसाम्य गतः ‘यथा मम कण्टकवेधज दुख जात तथास्यापि’ इति परस्मिन्नपि जीवे स्वसाम्य प्राप्त इत्यर्थः॥१४॥ ‘किञ्च दारिद्र्य मोक्षमपि साधयति’ इत्याह— दरिद्र इति चतुर्भिः। इह ससारे दरिद्रो निरहंस्तम्भः निर्गतोऽहङ्काररूपः स्तम्भो मोक्षप्रतिबन्धकरूपो यस्मात् सः। तत्र हेतुमाह— मुक्त इति। सर्वैः ‘विद्यामदो धनमदस्तथैवाभिजनो मद’ इत्युक्तैर्मदैर्मुक्तः।
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम्॥ जीवसाम्य गतो लिङ्गैर्न तथाऽविकण्टकः॥१४॥ दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह॥ कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः॥१५॥ नित्य क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः॥ इन्द्रियाण्यनुशुष्यन्ति हिंसाऽपि विनिवर्तते॥१६॥ दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः॥ सद्भिः क्षिणोति तं तुर्षं तत आराद्विशुद्धयति॥१७॥
ननु ‘तथापि दारिद्र्यस्य कष्टहेतुत्वात् कथ तत् सूयते’ तत्राह— कृच्छ्रमिति। यदृच्छया प्रारब्धवशेन यत्किञ्चित्कृच्छ्र कष्टं प्राप्नोति तद्धि तच्च तस्य पर तप एव भवति, अप्रतिकारपूर्वककष्टसहनस्यैव तप पदवाच्यत्वात् फलभोगेन मोक्षप्रतिबन्धकपापनिवर्तकत्वाच्चेत्याशयः॥१५॥ किञ्च दरिद्रस्य नरकादिदुःखहेतुभूता हिंसापि विनिवर्तते। तत्र हेतुमाह— इन्द्रियाण्यनुक्षणं शुष्यन्तीति। तत्रापि हेतुमाह— नित्यमन्नकाङ्क्षिणः। क्षुधा क्षामः क्षीणो देहो यस्य तस्येति॥१६॥ ननु ‘एव कष्टसहनेऽपि तृष्णाया विद्यमानत्वात् कथ तस्य मोक्षः? ‘तत्राह— दरिद्रस्यैवेति। समदर्शिनःसम ‘भगवन्तमेव88 सर्वत्र’ पश्यन्तः साधवः स्वपरकार्यसाधका भगवद्भक्ता दरिद्रस्यैव युज्यन्ते, निरहङ्कारित्वेन श्रद्धाप्रणिपातप्रश्नादिना चोपदेशाधिकारित्वात् स्वयमेव सङ्गता भवन्ति। तदा सद्भिर्निमित्तभूतैर्भगवत्तत्त्वसाक्षात्कारेण त विषयसुखविषयकं तर्ष तृष्णां89 सदरिद्रः स्वयमेव क्षिणोति। तदुक्तं गीतासु— ‘विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्ज रसोऽप्यस्य पर दृष्ट्वानिवर्तते’ इति॥ ततः सर्वतृष्णानिवृत्तेः आरात् आशु विशुध्यति जीवन्मुक्तो भवति। तथाच श्रुतिः— “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः॥ अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते " इति॥१७॥
ननु ‘धनिभ्यो धनलाभस्य सम्भवात् साधूनामपि धनिन एव प्रियाः स्युः, अतः साधवोऽपि तत्रैव गच्छेयुः’ इत्याशङ्क्य ‘समानशीलव्यसनेषु सख्यं भवति,साधूना धनिना च परस्परविरुद्धस्वभावत्वात् मैवम्’ इत्याह— साधूनामिति। साधूनामुपेक्ष्यैरुपेक्षायोग्यैःकिं प्रयोजनम्? उपेक्षायोग्यत्वहेतुत्वेन विरुद्धस्वभावत्वमेव स्पष्टयति— असद्भिरित्यादिभिः। साधूनां जितेन्द्रियाणामसद्भिरजितेन्द्रियैः किम्? समशत्रुमित्रादिभावरहितं चित्तं येषा ते धनेन स्तभो गर्वो येषा तैर्विषमदृष्टिभिः किम्? मुकुन्दचरणैषिणा मुकुन्दचरणैषित्वेन मुकुन्दचरणाश्रयाणा असन्तो विषयाविष्टचित्ता आश्रयो येषा तैरसदाश्रयैःकि प्रयोजनमिति॥१८॥ एव सामान्यतः सिद्धान्तमुक्त्वा प्रकृते यत्तयोःकर्तव्यं तन्निश्चिनोति— तदिति। तत् तस्मात् असतो मदनाशस्यैव पुरुषार्थहेतुत्वात् श्रीमदेनान्धयोर्विवेकचक्षुःशून्ययोरनयोस्तमोमदमज्ञानकृतं श्रीमदं हरिष्यामि दूरीकरिष्यामि। मदज्ञापकमेव विशेषणद्वयमाह— वारुण्या माध्व्या सुरया
साधूनां समचित्ताना मुकुन्दचरणैषिणाम्॥ उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः॥१८॥
तदह मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः॥ तमोमद हरिष्यामि स्त्रैणयोरजितात्मनोः॥१९॥
यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ॥ न विवाससमात्मानं विजानीतः सुदुर्मदौ॥२०॥
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः॥ स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात्॥२१॥
मत्तयोरिति, स्त्रैणयोः स्त्रीवश्ययोरिति। ‘न केवलं मदनिवृत्तिमात्र कर्तव्यम्, किन्त्वज्ञाननिवृत्त्या जितेन्द्रियत्वं भक्त्यादिक च सम्पादनीयम्’ इत्याशयेनाह— अजितात्मनोरिति॥१९॥ एवं निश्चित्य शापहेत्वपराधनिरूपणपूर्वकं शपति— यदिति सपादेन। यत् यस्मात् इमौ नलकूबरमणिग्रीवौ लोकपालस्य कुबेरस्य महतः पुत्रौ भूत्वा तमःप्लुतौ अज्ञानव्याप्तौ अत एव सुष्ठु दुष्टः अत्यन्तदुष्टो मदो ययोस्तथाभूतौ च सन्तौ विवाससं वस्त्ररहितमात्मान न विजानीत॥२०॥ अतस्तस्मात् स्थावरतामर्हतः। एवंभूतापराधस्य योग्यमिदमेव फलम्, ‘अत्यन्तनिन्दितैर्दोषैर्जन्तुःस्थावरता व्रजेत्’ इति वाक्यात् अनुगृह्णाति— स्यातां नैवमित्यादिना। मत्प्रसादेन यथा पुनरेवं मदान्धौ न स्याताम्। ननु ‘स्थावरत्वे कथ न अन्धत्वम्? तमोऽधिकत्वात्’ इत्याशङ्क्याह— तत्रेति। तत्र स्थावरत्वेऽपि मदनुग्रहात् स्मृति स्वापराधस्मरणपूर्वकं विवेक स्यात्॥२१॥
ततश्च दिव्यशरच्छते वृत्ते देवाना संवत्सरशते अतीते सति वासुदेवस्य वसुदेवनन्दनस्य श्रीकृष्णस्य सान्निध्यं लब्ध्वा, ततश्च पुनः स्वर्लोकतां देवत्वं नलकूबरमणिग्रीवस्वरूप च लब्ध्वा तस्मिन् भगवति लब्धा भक्तिर्याभ्यां तथाभूतौ भविष्यतः॥२२॥ स देवर्षिरेवमुक्त्वा भगवतो नारायणस्याश्रमं गतः। नलकूबरमणिग्रीवौ तु यमलावेकत्र सहोत्पन्नौ अर्जुनवृक्षौ बजे आसतुः॥२३॥ एवं राज्ञा पृष्टःशापकारणमुक्त्वा प्रस्तुतमाह— ऋषेरिति। ऋषेर्नारदस्य वचः सत्य कर्तु हरिः उलूखले निबद्धः कृष्णो, यत्र यमलार्जुनावास्ता तत्र शनैर्जगामेत्यन्वयः। तद्वचसः सत्यकरणे हेतुमाह— भागवतमुख्यस्येति। अत्राक्षराधिक्यमार्षम्॥२४॥ तत्र गमने भगवतोऽभिप्रायमाह— देवर्षिरिति। यत् यस्मात् देवर्षिर्मम प्रियतमो यस्मादिमौ च धनदात्मजौ देवत्वेन स्थावरत्वायोग्यौ, तत् तस्मात् यत् यथा महात्मना मद्भक्तेन नारदेन गीत ‘निजस्वरूपं लब्ध्वा लब्धभक्ती भविष्यत’ इत्युक्त तत् तथा
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते॥ वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः॥२२॥ श्रीशुक उवाच॥ एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम्॥ नलकूबरमणिग्रीवावासतुर्यमलार्जुनौ॥२३॥ ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरि॥ जगाम शनकैस्तत्र यत्राऽऽस्त यमलार्जुनौ॥२४॥ देवर्षिर्मे प्रियतमो यदिमा धनदात्मजौ॥ तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना॥ २५॥ इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ॥ आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम्॥२६॥ बालेन निष्कर्षयताऽन्वगुलूखलं तद्दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ॥ निष्पेततुः परमविक्रमितातिवेपस्कन्धप्रवालविटपौ कृतचण्डशब्दौ॥२७॥
साधयिष्यामीत्यन्वयः॥२५॥ इत्येवमभिप्रेत्य श्रीकृष्णो यमयोर्यमलयोः सहजातयोरर्जुनवृक्षयोरन्तरेण मध्ये ययौ। तदा तु आत्मनः कृष्णस्य मध्ये निर्वेशमात्रेणोलूखल तिर्यक् गतम्॥२६॥ अनु अञ्चति पश्चाद्गच्छति इत्यन्वक्। तथाभूतमुलूखलं दाम बन्धनरज्जुरुदरे यस्य तेन दामोदरेण बालेन कृष्णेन तरसा वेगेन निष्कर्षयता उत्कलितः उत्पाटितः अङ्घ्रिबन्धो मूलबन्धो ययोस्तौ, परमस्य परमेश्वरस्य कृष्णस्य विक्रमितं विक्रमस्तेन अतिवेपः कम्पो येषु ते स्कन्धप्रवालविटपा ययोस्तौ, अत एव कृतश्चण्डो महान् शब्दो याभ्या तौ द्वावर्जुनवृक्षौ निपेततुरित्यन्वयः। उदरे दामबन्धनादेव दामोदर’ इति नाम। तदुक्त हरिवंशे— “स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात्॥ गोष्ठे दामोदर इति गोपीभिः परिगीयते” इति॥२७॥
परमया श्रिया कान्त्या ककुभो दिशः स्फुरन्तौ प्रकाशयन्तौ सिद्धौ प्राप्तपूर्वस्वरूपौ नलकूबरमणिग्रीवौ कृष्णमुपेत्य शिरसा प्रणम्य च बद्धाञ्जलीसन्ताविद वक्ष्यमाणमूचतुरित्यन्वयः। दिशःप्रकाशकत्वे दृष्टान्तमाह— तत्र कुञ्जयोर्वृक्षयोः स्थितः जातवेदाः अग्निर्मूर्तिमान् सन् यथा प्रकाशयन्नागच्छेत्। तथेत्यर्थः। कृष्णप्रणामे हेतुमाह— अखिललोकनाथमिति। ‘नारदप्रसादात्तयोः श्रीमदोऽपि गत एव’ इत्याह— विरजसाविति। ‘अत्र असम्भावना न कर्त- व्या’ इत्याह— स्मेति॥२८॥ ‘लब्धभक्ती भविष्यत’ इति नारदवाक्यं स्मरन्तौ ततो भक्ति प्रार्थयितु स्तुवन्तौ प्रथमं गोपबालकप्रणामस्यानौचित्यमाशङ्क्य तत्परिहारं तावाहतुः— कृष्णेति। हे कृष्ण हे कृष्ण सदानन्दमूर्ते’ हे महायोगिन अचिन्त्यप्रभाव! न त्व गोपबालः, किन्तु परः पुरुषः पुरुषोत्तमः। तत्र हेतुमाहतुः— आद्य इति। सर्वजगत्कारणभूतः। ‘तदपि न निमित्तमात्रम्, किंतु उपादानमपि त्वमेव’ इत्याशयेनाहतुः— व्यक्ताव्यक्त स्थूलसूक्ष्ममिदं सर्व विश्व ते तव रूपमिति ब्राह्मणा ‘ब्रह्म जानातीति ब्राह्मण’ इति वाक्यात् वेदतात्पर्यज्ञा विदुर्जानन्ति॥२९॥ एवं सामान्यत उक्तमेव सर्वकारणत्वं
तत्र श्रिया परमया ककुभ स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः॥ कृष्णं प्रणम्य शिरसाऽखिललोकनाथं बद्धा- ञ्जली विरजसाविदमूचतुः स्म॥२८॥ कृष्ण कृष्ण महायोगिस्त्वमाद्यः पुरुषः परः॥ व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः॥२९॥ त्वमेकः सर्वभूताना देहास्वात्मेन्द्रियेश्वरः॥ त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः॥३०॥ त्वं महान् प्रकृतिः सूक्ष्मा रजः सत्त्वतमोमयी॥त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित्॥ ३१॥
सर्वरूपत्व च विशेषतः प्रपञ्चयत— ‘त्वमेक’ इति द्वयेन। सर्वेषा भूताना प्राणिना ये देहाः, असवः प्राणाः, आत्मा अहङ्कारः, इन्द्रियाणि च तेषामीश्वरः रक्षकस्त्वमेक एव। ‘ननु रक्षकत्वेन विष्णुरेव प्रसिद्ध इत्याशङ्क्याहतुः— विष्णुस्त्वमेवेति। रजःसत्त्वतमआत्मिका सूक्ष्मा प्रकृतिस्त्वमेव तव शक्तिरेव, तत्क्षोभकः कालोऽपि त्वमेव, तव चेष्टारूपः। प्रकृतिकार्यो महानपि त्वमेव। प्रकृतिप्रवर्त्तकः पुरुषोऽपि त्वदंशत्वात्त्वमेव। अध्यक्षः सर्वसाक्षी। एतदेव स्पष्टयतः— सर्व क्षेत्रेति। सर्वेषा यानि क्षेत्राणि देहेन्द्रियान्तःकरणानि तेषा ये विकारा रोगरागादयस्तान् वेत्तीति तथा ईश्वरः सर्वनियन्ता। एव सति। विकारित्वमाशङ्क्याहतुः— अव्यय इति। अपक्षयादिविकारशून्य इत्यर्थः। ‘सर्वरूपत्वं विकारशून्यत्वं च परस्परं विरुद्धमेव, तत्कथं सम्भवति’ तत्राहतुः— भगवानिति। अचिन्त्यानन्तैश्वर्यादिमानित्यर्थः॥३०॥
ननु “अहमेव चेत् सर्व् तर्हि तत्तत्पदार्थज्ञाने जातेऽपि मम ज्ञानं किं न भवति? भवति चेत् तदा सर्वोऽपि ब्रह्मवित् स्यात्, मुच्येतापि। तथा सति तत्र तत्र साधनोपदेशादेर्व्यर्थता च स्यात्” इत्याशङ्कयाहतुः— गृह्यमाणैरिति। विकारैः बुद्ध्यहङ्कारेन्द्रियादिभिः कार्यैस्त्वं द्रष्टा ग्राह्यो न भवसि न गृह्यसे। तत्र हेतुमाहतुः— गृह्यमाणैरिति। नहि गृह्यमाणैर्दृश्यैग्रहको द्रष्टा गृह्यते इत्याशयः। दृश्यत्वे हेतुमाहतुः— प्राकृतैर्गुणैरिति। प्रकृतिगुणकार्यैरित्यर्थः। ननु “तर्हि जीवस्याप्राकृतत्वात् स जानातु”तत्राहतुः— को न्विति। जीवस्याप्राकृतत्वेऽपि प्राकृतगुणैर्देहादिभिः संवृतत्वात् स्वोत्पत्तेः प्रागेव स्वप्रकाशतया सिद्धं वर्तमान त्वामिह संसारे को नु जीवो विज्ञातुमर्हति?॥३२॥ “तथाच सर्वात्मकत्वेऽपि न प्रपञ्चज्ञानं मुक्तिहेतुः, किंतु नमस्कारादिभक्त्या तत्परमार्थतत्त्वज्ञानम्” इति सूचयन्तौ त प्रणमतः— तस्मा इति। भगवते ऐश्वर्यादिषड्गुणपूर्णाय वासुदेवाय वसुदेवनन्दनाय यहा ‘सत्त्व विशुद्ध वसुदेवशब्दितम्’ इत्युक्तानुसारात् चित्ताधिष्ठात्रे वेधसे जगज्जन्मादिविधात्रे। तथाप्यप्रकाशे हेतुमाहतुः— आत्मनः
गृह्यमाणैस्त्वमग्राह्यो विकारैःप्राकृतैर्गुणैः॥ को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसवृतः॥३२॥ तस्मै तुभ्यं भगवते वासुदेवाय वेधसे॥ आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः॥३३॥ यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः॥ तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः॥३४॥ स भवान् सर्वलोकस्य भवाय विभवाय च॥ अवतीर्णोऽशभागेन साम्प्रतं पतिराशिषाम्॥३५॥
स्वस्मात् द्योतः प्रकाशो येषां तैर्गुणैः सत्त्वादिभिश्छन्नो महिमा तत्त्व यस्या ‘अभ्रैरिव खे’ तस्मै। एव परिछिन्नत्वमाशङ्क्याहतुः— ब्रह्मणे इति। परिपूर्णाय तस्मै सर्वशास्त्रतात्पर्यगोचराय तुभ्य नमः॥३३॥ ‘अहमेवविध ईश्वर इति कुतो ज्ञातम्?’ इत्यपेक्षायामाहतुः— यस्येति। नास्ति तुल्यमतिशय आधिक्य च येभ्यस्तैरस्तुल्यातिशयैः, अतएव देहिषु प्राकृतेषु असङ्गतैः अनुपपन्नैस्तैस्तैर्वीर्यैः पराक्रमैर्लिंङ्गैःशरीरिषु प्राकृतेषु अशरीरिणः प्राकृतशरीररहितस्य ते तवावतारा ज्ञायन्त इत्यन्वयः॥३४॥ अवतारप्रयोजनमाहतुः— स इति। सकलशास्त्रतात्पर्यगोचरो भवान् सर्वस्य लोकस्य तत्तदधिकारिजनस्य तत्तदधिकारानुरूप भवाय उद्भवाय धर्मादित्रिवर्गसिद्धये, विभवाय विगतो भवः संसारो यस्मिस्तस्मै मोक्षाय च अंशभागेन अंशानामशावताराणां भागो विभागः प्रादुर्भावो यस्मात् तेन, अशा अंशावतारा अपि भागा भजनीया यस्य तेनेति वा, परिपूर्णेन रूपेण साम्प्रतमिदानीमवतीर्णोऽस्ति। एव धर्मादिपुरुषार्थचतुष्टयसम्पादने तत्र सामर्थ्यं च हेतुमाहतुः— आशिषा धर्मादिचतुर्विधपुरुषार्थानां पतिः स्वामी॥३५॥
भक्त्युद्रेकेण पुनः प्रणमतः— परमं कल्याणं सुखं यस्मात्तस्य सम्बोधनं हे परमकल्याण! तत्र हेतुत्वेन पुनः सम्बोधयतः— हे परममङ्गल परमानन्दमूर्ते। तुभ्यं वासुदेवाय वसुदेवनन्दनाय नमो नमः। ‘तव तु न किमपि स्वप्रयोजनम्, निजानन्दपूर्णेनैव शान्तत्वात्’ इत्याशयेनाहतुः— शान्तायेति। यादवेष्वेवावतारप्रयोजनमाहतुः— यदूनां पतये90 पालकाय नमः। नमः शब्दावृत्तिरादरार्थ॥३६॥ “व्यापकस्य सर्वसाक्षिणस्तव कि न विदितम्? तथापि सेवकविज्ञापनं प्रार्थन च शृणु” इत्याशयेन सम्बोधयतः— भूमन्निति। तवानुचरस्य रुद्रस्य, कुबेरस्य वा, नारदस्य वा किङ्करौ नौ आवा अनुजानीहि बुद्ध्यस्व। नौ आवयोर्भगवतस्तव दर्शनमृषेर्नारदस्यानुग्रहादासीत्॥३७॥ एव स्तुत्वात्मविज्ञापन च कृत्वा भक्ति प्रार्थयतः— वाणीति। चकार एवकारार्थः, तस्य सर्वत्र च सम्बन्धः। ‘न’ इति ‘आवयो91रस्मत्सबन्धिना च’ इत्यभिप्रायेण बहुवचनम्। अस्माक वाणी तव गुणानुकथने
नमः परमकल्याण नमः परममङ्गल॥ वासुदेवाय शान्ताय यदूनां पतये नमः॥३६॥ अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ॥ दर्शनं नौ भगवत ऋषेरासीदनुग्रहात्॥ ३७॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः॥ स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम्॥३८॥ श्रीशुक उवाच॥ इत्थं सङ्कीर्तितस्ताभ्र्भ्यां भगवान् गोकुलेश्वरः॥ दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ॥३९॥ श्रीभगवानुवाच॥ ज्ञातं मम पुरैवैतदृषिणा करुणात्मना॥ यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः४०॥
एवास्तु। श्रवणौ तव कथायामेवास्ताम्। हस्तौ तव कर्मसु मन्दिरमार्जनादिसेवास्वेवास्ताम्। मनस्तव पादयोः स्मृत्यामेवास्तु। शिरःस्तव निवासभूतं यज्जगत् तस्य प्रणामे एवास्तु। दृष्टिर्भवतस्तनूना मूर्तीना सता भक्ताना च दर्शने एवास्तु॥३८॥ इत्थ ताभ्या नलकूबरमणिग्रीवाभ्या सङ्कीर्तितः सस्तुतो दाम्ना चकारात् स्वकृपया यशोदाप्रेम्णा चोलूखले बद्धो भगवान् गुह्यकौ प्राप्तगुह्यकरूपौ प्रति प्रहसन्नाह— “गोकुले उत्पन्नयोस्तयोः सन्माननं गोकुलस्वामिनाऽवश्यं कर्तव्यम्” इत्याशयेनाह— गोकुलेश्वर इति॥३९॥ तदुक्तिमेव दर्शयति— ज्ञातमिति त्रिभिः। श्रीमदान्धयोर्युवयोः करुणात्मना कृपालुना ऋषिणा नारदेन यत् वाग्भिर्विभ्रशः श्रीमदभ्रंशः मद्दर्शनभक्तिलाभरूपोऽनुग्रहश्च कृतस्तदेतत् पुरा त्वद्विज्ञापनात्॥६२॥ पूर्वमेव मम ज्ञातमित्यन्वयः॥४०॥
‘युक्तमेव, एतन्नाश्चर्यम्’ इत्याह— साधूनां स्वधर्मवर्तिनां समचित्तानामात्मविदां दर्शनात् पुसः संसारबन्धो न भवेत्, निवर्तते इत्यर्थः। मत्कृतात्मनां मय्यर्पितचित्तानां दर्शनात्तु सुतरां बन्धो न भवेत्, तेषां कृपातिरेकात्। तत्र दृष्टान्तमाह— सवितुः सूर्यस्य दर्शनाद्यथाऽक्ष्णोर्बन्धोऽन्धकारो निवर्तते, तथा पुंसोऽज्ञानं निवर्तते इत्यर्थः॥४१॥ प्राधान्यादेकमेव सम्बोधयति— हे नलकूबरेति। तस्मान्मद्भक्तनारदानुग्रहेणैव कृतार्थत्वात्मत्परमौ अहमेव परमः इष्टदेवतया चिन्तनीयो ययोस्तथाभूतौ सन्तौ सादनं स्वनिकेतन गच्छतम्। कृतार्थत्वमेव स्पष्टयति— सञ्जात इति। न भवः संसारो यस्मात् स अभवो यो मयि भावः प्रेमातिशयो वा युवयोरीप्सितोऽपेक्षितः स तु सम्यग्जात एव॥४२॥ इत्येवं भगवता उक्तौ तौ नलकूबरमणिग्रीवौ बद्धमुलूखलं यस्मिंस्तं कृष्णः पुनः पुनः परिक्रम्य प्रणम्य आमन्त्र्य पृष्ट्वा च उत्तरा दिशं जग्मतुरित्यन्वयः॥४३॥ इति श्रीवल्लभाचार्य— वंश्यगोपाल-
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्॥ दर्शनान्नो भवेद्बन्धः पुसोऽक्ष्णोः सवितुर्यथा॥४१॥ तद्गच्छतं मत्परमौ नलकूबर सादनम्॥ सञ्जातो मयि भावो वामीप्सितः परमोऽभवः॥४२॥ श्रीशुक उवाच॥ इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः॥ बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम्॥४३॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे यमलार्जुनमुक्तिनिरूपणं नाम दशमोऽध्यायः॥१०॥ श्रीशुक उवाच॥ गोपा92 नन्दादयः श्रुत्वा मयोः पततो खम्॥ तत्राऽऽजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः॥१॥॥छ॥
सूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ दशमो विवृतोऽध्यायः कृष्णबन्धनिरूपकः॥३॥॥छ॥ बृहद्धनात् समागत्य वृन्दारण्यमेकादशे॥ चारयन् वत्सकान् कृष्णोऽहनइत्सबकासुरौ॥१॥ ‘यावत्तौ गुह्यकौ स्तुतिं कुर्वन्तौ स्थितौ तावत्तच्छन्दो न केनापि श्रुत’ इत्यपि भगवच्चरितमाश्चर्यमेव, ‘तत्त्वया विश्वसनीयम् महता तत्र विश्वास एव युक्त’ इत्याशयेन सम्बोधयति— हे कुरुश्रेष्ठ इति। नन्दादयो गोपाः पततोः द्रुमयोः रवं शब्द श्रुत्वा निर्घातो वज्रपातस्तद्भयेन शङ्कितचित्तास्तत्र तयोः पतनस्थाने आजग्मुरित्यन्वयः॥१॥
आगताश्च तत्र भूम्या निपतितौ यमलार्जुनौ ददृशुः। दृष्ट्वा च तत्पतनस्य कारणं लक्ष्यं प्रत्यक्षतः सिद्धमप्यविज्ञाय “कस्य राक्षसादेरिदं वृक्षपातनंकर्म? कुतो वा कारणादिद वृक्षपतनरूपमाश्चर्य जातम्” इति वदन्तो ‘अयं देवदैत्यादिकृतो भाव्यनिष्टसूचकः कश्चिदुत्पात्’ इति भयेन कातरा व्याकुलाः। सन्तो बभ्रमुः, निश्चयं न जग्मुरिति द्वयोरन्वयः। ‘कि तत्कारणम्’ इत्यपेक्षायामाह— उलूखलं विकर्षन्तं बालकमिति। उलूखलविकर्षणे हेतुमाह— दाम्ना बद्धमिति॥२॥३॥ ‘तिरश्चीनं तिर्यक्पतितमुलूखलं विकर्षता वृक्षयोर्मध्यगतेनानेन कृष्णेन वृक्षौ पातिताविति वयमचक्ष्महि दृष्टवन्तः। न केवलमेतावत्, किंतु वृक्षाभ्यां निर्गतौ दिव्यौ पुरुषावपि दृष्टवन्त इति नन्दादीन् प्रति बाला ऊचुः’ इत्यन्वयः॥४॥ तत्र ये गोपाः केवल तर्कनिष्ठास्ते ‘तस्य बालस्येद्दशोस्तर्वोरुत्पाटन न घटेत’ इति तर्केण तदुक्त तैर्बालैर्यदुक्त तन्न जगृहुः नाङ्गीकृतवन्तः। केचित्तु पूतनातृणावर्तादीना भङ्गस्य
भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ॥ बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम्॥२॥ उलूखल विकर्षन्तं दाम्ना बद्ध च बालकम्॥ कस्येदं कुत आश्चर्यमुत्पात इति कातराः॥३॥ बाला ऊचुरनेनेति
तिरश्ची
नमुलूखलम्॥ विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि॥४॥ न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत्॥ बालस्योत्पाटनं तर्वोः केचित् सन्दिग्धचेतसः॥५॥ उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम्॥ विलोक्य नन्द प्रहसद्वदनो विमुमोच ह॥६॥
दृष्टत्वात् ‘इदमपि तस्यैव कर्म भवेद्वा न वा’ इति सन्दिग्धं चेतो येषा तथाभूता बभूवुः॥५॥ तत्र भगवत्कृपापात्रस्य स्नेहातिशययुक्तस्य नन्दस्य चरितमाह— उलूखलमिति। दाम्नोलूखले बद्धम्, अत एव उलूखलं विकर्षन्तं स्व स्वकीयमात्मजं पुत्र विलोक्य प्रहसद्वदनो नन्दस्त विशेषेण स्नेहपरवशः शीघ्र मुमोचेत्यन्वयः। नच “तस्मिन् भयसमये कथ प्रहासः सम्भवति?” इति शङ्क्यम्। तद्धौर्त्यस्मरणेन, कुशलीदर्शनेन वा, यदाकदाचिन्नन्दो भगवन्तं स्वसमीपमाह्वयति तदा यशोदाया स्नेहाधिक्यात् ता त्यक्त्वा नायाति, अधुना तु तया बद्ध इति ‘यस्या त्व बहुस्नेह करोषि तयैव त्व बद्धोऽसि, अहमेव त्वा विमोचयामि’ इत्युपालम्भाभिप्रायेण वा, भीत मत्वा भयनिवृत्त्यभिप्रायेण वा, प्रहाससम्भवात्। ‘ह’ इत्याश्चर्यम्। जगतो बन्धविमोचकस्यापि बन्धनं नन्देन विमोचितमित्याश्चर्यमेव॥६॥
यमलार्जुनभङ्गं दृष्ट्वा उत्पातशङ्क्या व्याकुलचित्तानां तद्विस्मृत्यर्थमतीव बाल्यमनुकरोति स्म तदाह— गोपीभिरिति। स्तोभित ‘अयमेव सम्यक् नृत्यं जानाति, नान्य’ इत्येव तत्समक्षं परस्परमुक्त्वा ‘हे कृष्ण! त्वं नृत्य कुरु, तुभ्यं लड्डुकनवनीतादिकं दास्याम’ इत्येवं वचनेन हस्ततालादिना च प्रोत्साहितो भगवान् ऐश्वर्यादिगुणपूर्णोऽपि तद्वशस्तासा प्रेमवशः सन् प्राकृतबालवत् क्वचिदनृत्यत्। तथैव गानार्थ गोपीभिः स्तोभितः क्वाचित् मुग्धवत् अज्ञवत् उद्गायति उच्चैः ‘यथा तासा हास्यहर्षादिक स्यात्तथा’ गायति स्म। तद्वशवर्तित्वे दृष्टान्तमाह— दारुयन्त्रवदिति। काष्ठनिर्मितपुत्तलिकावदित्यर्थः॥७॥ लीलान्तरमाह— बिभतीति। क्वचिद्बलपरीक्षार्थ गोपीभिः ‘पीठकमानय’ इत्याज्ञप्तस्तदानेतुमसमर्थ इव केवल बिभर्ति हस्ताभ्या गृह्णाति, नतूत्थापयति। गुरुत्वादेतदानेतुमशक्तश्चेत्तदा ततो लघु ‘उन्मान तण्डुलादिमानपात्रमानय’ इत्याज्ञप्तस्तदपि केवल बिभर्ति। तदा ततोऽपि लघु ‘पादुकमानय’ इत्याज्ञप्तस्तदपि केवल बिभर्ति। इत्येवमत्यन्तमसामर्थ्य प्रकटयति। किच ‘मया सह युद्धं कुरु’ इत्युक्तो बाहुक्षेप बाहुविस्फोटनादिकं च कुरुते
गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत् क्वचित्॥ उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत्॥७॥
बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम्॥ बाहुक्षेप च कुरुते स्वानां च प्रीतिमावहन्॥८॥
दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम्॥ ब्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः॥९॥
क्रीणीहि भो फलानीति श्रुत्वा सत्वरमच्युतं॥ फलार्थी धान्यमादाय ययौ सर्वफलप्रद॥१०॥
एवं लीलायाः प्रयोजनमाह— स्वानामिति। स्वाना ब्रजभक्तानाम्, चकारादन्येषामपि द्रष्टृश्रोतृवक्तृृणा प्रीतिमावहन् सम्पादयितुमित्यर्थः॥८॥ एव तत्प्रीतिसम्पादनप्रयोजनमाह— दर्शयन्निति। लोके ये तद्विदः फलसाराभिज्ञास्तेषा वै निश्रयार्थमात्मनो भृत्यवश्यता दर्शयन् भगवान् बालचेष्टितैर्व्रजस्य व्रजस्थजनस्य हर्षमुवाह अकरोत्॥९॥ अत्र ‘क्रीणीहि’ इत्यत आरभ्य ‘गोपवृद्धा’ इत्यतः प्राक्तना एकादश श्लोकाः
कैश्चिद्व्याख्याकृद्भिर्व्याख्याताः
कैश्चित्तु न व्याख्याताः। परंतु पुस्तकेषूपलभ्यमानत्वात् प्रकरणविरोधाभावाच्चास्माभिरपि व्याख्यायन्ते। ‘भो लोक’ फलानि कीणीहि’ इति फलविक्रयिण्या वचन श्रुत्वा अच्युतः ऐश्वर्यादिसर्वफलपरिपूर्णोऽपि भगवान् फलार्थी सन् धान्यमादाय सत्वर शीघ्र ययौ। एवं परिपूर्णस्यापि गमने प्रयोजनं सूचयन्नाह— सर्वफलप्रद इति। धर्मादिचतुर्विधसर्वफलप्रदत्वात्तस्या अपि किञ्चित् फलं प्रदातु गत इति भावः॥१०॥
तस्य त्वरया बहिर्निर्गच्छतोऽच्युतस्य च्युतानि ‘मार्गे एव पतितानि’ धान्यानियस्मात्तथाभूतमपि करद्वयंतत्सौन्दर्यादिविमोहिता फलविक्रयिणी फलैरपूरयत्। तदाऽच्युतेनापि करस्थेनावशिष्टेन तद्भाण्डे प्रक्षिप्तेन धान्येन तस्याः फलभाण्ड रत्नैर्माणिक्यादिभिरपूरि पूरितम्॥११॥ अथेति लीलान्तरे। भग्नावर्जुनौ येन तं कृष्णं रामं च सरितो यमुनायास्तीरं गत बालैः सह भृशं क्रीडन्तं रोहिणी आह्वयत आजुहाव। तस्याः सौभाग्यातिशय सूचयन्नाह— देवीति॥१२॥ एवमाहूतावपि पुत्रकौ क्रीडायामासङ्गेन आसक्त्या यदा नोपेयातस्वसमीप नागच्छता तदा तावानेतु रोहिणी यशोदा प्रेषयामास। ‘तत्प्रेषणेऽपि कि स्यात्’ इत्याशङ्कयाह— पुत्रवत्सलामिति। रोहिण्याः सकाशादपि तयोर्यशोदायाः स्नेहाधिक्यात्तयोरपि तस्या मानाधिक्यात्तयाहूतावागमिष्यत इत्याशयः॥१३॥ सा यशोदा सहाग्रज बलभद्रसहित स्वसुतं कृष्णमजोहवीत् आजुहावेत्यन्वयः। तस्याः स्नेहातिशयं दर्शय-
फलविक्रयिणी तस्य च्युतधान्यकरद्वयम्॥ फलैरपूरयद्रत्नैः फलभाण्डमपूरि च॥११॥ सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत्॥ रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम्॥१२॥ नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ॥ यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम्॥१३॥ क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम्॥ यशोदाऽजोहवीत् कृष्णं पुत्रस्त्रेहस्नुतस्तनी॥१४॥ कृष्ण कृष्णारविन्दाक्ष तात एहि स्तन पिब॥ अलं विहारैः क्षुत्क्षान्त क्रीडाश्रान्तोऽसि पुत्रक॥१५॥ हे रामागच्छ ताताऽऽशु सानुजःकुलनन्दन॥ प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति॥१६॥
न्नाह— पुत्रस्नेहेन स्नुतौ स्तनौ यस्या सा। आह्वाने हेतुमाह— अतिवेलमिति। भोजनादिवेलाऽतिकान्ता येन तमित्यर्थः। वेलातिक्रमे हेतुमाह— बालैः सह क्रीडन्तमिति॥१४॥ तदाह्वानप्रकारमाह— कृष्णकृष्णेति। वीप्सा दूराच्छ्रवणार्था। ‘त्वद्दर्शनेनैव मम सन्तापहानिः परमानन्दश्च’ इति सूचयन्ती सम्बोधयति— अरविन्दाक्षेति। स्नेहाधिक्येनाह— हे पुत्रकेति। तत्रापि शीघ्रागमनार्थमाह— हे तातेति। एहि आगच्छ, स्तनं पिब। यतः क्षुधा क्षान्तोऽसि॥ विहारैरलं पूर्णम्, यतः क्रीडया श्रान्तोऽसि॥१५॥ एवमाह्वानेऽपि कृष्णमनागच्छन्तं विलोक्य राममाह्वयति — हे रामेति। ’ तव दर्शनेनैवास्माकमानन्दो भवति’ इत्याशयेन सम्बोधयति— कुलनन्दनेति। तत्र स्नेहातिशय सूचयन्त्याह— तातेति। सानुजः कृष्णेन सहितः तमपि गृहीत्वाऽऽशु आगच्छ। तत्र हेतुमाह— यस्माद्भवान् प्रात काल एव कृताहारस्तस्मान्द्रोक्तुमर्हतीति॥१६॥
शीघ्रमागमने हेत्वन्तरमप्याह— प्रतीक्षत इति— हे दाशार्हकुलोत्पन्न! व्रजाधिपो नन्दो भोक्ष्यमाणो वा युवा प्रतीक्षते युवयोरागमनं प्रतीक्षते। अत एहि। आवयोः प्रिय धेहि सुखं सम्पादय। युवयोरागमनाद्बाललीलाविरमाद्वालका अपि स्वगृहं यान्तु॥१७॥ एवमुक्तेऽपि अनागच्छतस्तस्य क्रीडोत्साहं विरमयितु स्नानदानाद्युत्साहमुत्पादयति— धूलीति। हे तात! यतस्त्वं धूलिधूसरिताङ्गः, अतो मज्जन यथावत् स्नानमावह कुरु। अद्यदिने भवतो जन्मर्क्ष जन्मनक्षत्रमस्तीति शुचिः सन् विप्रेभ्यो गा देहि॥१८॥ तदैव स्नानादि कृत्वाऽऽगतान् बालान् दर्शयित्वा मात्सर्यं जनयन्त्याह— पश्य पश्येति। मातृभिर्मृष्टाः स्नापनादिना निर्मलीकृताश्च ते सुष्ठु अलङ्कृताश्च तान् ते तव वयस्यान् सखीन् पश्य पश्य, अतस्त्वमपि स्नातः कृताहारः स्वलङ्कृतश्च सन् विहरस्वेत्यन्वयः॥१९॥ ‘नेम विरिञ्चो न भव’ इत्यादावुक्तमेव यशोदाया ब्रह्मादिदुर्लभभगवत्कृपापात्रत्वं पुनः सूचयन्नाह—इत्थमिति। इत्थं वदन्ती यशो-
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो ब्रजाधिपः॥ एह्यावयोः प्रिय धेहि स्वगृहान् यात बालकाः॥१७॥ धूलिधूसरिताङ्सस्त्वं पुत्र, मज्जनमावह॥ जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाःशुचिः॥१८॥ पश्य पश्य वयस्यांस्ते मातृसृष्टान्स्वलङ्कृतान्॥ त्व च स्नातः कृताहारो विहरस्व स्वलङ्कृतः॥१९॥
इत्थं यशोदा तमशेषशेखरं मत्वा सुत स्नेहनिबद्धधीर्नृप॥ हस्ते गृहीत्वा सहराममच्युत नीत्वा स्ववाट कृतवत्यथोदयम्॥२०॥ गोपवृद्धा महोत्पाताननुभूय बृहद्धने॥ नन्दादयः समागम्य व्रजकार्यममन्त्रयन्॥२१॥
दा शनैरुपसङ्गम्य तमशेषाणा सर्वेषा ब्रह्मादिस्तम्बपर्यन्ताना शेखरं चूडामणिं पूज्यमप्यच्युत श्रीकृष्ण सुत मत्वा हस्ते गृहीत्वा सहरामं रामेण सहित स्ववाटं स्वगृहं नीत्वा, अथानन्तर उदयं रूपनभोजनालङ्कारादि मङ्गल कृतवती। तथाभूतस्यापि सुतत्वेनाभिमाने हेतुमाह— स्नेहनिबद्धधीरिति। पुत्र स्नेहेन तस्मिन्निबद्धा धीर्यस्याः सा, अतस्तथैव तस्यास्तत्राभिमानः। भगवानपि तथैवानुकरोति, ‘ये यथा मा प्रपद्यते तास्तथैव भजाम्यहम्’ इति वचनात्। अशेषशेखरत्वे हेतुरच्युतपदेनैव सूचितः, यत एव क्रीडन्नपि स्वरूपतो गुणतश्चाच्युत एव। विश्वासार्थ नृपेति सम्बोधनम्॥२०॥ एव बृहद्वने विहृत्येतोऽग्रे विहारार्थ वृन्दावन गन्तुमिच्छताऽन्तर्यामिणा कृष्णेन प्रेरिताना गोपानां सम्मन्त्रणमाह— गोपवृद्धा इति। नन्दादयो गोपवृद्धा बृहने महोत्पातान् पूतनागमनादीननुभूय समागम्य एकत्र मिलित्वा व्रजकार्यं व्रजस्य हितममन्त्रयन् विचारितवन्तः॥२१॥
तत्र तेषु मिलितगोपेषु मध्ये उपनन्दनामा गोप आह— तत्र “बहूनां परिभाषणे कोलाहलेन तत्त्वनिर्धारो न स्यात्, अत एकेन मुख्येन वक्तव्यम्”इति तस्य मुख्यतां सूचयन् गुणानाह— उपनन्देति। ‘नाम्ना नन्दस्य प्रेमास्पद मुख्यो मन्त्री’ इति ज्ञापितम्। ‘गोप’ इत्यनेन तन्मध्यपातित्वेन तुल्येष्टानिष्टश्चज्ञानेन वयसा चाधिकः। तत्र ज्ञानाधिक्यं स्पष्टयति— देशेति। यस्मिन् देशे यस्मिन् काले योऽर्थः प्रयोजनं यथा सिद्ध्यति तस्य तत्त्वं निदान जानातीति तथा। ‘एवंभूतोऽपि यदि भगवति भक्तिमान्न स्यात् तदा सर्वंव्यर्थम्’ अत आह— प्रियकृद्रामकृष्णयोरिति॥२२॥ तद्वाक्यान्येवाह— उत्थातव्यमित्यादिसप्तभिः। इतस्थानात्तु अस्माभिरुत्थातव्यम्, अन्यत्र गन्तव्यमित्यर्थः। तत्र हेतुमाह— आयान्तीति। बालानाम् ‘प्रजानाम्’ इति पाठान्तरम्, नाशहेतवो महोत्पाता यतोऽत्रायान्ति। ‘अस्माकमेतदुपेक्षा च न युक्ता’ इत्याशयेनाह— गोकुलस्य हितैषिभिरिति॥२३॥ उत्पातानेव दर्शयति— मुक्त इति। राक्षस्या पूतनयाऽसौ बालकः कृष्ण कथचित् साक्षात्कारणस्यादर्शनात् केनाप्यनिर्वचनीयेनैव कारणेन मुक्तः। ‘असौ’ इत्यनेन स्वयं तत्रागत-
तत्रोपनन्दनामाह गोपो ज्ञानवयोधिकः॥ देशकालार्थतत्त्वज्ञः प्रियकृद्रामकृष्णयोः॥२२॥ उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः॥ आयान्त्यत्र महोत्साता
बालानां नाशहेतवः॥२३॥ मुक्तः कथंचिद्राक्षस्या बालघ्न्या बालको ह्यसौ॥ हरेरनुग्रहान्नूनमनश्वोपरि नापतत्॥२४॥ चक्रवातेन नीतोऽयं दैत्येन विपदं वियत्॥ शिलायां पतितस्तत्र परित्रातःसुरेश्वरैः॥२५॥ यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः॥ असावन्यतमो वाऽपि तदप्यच्युतरक्षणम्॥ २६॥ यावदौत्पातिकोऽरिष्टो ब्रज नाभिभवेदितः॥ तावद्वालानुपादाय यास्यामोऽन्यत्र सानुगाः॥२७॥
मङ्के स्थित प्रदर्शयति। राक्षस्यादिपदत्रयेण गोपैस्तस्या अप्रतीकारत्वं सूचयति। सर्वानुभवसिद्धत्वं सूचयति— हीति। नूनमिति निश्चयेन हरेरेनुग्रहादेवास्योपरि अनः शकटश्च नापतत्॥२४॥ चक्रवातस्वरूपेण दैत्येन तृणावर्तेन वीनां पक्षिणां पदं विहारस्थानं विगतप्रतिष्ठं वेति विपद वियत् आकाशप्रति नीतोऽसौ बालकः शिलाया पतितः, तत्रापि सुरेश्वरैरस्मत्संराधितैर्देवैरेव परित्रातः संरक्षितः॥२५॥ द्रुमयोरन्तर प्राप्यासौ कृष्णोऽन्यतमो वापि कश्चिद्वालको यन्न म्रियेत न मृतस्तदप्यच्युतेनैव रक्षणमासीत॥२६॥ एवमुत्पातबहुत्वस्य जातत्वादप्रेऽपि सम्भवाच्च यावदौत्पातिकः उत्पातजनितःअरिष्टः बालविनाशाद्यनर्थः व्रज नाभिभवेन्न स्पृशेत् तावत् ततः पूर्वमेव बालानुपादाय गृहीत्वा सानुगा गोधनभृत्यादिसहिता वयमितः स्थानादन्यत्र यास्याम इत्यन्वयः॥२७॥
‘एवं चेत्तर्हि स्थलान्तरं विचार्यताम्’ इत्यत्राह— वनमिति। वृन्दावनाख्यं वनम् ‘अस्ति’ इति शेषः। तद्विशिनष्टि— गोपगोपीगवां सेव्यमिति। तत्र हेतुमाह— पशव्यमिति। पशुभ्यो हितम्। तत्र हेतुमाह— नवानि काननान्यवान्तरवनानि यस्मिस्तत्, तथा पुण्याः पवित्रा दर्शनस्पर्शादिना पुण्यजनका अद्र्यदयो यस्मिंस्तत्॥२८॥ यस्मात् सर्वसुखावह तत्तस्मात्तत्राद्यैव यास्यामः। शकटान् युङ्क्त बलीवर्दयुक्तान् कुरुत, मा चिर विलम्बो न कर्तव्यः। गोधनान्यग्रतो यान्तु। एवमुक्त्वाऽपि ‘प्रारब्धवशात् कदाचित्तत्रापि कश्चिदुत्पातः स्यात्’ इत्याशङ्कयाह— भवतां यदि तत्र गमनं रोचते, ‘तर्हि गन्तव्यम्’ इति शेषः॥२९॥ तदुपनन्दवचः श्रुत्वा एकधियः विप्रतिपत्तिरहिताः गोपा नन्दादयः स्वान् स्वान् ब्रजान् शकटान् समायुज्य रूढाः शकटे आरोपिताः परिच्छदा उपकरणानि यैस्ते ययुः॥३०॥ एतदेव स्पष्टयति— वृद्धानिति। ‘राजगमनमिव तेषामपि गमनमभूत’ इत्याशयेन सम्बो-
वनं वृन्दावनं नाम पशव्य नवकाननम्॥ गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम्॥२८॥ तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम्। गोधनान्यग्रतो यान्तु भवतां यदि रोचते॥२९॥ तच्छ्रुत्वैकधियो गोपाःसाधु साध्विति वादिनः॥ व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः॥३०॥ वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च॥ अनस्स्वारोप्य गोपाला यत्ता आत्तशरासनाः॥३१॥ गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वत॥ तूर्यघोषेण महता ययुःसहपुरोहिताः॥३२॥ गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः॥ कृष्णलीलां जगुःप्रीता निष्ककण्ठ्य सुवाससः॥३३॥ तथा यशोदारोहिण्यावेकं शकटमास्थिते॥ रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके॥३४॥
धयति— हे राजन्। यत्ताः कृतप्रयत्नाः आत्तानि गृहीतानि शरासनानि यैः ते गोपाला वृद्धादीन् अनस्स्वारोप्य॥३१॥ गोधनानि पुरस्कृत्य अग्रतः कृत्वा सर्वतः शृङ्गाण्यापूर्य निर्गमनज्ञापनार्थं महान्त शृङ्गशब्दं कृत्वा महता तूर्यघोषेण सह महान्तं तूर्यशब्द कुर्वतः पुरोहितैर्बाह्मणैः सह ततो निर्ययुरित्यन्वयः॥३२॥ रूढरथाः रथोपर्यारूढाः। नूतनैः कुचगतैः कुङ्कुमैः कान्तिर्यासां ताः, यद्वा नूत्नेषु कुचेषु यत् कुङ्कुमं तेन कान्तिर्यासा ताः। ‘निष्ककण्ठ्य’ इत्युपलक्षणम्, सर्वाभरणभूषिता इत्यर्थः। सुष्ठु वासासि यासां ताः। एवभूता गच्छन्त्यो गोप्यः कृष्णलीलां जगुः॥३३॥ तथा तयोः कृष्णरामयोः कथाना श्रवणे उत्सुकमुत्साहो ययोस्ते यशोदारोहिण्यौ कृष्णरामाभ्यां सहैक शकटमास्थिते आरुह्य स्थिते रेजतुरित्यन्वयः॥३४॥
एवं शकटैर्वृन्दावनं सम्प्रविश्य समागत्य गोपास्तत्र अर्धचन्द्रवत् अर्धचन्द्राकारं ब्रजावासं गोकुलवसतिस्थानं चक्रुरित्यन्वयः। वृन्दावनस्य सर्वोत्तमत्वमाह— सर्वेति। सर्वेषु ग्रीष्मादिष्वपि कालेषु सुखमेवावहति प्रापयतीति तथा तत्॥३५॥ ‘वृन्दावनस्योत्तमत्वं सावधानतया बोध्यव्यम्’ इत्याशयेन सम्बोधयति— नृपेति। योगिजनादिमनोरमत्वात् रामः, लक्ष्मीपतित्वात् माधवः कृष्णः, तयोरपि वृन्दावनादीनि वीक्ष्योत्तमा प्रीतिरासीत्। अन्यस्य तु का वार्ता? इति इदमेव मुख्यं विहारस्थानमित्याशयः॥३६॥ वर्णिता बाललीलामुपसंहरति— एवमिति। एवमुक्तप्रकारेण बालचेष्टितैः कलवाक्यैर्मधुरभाषितैश्च व्रजौकसां प्रीतिं यच्छन्तौ कुर्वन्तौ रामकृष्णशक्तिरूपत्वात् स्वाधीनेन गच्छता कालेन वत्सपालौ च सञ्चारणयोग्यवयस्कौ बभूवतुः॥३७॥ कौमारलीलां निरूपयति— अविदूरे इत्यादिना। व्रजभुवः अविदूरे नातिदूरे बाल्यात्, न चातिनिकटे तृणाभावात्, मध्ये मध्ये जनागमनेन
वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम्॥ तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत्॥३५॥ वृन्दावनं गोवर्धनं यमुनापुलिनानि च॥ वीक्ष्याऽऽसीदुत्तमा प्रीती राममाधवयोर्नृप॥३६॥ एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः॥ कलवाक्यैःस्वकालेन वत्सपालौ बभूवतुः॥३७॥ अविदूरे ब्रजभुवः सह गोपालदारकैः॥ चारयामासतुर्वत्सान्नानाक्रीडापरिच्छदौ॥३८॥ क्वचिद्वादयतो वेणून क्षेपणैः क्षिपतःक्वचित्॥ क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषै॥३९॥ वृषायमाणौ नर्दन्तौ युयुधाते परस्परम्॥ अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा॥४०॥
स्थानसङ्कोचेन च यथा सुख विहारासिद्धेश्चअतो व्रजजनाव्हानश्रवणयोग्ये विस्तृतप्रदेशे गोपालाना दारकैर्बालकैः सह नानाविधा वेणुवेत्रशृङ्गकन्दुकादयः क्रीडापरिच्छदाः क्रीडासाधनानि ययोस्तौ, तानि गृहीत्वा क्रीडन्तौ वत्साश्चारयामासतुरित्यन्वयः॥३८॥ क्वचिद्वेणून् वादयतः इत्यादि। लटो द्विवचनम्। वेणुर्बहुच्छिद्रवशविशेषः, तस्यावान्तरभेदा बहवः इति बहुवचनम्। क्षेपणा रज्ज्वादिभिर्निर्मिता यन्त्रविशेषास्तैः तन्मध्ये लोष्टादि निधाय भ्रामयित्वा मत्प्रक्षिप्तमेतावद्दूरं गच्छतीति ज्ञापनाय क्वचित् क्षिपतः। क्वचित् किङ्किणीयुक्तैः ‘पादैःनृत्यतः’ इति शेषः। क्वचित् कृत्रिमगोवृषैः कम्बलादिभिः पिहितैर्बालकैरेव स्वीकृतवृषाकारैः सह॥३९॥ स्वयमपि तथैव वृषायमाणौ नर्दन्तौ वृषजात्यनुकारिशब्दान् कुर्वाणौ परस्पर युयुधाते इत्यन्वयः। रुतैः तत्तज्जातिशब्दैर्जन्तून् हसमयूरादीन् अनुकृत्य यथा प्राकृतौ बालकौ तथा चेरतुः विजहतुः॥४०॥
षष्ठीद्वयं द्वितीयार्थम्। कदाचिद्यमुनातीरे स्वकैः सखिभिः सह वत्साश्चारयन्तौ कृष्णबलौ जिघांसुः हन्तुमिच्छुर्दैत्य आगमत्॥४१॥ तं वत्सयूथगतं वत्सरूपिणं दैत्यं वीक्ष्य बलदेवाय दर्शयन् भ्रूसंज्ञया ज्ञापयन् मुग्ध इव अजानन्निव हरिः शनैरासदत् तत्समीपमागमदित्यर्थः॥४२॥ अपरपादाभ्यां सह तस्य लाङ्गूलं गृहीत्वा भ्रामयित्वा च भ्रामणेनैव गतजीवितं निर्गतप्राण तं कपित्थाग्रे कपित्थवृक्षस्य उपरि प्राहिणोत चिक्षेप। तत्र सामर्थ्यं द्योतयन्नाह— अच्युत इति। बलादिपूर्ण इत्यर्थः॥४३॥ पात्यमानैः कपित्थैकपित्थफलैः सह स दैत्योऽपि पपात। ‘मरणसमये मायाया अपगमात्प्रकटितनिजरूपो बभूव इत्याशयेनाह— महाकाय इति। अयमेव कपित्थपातने हेतुर्ज्ञेयः। ‘ह’ इत्याश्चर्ये। एतादृशस्याप्येव भ्रामणेन बालेन मारणम-
कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः॥ वयस्यैः कृष्णबलयोर्जिघांसु93र्दैत्य आगमत्॥४१॥
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः॥ दर्शयन बलदेवाय शनैर्मुग्ध इवाऽऽसदत्॥४२॥
गृहीत्वाऽपरपादाभ्यां सह लाङ्गूलमच्युतः॥ भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम्॥४३॥
स कपित्थैर्महाकायः पात्यमानैः पपात ह॥ तं वीक्ष्य विस्मितां बालाः शशसुः साधु साध्विति॥४४॥
देवाश्च94परिसन्तुष्टा बभूवुः पुष्पवर्षिणः॥ वत्सासुरं हतं श्रुत्वा व्रजे गोप्यश्च विस्मिताः॥४५॥
तौ वत्सपालकौभूत्वा सर्वलोकैकपालकौ॥ सप्रातराशौ गोवत्सांश्चारयन्तौ
विरे
जतुः॥४६॥
स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा॥ गत्वा जलाशयाभ्याश पाययित्वा पपुर्जलम्॥४७॥
त्याश्चर्यमित्यर्थः। अत एव त पतित वीक्ष्य सर्वे बाला विस्मिताः सन्तः ‘साधु कृतं साधु कृतम्’ इत्येव कृष्ण शशसुः॥४४॥ देवानामपि भयङ्करत्वात्तद्वधे देवाश्व परिसन्तुष्टाः कृष्णस्योपरि पुष्पवर्षिणो बभूवुः॥४५॥ सर्वेषा लोकानामेकौ मुख्यौ पालकावपि तौ रामकृष्णौ वत्सपालको भूत्वा प्रातराशः प्रातर्भोज्यमन्न तत्सहितौ तद्गृहीत्वा वत्सांश्चारयन्तौ वने विरेजतुः॥४६॥ ते सर्वे रामकृष्णादयो गोपबाला एकदा स्वं स्वं वत्सकुलं वत्ससमूहं पाययिष्यन्तस्तावज्जलाशयस्याभ्याशं समीपं गत्वा वत्सान् जलं पाययित्वा स्वयमपि पपुः॥४७॥
ते च बालास्तत्र जलाशयतीरे अवस्थितं महासत्त्वं स्थूलबकविशेषं ददृशुः, दृष्ट्वा च तत्रसुः त्रासं जग्मुः त्रासहेतुत्वेनोक्तमहत्त्वे दृष्टान्तमाह— वज्रेति इन्द्रवज्रेण निर्भिन्नम, अत एव च्युत भूमौ पतित गिरेः शृङ्गमिवेत्यर्थः॥४८॥ स वै बकरूपधृक् बको नाम महान् असुरःसहसा आशु चागत्य कृष्णमग्रसत्। तत्र सामर्थ्यमाह— तीक्ष्णतुण्डो बलीति॥४९॥ तं कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः विचेतसो मूर्च्छिता बभूवुरित्यन्वयः। तत्र दृष्टान्तमाह— इन्द्रियाणीवेति। यथा प्राणैर्विना इन्द्रियाणां ज्ञानकर्मात्मकानां ज्ञाने कर्माणि च न सामर्थ्यम् स्थितिरपि दुर्लभा, तथा तेषामपि तदा ज्ञानादिसामर्थ्य गत मूर्च्छा च जातेत्यर्थः॥५०॥ त गोपालसूनुं कृष्ण सद्य एव बकश्चच्छर्द। तत्र हेतुमाह— अग्निवत्तालुमूलं प्रदहन्तमिति। दाहे सामर्थ्य सूचयन् विशिनष्टि— जगद्गुरोर्बह्मणोऽपि पितरमिति। तदा यदि तच्छरणमागच्छेत्तदा शरणागतवत्सलो भगवास्त न हन्यात्। स तु तदुपायानाभिज्ञोऽतस्तमक्षत व्रणरहितं दृष्ट्वाऽतिरुषा महता क्रोधेन पुनस्त तुण्डेन चञ्चुना हन्तुमभ्यपद्यत सम्मुखमाजगाम॥५१॥ तमापतन्त वेगेनागच्छन्त बक स
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम्। तत्रसुर्वज्रनिर्भिन्न गिरेःशृङ्गमिव च्युतम्॥४८॥ स वै बको नाम महानसुरो बकरूपधृक्॥ आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली॥४९॥ कृष्ण महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः॥ बभूवुरिन्द्रियाणीव विनाप्राण विचेतस॥५०॥ तं तालुमूलं प्रदहन्तमग्निवद्गोपालसूनुं पितरं जगद्गुरोः॥ चच्छर्द सद्योऽतिरुषाऽक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत॥५१॥ तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यांबक कंससख सतां पतिः॥ पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम्॥५२॥ तदा बकारि सुरलोकवासिनःसमाकिरन्नन्दनमल्लिकादिभिः॥ समीडिरे चानकशङ्खसंस्तवैस्तद्वीक्ष्य गोपालसुता विसिस्मिरे॥५३॥
भगवान् कृष्णो दोर्भ्यां भुजाभ्यां तुण्डयोर्निगृह्य बालेषु पश्यत्सु सत्सु लीलया अनायासेनैव ददार। तत्र दृष्टान्तमाह— वरिणवदिति। वीरणमग्रन्थितृणविशेषः। स यथा अनायासेनैव विदार्यते तथेत्यर्थः ‘बकस्य विदारणकर्मत्वं युक्तम्’ इति सूचयस्त विशिनष्टि— कससखमिति। भगवतोऽपि तद्धननप्रयोजनं सूचयस्तं विशिनष्टि— दिवौकसा देवाना मुदमावहति प्रापयतीति तथा। तत्रापि हेतुमाह— सता पतिरिति। साधूना रक्षक इत्यर्थः। दुष्टनिग्रहं विना देवादिसाधूना रक्षणहर्षयोरसम्भवादित्याशयः॥५२॥ तदा सुरलोकवासिनो देवादयो नन्दनवनोद्भूतैर्मल्लिकादिभिः पुष्पैर्बकारि श्रीकृष्णं समाकिरन् आच्छादितवन्त। तथा आनकै शङ्खैश्चवाद्यैः सहितैः सस्तवैः सम्यक् स्तुतिभि समीडिरे तुष्टवुः। तत् देवैः कृतं भगवत्पूजनं वीक्ष्य गोपालसुता विसिस्मिरे आश्चर्यं प्राप्तवन्तः॥५३॥
श्रीकृष्णावयागेन निश्चेष्ठा रामादयो गोपदारको बकस्यास्यात् मुखात् मुक्तमुपलभ्य ततः स्वस्थानमागतं तं परिरभ्य समाश्लिष्य निर्वृताः स्वस्थाः सुखिनश्च जाताः। तत्र दृष्टान्तमाह— प्राणमिवेति। यथा प्राणविना ज्ञानक्रियात्मक इन्द्रियगणः स्वव्यापारे असमर्थोमूर्च्छितश्च सन् पुनः प्राण स्वस्थानमागत परिरभ्य स्वस्थः सव्यापारश्च भवति, तथेत्यर्थः। ततश्च सायङ्काले वत्सान् प्रणीय एकीकृत्य व्रजमेत्य आगत्य तत् बकवधादिकजगुः कथितवन्तः॥५४॥ तत् गोपबालवर्णित श्रुत्वा गोपा गोप्यश्च विस्मिता आश्चर्याक्रान्ताः अतिप्रियेण प्रीत्या आदृताःसादराः तृषितानि अतृप्तानि अमृत पिबन्तीवेक्षणानि नेत्राणि येषा ते प्रेत्य परलोक प्राप्य पुनरागतमिवौत्सुक्यादैक्षत अपश्यन्॥५५॥ तत्र गोपाना परस्परमाश्चर्योक्तिमाह— अहो बतेति। ‘अहो बत’ इत्यादिश्लोकत्रयस्य ‘इति नन्दादयो’ इति चतुर्थेनान्वयः। अहो इत्याश्चर्ये। बतेति खेदे। अस्य बालस्य कृष्णस्य बहवो मृत्यवो मृत्युहेतवोऽभवन्, अपि तथापि तेषामेव विप्रियमनिष्टमासीत्। यतस्तैः पूर्वमन्येषा भय कृतम्॥५६॥ ननु ‘अनेनैव बालकेन पूर्व कदाचित्तेषामसुराणा किञ्चि-
मुक्त बकास्यादुपलभ्य बालका रामादय प्राणमिवैन्द्रियो गणः॥ स्थानागतं तं परिरभ्य निर्वृताःप्रणीयवत्सान्व्रजमेत्य तज्जगुः॥५४॥ श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः॥ प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः॥५५॥ अहो बतास्य बालस्य बहवो मृत्यवोऽभवन्॥ अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम्॥५६॥ अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः॥ जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत्॥५७॥ अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित्॥ गर्गो यदाह भगवानन्वभावि तथैव तत्॥५८॥
द्विप्रियं कृतम्, अत एवेदानीं ते एव तं हन्तुमायान्तीति कुतो न सम्भाव्यते?’ तत्राहुः— अथापीति। यद्यपि तयोरदर्शनाः भयङ्करस्वरूपा दर्शनमात्रेणापि प्राणहारकास्तथाप्येन बालमपि नाभिभवन्ति किञ्चिन्मात्रमप्यस्य पराभव कर्तुं न शक्नुवन्ति, प्रत्युत जिघासया हन्तुमिच्छया एनमासाद्य प्राप्य स्वयमेव नश्यन्तीत्यन्वयः। तत्र दृष्टान्तमाहुः— अग्नौ पतङ्गवदिति। यथाऽग्निं नाशयितुं तत्र पतिताः पतङ्गाःशलभाः स्वयमेव नश्यन्ति तथेत्यर्थः। तथाच नानेन तेषा किञ्चिद्विप्रिय कृतम्, यदि किञ्चिद्विप्रिय कृत स्यात्तदा त एवैनमभिभवेयुः। स्वय न नश्येयुरिति भावः॥५७॥ भगवदुपासनाप्रभावस्याश्चर्ये द्योतयन्त आहुः— अहो इति। ब्रह्मविदा वेदोक्तपरमार्थज्ञाना भगवदुपासकाना वाचःकर्हिचिदपि असत्या न सन्ति न भवन्ति। ‘कथमेवं निश्चय’ इत्यत आह— गर्ग इति। भगवान् भगवदुपासकत्वेनाविर्भूतसर्वज्ञत्वादिगुणो गर्गः"तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः इत्यादि यदाह उक्तवास्तत्तथैवान्वभावि अनुभूतम् दृष्टमित्यर्थ॥५८॥
इत्येवं नन्दादयो गोपाःकृष्णरामकथां कुर्वन्तस्ताभ्यां सह रममाणाश्च मुदा तज्जनितपरमानन्देन निमित्तेन भववेदना दैहिक दैविक भौतिकससारतापं नाविन्दन् तदनुसन्धान न कृतवन्तः॥५९॥ एवमुक्तप्रकारकैरन्यैश्व निलायनादिभिःकौमारै कुमारावस्थाया योग्यैर्विहारैःकृत्वा कौमारं कुमारावस्था रामकृष्णौ बजे जहतुः त्यक्तवन्तौ। निलायन निलीय स्थितिः। सेतुबन्धः नद्यादिषु सेतुबन्धनम्। मर्कटबदुत्प्लुवन शाखातः शाखान्तरगमनम्।आदिपदेनानेकविधलीलान्तरग्रहणम्॥६०॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा॥१॥ श्रीमद्भिरिधराख्येन भजनानन्द सिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ एकादशो मतो वृत्तिं वत्सादिवधबोधकः ॥३॥ अत्र यद्यपि श्रीमदाचार्याः ‘क्वचिद्वनाशाय भनो दधत्’ इत्यारभ्याध्यायत्रय प्रक्षिप्तमित्याहुः, तथात्रान्येषामपि केषा विप्रतिपत्तिः, केषां च सम्मतिरस्ति तथापि व्याख्यातत्वाद्यथामति व्याख्यायन्ते॥ द्वादशे वनक्रीडायामहेर्वत्सादिमोचनम्॥ अहेः संसारमोक्षश्च कृष्णेन विनिरूप्यते॥१॥ क्वचित्
इति नन्दादयो गोपाःकृष्णरामकथां मुदा॥ कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम्॥५९॥ एवं विहारैः कौमारैःकौमारं जहतुर्व्रजे॥ निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभि॥६०॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे वत्सादिवधनिरूपणं नामैकादशोऽध्यायः॥९९॥ श्रीशुक उवाच॥
क्वचिंद्वनाशाय मनो दधद्व्रजात् प्रातः समुत्थाय वयस्यवत्सपान्॥ प्रबोधयन् शृङ्गरवेण चारुणा विनिर्गतो वत्सपुरः सरो हरिः ॥१॥ तेनैव साकं पृथुकाः सहस्रश स्निग्धाः सुशिग्वेत्रविषाणवेणवः॥ स्वान् स्वान् सहस्रोपरिसङ्घ्ययाऽन्वितान्वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा॥२॥
कदाचिद्वनाशाय वन एव प्रथमं भोजनं कर्तु मनो दधत्। प्रातः समुत्थाय चारुणा मनोहरेण शृङ्गरवेण वयस्याश्च ते वत्सपाश्च तान् स्वसखीन्प्रबोधयन् “अह वन गच्छामि, यूयं सर्वे आगच्छत” इति ज्ञापयन् वत्साः पुर. सरा यस्य स हरिव्रजाद्विनिर्गत इत्यन्वयः॥१॥ तदा तेन श्रीकृष्णेन साकमेव सहस्रशः पृथुकाः गोपबालाः सहस्रसङ्ख्यातः उपरि या सङ्ख्या तयाऽन्विताः स्वकान् स्वकान् वत्सान् पुरस्कृत्य अग्रतः कृत्वा मुदा हर्षेण विनिर्ययुर्विनिःसृता। तत्र हेतुमाह— कृष्णे स्निग्धा इति। ‘भगवत इव तेषामपि वनभोजनमनोरथ’ इत्याह— सुशिगिति। सुष्ठु रम्याः शिग्वेत्रादयो येषां ते। शिक् शिक्यं दध्यादिपूर्ण भोजनार्थम्, वेत्रं गोचारणार्थम्, विषाणवेणू वादनार्थौ॥२॥
‘पृथक्त्वे स्वच्छन्दलीला न स्यात्’ इत्यसङ्ख्यातैः कृष्णवत्सैः सह स्ववत्सकान् यूथीकृत्य एकीकृत्य चारयन्तोऽ र्भलीलाभिस्तत्र तत्र वने हर्षेण विजन्हुरित्यन्वयः॥३॥ मातृभिः पूर्वं काचादिभिर्भूषिता अपि अत्यौत्सुक्येन पुनः फलादिभिरात्मानमभूषयन्नित्यन्वयः। प्रवालानि पत्राणि, स्तबकाः पुष्पगुच्छानि, सुमनसःकेवलपुष्पाणि, पिच्छानि मयूरस्य, धातवो गैरिकादयस्तैः॥४॥ अन्योन्यस्य शिक्यादीन् मुष्णन्तश्चोरयन्तः। ततः ‘अनेन मदीयमपहृतम्’ इति स्वामिना ज्ञातान् आराद्दूरादेव चिक्षिपुः प्रक्षिप्तवन्तः, तत्रत्या येषु शिक्यादयः पतितास्ते पुनस्तान् ततोऽपि दूराच्चिक्षिपुः। एवमनवस्थया स्ववरत्वनुप्राप्नुवतो बालान् रुदन्मुखानवलोक्य हसन्तः पुनर्ददुः॥५॥ यदि वनशोभादर्शनार्थं कृष्णो दूरगतो भवति, तर्हि ते बाला ‘अह पूर्वं स्प्रक्ष्यामि अहं पूर्वं स्प्रक्ष्यामि’ इति वदन्तोऽनुद्रुत्पत्त्य त संस्पृश्य आश्लिष्य रेमिरे॥६॥ केचित् ‘विजहुः’ इति पञ्चमेनान्वयः। शृङ्गाणि
कृष्णवत्सैरसङ्ख्यतैर्यूथीकृत्य स्ववत्सकान्॥ चारयन्तोऽर्भलीलाभिर्विजन्हुस्तत्र तत्र ह॥३॥
फलप्रवालस्तबकसुमनःपिच्छधातुभिः॥ काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन्॥४॥
मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञातानाराच्चचिक्षिपुः॥ तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः॥५॥
यदि दूरं गतः कृष्णो वनशोभेक्षणायतम्॥ अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे॥६॥
केचिद्वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन। केचिद्भुङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे॥७॥
विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः॥ बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः॥८॥
विकर्षन्तः कीशवालानारोहन्तश्च तैर्द्रुमान्॥ विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु॥९॥
साकं भेकेर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः॥ विहसन्तः प्रतिच्छायाःशपन्तश्च प्रतिस्वनान्॥१०॥
ध्मान्तः मुखवायुपूरणेन वादयन्तः, भृङ्गैर्भ्रमरैः सह प्रगायन्तः॥७॥ उपरि गच्छता वीनां पक्षिणा छायाभिः सह प्रधावन्तः, हंसैः सह साधु यथा स्यात्तथा गच्छन्तः, बकैः सह तद्वज्जलतीरे उपविशन्तश्च, कलापिभिर्मयूरैः सह नृत्यन्तः॥८॥ कीशानां वानराणां वालान् ‘शाखासु लम्बमानानि लाङ्गूलानि’ आकर्षयन्तः, लाङ्गूलममुञ्चन्त एव तैः सह द्रुमान् आरोहन्तश्च तैर्वानरै सह विकुर्वन्तो दन्तप्रदर्शनभ्रूविजृम्भादिविकारान् कुर्वन्तः, पलाशिषु वृक्षेषु प्लवन्तः, शाखायाः शाखान्तरमुद्गच्छन्तः॥९॥ सरित्प्रस्रवे नदीतटात् परिस्रुतजले सप्लुम्ता निमग्नाः सन्तो भेकैः मण्डूकैः साकं विलङ्घन्तः, प्रतिच्छायाः प्रतिबिम्बानि हसन्तः प्रतिस्वनान् सरोवरकूपादितरेषु स्वकृतशब्दसदृशान् शब्दान् शपन्तश्च95॥१०॥
अतिविस्मितःसस्तेषा भाग्यमभिनन्दति— इत्थमिति द्वाभ्याम्। सतां तत्त्वज्ञानां ब्रह्म तद्रूपेण व्यापकं तत्सुखमानन्दश्च अनुभूतिः चिच्चतया सच्चिदानन्दरूपेण प्रकाशमानेन। एव तेषामनुभवमात्रमेव, न त्वेवं विहार इति सूचितम्। तथा दास्य गताना केवल मर्यादाभक्तिमता परदैवतेन इष्टदेवतया प्रकाशमानेन इति तेषामपि गौरवणैव तद्भजनम्, नत्वेवं विहारः। मायाश्रितानां भगवन्मायामोहितानां विषयसुखमिच्छता कर्मनिष्ठाना तु नरदारकेण प्राकृतमनुष्यबालवत् प्रतीयमानेन इति तेषां तु तत्सम्बन्धलेश एव नास्ति, कुतस्तेन सह व्यवहारः?। एवभूतेन भगवता साक ये विजन्हुस्ते कृतानां स्वस्वनुष्ठितानां पुण्याना सत्कर्मोपासनादीना पुञ्जाः समूहाः येषा तथाभूता एव॥११॥ ‘तर्हि तैः कृताः पुण्यपुञ्जा वक्तव्या’ इत्यपेक्षायामाह— यत्पादेति। यस्य भगवत पादपासुः पादसम्बन्धिरजो बहुजन्मस्वनुष्ठितेन कृच्छतस्तप समाध्यादिकष्टेन धृतो वशीकृत आत्मा इन्द्रियान्तःकरणसङ्घातो यैस्तैर्योगिभिरप्यलभ्यः। स एष येषा व्रजवासिना स्वय साक्षादेव दृग्विषयः सर्वेन्द्रियविषयः सन् स्थितस्तेषा दिष्टमहःपुरा महत्त्वंं किं
इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन॥ मायाश्रितानां नरदारकेण साकं विजहुः कृतपुण्यपुञ्जाः॥११॥ यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगि
भिरप्य
लभ्यः॥ स
एषयदृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमहो96 व्रजौकसाम्॥१२॥ अथाघनामाऽभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः॥ नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते॥ १३॥
वर्ण्यते? तत्तु
वाङ्मनसोरगोचरमित्यर्थः॥१२॥ एव क्रीडायां मध्ये अघासुर आगतः, तस्य मुक्त्यन्ता कथामाह— अथेति एकविंशतिभिः। अथेत्यर्थान्तरे। वृन्दावनलीलाया लीलान्तर शृण्वित्यर्थः। अघनामा महासुरोऽभ्यपतत् अकस्मादेवाजगाम। ‘किमर्थ’ इत्याकाङ्क्षायां ‘तेषा जिघासया’ इति सूचयन्नाह— तेषामिति। तेषां रामकृष्णादीनां यत् सुखेन क्रीडनं तस्य वीक्षणे नास्ति क्षमा सहनं यस्य सः। तस्य दुष्टत्व सूचयंश्वरित विशिनष्टि - नित्यमिति। यत्तेषां क्रीडनं पीतामृतैरपि निजजीवितेच्छुभिः ‘न अमृतपानमात्रेण जीवन सफल भवति, किन्तु भगवल्लीलानुस्मरणेन इति कृत्वा स्वजीवसफलत्वेच्छुभिरमरैरन्तर्मनसि नित्य प्रतीक्ष्यते चिन्त्यते तद्दृष्ट्वाऽसहमान इत्यर्थः। यद्वा तस्य तुच्छत्वमाशङ्कय प्रबलत्वमाह— नित्यमिति। यस्याधासुरस्यान्तः नाशः ‘कथ कदावाऽय दुरात्मा मरिष्यति’ इति पीतामृतैर्देवैरपि निजजीवितेच्छुभिस्तत स्वमरणमाशङ्क्य तत्प्रतिहारार्थ प्रतीक्ष्यते चिन्त्यत इत्यर्थः॥१३॥
तेन रचितं तद्धननोपायं दर्शयति— दृष्ट्वेति त्रिभिः। सः अधासुरस्तदा कृष्णो मुखं प्रधानो येषां तानर्भकान् दृष्ट्वाइत्येव व्यवस्य निश्चित्याजगर वपुर्धृत्वा तेषा ग्रसनाशया पथि व्यशेतेति तृतीयश्लोकेनान्वयः। तेषा क्रीडादर्शनासहने कसवैर हेतुमाह— कसानुशिष्ट इति। कसेन कृष्णादिहननार्थं प्रेषित इत्यर्थः। तत्रैव स्ववैरमपि हेत्वन्तरमाह— बकीबकानुज इति। बकी पूतना। वैरमेव स्पष्टयस्तद्व्यवसायमाह— अय त्विति सार्धेन तुशब्द एवकारार्थः, तेन कालकर्मादिव्यावृत्तिः। अय कृष्ण एव मे सोदरयोर्भ्रातृभगिन्योर्नाशकृत्, अतो मम तयोर्द्वयोः सन्तोषार्थं सबल ससैन्य वत्सपालसहितमेन हनिष्यामि॥ १४॥ ननु ‘एतेषा मारणेऽपि व्रजस्थास्तु तावत् अवशिष्येरन् ’ इत्याशङ्कयाह— एते इति। एते बालवत्सा यदा मम सुहृदोः भ्रातृभगिन्योस्तिलापः कृता मृतयोस्तिलोदकवत्तृप्तिहेतवः कृतास्तदा ब्रजौकसो नन्दादयः सर्वे नष्टसमा मृतप्राया एव। तत्र दृष्टान्तमाह— प्राणे इति। यथा प्राणे निर्गते वर्ष्मसु देहेषु चिन्ता नास्ति, देहा विनष्टप्राया एव तद्विनाशार्थमुपायान्तरं न चिन्त्यते, तद्वदेतेषा विनाशोपायो न
दृष्ट्वाऽर्भकान् कृष्णमुखानघासुरःकंसानुशिष्टः स बकीबकानुजः॥ अय तु मे सोदरनाशकृत्तयोर्द्वयोर्ममैनं सबल हनिष्ये॥१४॥ एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः॥ प्राणे गते वर्ष्मसु का नु चिन्ता प्रजाऽसवःप्राणभृतो हि ये ते॥ १५॥ इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रिपीवरम्॥ धृत्वाऽद्भुतंव्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः॥ १६॥ धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः॥ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः॥१७॥
चिन्त्य इत्यर्थः। तत्र हेतुमाह— हि यस्मात् ये प्राणभृतस्ते सर्वेऽपि प्रजा अपत्यानि असवः प्राणाः प्राणतुल्या येषा तथाभूता इति॥ १५॥ तद्वपुरेव विशिनष्टि— बृहदिति। एतदेव स्पष्टयति—स योजनायामेति। योजनप्रमाणेन आयामेन दैर्येण युक्त च तन्महाद्रिवत् पीवर च तदित्यर्थः। व्यात्तं प्रसारितं गुहातुल्यमानन यस्मिंस्तत्। ननु “परमसुकुमारं बालं क्रीडन्तं दृष्ट्वाऽप्येन कृष्णमुद्दिश्य कथं तन्मारणे सङ्कल्पं कृतवान् ?” तत्राह— खल इति। तस्यासुरत्वेन क्रूरस्वभावत्वाद्दयाभावेनैवं सङ्कल्पितवानित्यर्थः॥१६॥ अद्भुतमिति यदुक्तं तत्तदेव दर्शयन्नसुरं विशिनष्टि— धरायाम97धरोष्ठो यस्य सः। जलदेषु उत्तरोष्ठो यस्य सः। दर्याविवाननस्यान्तौ सृक्किणी यस्य सः। गिरेः शृङ्गाणीव दंष्ट्रा यस्य सः।ध्वान्तोऽन्धकारः, तद्युक्तमन्तरास्यं मुखमध्यं यस्य सः। वितताध्ववत् विस्तृतमार्गवत् जिह्वा यस्य सः। परुषानिलवच्छासो यस्य सः। दववदीक्षणयोरुष्णः, दाहकदृष्टिरित्यर्थः। परुषानिलश्वासश्वासौ दवेक्षणोष्णश्च स तथा॥ १७॥
त वस्तुतोऽसुरं तादृशं धृताजगरशरीरमेव ते सर्वे गोपा दृष्टाऽपि भ्रान्त्या ‘वृन्दावनस्य श्रीः सम्पदैव एषा’ इति मत्वा व्यात्ताजगरतुण्डेन प्रसारित सर्पमुखसादृश्येन विशेषत उत्प्रेक्षितवन्तः। तत्र हेतुमाह— लीलयेति। लीलाविष्टचित्तत्वेनेत्याशयः॥१८॥ उत्प्रेक्षामेव प्रश्नोत्तराभ्यामाहुः— अहो इति। सम्मत्यर्थःसम्बोधयन्ति— मित्राणीति। अहो आश्चर्यं पुरःस्थितमिदं सत्त्वकूटं प्राण्याभासमिवास्ति, न वा तत्राप्यस्मत्सङ्ग्रसनाय व्यात्त विदारित यद्व्यालतुण्ड सर्पमुखं तद्वदाचरति न वा तद्गदत॥१९॥ एवं पृष्टाः केचिदाहुः— सत्यमिति। निश्चितं तथैवेत्यर्थः। एवमग्रेऽप्युत्तरं बोध्यम्। अर्ककरैः सूर्यकिरणैः आरक्त धनमुत्तराहनुवदुपरितनोष्ठवत् पश्यत। तस्य रक्तघनस्य च्छायया अरुण रोधो नदीकूलमधरोष्ठवत् पश्यत। ‘पश्यत’ इति क्रियापदमपि सर्वत्रान्वेति॥२०॥ सव्यासव्ये वामदक्षिणयोर्मध्ये वर्तमाने नगोदरे गिरिदर्यौ सृक्किभ्यामोष्ठप्रान्ताभ्या प्रतिस्पर्द्धेते तुल्यतया वर्तेते
दृष्ट्वा तं तादृशं स र्वे मत्वा वृन्दावनश्रियम्॥ व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया॥१८॥ अहो मित्राणि गदत सत्त्वकूटं पुरःस्थितम्॥ अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायतेन वा॥१९॥ सत्यमर्ककरारक्तमुत्तराहनुवद्धनम्॥ अधराहनुवद्रोधस्तत्प्रतिच्छाययाऽरुणम्॥२०॥ प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे॥ तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत॥२१॥ आस्तृतायाममार्गोऽयं रसनां प्रति गर्जति॥ एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम्॥२२॥ दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत॥ तद्वग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत्॥२३॥ अस्मान् किमत्र ग्रसिता निविष्टानयं तथा चेद्बकवद्विनङ्क्ष्यति॥ क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः॥२४॥
इति पश्यत। एतास्तुङ्गाः शृङ्गालयोऽपि तस्याजगरस्य दष्ट्राभिःस्पर्धमानाः पश्यत॥२१॥ अयमास्तृतायाममार्गः विस्तृतो दैर्घ्यवान् मार्गस्तस्य रसनां प्रति गर्जति स्पर्धते। एषा शृङ्गाणामन्तर्गतमेतद्ध्वान्तमन्धकारमपि अन्तराननमाननमध्यं प्रति गर्जति पश्यत॥२२॥ दावाग्निनोष्णः खरोऽयं वातः श्वासवद्भाति पश्यत। तेन दावाग्निना दग्धाना सत्त्वाना योन्तर्गन्धः सोऽपि सर्पस्यान्तर्गतामिषगन्धवद्भाति पश्यत॥२३॥ एवमुक्तास्तेषु एव केचिद्विश्वस्ता आहुः— सत्यमय सर्पस्तथापि किमत्र निविष्टानस्मान् ग्रसिता ग्रसिष्यति चेत्तदा तेन श्रीकृष्णेन हन्त्रा ‘अयमपि बकवत् क्षणादेव विनङ्क्ष्यति’ इति परस्परमुक्त्वा बकारे श्रीकृष्णस्य उशत् अतिकमनीय मुखं वीक्ष्योच्चैर्हसन्तः करताडनैः सह निजनिर्भयत्ववीरत्वादिप्रकाशनाय बाहुस्फोट कुर्वन्त तत्रत्याश्चर्य द्रष्टु ययुरित्यन्वयः। तान् धावतो वत्सा अपि पुच्छानुद्यम्यानुययुरित्यपि ज्ञातव्यम्॥२४॥
अतज्ज्ञानाम् ‘अजगररूपराक्षसोऽयम्’ इति अजानता बालानामित्थमतथ्यमसत्य मिथो भाषितं श्रुत्वा यतोऽखिलभूतहृत्स्थितः सर्वप्राणिनां हृदये स्थितः साक्षी, अतस्तद्रक्षो विदित्वा अमृषा वस्तुतोऽजगररूपधृगसुर एवैषां मृषायते ‘अजगरसदृशवृन्दावनश्रीतया प्रतीयते’ इति विचिन्त्य भगवान् यावत्स्वाना स्वकीयास्तान् निरोद्धु निवारयितु मनो दधे॥२५॥ तावन्ते सवत्साः शिशवः असुरोदरस्य अन्तरे मध्ये परं केवलं प्रविष्टा, नतु तेन रक्षसा गीर्णाः मुखसङ्कोचेन न गिलिताः न निरुद्धा इति द्वयोरन्वयः। ‘जीर्णा’ इति पाठेऽपि स एवार्थः। अगिलने हेतुगर्भविशेषणमाह— प्रतीक्षमाणेनेति। बकारेः श्रीकृष्णस्य वेशन प्रवेशन प्रतीक्षमाणेन। तत्प्रवेशप्रतीक्षायामपि हेतुं सूचयन् विशेषणान्तरमाह— हतेति। हतयोः स्वकीय योर्बकीबकयोरन्त स्मरतीति तथा तेन॥२६॥ श्रीकृष्णस्तान् वत्सान् बालकाश्च दिष्टकृतेन प्रारब्धकृतेन अधासुरमुखप्रवेशेन दीनान् दुःखितान् वीक्ष्य विस्मितः ‘मया निरुद्ध्यमानानामपि प्रारब्धवशेनैव प्रवेश’ इत्याश्चर्ययुक्तः सन् ‘अस्य खलस्य दुष्टस्याघस्य जीवनममीषा सतां मद्भक्ताना विहिंसन मरण च’ इति द्वयं
इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्य मृषामृषायते॥ रक्षो विदित्वाऽखिलभूतहृत्स्थितःस्वानां निरोद्धुं भगवान् मनो दधे॥२५॥ तावत् प्रविष्टास्त्वसुरोदरान्तरं पर न
गीर्णाः शिशवः सवत्साः॥ प्रतीक्षमाणेन बकारिवेशन हतस्वकान्तस्मरणेन रक्षसा॥२६॥ तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान्॥ दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः॥२७॥ कृत्य किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिसनम्॥ द्वय कथं स्यादिति संविचिन्त्य ज्ञात्वाऽविशत्तुण्डमशेषदृग्घरिः॥२८॥
वै निश्चितं कथं न स्यात् मया चात्र किं कृत्यं कि कर्तव्यमिति सविचिन्त्य तत् तदुपायं ज्ञात्वा तस्य तुण्ड मुखमविशदिति द्वयोरन्वयः। एव प्रवेशे हेतुमाह— घृणार्दित इति। कृपया पीडित इत्यर्थः। कृपापात्रत्वेन तान् विशिनष्टि— अनन्यनाथानिति। नान्यः स्वव्यतिरिक्तो नाथो रक्षको येषां तान्। स्वकरात् अवच्युतान् विनिःसृतान्। तत्र हेतुः— मृत्योरघस्य जठराग्नेर्घासान् तृणतुल्यान्। तेषु कृपाया कैमुत्यन्यायमाह— हीति। हि यस्मात् सकलस्य सदाचारनिष्ठस्याभयप्रदः, अतो निजभक्तकृपायां किं वक्तव्यम्?।तत्र हेतुमाह— हरिरिति। आश्रितार्तिहरणशील इत्यर्थः। उपायज्ञाने हेतुमाह— अशेषदृगिति। सर्वज्ञ इत्यर्थः। यदि बहिस्थित एवाघासुर हन्यात्तदा बाला अपि तेन सह मृताः स्युः, तथा च ब्रजे महद्दुःस्वमापतेत्। बालान्तरनिर्माणं कृत्वा ब्रजे नयने कृतेऽपि पूर्वे तु मृता एव, अतस्तद्वक्षार्थ तन्मुखमेव प्राविशदिति भावः॥२७॥
तदा भगवतोऽघमुखप्रवेशकाले तद्भयात् घनच्छदा मेघान्तरिता देवास्तस्यापि मुखप्रवेशं दृष्ट्वा मोहेन विस्मृततत्प्रभावास्तस्यापि ततो मरणमाशङ्क्य, अघस्य मरणे निराशाःसन्तो हाहेति चुक्रुशुः। कस आदिर्मुख्यो नियन्ता येषा ते कौणपाः कुणपाशिनो राक्षसास्तु जहृषुरित्यन्वयः। हर्षे हेत्वन्तरमपि सूचयन्नाह— अघबान्धवा इति। चारैःसद्य एव गत्वा कथनात् कसादीनामपि तज्ज्ञानमिति ज्ञेयम्॥२९॥ तत् ‘हाहा’ इत्याक्रोश श्रुत्वा तु श्रीकृष्णः सार्भकवत्सक बालवत्ससहित आत्मान मुखसवरणमात्रपरिवर्तनादिना चूर्णीचिकीर्षोस्तस्य गले आदावेव तरसा वेगेन झटिति ववृधे इत्यन्वयः। ‘तस्य तु मरणभयं नास्त्येव’ इत्याह— अव्यय इति। अपक्षयशून्य इत्यर्थः। तत्र हेतुमाह— भगवानिति। ऐश्वर्यादिषङगुणपूर्ण इत्यर्थः। तस्य स्वरूपतो गुणतो वा क्षये भगवत्त्वमेव न स्यादिति भावः॥३०॥ ततो हि तस्माद्वर्धनादेव निरुद्धमार्गिणो निरुद्धैः प्राणमार्गःकण्ठो यस्यास्ति तस्य अत एव उद्गीर्णदृष्टेर्बहिर्निर्गतलोचनस्य। तस्य व्याकुलता सूचयन्नाह— इतस्ततो भ्रमतो देह चालयतः। तत्प्राणस्य महत्त्व सूचयन्नाह— अतिकायस्येति।
तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशुः॥ जहृषुर्ये च कंसाद्याःकौणपास्त्वघबान्धवाः॥२९॥ तच्छ्रुत्वा भगवान्कृष्णस्त्वव्ययःसार्भवत्सकम्॥ चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले॥३०॥ ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेर्भमतस्त्वितस्ततः॥ पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः॥३१॥ तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदःपरेतान्॥ दृष्ट्या स्वयोत्थाप्य तदन्वित पुनर्वक्रान्मुकुन्दो भगवान् विनिर्ययौ॥३२॥ पीनाहिभोगोत्थितमद्भुतं महज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश॥ प्रतीक्ष्य स्वेऽवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम्॥३३॥
स्थूलशरीरस्याघस्यान्तरङ्गे देहमध्ये निरुद्धः, अतएव पूर्णः पवनः प्राणवायुर्मूर्धन् मूर्धनि स्थित ब्रह्मरन्ध्र विनिष्पाट्य विनिर्भिद्य बहिर्विनिर्गतः। तुशब्दः सन्देहनिरासार्थः॥३१॥ तेनैव मार्गेण सर्वेषु प्राणेषु इन्द्रियेषु बहिर्गतेषु सत्सु परेतान् स्ववियोगात् तज्जाठराग्निज्वालातश्च मूर्च्छितान् वत्सान् सुहृदो बालाश्च स्वयाऽमृतवर्षिण्या दृष्ट्या चेतनान् कृत्वोत्थाप्य तदन्वितस्तैः सहितो मुकुन्दो वत्सादीनामघात्, तस्य च ससारात् मोचको भगवान् पुनस्तस्य वक्राद्विनिर्ययौ॥३२॥ तदा च पीनः स्थूलो योऽहेर्भोगो देहस्तस्मादुत्थित निःसृत महत् प्रकाशबहुल ज्योति स्वधाम्ना स्वप्रकाशेन दश दिशः ज्वलयत् प्रकाशयत् स्वेऽवस्थित सत् ईशस्य श्रीकृष्णस्य ततो निर्गम प्रतीक्ष्य निर्गते तस्मिन् विवेश। ‘अद्भुत ज्योतिर्दिवौकसा पश्यताम्’ इति पदैर्लोके तन्मुक्तिप्रसिद्ध्यर्थं भगवदिच्छया तदर्शनं जातमिति ज्ञेयम अन्यथा
ततोऽधासुरवधादतिहृष्टाः सुरादयः स्वकृतः ‘तत्कार्य कृतवतः’श्रीकृष्णस्यार्हणं सत्कारमकृत अकुर्वन्। तत्र सुरा देवाः पुष्पैरर्हणम् ‘अकृत’ इति सर्वत्रान्वयः। अप्सरसश्च नर्तनेः। सुष्ठु गायन्तीति सुगाः गन्धर्वादयो गीतैः। वाद्यधरा विद्याधरादयो वाद्यकैः। विप्रा वसिष्ठादयो ऋषयः स्तवैः। गणाः पार्षदाः भक्तजनाश्च जयशब्दैः॥३४॥ किश्च येषां देवादीनामद्भुतस्तोत्राणि च सुवाद्यानि च गीतिकाः सुकुमारा गीतयश्च जयो जयशब्द आदिर्येषा ते, तान् येनैकोत्सवान् नृत्याद्यनेकोत्सवेन जातान् मङ्गलस्वनान् हस्तकिङ्किण्यादिशब्दान् स्वधाम्नः सत्यलोकस्यान्ति समीपे श्रुत्वा अजो ब्रम्हा अलक्षित एवाचिरात् शीघ्रमागतः सन् ईश्वरस्य श्रीकृष्णस्य महिमानमघासुरस्यापि मोक्षप्रदान, मुखप्रवेशेन ततो बालादीना विमोचन च दृष्ट्वा विस्मयं जगामेत्यन्वयः। नच ब्रह्मलोकपर्यन्तशब्दगमनासम्भवो आशङ्कनीयः, स्वमाहात्म्यप्रदर्शनार्थं भगवदिच्छया तत्सम्भवात्॥३५॥ ‘आश्चर्यान्तर शृणु’ इत्या-
ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं पुष्पैः सुरा अप्सरसश्च नर्तनैः॥ गीतैः सुगा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिः स्वनैर्गणाः॥३४॥ तदद्भुतस्तोत्रसुवाद्यगीतिकाजयादिनैकोत्सवमङ्गलस्वनान्॥ श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्दृष्ट्वा महीशस्य जगाम विस्मयम्॥३५॥ राजन्नाजगरं चर्म शुष्क वृन्दावनेऽद्भुतम्॥ ब्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम्॥३६॥ एतत् कौमारजं कर्म हरेरात्माहिमोक्षणम्॥ मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता ब्रजे ॥३७॥ नैतद्विचित्रं मनुजार्भमायिनः परावराणा परमस्य वेधसः॥ अघोऽपि यर्त्स्पशनधौतपातकः प्रापाऽऽत्मसाम्यं त्वसतां सुदुर्लभम्॥३८॥
शयेन सम्बोधयति— राजन्निति। तदद्भुतमाजगर चर्म वृन्दावने शुष्क सत् व्रजौकसा बहुतिथ बहुकालमाक्रीडगव्हर क्रीडार्थे महाबिल बभूवेत्यन्वयः॥३६॥ अग्रिमकथाप्रश्नमुत्थापयन् अन्यदप्याश्वर्यमाह— एतदिति। “कौमार पञ्चमाब्दान्तं पौगण्डं दशमावधिः। कैशोरमापञ्चदशाद्यौवन तु ततः परम्’ इति वचनात् एतद् मृत्योरात्माहिमोक्षण तत्रात्मनां बालादीनां प्रसिद्धात् मृत्योर्मोक्षणमहेरघासुरस्य ज्योतिषः कृष्णे प्रवेशस्य दृष्टत्वात् संसारलक्षणात् मृत्योर्मोक्षण हरेः कौमारजं पञ्चमाब्दकृतं कर्म तदैव दृष्ट्वा पौगण्डके षष्ठेऽब्देऽचैव तत् वृत्तम् इति विस्मिताःसन्तो बाला ब्रजे उच्चुः॥३७॥ ‘अहो! दुष्टस्याप्येवं मुक्तिः’ इत्याश्वर्यं कुर्वन्त प्रत्याह— नैतद्विचित्रमिति द्वाभ्याम्। मनुजार्भमायिनः स्वेच्छया स्वीकृतमनुष्यबालभावस्य, वस्तुतस्तु परमस्य परमेश्वरस्य। तत्र हेतुमाह— परे ब्रह्मादयः, अवरे स्थावरादयः। तेषा वेधस, स्रष्टुर्भगवतः स्पर्शनेन धौतपातको निवृत्तकर्मबन्धनः सन् अघोऽप्य-
सता विषयाविष्टचित्ताना भगवद्विमुखाना सुदुर्लभमपि आत्मसात्म्यं भगवत्समानरूपता यत् प्राप तदेतच्चित्रमाश्चर्यं न भवति। अनेन प्रथम लोके मुक्तिख्यापनाय भगवदिच्छया सायुज्य प्राप्तस्यापि शिशुपालादिवत् पुनःसारूप्यप्राप्तिर्बोध्या॥३८॥ एतदेव कैमुत्यन्यायेन द्रढयति— सकृदिति ‘अङ्ग’ इति सम्बोधन स्नेहसूचकम्। यस्याङ्ग मूर्तिस्तस्य प्रतिकृतिः साऽपि मनोमयी मनसा चिन्तिता, तत्रापि बलादन्तर्हिता हृदये स्थापिता सती प्रन्हादादिभक्तेभ्यो भागवतीं गति मुक्तिं ददौ, स एव परमो भगवान् स्वयं साक्षादेव यस्यान्तर्गतस्तस्य मुक्तौ किं पुनः?किमाश्रर्यमित्यर्थः। तस्य परमेश्वरत्वमेव स्पष्टयति— नित्या चासावात्मसुखानुभूतिश्च तया, नित्यस्वानन्दानुभवेनाभिव्युदस्ता दूरतोऽपसारिता माया येन इति॥३९॥ हे द्विजाः यादवदेवेन श्रीकृष्णेन दत्तः’रातो वोऽनुग्रहार्थाय’ इति प्रथमोक्तेः गर्भे रक्षा कृत्वा युधिष्ठिरादिभ्यो दत्तः परीक्षित् स्वरातुः स्वदातुः स्वरक्षकस्य विचित्र-
सकृद्यदङ्गप्रतिमाऽन्तराहिता मनोमयी भागवतीं ददौ गतिम्॥ स एव नित्यात्मसुखानुभूत्यभिव्युदस्तमायोऽन्तर्गतो हि कि पुनः॥३९॥ सूत उवाच॥ इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरित विचित्रम्॥ पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकि यन्निगृहीतचेताः॥४०॥ राजोवाच॥ ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत्॥ यत् कौमारे हरिकृत जगुः पौगण्डकेऽर्भकाः॥४१॥ तद्ब्रूहि मे महायोगिन परं कौतूहलं गुरो॥नूनमेतद्धरेरेव माया भवति नान्यथा॥४२॥
मघमोक्षादिचरितमित्थं श्रुत्वा भूय पुनरपि तदेव श्रीकृष्णचरित वैयासकि शुक प्रति पप्रच्छेत्यन्वयः। प्रश्ने हेतुमाह— यदिति। येन श्रीकृष्णचरितेन नितरां गृहीतं वशीकृतं चेतो यस्य सः। वशीकारेऽपि हेतुमाह— पुण्यमिति। परमपुण्यजनकं सर्वदुरितनिवर्तकम्॥४०॥ शास्त्ररहस्यज्ञत्व सूचयन् सम्बोधयति— ब्रह्मन्निति। ‘यत् आत्माहिमोक्षलक्षण कर्म कौमारावस्थाया हरिणा कृत, तत् अर्भका बालाः पौगण्डावस्थाया व्रजे जगुः’ इति यद्भवतोक्तं तत् कालान्तरे कौमारे कृतं तत्कालीन पौगण्डकालीन कथ भवेत्?॥४१॥ ‘उत्तरदाने त्व योग्योऽसि’ इति सूचयन् सम्बोधयति— गुरो इति। तत्र सर्वज्ञत्वहेतु सूचयन् पुनःसम्बोधयति— महायोगन्निति। नूनं निश्चितमेव वैपरीत्यकथनस्य कारण हरेर्मायैव भवति, अन्यथा प्रकारान्तरेण तु न घटते, इति यद्यपि सामान्यतो जानामि, तथापि विशेषतस्तत्कारण ब्रूहीत्यन्वय। एतच्छ्रोतुं मम परं कौतूहलं महासुत्साहो वर्तते इति॥४२॥
महता कृपापात्रत्वेन भगवत्कथामृतपानेन च आत्मनः कृतार्थतामाविष्करोति— वयमिति। महत्त्वं सूचयन् सम्बोधयति — हे गुरो इति। ‘राज्ञा कुलं ब्रह्मणा पादशौचादरात् विसृष्टम्’ इति यत् हीनत्वमुक्तं तदेव पुनः सूचयन् आह— क्षअबन्धवोऽपि वय लोके धन्यतमाः कृतार्थाः, यद्यस्मात्पुण्य मोक्षप्रतिबन्धकदुरितनिवर्तक श्रीकृष्णस्य सदानन्दस्वरूपस्य कथारूपममृतं जन्ममरणादिनिवर्तकं त्वत्तः परमकृपालोर्मुहुः वारवार पिबामः॥४३॥ ‘स्म’ इत्यवधारणे। इत्थमेव पृष्टः, अतस्तेन प्रश्नः स्मारितो योऽनन्तः कृष्णस्तेन हृतान्यखिलानि इन्द्रियाणि यस्य सः तदेकाकारचित्तत्वेन निवृत्तसर्वेन्द्रियवृत्तिः कृच्छ्रात् करतालदुन्दुभिशङ्खादिवाद्ययुतस्तोत्रादिप्रयासात् पुनः शनैर्लब्धा बहिर्दृशिः दृष्टिः येन स तु बादरायणिः शुकः हे भागवतोत्तमोत्तम शौनक त राजानं प्रति भगवच्चरितमाह। द्वितीयान्तपाठे तु त भागवताना मध्ये ये उत्तमास्तेष्वप्युत्तम राजानं प्रत्याह।
वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः॥ यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथाऽमृतम्॥४३॥ सूत उवाच॥ इत्थं स्म पृष्टः स तु बादरायणिस्तत्स्मारितानन्तहृताखिलेन्द्रियः॥ कृच्छ्रात् पुनर्लब्धवहिर्दृशिः शनैः प्रत्याहत भागवतोत्तमोत्तम॥४४॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे अघासुरमोक्षनिरूपण नाम द्वादशोऽध्यायः॥१२॥॥छ॥॥ श्रीशुक उवाच॥
साधु पृष्टं महाभाग त्वया भागवतोत्तम॥ यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः॥१॥
॥४४॥ इति श्रीवल्लभाचार्य— वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्ध्ये॥ श्रीमद्भागव तस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ विवृतो द्वादशोऽध्यायो ह्यघमोक्षनिरूपकः॥३॥॥छ॥॥छ॥ त्रयोदशे सरित्तीरे भोजनादि हरेस्तथा॥ वत्सादिहरणं ब्रह्ममोहनादि निरूप्यते॥१॥ राज्ञो भगवत्कथाश्रवणादरातिशयं दृष्ट्वा तस्य भाग्यादिकमभिनन्दति— साध्विति द्वाभ्याम्। हे महाभाग ‘हे भागवतोत्तम’ त्वया साधु पृष्टम्। तत्र महाभागवत्त्वे ज्ञापक भागवतोत्तमत्वम्। अनेकजन्मसञ्चितपुण्यं विना भक्तेरसम्भवात् भक्तेर्ज्ञापकः साधुप्रश्नः, भक्तिविना तदनुपपत्तेः। प्रश्नस्य साधुत्वे हेतुमाह— यदिति। यत् यस्मात् त्वमीशस्य कथां मुहुः शृण्वन्नपि नूतनयसि प्रश्नेन नव्यामिव करोषि॥१॥
‘न वै तच्चित्रम्, भागवताना स्वभावसिद्धत्वात्’ इत्याह— सतामिति। अपिशब्दोऽवधारणे। सतामयमेवः निसर्गः स्वतः सिद्धस्वभावः। ‘कोऽसौ’ इत्यपेक्षायामाह— तेषां समाजे अच्युतस्य अप्रच्युतैश्वर्यादिगुणस्य भगवतो वार्ता प्रतिक्षणं साधु सम्यक् नव्यवद्भवतीति यत् सः। ‘कुतस्तेषां भगवत्कथानूतनकर्तृत्वम्?’ इत्यपेक्षाया ‘तदेकपरत्वात्’ इत्यभिप्रेत्य विशिनष्टि— यदर्थेति। या अच्युतवार्तैव अर्थो विषयो येषां तानि वाणी वाक्, श्रुती श्रोत्रे, चेतोऽन्त करणमेतानि येषां तथाभूतानामित्यर्थः। ‘के ते सन्त’ इत्यपेक्षायामाह— सारभृतामिति। सारग्राहिणाम्। भगवदासक्त्या तत्कथाप्रवर्तकत्वे दृष्टान्तमाह— स्त्रियाइति। विटानां कामुकानां समाजे यथा स्त्रियाः कामिन्या वार्ता नव्यवद्भवति तथेत्यर्थः॥ २॥ एवं प्रश्नादिकं प्रतिनन्द्य त श्रवणे सावधानीकुर्वन् कथनंप्रतिजानीते— शृणुष्वेति। हे राजन्अवहितः सावधानः सन् त्वं शृणुष्व, गुह्यमतिरहस्यमपि ते
सतामयं सारभृतां निसर्गोयदर्थवाणीश्रुतिचेतसामपि॥ प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता॥ २॥ शृणुष्वावहितो राजन् अपि गुह्यं वदामि ते॥ ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत॥ ३॥ तथाऽघवदनान्मृत्यो रक्षित्वा वत्सपालकान्॥ सरित्पुलिनमानीय भगवानिदमत्रवीत्॥४॥ अहोऽतिरम्यं पुलिनं वयस्याःस्वकेलिसम्पन्मृदुलाच्छवालुकम्॥ स्फुटत्सरोगन्धहृतालिपत्रिकध्वनिप्रतिध्वानलसह्रुमाकुलम्॥५॥ अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधा98ऽर्दितैः॥ वत्साःसमीपेऽप पीत्वा चरन्तु शनकैस्तृणम्॥६॥
त्वदर्थं वदामि। तत्कथने तस्य भक्त्यादिहेतु सूचयन् शिष्टाचारमाह— ब्रूयुरिति। ‘उत’ इति एवकारार्थः। स्निग्धस्य स्वस्मिन् भगवति च स्नेहवतः शिष्यस्य गुरवो गुह्यमपि ब्रूयुर्वदन्ति॥३॥ तथोक्तप्रकारेणाघवदनरूपात् मृत्योः सकाशात् भगवान् वत्सान् बालकांश्च रक्षित्वा सरित्पुलिन यमुनातीरमानीयाब्रवीदित्यन्वयः॥४॥ भोजनविधानार्थं तद्योग्यस्थल स्तौति— अहो इति। तेषामपि सम्मतिं सूचयन् सम्बोधयति— वयस्याः इति। इद पुलिनमतिरम्यमतिमनोहरम्, तत्रापि अहो आश्चर्यजनकम्। मनोहरत्वे हेतूनाह— स्वेत्यादि। स्वीयानां केलीनां बहुपङ्कि्तमद्भोजननियुद्धादिक्रीडाना सम्पदो विद्यन्ते यत्र तत्। मृदुला अच्छाः स्वच्छा वालुका यस्मिन् तत्। स्फुटत् विकसत् सरः सरोजबाहुल्येनोपचारतः सर एवविकसदित्युक्तम्, तस्य गन्धेन हृता आकृष्टा ये अलयःपञ्चिणःपक्षिणश्च तेषा के उदके ध्वनयस्तेषां प्रतिध्वानास्तैर्लसन्तो ये द्रुमाःतैराकुल व्याप्तम्॥५॥ क्षुधाऽर्दितैः पीडितैरस्माभिग्त्रैव भोक्तव्यम्। क्षुधापीडाया हेतुमाह— दिवारूढमिति। भोजनवेलातीतेत्यर्थः। वत्साः अप जलं पीत्वा समीपे शनकैस्तृण चरन्तु॥६॥
‘तथास्तु’ इत्युक्त्वा अर्भा गोपबालाः वत्सान् जलं पाययित्वा शाद्वले हरिततृणप्रदेशे आरुध्य संरुध्य शिक्यानि मुक्त्वा मुदा हर्षेण भगवता समं सह बुभुजुरित्यन्वयः॥७॥ कृष्णस्य विष्वक् परितः पुरुराजिमण्डलैः बहुपतिमण्डलैः सह नैरन्तर्येण विपिने उपविष्टा व्रजार्भका रेजुरित्यन्वयः। अभ्याननां भगवतोऽभिमुखान्याननानि येषां ते ‘सर्वतः पाणिपाद तत् सर्वतोऽक्षिशिरोमुखम्’ इति श्रुत्यनुसारेण भगवतैव तेषां कृपया सर्वतोमुख प्रदर्शितमिति ज्ञेयम्। अत एव भगवन्मुखदर्शनेन फुल्लदृशः विकसितनयनाः। ‘बालान्तरपृष्ठत उपविष्टाना भगवत्सम्मुखता न स्यात्’ इत्याशङ्क्य तदुपवेशनप्रकार सदृष्टान्तमाह— यथाऽम्भोरुहकर्णिकायाः सर्वतश्छदाःपत्राणि तिष्ठन्तीति तथेति॥८॥ तद्भोजनभाजनानि निरूपयति—‘केचित्’ इत्यस्य सर्वत्र तृतीयान्तेन सह प्रत्येकं सम्बन्धः। पुष्पादिभिः कृतानि भाजनानि पात्राणि यैस्ते बुभुजुः। दलैस्तुलसीदलादिभिः पल्लवैः आम्रादिपत्रैः यवाद्यङ्कुरैः, त्वग्भिर्भूर्जादिभिः, दृषद्भिः99 पाषाणैः॥९॥ सहेश्वराः श्रीकृष्णसहिताः सर्वे स्वस्वभोज्यस्य स्वस्वगृहादानीतस्यान्नव्यञ्जनादे रुचि स्वादुविशेष पृथक् दर्शयन्तः ‘त्वगृहे
तथेति पाययित्वाऽर्भा वत्सानारुध्य शाद्वले॥ मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा॥७॥ कृष्णस्य विष्वक् पुरुराजिमण्डलैरभ्याननाःफुल्लदृशो व्रजार्भकाः॥ सहोपविष्टा विपिने विरेजुश्छदा यथाऽम्भोरुहकर्णिकायाः॥८॥ केचित्पुष्पैर्दलैःकेचित् पल्लवैरङ्कुरैःफलैः॥ शिग्भिस्त्वग्भिर्दृषद्भिश्व बुभुजुः कृतभाजना॥९॥ सर्वे मिथो दर्शयन्तःस्वस्वभोज्यरुचिं पृथक्॥ हसन्तो हासयन्तश्चाभ्यवजहुः सहेश्वराः॥१०॥ बिभ्रद्वेणुं जठरपटयोःशृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु। तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वै स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलि॥११॥
त्वन्मात्रादयो मूर्खाः, व्यञ्जनादि सम्यक् कर्तुं न जानन्ति’ इत्याद्यनेकविधैर्नर्मवाक्यैर्ह सन्तो हासयन्तश्चाभ्यवजह्रुःबुभुजिरे॥१०॥ ध्यानार्थं तत्कालिक भगवद्रूप विशेषतो वर्णयति— विभ्रद्वेणुमिति। जठरपटयोः उदरवस्त्रयोर्मध्ये वेणुं बिभ्रत् दधत्, वामे कक्षे शृङ्गेवेत्रे व बिभ्रत्, वामे पाणौ मसृण स्निग्ध दध्योदनकवल बिभ्रत् अङ्गुलीषु अङ्गुलिसन्धिषु तत्फलानि भोजनं योग्यानि फलानि बिभ्रत्, अम्भोरुहकर्णिकेव सर्वाभिमुखो मध्ये तिष्ठन् स्वपरित उपविष्टान् सुहृदो वयस्यान् बालान् स्वैर्नर्मभिः परिहासवाक्यैर्हासयन्, स्वर्गे लोके स्वर्गवासिनि जने मिषति आश्वर्येण पश्यति सति बालानामिव केलिर्लीलामात्रं यस्य सः, वस्तुतस्तु यज्ञभुक् यज्ञैराराध्यो भगवान् बुभुजे॥११॥
हे भारत। एवं अच्युते श्रीकृष्ण एवात्मा मनो येषा तेषु वत्सपेषु भुञ्जानेषु सत्सु तृणेन लोभिता वत्सास्त्वन्तरवने वनमध्ये दूर विविशुः॥१२॥ वत्सादर्शनजेन भयेन सन्त्रस्तान् तान् बालान् दृष्ट्वा भीभयमस्य ‘भयहेतुभ्योऽपि भयं त्यक्त्वा’ यद्वाऽस्य विश्वस्य या भीः मृत्युस्तस्यापि भयरूपः ‘भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः। वर्षतीन्द्रो दहत्यग्निर्मृत्युर्भावति पञ्चम’ इति श्रुतेः। कृष्णः ‘हे मित्राणि। आशाद्भोजनात् मा विरमत भोजनविराम मा कुरुत, तानह वत्सकानिहानेष्ये’ इत्यूचे उक्तवान्। अत्र तृतीये पादेऽक्षराधिक्यमार्षम्॥१३॥ इत्युक्त्वा अद्रिषु तद्दरीषु कुञ्जेषु लतापिहितोदरविवरेषु गह्वरेषु सङ्कटस्थानेषु आत्मनो वत्सकान् विचिन्वन् अन्वेषितु सपाणिकवलः पाणौ स्थापितकवलसहित एव भगवान् विष्णुर्ययौ। आत्मपदेन तस्य गोपराजकुमारनाट्येन अन्यवत्सेष्वप्यात्मीयत्वाभिमाननाट्यमपि सूचयति। ‘सपाणिकवल’ इत्यनेन शैध्र्यस्नेहादिकं च सूचितम्॥१४॥ अम्भसो जन्म यस्य
भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु॥ वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः॥१२॥ तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम्॥ मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम्॥१३॥ इत्युक्त्वाऽद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान्॥ विचिन्वन् भगवान् कृष्णःसपाणिकवलो ययौ॥१४॥ अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुर्द्रष्टुं मञ्जुमहित्वमन्यदपि तद्वसत्सानितो वत्सपान्॥ नीत्वाऽन्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा दृष्ट्वाऽघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम्॥१५॥ ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान्॥ उभावपि वने कृष्णो विचिकाय समन्तत॥१६॥
तदम्भोजन्म पद्मम्, तस्माज्जनिर्यस्य स ब्रह्मा, तदन्तरगतः तदा अन्तर तान् हर्तुछिद्र अवसर प्राप्तःसन् स्तस्य भगवतो वत्सान् वत्सपाश्चेतः स्थानादन्यत्र नीत्वा स्वयमन्तरधात् तिरोबभूव। ‘हे कुरूद्वह!‘इति सम्बोधयन् यथा ‘त्वं मोहेन ब्राह्मणपरीक्षाया प्रवृत्तस्तथा सोऽपि’ इति सूचयति। ननु ‘किमर्थमेव कृतवान्?’ तत्राह— मायार्भकस्येति। स्वेच्छया स्वीकृतबालनाट्यस्य, वस्तुतस्तु ईशितुरन्यदपि मञ्जुमहित्व भक्तजनाह्लादकमहिमानं द्रष्टुमित्यर्थः॥ ‘अन्यदपि’ इत्युक्तसूचितं पूर्ववृत्तमाह— य इति। यो ब्रह्मा पुरा प्रथम खे आकाशेऽवस्थितः सन् प्रभवतः श्रीकृष्णात् अघासुरस्यात्यधमस्यापि मोक्षण॥७४॥ दृष्ट्वा पर विस्मयं प्राप्तः॥१५॥ ततोऽद्रिकुञ्जादिषु वत्सानदृष्ट्वा पुलिनमेत्य आगत्य तत्र च वत्सपानप्यदृष्ट्वा पुनःश्रीकृष्णः समन्तत सर्वतो विपिने उभौ वत्सान् वत्सपालाश्च विचिकाय अन्वीक्षितवान्॥१६॥
अन्तर्विपिने वनमध्ये क्वापि वत्सान् वत्सपालाश्चादृष्ट्वा सहसा झटिति सर्व वत्सादिहरणं विधिकृत ब्रह्मणा कृतमवजगाम ज्ञातवान्। ज्ञाने हेतुगर्भविशेषणमाह— विश्वविदिति। ‘ह’ इत्याश्चर्ये। ‘सर्वज्ञोऽपि कथं पूर्वमज्ञवद्विचिकाय’ इत्याश्चर्यम्॥१७॥ यदि तानेव वत्सबालान् स्वशक्त्या आनयेत्तदा हरणप्रयासवैय्यर्थ्यात् कस्य ब्रह्मणो दुर्मनस्कता स्यात्, यदि तु तूष्णीमेवासीत्तदा तन्मातॄणामत्यन्तक्लेशः स्यात्, तत उभयेषां मुदकर्तु कृष्णः आत्मानमुभयायित वत्सरूपेण वत्सपरूपेण च वर्तमान चक्रे। ‘कथमेव कर्तु शक्तः?’ तत्राह— विश्वकृदिति। नहि विश्वकर्तुरेतदनुपपन्नमित्याशयः। तत्र सामर्थ्यमाह— ईश्वर इति॥१८॥ तदेव दर्शयति— यावदिति। जात्यभिप्रायमेकवचनम्। यावत्सङ्ख्याकानि वत्सपानांवत्सानां च अल्पकानि अल्पप्रमाणानि कोमलानि वपूषि, यावत्प्रमाणानि तेषां कराङ्घ्र्यादीनि देहावयवाः, यावन्ति यत्प्रकारकाणि यष्ट्यादीनि, यावन्ति यत्प्रकारकाणि शीलादीनि, तावत्सर्वस्वरूपः सन् अजः श्रीकृष्ण एव बभावित्यन्वयः। ‘कथम्?’ इत्यपेक्षायामाह— ‘सर्व विष्णुमयम्’ इति श्रुतिप्रतीकग्रहणम्। ‘सर्व विष्णुमय जगत्’
क्वाप्यदृष्ट्वाऽन्तर्विपिने वत्सान् पालांश्च विश्ववित्। सर्वं विधिकृत कृष्णः सहसाऽवजगाम ह॥१७॥ ततः कृष्णो मुदं कर्तु तन्मातॄणां च कस्य च॥ उभयायितमात्मान चक्रे विश्वकृदीश्वरः॥१८॥ यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिक यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम्। यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं सर्व विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ॥१९॥ स्वयमात्माऽऽत्मगोवत्सान प्रतिवार्याऽऽत्मवत्सपैः॥ क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम्॥२०॥ तत्तद्वत्सान् पृथङ्गीत्वा तत्तद्गोष्ठे निवेश्य सः॥ तत्तदात्माऽभवद्राजंस्तत्तत्सद्म प्रविष्टवान्॥ २१॥
इति या गीः श्रुतिवाक्यं तस्या अङ्गवत्, सा गीरेवार्थस्वरूपेण प्रत्यक्षा यथा भवति तथा बभावित्यर्थः। दलानि पुष्पपत्राणि शोभार्थं शिरआदिषु धृतानि, विभूषा भूषणानि, अम्बराणि वस्त्राणि, शीलानि स्वतःसिद्धस्वभावाः, गुणाः शिक्षिताः विनयादयः, अभिधा वाणी तत्तन्नामाभिनिवेशो वा, आकृतिराकारः, विहारादिकामित्यादिपदेन मात्रादिषु व्यवहरणं पूर्वाचरितस्मरणादिक च॥१९॥ एव सर्वात्मा सन् व्रजं प्राविशत्। प्रवेशप्रकारमाह— स्वयमेवात्मा प्रयोजकः। आत्मरूपान् गोवत्सानिति कर्म कारकमपि स्वयमेवेत्युक्तम्। आत्मस्वरूपैर्वयस्यैर्वत्सपैः प्रतिवार्येति प्रयोज्यकर्ताऽपि स्वयमेवेत्युक्तम्। आत्मविहारैः क्रीडन्निति क्रीडनरूपा क्रिया तत्साधनानि च स्वयमेवेत्यर्थः॥२०॥ हे राजन्! यत्र यत्र यस्य यस्य गोपबालस्य गृहमार्गों भिन्नस्तत्र तत्र तेन तेन गोपरूपेण तस्य तस्य वत्सान् पृथक् नीत्वा कृत्वा तेषा तेषां गोष्ठे निवेश्य स्वयमपि तेषां तेषा सद्म गृहं प्रविष्टवान्। एव श्रीकृष्णस्तत्तदात्माऽभवत्॥२१॥
गोपीनां मोहमाह— तन्मातर इति। तेषां बालानां मातरो वेणुरवेण वेणुशब्दश्रवणेन त्वरया उत्थिताः सत्यः परं ब्रह्म श्रीकृष्णमेव स्वीकृततत्तद्बालकरूपं स्वसुतात्मकत्वाद्दोर्भिर्भुजैरुत्थाप्य निर्भर स्नेहातिशय यथा भवति तथा परिरभ्य आलिङ्ग्य स्नेहेन स्तुतं स्तन्यं पयः अपाययन्। तासां भाग्यातिशयं द्योतयन्भगवत्पीतं पयो विशिनष्टि— सुधावत् स्वादु, आसवस्तालादिरसस्तद्वत् मादक च। “वत्सचारणार्थं मुक्तस्तना एव बाला गच्छन्ति, स्तनन्धयाना तदर्थ वनगमनासम्भवात् ‘मुक्तस्तनेष्वपेतेषु’ इति वक्ष्यमाणत्वाच्च तथाच मुक्तस्तनेष्वपि बालेषु मातृणामेव स्नेहाधिक्य भगवत्स्वरूपत्वादेव” इति ज्ञेयम्॥२२॥ ततोमातृभिःकृता भगवत्सेवा दर्शयति— तत इति। ‘भगवत्येव भक्तिः, तस्यैव कृपा चाति दुर्लभा एव’ इति सूचयन् सम्बोधयति— नृपेति। यामाना दिवसप्रहाराप्पा यमेन तत्तक्रीडया उपरमेण सायकाले स्वाचरितैःस्वस्याचरितैर्वेणुवादनादिभिर्मातृृःप्रहर्षयन् माधवः स्वीकृततत्तद्बालरूपःश्रीकृष्णः स्वगृह गतः, ततश्च ताभिरुन्मर्दनादिभिरुपलालित सत्कृतो बभूवेत्यर्थः। तत्र प्रथममुन्मर्दन तैलपिष्टादिनोद्वर्तनम्, ततो मज्जः स्नपनम्, ततश्चन्दनादिना
तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम्॥ स्नेहस्नुतस्तन्यपयः सुधासवं मत्वा परं ब्रह्म सुतानपाययन्॥२२॥ ततो नृपोन्मर्दनमज्जलेपनालङ्काररक्षातिलकाशनादिभिः॥ सलालितःस्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः॥२३॥ गावस्ततो गोष्ठमुपेत्य सत्वरं हुंकारघोंषै परिहूतसङ्गतान्॥ स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यःस्रवदौधसं पयः॥२४॥ गोगोपीनां मातृताऽस्मिन् सर्वा स्नेहर्धिकां विना॥ पुरावदाखपि हरेस्तोकता मायया विना॥ २५॥
लेपनम्, अलङ्कारः भूषणवस्त्रादिना, रक्षा गोपुच्छभ्रामणादिना, तिलक गोरोचनादिना, अशन भोजनम्, आदिपदेन शयनम्॥२३॥ गवा मोहमाह— गाव इति। या गावश्चारणार्थ वन गतास्तास्ततः सत्वर गोष्ठमुपेत्य आगत्य हुङ्कारघोषै परिहूतान् आहूतान् सङ्गताश्च स्वकान् स्वकान् वत्सतरान्नवप्रसूताना स्तनन्धयाना चारणार्थ वनगमनासम्भवात् ‘वत्सवत्योऽप्यपाययन्’ इति वक्ष्यमाणत्वाच्च मुक्तस्तनानपि वत्सान् मुहुर्लिहन्त्यःस्रवदौधस पयोऽपाययन् इत्यन्वयः॥२४॥ ‘एतावत्तु वैषम्य श्रीकृष्णस्यापि दुर्वारमासीत्’ इत्याह— गोगोपीनामिति। गवा गोपीना चास्मिन् पुत्रीभूते कृष्णे मातृता उपलालनादिरूपा पुरावत् पूर्वपुत्रेष्विवैवासीत्, किन्तु स्नेहर्द्धिकांविना। स्नेहाधिक्य त्विदानीमस्मिन् विशेषमित्यर्थ। तथा आसु गोगोपीषु हरेस्तोकता बालभावनाऽपि पूर्ववदेवासीत्, किन्तु मायया विना। ‘ममेयं माता, अहमस्या पुत्र’ इति मोहविनेत्यर्थः॥२५॥
स्नेहाधिक्यमेव दर्शयति— व्रजौकसामिति। व्रजौकसा कृष्णे यशोदानन्दने स्वपुत्रेभ्योऽपि स्नेहाधिक्यं पूर्वमासीत्तथेदानीं स्वतोकेषु स्वपुत्रेष्वपि अपूर्ववत्पूर्वतो विलक्षण निःसीम निरवधिक यथा भवति तथा स्नेहवल्ली स्नेहसन्ततिः अन्वह् प्रतिदिन शनैः आब्द सवत्सरपर्यन्त ववृधे। ‘वल्लीयथा शनैरनुदिन वर्धते तथा’ इति सूचयितुं वल्लीपदम्॥२६॥ इत्थमेवमात्मा सर्वात्मा स श्रीकृष्ण एव वत्साना पालाना च मिषेण व्याजमात्रेण वत्सपो भूत्वा आत्मना बालरूपेण आत्मान वत्सरूपिण पालयन् वर्ष संवत्सरपर्यंत वनगोष्ठयोश्चिक्रीडे॥२७॥ एतावत्पर्यन्त रामस्यापि मोह एवासीत्, सवत्सरान्ते तु कथञ्चिज्ञातवान्। तद्दर्शयति— एकदेति। एकदा सरामो रामेण सहितोऽजः श्रीकृष्णः वत्सान् चारयन् वनमाविशत्। अजपदेनैव सर्वंस्वरूपत्वेऽपि तस्याविकारित्वं सूचयति। एकदेति। ‘कदा’ इत्यपेक्षायामाह— पञ्चषासु पञ्चसु वा षट्सु वा त्रियामासु रात्रिषु हायनापूरणीषु हायनस्य सवत्सरस्यापूरकतयाऽव-
व्रजौकसां स्वतोकेषु स्नेहवल्याब्दमन्वहम्॥ शनैर्नि सीम ववृधे यथा कृष्णे त्वपूर्ववत्॥२६॥ इत्थमात्माऽऽत्मनाऽऽत्मान वत्सपालमिषेण सः॥ पालयन् वत्सपो वर्ष चिक्रीडे वनगोष्ठयोः॥२७॥ एकदा चारयन् वत्सान् सरामो वनमाविशत्। पञ्चषासु त्रियामासु हायनापूरणीष्वजः॥२८॥ ततो विदूराच्चरतो गावो वत्सानुपव्रजम्॥ गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम्॥२९॥ दृष्ट्वाऽथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मपदुर्गमार्गः॥ द्विपात् ककुद्रीवदास्यपुच्छोऽगाद्धुकृतैरास्नुपया100 जवेन॥३०॥
शिष्टासु सतीष्वित्यर्थः॥२८॥ तत्र रामेण दृष्टमाचर्यमाह— तत इति सप्तभिः। गोवर्धनपर्वतस्य शिखरे चरन्त्यो गावस्ततो विदूरादेव उपव्रज व्रजसमीपे तृण चरतो वत्सान् ददृशुरित्यन्वयः॥२९॥ दृष्ट्वा101 च अथानन्तरमेव स गोव्रजो गवा समूहस्तत्स्नेहवशस्तेषा वत्साना स्नेहेनाकृष्टः, अत एवास्मृतः विस्मृतः आत्मा देहो येन सः, अत एव अत्यात्मपदुर्गमार्गः अतिक्रान्ता अगणिताः आत्मपाः गोपा दुर्गमार्गः कण्टकादिभ्योऽगम्यप्रदेशश्च येन सः, तथा मुक्ताभ्या पद्भ्या धावन् द्विपवत् प्रतीयमानः, ककुदि आकुञ्चिता ग्रीवा यस्य, उदास्यपुच्छः उन्नमितानि आस्यानि मुखानि पुच्छानि च येन सः, आस्नुपयाः आ सर्वतः स्नुवति पयासि यस्य सः, ‘आस्रुपया’ इति पाठेऽप्ययमेवार्थः। हुकृतैःहुङ्कारशब्दान् कुर्वन् जवेन वेगेनागात् वत्ससमीपं जगामेति॥३०॥
गोवर्धनस्याधोदेशे चरतो वत्सान् समेत्य तेषामङ्गानि गिलन्त्य इव लिहन्त्यो वत्सवत्यः पुनःप्रसूता अपि गावःस्वौधसं पयःअपाययन्॥३१॥ एवं रामेण दृष्ट वत्सेषु गवा स्नेहातिशयमुक्त्वा, तेनैव दृष्ट गोपानामप्यमीषु स्नेहातिशयमाह— गोपा इति। तासां गवा रोधने य आयासःश्रमस्तस्य मौघ्यंनिष्फलत्व तेन जातया लज्जया सह य उरुर्मन्युस्तेन दुर्गमार्गजनितक्लेशेन च युक्ता गोपा अभ्येत्य आगत्य गोवत्सैः सह सुतान् ददशुः॥३२॥ ततश्च तेषामीक्षणेनोद्भूतो यः प्रेमरसस्तस्मिन्नाप्लुता निमग्नाः आशयाः अन्तःकरणानि येषा ते यद्यपि लज्जामन्युकृच्छ्रैस्तान् बालकान् ‘कुतो वत्सान् गवासमक्षमानयन्ति? येन ता एवमुपद्रव कुर्वन्ति’ इत्यभिप्रायेण ताडयितुमागतास्तथापि गत मन्यवः, प्रत्युत जातोऽनुरागो येषा तथाभूताः सन्तस्तानर्भकान् दोर्भिरुदुह्य उत्थाप्य परिरभ्य आश्लिष्य तेषा मूर्ध्नि घ्राणैरवघ्राणैःपरमा मुदमवापुरित्यन्वयः॥३३॥ ततश्च ते गोपाः कृच्छ्रात्मनोनिरोध-
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन्॥ गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधस पय॥३१॥ गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना॥ दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान्॥३२॥ तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान्॥ उदुह्य दोर्भि परिरभ्य मूर्धनि प्राणैरवापुःपरमां मुद ते॥३३॥ ततः प्रवयसो गोपास्ताकाश्लेषसुनिर्वृताः॥ कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः॥३४॥ ब्रजस्य रामःप्रेमर्दे्धर्वीक्ष्यौत्कण्ठ्यमनुक्षणम्।मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत्॥३५॥ किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि॥ ब्रजस्य सात्मनस्तोकेष्व पूर्व प्रेम वर्धते॥३६॥
कष्टात् ततः शनैरपगताः। कष्टे हेतुमाह— तोकाना बालानामाश्लेषेण सुनिर्वृता इति। तत्र चिह्नमाह— तेषा सुतानामनुस्मृत्या उद्गच्छन्ति अश्रूणि येषा ते इति। ‘यद्यपि वृद्धाना विवेकित्वेन एवमत्यन्तमोहो न सम्भवति, तथापि भगवद्रूपत्वाद्वस्तुमहिम्ना तेषामपि स जात’ इत्याशयेनाह— प्रवयस इति॥३४॥ मुक्तस्तनेषु अपि अपत्येषु बालवत्सेषु व्रजस्य गोपीगवादेरनुक्षण प्रेमर्द्धे औत्कण्ठ्य वीक्ष्य अहेतुवित् तत्र हेतुमजानन् रामोऽचिन्तयत्॥३५॥ चिन्तामेवाह— किमेतदिति द्वाभ्याम्। वासुदेवे श्रीकृष्णे यथा सर्वस्य प्रेमासीत्तथा सात्मनो मत्सहितस्य व्रजस्य गोपगिवादेस्तोकेषु स्वापत्येषु अपूर्व पूर्वमविद्यमान प्रेम वर्द्धते, तदेतदद्भुतमाश्चर्य किमित्यन्वय। भगवतःसर्वप्रेमविषयत्वे सर्वात्मत्वे हेतुमाहु—
इयं माया का कुतो वा आयाता!किंशब्दार्थमेव स्पष्टयन् विकल्पयति— किं दैवी देवप्रयुक्ता? अथवा नारी नरैः प्रयुक्ता? उत अथवा आसुरी असुरैः प्रयुक्ता? प्रायशः इय माया मम भर्तुः स्वामिनः श्रीकृष्णस्यैवास्तु। एवमेव सम्भवति। सम्भावनाया लोट्। अन्या माया न सम्भवति, यतो मे ममापि विमोहिनी॥३७॥ स दाशार्होबलभद्र इति सञ्चिन्त्य वयुनेन ज्ञानमयेन चक्षुषा सर्वान् वत्सान् सवयसानपि102समानवयस्कान् गोपाश्च वैकुण्ठं श्रीकृष्णमेवाचष्ट अपश्यत्॥३८॥ ‘एवं सर्वान् श्रीकृष्णरूपान् दृष्ट्वा तत्कारणं जिज्ञासुः श्रीकृष्णमेव पृष्ट्वा तदुपदेशेन सर्व ज्ञातवान्’ इत्याह— नैते इति। वत्सपाः देवाशास्तत्पाल्यमाना वत्साश्च ऋषीणामंशा इत्यह जानामि। तत्रैवं भिदाश्रयेऽपि भेदविषयेऽपि इदानीमेते सुरेशा ऋषयश्च न भवन्ति, किन्तु त्वमेव सर्वमसि। ‘तत्र तव सामर्थ्ये तु न सन्देहः’ इत्याशयेन सम्बोधयति— ईशेति। ‘परन्तु कथमेतद्वृत्तं तत् पृथक् विविच्यत्व वद’ इत्युक्तेन बलभद्रपृष्टेन प्रभुणा श्रीकृष्णेन निगमात् सङ्क्षेपात् उक्त वृत्त ब्रह्ममोहनाद्युक्त सर्वमुपधारणं बलः अवैत् ज्ञातवान् इत्यर्थः॥३९॥ इदानीं ब्रह्मणो मोहप्रकारमाह—
केयं वा कुत आयाता दैवी वा नार्युतासुरी॥ प्रायो मायाऽस्तु मे भर्तुर्नान्या मेऽपि विमोहिनी॥३७॥ इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि102॥ सर्वानाचष्ट वैकुण्ठ चक्षुषा वयुनेन सः॥३८॥ नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि। सर्वं पृथक् त्वं निगमात् कथं वदेत्युक्तेन वृत्तं प्रभुणा बलोऽवैत्॥ ३९॥ तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा॥ पुरोवदब्दं क्रीडन्तं ददृशे सकल हरिम्॥४०॥ यावन्तो गोकुले बालाः सवत्साः सर्व एव हि॥ मायाशये शयाना मे नाद्यापि पुनरुत्थिताः॥४१॥ इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे॥ तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम्॥४२॥
तावदिति। तावत् वर्षे जातेऽप्यात्मनः स्वस्य मानेन त्रुट्यनेहसा त्रुटिमात्रकालेन शीघ्रमेत्य आगत्य स्वयम्भूर्ब्रह्मा सकलं वत्सपालादिसर्वरूपं हरिं पुरोवत् हरणात् प्राग्वत् प्रथमवत् अब्दपर्यन्त क्रीडन्तं ददृशे॥४०॥ दृष्ट्वाच तर्कितवांस्तदाह— यावन्त इति। गोकुले यावन्तो बालास्ते सर्वे एव सवत्सा ‘अतः स्थानान्मयाऽन्यत्र नीता’ इति शेषः। हि निश्चितम् अत्र सन्देहो नास्ति। ते मे मायापाशे शयाना मन्मायामोहिताः अद्यापि पुनर्नोत्थिताः न सावधाना जाता॥४१॥ अतो मन्मायामोहितेभ्यः इतरे तावन्त एवः तत्रापि आब्दं वर्षपर्यन्त विष्णुना समं कृष्णेन सह क्रीडन्तोऽत्र एते कुत्रत्याः कुत आगता इत्यन्वयः॥४२॥
‘एवं वितर्कयन् स्वयमेव मोहं प्राप्त’ इत्याह— एवमिति द्वयेन। एतेषु बालवत्सादिषु भेदेषु उभयविधेषु एवं चिरं ध्यात्वाऽपि स सकलजगत्स्रष्टृत्वेन प्रसिद्धोऽपि आत्मभूः आत्मनो भगवतो भवतीति तथा तत्पुत्रोऽपि ब्रह्मा “सत्याः पूर्वसिद्धाः के? मया नीतास्ते चात्रत्या वा। कतरे न? इदानीं सृष्टाः के ये मया नीतास्ते वा अत्रत्या वा” इति ज्ञातु निश्चेतु कथञ्चनापि नेष्टे न शशाक॥४३॥ एवं विष्णु सम्मोहयन् सम्मोहितु प्रवृत्तोऽजो ब्रह्माऽपि॥७७॥ स्वयैव मायया स्वयमेव विमोहितः। तत्र हेतुद्वयमाह— विमोहमिति। सर्वदा मोहरहितमित्यर्थः। विश्वमोहन चेति॥४४॥ ननु ‘ब्रह्मणो माया स्वाश्रयस्य तस्यैव कथ व्यामोहिका जाता?” इत्याशङ्कय ‘युक्त चैतत्’ इति दृष्टान्तमाह— तम्यामिति। तमिस्रा रात्रिस्तमी, तस्यां नैहार नीहारकणप्रभव तमोवत् तद्यथा दिवसे प्रभवति चेत्तदा लोकव्यामोह करोति, रात्रौ तु रात्रितमसा सह घनीभूय स्वाश्रयनीहारमेवाच्छादयति, लोकावरणं तु रात्रिमसैव सिद्धम्। अतो न तत्र किञ्चिदपि कर्तु शक्नोति। यथा वा स्वद्योतस्यार्चिः प्रभा रात्रौ प्रकाश कुर्वन्त्यपि दिवसे तु पृथगुद्भवितुमेव न शक्नोति,
एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः॥ सत्या के कतरे नेति ज्ञातु नेष्टे कथञ्चन॥४३॥
एवं सम्मोहयन् विष्णु विमोह विश्वमोहनम्॥ स्वयैव माययाऽजोऽपि स्वयमेव विमोहितः॥४४॥
तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि॥ महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः॥४५॥
तावत् सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात्॥ व्यदृश्यन्त घनश्यामा पीतकौशेयवासस॥४६॥
चतुर्भुजाः शङ्खचक्र-गदाराजीवपाणयः॥ किरीटिन कुण्डलिनो हारिणो वनमालिनः॥४७॥
किन्तु सौर्या प्रभाया लीना सती प्रत्युत स्वाश्रयं खद्योतमेव भ्रष्टतेजस्क ज्ञापयति। एव महति पुरुषे स्वमाया युञ्जतो निकृष्टस्य पुसः इतरा नीचा माया तत्र न किञ्चित् कर्तुं शक्नोति, प्रत्युतात्मनि मायाविन्येव ऐश्य विद्यमान सामर्थ्यं निहन्ति। प्रह्लादाम्बरीषादौ मायाप्रयोक्तुर्हिरण्यकशिपुदुर्वासःप्रभूतेस्तथैव दर्शनात्॥ तथाच मायाविनामपि मायिनि श्रीकृष्णे प्रयुक्ता ब्रह्ममाया तत्र कि कुर्यात्? कथ वा ब्रह्मणस्तिरस्कार न कुर्यादिति भावः॥४५॥ ‘एवं चिन्ताकुलिते ब्रह्माणि भगवान् स्वरूप प्रदर्शितवान्’ इत्याह— तावदिति। यावदय विचारयति, तावदेवास्य ब्रह्मणः पश्यत एव सतस्तत्क्षणमविलम्बेनैव वत्साः पालाश्च सर्वे यष्टिवेण्वादयश्च भगवद्रूपा व्यद्दश्यन्त, तद्वर्णयति— धनवच्छ्यामाः,। पीते कौशेये वाससी येषा ते॥४६॥ ‘व्यदृश्यन्त’ इत्यस्यैव क्रियापदस्याष्टस्वपि श्लोकेषु सम्बन्धः। प्रत्येक चत्वारो भुजा येषा ते। शङ्खादीनि प्रत्येक पाणिषु येषा ते, तत्र राजीव कमलम्। ते सर्वे किरीटिन किरीटाभरणयुक्ता। एवमग्रेऽपि॥४७॥
श्रीवत्सो वक्षसि दक्षिणावतेरोमरेखाविशेषः, तत्प्रभायुक्तान्यङ्गदानि दोःषु येषां ते। रत्नमयानि कम्बुवत्त्रिधाराणि कङ्कणानि पाणिषु येषां ते च ते च। तथा नूपुरादिभिराभाताः शोभमानाः॥४८॥ सर्वगात्रेषु भूरिपुण्यवद्भिः बहुजन्मोपार्जितपुण्यवद्भिर्भक्तजनैरर्पितैः कोमलैस्तुलसीनवदामभिराङ्घ्रिमस्तक चरणमारभ्य मस्तकपर्यन्तमासमन्तात् पूर्णाः॥४९॥ चन्द्रिकावद्विशदाः स्मेरा मन्दहासास्तैः सत्त्वगुणेन स्वकानां भक्ताना येऽर्था मनोरथास्तेषा पालका इव, तथा अरुणापाङ्गवीक्षितैश्च रजसा गुणेन तेषा मनोरथाना स्रष्टार इव च॥५०॥ आत्मा ब्रह्मा, स्तम्बस्तृणविशेषः, ब्रह्मादितृणपर्यन्तैमूर्तिमद्भिश्चराचरैः प्राणिभिः स्वस्वाधिकारभेदेन नृत्यगीताद्यनेकार्हैःअनेकैरर्हणसाधनैः पृथक् पृथगुपासिताः॥५१॥ ‘अणिमाद्यैर्महिमभिः, अष्टश्वर्यैः मूर्तिमद्भिः’ इति सर्वत्र ज्ञेयम्। अजाद्याभिर्मायाविद्यादिभिर्विभूतिभिः शक्तिभिः चतुर्विंशतिभिस्तत्त्वैर्जगत्कारणैर्महदादिभिश्च परीताःसेविताः “महत्तत्त्व, सूत्रम्, अहङ्कारः, मनः, पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि पञ्च महाभूतानि पञ्च तन्मात्राणि च” इति चतुर्विंशतितत्त्वानि॥५२॥
श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः। नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकै॥४८॥ आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः॥कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः॥४९॥ चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः॥ स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः॥५०॥ आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः॥ नृत्यगीताद्यनेकार्हैः पृथक्पृथगुपासिताः॥५१॥ अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः॥ चतुर्विंशतिभिस्तत्त्वैःपरीता महदादिभिः ॥५२॥ कालस्वभावसंस्कारकामकर्मगुणादिभिः॥ स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः॥५३॥ सत्यज्ञानानन्तानन्दमात्रैकरसर्मूतयः॥ अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषदृृशाम्॥५४॥
कालादिभिश्व मूर्तिमद्भिरुपासिताः। तत्र कालो गुणक्षोभकः, स्वभावः परिणामहेतुः, सस्कारः कामोद्बोधकः, कामश्च भोगेच्छा, कर्म लौकिकवैदिक व्यापारम्, गुणाः सत्त्वादयः उपादानम्, आदिपदेन जात्यादिग्रहणम्॥ स्वमहिध्वस्तमहिभिः इति। भगवन्महिम्ना तिरस्कृतस्वातन्त्र्यैरित्यर्थः॥५३॥ एव सर्वेषा मूर्तिमत्त्वेऽप्युपास्यमूर्तीना विशेषमाह— सत्येति। सत्य परमार्थभूतम्, ज्ञान चैतन्यरूपम्, अनन्तमविनाशि, आनन्दरूपम्, प्राकृतसम्बन्धनिरासार्थं मात्रपदम्, सर्वदैकरूपताप्रतिपादनार्थमेकरसपदम्। सत्यज्ञानादिमात्रैकरस यद्ब्रह्मतदेव मूर्तिर्येषा ते। अत एव भक्तिहीनानां केवलमुपनिषत्सु दृग् येषा तेषामपि अस्पृष्टं स्पर्शायोग्य भूरि माहात्म्य येषा तथाभूता। “भक्त्याऽहमेकया ग्राह्यः” “भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः” इत्यादि प्रमाणं सूचयितुमाह— हीति। एवं दुर्लभदर्शनत्वेऽपि भगवदिच्छया व्यदृश्यन्त॥५४॥
यस्य परब्रह्मात्मनो भासा प्रकाशेनेदं सचराचरं विश्वं बिभाति, अखिलान् वत्सवत्सपालादीन् सकृत् एकदैव अजो ब्रह्मा एवमुक्तप्रकारेण ददर्शेत्यन्वयः॥५५॥ अतिकुतुकेन अत्याश्चर्येण उद्वृत्य दृष्टीः परावृत्य, कुतुकशब्दे च तृतीयायाश्छान्दसो लुक्। ‘कुतुकोद्वृत्तः’ इति पाठान्तरे तु कुतुकेन उद्वृत्तक्षुभितः। तथा तेषां भगवद्विग्रहाणा धाम्ना तेजसा स्तिमितानि स्तब्धानि एकादशेन्द्रियाणि यस्य सः अजो ब्रह्मा तूष्णीमभूत् किमपि वक्तुमसमर्थोऽभूत्, निश्चलोऽभूदिति वाऽर्थः। तत्र दृष्टान्तमाह— पूर्देव्येति। पूर्देवी व्रजाधिष्ठात्री काचिद्देवता, तस्या अन्ति समीपे पुत्रिका चतुर्मुखी कृत्रिमप्रतिमा यथा तथेत्यर्थः॥५६॥ ‘एव मोहमनं ब्रह्माण भगवान् कृपया उज्जहार’ इत्याह— इतीति। इत्येव दृष्ट्वाइरेशे इरा सरस्वती, तस्या ईशे भर्तरि ब्रह्मणि ‘किमिद दृश्यते’ इति मुह्यति सति पश्चात्तद्रष्टुमप्यनीशे असमर्थे च सति परमोऽजः श्रीकृष्णस्तस्य मोहादिक्लेश ज्ञात्वा ‘अयं लोकाभिमानी ममैश्वर्यं द्रष्टुमयोग्य’ इति कृत्वा सपदि झटिति तस्योपरि अजाजवनिका मायारूपा तिरस्करिणीं चछाद प्रसारितवान्। अनेन ‘स्वैश्वर्यदर्शनार्थं पूर्वं भग-
एव सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान्॥ यस्य भासा सर्वमिद विभाति सचराचरम्॥५५॥ ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः॥ तद्धाम्नाऽभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका॥५६॥ इतीरेशेऽतर्क्येनिजमहिमनि स्वप्रमितिके परत्राजातोऽतन्निरसनमुखत्रह्मकमितौ॥ अनीशेऽपि द्रष्टुकिमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम॥५७॥ ततोऽर्वाक्प्रतिलब्धाक्ष कः परेतवदुत्थितः॥ कृच्छ्रादुन्मील्य वै दृष्टीराचदं सहाऽऽत्मना॥५८॥
वता स्वमाया प्रसारिता, अन्यथा तद्दर्शन न स्यात्’ इति ज्ञेयम्। ‘क्व मोहः को वा मोहे हेतुः’ इत्यपेक्षायामाह— अतर्क्य इति। तर्कागोचरे भगवत्ति इत्यर्थः। तत्र हेतुमाह— निजमहिमनीति। निजः असाधारणो महिमा यस्य तस्मिन् इत्यर्थः। दर्शनायोग्यत्वे हेतुमाह— स्वप्रमिति के इति। स्वप्रमितिः स्वप्रकाश च तत् क सुख च तस्मिन् स्वप्रकाशसुखरूपे इत्यर्थः। तत्र हेतुमाह— अजातः प्रकृतेः परत्र परस्मिन्निति। ‘एवभूते किप्रमाणम्?’ इत्यपेक्षायामाह— अतदिति। अतन्निरसनमुखेन ‘अथात आदेशो’ ‘नेति नेति’ ‘अस्थूलमनण्वह्रस्वम्’ इत्येव ब्रह्मव्यतिरिक्तनिरासप्रकारेण ब्रह्मकैः श्रुतिशिरोभिर्मितिर्ज्ञान यस्मिस्तस्मिन्नित्यर्थः॥५७॥ ततो मायाप्रसारणानन्तर अर्वाक् बहिः प्रतिलब्धानि अक्षाणि इन्द्रियाणि येनसःको ब्रह्मा परेतवत् मृतो यथा कथञ्चित् पुनरुतिष्ठेत् तथोत्थितः, कृच्छाच्छनैर्दृष्टीर्नेत्राणि उन्मील्यात्मनाऽहङ्कारास्पदेन देहादिना सन्देहं ममकारास्पदं विश्वमचष्ट अपश्यत्॥५८॥
तत्तः सपद्येवाभितः सर्वतः सर्वा दिशः पश्यन् जनानामाजीव्या जीविकारूपा ये द्रुमास्तैराकीर्ण व्याप्तम्, समाप्रियं सन्ततानि आसमन्तात प्रियाणि वस्तूनि यत्र तद्वृन्दावनं पुरतः स्थितमपश्यदित्यन्वयः॥५९॥ समाप्रियत्वे हेतु सूचयन् वृन्दावन वर्णयति— यत्रेति। यत्र वृन्दावने नैसर्गदुर्वैराः स्वाभाविकप्रतिकार्यवैरवन्तोऽपि नरव्याघ्रादयः आदिपदेन अहि-नकुलादयो मूषक-मार्जारादयश्च मित्राणीव सहैवासन्नित्यन्वयः। ननु ‘कथमेव स्वाभाविकवैरत्यागः?’ इत्यपेक्षाया ‘वैर हि कामक्रोधभयादिभिर्भवति, ते च सर्वे तत्रत्याना भगवन्महिम्ना निवृत्ताः। अतःकारणाद्वैरं कथ स्यात्?‘इति सूचयन्नाह— अजितेति। अजितस्य वशीकृतकालकर्मस्वभावादेः श्रीकृष्णस्य आवासेन द्रुताः पलायिता रुट्तर्षादयः कोधलोभादयः आदिपदेन भयादयश्च यस्मात्, तथाभूतं वृन्दावनमपश्यदित्यन्वयः॥६०॥ ‘ततश्च तत्र पूर्ववच्छ्रीकृष्ण दृष्टवान् इत्याह— तत्रेति। तत्र वृन्दावने परमेष्ठी ब्रह्मा पुरेव पूर्ववदेव पशुपवंशशिशुत्वनाटयं नन्दपुत्रत्वानुकरणमुद्वहत् दधत् ब्रह्म अचष्ट अपश्यत। नाट्यमेव स्पष्टयति— अद्वयमित्यादिना। अद्वय च वत्सान् विचिन्वत्।
सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम्॥ वृन्दावन जनाजीव्यद्रुमाकीर्णं समाप्रियम्॥५९॥ यत्र नैसर्गदुवैराः सहासन्नृमृगादयः॥ मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम्॥६०॥ तत्रोद्वहत पशुपवशशिशुत्वनाट्य ब्रह्माद्वय परमनन्तमगाधबोधम्॥ वत्सान् सखीनिव पुरा परितो विचिन्वदेक सपाणिकवलं परमेष्ट्यचष्ट॥६१॥ दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवानिपात्य॥ स्पृष्ट्वा चर्तुर्मुकुटकोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम्॥ ६२॥
अद्वयस्य विजातीयभेदशून्यत्वेन विजातीयवत्सान्वेषण नाट्यविना न सङ्गच्छते॥ तथा एक सखीन् विचिन्वदिति। एकस्य सजातीयभेदशून्यस्य सजातीयसख्यन्वेषणमपि नाट्यमन्तरेण न सङ्गच्छते॥ तथाऽगाधबोधमपि विचिन्वदिति। अगाधबोधस्य सर्वज्ञस्य अज्ञकार्यमन्वेषणमपि नाट्यमन्तरेण न सङ्गच्छते॥ तथाऽनन्तं च परितो विचिन्वदिति। अनन्तस्य देशकालपरिच्छेदरहितस्य देशान्तरगमनेनान्वेषणमपि नाट्यमन्तरेण न सङ्गच्छते॥ तथा पर च शिशुत्वमुद्वहदिति। परमेश्वरस्य गोपपुत्रत्वमपि नाट्यविना न सङ्गच्छते॥ तथा ब्रह्म च सपाणिकवलमिति। ब्रह्मणोऽ पाणिपादस्य पाणिकबलमपि नाट्यविना न सङ्गच्छते॥ अतो गोपपुत्रत्वादिकं सर्व नादथमेवेत्यर्थः॥६१॥ एव दृष्ट्वा च त्वरेण वेगेन निजधारणतः स्ववाहाद्धसादवतीर्य पृथ्व्या कनकदण्डवद्वपुरनिपात्य नत्वा परिवर्तनेन चतुर्णा मुकुटाना कोटिभिरयैः तदङ्घ्रियुग्मैः स्पृष्ट्वा मुदश्रुसुजलैः आनन्दानुरूपैः सुजलैस्तत्पादयोरभिषेकमकरोदित्यन्वयः॥ ६२॥
प्राग्दृष्ट कृष्णस्य महित्वं महिमानं स्मृत्वा स्मृत्वा पुनः पुनः उत्थायोत्थाय चिरस्य चिरकालं पादयोः पतन्नास्ते स्म इत्यन्वयः॥६३॥ अथानन्तरमुत्थाय अश्रुपरिपूरितनेत्रस्य सम्यग्दर्शनाशक्तेस्तस्याष्टलोचनत्वेऽपि दर्शनोपयुक्ते सन्मुखस्थे हे लोचने विमृज्य मुकुन्द मुक्तिदातार कृष्णमुद्वीक्ष्य सम्यग् दृष्ट्वा लज्जया विशेषेण नम्रा कन्धरा यस्य सः, आदरेण कृतःसंयोजितः अञ्जलिर्येन सः, प्रश्रयवान् विनयवान्, भयेन सवेपथुः सञ्जातकम्पः, तथापि समाहितः स्वशक्त्यनुरूपं मनःसमाधानं कृत्वा गद्गदया स्खलिताक्षरया इलया वाण्या ऐलत अस्तौत्॥६४॥ इति श्रीवल्लभाचार्य— वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ त्रयोदशो गतो ज्ञप्ति ब्रह्ममोहनरूपकः॥३॥ सञ्जातेश्वरज्ञानेन ब्रह्मणा हरिसंस्तुतिः॥ कृष्ण स्नेहोपपत्तिश्च
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन्। आस्ते महित्व प्राग्दृष्ट स्मृत्वा स्मृत्वा पुनः पुनः॥६३॥ शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः॥ कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर्गद्गदयैलतेलया॥६४॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधप्रकरणे ब्रह्ममोहनिरूपण नाम त्रयोदशोऽध्यायः॥१३॥॥छ॥॥छ॥ ब्रह्मोवाच॥ नौमीड्य103 तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय॥ वन्यस्रजे कवलवेत्रविषाणवेणुलक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय॥१॥
चतुर्दशे निरूप्यते॥१॥ तत्र भगवत्प्रभावं दृष्ट्वानष्टगर्वो ब्रह्मा दृष्टस्वरूप एव भगवति लब्धभक्तिस्तत्प्राप्त्यर्थं तमेव स्तौति— नौमीति। ‘नौमि’इत्युक्त्या प्रकरणागतस्य भगवतः कर्मत्वम्। त्वा नौमि, स्तौमीत्यर्थः। ननु ’ प्रयोजनविना न कोऽपि कुत्रापि प्रवर्तते, अतस्तव स्तुतौ प्रवृत्तौ कि प्रयोजनम्?’ इत्येपक्षायामाह— ते इति। ते तुभ्यमिति तादर्थे चतुर्थी। त्वत्प्राप्त्यर्थत्वा स्तौमीत्यर्थः। ननु ‘अन्य सर्वप्राप्ति विहाय मत्प्राप्तिरेव तव कुत इष्टा?’ तत्राह— हे ईड्येति। यतोऽस्मदादिभिः सर्वैरपि त्वमेव ईड्य स्तुत्यः परमानन्दरूपत्वात्, अतःप्राप्तियोग्यत्वात्तवैव प्राप्तिरिष्टेति भावः। ‘ममाप्यनन्तरूपत्वात् कथभूत मा प्राप्तुमिच्छसि’ इत्यपेक्षाया ‘श्रीकृष्णमूर्तिमेव त्वाप्राप्तुमिच्छे’ इत्यभिप्रेत्य तद्विशेषणान्याह— अभ्रवपुषे इत्यादिना। अभ्र-
वत् श्याम वपुः यस्य तस्मै। तडिद्वत् पीते देदीप्यमाने अम्बरे यस्य तस्मै। गुञ्जाभिः गुञ्जाफलैः रचितौ अवतंसौ कर्णभूषणे, परिपिच्छं बर्हापीडं तैर्लसत् शोभमानं मुखं यस्य तस्मै। वन्याः वनपुष्पपत्रमय्य स्रजो यस्य तस्मै। पूर्वोक्तरीत्या वामे पाणौ दध्योदनकवलः, वामे कक्षे वेत्रविषाणे, जठरपटयोः सन्धौ वेणुः, एतान्येव यानि लक्ष्माणि चिह्नानि तैःश्री शोभा यस्य तस्मै। मृदू पादौ यस्य तस्मै। पशुपस्य104 श्रीनन्दस्य अङ्गजः पुत्रः तस्मै॥१॥ एव स्तुतिकरण प्रतिज्ञाय स्तुतिर्हि महिमवर्णनरूपा भवति, भगवतस्तु दुर्ज्ञेयमहिमत्वेन तत्करणमशक्य मत्वा दुर्ज्ञेयमहिमत्वेनैव स्तौति— अस्यापीति। दुर्ज्ञेयमहिमत्वे हेतु सूचयन् सम्बोधयति— हे देव! अस्यापि भूतमयस्य विराड्रूपस्य स्वेच्छामयस्य ‘क्रीडार्थमात्मन इद त्रिजगत्कृतम्’ इति वाक्यात स्वक्रीडार्थे स्वेच्छया प्रकटितस्य मदनुग्रहस्य मम ब्रम्हाण्डविग्रहस्य जीवस्यानुग्रहो भोगसम्पत्तिःयेन तस्य तव वपुषः कोऽपि को ब्रह्माऽहमपि आन्तरेण अन्तर्मुखीकृतेनापि मनसा महि महिमानमवसितु ज्ञातु नेशे न समर्थः। तदा तु साक्षात् आत्मसुखानुभूतेःआत्मपदेन
अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि॥ नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुताऽऽत्मसुखानुभूते॥२॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरिता भवदीयवार्ताम्॥ स्थाने स्थिताःश्रुतिगतां तनुवाङ्मनोभिर्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम्॥३॥ श्रेयः स्रुति भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये॥ तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम्॥४॥
सत्ता, सच्चिदानन्दात्मकस्यैव तव महिमानमवसितु नेशे इति तु किमुत? किमु वक्तव्यमित्यर्थः॥२॥ ननु ‘यदि त्वमेव न जानासि तदाऽन्येपि नैव जानन्ति’ इत्यर्थादागतम्, तर्हि “तमेव विदित्वाऽतिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय’ इति श्रुतेरज्ञाना कथ ससारात् मोक्ष’ इत्यत आह— ज्ञाने इति। ज्ञाने ज्ञाननिमित्तं प्रयास श्रममुदपास्य दूरतस्त्यक्त्वा स्थाने ‘सता निवासस्थाने’ स्थिताःसद्भिर्भगवद्भक्तैः मुखरिता स्वभावत एव नित्य प्रकटिता श्रुतिगता श्रवण प्राप्ता भवदीया वार्ता कथा ये तनुवाङ्मनोभिर्नमन्तः सत्कुर्वंत एव जीवन्ति, हे अजित! कालकर्मादिभिरजितोऽपि प्रायशस्त्रिलोक्या तैस्त्वं जितोऽसि वशीकृतोऽसि। “धर्मादिचतुर्विधपुरुषार्थप्रदो भवान् येषा प्रसन्नस्तेषा ज्ञानादिकं किं दुर्लभम्? कथं वा संसारः?” इति भावः। तत्र तन्वा सत्कारः सावधानतया कथायामुपवेशनम्, वाचा प्रश्न स्तुत्यादि, मनसा अवधारण मननादि॥३॥ ‘श्रवणादिभक्तिविना तु ज्ञान दुर्लभमेव’ इत्याह— श्रेय स्रुतिमिति।
श्रेयसा धर्मार्थकाममोक्षाणां स्रुतिः ‘सरसो निर्झराणामिव स्रवणं’ यस्यास्ता ते तव भक्तिमुदस्य त्यक्त्वा ये केवल बोधलब्धये ज्ञानप्राप्त्यर्थ क्लिश्यन्ति शास्त्राभ्यासादिक्लेश कुर्वन्ति, तेषामसौ शास्त्राभ्यासादिजनितः क्लेशलः क्लेश एवावशिष्यते, नान्यत्। ज्ञान तु नैव भवति॥ तत्र दृष्टान्तमाह— यथेति। यथा अल्पप्रमाण धान्य परित्यज्यान्तः कणहीनान् स्थूलधान्याभासान् तुषानवघ्नता तदन्तस्तण्डुलाभावादवहननजनितहस्तक्लेश एव भवति, न तण्डुललाभः, एव श्रवणादिभक्तिं तुच्छीकृत्य केवलं ज्ञानार्थं प्रयततामपि भक्तिं विना चित्तशुद्ध्यभावाच्छास्त्राभ्यासादिक्लेश एव भवति। न ज्ञानमित्यर्थः॥ ‘युक्त चैतेषा निष्फलत्वम्, महतस्त्वत्तो विमुखत्वात्’ इत्याशयेन सम्बोधयति— विभो इति। लोके वैदिके च सर्वत्र ‘ये साधन परिहृत्य परित्यज्य फलार्थ यतन्ते, ते केवल क्लेशभागिन एव भवन्ति, न फलभागिनः’ इति प्रसिद्धत्वात् भक्तेश्व ज्ञानजनकत्वस्य ‘‘भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः” “वासुदेवे भगवति भक्तियोगः प्रयोजितः॥ जनयत्याशु वैराग्य ज्ञान यत्तदहैतुकम्” इत्यादिवचनैः प्रसिद्धतरत्वात्तद्धीनाना ज्ञान कथ स्यात् इत्याशयः॥४॥ ‘भक्त्यैव ज्ञान भवति, नान्यथा’ इत्यत्र न केवल शास्त्रमेव प्रमाणम्, अपि तु ‘अन्वयव्यतिरेकाभ्या सदाचारोऽपि प्रमाणाम्’
पुरेह भूमन् बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया॥ विबुद्ध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गति पराम्॥५॥ तथापि भूमन् महिमा गुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभि॥ अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा॥६॥
इत्याह— पुरेति। ‘तवाग्रे मया कि बहु वक्तव्यम्?महत्त्वेन सर्वज्ञत्वात् ’ इत्याशयेन सम्बोधयति— भूमन्निति। इह लोके बहवोऽपि पुरा प्रथम योगिनो भक्तिव्यतिरिक्तानेकोपायवन्तोऽपि सन्तस्तैर्ज्ञानमप्राप्य पश्चात्त्वदर्पितेहाः त्वदर्पिताः लौकिकवैदिकी चेहा कर्माणि यैस्ते निजकर्मलब्धया तैस्त्वदर्पितैर्निजकर्मभिर्लब्धया चित्तशुद्धिद्वारा कथाश्रवणादरादिरूपया ततश्च कथोपनीतया कथाश्रवणजनितप्रेमलक्षणया च भक्त्यैव हे अच्युत! अञ्जः सुखेनैव ते तव परां गतिं परं तत्त्वं विबुद्ध्य प्रपेदिरे प्राप्ता इत्यन्वयः। ‘त्वद्भक्ताना संसारे पतन नैव भवति’ इति सम्बोधनेन सूचितम्। यथोक्त काशीखण्डे— “न च्यवन्तेऽथ मद्भक्ता महति प्रलये यदि॥ अतोऽच्युतः स्मृतो लोकेऽहमेको विष्णुरव्ययः” इति॥५॥ एव सगुणनिर्गुणविभागमन्तरेणैव सामान्यतो भगवतो दुर्ज्ञेयत्वमुक्त तत्र ‘गुणातीतस्य ज्ञान कथञ्चिद्भवेदपि, सकलगुणविशिष्टस्य ज्ञान तु सर्वथा दुर्घटमेव’ इत्याह— तथापीति द्वयेन। विषयवासनादूषितान्त करणानां दुर्ज्ञेयमपि अगुणस्य गुणातीतस्य ते महिमा तत्त्वममलैस्तप प्रवचनादिभि निरस्तनिखिलवासनादोषै अन्तरात्मभिः अन्तः-
करणवृत्तिभिः अनन्यबोध्यात्मतया अन्यौरिन्द्रियादिभिर्न बोध्यः आत्मा स्वरूपं यस्य स अनन्यबोध्यात्मा, तस्य भावस्तत्ता, तया बोद्धुं बोधगोचरो भवितुमर्हति योग्यो भवतीत्यन्वयः। ग्रामो गन्तुमर्हतीतिवत् प्रयोगः। न चान्यथेति घटपटादिवत् ‘इदमेवभूतम्’ इत्येव बोधगोचरो भवितु नैवार्हतीत्यर्थः। तत्र हेतुत्रयमाह— ‘अविक्रियात्’ इत्यादिपदत्रयेण। तत्र भावप्रधानो निर्देशः। यो हि जन्मादिविक्रियावान् स ‘इदमित्थम्’ इति बोधगोचरीभवितुमर्हति, ब्रह्मणस्त्वविक्रियत्वात् तत् कथ तथा स्यात् इत्यर्थः। यो हि परप्रकाश्यस्तस्येदमित्थंतया बोधो भवति, ब्रह्मणस्तु स्वानुभवात् स्वप्रकाशत्वात् स कथं स्यात्?। यो ह्याकारविशेषवास्तस्य तथा बोधो भवति, अक्षरब्रह्मणः अरूपत आकारविशेषरहितत्वात् स कथं स्यादित्याशयः ‘एतत् सर्वं वेदान्तशास्त्रे प्रसिद्धम्’ इति सूचयन्नाह— हीति॥६॥ गुणात्मनः गुणाधिष्ठातुस्ते तव गुणान् विमातुम् ‘एतावन्त’ इति गणयितुमपि के ईशिरे समर्था बभूवुः? ‘तदधिष्ठान तु दूरतः’ इति सूचयितुमापशब्दः। गणनाशक्यत्वे हेतुमाह— अस्य विश्वस्य हिताय पालनाय बहुधा गुणाविष्कारे-
गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य॥ कालेन यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका भासः॥७॥ तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवाऽऽत्मकृतं विपाकम्॥ हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक्॥८॥
णावतीर्णस्येति। ननु ‘कालेन निपुणैः किमशक्यम्?’ अत आह— कालेनेति। वाशब्दो वितर्के। यैः सुकल्पैरतिनिपुणैः जनैर्बहुजन्मना कालेन भूपरमाणवः, तथा खे आकाशे मिहिका हिमकणाः, तथा द्युभासः दिवि नक्षत्रादिकिरणपरमाणवश्च विमिताः विशेषेण गणिता भवेयुस्तथाभूता अपि के ईशिरे इत्यन्वयः॥७॥ ‘तस्माद्भजनमेव सङ्गच्छते, नतु ज्ञानाग्रहः’ इति फलितमाह—
तत्तेऽनुकम्पामिति। यस्मात् ज्ञानं सुदुर्घटं तत्तस्मात् हे भगवन् ऐश्वर्यादिगुणपरिपूर्ण! यः प्राणी ते तव अनुकम्पां कृपां सुसमीक्षमाणः ‘कदा भगवत्कृपा भविष्यति?’ इति प्रतीक्षमाणस्तावदात्मकृतं विपाकं स्वार्जित कर्मफलमनासक्तः सन् भुञ्जानो हृद्वाग्वपुर्भिस्ते तुभ्यं नमो विदधत्। ‘नम’ इत्युपलक्षणमन्यासामपि श्रवणादिभक्तीनाम्, तासां मध्ये यथासम्भवं भक्तिं कुर्वन्नेव जीवेत् स मुक्तिपदे मुक्तिरूपे फले दायभाग्भवतीत्यन्वयः। ‘दायभाक्’ इत्यनेन यथा “पितृदायप्राप्तौ पुत्रस्य पितृभजनपूर्वकजीवनव्यतिरिक्तमन्यन्नापेक्षितम्, तथा भक्तस्यापि मुक्तिप्राप्तौ भगवद्भजनपूर्वकं जीवनव्यतिरिक्तमन्यन्न किञ्चिदपेक्षितम्” इति सूचितम्॥८॥
तदेवं भगवन्तं स्तुत्वा क्षमापयितुं स्वापराधं निवेदयति— पश्येति। हे ईश स्वामिन्! मे मम अनार्यंदौर्जन्यं मृढत्वं पश्य। ‘कि तत्?’ इत्यपेक्षायामाह— त्वय्यपि स्वमायां वितत्य प्रसार्य आत्मवैभव स्वप्रभावमीक्षितुं द्रष्टुमैच्छमभिलषितवानिति। एव कर्तुं त्वदग्रेऽह कियान्? न किञ्चित। तत्र हेतून्सूचयन् विशिनष्टि— परमात्मनीति। सर्वनियन्तरीत्यर्थः॥ तत्र हेतुमाह— मायिनामपि मायिनि मोहके इति। तत्रापि आद्यन्तशून्यत्वे हेतुमाह— आये सर्वका॥८१॥ रणभूते पूर्वावधिरहिते इति। अनन्ते विनाशरहिते। ‘एतत् सर्व प्रसिद्धमेव’ इत्याशय सूचयन्नाह— हीति। असामर्थ्ये दृष्टान्तमाह— अग्नावर्चिरिति। यथा अग्नेरुहूता अर्चिः ज्वाला अग्नौ न कमपि स्वप्रभावं कर्तुं शक्नोति, तथा त्वत्त उद्भूतोऽहमपि त्वयि न कमपि स्वप्रभावं कर्तुं शक्त इत्यर्थः॥९॥ यद्यप्यह सर्वथाऽनुचितमेव कृतवान्, तथापि मयि निकृष्टे सर्वोत्तमस्य तव क्षमैव युक्ता, अतो ममापराध क्षमस्व। तत्र भगवतः सर्वोत्तमत्व द्योतयन् सम्बोधयति— अच्युतेति। त्वद्विमुखा एव सर्वे देशतः कालतोऽवस्थातो गुणत ऐश्वर्यादिभ्यश्च च्युता भवन्ति, तव भक्ताना तु कुतोऽपि कथमपि त्वत्कृपया च्युतिर्न भवति। तव च्युतिस्तु दुरापास्ता, अतस्त्व सर्वोत्तम इति भावः। तर्हि ‘कुत एवं ममापराधं कृतवान्?’ तत्राह— त्वत्पृथगिति। ‘त्वत्तः पृथक् अहमेव ईश।
पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्त्वय्यपि मायिमायिनि॥ मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ॥९॥ अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः॥ अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति॥१०॥ क्वाहं तमोमहदहंखचराग्निवार्भूसवेष्टिताण्डघटसप्तवितस्तिकायः॥ क्वेदृग्विधाविगणिताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम्॥११॥
इति अभिमानवतः। तत्र हेतुमाह— हि यस्मात् त्वत्प्रभावमजानतः। तत्रापि हेतुमाह— अजेति। अजा त्वन्माया, तस्याः योऽवलेपः सम्बन्धः, तेन यत् अन्ध तमः गाढमज्ञानम्, तेन अन्धं चक्षुः विवेकहेतुरन्तःकरणं यस्य तस्य। तत्रापि हेतुमाह— रजोभुव इति। रजोगुणादुत्पन्नस्येत्यर्थः। ‘तथापि केन विचारेण क्षमा कर्तव्या’ इत्यपेक्षायामाह— एष इति। ‘मयि नाथे स्वामिनि सत्येव अय नाथवान्, ममोपेक्षितश्चेत्तस्यास्य कोऽप्यन्यो रक्षकः कुत्रापि स्थान च नास्ति’ इति हेतोरेष मम भृत्यो मयाऽनुकम्प्यः ‘मत्कृपायोग्य’ इति मत्वा इत्यर्थः॥१०॥ ननु ‘ब्रह्माण्डविग्रहस्त्वमपीश्वर एव’ इति चेत्तत्राह— क्वाहमिति। तमः प्रकृतिः, महान् महत्तत्त्वम्, अहमहङ्कारः, खमाकाशम्, चरो वायु, अग्निः, वार्जलम्, भूश्च, एतैः प्रकृत्यादिपृथिव्यन्तैः सवेष्टितो योऽण्डघटः ब्रह्माण्डरूपो घटः ‘नश्वरत्वज्ञापनाय घटपदप्रयोगः’ स एव तस्मिन् वा स्वमानेन सप्तवितस्तिकायो यस्य सोऽहं क्व? ईदृग्विधानि एवप्रकारकाणि यानि अविगणितान्यण्डानि तान्येव परमाणव, तेषा चर्या परिभ्रमणम्, तदर्थंवाताध्वानो गवाक्षा इव रोमविवराणि यस्य तस्य ते तव महित्व च क्व?’
अतोऽतितुच्छत्वात् त्वयाऽनुकम्प्योहमिति भावः॥११॥ अपि च हे अधोक्षज! गर्भगतस्यापि शिशोः पादयोरुत्क्षेपण किं मातुरागसे कल्पते अपराधाय भवति? न भवत्येवेत्यर्थः। सत्यमपराधाय न भवति। ‘ततः किम्’ अत आह— अस्तिनास्तिव्यपदेशाभ्या भावाभावशब्दाभ्या भूषितमभिहित105 वस्तु तव कुक्षेरनन्तः बहिः कियदपि किञ्चिन्मात्रमपि किमस्ति? न किञ्चिन्मात्रमपि बहिरस्ति, किन्तु सर्वं तदन्तरेवास्तीत्यर्थः। अतः सर्वस्य त्वत्कुक्षिगत्वेन ममापि तथात्वात् मातृवन्ममापराधः सोढव्य एवेति भावः। ‘एवंभूतस्य तव ज्ञान ससारिणा नास्ति, अतीन्द्रियत्वात्’ इति सम्बोधनेन सूचितम्॥१२॥ किञ्च ‘विशेषतोऽपि मम जन्म त्वत्त एव प्रसिद्धम्’ इत्याह— जगत्त्रयेति। जगत्त्रयस्यान्ते प्रलये य उदधीना सम्प्लवः सश्लेषः, तस्मिन्नुदे उदके शयानस्य नारायणस्य या नाभिस्ततो जात यन्नाल कमलम्, तस्मादजो ब्रह्मा विनिर्गत इति वाक् सा तु तावन्मृषा106नैव भवति। ‘वै’ इत्यवधारणे। तथाहि— हे ईश्वर’ त्वमेव
उत्क्षेपण गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे॥ किमस्ति नास्तिव्यपदेशभूषित तवास्ति कुक्षेः कियदप्यनन्तः॥१२॥ जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात्॥ विनिर्गतोऽजस्त्विति वाङ् न वै मृषा किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि॥१३॥ नारायणस्त्वं नहि सर्वदेहिनामात्माऽस्यधीशाखिललोकसाक्षी107॥नारायणो108ऽङ्गं नरभूजलायनात् तच्चापि सत्य न तवैव माया१४॥
वद, कि त्वत्तोऽह न विनिर्गतोऽस्मि नउत्पन्नोऽस्मि? त्वत्त एवोत्पन्नोस्मीत्यर्थः॥१३॥ ‘एवं चेतर्हि नारायणस्य पुत्रस्त्व मम किमायातम्?’ इत्याशङ्कयाह— नारायणस्त्वमिति। अत्र काकुः। त्व किं नारायणो नहि? अपि तु ‘त्वमेव नारायण’ इत्यर्थः। ‘कुतोऽहमेव नारायणः?’ इत्यपेक्षाया चतुर्भिर्हेतुभिर्नारायणत्व साधयति— सर्वदेहिनामात्माऽसीति। ‘नार जीवसमूहोऽयनमाश्रयो यस्य’ इति व्युत्पत्तेस्त्वमेव सर्वजीवाना109मात्मत्वान्नारायण इत्यर्थः। “नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः। तेषामधीश्वरः साक्षान्नारायण इति स्मृतः” इति स्मृतेः॥ ‘नाराणि चतुर्विंशतितत्त्वानि॒ अय॒ति प्रेरयति’ इति व्युत्पत्त्यापि ‘त्वमेव नारायण’ इति सूचयन् सम्बोधयति— अधीश हे प्रवर्तक इति, विसर्गान्तपाठो वा॥ ‘नार जीवसमूहं जानाति साक्षात् पश्यति’ इति व्युत्पत्त्यापि ‘त्वमेव नारायण’ इत्याशयेनाह— अखिललोकसाक्षीति॥ ननु “यद्यप्येव नारायणपदव्युत्पत्तावहमपि नारायणस्तथापि तव जनकस्य नारायणस्य ‘आपो
नारा इति प्रोक्ता आपो वै नरसूनवः॥ तस्य ता अयनं पूर्वं तेन नारायणः स्मृतः’ इति स्मृतेर्भिन्नव्युत्पत्तिकत्वेन मत्तो भिन्नत्वात्” इत्यत आह— नारायणोऽङ्गमिति। नरः परमात्मा, तस्मात् भूत यज्जल तदयनाद्यः प्रसिद्धो नारायणः सोपि तवैवाङ्ग मूर्तिः, न त्वत्तो भिन्न इत्यर्थः॥ एवं जलाधिष्ठानत्वोक्त्या परिच्छिन्नत्वमायाति, तथाच ‘यच्च किञ्चिज्जगत् सर्व दृश्यते श्रूयतेऽपि वा॥ अन्तर्बहिश्च तत् सर्व व्याप्य नारायणः स्थितः’ इति मन्त्रवर्णाद्विरोधमाशङ्कय निराकरोति— तच्चापि सत्य नेति। तथा परिच्छिन्नत्वमपि सत्य यथार्थं न भवति, किन्तु तव माया लीलैव। सृष्ट्यादिलीलार्थमेव तथा स्वरूप प्रदर्शितम्, वस्तुतो व्यापक एवेत्यर्थ॥१४॥ उक्तमेव स्पष्टयति— तच्चेदिति। चेद्यदि सद्विद्यमान जगत् यस्मिस्तत् वपुर्नारायणस्वरूप जलस्थ परिच्छन्नमेव, तर्हि हे भगवन् अचिन्त्यैश्वर्य! मे मया तदा कमलनालमार्गेणान्तः प्रवेशान्वेषणसमये एव कि न दृष्टम्? तदा तपःकरणानन्तर हृदि स्वहृदय एव किवा सुदृष्ट सम्यक्दृष्टम्? पुनश्च सपदि तत्क्षणमेव तत्रापि नो व्यदार्शी नैव दृष्टम्। अतो व्यापकस्यैव तवेच्छया तथा दर्शनम्, न परिच्छन्नत्वमिति भावः॥१५॥ हे मायाधमन
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवस्तदैव॥ किंवा सुदृष्टं हृदि मे तदैव कि नो सपद्येव पुनर्व्यदर्शि॥१५॥ अत्रैव मायाघमनावतारे ह्यस्य प्रपञ्चस्य वहिःस्फुटस्य॥ कृत्स्नस्य चान्तर्जठरे
जनन्यामायात्वमेव प्रकटीकृतं ते॥१६॥ यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा॥ तत् त्वय्यपीह तत् सर्वं किमिदं मायया विना॥१७॥
भक्तजनमोहनिवारक! अत्र अस्मिन्नेवावतारे अस्य बहिःस्फुटस्य प्रत्यक्षसिद्धस्य कृत्स्नस्यापि प्रपञ्चस्य स्वजठरमध्ये जनन्याःयशोदायाः प्रदर्शनेन मायात्व स्वच्छाधीनलीलामात्रत्वमेव ते त्वया स्फुटीकृतम्, “सा वा ईशस्य सन्द्रष्टुः शक्तिः सदसदात्मिका॥ माया नाम महाभाग! ययेद निर्ममे विभुः” इति तृतीयस्कन्धे लीलानुकूलइच्छाविशेषस्यैव मायाशब्देनोक्तत्वात्। हिशब्दः प्रसिद्ध्यर्थकः॥१६॥ उक्तमेव स्पष्टयति—यस्येति। इह बहिः जगति इद सर्व यथा भाति तथैव यस्य तव कुक्षावपि तत् सर्वं भाति, तदिदं भान त्वयि मायया विना त्वदिच्छया विना कि कथ घटते इत्यन्वयः। ननु “तर्हि विद्यमानस्य विश्वस्य मुखे प्रतिबिम्बे एव कुतो न स्यात्”इत्याशङ्कयाह— सात्ममिति। आत्मना त्वया सहितमित्यर्थः। त्वयि प्रतिबिम्बत्वे बाह्याद्विलोमतयैव प्रतीयेत नतु तदस्ति। तव चादर्शस्थानीयस्य त्वदन्तःप्रतीतिर्न स्यात्। अतोऽचिन्त्यशक्त्या त्वदिच्छयैव तथा प्रतीतिरिति भावः॥१७॥
‘न केवलं जनन्या प्रदर्शितम्, अपि तु ममापि’ इत्यत आह— अद्यैवेति। त्वदृते त्वा विना अस्य विश्वस्य मायात्व स्वेच्छाधीनत्व ते त्वया अद्यैव किं मम न आदर्शितम्? अपि तु प्रदर्शितमेव। तथाहि— प्रथमं यदा मया वत्सादयो नापहृतास्तदा त्वमेकःश्रीकृष्णरूपोऽसि। ततो वत्सबालादिहरणानन्तर व्रजसम्बन्धिनो सुहृदो बाल्राः वत्साः समस्ता वेणुविषाणादयश्च सर्वेऽपि त्वमेव अभूः। ततो मया सह अखिलैस्तत्त्वादिभिरुपासिताः सेवितास्तावन्तस्तावत्सङ्ख्याकाश्चतुर्भुजाः त्वमसि अभूः। ततश्च तावन्त्येव जगन्ति ब्रह्मांडानि त्वमभूः। तत्र तत्राप्येकैकमूर्तिरस्मदादिभिः सेवित इति ज्ञेयम्। एवमनन्तरूपस्त्वमभूः। तस्मात् अमितमपरिमितं ब्रह्म परिपूर्णमद्वयमेव त्वत्स्वरूपमवशिष्यते। ब्रह्माण्डदर्शन पूर्वमनुक्तमपि अत्रत्योक्त्यैव ज्ञेयम्॥१८॥ ननु ‘सर्वसाधारणतया ममापि प्राकृतत्वप्रतीतेः कथमद्वयब्रह्मत्वम्?’ तत्राह— अजानतामिति। त्वत्पदवीं तव परमस्वरूपमजानतामेव अनात्मनि प्रकृतौ
अद्यैव त्वद्यतेऽस्य किं मम न ते मायात्वमादर्शितम्। एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि॥ तावन्तोऽसि चतुर्भुजास्तदखिलैः साक मयोपासिताः तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्मादयं शिष्यते॥१८॥ अजानतां त्वत्पदवीमनात्मन्यात्माऽऽत्मना भासि वितत्य मायाम्॥ सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः॥१९॥सुरेष्वृषिष्वीश तथैव नृष्वपि110 तिर्यक्षु यादस्स्वपि तेऽजनस्य॥ जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च२०॥
स्थितः आत्मा त्वमेव आत्मना स्वातन्त्र्येण माया वितत्य विस्तार्य प्राकृत इव भासीत्यन्वयः। “अनात्मनि देहादौ आत्मात्मना आत्माभिमानेन त्वत्पदवीमजानतामेव स्वमायां वितत्य प्राकृत इव भासि, नतु विवेकिनाम्” इतिवाऽन्वयः। अज्ञाना भेदेन भाने दृष्टान्तत्रयमाह— जगतः सृष्टौ निमित्तभूताया रजसाऽह ब्रह्मेवेति, जगतः विधाने पालने सत्त्वेन एष त्व विष्णुरिवेति, जगतोऽन्ते प्रलये तमसा त्रिनेत्रो रुद्र इवेति॥१९॥ जगत्पालकत्वमेव प्रपञ्चयति— सुरेष्विति। हे प्रभो स्वामिन्!अजनस्य कर्माधीनजन्मरहितस्यापि ते तव सता सन्मार्गनिष्ठानामनुग्रहाय सरक्षणाय सुरादिषु जन्म स्वेच्छया प्रादुर्भावो भवतीत्यन्वयः। असतां सत्प्रतिपक्षिणा निग्रहविना सता रक्षणासम्भवादाह— असता यो दुष्टः सत्पीडाहेतुभूतो मदः, तस्य निग्रहाय विनाशाय चेति। ‘जगत्कर्तुर्युक्त च सत्सरक्षणम्’ इति सूचयन् सम्बोधयति— हे धातरिति। रक्षायां सामर्थ्यं सूचयन्नाह— ईशेति। तत्र सुरेषु वामन-
रूपेण, ऋषिषु परशुरामादिरूपेण, नृषु रामकृष्णादिरूपेण, तिर्यक्षु वराहादिरूपेण, यादःसु जलचरेषु मस्यादिरूपेण॥२०॥ ‘एवं सामान्यत उक्त्वा, विशेषतस्तु तव लीलाः कोऽपि न जानाति’ इत्याह— को वेत्तीति। अहो आश्चर्यरूपा योगमाया विस्तारयन् यदा त्व क्रीडसि, तदा त्रिलोक्या हे भूमन्! व्यापकस्य भवतः ऊतीः लीलाः क्व भवन्तीति पारीच्छिन्नः को वेत्तीति। तथा हे भगवन्!‘षड्गुणसम्पन्नस्य तव लीलाः कथ भवन्ति’ इति स्वय भगहीनः अज्ञः को वेति? तथा हे परमात्मन्! ‘कालादिनियन्तुस्तव लीलाः कदा भवन्ति’ इति को वेत्ति? तथा हे योगेश्वर!‘अनन्तरूपेण क्रीडतस्तव लीलाः कति भवन्ति’ इति अल्पज्ञःको वेत्तीति योज्यम्॥२१॥ उपपादित श्रीकृष्णस्य परब्रह्मत्वमुपसंहरति—तस्मादिति। अचिन्त्यमायाधिपतित्वेन स्वतन्त्रत्वात्। अनन्ते देशपरिच्छेदरहिते नित्यसुखबोधतनौ नित्यानन्दज्ञानविग्रहे त्वयि इदमज्ञदृष्ट्या प्रतीयमानं जगत् प्राकृतत्वमशेषमसत्स्वरूपमेव मायात त्वदिच्छया उद्यदपि यत् आविर्भावतिरोभाव प्राप्नुवत् सदिवावभाति इत्यन्वयः। तत्र दृष्टान्तमाह— स्वप्नाभमिति। स्वप्नदृष्टपदार्थस्याभा उपमा यस्य
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम्॥ क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम्॥२१॥ तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषण पुरुदुःखदुःखम्॥ त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति॥२२॥ एकस्त्वमात्मा पुरुषः पुराणः सत्यःस्वयंज्योतिरनन्त आद्य॥ नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः॥२३॥
तत्। तद्भानस्य फलमाह— अस्तधिषणमिति। आसुरसम्पद्वता त्वद्विमुखानामस्ता विपरीता प्राकृतत्वनिश्चयरूपा भवति धिषणा बुद्धिर्यस्मात् तत्, अत एव पुरुदुःखदुःखमिति। प्राकृतदृष्ट्या तवापमानात् बहुदुःखभोगानन्तरमपि दुःखानि दुःखपरम्परा यस्मात्तत्। तथा चोक्त गीतासु— “अवजानन्ति मा मूढा मानुषीं तनुमाश्रितम्। पर भावमजानन्तो मम भूतमहेश्वरम्॥ तानह द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय!ततो यान्त्यधमा गतिम्” इति॥२२॥ ‘नित्यसुखबोधतनौ’ इत्युक्तमेव सर्ववेद्य भगवतस्तत्त्वं विशदयति— एक इति। एकस्त्व सत्यः परमार्थभूतः। तत्र हेतुमाह— आत्मेति। किञ्च यद्विकारवत्तदसत्यम्, तव च जन्मादयो विकाराः न सन्ति। तत्र जन्माभावे हेतुमाह— आद्य इति, सर्वकारणमित्यर्थः। कारणत्वे हेतुमाह— पुराण इति।
कार्यात् प्रपञ्चात् पूर्वमपि वर्तमान इत्यर्थः। तत्र हेतुमाह— पुरुष इति। “पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्” इति श्रुतेः। जन्मानन्तरभाव्यस्तित्वविकारं वारयति— नित्य इति, सनातन इत्यर्थः। वृद्ध्यभावे हेतुमाह— अनन्त इति, देशपरिच्छेदरहित इत्यर्थः। विपरिणामाभावे हेतुमाह— अजस्रसुख इति, नित्यानन्तरूप इत्यर्थः। अपक्षय वारयति— अक्षर इति। विनाशं वारयति— अमृत इति। तत्र हेतुमाह— निरञ्जन इति, निर्मल इत्यर्थः। तत्र हेतुमाह— उपाधितो मुक्त इति, कालकर्मगुणादिपारवश्यरहित इत्यर्थः। तत्रापि हेतुमाह— पूर्ण इति, अचिन्त्यानन्तश-
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते॥
गुर्वर्कलब्धोपनिषत्सु चक्षुषा ये ते तरन्तीव भवानृताम्बुधिम्॥२४॥
क्तिपरिपूर्ण इत्यर्थः। तथाच द्वैतापत्तिमाशङ्कयाह— अद्वय इति। ‘एवभूते कि प्रमाणम्?’ इत्याकाङ्क्षायामाह— स्वयज्योतिरिति। ‘यस्य भासा सर्वमिद विभाति’ इति श्रुतेः स्वयप्रकाश एव, न तत्र प्रमाणान्तरम्। अन्यथा जडत्वापत्तेः॥२३॥ ‘एवभूतस्य तव आत्माऽभिन्नज्ञानात्मुक्तिर्भवति’ इत्याह— एवमिति। गुरुरेवार्कः सूर्यवत् अज्ञानान्धकारनिरासेन परमार्थप्रकाशकः, तस्माल्लब्धा उपनिषत् उपनिषज्जन्य ज्ञानमेवचक्षुस्तेन
————————————————————————————————————————————————
क्रमेण वृद्धिविपरिणामापक्षयविनाशान् वारयति। पूर्णत्वे हेतु— अनतोऽद्वय इति च। देशकालपरिच्छेदरहितो वस्तु-रिच्छेदरहितोऽपि। अमृतत्वोपपादनाय चतुर्विधक्रियाफलत्व वारयति— ‘स्वयज्योतिर्निरजन उपाधितो मुक्त’ इति पदत्रयेण। अय भाव— तत्रोत्पत्ति ‘आद्य’ इत्यनेनैव निराकृता। प्राप्तिरपि क्रियया ज्ञानेन वा भवेत्। क्रियया प्राप्तिरात्मपदेनैव निराकृता। ज्ञानत प्राप्तिं वारयति— स्वयज्योतिरिति। ‘विकृतिरपि तुषापाकरणेनावघातेन व्रीहीणामिवोपाध्यपाकरणेन भवेत्, तत्त्वसगत्वान्न सभवति’ इत्याह— मुक्त उपाधित इति। सस्कारोऽपि किमप्यतिशयाधानेन मलापाकरणेन वा। तत्रातिशयाधान पूर्णत्वेनैव निराकृतम्। मलापाकरण निवारयति— निरंजन इति, निर्मल इत्यर्थं॥ इति श्रीधरस्वामिभिर्व्याख्यातम्॥ श्रीवल्लभाचार्यैरित्य व्याख्यात सुत्रोधिन्याम्— एकस्त्वमात्मेति। त्वमादावेक एव सजातीयविजातीयस्वगतभेदशून्य। तत आत्मा त्रिविध ‘जीवरूप अतर्यामिरूप विभूतिरूपश्च’ जात। तत पुराण पुरुष पुरुषोत्तम। अथवा एको ब्रह्मवादे आत्मा। योगे पुरुष। साख्ये पुराण।वैष्णवे सत्य। पाशुपते सत् त्यत्। इति भेदे सत्यो जगद्रूपो वा। एव पचविधोपि स्वयज्योति स्वप्रकाश, न तु जड। अनत अतशून्य, उत्तरावधिरहित। आद्य पूर्वावधिरहित। नित्य सदैकरूप, न तु वृद्धिक्षयवान्। यथा समुद्र चद्रो वा॥ एव प्रपचरूपत्वे दोषचतुष्टय निवार्य भगवतो रूपात राण्याह— अक्षर इति। शब्दब्रह्माक्षररूप, प्रकृतिपुरुषकारणरूपो वा। तेन ज्ञानविषय उक्त॥ तत्साक्षान्मोक्षरूपत्वमाह— अजस्रसुख इति। नित्यसुग्वरूप॥ तस्मिन्नपि सुखे प्राप्तदोषान्निवारयति— निरंतर सुखरूपमपि अज्ञानयुक्त भवति, यथा सुषुप्ति। तद्व्यावृत्यर्थमाह— निरंजन इति। अजन अविद्या, तद्रनि। परिच्छेदोपि भवति। तद्व्यावृत्यर्थमाह— पूर्ण इति। तरतमराहित्यार्थमाह— अद्वय इति। ‘केनचिदुपाधिनैव भोक्तव्यम्’ इति शका वारयति— मुक्त उपाधि इति। यथा स्त्रीमुख पुरुषणैव भोक्तव्य, पुरुषसुख स्रियैत्र, तथा ब्रह्मानन्दानुभवेन कोप्यपाधिरपेक्षित। किंच स्वरूपतोऽपि अमृत अलौकिक श्रुत्यैकसमधिम्य, न तु लौकिकप्रमाणवेद्य। अन्यथा पूर्वोक्तरूपो न स्यात्॥ एभिरेव षोडशविशेषणे देहाद्वैलक्षण्यमपि ज्ञातव्यम्। षोडशकलोऽय पुरुष, देहस्तु बाल्यकौमारभेदेनानेक। ‘नापि व्यापका नाप्यात्म’ इत्यादि स्वयमूह्यम्। एकादर्शेद्रियपंचमहाभूतेभ्यो वा वैलक्षण्य ज्ञातव्यम्। षोडशकलो वा नारायण एभिरुक्त इति।
ये एवंविधमुक्तप्रकारकं त्वामात्मात्मतया स्वाभेदेन पश्यन्ति, ते भवानृताम्बुधिं ‘भवतीति भवः देहेन्द्रियान्तःकरणादावात्माध्यासः स एव मिथ्यात्वात्दुस्तरत्वाच्चानृताम्बुधिः, ततरन्तीवेत्यन्वयः। ‘भवाम्बुधेरनृतत्वात् तचरणमपि तथैव’ इत्याशयेन इवशब्दप्रयोगः। ‘न चायमभेदः पुत्रादिष्विव, किन्तु यथार्थ एव’ इत्याह— स्वात्मानमिति। स्वरूपभूत न केवल स्वात्मानम्, किन्तु सकलात्मनां सर्वजीवानामप्यात्मानमिति। “ममैवांशो जीवलोके जीव भूतः सनातन” इति वचनात्, अशाशिनोरभेदाच्च॥२४॥ ननु ‘समुद्रस्य तरण क्रियया अप्रसिद्धम्, तत्कथ ज्ञानेन तरण सम्भवति?’ इत्याशङ्कय अध्यासस्य अज्ञानमूलकत्वात् ‘ज्ञानेन तत्र तरण युक्तम्’ इति सदृष्टान्तमाह— आत्मानमिति। आत्मानमात्मतया याथातथ्येन अजानतामेव तेनैव तदज्ज्ञानेन निखिल प्रपञ्चितं देहादावहन्ताममतात्मक जातमात्मज्ञानेन च भूयः पुनरपि तत् प्रलीयते। तत्र दृष्टान्तमाह—रज्ज्वामिति। यथा रज्ज्वज्ञानात्तत्र जातोऽ -
आत्मानमेवाऽऽत्मतयाऽविजानतां तेनैव जात निखिलं प्रपञ्चितम्॥ ज्ञानेन भूयोऽपि च तत् प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा॥२५॥ अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौनाम नान्यौ स्त ऋतज्ञभावात्॥ अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी॥२६॥
हेर्भोगः सर्पदेहः पुनः रज्जुतत्त्वज्ञानात् प्रलीयते, तथेत्यर्थः॥२५॥ ‘अहन्ताममतात्मकसंसारस्य कल्पितत्वादेव भवानृताम्बुधिं तरन्तीव’ इत्युक्ततदुपपादयति— अज्ञानसंज्ञाविति। नाम प्रसिद्धौ। भवोऽहन्ताममतात्मकोऽध्यासः, स एव बन्धस्ततो मोक्षश्च तौ द्वावपि ऋतः अबाधितश्चासौ ज्ञश्चिदात्मकश्च यो भावः परमार्थभूतः आत्मा, तस्मादन्यौ न स्तः। तत्र हेतुमाह— अज्ञानसंज्ञाविति। अज्ञानेनैव संज्ञामात्रमेव ययोस्तौ, नाबाधितावित्यर्थः। ननु ‘कथमेव प्रसिद्धयोस्तयोरपलापः क्रियते’ इत्याशङ्कयाह— अजस्रेति। विचार्यमाणे सति आत्मनि वास्तवबन्धमोक्षासम्भवादित्यर्थः। तत्र हेतु सूचयन्नात्मान विशिनष्टि— अजस्रमिति। नित्यज्ञानरूपे, केवले अद्वितीये, परे प्रकृतिविलक्षणे, इति। तत्र दृष्टान्तमाह— तरणाविति। यथा सूर्यस्वरूपे विचार्यमाणे तत्र न रात्रिर्न दिवस, किन्तु ‘तदप्रकाशात् रात्रिः तत्प्रकाशाच्च दिवस’ इति व्यवहारः, तथा आत्मस्वरूपाप्रकाशादहन्ताममतात्मकबन्धः, तत्प्रकाशाच्च मोक्ष इत्यर्थः। बन्धस्याप्यज्ञानकृतत्वेन अवास्तवत्वाचत्प्रयुक्तमोक्षस्यापि तथात्वमुक्तम्॥२६॥
ननु “परमात्मज्ञानात् बन्धो निवर्तताम्, तस्यात्मत्वेन ज्ञाने कोऽयमाग्रहः?” इत्याशङ्क्य “सर्वत्र यदज्ञानादेव भ्रमो जातस्तज्ज्ञानादेव भ्रमनिवृत्तिर्दृष्टा, न त्वन्यज्ञानात, तथात्रापि आत्माज्ञानाज्जातस्य संसारबन्धस्य आत्मज्ञानादेव निवृत्तिर्युक्ता” इत्यभिप्रेत्य इत्य जानतो निन्दन् आश्चर्यं करोति— त्वामिति। स्वात्मानं त्वा पर स्वतो भिन्न मत्वा, पर स्वतो भिन्न ‘कार्यकारणसङ्घातरूप’ देहादि च आत्मान मत्वा। आत्मा परमात्मा पुनः स्वस्माद्बहिरेव मृग्यः अन्वेषणीय इति अज्ञजनाना समूहः अज्ञजनता तस्या अज्ञता। अहो आश्चर्यम्, नहि गृहे नष्ट वस्तु वने सूज्ञैर्मृग्यते इति। अत्र सन्धिद्वयमार्षम्। न च ‘एवमात्मज्ञानात् मुक्तिकथने भक्तिमार्गविरोध’ इति शङ्कनीयम्, “माहात्म्यज्ञानपूर्वस्तुसुदृढः सर्वतोधिकः॥ स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा” इति सिद्धान्तवचनानुसारेण मर्यादामागें आत्माभेदज्ञानमन्तरेण भगवति सर्वतोऽधिकस्नेहात्मकभक्तेरसम्भवात्। “आत्मनस्तु कामाय सर्व प्रियं भवति” इति श्रुत्याऽऽत्मन्येव स्नेहाधिक्यप्रतिपादनात्॥२७॥ ‘अतएव विवेकिनोऽस्मिन् सङ्घाते एव त्वदभिन्नत्वेनात्मान मृगयन्ति’ इत्याह—
अन्तर्भव इति। हे अनन्त सर्वस्वरूप! भवतीति भवः शरीरादिसङ्घातः, तन्मध्य एव अतत् त्वय्यतिरिक्तमात्मतयाऽध्यस्तं प्राकृतं देहादिक त्यजन्तः अपवदन्त एव सन्तो विवे-
त्वामात्मानं परं मत्वा परमात्मानमेव च॥ आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता॥२७॥ अन्तर्भवेऽनन्त! भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः॥ असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः॥२८॥ अथापि ते देव! पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि॥ जानाति तत्त्वं भगवन्महिम्नोन चान्य एकोऽपि चिरं विचिन्वन्॥२९॥
किनो भवन्तं भवदभिन्नमात्मानं मृगयन्ति अन्विष्य जानन्ति। ननु ‘तत्त्वज्ञानेन एवालम्, किमतदपवादेन?” इत्याशङ्क्य ‘अध्यस्तापवादविना अधिष्ठानतत्त्वं न ज्ञायते’ इत्यत्रापि सता व्यवहारः प्रमाणमाह— असन्तमिति। असन्तमपि अविद्यमानमपि अहिमन्तरेण तदपवादविना अन्ति समीपे सन्त विद्यमानमपि त गुण रज्जु सन्तो विवेकिनोऽपि किमु यन्ति जानन्ति? नैव जानन्तीत्यर्थः। अतो विचारेण तदपवादोऽप्यावश्यक इति भावः॥२८॥ ‘एवविधज्ञानेनैव चेन्मोक्षो भवति, तदा तत्र तत्र भक्तिः किमित्युद्घोषिता” इत्याशङ्कयाह— अथापीति। यद्यपि ज्ञानं सुलभमिवोक्तम्, अथापि हे देव! नानाविधसृष्ट्यादिक्रीडापरस्य ते तव पदाम्बुजद्वयस्य यः प्रसादलेशस्तेनानुगृहीत एव पुमान् भगवतस्तव महिम्नस्तत्त्व जानाति। अन्यस्त्वद्भक्तिहीनस्तु एकोपि निर्जने देशे एकाकी स्थितोऽपि चिरं बहुकाल विचिन्वन् अतदंशापवादेन शास्त्रबलेन विचारयन् अपि तन्नैव जानातीत्यन्वयः। “भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः” इति शास्त्रमत्र प्रमाण सूचयति- हीति॥२९॥
‘स्वामिनस्तव दासे मय्यनुग्रह एव युक्तः’ इत्याशयेन सम्बोधयति— नाथेति। यस्मात् त्वद्भक्तिहीनस्य न पुरुषार्थसिद्धिस्तत् तस्मादत्र भवे अस्मिन्ब्रह्मजन्मनि कर्मवशान्तिरश्चा पश्वादीनामपि मध्ये यज्जन्म तस्मिन् वापि जन्मनि स एव मे भूरिभागो महन्द्राग्यमस्तु, येन भाग्येन अहं भवज्जनाना मध्ये एको यः कश्चिदपि भूत्वा तव पादपल्लवं नितरां सेवे इति॥३०॥ स्वतोऽपि व्रजभक्तानामुत्कर्षमालक्ष्य तानभिनन्दति— अहो इति सप्तभिः। व्रजस्था गावो, रमण्यो गोप्यश्चातिधन्या अतिकृतार्थाः। तत्रापि ‘अहो’ इत्याश्चर्याभिधायकपदेन तासा कृतार्थताया वाङ्मनसागोचरत्वं सूचयति। ‘कुत एवम्?’ इत्यपेक्षायामाह— यतस्ते त्वया वत्सतरात्मजात्मना वत्सानामात्मजाना बालानां च स्वरूपेण यासां गोगोपीना स्तन्यं दुग्ध अमृतवत् खादु मत्वा अतीव अत्यर्थे सन्तोषपूर्वकं मुदा हर्षेण स्वाग्रहेण पीतमिति। ननु ‘कथमेवं मत्कर्तृकदुग्धपानमात्रेण तासा कृतार्थता?’ इत्यत आह—यदिति। यस्य परमपुरुषस्य तव तृप्तयेऽद्यापि अनादिकालतः प्रवृत्ता अद्यपर्यन्तमपि सर्वेप्यध्वरा यज्ञाः नालं समर्था न जाताः, तस्य तव यासां दुग्धपानेन तृप्तिर्जाता तासां कृतार्थतायां कः सन्देह इत्यर्थः। यज्ञैस्तृप्त्यभावे महत्त्व हेतुं सूचयन् सम्बोधयति— विभो इति॥३१॥ एवं वेदपूर्वकाण्डार्थसम्पत्त्या तेषां कृतार्थता उक्ता, इदानीमुत्तर—
तदस्तु मे नाथ स भूरिभागो भवेऽत्र वाऽन्यत्र तु वा तिरश्वाम्॥ येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम्॥३०॥ अहोऽतिधन्या ब्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा॥ यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः॥३१॥ अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम्॥ यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्॥३२॥ एषा तु भाग्यमहिताऽच्युत तावदास्तामेकादशैव हि वयं बत भूरिभागाः॥ एतद्धृषकिचषकैरेसकृत् पिबामः शर्वादयोऽङ्क्युदजमध्वमृतासवं ते॥३३॥
काण्डार्थसम्पत्त्याऽपि तेषां कृतार्थतामाह— अहो भाग्यमिति। नन्दगोपस्य यो व्रजस्तदोकसा सर्वेषां ‘अहो भाग्यमहो भाग्यम्’ इति पुनरुक्त्या तेषा भाग्यस्य सर्वथाऽपरिच्छिन्नत्व सूचयति। तत्र हेतुमाह— यदिति। पूर्णं ब्रह्म येषां मित्रं मित्रतया वर्तते। ‘परमानन्दम्’ इति फलरूपत्वमुक्तम्। क्लीवत्वमार्षम्। ‘पूर्णम्’ इत्यशत्त्रव्यावृत्तिः। ‘सनातनम्’ इति जन्मादिविकारराहित्यम्। अत्र पर ब्रह्म हि सर्वसम भवति मित्रत्वं च हिताचरणादि, तद्दूरीकरणादिरूप वैषम्यम्। तथाच येषां प्रेमवशात् स्वभावमपि साम्य परित्यज्य विषमतया वर्तते, तेषां भाग्यमहिमा केन वक्तु शक्यते इति भावः॥३२॥ किञ्च हे अच्युत! एषा व्रजवासिना भाग्यस्य महिता महिमा तावदास्ताम, कस्त वक्तुं शक्नोति?।‘बत’ इति हर्षे। शर्वो रुद्रः आदिर्येषां ते एकादशेन्द्रियाधिष्ठातृदेवता एव वय भूरिभागाः महाभाग्यवन्तः। ‘नात्र सन्देह’ इत्याह— हीति। तत्र हेतुमाह— एतदिति। एतेषां व्रजवासिनां हृषीकाणि इन्द्रियाणि एव चषकाणि पानपात्राणि तैःते तवांघ्रीएव उदजे कमले, तयोर्मधु मकरन्द, तदेवामृत तद्वत् स्वादु आसवमन्यविस्मृतिकारक मादकमसकृत् पिबामः। यदा प्रत्येकमिन्द्रिया-
भिमानना वयं रूपरसगन्धस्पर्शशब्दाद्येकैकविषयसेविनोऽपि कृतार्थास्तदा सर्वेन्द्रियैः सर्वसेविनामेतेषां भाग्यं वक्तुं केन शक्यते इति भावः। तत्र111शर्वः अहङ्कारस्याधिष्ठाता, ब्रह्मा बुद्धेः, चन्द्रो मनसः दिशः श्रोत्रयोः, वातस्त्वचः, अर्कश्चक्षुषोः, वरुणः रसनायाः, अश्विनीकुमारौ नासिकयोर्द्वयोरेकत्वेन ग्रहणम्, वह्निर्वाचः इन्द्रो हस्तयोः, उपेन्द्रः पादयोः, मित्रः पायोः, ब्रह्मैव उपस्थस्यापि इत्येवं त्रयोदश। तत्र पायुपस्थयोः सेवायामुपयोगाभावात्तयोर्देवते विहाय ‘एकादश112’ इत्युक्तम्॥३३॥ एव भगवद्भक्ताना भाग्यमभिनन्द्य तेषु प्रवेशे स्वस्यानधिकार मत्वा ’ तेषा पादरजः— सम्बन्धेनैव तदधिकारसिद्धिर्भवति’ इति निश्चित्य पूर्व यत् प्रार्थित “भवज्जनाना मध्ये कोऽपि भूत्वा तव पादपल्लव निषेवे’ इति, तत्राप्याग्रहं त्यक्त्वा व्रजवासिजनपादरजोऽभिषेकयोग्यं जन्म प्रार्थयते— तद्भूरिभाग्यमिति। तादृशं भूरिभाग्यमस्तु, येन इह मनुष्यलोके तत्रापि गोकुले तत्राप्यटव्यां वृन्दावने किमपि पशुपक्षिवृक्षलताकीटादीना मध्ये जन्मास्तु। ननु “सत्यलोकं जगत्स्वामित्वं विहाय अत्र जन्मनि को लाभः? “तत्राह— अपीति। गोकुलवासिना मध्ये कतमस्य यस्यकस्यापि अङ्घ्रिरजसाऽभिषेको यस्मिन् तत् गोकुलवासिनां चरणरजःसम्बन्ध एव महाँलाभः। ‘एषामपि कुत एव महत्त्वम्’ इत्यत
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यद्गोकुलेऽपि कतमाङ्घ्रिरजोभिषेकम्॥ यज्जीवित तु निखिलं भगवान् मुकुन्दस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव॥३४॥ एषां घोषनिवासिनामुत भवान् किं देवरातेति नश्चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययत् मुह्यति॥ सद्वेषादिव पूतनाऽपि सकुला त्वामेव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥३५॥
आह— यदिति। येषा जीवित निखिल गृहवित्तपुत्रादिसर्वस्व च भगवान् मुकुन्द एव, सर्वथा त्वत्परत्वादेव एषामेव महत्त्वमित्याशयः। ननु ‘ममैव एवं हत्व कुतः?’ तत्राह— अद्यापीति। अनादिकालमारभ्य अद्यपर्यन्तमपि यस्य तु भवतः पदरजः श्रुतिभिरपि मृग्यते एव, नतु दृश्यते इत्यर्थः। अतस्त्वदनन्यभक्तानामेषा माहात्म्य किं वर्णनीयमित्याशयः॥३४॥ ‘अपि चैषा कृतार्थत्वं किं वर्ण्यते? येषां भक्त्या भवान् अपि ऋणीव दृश्यसे’ इत्याह— एषामिति। उत अपि हे देव बहुधा द्योतमान! एषां घोषनिवासिनां भवान् सर्वप्रकारेण सर्वंकर्तुं सर्वं दातु च समर्थोऽपि किं राता किं दास्यति? एषां भक्त्यनुरूप तवापि किञ्चिद्देयं नास्तीत्यर्थः। ‘तर्ह्यात्मानमेव दत्त्वाऽनृणः स्याम’ इति चेचत्राह— विश्वफलादिति। सर्वफलात्मकात् त्वत्तोऽप्यपरमुत्कृष्ट फलमेषां योग्य-
मित्यर्थः। ‘कुत एषा मत्तोऽप्युत्कृष्टफलयोग्यता?’ तत्राह— सद्वेषादिति। इवशब्द एवकारार्थकः। सत्या जनन्या वेषमात्रादेव दुष्टा पूतनाऽपि हे देव! त्वत्कृपया त्वामेवापिता प्रापिता, अत एषा तत उत्कृष्टं फलमपेक्षितमित्याशयः। ‘तर्हि एतत्सम्बन्धिनामपि आत्मानमेव दास्यामि’ इति चेत्तत्राह— सकुलेति, बकासुराधासुरसहिता। एवमपि नैतेषां फले आधिक्यमिति भावः। फलाधिक्यावश्यकत्वे तेषा भक्त्याधिक्य हेतुमाह— यद्धामेति। येषां धामादयस्त्वत्कृते त्वदर्थमेव। येषामपि दुष्टपूतनाया दत्तमेव फल चेद्दास्यसि, तदा तदपर्याप्तमेवेति भावः। धाम गृहम्। अर्थो धनम्। सुहृदो मित्राणि। प्रियाः प्रीतिविषयाः
रूयपत्यादयो ये के च पदार्थाः। आत्मा देहः। तनया पुत्राः। प्राणाः इन्द्रियाणि, मुख्यप्राणाश्च। तेन जीवितमाशयोऽन्तःकरणम्। ननु “त्वमपि सर्ववेदार्थतत्त्वज्ञः, अतस्त्वमेव एषा योग्यस्य फलस्य निश्चय कुरु, तद्दास्यामि” इत्यत आह—इति नश्चेत इति। इत्येतस्मिन्नर्थे नोऽस्माक मम रुद्रस्य सनकादीना च सर्वेषा सर्वज्ञानाम् अयत् विचारेण स्वशक्त्या सर्वत्र गच्छत् अपि चेतो मुह्यति, निश्चय न प्राप्नोति इत्यर्थः॥३५॥
तावद्रागादयःस्तेनास्तावत् कारागृहं गृहम्॥ तावन्मोहोऽङ्घ्रिनिगडो यावत् कृष्णं न ते जनाः॥३६॥
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले॥ प्रपन्नजनतानन्दसन्दोह प्रथितु प्रभो!॥ ३७॥
ननु “एते गृहस्था अतो रागादिभिश्चोरौर्विवेकधैर्यादि धन विलुम्पद्भिर्मोहनिगडेन बद्ध्वाकारागृहरूपे गृहे निरुद्धाः, अतः कथमेषा ततो विमुच्य मम प्राप्तिरूपं फलमपर्याप्तम्?यतो विगतरागादिदोषाणां सन्यासिनामपि न मत्तः पर किञ्चित् प्राप्य फलमस्ति” इति चेत्तत्राह— तावदिति। हे कृष्ण सदानन्दरूप! यावज्जनाः जीवास्ते त्वदीया न भवन्ति ‘त्वदेकशरणतया त्वया स्वकीयत्वेन अङ्गीकृता न भवन्ति’ तावदेव रागादयः, आदिशब्देन द्वेषादयः स्तेनास्तथा तावदेव गृह कारागृहं बन्धनागारम्। तावदेव मोहोऽप्यङ्घ्रिनिगडः पादबन्धनशृङ्खला भवति। यथा राजपरिकरबहिर्भूतानामेव चोरादय उपद्रव कुर्वन्ति, राजानुगृहीताना तु प्रत्युत सेवामेव कुर्वन्ति, तथा त्वद्विमुखानामुपद्रवकारिणोऽपि रागादयस्त्वयाऽनुगृहीताना तु रागमोहादीनामपि त्वद्भजनपर्य वसायित्वेन द्वेषादीना त्वद्भजनविरोधिविषयत्वेन च संसारदुःखविमोचकत्वात् उपकारिण एव ते। तथाच केवलविरागेभ्यस्त्वद्भक्ताना त्वद्भजनस्याधिक्यात न तत्सदृश फल पर्याप्तमिति भावः॥३६॥ ‘अतएव अहमेषा पुत्रादिरूपेणापि स्थित’ इति चेत्तत्राह— प्रपञ्चमिति। हे प्रभो सर्वकरणसमर्थ113! त्व निष्प्रपञ्च प्रपञ्चातीतोऽपि प्रपन्ना शरणमागता या जनता जनसमूहस्तस्यानन्दाना सन्दोह समूह प्रथयितु विस्तारयितुमिह भूतले प्रपञ्च
वडम्बयास बहूना पुत्रादिरूपेणानुकरोषि। तथा च नैतेन विडम्बनमात्रेण एषामनिर्वचनीयप्रेमवतामानृण्य सम्पद्यते इति भावः॥३७॥ तदेवमादित आरभ्य अचिन्त्यानन्तगुणत्वेन स्वय भगवतो दुर्ज्ञेयत्वमुक्त्वा, ये तु ‘वयं तत्त्वतो जानीम’ इत्यभिमन्यन्ते तानुपसहरन् इवाह— जानन्त इति। ये जानन्ते ‘जानीम’ इति वन्दति त एव जानन्तु। बहूक्त्या तेषा बहुनिन्दावचनेन कि प्रयोजनम्?। हे प्रभो! मम मनआदीनां तव अचिन्त्यानन्तगुणस्य वैभव गोचरो विषयो न भवति। ‘अहं हि वेदगर्भो, नहि लोके मत्तोऽन्यः कश्चिदधिकज्ञानवानस्ति’ इति यद्यहमेव न जानामि, तदा ये ‘वयं भगवत्तत्त्वज्ञा’ इति वदन्ति ते तु ‘केवलमभिमानेन भ्रान्ता एव’ इति भावः। वपुषश्चक्षुरादेः॥३८॥ जगदीशत्वाभिमानं परित्यज्याह— अनुजानीहीति। हे कृष्ण! जगतामनन्तकोटिब्रह्माण्डाना त्वमेव नाथश्च स्वामी। तत्र हेतुमाह— एतत् सर्वमपि जगत् तवार्पित त्वयैव विनिर्मितम्, यद्वा एतत्पर्यन्त ममतास्पद जगत् अहन्तास्पदमेतच्छरीरं च तत्तवार्पितम्, स्वकीयत्वाभिमान परित्यज्य तुभ्य समर्पितमित्यर्थः। ननु ‘कथ तर्हि तत्र स्वकीयत्वाभिमानः?‘तत्राह— सर्वमिति। स्वमहिमानमस्मदादीना ज्ञानबलादिक च सर्व त्व स्वयमेव वेत्सि जानासि, तत्र मया को वा विशेषो वक्तव्य इत्यर्थः। तत्र हेतुमाह—सर्वदृगिति। सर्व-
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो॥ मनसो वपुषो वाचो वैभवं तव गोचर॥३८॥ अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक्॥ त्वमेव जगतां नाथो जगदेतत्तत्वार्पितम्॥३९॥ श्रीकृष्ण! वृष्णिकुलपुष्करजोषदायिन्! क्ष्मानिर्जरद्विजपशुदधिवृद्धिकारिन्!॥ उद्धर्मशार्वरहर! क्षितिराक्षसध्रुन्गाकल्पमार्कमर्हन्! भगवन्नमस्ते॥४०॥
साक्षित्वादित्यर्थः। तथा चाज्ञस्य ममोपरि सर्वज्ञस्य तव कृपैव युक्ता इति भावः। ननु ‘तवाधिकारोऽधुना न परिसमाप्तः, कथं वृन्दावने जन्म प्रार्थयसे? इत्याशङ्क्याह— अनुजानीहि मामिति। तर्ह्यधिकारस्थित्यर्थ मामनुजानीहि, सत्यलोक गन्तुमनुज्ञा देहीत्यर्थः॥३९॥ नेत्रकटाक्षेणैव गमनाज्ञा प्राप्य गच्छन् बहुधा सम्बोधयंश्चनमस्कार प्रार्थयते— हे श्रीकृष्ण सदानन्दरूप! वृष्णयो यादवाः, तेषा कुलमेव पुष्करं कमलम्, तस्य जोषो विकासः, तस्य दायिन्! ‘जुष प्रीतौ ’ इति प्रीतिदातृत्वेन सूर्योपमा सूचिता। तथा क्ष्मा पृथ्वी, च निर्जरा देवाः, द्विजा ब्राह्मणाश्च, पशवो गावश्च, ते एव उदधयस्तेषां वृद्धिकारिन्! इति चन्द्रोपमा। तथा उद्धर्मः पाखण्डधर्मः, तदेव शार्वरं तमः तद्धरतीति तथा तत्सम्बोधनेन चन्द्रसूर्ययोर्द्वयोरुपमा। अनेन ‘ममापि मायाप्रतारणरूपपाखण्डकृतापराधं हर’ इत्यपि सूचितम्। क्षितौ ये राक्षसाः कसादयस्तेभ्य उद्यन्नेव द्रुह्यतीति तथा, तत्सम्बोधनेन पुनरपि सूर्योपमा। ‘सूर्याद्युपमाऽपि न्यूना’ इत्याशयेनाह— आर्कमर्कमभिव्याप्य सर्वेषामर्हन् हे पूज्य! पूज्यत्वे हेतुमाह— हे भगवन्! आकल्पं कल्पपर्यन्तं ते तुभ्यं नमोऽस्तु॥४०॥
जगाद्धाता ब्रह्मा इत्येवं भूमानं सर्वतोव्यापकमपि जगद्धिताय अल्परूपेण विराजमान श्रीकृष्णमभिष्ट्रय स्तुत्वा त्रिःपरिक्रम्य तत्पादयोर्नत्वा अभीष्टंसर्वतः उत्कृष्टतया सर्वाभिप्रेतं स्वाभिप्रेत वा स्वधाम सत्यलोक प्रत्यपद्यत जगाम। ‘जगद्धाता’ इत्यनेन सृष्ट्यधिकारस्थानत्वात्तत्र तस्य स्थितिरावश्यकीति सूचितम्॥४१॥ भगवानेव स्वमुव स्वपुत्र ब्रह्माणमनुज्ञाप्य स्वलोकगमनानुज्ञा दत्त्वा ततस्तदनन्तर यावत् ब्रह्मा स्वस्थानाद्बालकवत्सानानयेत् तावत् स्वशक्त्यैव ततस्तानानीय प्रथमतो बालान् पुलिने पूर्ववदवस्थितान् कृत्वा पश्चाद्वत्सानयनार्थंगत एव वत्सानपि यथापूर्वं सखायो यस्मिंस्तत् स्वक स्वकेलिसम्पत् सरः पुलिनमानिन्ये। ब्रह्मद्वारा तेषामानयने पुनरपि पूर्ववत् सवत्सरो व्यतीतः स्यादिति ज्ञेयम्॥४२॥ ननु ‘एव सवत्सरपर्यन्त काल ते कथ तत्रैवोपविष्टाः? कथं वा क्षुत्पिपासादीन् विस्मृतवन्तः? तत्राह— एकस्मिन्निति। आत्मनः स्वस्य प्राणेशमन्तर्यामिण प्रियतम कृष्णमन्तरा विना एकस्मिन्नब्दे याते व्यतीतेऽपि तेऽर्भका क्षणार्धं मेनिरे। ननु ‘प्रियविरहेण क्षणार्द्धमपि वर्षादधिकं भवति, कथंतेषा वैपरीत्य
श्रीशुक उवाच॥ इत्यभिष्ट्य भूमानं त्रिः परिक्रम्य पादयोः॥ नत्वाऽभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत॥४१॥ ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान्॥ वत्सान् पुलिन मानिन्ये यथापूर्वसखं स्वकम्॥४२॥ एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः॥ कृष्णमायाहता राजन् क्षणार्ध मेनिरेऽर्भकाः॥४३॥ किं किं न विस्मरन्तीह मायामोहितचेतसः॥ यन्मोहितं जगत् सर्वमभीक्ष्ण विस्मृतात्मकम्॥४४॥ ऊचुश्च सुहृदः कृष्ण स्वागतं तेऽतिरंहसा॥ नैकोऽप्यभाजि कवल एहीतः साधु भुज्यताम्॥४५॥
जातम्?’ तत्राह— कृष्णमायाहता इति। नच “तर्हि ‘मन्मायामोहितेतरे’ इति ब्रह्मणा कथमुक्तम्?” इति शङ्कनीयम्, भगवत्परिग्रहभूतानां ब्रह्ममायया। मोहासम्भवात्। ‘प्रायो मायाऽस्तु मे भर्तुः’ इति श्रीबलभद्रेणापि तथैवोक्तत्वात्॥ भगवतैव स्वलीलासिद्ध्यर्थं ते मोहिताः, ब्रह्मणस्तथा वाक्यं त्वभिमानमात्रेण ज्ञेयम्।’ राजन्’ इति सम्बोधन विश्वासार्थम्॥४३॥ भगवन्मायामाहात्म्यमाह— किं किमिति। मायया मोहित चेतो येषा ते प्राणिन इह ससारे किं किं न विस्मरन्ति, सर्वमेव पर्यायेण विस्मरन्तीत्यर्थः। किं बहुनोक्तेन? सर्वमेव जगत् प्राणिमात्र यया मायया मोहित सत् अभीक्ष्णं पुनःपुनः शास्त्राचार्यैः प्रबोधितमपि विस्मृतः आत्मा स्वरूपमपि येन तथा भवति॥४४॥ मोहेन क्षणार्धाभिमानादेव ते सुहृदः गोपबालास्तं कृष्णं ते त्वयाऽतिरहसा अतिवेगेन स्वागत सम्यगागतमस्माभिस्तु तावदेकोऽपि कवलो ग्रासरत्वाविना नाभोजि न मुक्तः, अत इतः अस्मिन् स्वोपवेशस्थाने एहि उपविश, साधु यथा भवति तथा वत्साना प्राप्तत्वादपि क्षेमेण मुज्यतामित्यूचुःश्च॥४५॥
ततोमोहप्रयुक्ततद्वाक्यश्रवणानन्तरं हृषीकेशः सर्वान्तर्यामी श्रीकृष्णः हसंस्तैरर्मकैः सह अभ्यवहृत्य मुक्त्वा आजगरमघासुरशररिजं चर्म तेषां दर्शयन् वनात् व्रजं प्रति न्यवर्ततेत्यन्वयः॥४६॥ वनाद्व्रजमागच्छन्तं वर्णयति— बर्हेति। वर्होमयूरपिच्छं च प्रसूनानि च नवधातवो गैरिकादयश्च तैर्विचित्रितान्यङ्गाणियस्य सः, प्रोद्दामा अत्युत्कटा ये वेण्वादिरवाः शब्दास्तैर्य उत्सवस्तेनाढ्यः सम्पन्नः, वत्सान् गृणन् उपलालननामभिराह्वयन, अनुगैर्गोपैर्देवैर्वा गीता पवित्रा श्रवणादिपराणा सर्वदोषनिवर्तिका कीर्तिर्यस्य सः, गोपीना दृशामुत्स्वरूपा दृशिर्दर्शन यस्य सः कृष्णः गोष्ठं व्रजं प्रविवेश॥४७॥ बहूना सहैवोक्तिः। तत्र केचिदाहुः— यशोदासूनुनेति, केचिच्च नन्दसूनुनाऽनेनाद्य वने महाव्यालो हतोऽस्माच्च व्यालाद्वयमविता रक्षिता इति गोपबाला व्रजे जगुः कथितवन्तः॥४८॥ ‘व्रजौकसा स्वतोकेषु’ इत्यादिना स्वपुत्रेभ्योऽपि परपुत्रे कृष्णे यत् प्रेमाधिक्यमुक्त, तत्र शङ्कमानः पृच्छति— ब्रह्मन्निति सम्बोधन सर्वज्ञत्वसूचनाय। लोके ह्यतिगुणवत्तमादपि परपुत्रात गुणहीनेऽपि स्वपुत्रे प्रेमाधिक्यं दृश्यते, ब्रजवासिनां
ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः॥ दर्शयश्चर्माजगरं न्यवर्तत वनाद्व्रजम्॥४६॥ बर्हप्रसूननवधातुविचित्रि ताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः॥ वत्सान् गृणन्ननुगगीतपवित्रकीर्तिगोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम्॥४७॥अद्यानेन महाव्यालो यशोदानन्दसूनुना॥ हतोऽविता वयं चास्मादिति बाला व्रजे जगुः॥४८॥ राजोवाच॥ ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत्॥ योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम्॥४९॥ श्रीशुक उवाच॥ सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः॥ इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि॥५०॥
तु यः स्वपुत्रेष्वपि पूर्व नाभूत् स इयान् अत्युत्कटः प्रेमा परोद्भवे कृष्णे कथं भवेत्? तत्रोपपत्तिः कथ्यताम्॥४९॥ एव पृष्टः शुकः “श्रीकृष्णस्य साक्षात् सर्वात्मकत्वात् आत्मनश्च निरुपाधिकप्रेमास्पदत्वस्य लोकसिद्धत्वात् ‘आत्मनस्तु कामाय सर्व प्रिय भवति’ इति श्रुतिसिद्धत्वाच्च तस्मिन् आत्मीयेभ्यश्च पुत्रादिम्यः प्रेमाधिक्य युज्यते एव” इति सिद्धान्तयितु प्रथमं तावत् ‘आत्मनः स्वतः प्रेष्ठत्वमन्येषा तु तदुपाधिक प्रेष्ठत्वम्’ इति दर्शयति— सर्वेषामिति पञ्चभिः। ‘सकलराजश्रेष्ठत्वेन विवेकित्वात्त्वयाऽपि एतद्विचारणीयम्’ इति सूचयन् सम्बोधयति— नृपेति। सर्वेषामपि भूतानां प्राणिना स्वात्मैव वल्लभः निरुपाधिकातिशयप्रीतिविषयः, तदितरेऽपत्यवित्ताद्यास्तु तद्वल्लभतयैव तस्यात्मनः सुखसाधनतयैव वलभाः, न स्वत इति। ‘लोकसिद्ध एवायमर्थ’ इति सूचयन्नाह— हीति॥५०॥
लोकप्रसिद्धिमेव स्पष्टयति— तदिति। तत् तस्मात् आत्मनो निरुपाधिक प्रेमास्पदत्वादेव हे राजेन्द्र! देहिनां प्राणिनां यथा स्वस्वकात्मनि अहङ्कारास्पदे देहे स्नेहस्तथा ममतास्पदेषु पुत्रादिषु स्नेहो न भवति॥५१॥ एवं सामान्यतः ‘सर्वत्र दृश्यमान प्रेमतारतम्यमात्माध्यासतारतम्यनिबन्धनमेव’ इत्युक्त, तदेव विशेषतः स्पष्टयति— देहात्मवादिनामिति द्वाभ्याम्। ‘तव तु देहाद्विविक्तात्मज्ञानमस्ति’ इत्याशयेन सम्बोधयति— राजन्यसत्तमेति। ‘देह एव आत्मा’ इति वदितुं शीलं येषा तेषामपि यथा देहः प्रियतमस्तथा त देहमनु ये गृहापत्यादयस्ते प्रियतमा न भवन्ति। ‘हि’ इति सन्देहनिरासाय॥५२॥ जीर्यत्यपि आसन्नमरणे अपि अस्मिन् देहे अविवेकदशायां यथाऽहन्तास्पदत्वेन प्रियतमत्वेन च बलीयसी उत्कटा जीविताशा भवति, तथा सोऽपि देहो यदि विवेकदशाया ममताभाग्भवति, तर्ह्यसावपि आत्मवत् प्रियो न भवति। जीवतु वा नश्यतु वा, तत्र नाग्रहः॥५३॥ यद्यस्मादेव तस्मात् सर्वेषामपि देहिना स्वात्मैव प्रियतमः। चर पुत्रकलत्रादि, अचरं गृहधनादि। सकलमप्येतज्जगत् तदर्थमेव आत्मसुखार्थमेव
तद्राजेन्द्र! यथा स्नेहः स्वस्वकात्मनि देहिनाम्॥ न तथा ममतालम्बिपुत्रवित्तगृहादिषु॥५१॥ देहात्मवादिना पुंसामपि राजन्यसत्तम!॥ यथा देहः प्रियतमस्तथा न ह्यनु ये च तम्॥५२॥ देहोऽपि ममताभाक् चेत्तर्ह्यसौ नाऽऽत्मवत्प्रियः। यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी॥५३॥ तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्॥ तदर्थमेव सकलं जगदेतच्चराचरम्॥५४॥ कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्॥ जगद्धिताय सोऽप्यत्र देहीवाऽऽभाति मायया॥५५॥ वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च॥ भगवद्रूपमखिलं नान्यद्वस्त्विह किचन॥५६॥
प्रिय भवतीत्यर्थः॥५४॥ ‘भवत्वात्मा सर्वतः प्रियः, कृष्णः कथ प्रियो भवति?’ तत्राह— कृष्णमिति। एन कृष्णमखिलात्मना सर्वप्राणिनामात्मान त्वमवेहि जानीहि। ननु ‘सर्वात्मा चेतर्हि कथमिन्द्रियगोचरः सन् परिच्छिन्नमनुष्यवत् प्रतीयते?’ तत्राह— जगद्धितायेति। यादृशीलींलाः श्रुत्वा जनो मनोमल विहाय स्वपरायणः स्यात्तादृशलीलाकरणेन जगतो हिताय स सर्वात्माऽपि मायया स्वेच्छयैवात्र व्रजे देहीवाभाति, न तु वस्तुतः। कर्माधीनो मनुष्य एवेत्यर्थः॥५५॥ ‘न केवल चेतनानामेवायमात्मा, अपि तु जडानामपि’ इति वदन् ‘तस्य सर्वात्मत्त्व महता दर्शनमपि प्रमाणम् इत्याह— वस्तुत इति। वस्तुतः परमार्थतः श्रीकृष्ण जानता पुसामत्र ससारे स्थास्नु स्थावर चरिष्णु जङ्गम च सर्वं भगवद्रूप भगवान् श्रीकृष्ण एव रूप यस्य तथाभूत भाति, ततोऽन्यदिह जगति किञ्चनापि नावशिष्यते इत्यर्थ॥५६॥
तत्रोपपत्तिमाह— सर्वेषामिति। सर्वेषामपि वस्तूनां भावार्थः परमार्थः भवति भवत्परिणामं प्राप्नुवदिति कारणम्, तस्मिन् स्थितः। तस्यापि सर्वकारणस्य कारण भगवान् कृष्ण एव, अतः अतत् कृष्णव्यतिरिक्त वस्तु किं तत् रूप्यताम् निरूप्यताम्॥५७॥ ‘तस्मात् श्रीकृष्णस्यैव परमार्थत्वात्तदेकशेरणानामेव अयत्नसिद्धो मोक्षो, नान्येषाम्’ इति प्रकरणार्थमुपसंहरति— समाश्रिता इति। महतां ब्रह्मशिवादीनामपि पदमाश्रयभूतं पुण्यं ‘श्रवणादिपराणामन्तःकरणशोधकं’ यशो यस्य स पुण्ययशाः स चासौ मुरारिश्च तस्य पदपल्लव एव प्लवः संसारसिन्धुतरणे नौस्तं ये सम्यक् निष्कपटमाश्रिताः तेषां भवाम्बुधिः वत्सपदमित्र सुतरो भवति। परं पद श्रीवैकुण्ठाख्य पद स्थान भवति। विपदां दुःखानां यत् पदं स्थानं संसारस्तत्पुनः कदापि न भवति। न ततः पुनरावर्तन्ते इत्यर्थः॥५८॥ यत्त्वयाऽहमिह भगवल्लीलायामाश्चर्येण पृष्टस्तदेतत् प्रश्नस्योत्तर सर्वं मया ते तुभ्यमाख्यातं प्रकथितम्। कथितमेवानुवदति— यदिति। यत् कौमारावस्थायामधासुरवधादि हरिणा कृत तद्यथा तत्पौगण्डावस्थायां बालैर्ब्रजे परिकीर्तितमिति॥५९॥
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः॥ तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम्॥५७॥ समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशोमुरारेः। भवाम्बुधिर्वत्सपदं परं पदं पद पद यद्विपदां न तेषाम्॥५८॥ एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया॥ यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम्॥५९॥ एतत् सुहृद्धिश्चरितं मुरारेरघार्दनं शाद्वलजेमनं च॥ व्यक्तेतरद्रूपमजोर्वभिष्टवं शृण्वन् गृणन् एति नरोऽखिलार्थान्॥६०॥ एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे॥ निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः॥६१॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधप्रकरणे ब्रह्मकृतस्तुतिनिरूपणं नाम चतुर्दशोऽध्यायः॥१४॥छ॥छ॥छ॥ छ॥छ॥
अध्यायत्रयश्रवणकथनपराणां फलमाह— एतदिति। एतन्मुरारेः सुहृद्भिश्चरितं ‘मुष्णन्तोऽन्योन्यशिक्यादीन्’ इत्यादिनोक्त, अघार्दनमघासुरमोक्षण च, शाद्वले हरिततृणे सखिभिः सह जेमनं भोजनं च, व्यक्तेतरत् व्यक्ताज्जडात् प्रपञ्चादितरत् शुद्धानन्दात्मक, वत्सवत्सपालादिरूप च, अजेन ब्रह्मणा कृतमुरुं महान्तमभिष्टवं स्तोत्र च, श्रृण्वन् गृणन् नरोऽखिलार्थान् सर्वपुरुषार्थान् एति प्राप्नोति॥६०॥ एवमुक्तप्रकारकैरन्यैरपि निलायनाद्विभिः कौमारैः कुमारावस्थायां योग्यैर्विहारैः कृत्वा ब्रजे स्थितौ रामकृष्णौ कौमारं कुमारावस्था जहतुस्त्यक्तवन्तौ इत्यर्थः। निलायनं निलीय स्थितिः। सेतुबन्धः नद्यादिषु सेतुबन्धः। मर्कटवदुत्प्लवन शाखातः शाखान्तरगमनम्। आदिपदेनानेकविधलीलान्तरग्रहणम्॥६१॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ चतुर्दशो गतो वृतिं ब्रह्मस्तुतिनिरूपकः॥ ३॥छ॥छ॥ छ॥
पञ्चदशे तरुस्तोत्र धेनुरक्षा विनाशनम्॥ धेनुकस्य विषाद्गोप— वत्सरक्षा निरूप्यते॥१॥ तदेवं कौमारलीलां निरूप्य पौगण्डलीलां निरूपयति— तत इति। ततश्च कौमारावस्थानन्तरं यदा तौ रामकृष्णो व्रजे पौगण्डवयःश्रितौ ईषद्वयोबलातिरेकमनुकृतवन्तौ, अत एव पशूनां गवादीनां पालने चारणसयोजनबन्धनादौ नन्दादीनां सम्मतौ बभूवतुस्तदा सखिभिः सह गाश्चारयन्तौ ब्रह्मादिवन्यैः पदैः सर्वतः प्रसर्पणेन वृन्दावनमतीव पुण्य पवित्र पुण्यजनकस्थान चक्रतुरित्यन्वयः। तद्गोचारणारम्भदिन तु पाद्मेकार्तिकमाहात्म्ये उक्तम्— “शुक्लाष्टमी कार्तिके तु स्मृता गोपाष्टमी बुधैः॥ तद्दिनाद्वासुदेवोऽभूद्रोपः पूर्व तु वत्सपः” इति॥१॥ तत्र वृन्दावनगमनप्रकारमाह— तदिति। तद्वृन्दावन विहर्तुकामो वेणुमुदीरयन् वादयन् स्वयशो गृणद्भिर्गोपैर्वृतःबलेन चान्वितःपशून् गाः पुरस्कृत्य माधवो लक्ष्मीपतिः श्रीकृष्ण आविशत्। वनस्य विहारयोग्यता दर्शयस्तद्विशिनष्टि— पशव्यं तृणजलच्छायादिबाहुल्येन पशुभ्यो हितम्। कुसुमानामाकरम्॥२॥ तत् पञ्चेन्द्रियाह्लादक वृन्दावन निरीक्ष्य भगवान् कृष्णो रन्तु मनो दधे। मञ्जुघोषा मधु-
श्रीशुक उवाच॥ ततश्च114 पौगण्डवयःश्रितौ ब्रजे बभूवतुस्तौ पशुपालसम्मतौ॥ गाश्चारयन्तौ सखिभिः समं पदैर्वृन्दावनं पुण्यमतीव चक्रतुः॥१॥ तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्धिः स्वयशो बलान्वितः॥ पशून् पुरस्कृत्य पशव्यमाविशद्विहर्तुकाम. कुसुमाकरं वनम्॥ २॥ तन्मज्जुघोषालिमृगदिजाकुलं महन्मनः प्रख्यपय-सरस्वता॥ वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे॥ ३॥
रनादा ये अलिमृगद्विजाः भ्रमरभृङ्गपक्षिणस्तैराकुलं व्याप्तमिति श्रोत्राह्लादकत्वमुक्तम्। महता भगवद्ध्याननिष्ठाना योगिना मनसा प्रख्य सदृश शीतल मधुर स्वच्छं च पयो यस्मिस्तत् सर आश्रयत्वेन विद्यते यस्य तेन वातेन जुष्टमिति जलगतमाधुर्येणाग्रिमश्लोकोक्तफलबाहुल्येन च रसनाह्लादकत्वमुक्तम्। अनेनैव जलसम्बन्धात् शीतलेन वनसम्बन्धान्मन्देन च वायुना जुष्टत्वेन त्वगिन्द्रियाह्लादकत्वमुक्तम्। ‘शतपत्रगन्धिना’ इति घ्राणाह्लादकत्वमुक्तम्॥३॥
‘अरुणपल्लवश्रिया जुष्टम्’ इति नेत्राह्लादकत्वमुक्तम्। स आदिपुरुषःश्रीकृष्णस्तत्र तत्र वने फलानां प्रसूनाना चोरुभरेण पादयो स्पृशन्त्य शिखा शाखा येषा तान् वनस्पतीन् वृक्षान् वीक्ष्य मुदा हर्षेण स्मयन् प्रहसन्, यह्वाआश्चर्य कुर्वन्निव अग्रज बलभद्रमाह। स्वसङ्कल्पकृतत्वेन वस्तुत आश्चर्याभावादिवशब्दप्रयोगः॥४॥ भगवदुक्तिमेव दर्शयति— अहो इति। अहो आश्चर्य वृन्दावनस्य माहात्म्य यत्रत्यानां वृक्षाणामपि विवेकिनामिव व्यवहार इत्यर्थः। तदेव स्पष्टयति— हे देववर! अमी वृक्षा आत्मनः शिखाभिः शाखाभिः सुमनः फलार्हणं पुष्पफलादिपूजोपकरणमुपादाय समर्प्य अमरैर्ब्रह्मादिदेवैरप्यर्चितं ते तव पदाम्बुजं नमन्तीत्यन्वयः। एवं नमस्कारे हेतुमाह— तम इति। यद्यस्मात् अमीषा तमसः अज्ञानस्य, पापस्य वाऽपहत्यै विनाशाय ब्रह्मादिदुर्लभ वृन्दावने भवता तरुजन्म कृतमित्यर्थः। अनेन बलभद्रस्य वस्तुतः स्वाभिन्नत्व सूचितम्॥५॥ तत्रत्यान् जङ्गमान् स्तौति-
स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः॥ स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपुरुषः॥४॥ श्रीभगवानुवाच॥ अहो अमी देववरामरार्चित पादाम्बुजं ते सुमनः फलार्हणम्॥ नमन्त्युपादाय शिखाभिरात्मनस्तमोपहत्यै तरुजन्म यत कृतम्॥५॥ एतेऽलिनस्तव यशोऽखिललोकर्तार्थं गायन्त आदिपुरुषानुपदभजन्ति115॥ प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहत्यनघात्मदैवम्॥६॥
एते इति द्वयेन। एतेऽलिनो भ्रमरा लोकप्रतीत्या झङ्कारमिव कुर्वन्तोऽपि वस्तुतस्तव यशो गायन्तोऽनुपदं पथि पथि त्वा भजन्ते। यशोगाने हेतुमाह— अखिललोकतीर्थमिति। वक्तृश्रोतृसर्वजनानां शोधकमित्यर्थः। यशसःशोधकत्वे भगवतो भजनीयत्वे च हेतुत्वेन सम्बोधयति— आदिपुरुषेति। ननु ‘एते जातिहीनाः कथं यशो ज्ञास्यन्ति’ इत्याशङ्कयाह— प्राय इति। हि यस्मात् अमी भ्रमरा मुनिगणा भवदीयेषु भवत्सेवकेषु मुख्याः। ननु ‘मम भक्ता मुनिगणाः कथ नीचां योनिं प्राप्तवन्तः?’ तत्राह—गूढमिति। त्वयि मनुष्यवेषेण निगूढे सति मुनयोऽप्यलिवेषेण निगूढास्त्वा भजन्ति, न जहति न त्यजन्तीत्यर्थः। ननु ‘तर्हि प्रकट देवतान्तरमेव कुतो न भजन्ति?’ तत्राह— अनघेति। अनघो निर्दोषश्चासावात्मनः स्वस्य दैवं च त भजन्ति। नह्येवंभूतो भवान् सेवकैस्त्यक्तुं शक्य इति भावः॥६॥
हे ईड्य स्तुत्य! अमी शिखिनो मयूरा मुदा नृत्यन्ति नृत्येनैव गृहमागताय ते तुभ्यंप्रियं कुर्वन्ति, तथा हरिण्योऽपि गोप्य इव गृहमागताय ते तुभ्यमीक्षणेन प्रियं कुर्वन्ति, तथा कोकिलगणा अपि गृहमागताय ते सूक्तैः स्तोत्ररूपैर्मधुरशब्दैः प्रियं कुर्वन्ति। अत एते वनौकसो वनवासिनो निकृष्टजातयोऽपि भ्रमरादयो धन्याः कृतार्थाः। तत्र हेतुमाह— इयानिति। हि यस्मात् स्ववशवर्तिपदार्थस्य स्वगृहमागताय महते निवेदनाग्रहरूपः सता सदाचारनिष्ठाना निसर्गः स्वतः सिद्धः स्वभावः॥७॥ एव तत्तत्कर्तृकसेवया तांस्तान् स्तुत्वा स्वकर्तृकप्रसादविषयान् स्तौति— धन्येति। तव पादस्पर्शादिय धरणी अद्य धन्या। तथा त्वत्पादौ स्पृशन्तीति त्वत्पादस्पृशस्तृणवीरुधश्च धन्याः। तथा तव रजैर्नखैरभिमृष्टाः द्रुमलताश्चधन्याः। तथा दयासहिताव-
नृत्यन्त्यमी शिखिन ईड्य! मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन॥ सूक्तैश्चकोकिलगणा गृहमागताय धन्या वनौकस इयान् हि सता निसर्गः॥७॥ धन्येयमद्य धरणी तृणवीरुधस्त्वत्पादस्पृशो द्रुमलताःकरजाभिसृष्टाः॥ नद्योऽद्रय खगमृगा सदयावलोकैर्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः॥८॥ श्रीशुक उवाच॥ एवं वृन्दावन श्रीमत् कृष्णः प्रीतमनाः पशून्॥ रेमे सञ्चारयन्नद्रे सरिद्रोधस्तु सानुगः॥९॥ क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः॥ उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः॥१०॥
लोकनैर्नद्योऽद्रयः खगा मृगाश्व धन्याः। तथा तव भुजयोरन्तरेण कृत्वा भुजमध्ये वक्षःस्थले आलिङ्गनं प्राप्य गोप्योऽपि धन्याः। ननु ‘कथमालिङ्गजनस्यैवं माहात्म्यम्?‘तत्राह— यत्स्पृहा श्रीरिति। लक्ष्म्या अपि यस्यालिङ्गनस्य स्पृहा भवति॥८॥ एवं वृन्दावनवृक्षादीन् स्तुत्वा, ‘तत्र क्रीडा कृतवान्’ इत्याह— एवमिति। एव श्रीमत् शोभायुक्त वृन्दावनं स्तुत्वा प्रीतमनाः कृष्णः अद्रेः सानुषु प्रान्तेषु सरितो रोधःसु तटेषु च पशून्गाश्चारयन् रेमे इत्यन्वयः॥९॥ तामेव क्रीडा वर्णयति— क्वचिदिति दशभिः॥ अनुव्रतैः अनुगैर्देवादिभिर्गोपैर्वा उपगीयमान चरित यस्य स सङ्कर्षणेनान्वितः स्रग्वी श्रीकृष्णःमधुपानमदेनान्धा येऽलयो भृङ्गास्तेषु क्वचिद्गायत्सु सत्सु स्वयमपि गायति॥१०॥
क्वचित् कलहमाना कूजितमनुकृत्य स्वयं कूजति। तथा नृत्यन्तं बर्हिणमभि सम्मुखं नृत्यति। ‘एवमनुकरणं किमर्थम्?’ इत्यत आह— हासयन्निति। ‘सखीन्’ इति शेषः॥११॥ गवा गोपानां च मनोहरया मेघस्येव गम्भीरया वाचा सङ्केतनामभिः दूरगान् पशून् प्रीत्याक्वचिदाह्वयति॥१२॥ चकोरादीन् पक्षिणः अनुरौति तत्तज्जातिशब्दानामनुकरण करोति। सत्त्वाना प्राणिना मध्ये व्याघ्रसिहयोः शब्देन भीतवद्भवति, पतिप्रत्ययेन वस्तुतो भयाभावं सूचयति॥१३॥ क्वचित् क्रीडया परिश्रान्तमतो गोपोत्सङ्गमुपबर्हणमुच्छीर्षक यस्य तमार्यमग्रज सुप्त पादसवाहनादिभिः पादसम्मर्दनादिभिः स्वयं कृष्णः विश्रमयति विगतश्रमं करोति॥१४॥ क्वापि मिथो नृत्यादीन् कुर्वतो गोपालान् गृहीतहस्तौ रामकृष्णौ हसन्तौ “अहो! यूय नृत्येन विद्याधरविडम्बका, गानेन गन्धर्वगणतिरस्कारिणो, युद्धेन त्रिलोकीजित्वरा” इत्येव प्रशशंसतुः॥१५॥ नियुद्ध बाहुयुद्धम्, तेन यः
क्वचिच्च कलहसानामनुकूजति कूजितम्॥ अभिनृत्यति नृत्यन्त बर्हिणं हासयन् कचित्॥११॥ मेघगम्भीरया वाचा नामभिर्दूरगान् पशून्॥ क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया॥१२॥ चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च वर्हिण॥ अनुरौति स्म सत्त्वानां भीतवद्व्यासिंहयोः॥१३॥ क्वचित् क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम्॥ स्वय विश्रमयत्यार्यं पादसंवाहनादिभिः॥१४॥ नृत्यतो गायतः क्वापि वल्गतो युद्ध्यतो मिथः॥ गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः॥१५॥ क्वचित् पल्लवतल्पेषु नियुद्धश्रमकर्शितः॥ वृक्षमूलाश्रयः116 शेते गोपोत्सङ्गोपबर्हणः॥१६॥ पादसंवाहनं चक्रुः केचित्तस्य महात्मनः॥ अपरे हतपाप्मानो व्यजनैः समवीजयन्॥१७॥
श्रमस्तेन कर्शितः श्रान्त इव गोपोत्सङ्गोपबर्हणः वृक्षमूलाश्रयः वृक्षच्छायाश्रितः सन् कृष्णः क्वचित् पल्लवे एव शेते। ‘पल्लवतल्पेषु’ इति बहुवचनात्पुष्पादीनामापि तल्पा गोपैरहमहमिकया पृथक्पृथग्रचितास्तेषु तेषा प्रीत्यर्थ तत्तदलक्षितस्तावद्रूपः सन् शेते। एवमीशचेष्टित इति वक्ष्यमाणं सङ्गच्छते॥१६॥ तदा केचिद्रोपास्तस्य महात्मनः श्रीकृष्णस्य पादसवाहन चक्रुः। अपरे तु गोपा व्यजनैः पल्लवादिनिर्मितैः समवीजयन् सम्यग्मन्दमधुरचालनादिमुद्रया अवीजयन्। ‘एव भगवत्सेवा विशुद्धान्तः करणानामेव सम्पद्यते’ इत्याशयेनाह— हतेति। बहुजन्मोपार्जितैः सुकृतैः हतो नष्टः पाप्मा येषां ते॥ १७॥
अन्ये तत्स्नेहेन क्लिन्ना आर्द्रा धीर्येषां ते तदनुरूपाणि तस्य शयनस्यानुरूपाणि योग्यानि, अत एव महात्मनस्तस्य कृष्णस्य मनोज्ञानि सुखकराणि गीतानि शनैः यथा निद्राभङ्गो न स्यात्तथा गायन्ति स्म।‘हे महाराज!’ इति सम्बोधनेन राज्ञामपि शयनम्एवमेव भवति, तत्तु तव विदितमेवेति भावः॥१८॥ वस्तुतो रमया लक्ष्म्या लालितौ पादपल्लवौ यस्य स भगवानेव स्वमायया स्वेच्छया निगूढा आच्छादिता आत्मनो गतिस्तत्त्व येन सः स्वचरितैर्गोपात्मजत्व विडम्बयन् अनुकुर्वन् ग्राम्यैर्गेपैिः सम सह ग्राम्यवत् एवमुक्तप्रकारेण रेमे इत्यन्वयः। ननु ‘स भगवानेवायम्’ इत्यत्र किं ज्ञापक तत्राहः ईशचेष्टित इति। ईशस्य चेष्टितानि देवादिष्वप्यसम्भावितानि असुरसहारादीनि कर्माणि यस्य सः॥९॥ ईशचेष्टितत्वमेव दर्शयितु चरित्रान्तरमाह— श्रीदामेति। रामकेशवयोः सखायः श्रीदामाद्या गोपाः प्रेम्णेदमब्रुवन्नित्यन्वयः। ‘प्रेम्णा’ इत्यनेन स्वार्थप्रार्थनान्याजेन तावेव तालफलानि भोजयितुमिति सूचयति॥२०॥ सामर्थ्यमादरं च सूचयन्तो बहुधा सम्बोधयन्ति— ‘महासत्त्व, महाबल’ इति रामविशेषणम्। ‘दुष्टनिबर्हण, दुष्टविनाशन’
अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः॥ गायन्ति स्म महाराज! स्नेहक्लिन्नधिय शनैः॥१८॥ एव निगूढात्मगति स्वमायया गोपात्मजत्वं चरितैर्विडम्बयन्॥ रेमे रमालालितपादपल्लवो ग्राम्यै सम ग्राम्यवदीशचेष्टितः॥१९॥ श्रीदामा नाम गोपालो रामकेशवयोः सखा॥ सुबलस्तोककृष्णाद्या गोपाःप्रेम्णेदमब्रुवन्॥२०॥ राम राम महाबाहो कृष्ण दुष्ट निबर्हण॥ इतोऽविदूरे सुमहदनं तालालिसङ्कुलम्॥२१॥ फलानि तत्र भूरीणि पतन्ति पतितानि च॥ सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना॥२२॥ सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक्॥ आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिर्वृतः॥२३॥
इति कृष्णविशेषणम्। इतः अस्मात् क्रीडास्थानात् अविदूरे समीपे एव तालालिभिः तालानां पङ्क्तिभिः सङ्कलं व्याप्त सुमहद्वनमस्तीति॥२१॥ तत्र च भूरीणि फलानि सन्ति। ‘नच तद्ग्रहणे प्रयासोऽस्ति’ इत्याशयेनाहुः— पतितानीति। ‘तर्हि चिरकालपतिताना फलाना वैरस्य स्यात’ इत्याशङ्कयाहुः— पतन्ति चेति। ‘तदा गृह्यन्ताम्’ तत्राहु— किन्तु धेनुकेनावरुद्धानीति। ‘तर्हि स प्रार्थनीयः’ तत्राहुः— दुरात्मनेति। दुष्टत्वात् न स प्रार्थनायोग्य इति भावः॥२२॥ ‘तर्हि त तिरस्कृत्य बलात्कारेण ग्राह्याणि’ इति चेत्तत्राहु— सोऽतिवीर्य इति। दुष्टत्वे बलाधिक्ये च हेतुमाहुः— असुर इति। ‘कथं स विज्ञेयः?” इत्यपेक्षायां तस्य स्वरूपतोऽप्यशुभत्वाभिज्ञापक चिह्नमाहु— खररूपधृगिति। बलवत्त्व निर्भयत्व च सूचयन्तःपुनःसम्बोधयन्ति— हे राम हे कृष्णेति। ‘तथापि स एको युष्माकं बहूनां किं करिष्यति?’ इत्याशङ्क्याह— आत्मतुल्यबलैरिति॥२३॥
‘त्वमेव पूतनादिवत् एनमपि हत्वा एतन्निर्भयं कर्तुं शक्त’ इत्याशयेन कृष्णं सम्बोधयन्ति— हे अमित्रहन् इति। तच्च वनं मनुष्यादिभिर्विवर्जितम्तत्र हेतुमाह— तस्मादसुराद्भीतैर्मनुष्यादिभिर्न सेव्यते इति। भयहेतुत्वेन विशिनष्टि— कृतेति। कृतो नरा एव आहारो येन सः॥२४॥ अभुक्तपूर्वाणि याने पूर्व कदापि न भुक्तानि तथाविधानि सुरभीणि सुगन्धीनि च फलानि तत्र विद्यन्ते। ननु “यदि तत्र कदापि तद्भयेन गमनं न जात तदा कथ ज्ञायते तत्र तथाविधफलानि सन्तीति” तत्राहुः— एष इति। विषूचीनः सर्वतः प्रसृतः एष तेषामेव सुरभिर्गन्धोऽवगृह्यते। तेन गन्धेन तथात्व ज्ञायते इत्यर्थः॥२५॥ न केवलमिदानीमेव तल्लाभो जातः, किन्तु पूर्वमपि महती वाञ्छा आसीत्। तत्र केचिदाहुः— हे कृष्णेति। केचिदाहुः— हे रामेति। अतस्तानि फलानि गन्धेन लोभितानि चेतासि येषा तेषा नोऽस्माक प्रयच्छ देहि। ‘अतिनिर्बन्धे कृते कदाचित् कोपं कुर्यात्, गते वा तत्र किञ्चिदनिष्टं स्यात्’ इत्याश-
तस्मात् कृतनराहाराद्भीतैर्नृभिरमित्रहन्॥ न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम्॥२४॥ विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च। एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते॥२५॥ प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम्॥ वाञ्छाऽस्ति महती राम! गम्यतां यदि रोचते॥२६॥ एवं सुहृद्वचःश्रुत्वा सुहृत्प्रियचिकीर्षया। प्रहस्य जग्मतुतुर्गोपैर्वृतो तालवनं प्रभू॥२७॥ बलःप्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन॥फलानि पातयामास मतङ्गज इवौजसा॥२८॥ फलानां पततां शब्दं निशम्यासुररासभः॥ अभ्यधावत् क्षितितलं सनगं परिकम्पयन्॥२९॥
ङ्क्याहुः—यदि रोचते तदा गम्यतामिति॥२६॥ एव सुहृदा मित्राणा गोपानां वचः श्रुत्वा प्रहस्य सुहृदा तेषा प्रियचिकीर्षया तैर्गोपैर्वृतौ रामकृष्णौ तालवन जग्मतुः। अनेन फलप्रदाननिर्धारः सूचितः। तथानिर्धारहेतुत्वेन सामर्थ्य सूचयन्नाह— प्रभू इति॥२७॥ तद्वन प्रविश्य बलः बाहुभ्यां ओजसा बलेन तालवृक्षान् सम्परिकम्पयन् तत्फलानि पातयामास। तत्र दृष्टान्तमाह— मतगज इवेति॥२८॥ तदा चासुररासभः रासभो गर्दभः तद्रूपधृक् असुरो धेनुकः पतता फलाना शब्द निशम्य श्रुत्वा नगा वृक्षास्तैः सहित क्षितितल परिकम्पयन् अभ्यधावत् हन्तु सम्मुखमाजगाम। ‘सनग क्षितितलं कम्पयन्’ इत्युक्त्या तस्य महत्त्वं युद्धसामर्थ्यं च सूचितम्॥२९॥
समेत्य समागत्य प्रत्यग्द्वाभ्यां पश्चिमाभ्यां पद्भ्यां बलमुरसि निहत्य काशब्दं गर्दभजातिशब्दं मुञ्चन् पुनरपि हननावकाशं पर्यालोचयन् पर्यसरत्परितोऽधावत्। तत्र सामर्थ्यमाह— बलेति। ननु “सर्वफलदाता भगवांश्चेत् फलार्थी सन् स्वयमेव तत्स्थानमागतस्तदा तस्य स्वयमेव फलान्यानीय तस्मै देयानीत्युचितम्, तदकृत्वा कथमेव विपरीतं कृतवान्?” तत्राह— खल इति। खलानामयमेव स्वभावो यन्महतो न गणयन्ति, योग्याय न प्रयच्छन्ति, प्रत्युत तत्र प्रतिबन्धका भवन्त्यतो न तथा कृतवान्, विपरीतं च कृतवानिति भावः॥३०॥ सरब्धः सङक्रुद्धः उपक्रोष्टा गर्दभरूपोऽसुरः पुनरासाद्य समीपमागत्य पराक्स्थितः पृष्ठीकृत्य स्थितः हे राजन्! रुषा क्रोधेन बलाय बलं हन्तुमपरौ पश्चिमौ चरणौ प्राक्षिपदित्यन्वयः॥३१॥ स बलस्तमसुरमेकेनैव पाणिना प्रपदोः पादाप्रयोर्गृहीत्वा भ्रामयित्वा च भ्रामणेनैव त्यक्त जीवित येन त तृणराजाग्रे तालमूले चिक्षेपेत्यन्वयः॥३२॥
समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली॥ निहत्योरसि काशब्दं मुञ्चन् पर्यसरत् खलः॥३०॥ पुनरासाद्य संरब्ध उपक्रोष्टा पराक् स्थितः॥ चरणावपरौ राजन्! बलाय प्राक्षिपद्रुषा॥३१॥ स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकफाणिना॥चिक्षेप तृणराजा भ्रामणत्यक्तजीवितम्॥३२॥ तेनाहतो महातालो वेपमानो बृहच्छिराः॥ पार्श्वस्थं कम्पयन् भग्नः स चान्यः सोऽपि चापरम्॥३३॥ बलस्य लीलयोत्सृष्टखरदेहहताहताः॥ तालाश्च कम्पिरे सर्वे महावातेरिता इव॥३४॥ नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे॥ ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग! यथा पटः॥३५॥
तेन श्रीरामोत्सृष्टखरदेहेन आहत’, अतएव वेपमानः बृहच्छिरा विस्तृताग्रिमभागो महातालः पार्श्वस्थ तालान्तर कम्पयन् भग्नः पतितः, स च तेन कम्पितस्तालोऽपि पार्श्वस्थ तालान्तर कम्पयन् भग्नः सोऽपि चापर ताल कम्पयन् भग्नः॥३३॥ न केवलमेतावत्, किन्तु समीपस्था एव भग्नाः दूरस्थास्तु बलस्य लीलयोत्सृष्टेन प्रक्षिप्तेन खरदेहेन यो हतस्तेनान्यः, तेन अन्य इत्येव हताहताः सर्वे एव तालाश्चकम्पिरे। तत्र दृष्टान्तमाह— महावातेनेरिताः प्रेरिता यथा कम्पन्ते तथेति॥३४॥ एतच्छ्रवणेनाश्चर्यं मन्यमान राजान प्रत्याह— नैतदिति। अप्रतारकत्व सूचयन् सम्बोधयति— अङ्गेति। यस्मिन्निद विश्वं ओतमूर्ध्वतन्तुषु पट इव सथित प्रोत तिर्यक्तन्तुषु पट इव सथित तस्मिन् जगदीश्वरे सङ्कल्पमात्रेण जगज्जननादिकर्तरि। तत्र हेतुः— भगवति अनन्तशक्तियुक्ते अनन्ते स्वय जन्मविनाशादिरहिते एतत् हस्तव्यापारेणासुरमारणःवनप्रकम्पनादि चित्रमाश्चर्य नैव भवति॥३५॥
ततो धेनुकवधानन्तरं ये धेनुकस्य ज्ञातयः क्रोष्टारो गर्दभास्ते सर्वे संरब्धाः क्रुद्धाः सन्तः कृष्णं रामं च चकारात् गोपाश्च हन्तुमभ्यद्रवन्। तत्र हेतुः— हतेति। हतो धेनुको बान्धवो येषां ते॥३६॥ आपततः वेगादागच्छतो गृहीतौ पश्चाच्चरणौ येषां तथाभूतान् तान् दैत्यान् हे नृप! कृष्णो रामश्च तृणराजसु तालमूलेषु प्राहिणोत् प्राक्षिपत्। प्रत्येकाभिप्रायकमेकवचनम्॥३७॥ फलप्रकरैः फलसमूहैः सङ्कीर्णं सतालायैः भग्नतालशाखाभिः सहितैर्गतासुभिः प्राणरहितैर्दैत्यदेहैश्च सङ्कीर्ण व्याप्तं भूतलं रराज। तत्र दृष्टान्तमाह— घनैरिव नभस्तलमिति। यथा नीलरक्तश्वेतादिनानावर्णैर्मेधैर्नानारूप नभो भाति, तथा नानारूपैः फलादिभिर्भूतलमपि नानारूपं बभावित्यर्थः॥३८॥ तयो रामकृष्णयोस्तु सुमहत् अन्यैर्दुष्कर धेनुकवधेन तालवनस्य निर्भयत्वसम्पादनरूपं कर्म निशम्य दृष्ट्वा विबुधादयः, आदिपदेन गन्धर्वादयः। तत्र देवाः पुष्पवर्षाणि मुमुचुः। गन्धर्वा गानपूर्वकं वाद्यानि चक्रुः। मुन-
ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये॥ क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः॥३६॥ तांस्तानापततः कृष्णो रामश्च नृप लीलया॥ गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु॥३७॥ फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः॥ रराज भूः सतालाग्रैर्घनैरिव नभस्तलम्॥३८॥ तयोस्तत् सुमहत् कर्म निशम्य विबुधादयः॥ मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः॥३९॥ अथ तालफलान्यादन् मनुष्या गतसाध्वसाः॥ तृणं च पशवश्चेरुर्हतधेनुककानने॥४०॥ कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः॥ स्तूयमानोऽनुगैगपैः साग्रजो ब्रजमाव्रजत्॥४१॥
यस्तुष्टवुः॥३९॥ अथ धेनुकवधाद्यनन्तरं हतो धेनुको यस्मिंस्तस्मिन् कानने गतसाध्वसा निर्भया मनुष्यास्तालफलानि आदन् अभक्षयन् ‘मनुष्या’ इति पश्वादीनामप्युपलक्षणम्। ‘मनुष्या’ इति सामान्योक्त्या तदा भगवत्सखीना गोपाना फलभक्षण तु कैमुत्यन्यायेनार्थसिद्धम्, तदर्थमेव तत्र गमनात्। तथा पशवश्च गोमहिषादयस्तृण चेरुः॥४०॥ ततश्च साग्रजः अनुगैर्देवर्ष्यादिभिर्गोपैश्व स्तूयमानः कृष्णः व्रजमागमत्। तत्सौन्दर्यातिशयं सूचयन्नाह— कमलपत्रवदक्षिणी यस्य सः। पूर्णानन्दस्य विविधलीलाप्रयोजनं सूचयन्नाह— श्रोतॄणां कीर्तयतां च पुण्यजनकं श्रवणं कीर्तनं च यस्य सः॥४१॥
दिदृक्षिता दर्शनोत्कण्ठायुक्ता दृशो यासां ताः, अत एव समेताः परस्परं मिलिता गोप्यस्त वनादागच्छन्तं कृष्णमभ्यगमन् द्रष्टुमग्रतः सम्मुखं जग्मुरित्यन्वयः। दर्शनोत्कण्ठाया तत्सौन्दर्यातिशयेहेतुमाह— गोरजोभिश्छुरितेषु व्याप्तेषु कुन्तलेषु केशेषु बद्धं बर्हं मयूरपिच्छं वन्यानि प्रसूनानि च यस्य तथा रुचिरमीक्षण चारुर्मनोहरो हासश्च यस्यतम्, वेणु वणन्तं वादयन्तमनुगैर्देवादिभिरुपगीता कीर्तिर्यस्य तम्॥४२॥ एवमभ्युपगताश्च व्रजयोषितो मुकुन्दस्य मुखमेव पद्मं तद्गतं सारघं मधु अक्षिभृङ्गैर्नेत्ररूपैर्भ्रमरैः पीत्वा मुखसौन्दर्यं नयनैर्दृष्टा अह्नि यस्तेन विरहः, तज्जं तापं जहुः। अनन तासां श्रीकृष्णमनसां अन्यस्तु त्रिविधोऽपि तापो नास्तीति सूचितम्। श्रीकृष्णस्तु तासा सत्कृति सन्मान समधिगम्य प्राप्य गोष्ठ विवेश। ‘का सा सत्कृतिः? कथ वा कृता?’ इत्यपेक्षायामाह— सव्रीडेति। सव्रीड सहास सविनय च यथा स्यात्तथा यदपाङ्गे मोक्ष कटाक्षदर्शन ता सत्कृतिमित्यन्वयः॥४३॥ तयोः वनादागतयोः पुत्रयो रामकृष्णयोः यशोदारोहिण्यौ यथाकाम तदिच्छानुसारेण यथाकालम् ऋतुमासप्रभातादिकालानुसारेण च परमा उत्कृष्टा आशिषः भक्षपरिधेयादिविषयान् व्यधत्ता सम्पादितवत्यौ। तत्र हेतुमाह— पुत्रवत्सले इति। माताऽपि यदि काचित् स्नेहरहिता तदा पुत्रानभिप्रेतमपि क-
त गोरजश्छुरितकुन्तलबद्धबर्ह—वन्यप्रसूनरुचिरेक्षणचारुहासम्॥वेणु क्वणन्तमनुगैरनुगीतकीर्ति गोप्यो दिक्षितदृशोऽभ्यगमन् समेताः॥४२॥ पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस्ताप जहुर्विरहजं ब्रजयोषितोऽह्नि॥ तत्सत्कृति समधिगम्य विवेश गोष्ठं सव्रीडहासविनय यदपाङ्गमोक्षम्॥४३॥ तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले॥ यथाकाम यथाकाल व्यधर्त्ता परमाशिषः॥४४॥ गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः॥ नीवी वसित्वा रुचिरां दिव्यस्र ग्गन्धमण्डितौ॥४५॥ जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ॥ संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे॥४६॥
रोति, ते तु अतिस्नेहवत्यावित्याशयः॥४४॥ ता आशिषो दर्शयति— गतेति द्वयेन। तत्र व्रजे नन्दभवने मज्जन जलेन स्नानम्, उन्मर्दन सुगन्धितैलादिना, आदिपदेन रजोदूरीकरणकेशप्रसाधनादिग्रहणम्। क्रमोऽत्र न विवक्षितः। मज्जनादिभिर्गताध्वश्रमौ ‘अध्वान’ इत्यार्षम्। यद्वा न श्रमः अश्रमः श्रमाभावः, तस्याभावस्त्वनश्रमः श्रम एव। गतोऽध्वनो अनश्रमो ययोवस्तौ गताध्वानश्रमौ रुचिरा मनोज्ञां नीवीं वस्त्र वसित्वा दिव्याभ्या स्रग्गन्धाभ्या पुष्पमालाचन्दनाभ्या मण्डितौ त्वलङ्कृतौ॥४५॥ जननीभ्यामुपहतमानीत स्वाद्वन्न प्राश्य भुक्त्वा ताभ्या ताम्बूलाद्यर्पणवीजनपादसवाहनप्रियगानादिभिरुपलालितौ महाप्रासादे वरशय्याया पुष्पास्तरणादिना रचिताया सविश्य स्वगात्र प्रसार्य सुख यथा स्यात्तथा सुषुपतुरिति द्वयोरेन्वयः॥ तथा चोक्त पाद्मोत्तरखण्डे— “तस्मिंश्च भवनश्रेष्ठे रम्ये दीपैर्विराजिते। श्लक्ष्णे विचित्रपर्यङ्के नानापुष्पविवासिते॥ तस्मिन् शेते हरिः कृष्णः शेषे नारायणो यथा”इति॥४६॥
लीलान्तरमाह— एवमिति षड्भिः। एवं पूर्वोक्तगोचारणप्रकारेण क्वचित् निदाघे वृन्दावनचरः सन् राममृते विना अन्यैश्च सखिभिर्वृतः स भगवान्कृष्णः कालिन्दीं यमुनां ययौ। जलपानार्थमिति शेषः। ‘इयमपि लीला ईश्वरत्वज्ञापिका, सावधानतया श्रोतव्या’ इत्याशयेन सम्बोधयति— राजन्निति॥४७॥ अथ शनैर्गच्छन्तं श्रीकृष्णं परित्यज्य गावश्च गोपाश्च शीघ्रं गत्वा कालियविषेण दुष्टंतस्या यमुनाया जलं पपुरित्यन्वयः। तथागमने हेतुमाह— तृषार्ता इति। तत्रापि हेतुमाह— निदाघातपपीडिता इति॥४८॥ यैर्जल न पति ते तद्विषयुक्तमम्भ उपस्पृश्य स्नानाचमनादिक कृत्वाऽपि सर्वे व्यसवः प्राणरहिताः सलिलस्यान्ते तीरे निपेतुः। पानकर्तृृणा पतन त्वर्थसिद्धमेव ज्ञेयम्। ‘तन्निकटनिवासिना दुष्टत्वज्ञानस्यावश्यकत्वान्मरणभयस्य तत्पानप्रतिबन्धकत्वाच्च कुतस्तत्पानम्?’ इत्यत आह— दैवेति। दैवेन प्रारब्धविशेषेण उपहत मोहित चेतो येषा ते॥ ४९॥ कृष्णस्तान् गोगोपान् तथाभूतान् निर्गतप्राणत्वेन पतितान् अमृतवर्षिण्या ईक्षया वीक्ष्य समजीवयदित्यन्वयः। तत्र हेतुमाह— स्वनाथानिति। स्व एव नाथो रक्षकः स्वामी
एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित्॥ ययौ राममृते राजन् कालिन्दी सखिभिर्वृतः॥४७॥ अथ गावश्च गोपाश्च निदाघातपपीडिताः॥ दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम्॥४८॥ विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः॥ निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूदह!॥ ४९॥ वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वर॥ ईक्षयाऽमृतवर्षिण्या स्वनाथान् समजीवयत्॥५०॥ ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्॥ आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम्॥५१॥ अन्वमंसत तद्राजन् गोविन्दानुग्रहेक्षितम्॥ पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥५२॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे वृक्षस्तुत्यादिनिरूपणं नाम117पञ्चदशोऽध्यायः॥१५॥ ॥छ॥ ॥छ॥ ॥छ॥
येषां तान्। रक्षाया सामर्थ्यमाह—योगेश्वरेश्वर इति। यद्दत्तसामर्थ्येन योगेश्वरा अपि जीवयितु समर्थास्तस्य तत्र सामर्थ्ये किमाश्चर्यमित्याशय॥५०॥ सम्प्रति सद्य एव इता प्राप्ता स्मृतिर्यैस्ते सम्प्रतीतस्मृतयः, यद्वा सम्यक् प्रतीता प्रतिप्राप्ता स्मृतियैस्ते सर्वे गवादयो जलान्तिकात् जलसमीपात्समुत्थाय परस्परं वीक्षमाणाः सुविस्मिता आसन्नित्यन्वयः॥५१॥ विष पीत्वा परेतस्य मृतस्यात्मनः स्वदेहस्य पुनरुत्थान तत् हे राजन्! गोविन्दस्य अनुग्रहेक्षितमनुग्रहेक्षणकृतमन्वमसतेत्यन्वयः॥५२॥ इति श्रीवल्लभाचार्यवंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ गतः पञ्चदशो वृक्षस्तुत्यादिविनिरूपकः॥३॥ ॥छ॥ ॥छ॥ ॥छ॥ ॥छ॥ ॥छ॥
निग्रहः कालियस्यात्र तत्फणासु च नर्तनम्॥पत्नीस्तुतिस्तदुद्धासः षोडशे विनिरूप्यते॥१॥ अथ कालियदमनात्मिकां लीलां सङ्ग्रहेणाह— विलोक्येति। कृष्णाहिना कालियेन दूषितां कृष्णां यमुनां विलोक्य तस्या विशुद्धिमन्विच्छन् कृष्णस्तं सर्पमुदवासयत् ततो निःसारितवान्। तत्र सामर्थ्य सूचयन्नाह— विभुरिति॥१॥ एव सङ्ग्रहेण कथित कालियनिग्रह पुनर्विस्तरतः श्रोतु पृच्छति— कथमिति। भगवान् सर्वप्रकारेण निग्रहितुं समर्थोऽपि श्रीकृष्णः अगाधे गम्भीरेऽन्तर्जले जलमध्ये अहिं कालिय कथं केन प्रकारेण न्यगृह्णात् निगृहीतवान्?। तथा स वै स च रमणकद्वीपनिवासी कालियो बहूनि युगामि बहुयुगपर्यन्तमावासो यथा स्यात्तथा तत्र यथा येन कारणेनासीत्, तदेतत् हे विप्र! कथ्यताम्। सम्बोधनेन ‘तव अज्ञातं
श्रीशुक उवाच॥
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः॥ तस्या विशुद्धिमन्विच्छन् सर्पस्तमुदवासयत्॥१॥ राजोवाच॥ कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम्॥ स वै बहुयुगावास यथाऽऽसीदिप्र कथ्यताम्॥२॥ ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः॥ गोपालोदारचरितं कस्तृप्येतामृतं जुषन्॥३॥
किञ्चिन्नास्ति, सर्वविद्याप्रवीणत्वात्’ इति सूचितम्। यथोक्त याज्ञवल्क्येन— “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते॥ विद्यया याति विप्रत्व त्रिभिः श्रोत्रियलक्षणम्” इति॥२॥ एव प्रश्ने स्वस्य भगवच्चरितश्रवणे तृत्यभाव हेतुमाह— ब्रह्मन्निति। हे ब्रह्मन्!तस्याद्भुतकर्मत्वेन प्रसिद्धस्य श्रीकृष्णस्य गोपालोदारचरित गोपालरूपेण यदुदार सर्वेषा सर्वपुरुषार्थप्रापक चरित जुषन् श्रवणादिना सेवमानः कस्तृप्येतेत्यन्वयः। तत्र दृष्टान्तमाह— अमृतमिति। यथाऽमृत जुषन् न तृप्यते तद्वदित्यर्थः। गोपालरूपधारणे हेतुमाह— स्वच्छन्दवर्तिन इति। स्वेषा भक्ताना छन्दः इच्छा, तदनुवर्तनशीलस्येत्यर्थः। तच्चरितस्य सर्वपुरुषार्थहेतुत्वे हेतुमाह— भूम्न इति। विपुलमाहात्म्यत्वेन महापुरुषस्य। तत्रापि हेतुमाह— भगवत इति॥ ३॥
एवं पृष्टो भगवतः सामर्थ्यातिशयं सूचयंस्तावद्ध्रदस्वरूपमाह— कालिन्द्यामिति द्वयेन। विषाग्निना श्रप्यमाण पच्यमान पयो यस्य, अत एव उपरि गच्छन्तः खगाः पक्षिणो यस्मिन् हृदे पतन्ति पेतुः॥४॥ यस्य विप्रुष्मता अम्बुकणयुक्तेन विषोदोर्मिमारुतेन विषोदकतरङ्गस्पर्शिमारुतेंन अभिमर्शिताः स्पृष्टास्तीरगाः स्थिरा वृक्षादयः, जङ्गमाः पश्वादयश्च प्राणिनो म्रियन्ते स्म। एवभूतः कालियस्य निवासरूपः कश्चित् हृदः प्रवाह त्यक्त्वा गर्तविशेषः कालिन्द्यामासीदिति द्वयोरन्वयः॥५॥ चण्डोऽपरिहार्यो वेगो यस्य तद्विषमेव वीर्य बल यस्य तस्य तथाभूत त कालियमवेक्ष्य तथा नदीं यमुना च तेन दुष्टामवेक्ष्य ततस्तन्निःसारणार्थ गाढा दृढ बद्धा रशना कटिवस्त्र येन सः कृष्णः अतितुङ्गमत्युच्च कदम्बवृक्षमधिरुह्य आस्फोट्य करतलेन बाहुमाहत्य ततः कदम्बात् तस्मिन् विषोदे विषयुक्तमुद यस्मिस्तस्मिन् हदे न्यपतत्। कालियनिग्रहे हेतु सूचयन्नाह— खलेति। खलाना परोद्वेजकाना यत् सयमन निग्रहस्तदर्थमवतारो यस्य सः। अत्र भावि श्रीकृष्णचरणस्पर्शभाग्यवशादेकः स कदम्बवृक्ष एव न शुष्क इति बोध्यम्। अथव
श्रीशुक उवाच॥ कालिन्द्यां कालियस्यासीद्ध्रदःकश्चिद्विषाग्निना॥ श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः॥४॥ विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः॥ म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः॥५॥ त चण्डवेगविषवर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः॥कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गमास्फोट्य गाढरशनो न्यपतद्विषोदे॥६॥ सर्पहदःपुरुषसारनिपातवेगसङ्गोभितोरगविषोच्छु सिताम्बुराशि॥ पर्यक्प्लुतो विषकषायविभीषणोर्मिर्धावन् धनु शतमनन्तबलस्य किं तत्॥७॥
अमृतमाहरता गरुत्मताक्रान्तत्वात् स न शुष्क इति॥६॥ भगवतः सामर्थ्यातिशयं स्पष्टयति— सर्पह्रद इति। पुरुषसारस्य पुरुषोत्तमस्य श्रीकृष्णस्य निपातवेगेन निपतनभरेण सङ्क्षोभितानामुरगाणां विषेण युक्त उच्छ्वसित उच्छलितोऽम्बुराशिर्यस्य सः, विषेण कषायीकृता रक्तपीतादिवर्णाः विभीषणा भयङ्करा ऊर्मयो यस्य सः, सर्पस्य ह्रदः धावन् पर्यक् सर्वतः धनुःशत प्लुतः प्रसृतः। धनुर्मान तु— “अष्टभिर्यवमध्यैः स्यादङ्गुल तैस्त्रिभिर्भवेत्॥ तालं त्रितालको हस्तो हस्तौ द्वौ किष्कुरुच्यते॥ किष्कुद्वय धनुः प्रोक्तम्” इति ज्ञेयम्॥ एतच्छ्रुत्वा आश्रर्यंमन्यमानं प्रत्याह— अनन्तेति। अनन्तमपरिमितं बलं यस्य तस्य निपातेन तदेतत् धनुःशत इदधावनमाश्चर्यतया प्रतीयमानमपि किम्? नाश्वर्यमित्यर्थः। यद्वा विषोद्रेकेण भगवति किञ्चिद्वैगुण्यस्याशङ्कायां तन्निरा सार्थमाह— अनन्त बलस्येति। अनन्तस्य नागराजस्यापि बल यस्मात्तस्य तत् कालियविषं किम्? न किमपि कर्तुं शक्तमित्यर्थः॥७॥
अङ्ग हे राजन्! वरवारणः गजश्रेष्ठः तद्वद्विक्रमो विहारो यस्य तस्य ह्रदे विहरतः कृष्णस्य भुजदण्डाभ्यां हततया घूर्णंयद्वार्जल तस्य घोषं नादमाश्रुत्य तत् तस्मात् एव तद्विहारात् स्वसदनस्याभिभवं च निरीक्ष्य तदुभयममृष्यमाणः असहमानः चक्षुःश्रवाः सर्पः समसरत समीपमाजगाम॥८॥ आगत्य च रुषा क्रोधेन त कृष्ण मर्मसु यत्र स्वल्पेऽपि ताडने कृते प्राणहानिःस्यात्तेषु कुक्षिकण्ठाद्यवयवेषु सन्दश्य भुजया स्वदेहेन चछाद आवेष्टितवानित्यन्वयः। कालियस्यापराधातिरेक सूचयन् भगवन्त वर्णयति— प्रेक्षणीयश्च सुकुमारश्च घनवत् अवदातः स्वच्छःश्यामश्च तम्, श्रीवत्सेन सह पतिं वसन वस्त्र यस्य तम्, स्मितेन सुन्दर मनोहरमास्य यस्य तम्, अप्रतिभय निर्भय यथा स्यात्तथा क्रीडन्तम्, कमलोदरवत् रक्तौ कोमलावड्घ्रीयस्य तम् ॥९॥ त कृष्ण नागभोगेन परिवीत परिवेष्टितमतएवादृष्टचेष्टमालोक्य भृशार्ताः अतिपीडिताः ततोऽपि दुखानुशोकभयमूढधियो दुःखानन्तरमपि वार-
तस्य ह्रदे विहरतो भुजदण्डघूर्णवार्घोषमङ्ग वरवारणविक्रमस्य॥ आश्रुत्य तत् स्वसदनाभिभव निरीक्ष्य चक्षुःश्रवाः समसरत्तदमृष्यमाण॥८॥ तं प्रेक्षणीयसुकुमारघनावदात श्रीवत्सपीतवसनं स्मितसुन्दरास्यम्॥ क्रीडन्तमप्रतिभयं कमलोदराद्घ्रिंसन्दश्य मर्मसु रुषा भुजया च्छाद॥९॥ त नागभोगपरिवीतमदृष्टचेष्टमालोक्य तत्प्रियसखा पशुपा भृशार्ता॥ कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः॥१०॥ गावो वृषा वत्सतर्यःक्रन्दमानाःसुदुःखिताः॥ कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे॥११॥
वार शोकश्च ‘अनेन विना किं करिष्याम’ इति ‘कथं जीविष्याम’ इति भय च तैर्मूढा मूर्छिता विवेकरहिता धीर्येषा ते पशुपा गोपा निपेतुरित्यन्वयः। एवमार्तत्वे हेतुमाह तत्प्रियेति। स एव प्रियो येषा ते तत्प्रियाः, तेच ते सखायश्चेति तथा। तेषा सख्यमेव स्पष्टयति— कृष्णेऽर्पिता आत्मादयो यैस्ते इति। आत्मा देहादिसङ्घातः, सुहृदः पुत्रादयः अर्थो धनम्, कलत्र स्त्री, कामाःइहामुष्मिकभोगाः। नच ‘तत्र तादृशविषाक्रान्तदेशे पतिताना तेषा कुतो मरणम्?” इति शङ्क्यम्, भगवत्कृपादृष्ट्याऽमृतवृष्टेर्विद्यमानत्वात्। एवमग्रे नन्दादिष्वपि द्रष्टव्यम्॥१०॥ गवादयोऽपि कृष्णे न्यस्तेक्षणा दत्तदृष्टयः, अतस्तस्य नागवेष्टनेन निश्चेष्टत्व वीक्ष्य सुदुःखिता स्वरक्षकाभावं मत्वा मृत्योर्भीताश्च, अत एव क्रन्दमानाः आर्तनादमुच्चै कुर्वत्य रुदत्य अश्रूणि विमुञ्चन्त्य एव तस्थिरे स्थिता बभूवुरित्यन्वयः। इवशब्द एवकारार्थकः॥११॥
अथ हि अनन्तरमेवातिदारुणा अतिभयङ्करा भुवि, दिवि, आत्मनि च इत्येव त्रिविधमहोत्पाता व्रजे उत्पेतुर्बभूवुरित्यन्वयः। तत्र भुवि भूकम्पादयः, दिवि उल्कापातादय, आत्मनि वामनेत्रस्फुरणादयः। अतिदारुणत्वमेव स्पष्टयति— आसन्नं समीपमागत भय शसितु शील येषा ते इति॥१२॥ हे अङ्ग हे राजन्! तान् उत्पातानालक्ष्य दृष्ट्वा नन्दादयः सर्वे गोपा भयेन उद्विग्नाः व्याकुलाः, अत एव दीनाः सन्तो गोकुलान्निर्जग्मुरिति त्रयाणामन्वयः। भयेन व्याकुलताया हेतु सूचयन्नाह— तैरिति। तैर्दुर्निमित्तैरुत्पातैः कृष्णस्य निधन मरण प्राप्त मत्वेत्यन्ययः। तत्रापि हेतुं सूचयन्नाह— विनेति रामेण विना कृष्ण गाश्वारयितु वन गत ज्ञात्वेत्यन्वयः। ‘गोकुलात्तेषा निर्गम कृष्णान्वेषणार्थमेव’ इत्याशयेनाह— कृष्णदर्शनलालसा इति। भयोद्विग्नत्वमेव स्पष्टयति— दुःखेति। दुःख तद्वियोगजन्यः सन्तापः, शोकोऽनन्तरनिर्वाहचिन्ता, भय तद्वियोगदुःखेन मरणभयम्, तैरातुरा विवशाः तत्र दृष्टान्तमाह— पशुवत् विवेकशून्या चित्तवृत्तिर्येषा तथाभूता इति। ‘न केवल नन्दयशोदादीनामेवेयमवस्था, किन्तु सर्वेषामेव व्रजवासिनाम्
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणा॥ उत्पेतुर्भुवि दिव्यात्मान्यासन्नभयशसिन॥१२॥ तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः॥ विना रामेण गा कृष्ण ज्ञात्वा चारयितुं गतम्॥१३॥ तैर्दुर्निमित्तैर्निधन मत्वा प्राप्तमतद्विदः॥ तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः॥१४॥ आबालवृद्धवनिता सर्वेऽङ्ग! पशुवृत्तयः॥ निर्जग्मुगोकुलाद्दीनाः कृष्णदर्शनलालसा॥१५॥ तांस्तथा कातरान् वीक्ष्य भगवान् माधवो वलः॥ प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः॥१६॥
इत्याह— आबालवृद्धवनिता इति। ननु “एवमुत्पातदर्शनेऽप्यनिष्टान्तरशङ्का विहाय कृष्णनिधनशङ्केव कथ जाता” इत्याशङ्कयाह— तत्प्राणा इति। तदधीन एव प्राणो जीवनं येषा ते, अत एव तस्मिन्नेव मनो येषा ते, अतः प्रथमतःसर्वेषा तत्रैवोपस्थितत्वात् वत्सबकाद्याद्युपद्रवस्य वने श्रुतत्वाञ्चउत्पातदर्शनेन तन्निधनशङ्कैव जातेत्याशयः। ननु “तथा कृष्णस्य सदानन्दरूपत्वेन जन्ममरणादिरहितत्वात् कथं तथा शङ्का युक्ता?” इत्याशङ्क्याह— अतद्विद इति। न तस्य परमस्वरूप विदन्तीति तथा ते॥१३॥१४॥१५॥ तान् नन्दादीन् तथा कातरान् व्याकुलान् वीक्ष्य माधवः मधुवशप्रभवो भगवान् ज्ञानैश्वर्यादिमत्त्वेन तेषा प्रबोधे समर्थोऽपि बलः प्रहस्य किञ्चिन्नोवाचेत्यन्वयः। प्रहासे तूष्णींभावे च हेतुमाह— प्रभावज्ञ इति यतः स बलः अनुजस्य कृष्णस्य प्रभावज्ञःकृष्णे सर्पस्याकिञ्चित्करत्व निश्चित्य नन्दादीना यमुनातीरगमनं कृष्णाभिप्रेतं च ज्ञात्वा प्रहस्य तूष्णीं बभूवेत्याशयः॥ १६॥
भगवन्तं लक्षयन्ति ज्ञापयन्ति यानि वज्राङ्कुशादियुक्तानि पदानि तैः पदैःसूचितया ज्ञापितया पदव्या मार्गेण दयितं प्रियं कृष्णमन्वेषमाणाः मृगयन्तः ते गोपादयो यमुनातट जग्मुरित्यन्वयः॥१७॥ गमनप्रकारमाह— ते इति। हे अङ्ग हे राजन्!ते गोपा गवा मार्गे तत्र तत्रान्येषा गोपादीना पदानामन्तरान्तरे मध्ये मध्ये अब्जादियुक्तानि विश्पतेर्वैश्यानां गोपानामधिपस्य श्रीकृष्णस्य पदानि निरीक्षमाणाः सत्वराः त्वरया शैघ्र्येण युक्ता यमुनातट ययुरित्यन्वयः॥१८॥ गत्वा च आरात् दूरादेव अन्तर्ह्रदे हृदमध्ये भुजङ्गस्य सर्पस्य भोगेन देहेन परीतं वेष्टितमत एव निरीह निश्रेष्ट त कृष्ण जलाशयस्यान्ते तीरे मूढधिषणान् मूर्छया पतितान् गोपान् तथा परितः सङ्कन्दतः आर्तनादं प्रकुर्वतः पशून् गवादींश्च निरीक्ष्यार्ताः अतिपीडिताः सन्तः परमकश्मल मूर्च्छामापुरित्यन्वयः॥१९॥ एवं सामान्यतः सर्वेषां दुःखमुक्त्वा तत्प्रेमवतीना गोपीना दुखमाह— गोप्य इति। गोप्यश्च
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः॥ भगवल्लक्षणैर्जग्मुःपदव्या यमुनातटम्॥१७॥ ते तत्र तत्राब्जयवाङ्कुशाशनिध्वजोपपन्नानि पदानि विश्पतेः। मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वरा॥१८॥ अन्तर्ह्रदे भुजगभोगपरीतमारात् कृष्णं निरीहमुपलभ्य जलाशयान्ते॥ गोपांश्च मूढधिषणान् परितःपशुंश्च सङ्कन्दत परमकश्मलमापुरार्ताः॥१९॥ गोप्योऽनुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्य॥ ग्रस्तेऽहिना प्रियतमे भृशदु खतप्ताः शून्य प्रियव्यतिहृत ददृशुस्त्रिलोकम्॥ २०॥ ताःकृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुच स्रवन्त्यः॥ तास्तां व्रजप्रियकथाःकथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः॥२१॥
तस्मिन् प्रियतमे कृष्णे अहिना ग्रस्ते गृहीते सति भृशदुःखतप्ताः अत्यन्तदुःखेन सन्तप्ताः सत्यः प्रियेण कृष्णेन व्यतिहृतं विरहितं त्रिलोक त्रैलोक्यं शून्यं ददृशुरित्यन्वयः। प्रियतमत्वज्ञापकमाह— तदिति। तस्य सौहृदं प्रेम, स्मित च, विलोक च, गिरः प्रियवचनानि व स्मरन्त्यः। स्मरणे हेतुमाह— अनन्ते अनन्तगुणपूर्णे तस्मिन् भगवति अनुरक्त मनो यासा ता इति॥२०॥ ता गोप्यः अपत्यं श्रीकृष्णमनुलक्षीकृत्य प्रविष्टा तदेकचित्ता विस्मृतस्वरूपाम् यद्वा अपत्यमनुह्रदं प्रविशन्तीं कृष्णमातर समनुगृह्य हस्तेन धृत्वा तत्तुल्या व्यथा यासा ता, अत एव शुच अश्रूणि स्रवन्त्यः उद्गिरन्त्य, तस्याःप्रतिबोधार्थे व्रजप्रियस्य कृष्णस्य तास्ता पूतनानिधनयमलार्जुनभङ्गादिकथाः कथयन्त्य, कृष्णस्यानने एवार्पिता स्थापिता दृक्दृष्टिर्याभिस्ताः, मृतकप्रतीका शवतुल्या मूर्च्छिता आसन्॥२१॥
पूर्वं तूष्णींभूतोऽपि राम इदानीं तु तं कालियह्रदं विशती नन्दादीन् वीक्ष्य प्रत्यषेधत्। “पूतनादयो बहवो दुष्टा अनेन नि हताः अस्य तु वराकस्यैकस्य का गणना? अधुनैव एनं निगृह्य आयाति। ‘अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ’ इति गर्गवचनात् विषजलप्रवेशतो युष्माक मरणे तु पश्चाद्ध्रदान्निःसृतेन तेन सम्बन्धो न सम्भवति, जीवता तु सम्भवति, अतो वृथा प्राणत्यागो न कार्य” इत्युपपत्त्या निवारितवानित्यर्थः। तेषा हृदप्रवेशोद्योगे हेतुमाह— कृष्णे एव प्राणा इन्द्रियान्तःकरणानि येषां तानिति। रामस्य सावधानताया नन्दादिप्रतिषेधे च हेतुमाह— कृष्णानुभावविदिति। प्रभावज्ञाने हेतुमाह— सोऽपि भगवानेवेति॥२२॥ ‘अनन्यभक्ताना दुःखनिवारणे भगवान् विलम्ब न करोति’ इति प्रदर्शयन् ततो यज्जात तदाह— इत्थमिति। एव मुहूर्तमात्रं बन्धने स्थित्वा आत्महेतोः स्ववियोगात् सस्त्रीकुमार स्त्रीभिः कुमारैश्च सहित स्वगोकुल गोकुलवासिजनमतिदुःखितं निरीक्ष्य उरङ्गब-
कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं हृदम्॥ प्रत्यषेधत् स भगवान् रामःकृष्णानुभाववित्॥२२॥ इत्थं स्वगोकुलमनन्यगति निरीक्ष्य सस्त्रीकुमारमतिदु खितमात्महेतोः॥ आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात्॥२३॥ तत्प्रथ्यमानवपुषा व्यथितात्मभोगस्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः॥ तस्थौ श्वसन्श्वसनरन्ध्रविषाम्बरीषस्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः॥२४॥
न्धात् कालियकृतपरिवेष्टनरूपादुदतिष्ठत निःसरणार्थ स्वदेह प्रथितवानित्यर्थः। गोकुलस्योपेक्षानर्हत्व दर्शयति— अनन्यगतिमिति। न विद्यते अन्या गतिः रक्षको यस्य तदनन्यगति, तथाभूत गोकुलमाज्ञायेत्यर्थः। पुस्त्वमार्षम्। यद्वा न विद्यतेऽन्या गतिः रक्षको यस्मात् सोऽनन्यगतिः, एवभूतमात्मानमाज्ञायेत्यर्थः। ‘तर्हि किमिति मुहूर्तमात्रमपि बन्धने स्थितः?’ तत्राह— मर्त्यपदवीमनुवर्तमान इति। मनुष्यनाट्येन स्वेच्छया तथैव लीला कुर्बन्नित्यर्थः॥२३॥ तस्य कृष्णस्य प्रथ्यमानेन संवर्ध्यमानेन वपुषा व्यथितः आत्मनःस्वस्य भोगो देहो यस्य स भुजङ्गः कालियाख्यः सर्पस्त त्यक्त्वा श्वसन् श्वासान् विमुञ्चन् फणान् उन्नमय्य उत्थाप्य हरिमीक्षमाणस्तस्थावित्यन्वयः। तत्स्वरूपस्य भयकरत्व सूचयन विशिनष्टि— श्वसनरन्ध्रेषु नासाविवरेषु विषं यस्य, तथा अम्बरीषो भ्राष्ट्रस्तद्वत् सन्तप्तानि स्तब्धानि ईक्षणानि यस्य, तथोल्मु व्यग्निकणानि मुखेषु यस्य स च स च॥२४॥
हरिश्च क्रीडस्तममुंसर्पं परिससार सर्वतो बभ्राम। अभयङ्करत्वं च सूचयन् सर्पं विशिनष्टि— प्रतिमुखं द्विशिखया जिह्वया द्वे सृक्किणी आष्ठप्रान्तौ लेलिहानमास्वादयन्तम्, अतिकराला विषाग्नियुक्ता दृष्टिर्यस्य तम्। तथापि भगवतो निर्भयत्वं सूचयन् दृष्टान्तमाह— यथा खगेन्द्रो गरुड इति। सोऽपि सर्पों दशनायसर प्रसमीक्षमाणस्तमनुबभ्राम॥२५॥ एवं परिभ्रमेणैव हतमोजो देहेन्द्रियादिसामर्थ्य यस्य तम्। तथाप्युन्नता असाः फणा यस्य तम्। समानम्य हस्तेन नम्र कृत्वा तस्य पृथुशिरस्स्वधिरूढः। अत एव तस्य मूर्धसु ये रत्ननिकरा रत्नसमूहास्तेषां स्पर्शेनातिताम्रमत्यरुण पादाम्बुज यस्य स कृष्णो ननर्त। ननु “चञ्चलेषु शिररसु कथ ननर्त” इत्याशङ्कयाहन— अखिलेति। अखिलाना कलाना नृत्यादिकौशलानामादिगुरुः प्रवर्तक इत्यर्थः। तत्र हेतुमाह— आद्य इति। सर्वकारणभूतः। अनेन तस्य परम भाग्य सूचितम्॥२६॥ ननु “नृत्ये गतिवाद्ययोरङ्गत्वात् तदभावे नृत्यं विगुणं स्यात्” इत्याशङ्क्य तत्सम्पत्तिमाह— तमिति। तं स्वस्वामिन कृष्ण नर्त्तुमुद्यतमवेक्ष्य ज्ञात्वा तदीयास्तत्सेवका गन्धर्वादयः प्रीत्या हर्षेण मृदङ्गादिभिः
त जिह्वया द्विशिखया परिलेलिहान दे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम्॥क्रीडन् अमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः॥२५॥ एवं परिभ्रमहतौजसमुन्नतांसमानम्य तत्पृथुशिरस्स्वधिरूढ आद्यः॥ तन्मूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजोऽखिलकलादिगुरुर्ननर्त॥२६॥ त नर्तुमुद्यतमवेक्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः॥ प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदु॥२७॥ यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्णस्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः॥ क्षीणायुषो भ्रमत उल्वणमास्यतोऽसृङ्गस्तो वमन् परमकश्मलमाप नागः॥२८॥
सहसा झटिति उपसेदुः सेवितवन्तः। तत्र गन्धर्वा गायका गीतैः। सिद्धाःपुष्पवृष्टिभिः, उपहारैः, ताम्बूलादिभिश्च। सुराः स्तुतिभिः। चारणा मृदङ्गादिवाद्यैः। देववध्वः अप्सरसः सहनर्तनैः॥२७॥ एकपदमत्र मुख्यवाचकम्, फणासहस्रस्य वक्ष्यमाणत्वात्। शतमेकानि मुख्यानि शीर्षाणि यस्य तस्य शतैकशीर्ष्णः क्षीणायुषःक्षीणबलतया मृतप्रायस्यापि क्रोधवशाद्धमतः कालियस्य यद्यच्छिरो न नमते स्तब्धता न जहाति, तत्तन्नृत्यच्छलेनाङ्घ्रिपातैर्ममर्द। तदा च स नागः आस्यतो मुखेभ्यो नस्तो नासाविवरेभ्यश्चोल्बण विषमिश्रत्वेन भयङ्करमसृक् रुधिरं वमन् परमकश्मल महतीं मूर्च्छामाप। ननु “परमकृपालुर्भगवान् कथमेव पीडा दत्तवान्?” तत्राह— खलदण्डधर इति। तस्य खलत्वेन गर्वितत्वात् गर्वस्य सर्वश्रेयः परिपन्थित्वात् दण्डेन गर्वनिवृत्तिद्वारा परमानुग्रहमेव कृतवानिति भावः॥२८॥
तथापि रुषा उच्चैः निःश्वसतः श्वासान् विमुञ्चतः अक्षिभिर्गरलं विषमुद्दमतस्तस्य कालियस्य शिरःसु यद्यच्छिरः समुन्नमति उच्चीभवति, तत्तत् नृत्यन् पदा पादाघातेन अनुनमयन् प्रह्वीकुर्वन् भगवान् दमयाम्बभूव, दमनं चकारेत्यर्थः। इह अस्मिन्नवसरे पुमान् पुराणः शेषासनःश्रीनारायण इव श्रीकृष्णोऽपि हृष्टैर्गन्धर्वादिभिः पुष्पैः प्रपूजितो जातः। यद्वाऽस्मिन्नवसरे पुमान् पुराणः श्रीकृष्णः कालियेन पुष्पैः प्रपूजित इव प्रसन्नो लक्षितः, तत्प्रसन्नतांविना तत्पादस्पर्शस्य अतिदुर्लभत्वात्॥२९॥ “एव भगवच्चरणसम्बन्धेन अन्तर्दोषस्य क्षीणत्वात् तत्स्मरणेन त शरण जगाम” इत्याह—
तच्चित्रेति। नृत्य हि द्विविधम्, लास्यताण्डवभेदात्। तत्र स्त्रीकृत लास्यम्, पुरुषकर्तृक ताण्डवम्। ‘स्वाम्यपराधी दण्ड्य’ इत्यपि राजवृत्तं त्वया ज्ञायते एव, इत्याशयेन सम्बोधयति— नृपेति। तस्य श्रीकृष्णस्य चित्रेणालौकिकेन ताण्डवेन विशेषतो रुग्णानि सञ्जातव्रणानि फणातपत्राणि यस्य सः। ‘विरुग्णफणासहस्र’ इति
तस्याक्षिभिर्गरलमुद्धमतः शिरस्सु यद्यत् समुन्नमति निःश्वसतो रुषोच्चैः॥ नृत्यन् पदाऽनुनमयन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः॥२९॥ तच्चित्रताण्डवविरुग्णफणतपत्रो118 रक्तं मुखैरुरु वमन्नृप भमगात्रः॥ स्मृत्वा चराचरगुरु पुरुषं पुराण नारायण तमरण मनसा जगाम॥३०॥ कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम्॥ दृष्ट्वाऽहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः॥३१॥ तास्तं सुविनमनसोऽथ पुरस्कृतार्भाः कार्य निधाय भुवि भूतपतिं प्रणेमुः॥ साध्व्यःकृताञ्जलिपुटाःशमलस्य भर्तुर्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः॥३२॥
पाठान्तरम्। तत्प्रथ्यमानवपुषा च भग्नानि गात्राणि यस्य सः। मुखैरुरु रक्तं बहु रुधिरं वमन् उद्गिरन् श्रीनारायणं स्मृत्वा ज्ञात्वा मनसा तमेव अरणं शरणं जगामेत्यन्वयः। तस्य शरणयोग्यतामाह— चराचरगुरुमिति। ब्रह्मादिपूज्यम्। तत्र हेतुमाह— पुरुषमिति। अन्तर्यामिणमित्यर्थः। तत्र हेतुमाह— पुराणमिति। सर्वकारणमित्यर्थ॥३०॥ भगवच्छरणागमनेन तत्पत्नीनामपि तद्विमोचनप्रयत्नो जातस्तमाह— कृष्णस्येति। गर्भे जगन्ति ब्रह्माण्डानि यस्य तस्य कृष्णस्यातिभरेण अवसन्नमाक्रान्त तस्यैव पार्ष्णिः पादपृष्ठं तत्प्रहारेण परिरुग्णफणातपत्र चाहि दृष्ट्वा अमुष्य पत्न्यःआर्ताः, अत एव श्लथन्तो विस्रसमाना वसनादयो यासां ताः आद्यश्रीकृष्णमुपसेदुः तत्समीप जग्मुः॥३१॥ अथानन्तरं ता नागपत्न्योऽपि त श्रीकृष्णं शरण प्रपन्नाः कृताञ्जलिपुटाश्चसत्यो भुवि जलादधस्तात् तस्मिन् स्थाने काय निधाय दण्डवच्छरीर निपात्य प्रणेमुरित्यन्वयः। तत्र प्रयो-
जनं सूचयन्नाह— भर्तुर्यच्छमलमपराधस्तस्य मोक्षे ईप्सा इच्छा यासां तादृश्यः, अत एव तदपराधात् स्वयमपि सुविग्नमनसो विह्वलितचित्ताः। तत्र हेतुमाह— साध्व्य इति, पतिव्रता इत्यर्थः। भगवतो दयोत्पादनार्थं पुरोऽग्रे कृता अर्भा बाला याभिस्ताः। ननु “देवतान्तर विहाय तमेव कुतः शरण गताः?” तत्राह— शरणदमिति, आश्रयप्रदमित्यर्थः। तत्र हेतुमाह— भूतपतिमिति, सर्वपालकमित्यर्थः॥३२॥ कुपितस्य कोपशान्तिमन्तरेण तत्प्रार्थनाया निष्फलत्वात् कोपशान्त्यर्थ प्रथम तत्कृतस्य दण्डस्यानुमोदन कुर्वन्ति— न्याय्यो हीति षड्भिः। अस्मिन् सर्पे दण्डो न्याय्यो हि युक्त एव। तत्र हेतुमाहन— कृतकिल्बिषे इति। कृत किल्विष दशनपरिवेष्टनाद्यपराधो येन तस्मिन्नित्यर्थः। तत्रैव हेत्वन्तरमप्याहुः— तवावतारः खलाना परोद्वेजकानां निग्रहायेति। ‘सता संरक्षणाय च’ इति अर्थादेव ज्ञेयम्॥ ‘एव चेत्तर्हि वैषम्य स्यात्’ इत्याशङ्कयाहुः— रिपोरिति। शत्रोः स्वसुतानामपि च विषये तुल्या दृष्टिर्यस्य तस्य।
नागपत्न्य ऊचुः॥ न्याय्यो हि दण्डः कृतकिल्विषेऽस्मिंस्तवावतारः खलनिग्रहाय॥ रिपोः सुतानामपि तुल्यदृष्टेर्धत्से दमं फलमेवानुशंसन्॥३३॥ अनुग्रहोऽय भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः॥ यद्दन्दशूकत्वममुष्य देहिनःक्रोधोऽपि तेऽनुग्रह एव सम्मतः॥३४॥
“एवमपि स्पष्ट एव विरोधः प्रतीयते। समदृशो निग्रहानुग्रहाद्यसम्भवात्” इत्याशङ्कयाहुः— धत्से इति। फल पुरुषार्थप्रतिबन्धकपापनिवृत्त्यादिरूपमेवानुशसन आलोचयन् दम दण्ड धत्से। अतः सतामिव तेषामपि फललाभान्न वैषम्यमित्याशयः। ‘खलमेवानुशसन्’ इति पाठे तु खल दुष्टमेवालोचयन् दम धत्से, तथा च नहि गुणदोषानुसारेण यथोचितमनुग्रहनिग्रहादि कुर्वतो वैषम्य सम्भवतीत्याशयः॥३३॥ ‘फलहेतुत्वात् नाय निग्रहः, किन्त्वनुग्रह एव’ इत्याहुः— अनुग्रह इति। भवता नोऽस्माकमय दण्डरूपोऽनुग्रह एव कृतः। पत्या सहैक्याभिमानाद्बहुवचनम्। ननु ‘दण्डस्य कथमनुग्रहत्वम्’ ‘तत्राहुः— हि यस्मात् ते त्वया कृतो दण्डः खलु निश्चयेन असता दुष्टाना कल्मषापहः सर्वदोषनिवारकः। ‘अत्र किं प्रमाणम्?‘इत्याशङ्कय ‘ये ये हताश्चक्रधरण दैत्यास्त्रैलोक्यनाथेन जनार्दनेन। ते ते गता विष्णुपुरीं नरेन्द्र! क्रोधोपि देवस्य वरेण तुल्यः’ इत्यादिवाक्यप्रमाणमाहुः— क्रोधोऽपीति। ते तव क्रोधप्रयुक्तहननादिदण्डोऽपि मोक्षप्रतिबन्धकदुःखहेतुपापनिवर्तकत्वादनुग्रह एवेति सता सम्मत इत्यर्थः। ‘अस्य कालियस्य पापमस्तीति
कथं ज्ञायते?‘इत्यपेक्षायामाहुःयद्दन्दशूकत्वमिति। ‘यत् यस्मात् अमुष्य एतदन्तःस्थितस्य देहिनोऽनेकदेह प्राप्नुवत इदानीं दन्दशूकत्व सर्पयोनित्व दृश्यते, तेन तन्मूलं पापमस्ति’ इत्यनुमीयते। तथा च पापनिवर्त्तकत्वेन अनुग्रह एव, अन्यथा उत्तरोत्तरपापवृद्ध्याअस्य एतत्सम्बन्धिनामस्माकं च नरकपातादि दुःखमेव स्यादित्याशयः॥३४॥ चरणेन शिरःस्पर्शलक्षणेन महताऽनुग्रहेण तव सन्तोषहेतुसुकृतमपि
पूर्वानुष्ठितमस्यानुमीयते इत्याहुः— तप इति। सर्वान् जीवयतीति सर्वजीवः सर्वान्तरात्मा भवान् यतो याभ्या तपोधर्माम्या तुष्यति तथाभूत तपः अनेन किं सुतप्तं सम्यगनुष्ठितम्, तथाभूतो धर्मोऽथवा कोऽनुष्ठित इत्यन्वयः। अस्मिन् जन्मनि तदसम्भवादाहुः— पूर्वमिति। यज्ञादिधर्मस्य हिंसाबाहुल्येन दयानाशकत्वात् श्रवणकीर्तनपूजानमस्कारादिलक्षण धर्ममभिप्रेत्याहुः— सर्वजनानुकम्पयेति। तस्य सर्वेन्द्रियोपशान्ति सूचयन्त्य आहुः— निरस्तमानेनेति। यदृच्छालाभसन्तोष सूचयन्त्य आहुः— मा नदेन चेति। यथासम्भव प्राणिसन्मान कुर्वता इत्यर्थः। एवं च “दयया सर्वभूतेषु सन्तुष्ट्या येनकेनचित्। सर्वेन्द्रियोपशान्या च तुष्यत्याशु जनार्दनः” इति
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन॥ धर्मोऽथवा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः॥३५॥ कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः॥ यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान्सुचिर धृतव्रता॥३६॥ न नाकपृष्ठं न च सार्वभौम न पारमेष्ठ्य न रसाधिपत्यम्॥ न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्नाः॥३७॥
नारदोक्त सिद्धान्तो दर्शितः॥३५॥ यद्यपि ‘अनेन भवत्सन्तोषकारण किञ्चित्तप आदि अनुष्ठान कृतम्’ इति सामान्यतो वय जानीमः, तथापि हे देव अचिन्त्यानन्तमहिम्ना बहुधा द्योतमान! ‘अस्य नीचस्यापि तवाङ्घ्रिरेणुस्पर्शेऽधिकारः कस्य तपआदेः सुकृतस्यानुभावः फलम्’ इति विशेषतो न विद्महे इत्यन्वयः। तस्य दुर्लभत्वमाहुः— यद्वाञ्छयेति। यस्य त्वदङ्घ्रिरेणुस्पर्शाधिकारस्य वाञ्छया ब्रह्मादिभिरुपास्यापि श्रीर्लक्ष्मीः ललना उत्तमा स्त्री सर्वान् कामान्भोगवासना विहाय धृतव्रता गृहीताहारशयनादिनियमा सती सुचिर दीर्घकालादरनैरन्तर्येण तप आचरत्॥३६॥ तस्याधिकारस्य महत्त्वे सदाचारमपि प्रमाणमाहुः— नेति। यत्पादरजः प्रपन्नाः शरण प्राप्ताः भक्तजनाः नाकपृष्ठादिक न वाञ्छन्ति तुच्छं मन्यन्ते। क सुखम्। न क सुख यत्तदक दुःखम्। न अक यत्र तन्नाकम्। तदेव पृष्ठ स्थान नाकपृष्ठ स्वर्गम्, सार्वभौम सर्वभूमिराज्यम्, पारमेष्ठ्य ब्रह्मपदम्, रसाधिपत्यं पातालादिबिलस्वर्गराज्यम, योगसिद्धीः अणिमाद्यैश्वर्याणि, अपुनर्भवं लयात्मकं मोक्षं च॥३७॥
‘यदि न वाञ्छन्ति तदा तेषां तन्न स्यात्’ इत्याशङ्क्याहुः— संसारेति। जन्ममरणादिसंसारचक्रे भ्रमतः शरीरिणः प्राणिमात्रस्य, न जात्यादिविशेषनियमः,नीचस्यापि यत् पादरजः इच्छतः सेव्यमेव भवत्विति प्रार्थयतो विभवो लोकापेक्षिता सर्वापि सम्पत् समक्षः प्रत्यक्ष स्वयमेव स्यात्, प्रह्लादाम्बरीषादेस्तत्प्रसिद्धेः। “उक्ततपआदिसाधनस्यापि भवत्कृपाविना दुष्करत्वाद्भवत्कृपैव मुख्य साधनम्” इति सूचयन्त्यः सम्बोधयन्ति— नाथेति। अन्यैर्ब्रह्मादिभिरपि दुरापं तत् पादरजःएष कालियःआप। ‘नचैष तत्प्राप्तियोग्यः, स्वभावदुष्टत्वात्’ इत्याहुः— क्रोधवश इति। तत्र हेतुमाहुः—तमोगुणाज्जनिर्यस्य स इति। संसर्गिदोषेणापि तस्य दुष्टत्वमाहुः— अहीश इति॥३८॥ एव दण्डानुमोदनेन क्रोधस्य शान्ति विधाय प्रसन्नतार्थ तदैश्वर्यादि निरूपयन्त्यः प्रणमन्ति— नम इति दशभिः। भगवते अचिन्त्यानन्तैश्वर्यादिगुणनिधये तुभ्य नमः। एतदुपपादनायैवान्यानि विशेषणानि। तत्र सर्वत्र ‘तुभ्य नम’ इति सम्बन्धः। अत्र क्वचिद्विरुक्तिस्त्रिरुक्तिश्च व्याकुलतातिशयवशात् प्रेमातिशयवशाच्च बोध्या। पुरुषाय पूर्षु अन्तः करणेषु
तदेष नाथाप दुरापमन्यैस्तमोजनिः क्रोधवशोऽप्यहीश॥ संसारचक्रे भ्रमतः शरीरिणो यदिच्छतःस्यादिभवः समक्ष॥३८॥ नमस्तुभ्यं119 भगवते पुरुषाय महात्मने \।\। भूतावासाय भूताय पराय परमात्मने॥३९॥ ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये॥ अगुणायाविकाराय नमस्ते प्राकृताय च॥४०॥ कालाय कालनाभाय कालावयवसाक्षिणे॥ विश्वाय तदुपद्रष्ट्रे तत्कर्ञ्चेविश्वहेतवे॥४१॥
नियामकतया शेते तिष्ठतीति तथा तस्मै, अत एव महात्मने महता ब्रह्मादीनामपि नियन्त्रे। भूतानि आकाशादीनि प्राणिनश्च आवसन्त्यस्मिन्निति भूतावासस्तस्मै सर्वाधाराय। भूताय पूर्वमपि सते। पराय प्राकृतविलक्षणाय। परमात्मने परमेश्वराय॥३९॥ ज्ञानं शास्त्रीयम्, विज्ञानमनुभव, तयोर्निधये कारणाय। ब्रह्मणे व्यापकाय। अनन्ताः अपरिमिताः विद्याऽविद्यादयःशक्तयो यस्य तस्मै। अविकाराय जन्मादिविकारशून्याय। तत्र हेतुः— अगुणाय सत्त्वादिप्राकृतगुणवश्यतारहिताय। तत्रापि हेतुमाहुः— प्राकृताय प्रकृतिप्रवर्तकाय च॥४०॥ कालनाभाय कालशक्त्याश्रयाय। एवमुक्त्या प्रतीतं तद्भेद वारयन्त्य आहुः— कालाय कालरूपाय। कालावयवाना सृष्ट्यादिसमयानां निमेषादिद्विपरार्धान्ताना साक्षिणे। विश्वाय विश्वोपादानतया विश्वरूपाय। तद्द्रष्ट्रे विश्वसाक्षिणे। तत्कर्त्रे विश्वकर्त्रे। विश्वहेतवे करणादिसर्वं कारकरूपायेत्यर्थः॥४१॥
सर्वकारकत्वमेव स्पष्टयति— भूतेति। भूतानि आकाशादीनि मात्राः शब्दादयः पञ्चप्राणाश्च दशविधाः, इन्द्रियाणि ज्ञानकर्मोभयात्मकानि दश, मनश्च बुद्धिश्व आशयश्चित्त च आत्मा अहङ्कारश्च तद्रूपाय। ‘एव सर्वात्मा चेत्तदा तथात्वेन कुतो न प्रतीयते?‘तत्राहुः— त्रिगुणेनेनि। गुणत्रयहेतुकेनाभिमानेन देहाद्यात्माभिमानेन गूढा आच्छन्ना स्वाशभूतानामात्मना जीवानामनुभूतिर्विवेकज्ञान येन तस्मै॥४२॥ अनन्ताय देशकालवस्तुपरिच्छेदरहिताय। सूक्ष्माय तथात्वेन दुर्ज्ञेयाय। कूटस्थाय संसर्गदोषरहिताय। विपश्चिते सर्वसाक्षिणे। नानावादानुरोधाय ‘हस्तपादाद्यस्ति-तन्नास्ति, सर्वज्ञः-किञ्चिज्ज्ञ, बद्धः मुक्तः, एक-अनेक’ इत्यादीन् नानावादाननुरुणाई अनुवर्तते यस्तस्मै। वाच्यवाचकशक्तये वाच्यानामर्थाना वाचकाना शब्दाना च शक्तयो यस्मात्तस्मै॥४३॥ प्रमाणानि चक्षुरादीनि तेषा मूलाय प्रकाशकाय, ‘चक्षुषश्चक्षुः’ इत्यादिश्रुतेः। अत एव कवये चक्षुरादिनिरपेक्षज्ञानाय। शास्त्रयोनये ‘तस्य ह वा एतस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद’ इति श्रुतेः वेदात्मनिः श्वासाय। प्रवृत्ताय प्रवर्तकाय विधिरूपाय, निवृत्ताय निवर्तकाय
भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने॥ त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये॥४२॥ नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते॥ नानावादानुरोधाय वाच्यवाचकशक्तये॥ ४३॥ नमःप्रमाणमूलाय कवये शास्त्रयोनये॥ प्रवृत्ताय निवृत्ताय निगमाय नमोनम॥४४॥ नम कृष्णाय रामाय वसुदेवसुताय च॥ प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः॥४५॥ नमो गुणप्रदीपाय गुणात्मच्छादनायच॥ गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे॥४६॥
निषेधात्मकाय एवमुभयात्मकाय निगमाय वेदरूपाय॥४४॥ रामाय सङ्कर्षणाय अहङ्कारे उपास्याय, वसुदेवसुताय “सत्त्व विशुद्ध वसुदेवशब्दितं यदीयते तत्र पुमानपावृत” इति चतुर्थस्कन्धोक्तेः वसुदेवशब्देन शुद्ध चित्तम्, तत्सुताय तत्र प्रकाशमानाय उपास्याय वासुदेवाय, प्रद्युम्नाय बुद्धावुपास्याय, अनिरुद्धाय मनसि उपास्याय, एवं चतुर्मूर्तये कृष्णाय तुभ्य नमः। कृष्णावतारप्रयोजन सूचयन्त्यःप्रणमन्ति— सात्वता भक्ताना पतये पालकाय नमः॥४५॥ ननु ‘एकस्य कथं चतुर्मूर्तिता?’ तत्राहुः— गुणप्रदीपायेति। गुणागुणकार्यान्तःकरणानि प्रदीपयति प्रकाशयतीति तथा तस्मै, चित्तादिचतुर्विधान्तःकरणाधिष्ठातृत्वेन चतुर्मूर्तितेत्याशयः। गुणैरहङ्कारादिभिरेवात्मनः आच्छादन यस्य तस्मै। तथा गुणानां चित्तादीनां चेतनाध्यवसायादिवृत्तिभिरुपलक्ष्याय तत्प्रवर्तकत्वेन अनुमेयाय। तत्प्रकाशकत्वेनाप्यनुमेयत्वमाहुः— गुणद्रष्ट्रे इति। स्वसविदे स्वयप्रकाशरूपाय॥४६॥
अव्याकृतः अप्रकटो विहारो यस्य, यद्वा अव्याकृते प्रकृतौ विहारो यस्य तस्मै। सर्वव्याकृतसिद्धये सर्वेषां व्याकृतानां तत्त्वानां ब्रह्माण्डानां च सिद्धिरुत्पत्तिःप्रकाशश्च यस्मात्तस्मै। हे हृषीकेश हृषीकाणीन्द्रियाणि तेषामीशप्रवर्तकते तुभ्यं नमः। मुनये मननशीलाय, तत्तत्प्राणिकर्मानुसारेण तत्तत्फलविचारकायेत्यर्थ। ननु “यदि सर्वफलदाताऽहमेव, तर्हिकथं न स्पष्टं वदामि?“इत्याशङ्क्याहुः—मौनशीलिने इति॥४७॥ मुनित्वमेव स्पष्टयन्ति। परावरेति। परे ब्रह्मादयः, अवरे अस्मदादयः, तेषा गतिं कर्मानुरूपफलभूतामवस्था जानातीति तथा तस्मै। तत्र हेतुमाहुः—सर्वाध्यक्षायेति, सर्वसाक्षिणे इत्यर्थः। एतदेव स्पष्टयन्ति—तद्द्रष्ट्रे इति। तत्रापि हेतुमाहुः—अविश्वायेति। विश्वतैजसाद्यवस्थारहिताय। तत्र जाग्रदवस्थाभिमानी विश्वः, स्वप्नावस्था- भिमानी तैजसः, सुषुप्त्यवस्थाभिमानी प्राज्ञ इति विवेकः। एवमवस्थाभावे सर्वात्मकत्वे हेतुमाहुः—विश्वायेति। तत्रापि तदुपादानत्वे हेतुमाहः—अस्य च हेतवे इति॥४८॥ एव तावद्दण्डानुमोदनेन नमस्कारैश्च भगवन्त प्रसाद्य इदानीं “तमेव साधु कर्म कारयति मूर्ध्व निनीषति तमसाधुकर्म कारयति
अव्याकृतविहाराय सर्वव्याकृतसिद्धये॥ हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने॥४७॥ परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः॥ अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे॥४८॥ त्वं ह्यस्य जन्मस्थितिसयमान् प्रभो गुणैरनीहोऽकृतकालशक्तिधृक्॥ तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयाऽमोघविहार ईहसे॥४९॥ तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः॥शान्ताः प्रियास्ते ह्यधुनाऽवितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः॥५०॥
यमधो निनीषति” इत्यादिश्रुत्यनुसारेण ‘त्वदधीनाना प्राणिना कोऽपराधः?‘इत्याशयवत्योऽनुग्रह प्रार्थयन्ते—त्व हीति पञ्चभिः। हे प्रभो सर्वसमर्थ। त्वं हि स्वयमनीहः आप्तकामत्वात् इच्छारहितोऽपि समीक्षया ईक्षणमात्रेण सतः संस्काररूपेण विद्यमानान् प्राणिना तत्तत्स्वभावान् घोरत्वादीन् प्रतिबोधयन् गुणैः कृत्वा अस्य विश्वस्य जन्मस्थितिसयमान् ईहसे करोषि। तथासामर्थ्ये हेतुमाहुः—अकृतेति। अकृता अनादिसिद्धा या कालरूपा शक्तिस्ता धारयतीति तथा। ननु ‘अनीहस्य जगत्करणे कि प्रयोजनम्?‘इत्यपेक्षायामाह—अमोघविहार इति। अमोघो जीवानां चतुर्विधपुरुषार्थहेतु- र्विहारःसृष्ट्यादिलीला यस्य सः॥४९॥ तस्यैव जगज्जन्मादिकर्तुस्ते तव त्रिलोक्याममू शान्ताः सात्त्विकाः, अशान्ता राजसाः, मूढयोनयः तामसा उत अपि तन्यन्ते क्रीडार्थं विस्तार्यन्ते इति तनवो देहा। तथापि तेषु शान्ता एव अधुना ते तव प्रियाः, नेतराः। हिशब्दोऽवधारणे। तत्र हेतुमाहुः—सता धर्मपरीप्सया धर्मपरिपालनेच्छया ईहत प्रवर्तमानस्य कृतावतारस्येति। अत एव तान् अवितुं स्थातुं स्थितस्य ते तत्र तामसाना राजसाना च धर्मविरोधित्वान्न प्रियत्वमिति ज्ञेयम्॥५०॥
एवं भगवतो जगत्स्वामित्वमुक्त्वा, उपपत्तिपूर्वकं क्षमापयन्ति—
अपराध इति। यतः स्वप्रजाकृतोऽपराधो भर्त्रा स्वामिना सकृत् सोढव्य इयमेव लोकरीतिः, अतस्त्वमपि अस्यापराधक्षन्तुमर्हसि सर्वभर्तृत्वात्। “पालनार्थगृहीतसत्त्वमूर्तेस्तव तु क्षमैव युक्ता, शिक्षादण्डस्य जातत्वात्"इत्याशयेन सम्बोधयन्ति—
शान्तात्मन्निति। क्षमाया हेत्वन्तरमाहुः—
त्वामीश्वरमजानत इति। अज्ञाने हेतुमाहुः—
मूढस्येति। तामसत्वात्। ‘सकृत् त्वामजानत’ इत्युक्त्या’यदि पुनर्ज्ञात्वाऽप्यपराधकुर्यात्तदा पुनर्निःसन्दिग्धंसर्वथा दण्डनीय’ इति सूचितम्॥५१॥ ‘त्वदनुग्रहविना त्वस्य निस्तारो नास्ति’ इति सूचयन् सम्बोधयन्ति—
भगवन्निति। यस्मादयं पन्नगः प्राणांस्त्यजति, अतोऽनुगृह्णीष्व अनुग्रहं कृत्वैन मुञ्चेत्यर्थः। किञ्च पराधीनतया साधुभिः शोच्याना स्त्रीणा नोऽस्माकं पतिरूपः प्राणः जीवनहेतुः प्रकर्षेणाङ्गभङ्गपीडादिराहित्येन दीयताम्॥५२॥ ‘युष्मदनुग्रहेऽन्येषामनर्थ एव
अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः॥ क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः॥ ५१॥ अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः॥ स्त्रीणां नः साधुशोच्यानां पतिः प्राणःप्रदीयताम्॥५२॥ विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया॥ यच्छ्रद्धयाऽनुतिष्ठन् वै मुच्यते सर्वतोभयात्॥ ५३॥ श्रीशुक उवाच॥ इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः॥ मूर्च्छित भग्नशिरस विससर्जाङ्घ्रिकुट्टनैः॥५४॥ प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम्॥ कृच्छ्रात् समुच्छ्वसन् दीनःकृष्णं प्राह कृताञ्जलिः॥५५॥
स्यात्’ इत्याशङ्क्य ‘इदानीं प्रभावस्य ज्ञातत्वाद्भवदाज्ञानुसारेणैव वर्तिष्याम’ इत्याहुः—
विधेहीति। ते तव किङ्करीणामाज्ञाकरीणामस्माकं यदनुष्ठेयं कर्तव्यं तद्विधेहि आज्ञापय। यत् यस्मात्तवाज्ञया श्रद्धयाऽनुतिष्ठन् कर्माणि कुर्वन्नेव जनः सर्वतो भयं यस्मिंस्तस्मात् सर्वतोभयात् संसाराद्विमुच्यते॥५३॥ स भगवान् कृष्णो नागपत्नीभिरित्थं समभिष्टुतः सम्यक् स्तुतिनमस्कारादिपूर्वकं प्रार्थितः अड्घ्रिकुट्टनैः पादप्रहारैर्भग्नानि शिरांसि यस्य तम्, अत एव मूर्च्छितकालियविससर्ज तत्याज, तच्छिरोभ्योऽवप्लुत्याग्रे तस्थावित्यर्थः॥५४॥ ततश्च शनकैः प्रतिलब्धानीन्द्रियाणि प्राणाश्च येन सः, तथापि कृच्छ्रात् कष्टात् स उच्छ्वसन् ऊर्ध्वं श्वासान् विमुञ्चन् अत एव दीनः कृतसंयोजितोऽञ्जलिर्येन स कालियःकृष्णसदानन्दरूपं हरिं सर्वदुःखहारकप्राहेत्यन्वयः। तस्य सर्पत्वेऽपि स्वेच्छयाऽन्यरूपधारणे सामर्थ्यमस्तीति ज्ञेयम्, कृताञ्जलित्वोक्तेः। तत्पत्नीष्वपि तज्ज्ञेयम्॥५५॥
कालियोऽपि “सर्वजगत् त्वत्कर्तृकत्वेन त्वदधीनमेव, वयमपि तदन्तःपतिता एव, अतस्त्वन्नियन्त्रिता एव सर्वं कुर्मः। नात्रास्माकं कश्चिदपराधः। तथापि तवेश्वरत्वेन कर्तुमकर्तुमन्यथाकर्तुं समर्थत्वाद्यथा मन्यसे तथा कुरु” इत्याह—
वयमिति चतुर्भिः। वयं सहोत्पत्त्या जन्मनैव खलाः परोद्वेजकाः। तत्र हेतुमाह—
दीर्घमन्यव इति। दीर्घो महान् मन्युःक्रोधो येषां तथाभूताः। तत्र हेतुमाह—
तामसा इति। ‘स्वामिनस्तवानुग्रह एव युक्त’ इति सूचयन् सम्बोधयति—
नाथेति। अतः स्वभावः सहजो धर्मो दुस्त्यजः। न केवलं ममैव एवम्, किन्तु सर्वेषामपि लोकानां प्राणिनाम्। यत् यस्मात् स्वभावात् असन् असमीचीनो ग्रहः अहन्ताममतारूपो देहादावाग्रहो भवति॥५६॥ हे धातः पितः! गुणैर्विविधप्रकारेण सृज्यते इति गुणविसर्जनमिदं विश्वं त्वया सृष्टम्। तद्विश्वमेव विशिनष्टि—
नानास्वभावादयो यस्य तत्। तत्र स्वभावः—
शान्तत्वघोरत्वादिः, वीर्यम्—देहशक्तिः, ओजः—इन्द्रियशक्ति., योनिः—मातृशक्तिः, बीजं शुक्रम्—पितृशक्तिः, आशयः—वासना, आकृतिः—स्वरूपम्॥५७॥ तत्र तस्मिंश्च वयं जात्या जन्मनैव उरुर्मन्युः
कालिय उवाच॥ वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः। स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः॥५६॥ त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम्॥ नानास्वभाववीर्यौजोयोनिबीजाशयाकृति॥५७॥ वयं च तत्र भगवान् सर्पा जात्युरुमन्यवः॥ कथं त्यजामस्त्वन्मायां दुस्त्यजा मोहिताः स्वयम्॥५८॥ भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः॥ अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः॥५९॥ श्रीशुक उवाच॥ इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः॥ नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्॥स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी॥६०॥
क्रोधो येषां ते तथाभूताः सर्पाः। अतो हे भगवन् सर्वेश्वर !दुस्त्यजा ब्रह्मादिभिरपि दुर्जया त्वन्माया तया मोहिताः स्वयं भवदनुग्रहमन्तरेण कथं त्यजाम इत्यन्वयः॥५८॥ हिशब्दोऽवधारणे। तत्र शान्तत्वघोरत्वादिस्वभावे भवानेव कारणम्, यतो जगदीश्वरः। अतो यदि ‘मत्प्रयुक्तस्वभावादेते अशुभकुर्वन्ति’ इति, ‘नैषामपराध’ इति च मन्यसे तर्ह्यनुग्रहं विधेहि। यदि च ‘एते स्वतन्त्रा अपराधिन एव’ इति मन्यसे तर्हि नो निग्रहं दण्डं विधेहि सम्पादय।‘अविदित च तव किञ्चिन्नास्त्येव, किं बहु वक्तव्यम्’ इत्याशयेनाह—
सर्वज्ञ इति॥५९॥ कार्यमानुषः कार्यार्थमविद्याकामकर्मभिःसंसारे भ्राम्यमाणानामु- द्धरार्थश्रवणादियोग्यलीलाकरणार्थमानुषतया प्रतीयमानः, वस्तुतस्तु भगवान् अनभिभूतैश्वर्यादिगुण एव श्रीकृष्णस्तस्य कालियस्य तत्पत्नीनाच इत्येव निष्कपटवच आकर्ण्य श्रुत्वा प्राह। तद्वचनमाह—
हे सर्प ! ‘यतो गोभिर्नृभिश्च नदी यमुना भुज्यते, अतस्त्वया विषधरेणात्र नद्या न स्थेयम्, मा चिरं शीघ्रमेव स्वज्ञात्यपत्यदारैराढ्यो युक्तस्त्वसमुद्रसमुद्रमध्यस्थ रमणकं द्वीपं याहीत्यन्वयः॥६०॥
यच्च तत्पत्नीभिः प्रार्थित’विधेहि ते किङ्करीणामनुष्ठेयम्’ इति तद्विदधाति—
यदेतत् इत्यादि। तुभ्यं यन्मदनुशासनं ममाज्ञा तदुभयोः सन्ध्योः प्रातःकाले सायङ्काले च स्मरेत् कीर्तयश्च भवति स युष्मत्तो भयं नाप्नुयात्, युष्माभिस्तस्य भयं नोत्पादनीयमित्यर्थः॥६१॥ इतो निर्गमने हेत्वन्तरमाह—
य इति। यः प्राणी उपोष्य तीर्थोपवासकृत्वा अस्मिन् तीर्थवरे, तत्र हेतुः—
मदाक्रीडे इति, मम आक्रीडा यस्मिंस्तस्मिन् स्नात्वा मां स्मरन् एतज्जलैर्देवादींस्तर्पयेत् मा चार्चेत् स सर्वैः कायिकवाचनिकमानसिकैः पापैः प्रकर्षेण वासनाराहित्येन मुच्यते मुच्येत्। अत्र त्वयि स्थिते तत् न स्यादिति भावः॥६२॥ ननु “गरुडभयात् स्वस्थानं रमणकहित्वा अत्रागतोऽस्मि, पुनस्तत्र गमने गरुडो मामद्यात्” इत्याशङ्क्याह—
द्वीपमिति। यस्य भयात् स्वस्थानं रमणकाख्यं द्वीपं हित्वा एतंह्रदंत्वमुपाश्रितोऽसि, स सुपर्णो गरुडस्त्वां नाद्यात् न खादेत्। तत्र हेतुमाह—
मत्पादेति। वज्राङ्कुशादियुक्तेन मत्पादेन लाञ्छितं चिह्नितमित्यर्थः॥६३॥ कृष्णेनैवमुक्तः कालियस्तदनुग्रहानुसन्धानात् मुदा हर्षेण सादरं सप्रेम तं श्रीकृष्णं दिव्याम्बरा-
य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम्॥ कीर्तयन् उभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात्॥६१॥ योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पये- ज्जलैः॥ उपोष्य मां स्मरन्नर्चेत् सर्वपापैःप्रमुच्यते॥६२॥ द्वीपरमणकहित्वा ह्रदमेतमुपाश्रितः॥ यद्भयात् स सुपर्णस्त्वां नाद्यान् मत्पादला- ञ्छितम्॥६३॥ श्रीशुक उवाच॥ एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा। तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥६४॥दिव्याम्बरस्रङ्म- णिभिःपरार्ध्यैरपि भूषणैः॥दिव्यगन्धानुलेपैश्च महत्योत्पलमालया॥६५॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम्॥ ततः प्रीतोऽभ्यनु- ज्ञातःपरिक्रम्याभिवन्द्य तम्॥ ६६॥
दिभिः पूजयामास, तथा तत्पन्यश्च पूजयामासुः। लोकप्रतीत्या निग्रहकुर्वन्नपि ब्रह्मादिदुर्लभचरणस्पर्शेन गरुडादपि निर्भयत्वसम्पादनेन चानुग्रहमेव कृतवानिति। तत्कर्मणोऽद्भुतत्वमाह—
अद्भुतकर्मणेति। तत्र हेतुमाह—
भगवतेति॥६४॥ दिव्यत्वमलौकिकत्वम्, सङ्कल्पसिद्धत्वात्॥६५॥ एवं कलत्रा- दिभिः सहितः कालियस्तजगन्नाथजगतः स्वामिनं कृष्णं पूजयित्वा प्रसाद्य प्रसन्नच कृत्वा तेनाभ्यनुज्ञातः ‘सुखगच्छ’ इति दत्ताज्ञः स्वयमपि प्रीतस्तं परिक्रम्याभिवन्द्य च ततः स्थानात् अब्धेः समुद्रस्य मध्यस्थरमणकं द्वीपं जगामेति सार्थान्वयः। भगवच्चरितस्य आश्चर्यं सूचयन्नाह—
हेति। “यदि तमप्रसन्नं कृत्वा गच्छेत्तदा ‘मत्स्वामिद्रोहमप्यय कृतवान्’ इति कृत्वा क्रुद्धः पूर्ववैरी गरुडो हठादेव तं भक्षयेत्"इति सूचयन्नाह—
गरुडध्वजमिति॥६६॥
तदैव तत्क्षणमेव क्रीडामानुषरूपिणः जनोद्धारोपयोगिक्रीडाकरणार्थमनुष्यरूपेणावतीर्णस्य भगवतः कृष्णस्यानुग्रहात् विषधरस्य कालियस्यनिःसारणात् तत्र क्रीडनाच्च सा यमुना निर्विषा विषसम्बन्धरहिता अमृतजला अमृतवत् स्वादु जल यस्याः सा, यद्वाअमृत स्नानाचमनपानादिमात्रेणापि जन्मादिहेतुदोष- निरासेन मरणनिवर्तकं मोक्षप्रदंजलं यस्यास्तादृशी चाभवत्॥६७॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ षोडशो विवृतोऽध्यायः कालियोद्वासबोधकः॥३॥ अथ सप्तदशे सर्प-स्थानत्यागस्य कारणम्॥
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह। तदैव साऽमृतजला यमुना निर्विषाऽभवत्। अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः॥६७॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधप्रकरणे कालियोद्वासननिरूपणं नाम षोडशोऽध्याय॥१६॥ राजोवाच॥ नागालयं120 रमणकं कस्मात्तत्याज कालिय॥ कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्॥१॥ श्रीशुक उवाच॥ उपहार्यै121 सर्पजनैर्मासि मासीह यो बलिः॥ वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः॥२॥
गोपगोपीगवा रक्षा दावाग्नेश्चनिरूप्यते॥१॥ स्वस्थानं त्यक्त्वाऽत्रागमनस्य कारणं पृच्छति—
नागेति। कालियो नागालयस्थानंरमणकं कस्माद्धेतोस्तत्याज। ननु ’ द्वीपरमणकहित्वा’ इत्यादिना ‘गरुडभयस्य तत्कारणत्वमुक्तमेव’ इत्याशङ्क्याह—
कृतमिति। तेन कालियेनैकेन सुपर्णस्य गरुडस्यासमञ्जसमप्रियं किं कृतम्? ‘एकेनैव तेन कृतम्’ इत्यपि सामान्यतो जानामि, अन्यथा अन्योऽपि कश्चिदत्रागच्छेत्॥१॥ एवं पृष्टः शुकः। कालियकृतमपराधं वर्णयति—
उपहार्यैरिति त्रिभिः। उपहार्यैः गरुडभक्ष्यैःसर्पजनैर्मासि मासि वानस्पत्यः पुष्पविनैव यः फलति स वृक्षो वनस्पतिः अश्वत्थादिः, तस्य मूले देयो यो बलिः भक्ष्यविशेषः नागानां बाधापरिहाराय इह रमणकद्वीपे प्राक् पूर्वं निरूपितः उपकल्पितः। अत्रैवह्याख्यायिका—
“गरुड
सर्वानेव सर्पान् सर्वदा भक्षयति, मातृवैरमनुस्मरन् वृथैव कांश्चिन्मारयति च। ततो वासुकिप्रमुखा गरुडाद्भीता ब्रह्मणः शरणं गताः। ततो ब्रह्मा गरुडसमाहूय सन्धिं कारयित्वा नियमेन बलिं कल्पितवान्”। तथोक्तम्—“अमावास्या वृक्षमूले नागलोकेषु यो भवेत्। एकस्मिन् दिवसे तावदेकत्र स्थापयेत्तु हि॥ ततो हि गरुडस्तस्मिंस्तद्भुक्त्वा नैव पीडयेत्। इति व्यवस्थया सर्पा मासि मासि बलिं ददुः” इति॥ ‘यथा त्वया सर्वेभ्यः करो गृह्यते, एवं गरुडोऽपि सर्पेभ्यः’इति सूचयन् सम्बोधयति—महाबाहो इति॥२॥ ततःप्रभृति ते नागाः स्वं स्वं देयतया स्वीकृतभागमात्मनो गोपीथाय संरक्षणाय पर्वणि पर्वणि मासि मासि प्रत्येकामावास्यायांसुपर्णाय प्रयच्छन्ति। अनन्तशक्तित्वेऽपि तदाप्रभृति तन्नियमानुल्लङ्घनात् भगवद्भक्तत्वाच्च तस्य महत्त्वमाह—महात्मन इति॥३॥ कालियस्तु गरुडकदर्थीकृत्य तुच्छीकृत्य अविगणय्य स्वयं तस्मै बलिन प्रायच्छत्, प्रत्युत अन्यदत्तमपि तं बलिंबुभुजे इत्यन्वयः। तुच्छीकरणे हेतुमाह—विषवीर्याभ्यां यो मदस्तेनाविष्टो व्याप्त इति। ‘मातृप्रयुक्त
स्वं स्वं भागं प्रयच्छन्ति नागाःपर्वणि पर्वणि। गोपीथायाऽऽत्मनः सर्वे सुपर्णाय महात्मने॥३विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः॥ कदर्थीकृत्य गरुडस्वयं तं बुभुजे बलिम्॥४॥ तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः॥ विजिघांसुर्महावेगःकालियसमुपाद्रवत्॥५॥ तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुच्छ्रितनैकमस्तकः॥ दद्भिः सुपर्ण व्यदशद्ददायुध करालजिह्वोच्छ्वसितोऽग्रलोचनः॥६॥ ततार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगोमधुसूदनासनः॥ पक्षेण सव्येन हिरण्यरोचिषा जघान कद्र्सुतमुग्रविक्रमः॥७॥
वैरमपि तत्र हेतुः’ इत्याशयेनाह—काद्रवेय इति। कद्रूपुत्रः॥४॥ ‘राजा अपमानंन सहते, इति तु तव विदितमेव’ इत्याशयेन सम्बोधयति—राजन्निति। तत् कालियकृतबलिभक्षणश्रुत्वा गरुडःकालियविजिघांसुः हन्तुमिच्छुः समुपाद्रवत् महाघोषपूर्वकं समीपमाजगामेत्यन्वयः। तत्र हेतुः—कुपित इति। तत्र सामर्थ्यमाह—महावेग इति। तत्र हेतुमाह—भगवानिति, भगवद्दत्तसामर्थ्यः। तत्रापि हेतुमाह—भगवत्प्रिय इति, भगवद्वाहन इत्यर्थः॥५॥ तसुपर्ण आपतन्तं वेगेनागच्छन्तं कालियोऽपि तरसा वेगेन प्रत्यभ्ययात् योद्धु सन्मुख गतवान्। तंविशिनष्टि—विषमायुधं यस्य सः,उत्थितनैकमस्तकः उन्नमितानेकफणः, दन्ता आयुधं यस्य सः, कराला जिह्वा यस्य स वासौ उच्छ्वसितानि उज्जृम्भितानि उग्राणि लोचनानि यस्य सः समीप गत्वा च दद्भिर्व्यदशत्॥६॥ त कद्रसुतः कालियस प्रसिद्धःशत्रुःतार्क्ष्यपुत्रो गरुडो निरस्य तिरस्कृत्य क्षिप्त्वा सव्येन पक्षेण जघाने-
त्यन्वयः। तत्र हेतुमाह—
मन्युमान् सङ्क्रुद्धः। सामर्थ्यमाह—
प्रचण्डोऽसह्यो वेगो यस्य सः। प्रभावातिशयमाह—
उग्रविक्रम इति। तत्र हेतुमाह—मधु सूदयतीति तथा तस्यासन यस्मिन् स इति। ‘वेगेन गमनार्थं भगवतैव दत्तशक्तिः’ इत्याशयः। ‘सव्येन’ इत्यनायासत्वं सूचितम्, दक्षिणपक्षस्य ततोऽप्यधिकबलत्वात्॥७॥ सुपर्णस्य पक्षेणाभिहतः, अत एवातीव विह्वलः व्याकुलःकालियस्तद्गम्य तेन गरुडेन गन्तुमशक्य दुरासदमगाधजलतया दुष्प्रवेश च कालिन्द्या ह्रदं विवेशेत्यन्वयः॥८॥ ननु “भगवद्वाहनस्य महावेगस्य तस्य गतिः कुत्रापि न रुद्धा श्रूयते, तस्य तत्र गमनाशक्तौ किं कारणम्?“इत्यपेक्षायामाह—
तत्रेति। तत्र यमुनायामेकदा सौभरिणा ऋषिणा निवारितोऽपि गरुडः ईप्सित स्वाभीष्टभक्ष्यजलचरं मत्स्यप्रसह्य बलादाहरत्, तदा सौभरि प्राहेत्युत्तरेणान्वयः। बलाद्धरणे हेतुमाह—
क्षुधित इति॥९॥ सौभरिशापप्रयोजनमाह—
मीनानिति। मीनपतौ हते सति तदधीनान् मीनान् सुदुःखितान्, अत एव दीनांश्च दृष्ट्वा कृपया तत्रत्यक्षेमं निर्भयत्वमाचरन् कुर्वन् सौभरिः प्राहेत्यन्वयः॥१०॥
सुपर्णपक्षाभिहतःकालियोऽतीव विह्वलः॥ह्रदं विवेश कालिन्द्यास्तदगम्यदुरासदम्॥८॥
तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम्॥निवारितःसौभरिणा प्रसह्य क्षुधितोऽहरत्॥९॥
मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते॥ कृपया सौभरि प्राह तत्रत्यं122 क्षेममाचरन्॥१०॥
अत्र प्रविश्य गरुडो यदि मत्स्यान्123 स खादति॥ सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम्॥११॥
तद्वचनमेव दर्शयति—
अत्रेति। अत्र यमुनायाप्रविश्य स गरुडो यदि मत्स्यान् खादति भक्षयिष्यति, तदा सद्य एव प्राणैर्वियुज्येत म्रियेत, एतत् सत्यमेवाह ब्रवीमीत्यन्वयः। ‘मत्स्यान्’ इत्युपलक्षणं जन्तुमात्रस्य, अन्यथा कालियग्रहणप्रतिबन्धो न स्यात्। ‘मत्स्याश्च’ इति पाठे तु चका रादेव प्राण्यन्तरग्रहणम्। अत्र यद्यपि “ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः। स्रवते ब्रह्म तस्यापि भिन्नभाण्डात पयो यथा " इति वाक्यमर्यादया तथाकरणं तस्योचितमेव, तथापि गरुडस्य भगवद्भक्तत्वात्तस्य क्षुधितस्य जात्युचितभक्ष्यनिवारणेन शापदानेन च मुनेरपराध एव जातः। अत एव तस्य महातपस्विनोऽपि विवाहादिना तपोविघ्नरूपानर्थः, तत्र कालियनिवासेन तत्रत्यानां जलचराणां तीरवर्तिना वृक्षादीनामुपरिगच्छतांखगानां च मरणेन तत्रत्यक्षेमार्थसङ्कल्प- वैपरीत्यचासीदिति बोध्यम्॥११॥
तसौभरिशापपरं केवलं कालिय एव वेद, अन्यः कश्चनापि लेलिहःसर्पो न वेद। यद्यन्योऽपि वेद, पूर्ववैरस्य सत्त्वात् सोऽपि तेन सह विरोधकृत्वा तत्रागच्छेत्, अतः स एव गरुडाद्भीतः सन् तत्रावात्सीत्, कृष्णेन च विवासितो निष्कासितः॥१२॥ एवं प्रासङ्गिकमुक्त्वा प्रस्तुतमाह—कृष्णमिति। ‘कालियकृतया पूजया पूर्वतोऽप्यधिका शोभा जाता’ इत्याशयेन त वर्णयति—दिव्येति। दिव्यानि स्रगादीनि यस्य तम्, महतामनर्घ्याणा मणीना गणैराकीर्णम्, सर्वतः समलङ्कृतम्, तथा जाम्बूनदेन सुवर्णेन परिष्कृतमलङ्कृतम्, ह्रदाद्विनिष्क्रान्त निर्गच्छन्तं कृष्णम्॥१३॥ उपलभ्य दृष्ट्वा उत्थिताः प्रमोदेन आनन्देन निभृताः आत्मानो मनांसि येषां ते सर्वे गोपाः प्रीत्या अभिरेभिरे सर्वत आलिङ्गितवन्त इति द्वयोरन्वयः। तत्र दृष्टान्तमाह—लब्धप्राणा इवासव इति। यथा प्राणविना असव इन्द्रियाणि करचरणादीनि मूर्च्छितानि कार्याक्षमाणि भवन्ति, पुनश्च प्राणप्रतिलभ्य स्वस्वकार्यसमर्थानि
तकालियः पर वेद नान्यःकश्चन लेलिहः॥ अवात्सीद्गरुडाद्भीतःकृष्णेन च विवासितः॥ १२॥ कृष्णं ह्रदाद्विनिष्क्रान्त दिव्यस्रग्ग्न्धवाससम्॥महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम्॥१३॥उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः॥ प्रमोदनिभृतात्मानो गोपाः प्रीत्याऽभिरेभिरे॥१४॥ यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव !॥ कृष्णसमेत्य लब्धेहा आसन् लब्धमनोरथाः॥१५॥ रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाव- वित्॥ नगा गावो वृषा वत्सा लेभिरे परमां मुदम्॥१६॥ नन्दं विप्राः समागत्य गुरवः सकलत्रका॥ ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवाऽऽत्मजः॥ १७॥
भवन्ति तथेत्यर्थः॥१४॥ यशोदादयश्च कृष्णं समेत्य सङ्गत्य लब्धेहा लब्धमनोरथाश्वासन्। हे ‘कौरव !इति सम्बोधनेन ‘कुरुतन्तोस्तव ब्रह्मास्त्रतो रक्षणेन यथा पाण्डवानासुखं जाततथा श्रीकृष्णदर्शनेन नन्दादीनामपि’ इति साम्यं द्योतितम्॥१५॥ रामश्चाच्युतं कृष्णमालिङ्ग्य जहास। ‘तस्य तु तद्वियोगदुःखं नाभूत्’ इत्याशयेनाह—अस्यानुभावविदिति। नगादयोऽपि कृष्णदृष्ट्वा परमां मुद लेभिरे। तत्र नगा वृक्षाः तेषां मोदः पूर्वं शुष्काणा सद्य एव प्ररोहः॥१६॥ भगवन्मायामोहितानां विप्राणां चेष्टामाह—नन्दमिति सार्धेन। ये सकलत्रकाः स्त्रीसहिताः गुरवः पुरोहिताश्व विप्रास्ते समागत्य नन्दं प्रत्यूचुः। तदाहुः—कालियेन ग्रस्तस्तवात्मजोऽयं दिष्ट्या भाग्येनैव मुक्तः॥१७॥
अतः कृष्णस्य कालियाद्या निर्मुक्तिस्तत्र हेतुर्निमित्तं ब्राह्मणसन्तोषः, तस्मै तदर्थं द्विजातीनां ब्राह्मणानामस्माकं दानं देहीति। तदा प्रीतमना नन्दो हे राजन् ! ब्राह्मणेभ्यो गाः सुवर्णं च आदिशत ददौ॥१८॥ यशोदा च महाभागा दानानि ददौ। महाभाग्यमेव स्पष्टयति—नष्टा अदर्शनं गता पुनर्लब्धा प्रजा यया तथाभूता सती तं परिष्वज्य अङ्कमारोप्य अश्रुकलामानन्दाश्रु मुहुर्मुमोच॥१९॥ अद्भुत लीलान्तरमाह—तामिति। ता यस्मिन् दिवसे कालियो विवासितस्तद्दिनसम्बन्धिनीं रात्रि हे राजेन्द्र ! तत्रैव कालिन्द्या उपकूलतः कूलप्रान्ते व्रजौकसो गोपाः गावश्च ऊषुः वासं चक्रुः। तत्र हेतुमाह—क्षुत्तृड्भ्यां रोदनपरिधावनादिजनितेन श्रमेण च कर्शिता इति॥२०॥ तदा तस्या रात्रौ तत्रापि निशीथे अर्धरात्रिसमये शुचिः ग्रीष्मस्तत्सम्बन्धि यद्वनं तत उद्भूतो दावाग्निः सुप्त ब्रज गवादिसहित व्रजवासिजनं सर्वत आवृत्य प्रदग्धुमुपचक्रमे प्रक्रान्तवान् इत्यन्वयः॥२१॥ ततो दह्यमाना व्रजौकसः उत्थाय सम्भ्रान्ता दिग्देशकालादिज्ञानरहिता अन्यदुपायमपश्यन्तस्तन्मनस्कत्वादनेकत्र प्रभावस्य दृष्टत्वाच्च मायया स्वेच्छया
देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे॥ नन्दः प्रीतमना राजन् गाःसुवर्णं तदाऽऽदिशत्॥१८॥ यशोदाऽपि महाभागा नष्टलब्धप्रजा सती॥परिष्वज्याङ्कमारोप्य मुमोचाश्रुकला मुहुः॥ १९॥ तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिता॥ ऊषुर्व्रजौकसो गावःकालिन्द्या उपकूलतः॥२०॥ तदा शुचिवनोद्धृतो दावाग्निः सर्वतो ब्रजम्॥ सुप्त निशीथ आवृत्य प्रदग्धुमुपचक्रमे॥२१॥ तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः॥ कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम्॥२२॥ कृष्ण कृष्ण महाभाग हे रामामितविक्रम॥ एष घोरतमो वह्निस्तावकान् ग्रसते हि नः॥२३॥ सुदुस्तरान्न स्वान् पाहि कालाग्नेः सुहृदःप्रभो॥ न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम्॥२४॥
मानुषतया प्रतीयमानमपि वस्तुतस्तु ईश्वरं श्रीकृष्णमेव ते शरणं ययुरित्यन्वयः॥२२॥ शरणगमनप्रकारमाह—कृष्णकृष्णेति द्वाभ्याम्। अतिसम्भ्रमेण वीप्सा। हे कृष्ण सदानन्दरूप !।महद्भाग्यं भक्ताना यस्मात्तत्सम्बोधन हे महाभागेति। हे राम सर्वतो दुःखनिवारणेन रतिजनक।दुःखनिवारणे सामर्थ्यं सूचयन्तः सम्बोधयन्ति—हे अमितविक्रमेति। एष घोरतमो भयङ्करो वह्निस्तावकान् नोऽस्मान् ग्रसते प्रदहति,भवदग्रे भवदीयाना दुःखं न युक्तमित्याशयः॥२३॥ हे प्रभो सर्वप्रकारेण समर्थःसुदुस्तरात् कालाग्नेर्मृत्युरूपादग्नेः स्वान् स्वकीयान् सुहृदः शोभनं हृत् येषां तान् भक्तान्नोऽस्मान् पाहि। मृत्योर्न बिभीमः, किन्तु त्वच्चरणं सन्त्यक्तुं न शक्नुमः। तत्र हेतुमाह—अकुतोभयमिति। नास्ति भक्ताना कुतोऽपि भययस्मात्, सर्वभयनिवर्तकमित्यर्थ। नच ‘तर्हि चरणाश्रितानामग्नितोऽपि भयंनैव स्यात्, किमर्थेयं प्रार्थना ?‘इति शङ्क्यम्, भगवदिच्छाया प्रबलत्वाद्व्याकुलता- वशाच्च प्रार्थना सङ्गच्छते॥२४॥
इत्थं स्वजनानां वैक्लव्यं व्याकुलतां निरीक्ष्य तमतितीव्र सुदुःसहमप्यग्निमपिबत्। ननु ‘कथमल्पेन तेन सर्वत आच्छादयतो महतो वह्नेः पानं सम्भवति ?‘तत्राह—
अनन्त इति। वस्तुतोऽपरिच्छिन्न इत्यर्थः॥ ननु ‘तथापि प्रज्वलतस्तस्य पानकथं सम्भवति ?‘तत्राह—
अनन्तशक्तिधृगिति। अग्नेरपि शक्तिस्तस्यैव, “यदादित्यगतं तेजो जगद्भासयतेऽखिलम्॥ यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्"इति वचनात्। तेन तत्पाननासम्भावितम्। नहि स्वशक्तिः स्वप्रतिकूला भवतीति भावः॥ अनन्तशक्तित्वे हेतुमाह—
जगदीश्वर इति॥२५॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ सप्तदशो गतो वृत्तिं वह्निपाननिरूपकः॥३॥ छ॥ ६॥ छ॥ ग्रीष्मे तु वनलीलाया दैत्यस्य रामतो वधः॥ अष्टादशे
इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः॥ तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक्॥२५॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे वह्निपाननिरूपणं नाम सप्तदशोऽध्यायः॥१७॥ ६॥ श्रीशुक उवाच॥॥ अथ124 कृष्णः परिवृतो ज्ञातिभिर्मुदि- तात्मभिः॥ अनुगीयमानो न्यविशद्व्रज गोकुलमण्डितम्॥१॥ व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया॥ ग्रीष्मो नामर्तुरभवन्नातिप्रेयान् शरीरि- णाम्॥२॥ स च वृन्दावनगुणैर्वसन्त इव लक्षितः॥ यत्राऽऽस्ते भगवान् साक्षाद्रामेण सह केशवः॥३॥
प्रलम्बस्य गोपरूपस्य वर्ण्यते॥१॥ अथ वह्निपानानन्तरं प्रातःकाले कालियदमनेन दावाग्नितः परिरक्षणेन च मुदिता आत्मानो मनांसि येषां तैर्ज्ञातिभिर्गोपैः परिवृतस्तैरेवानुगीयमानः कृष्णः गोकुलेन गवा समूहेन मण्डितं व्रजं न्यविशत्॥१॥ गोपालनमेव च्छद्म व्याजमात्रं यया तया मायया इच्छया एव व्रजे विक्रीडतोः सतोः रामकृष्णयोःग्रीष्माख्या ऋतुरभवत्, स च शरीरिणां नातिप्रेयान्।’ जलविहारत्वरादौ प्रियोऽपि भवति’ इत्यभिप्रायेण अतिपदप्रयोगः॥२॥ स च प्राण्यप्रियोपि ग्रीष्मो वक्ष्यमाणैर्वृन्दावनगुणैर्वसन्त इव लक्षितस्तत्रत्यैर्जनैर्दृष्टः। ‘कथं तत्र तथा गुणा जाता’ इत्यत आह—
यत्रेति। यत्र वृन्दावने रमन्ते योगिनो यत्र सच्चिदानन्दविग्रहे स रामः, तेन सह केशवो’ब्रह्मरुद्रयोरपि सुखदाता’ भगवान् आविर्भूतषडैश्वर्यः श्रीकृष्णः साक्षादास्ते। अतस्तद्वासमहिम्ना तथा गुणा जाताइति भावः॥३॥
वसन्तसाम्यं दर्शयन् वृन्दावनगुणानाह—यत्रेति चतुर्भिः। यत्र ग्रीष्मेऽपि निर्झराणां निर्ह्रादेन घोषेण निवृत्तवना प्रच्छन्नध्वनयो झिल्लिकाः कठोरध्वनयः सूक्ष्माः कीटविशेषा यस्मिंस्तद्वनमविशदिति पञ्चमेनान्वयः। किञ्चशश्वत्तेषां निर्झराणां शीकरैःअम्बुकणैःऋजीषाः स्निग्धा ये द्रुमास्तेषां मण्डलैः समूहैर्मण्डितम्॥४॥ यत्र वृन्दावने अतिशाहले अतिहरिततृणाकीर्णे निदाघोश्रीष्मस्तेन तत्कालीनवह्न्यर्काभ्यां च भवतीति तथाभूतो यो दवस्तापः स (वनौकसा न विद्यते। ‘तत् केन हेतुना’ इत्यपेक्षायामाह—सरिदिति। सरितो नद्यः, सरांसि सरोवराणि, प्रस्रवाः निर्झराः, तेषामूर्मिसम्बन्धेन शीतलेन वायुना। तथा कह्लारकञ्जोत्पलानि यथाक्रमेण सन्ध्यादिनरात्रिविकाशीनि तेषां रेणुहारिणा सुगन्धिना वायुना॥५॥ ननु ‘ग्रीष्मेऽतिशाद्वलत्वमेव कुत’ इत्यपेक्षायामाह—अगाधेति। अगाधानि तोयानि यासां तासां ह्रदिनीनां तटस्पर्शिभिरूर्मिभिः पुलिनैः सह समन्ततः सर्वतो द्रवत् पुरीषं पङ्के
यत्र125 निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम्॥ शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम्॥४॥ सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणु- हारिणा॥ न विद्यते यत्र वनौकसां दवो निदाघवन्ह्यर्कभवोऽतिशाद्वले॥५॥ अगाधतोयह्रदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः॥ न यत्र चण्डांशुकरा विषोल्वणा भुवो रसं शाद्वलितं च गृह्णते ॥६॥ वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम्॥ गायन्मयूरभ्रमरं कूजत्कोकिलसारसम्॥ ७॥ क्रीडिष्यमाणस्तत् कृष्णो भगवान् बलसंयुत॥ वेणु विरणयन् गोपैर्गोधनैःसंवृतोऽविशत्॥८॥ प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः॥ रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः॥९॥
यस्यास्तस्या भुवो रस शाद्वलित शाद्वलता च यत्र वृन्दावने ग्रीष्मकालीना विषवदुल्बणा अतितीक्ष्णा अपि चण्डांशुकराः सूर्यरश्मयो न गृह्णते न हरन्ति, अतःशाद्वलत्वमित्याशयः॥६॥ कुसुमित पुष्पितवृक्षव्याप्तम्, श्रीमत् बहुशोभायुक्तम्, नदन्तः चित्रा मृगा द्विजाश्च यस्मिंस्तत, गायन्तो मयूरा भ्रमराश्च यस्मिंस्तत, कूजन्तः कोकिलाःसारसाश्च यस्मिंस्तत्॥७॥ तदेवंभूत वनक्रीडिष्यमाणो बलेन संयुतो गोपैर्गोधनैश्च संवृतो वेणुवि विशेषेण रणयन् वादयन् भगवान् कृष्णोऽविशत्॥८॥ सुवर्णरत्नादिभिर्मातृभिर्भूषिता अपि प्रवालादिभिः कृतानि भूषणानि यैस्तथाभूता रामकृष्णादयो गोपाः ननृतुः, मिथो युयुधु, जगुश्च॥९॥
तत्र श्रीकृष्णस्य मुख्यत्वसूचयन्नाह—कृष्णस्येति। कृष्णस्य नृत्यत सतःकेचिद्गोपा जगुः। केचिद्वेण्वादीनि अवादयन्। अपरे च प्रशंशसु॥१०॥ गोपजातिप्रतिच्छन्ना भगवल्लीलामाधुर्यास्वादनार्थंगोपजातिषु तस्य सखिषु तद्वेषेणावतीर्णा अत एव गोपालरूपिणः देवाः कृष्णरामौ चगोपालरूपिणौ ईडिरे। तत्र दृष्टान्तमाह—नटा इव नटमिति। ‘भवता बहुशः स्तुतिप्रस्तावोऽनुभूत एव’ इति सम्मतिं सूचयन् सम्बोधयति—नृपेति।॥११॥ एवनृत्यवर्णयित्वा युद्धं वर्णयति—भ्रामणैरिति। काकपक्षाः कर्णाग्रलम्बिवक्रालकास्तद्धरौ क्वचित्। भ्रामणादिभिः नियुद्धेन बाहुयुद्धेन च चिक्रीडतुरित्यन्वयः। परस्परकरग्रहणेन भ्रामणैर्गतादिलङ्घनैः, क्षेपैः प्रतिलोमप्रेरणैः, आस्फोटनैःकरतलेन भुजमूलाघातैः॥१२॥ क्वचिदन्येषु गोपेषु नृत्यत्सु सत्सु स्वयं गायकौ वादकौ च भूत्वा हे महारा! ‘साधु साधु’ इति वादिनौ सन्तौ प्रशशंसतुः॥१३॥ क्वचिद्विल्वैर्बिल्वफलैः, कुम्भैः
कृष्णस्य नृत्यतःकेचिज्जगुः केचिदवादयन्॥ वेणुपाणितलैःशृङ्गैःप्रशशंसुरथापरे॥१०॥ गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणः॥ ईडिरे कृष्णरामौ च नटा इव नटं नृप॥११॥ भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः॥ चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित्॥१२॥ क्वचिन्नृत्यत्सु चान्येषु गायकौवादकौस्वयम्॥ शशंसतुर्महाराज साधु साध्विति वादिनौ॥१३॥ क्वचिद्बिल्वैःक्वचित्कुम्भैःक्व चामलकमुष्टिभिः॥अस्पृश्यनेत्रबधान्यैः क्वचिन्मृगखगेहया॥१४॥ क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः॥ कदाचित् स्पन्दोलिकया कर्हिचिन्नृपचेष्टया॥१५॥ एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने॥ नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरस्सु च॥१६॥
कुम्भवृक्षफलैः, आमलकफलपूर्णैर्मुष्टिभिः। एषां फलानां यत्रमुष्ट्यादिना प्रक्षेपणक्रीडा बोध्या। तृतीयान्तैः पदैः ‘सर्वत्र चिक्रीडतुः’ इत्यस्यानुषङ्गेण सम्बन्धो बोध्यः॥ अस्पृश्यनेत्रबन्धाद्यैः इति। स्वयं द्वौ मुख्यौ अन्यस्य नेत्रपिधानकर्तारौ, ततोऽन्ये निलीयस्थिता भवन्तु। तत्रोद्घाटितनेत्रेणास्पृष्टा एव ये राम कृष्ण वा मुख्य स्पृशन्ति तेषा न पराजयः, यस्तु तेन स्पृष्टस्तस्य पराजयः, यः स्पृशति तस्य जय एवविधाभिरित्यर्थः। मृगाणां खगानां चेहया चेष्टया॥१४॥ दर्दुरप्लावैर्मण्डूकप्लुतिभिः। विविधैरुपहासकैः उपहासजनकविचित्रानुकरणैः। स्पन्दोलिकया दोलायामारोहणेन। नृपचेष्टया सिंहासने उपविश्य राजवद्दण्डाद्याज्ञापनलीलया॥१५॥ लीलान्तरं वक्तुमुक्ता लीलामुपसहरति—एवमिति। एवं लोकसिद्धाभिः क्रीडाभिस्तौ रामकृष्णौ वनादिषु चेरतुरित्यन्वयः। द्रोणी उभयतःपर्वतमध्ये निम्ना भूमिः। कुञ्जानि लतापिहितगह्वरस्थानानि। यद्येव वनादिषु सर्वत्र भगवान् क्रीडा न कुर्यात्तदा
तेषां भगवत्स्मारकत्वं न स्यात्।अतः स्मरणार्थं सर्वत्र क्रीडाः कृताः। तत्स्मरणस्य परमपुरुषार्थहेतुत्वात्॥ अत एव पुनः स्मारयन्ति। ‘नन्दगोपसुत बत’ इत्यादौ स्मारकत्वमुक्तम्॥१६॥ लीलान्तरमाह—
पशूनिति। तस्मिन् वने गोपैः सह पशून् चारयतोः सतोः रामकृष्णयोस्तयोर्जिहीर्षया हर्तुमिच्छया गोपरूपी कश्चिद्गोपस्तद्दिने वननागतस्तद्रूपी सन् प्रलम्बाख्योऽसुरोऽगादित्यन्वयः॥१७॥ दाशार्हः दाशार्हकुलोत्पन्नः श्रीकृष्णस्तं प्रलम्बासुरं विद्वानपि जानन्नपि तेन सह सख्यमन्वमोदत्। सख्यानुमोदने हेतुमाह—
वधमिति। तेन सह क्रीडयैव तस्य वधं विचिन्तयन्नित्यर्थः। एवं ज्ञाने हेतुमाह—
सर्वदर्शन इति। सर्वज्ञ इत्यर्थः। सर्वज्ञत्वे वधसामर्थ्ये च हेतुमाह—
भगवानिति॥१८॥ तत्रेति। यत्र समभूमौ तद्वधयोग्या क्रीडा भवेत्तत्र गोपान् उपाहूय ‘हे गोपा! यथायथ वयोबलाद्यनुरूप द्वन्द्वीभूय वयं विहरिष्याम’ इति कृष्णः प्राहेत्यन्वयः। ननु ‘तेषा स्वरुच्या नानाविधक्री-
पशूंश्चारयतो गोपैस्तद्वने रामकृष्णयोः॥ गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया॥१७॥
तं विद्वानपि दाशार्होभगवान् सर्वदर्शनः॥ अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन्॥१८॥
तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित्॥हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम्॥१९॥
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ॥कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे॥२०॥
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः॥ यत्राऽऽरोहन्ति जेतारो वहन्ति च पराजिताः॥ २१॥
डासु प्रसक्तानातदाह्वानात्तत्त्यागेनागत्य तद्वाक्याङ्गीकारे को हेतुः?‘इत्यपेक्षायामाह—
विहारविदिति। यतोऽभिनवचमत्कृतनानाविहाराभिज्ञः स एवेत्यर्थः। अनेन क्रीडायामपि भगवदधीनता प्रदर्शिता॥१९॥ तत्रैव कृष्णेनोक्ते सति गोपा रामजनार्दनावेव परिवृढौ नायकौ चक्रुः। तत्र सङ्घट्टो यूथः। केचित् कृष्णस्य सङ्घट्टिनः यूथगताः पक्षीया आसन्। तथा अपरे रामस्य सङ्घट्टिन आसन्॥२०॥ वाह्यवाहकेति भावप्रधानो निर्देशः। वाह्यत्ववाहकत्वं च लक्षणं फलं यासु तथा विविधाः क्रीडा आचेरुः। वाह्यवाहकलक्षणा इत्येतदेव विवृणोति—
यत्रेति। अस्पृश्यलीलाया यदि रामसङ्घट्टिना मध्ये कोपि कृष्णसङ्घट्टिन कमपि स्पृशति तदा रामसङ्घट्टिनः सर्वे एव जेतारः सन्तस्तान् कृष्णसङ्घट्टिन आरोहन्ति। ते च कृष्णसङ्घट्टिन सर्वे एव पराजिता सन्तस्तान् रामसङ्घट्टिनो यथायथ वहन्ति। एव यदा कृष्णसङ्घट्टिना मध्ये कोपि रामसङ्घट्टिन कमपि स्पृशति तदा कृष्णसङ्घट्टिनः सर्वे जेतारःसन्तस्तानारोहन्ति, ते च तान् हन्तीत्यर्थः॥२१॥
एववहन्तो वाह्यमानाश्च गोधनचारयन्तश्च कृष्णादयो गोपा भाण्डीरक नाम वट जग्मुः। यतः स एव वटोऽवरोहणस्थानत्वेन कल्पितः। तदुक्तं विष्णुपुराणे—
“ते वाहयन्तस्त्वन्योऽन्यं भाण्डीरस्कन्धमेत्य वै। पुनर्निर्वर्तिताः सर्वे ये ये पूर्व पराजिताः” इति॥ एवमारोहणस्थलमपि तत्समीपे क्वचित् कल्पितं ज्ञेयम्॥२२॥ यर्हि क्रीडाया रामसङ्घट्टिनः श्रीरामादयो जयिनो जातास्तदा तान् कृष्णादय ऊहुः।‘इयमपि लीला आश्चर्यजनिका, यत्र सर्वेश्वरोऽपि भगवान् पराजितः सन् गोपमुवाह’ इति सूचयन् सम्बोधयति—
नृपेति॥२३॥२४॥ दानवेषु पुङ्गवः श्रेष्ठः प्रलम्बः कृष्णमविषह्यं प्रबलत्वेन सोढुमशक्य मन्यमानस्तद्दृष्टिपथवञ्चनाय रामवहन् अवरुह्यतेऽस्मिन्नित्यवरोहण स वट एव, ततः परं दूरंद्रुततरं शीघ्रमेव प्रागादित्यन्वयः॥२५॥ ततः स महासुरस्त राममुद्वहन् शीघ्रतया नयन् यदा विगतरयो वेगरहितो जातस्तदा तेन वपुषा तद्वहनदुर्घटं मन्यमानो निजमासुरवपुरास्थितः
वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम्॥ भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः॥२२॥ राम126सङ्घट्टिनो यर्हि श्रीदामवृषभादयः॥ क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप॥२३॥उवाह कृष्णो भगवान् श्रीदामानं पराजितः॥ वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम्॥२४॥ अविषह्य मन्यमानः कृष्णः दानवपुङ्गवः॥ वहन् द्रुततरं प्रागादवरोहणतः परम्॥२५॥ तमुद्वहन् धरणिधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः॥ स आस्थितःपुरटपरिच्छदो बभौ तडिद्द्युमानुडुपतिवाडिवांबुदः॥२६॥निरीक्ष्य तद्वपुरलमम्बरे चरत् प्रदीप्तभ्रुकुटितटोग्रदंष्ट्रकम्॥ ज्वलच्छिखं कटककिरीटकुण्डलत्विषाऽद्भुतं हलधर ईषदत्रसत्॥२७॥
सन् पुरस्य सुवर्णस्य परिच्छदा अलङ्कारा यस्य तथाभूतः तडिद्युमानुडुपतिवाड् अम्बुद इव बभावित्यन्वयः। तस्य वेगराहित्ये रामगौरवे हेतुमाह—
धरणिधरो मेरुः, तद्वद्गौरवं यस्य तमिति। तडिद्द्युमानिति। विद्युद्दीप्तिमानित्यर्थः। ‘तडित’ इत्यलङ्कारोपमा। उडुपतिं चन्द्र वहतीत्युडुपतिवाट्, उडुपतिरिति रामोऽयम्। महासुर इति मेघोपमा। यदि यथोचितस्थानेषु स्थिता विद्युतो भवन्ति, उपरि चोडुपतिर्भवति तदा सोऽबुम्दो यथा भाति, तद्वद्बभावित्यर्थः॥२६॥ तद्वपुर्निरीक्ष्य हलधर ईषदसदित्यन्वयः। भयङ्करत्वेन तद्वपुर्वर्णयति—
निरीक्ष्येति। अलमतिवेगेनाम्बरे आकाशे चरत्, प्रदीप्ते दृशौ नेत्रे यस्मिंस्तत्, भ्रुकुटितटे संलग्नाउग्रा दंष्ट्रा यस्मिंस्तत्, ज्वलत्य इव रक्ताः शिखाः केशा यस्मिंस्तत्, कटककिरीटकुण्डलविषाऽद्भुतम्॥२७॥
अथानन्तरमेव आगता स्मृतिः श्रीकृष्णवाक्येन स्वरूपस्मृतिर्यस्य सः, “किमयंमानुषो भावो व्यक्तमेवावलम्ब्यते॥ सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया” इति विष्णुपुराणे भगवद्वाक्येनैव स्वरूपस्मरणस्योक्तत्वात्। अत एव अभयोभयरहितः सन् बल आत्मनः सार्थं गोपसमूहं विहाय हरतमग्रे नयन्तं, यद्वा विहायसा आकाशमार्गेण आत्मनः अर्थं प्राप्तमिव हरन्तं रिपुं स्वशत्रुं प्रलम्बरुषा क्रोधेन दृढेन मुष्टिना शिरस्यहनत् अहन्। तत्र दृष्टान्तमाह—सुराधिप इन्द्रो वज्रवेगेन गिरिमिव॥२८॥ एवमाहतःअतः सपदि शीघ्रमेव विशीर्णमस्तकयस्य सः, अतएवापगता स्मृतिर्यस्य सः, मुखाद्रुधिरं वमन्, महारवमीरयन् महान्तं शब्दं विमुञ्चन्, व्यसुः प्राणरहितः सोऽसुरः प्रलम्बोऽपतदित्यन्वयः। तत्र दृष्टान्तमाह—मघवत इन्द्रस्य आयुधेन ब्रजेण आहतो गिरिरिवेति॥२९॥ बलेन प्रलम्बनिहतं दृष्ट्वा ‘साधु कृत साधु कृतम्’ इति वादिनो गोपाः सुविस्मिताः ‘कथं सोऽलक्षित एव गोपवेषेणागतः, कथमेनमयं ज्ञातवान्, कथं वा सकृन्मुष्टिप्रहारेणैव मृत’ इत्याद्याश्चर्ययुक्ता आसन्।’ ततःप्रभृत्येव रामबलस्य
अथागतस्मृतिरभयो रिपुं बलोविहाय सार्थमिव हरन्तमात्मनः॥रुषाऽहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा॥२८॥ स आहतःसपदि विशीर्णमस्तको मुखाद्वमन् रुधिरमपस्मृतोऽसुरः। महारवं व्यसुरपतत् समीरयन् गिरिर्यथा मघवत आयुधाहत॥२९॥ दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना॥ गोपाःसुविस्मिता आसन् साधु साध्विति वादिनः॥३०॥आशिषोऽभिगृणन्तस्तं प्रशंशसुस्तदर्हणम्॥ प्रेत्यागतमिवाऽऽलिङ्ग्य प्रेमविह्वलचेतस॥३१॥ पापे प्रलम्बे निहते देवाःपरमनिर्वृताः॥ अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्विति॥३२॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे प्रलंबवधानिरूपणं नामाष्टादशोऽध्यायः॥१८॥
प्रसिद्धिर्जाता’ इति सूचयन्नाह—बलशालिनेति। यथोक्तं हरिवशे—“बलं तु बलदेवस्य तदा भुवि जना विदुः। प्रलम्बे निहते दैत्ये देवैरपि दुरासदे” इति॥३०॥ तं रामं प्रेत्य प्रकर्षेण एत्य परलोक गत्वाऽऽगतमिवालिङ्ग्य प्रेम्णा विह्वलानि चेतांसि येषां ते आशिषः ‘चिरं जीव, एवमेवास्मान् सर्वदा पाहि’ शत्रून् जहि’ इत्याद्याकाराः गृणन्तः प्रयुञ्जानाःतदर्हण प्रशंसायोग्य प्रशशंसुरित्यन्वयः॥३१॥ पापे सर्वोपद्रवकारिण्यपि प्रलम्बे निहते ये च प्रलम्बेत्यादि- द्वितीयस्कन्धोक्तेर्नितरां पुनरावृत्तिराहित्येन मुक्तिं प्रापिते सति देवाः परमनिर्वृताः परमानन्दप्राप्ताः सन्तो माल्यैः कुसुमैर्बलमभ्यवर्षन् ‘साधु साधु’ इति प्रशंशसुश्च॥३२॥ इतिश्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणां पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये। श्रीमद्भाग- वतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ अष्टादशो गतो वृत्तिं प्रलम्बवधबोधकः॥३॥
ऊनविंशे दह्यमान मुञ्जारण्ये स्वर्गोकुलम्॥अरक्षद्भगवान् कृष्णो गोपांश्चेति निरूप्यते॥१॥ लीलान्तरमाह—
क्रीडासक्तेष्वित्यादिना। गोपेषु क्रीडायामासक्तेषु सत्सु तेषां गावो दूरचारिणीः दूरचारिण्य स्वैरयथेष्टं चरन्त्यस्तृणलोभेन गहरं दुःप्रवेशं वनं विविशुरित्यन्वयः॥१॥ ‘न केवल गाव एव, किन्त्वन्येऽपि पशव’ इत्याह—
अजेति। अजादयोऽपि वनाद्वनान्तरं निर्विशन्त्यो दावेन ग्रीष्मतापेन धर्षिता अभिभूताः तृषिता अत एव क्रदन्त्यः इषीकाटवीमत्युच्छ्रितघनतृणविशेषारण्य विविशुः॥२॥ कृष्णरामौ आदिर्येषां ते, नतु तौ। तयोः सर्वज्ञत्वादाप्तकामत्वाच्च॥ ते गोपाः पशून् अपश्यन्तः जातानुतापा गवा गतिं पदवीं विचिन्वन्तोऽपि न विदुरित्यन्वयः॥३॥ नष्टाजीव्या गतजीविकासाधनानि येषां ते, अत एव विचे-
श्रीशुक उवाच॥ क्रीडा127सक्तेषु गोपेषु तद्गावो दूरचारिणीः॥ स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥ १॥ अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम्॥ इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥२॥ तेऽपश्यन्तः पशून् गोपा कृष्णरामादयस्तदा॥ जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥३॥ तृणैस्तत्खुरदच्छिन्नैर्गोपदै128रङ्कितैर्गवाम्॥मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥ ४॥ मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्॥ सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन्॥५॥ ता आहूता भगवता मेघगम्भीरया गिरा॥ स्वनाम्ना निनदं श्रुत्वा प्रतिनेदुःप्रहर्षिता॥६॥
तसः व्याकुलचित्ताःतासां गवां खुरैर्दद्भिश्चाच्छिन्नैस्तृणैः गोपदैरङ्कितैश्च भूप्रदेशैस्तृणैर्वा गवां मार्गमन्वगमन्॥४॥ मुञ्जाटव्यपि इषीकाटव्येव। तस्या स्वगोधनं सम्प्राप्य ततस्ते सन्यवर्तयन्। तत्र प्राप्तौ हेतुमाह—
भ्रष्टमार्गमिति। भ्रष्टो विच्छिन्नस्ततोऽग्रे प्रवेष्टुमशक्यो मार्गोयस्य तत्। अत एव क्रन्दमानस्वयमपि ग्रीष्मातपेन धावनेन च तृषिताः श्रान्ताश्च॥५॥ ता गवादयो भगवता आहूताः स्वनाम्नां निनदं ध्वनिं श्रुत्वा प्रहर्षिताः सत्यः प्रतिनेदुः उत्तरदानवत् प्रतिशब्दं कृतवत्य इत्यन्वयः। ‘यथा तप्ता जना मेघागमे तन्नाद श्रुत्वा दृष्टा भवन्ति, तथा भगवतो गिर श्रुत्वा ताः प्रहर्षिता ’ इति सूचयन्नाह—
मेघगम्भीरया गिरेति॥६॥
ततो यदा ते गाः सन्निवर्त्य निवृत्तास्तम्मिन्नेव समये महान् समन्तात् सर्वतो यदृच्छया केनापि प्राणिदुर्भाग्येन वनधूमकेतुः दावानलः प्रादुरभूत \। महत्त्वे हेतुमाह—समीरित इति। सारथिना वायुना समीरितः प्रेरितः, अत एव उल्बणोल्मुकैः तीक्ष्णविस्फुलिङ्गैः स्थिरजङ्गमैर्विलेलिहानः ग्रसन् वनौकसागोपालानांच क्षयकृन्नाशकः॥७॥ तं दावाग्निं परितः सर्वतः आपतन्तमागच्छन्तं प्रसमीक्ष्य गोपा गावश्च भीताः सबलबलेन सहितं श्रीकृष्णं प्रपन्नाः शरणगताः सन्तः ऊचुश्च रक्षां प्रार्थयामासुरित्यन्वयः। अत्र दृष्टान्तमाह—यथेति। अप्रतीकार्येण मृत्युभयेनार्दिताः पीडिता जनाः हरिं शरणागता यथा प्रार्थयन्ति, तथेत्यर्थः॥८॥ रक्षाया सामर्थ्यद्योतयन्तो रक्षा प्रार्थयन्ति— हे कृष्ण हे कृष्ण हे महावीर्य हे राम हे अमितविक्रम
ततः समन्ताद्बनधूमकेतुर्यदृच्छयाऽभूत् क्षयकृद्वनौकसाम्॥ समीरितःसारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान् महान्॥७॥ तमापतन्तं परितो दवाग्निगोपाश्च गावःप्रसमीक्ष्य भीताः॥ ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरि मृत्युभयार्दिता जनाः॥८॥ कृष्ण129 कृष्ण महावीर्य हे रामामितविक्रम॥ दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः॥९॥ नूनं त्वद्बान्धवाः कृष्णन चार्हन्त्यवसीदितुम्130॥ वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥१०॥ श्रीशुक उवाच॥ वचो निशम्य कृपणं गोपानां131 भगवान् हरिः॥ संमीलयत132 मा भैष्ट लोचनानीत्यभाषत॥११॥
दावाग्निना दह्यमानान्, अत एव प्रपन्नान् भवच्छरणमागतान् अस्मान् त्रातुं रक्षितुमर्हथः॥९॥ एवं साधारण्येन रक्षायोग्यत्वमुक्त्वा विशेषतोऽपि स्वरक्षाया आवश्यकत्वमाहुः—नूनमिति। हे कृष्ण !नूनं निश्चितमेतत्। त्वद्बान्धवास्त्वत्सम्बन्धिनोऽप्यवसीदितु दुःखमनुभवितुं नार्हन्ति। वयं हीति निश्चयेन त्वन्नाथाः त्वमेव नाथो रक्षको येषां तथाभूताः। तत्र हेतुः—त्वमेव परायणमाश्रयो येषां ते, ‘अतः कथमवसीदितुमर्हामः’इति शेषः। ‘शरणागतरक्षायाः परमधर्मत्वं तु त्वया ज्ञायते’ इति सूचयन् सम्बोधयति—सर्वधर्मज्ञ इति॥१०॥ हरिः स्वभावतः सर्वदुःखहर्ता भगवान् सर्वथा समर्थः, कृष्णो गोपालानां कृपणं दीनतरं वचो निशम्य श्रुत्वा ‘मा भैष्ट, अयमग्निर्धक्ष्यतीति भयं न कुरुत, किन्तु लोचनानि सम्मीलयत’ इत्यभाषत॥११॥
‘तथास्तु’ इत्युक्त्वा तेषु मीलिताक्षेषु सत्सु भगवान् उल्बणमप्यग्निंमुखेन पीत्वा तान् भाण्डीरं नीत्वा कृच्छ्रात् अभिभयात् व्यमोचयत्। तत्र सामर्थ्यमाह—योगः माया, तस्या अधीशः नियन्तेति॥१२॥ ततश्च ते गोपाः पुनर्भाण्डीरमापिताः अक्षीण्युन्मील्य आत्मान प्रत्येकाभिप्रायेणैकवचनम्, गाश्च दावाग्नेर्मोचिताः निशाम्य दृष्ट्वा विस्मिता आसन्नित्यन्वयः॥१३॥ योगमायानुभावितसम्पादिततत् कृष्णस्य योगवीर्यमपूर्वंप्रभाव ‘योगो पूर्वार्थसम्प्राप्तौ इति विश्वप्रकाशात्। वीक्ष्य ते गोपास्तं श्रीकृष्णममरं मरणधर्मनिवर्तकं परमेश्वरं मेनिरे इत्यन्वयः। ‘किं तद्वीर्यम्? ’ तत्राह—दावाग्नेः सकाशादात्मनः क्षेमं मोक्षणमिति॥१४॥ सहरामो रामेण सहितो गोपैरवेमभिष्टुतो जनार्दनः कृष्णः गाः सन्निवर्त्य सायाह्ने सायङ्काले वेणुं विरण-
तथेति मीलिताक्षेषु भगवानग्निमुल्बणम्॥पीत्वा मुखेन तान् कृच्छ्राद्योगाधीशो व्यमोचयत्॥१२॥
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः॥ निशाम्य विस्मिता आसन्नात्मानं गाश्चमोचिताः॥१३॥
कृष्णस्य योगवीर्यं तद्योगमायाऽनुभावितम्॥ दावाग्नेरात्मनःक्षेमवीक्ष्य ते मेनिरेऽमरम्॥१४॥
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः॥ वेणुं विरणयन् गोष्ठमगाद्गोपैरभिष्टुतः॥१५॥
गोपीनां परमानन्द आसीद्गोविन्ददर्शने॥ क्षणं युगशतमिव यासां येन विनाऽभवत्॥१६॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे दावाग्निमोक्षनिरूपणं नामैकोनविंशोऽध्यायः॥ १७॥
यन् गोष्ठं व्रजमगादित्यन्वयः॥१५॥ यथा गोपानां दावाग्नितो मोचनपूर्वकं स्वप्राप्तिजपरमानन्दददौ, तथा गोपीनामपि विरहजाग्नितप्तानां तद्विमोचनपूर्वकं सायङ्काले तं नित्यमेव ददातीति सूचयन् तद्विनवृत्तमाह–गोपीनामिति। गोविन्ददर्शने सति गोपीनां यशोदादीना परमानन्द आसीत्। ‘कीदृशमानन्दस्य परमत्वम्? इत्यपेक्षायाम् ‘अरमद्वाङ्मनसयोरगोचरत्वान्न साक्षान्निर्देष्टुं शक्यते’ इति सूचयन् प्रतियोगिनिर्देशमुखेनाह—क्षणमिति। स्पष्टम्॥१६॥ इति श्रीवल्लभाचार्य-वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये। श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ ऊनविंशो गतो वृत्तिं दावाग्निमोक्षबोधकः॥३॥
विशे प्रावृट्शरच्छोभावर्णन तत्र चाद्भूता॥गोपरामयुजो लीला कृष्णस्य विनिरूप्यते॥१॥ ततो यज्जात तदाह—तयोरिति। रामकृष्णयोस्तद्भूतं कर्म गोपाः स्त्रीभ्यः स्वस्वमातृभ्यो यशोदादिगोपीभ्य सम्यगसङ्कोचेन आ सर्वतो विस्तृत चख्युः कथमामासुः। ‘किं तत्?’ तत्राह—दावाग्नेरात्मनो मोक्षण कृष्णस्य कर्म प्रलम्बवध च रामस्य कर्मेति॥१॥ तत् गोपैर्वर्णितं तयोः कर्म उपाकर्ण्य श्रुत्वा विस्मिताः गोपवृद्धा गोप्यश्च व्रजगतौ व्रजे अवतीर्णौ कृष्णरामौ देवप्रवरौ ‘देवा ब्रह्मादयः, तेषां प्रवरौ श्रेष्ठौ पूज्यौ’ भगवन्तौ मेनिरे। अनेन ‘ज्ञातिभिर्मुदितात्मभिः। अनुगीयमान’ इत्यादिना भगवत्सखीना गोपाना तत्प्रभावदर्शनेन अत्यासक्त्या अहर्निश निरन्तर तद्गुणगान सूचितम्। तत्र यदि तत्पित्रादीना तत्प्रभावज्ञानाभावेन तत्रानासक्तिः स्यात्तदा तैस्तद्गानं विहित स्यादिति शङ्का निरस्ता। तेषामपि तत्प्रभावश्रवणदर्शनादिना माहात्म्यज्ञानपूर्वकसुदृढसर्वतोऽधिकस्नेहरूपभक्तेः सिद्धत्वात्तद्गुणगानमेव रोचते, अतस्तत्र केषामपि न कोऽपि प्रतिबन्धक इति भावः॥२॥ तदेव ग्रीष्मक्रीडा निरूप्य क्रमप्राप्ता प्रावृट्क्रीडा निरूपयितुं तदुद्दीपनरूपां प्रावृट्शोभा-
श्रीशुक उवाच॥ तयो133स्तदद्भुत कर्म दावाग्नेर्मोक्षमात्मनः॥ गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च॥१॥
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः॥ मेनिरे देवप्रवरौ कृष्णरामौ व्रजगतौ॥२॥
ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा॥ विद्योतमानपरिधिर्विस्फूर्जितनभस्तला॥३॥
सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः॥अस्पृष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥४॥
मादौ वर्णयति—‘तत’ इति द्वाविंशत्या। ततो ग्रीष्मानन्तरं प्रावृट् प्रावर्तत। सर्वेषां सत्त्वानां प्राणिना समुद्भवः उत्पत्तितो जीवनसाधनतश्च यस्या सा।विद्योतमानाः परिधयः परिवेषाश्चन्द्रसूर्यमण्डलानि यस्या सा, या विद्युद्भिर्विद्योतमानाः परिधयो दिशो यस्या सा। विस्फूर्जित क्षुभित नभस्तल यस्य सा॥३॥ तदा सविद्युद्भिः स्तनयित्नुभिः गर्जितैश्च सहितैः सान्द्रैः निबिडैर्नीलाम्बुदैर्मेघैराच्छन्नम्, अतएवास्पष्ट ज्योतिश्चन्द्रसूर्यादिरूप यत्र तादृश सद्व्योम सगुण ब्रह्म जीवाख्य यथा सत्त्वादिभिराच्छन्नमस्पष्टज्योतिर्भाति तथा बभौ। तत्र तमसा मेघानां, सत्त्वेन विद्युतां, रजसा गर्जिताना सादृश्यज्ञेयम्। यद्वा सगुण ब्रह्म श्रीकृष्णो यथा अस्पष्टज्योतिर्भाति तथा तत्र श्यामरूपेण मेघाना, पीताम्बरेण भूषणैश्च विद्युता, वेणुनादेन मधुरया गिरा चगर्जिताना सादृश्य ज्ञेयम्। स जीवः श्रीकृष्णो वा सर्वसम्बन्धित्वेन प्रतीयमानोऽप्याकाशवत् सर्वदोषनिर्लेपतयैवोपासनीय इत्यादेयोपमा॥४॥
पर्जन्यःसूर्य स्वगोभिः स्वकिरणै अष्टौ मासान कार्तिकमारभ्य ज्येष्ठपर्यन्तं यद्भूम्याः उदमयं जलरूप वसु धन निपीत तत् पुनर्वर्षाकाले आगते सति मोक्तुमारेभे। एवमेव “राजभिः सुभिक्षकाले प्रजाभ्यः करादिकं ग्राह्यम, दुर्भिक्षकाले च ताभ्यो यथोचित धनादिकं देयमेव"इत्यादेयोपमा॥५॥ यथा करुणाः कृपालवो जनाः क्षुदादिना तप्त जन नेत्रैर्वीक्ष्य कृपया कम्पितचित्तास्तस्याप्यायनाय स्वजीवनं जीवसाधनमप्यन्नादिक ददति, तथा महामेघा अपि तडित्त्वन्तस्ताभिर्नेत्रस्थानीयाभिस्तडिद्भिस्तप्त विश्व निरीक्ष्य चण्डश्वसनेन खरतरपवनेन वेपिताः कम्पिता अस्य विश्वस्य प्राणनमाप्यायनकर जीवनसाधनभूत जल मुमुचुरिति दानशूरौरियमादेयोपमा॥६॥ तपःकृशा तपसा ग्रीष्मतापेन कृशा सर्वजलाहरणात शुष्का, पुनर्देवेन पर्ज्यन्येन मीढा सिक्ता सती मही वर्षीयसी पुष्टाङ्गासीत्। यथा काम्यं काम्यप्राप्त्यर्थ तपो यस्य तस्य तपस्विनस्तनुः प्रथमं तपसा शुष्का भवति, पश्चात्तस्य तपसः फलं प्राप्य यथेष्टभोजनपानादिना पुष्टा भवति तथैवेति। तथा च पुष्ट्यादेरनियतत्वाद्देहादेरपि नश्वरत्वात्तद्भोगाद्यर्थं तपसा वृथा आयु-
अष्टौ मासान्निपीतं यद्भूम्याश्चोदमय वसु॥ स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते॥५॥
तडित्त्वन्तो महामेघाश्चण्डश्वसनवेपिताः॥ प्राणनं134 जीवनं ह्यस्य मुमुचुः करुणा इव॥६॥
तपःकुशा देवमीढा आसीद्वर्षीयसी मही॥ यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम्॥७॥
निशामुखेषु135 खद्योतास्तमसा भान्ति न ग्रहाः॥ यथा पापेन पाखण्डा नहि वेदाः कलौ युगे॥८॥
र्व्ययो विवेकिभिर्न कर्तव्य इति हेयोपमा। ननु “न यत्र चण्डाशुकरा विषोल्बणा भुवो रस शाद्वलित च गृह्णते इति, पूर्वोक्त विरुद्ध भूमेस्तपः कुशत्वकथनम्” इति चेन्न, पूर्वमाद्रत्वकथनस्य भगवद्विहारोपयुक्तवृन्दावनभूमिविषयत्वात्। इदानीं कृशत्वकथनं तु कृष्याद्युपयुक्तसर्वभूमिसाधारणम्, अन्यथा सर्वदा आर्द्राया पुनर्वृष्टिजलेन चाप्लुताया मह्या व्युप्तमपि बीज नश्येत् सस्याद्युत्पत्तिर्न स्यात्। अतः कृष्याद्युपयुक्तक्षेत्राणां रस रविकरा गृह्णन्त्येवेति। सर्वभूमिसाधारणत्वादेव वृन्दावने विद्यमानाना नदीसिन्ध्वादीना वर्णनमपि सङ्गच्छते इति न कोऽपि विरोध इति॥७॥ निशामुखेषु रात्रिषु प्रकाशकग्रहाद्याच्छादकमेघजनितेन तमसा खद्योताः कीटविशेषाः भान्ति प्रकाशन्ते, नित्यसिद्धा ग्रहाश्चन्द्रगुरुशुक्रादयस्तु न भान्ति। यथा कलौ युगे विवेकावरकाज्ञानजनितेन पापेन पाखण्डा वेदविरुद्धपाखण्डशास्त्राणि भान्ति, नित्यसिद्धा वेदास्तु नैव भान्ति, तथाच सावधानतया विचार्य विवेकिभिः पाखण्डशास्त्र हित्वा वेदानुसारेणैव वर्तितव्यमिति हेयोपादेयोभयोपमा॥८॥
प्राक् प्रथमं तूष्णीं शयानाः स्थिता मण्डूकाः पर्जन्यस्य मेघस्य निनदं श्रुत्वा गिरो व्यसृजन्। यथा प्रथमं तूष्णीं स्थिता ब्राह्मणाः शिष्या गुरोर्नियमात्यये नित्यकर्मपरिसमाप्तौ तदाज्ञावचनं श्रुत्वा गिरो विसृजन्ति अधीयन्ते तथा। तथा आचार्यस्य नित्यक्रियायां प्रवृत्तायां स्वाध्यायाध्ययनजनितविघ्नेस्वस्य दुरदृष्टन्तस्य दौर्मनस्य च स्यात्, तत्परिहाराय प्रथमं तूष्णीं स्थातव्यं तत्क्रियापरिसमाप्त्यनन्तरं तदाज्ञयाध्ययनं कर्तव्यमित्यादेयोपमा136॥९॥ क्षुद्रनद्यः प्रथमं वृष्यमाणैर्जलैरुत्पथवाहिन्यः स्वस्थितिमर्यादाहित्वा तीरस्थवृक्षादीनुन्मूलयन्त्यो वहन्त्योऽपि पश्चाद्वृष्ट्यभावे अनन्तरमेव शुष्यतीःशुष्यन्त्यश्चासन्। तत्र दृष्टान्तो यथा—अस्वतन्त्रस्य इन्द्रियपरतन्त्रस्य यद्वा अस्वतन्त्रस्य शास्त्राज्ञातिवर्तिनः पुंसो देहसम्पदो यौवनेन्द्रियपाटवादयेः, द्रविणसम्पदो धनगृहभूमिपश्वादयः केनचित् पुण्यलेशेन प्रथमवर्धमाना अपि शास्त्रमर्यादोल्लङ्घनेन परपीडापरस्त्रीद्यूतानृतादिषु वर्तमानाधर्मादीनुन्मूलयन्त्यः स्वमूलपुण्यक्षये विनश्यन्ति तथा। एवं च न वर्तितव्यमिति हेयोपमा136॥१०॥ हरिभिर्हरितैः श्यामैः कोमलतृणैः कचिद्धरिता, इन्द्र-
श्रुत्वा पर्जन्यनिनदं मण्डूका व्यसृजन् गिरः॥ तूष्णीं शयानाःप्राग्यद्वद्ब्राह्मणा नियमात्यये॥९॥
आसन् उत्पथवाहिन्यःक्षुद्रनद्योऽनुशुष्यतीः॥ पुंसो यथाऽस्वतन्त्रस्य देहद्रविणसम्पदः॥१०॥
हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता॥ उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत्॥११॥
क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं ददुः॥ मानिनामु137पतापं वै138दैवाधीनमजानताम्॥१२॥
गोपैः लोहितवर्णकीटविशेषैः क्वचिलोहिता, उच्छिलन्ध्रैःछत्राकारैरुद्भिज्जविशेषैः कृतच्छाया श्वेतवर्णा च भूः नृणा राज्ञां श्रीः सेनासम्पत् यथानानावर्णवस्त्रादिना नानार्वणा भवति तथाभूदित्यन्वयः। तथा राज्ञ एवमेव स्वयशोवैभवविजयविस्तारार्थंसेना सम्पादनीया, अन्यथा वैमनस्ययुक्तया दुर्बलया सेनया तन्न स्यादित्यादेयोपमा ज्ञेया॥११॥ वृष्टेरविच्छेदेन लसन्तीभिः शाल्यादिसस्यसम्पद्भिः क्षेत्राणि कर्षकाणा मुदं ददुः। पश्चात् वृष्टेर्विच्छेदेन शुष्यन्तीभिस्ताभिस्तेषामेवानुतापं ददुः। वैशब्दः प्रसिद्धिद्योतकः। उभयत्र हेतुमाह—मानिनामिति। अहममाभिमानवतामित्यर्थः। ‘धनिनाम्’ इति पाठे तु धनाद्यभिमानवतामित्यर्थः। तत्र हेतुमाह—दैवाधीनं सर्वं लाभालाभादिकमित्यजानतामिति। तथा च सर्वंभगवदधीनमिति निश्चित्य लाभालाभयोर्हर्षविषादौ न कर्तव्याविति हेयोपमा॥१२॥
जलौकसो मीनादयः, स्थलौकसो गोवृक्षादयश्च नववारिनिषेवणात् रुचिर रूपमबिभ्रत् अबिभरुः। अत्र दृष्टान्तमाह—यथा हरिनिषेवया साधनदशायामपि रुचिरा भवन्ति, तत्र तपआदिवत् नखकेशमलादिधारणनियमाभावात् ‘अशेषसङ्केशशम विधत्ते’ इत्यादिवाक्येन तस्याः सर्वक्लेशनिवर्तकत्वात्सुख- जनकत्वात्। सिद्धावस्थायां तु भगवत्समानरूपप्राप्तेः रुचिरा भवन्त्येव। ‘अतःप्रयत्नेन हरिसेवायाप्रवृत्तिरेव युक्ता’ इत्यादेयोपमा॥१३॥ श्वसनः पवनः, तेन जाता ये ऊर्मयस्तद्वान् सरिद्भिः सङ्गतश्च सिन्धुश्चक्षुभे अतिचञ्चलता प्राप्तः। तत्र दृष्टान्तमाह—अपक्वेति। गुणैर्विषयैर्युज्यते इति गुणयुक्। तत्र हेतुमाह—कामाक्तमिति। भोगवासनायुक्तमित्यर्थः। तत्र हेतुः—अपक्वेति। चित्तवृत्तिनिरोधो हि योगः, स चेत् पक्को दृढः स्यात तदा चित्तं कामाक्तं न स्यादित्याशयः। तच्चित्तं यथा क्षुभितभवति तथेत्यर्थः। तत्र ‘कामाक्तम्’ इति श्वसनोर्मिसाम्यम्। ‘गुणवत्’ इति सरित्सङ्गतिसाम्यम्। ‘अतः शिथिलयोगस्य केवलं क्लेशफलकत्वाच्छिथिलतया योगो नानुष्ठेयः’ इति हेयोपमा॥ १४॥ एवं सिन्धुदृष्टान्तेन भगवद्विमुखाना मर्यादाया स्थिताना
जलस्थलौकसः सर्वे नववारिनिषेवणात्139॥ अबिभ्रद्रुचिरं रूपं यथा हरिनिषेवया॥१३॥
सरिद्भिःसङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्॥अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा॥१४॥
गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः॥ अभिभूयमाना व्यसनैर्यथाऽधोक्षजचेतसः॥१५॥
मार्गा बभूवुःसन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः॥ नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव॥१६॥
महतामपि चित्तवृत्तिनिरोधाभावेन क्षोभो निरूपितः। तदेकनिष्ठानां तु यत्रकुत्रस्थितानामल्पानामपि चित्तवृत्तिनिरोधेन क्षोभा भवन्तीति दृष्टान्तेनाह— गिरय इति। वर्षधाराभिर्हन्यमाना अपि गिरयो न विव्यथुः पीडा न प्रापुः, किन्तु प्रत्युत रजआदिनिवृत्त्या हरिततृणाद्युत्पत्त्या चाशोभन्तैव। तत्र दृष्टान्तमाह—यथा अधोक्षजे भगवत्येव चेतो येषां ते व्यसनैराध्यात्मिकादिभिस्त्रिविधैस्तापैरभिभूयमानास्तिरस्क्रियमाणा अपि पीडां न प्राप्नुवन्ति, तदेकचेतस्त्वेन आत्मानुसन्धानाभावात्। प्रत्युत दुःखभोगेन दुरितनिवृत्त्या भगवद्भजनजनितशुभादृष्टोत्पत्त्या च इहामुत्र च शोभन्त एव। तथाच ‘विवेकिभिर्भगवत्परत्वेनैव भाव्यम्’ इत्यादेयोपमा॥१५॥ ये बहुशस्तै रेव मार्गैर्गता आगताश्च तेषामपि त एव मार्गाः वर्षाकाले सन्दिग्धाः ‘तेषां ग्रामाणामेते एव मार्गा अन्ये वा’ इति सन्देहविषया बभूवुः। हि यस्मात् असत्कृताः पादाघातैरक्षुण्णा तदा पथिकानां प्रायशो गमनाभावात्, अत एव तृणैराच्छन्नाश्च। तत्र दृष्टान्तमाह—यथा द्विजैः पठिता अपि श्रुतयो नाभ्यस्यमानाःलुप्तसंस्काराः कालहता विस्मृता अज्ञानावृता इति
यावत् तेषामेव सन्दिग्धा भवन्ति तथा, तथाचाधीताना वेदानामावृत्तिं कुर्वतैव स्थेयम्, अन्यथा तु प्रत्यवाय्येव स्यात्। तथाच स्मर्यते—“अधीतमपि यो वेदं नानुपाल यति द्विजः॥ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” इति॥१६॥ लोकबन्धुषु जीवनहेतुजलप्रदानेन सर्वप्राण्युपकारिषु मेघेषु विद्युतः स्थैर्य नियतदेशे चिरकाल भङ्ग न चक्रुः। तत्र दृष्टान्तमाह—चलमस्थिर सौहृद प्रेम यासां ताः स्त्रियो यथा गुणिषु परोपकारनिरतेषु दातृषु दत्तादप्यधिकसम्पादनसमर्थेष्वपि पुरुषेष्वपि तद्दातृत्वं दृष्ट्वा दारिद्र्यभयात् स्थैर्यं न कुर्वन्ति तथेति। चलसौहृदत्वे हेतुमाह—कामिन्य इति। यतस्ता धनकामभोगाद्यर्थमेव प्रवृत्ता, नतु पतिव्रतावत् पत्येकनिष्ठाः। पुंश्चल्य इत्यर्थः। तथाच चलसौहदत्वात् “संङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारम्पारमारुरुक्षुः” इति निषेधाच्च कामिनीसङ्गस्योभयलोकतो भ्रंशकत्वात् तत्सङ्गः प्रयत्नेन विवेकिभिर्वर्जनीय इति हेयोपमा॥१७॥ गुणिनि शब्दगुणवति वियति आकाशे निर्गुण ज्यारहित माहेन्द्र धनुरभात्140। तत्र दृष्टान्तमाह—अगुणवान् प्राकृतगुणरहितोऽपि पुरुषो
लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः॥ स्थैर्यं न चक्रुःकामिन्यः पुरुषेषु गुणिष्विव॥१७॥
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्॥ व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥१८॥
नरराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्धनैः। अहंमत्या भासितया स्वभासा पुरुषो यथा॥१९॥
मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः॥ गृहेषु तप्ता निर्विण्णा यथाऽच्युतजनागमे॥२०॥
जीवो गुणव्यतिकरे गुणकार्ये व्यक्ते प्रपञ्चे देहेन्द्रियादिसङ्घाते यथा भाति तथा। अतो विवेकिभिरादेयोपमा॥१८॥ स्वज्योत्स्त्नाया राजितैः प्रकाशितैरपि मेघैराच्छन्न उडुपश्चन्द्रो न रराज न प्रकाशत। इयमपि ज्ञानिभिरादेयोपमा॥१९॥ पूर्वं ग्रीष्मतापेन तप्ता निर्विण्णाः, अत एव मेघागमेनोत्सवो येषां ते हृष्टाः शिखण्डिनो मयूराः प्रत्यनन्दन् मेघाना नाद श्रुत्वा स्वयमपि नादपूर्वकमनृत्यन्। तत्र दृष्टान्तः—यथा गृहेषु स्थिताः, अतः तापत्रयेण तप्ता, अत एव निर्विण्णाः श्रान्ता विरक्ताश्च जना अच्युतजनस्य भगवद्भक्तस्यागमे सति प्रत्युत्थानपूजानमस्कारस्तुत्यादिपूर्वक प्रतिनन्दन्ति तद्वत्। तप्ता अपि विषयासक्ताश्चेत्तदा तदागमने धनादिव्ययभयेन खिन्ना एव भवन्त्यवजानन्ति, चात उक्त निर्विण्णा इति। अतस्तप्तैर्जनैस्तापनिरासार्थं भगवज्जनसङ्गतिः पूजाममस्कारादितत्सत्कृतिश्च प्रयत्नेन कार्या इत्युपादेयोपमा॥२०॥
प्राक् प्रथम ग्रीष्मतापेन क्षामाःशुष्काःपादपा वृक्षाः पद्भिर्मूलैरपजलानि पीत्वा नानात्ममूर्तय नवाङ्कुरपत्रपुष्पपल्लवफलादिना अनेका रूपदेहा आसन्। तत्र दृष्टान्तः—यथा पूर्व दुरितवशात् यथेष्टभोजनाद्यभावेन तपसा क्षुधादिदु खेन क्षामाः दुर्बलाः श्रान्ताःशिथिलेन्द्रियाः पुनः पुण्यवशात् कामान् विषयान् प्राप्य तदनुसेवया तेषां निरन्तरभोगेन नानात्ममूर्तयः स्थूलादिप्रकारकदेहा भवन्ति तद्वदिति। तथाच “विषयभोगदुःखसुखादेः प्रारब्धाधीनत्वेन अवश्यभावित्वात् तत्राग्रह विहाय धैर्यमवलम्ब्य भगवद्भजन कर्तव्यम्” इत्युपादेयोपमा॥२१॥ पङ्ककण्टकादियुक्तानि रोधासि तटानि येषां तेष्वपि सरःसु सारसाश्चक्रवाका मत्स्याद्यासक्तमनसो न्यूषुः नितरामवसन्। तत्र दृष्टान्तमाह—यथा अशान्तानि दुःखोदर्काणि कृत्यानि कर्माणि येषु तेष्वपि गृहेषु दुराशया विषयाविष्टचित्ता ग्राम्याः गृहस्था निवसन्ति तथेति। ‘विषयाविष्टचित्ताना विष्ण्वावेशः सुदूरतः’ इति विषयासक्तिनिषेधात् ‘तदासक्त्या भक्तेन गृहे वासो न कर्तव्य’ इति हेयोपमा। “हे राजन् ! त्वंधन्योऽसि, यत् अस्मदादिवत्तदासक्तिं त्यक्त्वागृहाद्विनिः-
पीत्वाऽपःपादपाःपद्भिरासन्नानात्ममूर्तयः॥ प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥२१॥
सरस्स्वशान्तरोधस्सु न्यूषुरङ्गापि सारसा॥ गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः॥२२॥
जलौघैर्नि141रभिद्यन्त सेतवो वर्षतीश्वरे॥ पाखण्डिनामसद्वादैर्वेदमार्गाःकलौ यथा॥२३॥
व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः॥ यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः॥२४॥
सुत” इति सूचयन् सम्बोधयति—अङ्गेति॥२२॥ ईश्वरे मेघस्वामिनि इन्द्रे वर्षति सति जलौघैर्जलप्रवाहैः सेतवो जलनिरोधार्थं पारगमनार्थं च नद्यादिषु पाषाणादिभिर्विनिर्मिता निरभिद्यन्त। तत्र दृष्टान्तमाह—यथा पाखडिना वेदविद्वेषिणामसद्वादैः कुतर्कैर्वेदमार्गा वेदप्रतिपादितवर्णाश्रमधर्माः कलौ युगे भिद्यन्ते तथेति। तथाच ‘परमपुरुषार्थहेतुभगवद्गुणश्रवणकीर्तनादिकं विहाय कलौ दुर्जनकुतर्कों न ग्राह्यः’ इति हेयोपमा॥२३॥ वायुभिर्नुन्नाःप्रेरिता घना भतेभ्यः दुखितेभ्यः प्राणिभ्यः अमृत जीवनकारण जल काले काले यदा यदा अपेक्षितं तदा तदा व्यमुञ्चन्। यथा द्विजैः पुरोहितैरीरिताः प्रेरिताः विश्पतयो धनिनःकाले काले तत्तदवसरे आशिषो विषयान् दुःखितेभ्यः प्रयच्छन्ति, तद्वदिति। तथाच ‘एवमेव श्रेयोर्थिभिः परोपकारपरतया भाव्यम्’ इत्युपादेयोपमा॥२४॥
एव प्रावृट्श्रिय निरूप्य तत्कालिकीं भगवत्कीडा निरूपयति—एवमिति सप्तभिः। एवमुक्तप्रकारेण प्रावृट्श्रिया युक्तं तत् प्रसिद्ध वृन्दावन गोगोपालैर्वृतः सबलो हरी रतु प्राविशदित्यन्वयः। तत्र विक्रीडता रामकृष्णादीना कदाचित् गृहाद्भोजनसामग्र्यागमनविलम्बे क्रीडासक्त्या गृहगमनविलम्बे वा क्षुत्तृड्भ्यांक्रीडाया विघ्नाभाव सूचयन् भोजनसम्पत्तिं च दर्शयन् वन विशिनष्टि—वर्षिष्ठ समुद्धम्, पक्वखर्जूरजम्बुमत्॥२५॥ भूयसा महता ऊधोभारेण मन्दगामिन्योऽपि धेनवो भगवता आहूताः स्नुततस्तनी स्नुतस्तन्यः सत्यः प्रीत्या द्रुत शीघ्र ययुरित्यन्वयः॥२६॥ तदाच तादृशीं भगवच्छोभा निरीक्ष्य वनौकसःपुलिन्दभृङ्गपक्ष्यादय सर्वे प्रमुदिता आसन्। तथा गिरेःसकाशात् जलधारा आसन्। तदा श्रीकृष्णोऽपि वनराजीर्मधुच्युतो मधुस्रुवो आददृशे, गिरिगुहाश्च रम्या आददृशे। तथा धारायास्तज्जनितान् कीचकपक्ष्यादीनां चानकविधान् नादान् मनोहरशब्दांश्च शुश्राव। अत्र
एवं वनं तद्वर्षिष्ठ पक्वखर्जूरजम्बुमत्॥ गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरि॥२५॥
धेनवो मन्दगामिन्य ऊधोभारेण भूयसा॥ ययुर्भगवताहूता द्रुतं प्रीत्या स्नुतस्तनीः॥२६॥
वनौकस प्रमुदिता वनराजीर्मधुच्युतः॥ जलधारा गिरेर्नादानासन्नाददृशे गुहाः॥२७॥
क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति॥ निर्विश्य भगवान् रेमे कन्दमूलफलाशनः॥२८॥
दध्योदनं समानीत शिलायां सलिलान्तिके॥ सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः॥२९॥
शाद्वलोपरि सविश्य चर्वतो मीलितेक्षणान्॥ तृप्तान् वृषान् वत्सतरान् गाश्च स्वोघोभरश्रमाः॥३०॥
प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम्॥ भगवान् पूजयांचक्रे आत्मशक्त्युपबृहिताम्॥३१॥
यथोचितशेषेण सर्वत्रान्वयः॥२७॥ कन्दमूलानामशन यस्य स भगवान् देवे वर्षति सति क्वचित् कदाचित् वनस्पतिक्रोडे कदाचिद्गिरिगुहायां वा निर्विशन् रेमे इत्यर्थः॥२८॥ सङ्कर्षणेनान्वितः सहित श्रीकृष्णः सम्भोजनीयैः सह भोजनयोग्यैः सखिभिर्गोपैः सह सलिलस्यान्तिके समीपे शिलायामुपविश्य गृहादुपानीत दध्योदन बुभुजे॥२९॥ शाद्वल हरिततृणविशिष्टो देशः। तदुपरि सविश्य चर्वतो वृषादीन् तथा ता वृन्दावनस्थामत्यपूर्वांप्रावृट्श्रियं च वीक्ष्य भगवान् ता पूजयाचक्रे बह्वमन्यतेति द्वयोरन्वयः। तेषामुपवेशे हेतुमाह—तृप्तानिति यथेष्टचरणेन तृप्तान्। अत एव सुखेन मीलितेक्षणान्॥३०॥ श्रियोऽपूर्वत्वमेवाह—सर्वभूतमुदावहामिति। सर्वप्राणिना परमानन्द जनिकामित्यर्थ। तत्र हेतुमाह—आत्मन शक्त्या।आह्लादनीनाम्न्या उपबृहिता संवर्द्धितामित्यर्थ॥३१॥
एवं प्रावृट्क्रीडां निरूप्य शरच्छ्रियमनुवर्णयति—एवमित्यष्टादशभिः। एवं क्रीडापरत्वेन तस्मिन् व्रजे रामकृष्णयोर्निवसतोः सतोः शरत् समभवत्। तां वर्णयति—विगतानि अभ्राणि यस्या सा। स्वच्छानि अम्बूनि यस्याम्, अपरुषः शान्तोऽनिलो यस्या सा च सा च॥३२॥ नीरजानाकुमुदादीनामुत्पत्तिर्यया तया शरदा नीराणि प्रकृतिस्वच्छतामधुरताच निजस्वभावययुः। तत्र दृष्टान्तमाह—यथा दुःसङ्गेन योगभ्रष्टानां चेतांसि पुनर्योगस्य प्राणायामाद्यष्टाङ्गस्य नितरां सेवया प्रकृतिं स्वच्छतायान्ति, तद्वदिति। ‘अतो योगिभिर्दुःसङ्गपरिवर्जनपूर्वंयोगनिषेवैव कर्तव्या’ इत्युपादेयोपमा॥३३॥ यथा चतुर्णामाश्रमि- णामशुभं कष्टं श्रीकृष्णे जाता भक्तिः हरति, तया व्योमादीनां चतुर्णामेघादिचतुरो मलान् शरदहरदित्यन्वयः। तथा हि—यथा ब्रह्मचारिणो गुर्वर्थजलाहरणादिश्रम भक्तिति, तया परिपूर्णस्य कृतार्थस्य गुरुणा प्रयोजनाभावात् गुरुभिरपि तथाभूतस्यानियोगात्। एवव्योम्नोऽब्दमेघं शरज्जहार॥ तथाच गृहिणोऽपत्यादिसाङ्कर्यं भक्तिर्हरति, तत्साङ्कर्यस्य भजनविरोधित्वेन विविक्तवासरुच्युत्पत्तेः। तथा
एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे॥ शरत् समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला॥३२॥
शरदा142 नीरजोत्पत्त्या नीराणि प्रकृतिययुः॥ भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया॥३३॥
व्योम्नोऽब्दं भूतशाबल्यं भुवः पङ्कमपां मलम्॥ शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाऽशुभम्॥३४॥
सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः॥ यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः॥३५॥
भूतानां शाबल्यं साङ्कर्यं शरदहरत्। वर्षाभयेन व्यवहर्तॄणां हिंसाभयेन भिक्षूणां चैकत्र स्थितानाशरदि यथेष्टगमनात्॥ यथा च वनस्थस्यमल केशनखादिधारणक्लेशं भक्तिर्हरति, तद्रसिकस्य तत्राग्रहाभावात्, तथा भुवः पङ्कं शरदहरत्॥ यथा च यतीनां कामादिवासनामलं तद्दूरीकरणार्थप्रयत्नं च भक्तिर्हरति, तथा शुद्धचित्तस्य विरक्तस्य कृतकृत्यस्य कर्तव्याभावात्॥ तथाऽपा मलं शरदहरत्॥ ‘अतश्चतुर्भिरप्याश्रमिभिः श्रीकृष्णे भक्तियोग एव कर्तव्य’ इत्युपादेयोपमा॥३४॥ जलदा मेघाः सर्वस्व सर्वजलहित्वा शुभ्रशुक्लवर्चः कान्तिःयेषां ते तथा सन्तो विरेजुर्विशेषेण दीप्तिमन्तो जाताः। यथा मुक्त किल्बिष कर्म वासनारूप येषां ते मुनयो मननशीलाः त्यक्ता पुत्रवित्तलोकैषणा यैस्ते, अत एव शान्ता अक्षुभितचित्ताः राजन्ते तथेति। तथाच ‘मुमुक्षुणा सर्वे त्याज्याः, शुद्धता च सम्पादनीया’ इति हेयोपादेयोभयोपमा॥३५॥
गिरयः शिवं तोयं निर्मलं जलं क्वचिन्मुमुचु, क्वचिच्च न मुमुचुः। न पुनः प्रावृषीव सर्वतः। यथा ज्ञानिनो ज्ञानामृतं मोक्षसाधनं तत्त्वज्ञानं कस्मिंश्चिदेव काले कस्मैचिदधिकारिणे ददते, उपाध्यायाः कर्मविद्यामिवनहि सर्वेभ्यो ददते। तथाच “ज्ञानस्य दुर्लभत्वात् जिज्ञासुभिः ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया’ इत्याद्युक्तरीत्या ज्ञानं ग्राह्यम्, गुरुभिश्चोपदेष्टव्यम्"इत्युपादेयोपमा॥३६॥ गाधजलेचराः क्षुद्रजले वर्तमानाः अपि मत्स्यादयो जलचरत्वेन जलक्षयज्ञान- योग्याश्रयि जीवनहेतुभूतं जलमन्वहं क्षीयमाण नैवाविदन् नैव ज्ञातवन्तः। यथा कुटुम्बिनो नराः कुटुम्बित्वेन कुटुम्बभरणादिदर्शनादायुःक्षयज्ञानयोग्या अपि आयुः अन्वहक्षय्यं क्षीयमाण न जानन्ति तथा। यदा अगाधजले समुद्रे वर्तमाना जलक्षयं न जानीयुः, यदा च महदायुष्मन्तो ब्रह्मादयो वा आयुःक्षय न जानीयुः, तदा प्रलयपर्यन्तं न काचिच्चिन्ता। अतः ‘गाधे’ इति ‘नरा’ इति च पदद्वयम्॥ अज्ञाने हेतुमाह—
गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुःशिवम्॥ यथा143 ज्ञानामृतं काले ज्ञानिनो ददते न वा॥३६॥
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः॥ यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥३७॥
गाधवारिचरास्तापमविन्दन् शरदर्कजम्॥ यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥३८॥
मूढा इति। मायामोहिता इत्यर्थः। ‘तथाच मुमुक्षुभिः श्रेयोर्थिभिरेव प्रमादो न कर्तव्य’ इति हेयोपमा॥३७॥ गाधे क्षुद्रे वारिणि चरन्तीति गाधवारिचरा मीनादयःशरदर्कजतापमविन्दन् लेभिरे। तत्र दृष्टान्तमाह—यथा दरिद्रः संसारताप लभते तथेति। अगाधजलस्य बहुतापो न भवति, अतस्तत्रस्थानामपि तथा तापो न सम्भवत्यतो ‘गाधे’ इत्युक्तम्। तथा धनाढ्यानामपि भोजनाच्छादनादिक्लेशाभावात् तथा उत्कटतापो न भवत्यत उक्तं ‘दरिद्र’ इति। अत एव धनाद्यभावात् कृपणः दीनः। शरदि हि तापजनकस्य सूर्यस्य व्यवधायकानां मेघरेण्वादीनामभावात्तापाधिक्यसूचनायोक्तं—‘शरदर्कजम्’ इति। दरिद्रोऽपि यद्येकाकी स्यात्तदापि न तप्येत, अत आह-‘कुटुम्बी’ इति। तथापि यदि जितेन्द्रियो विवेकी स्यात्तदापि सर्वमीश्वराधीन मत्वा न तप्येत, अत आह— अविजितेन्द्रिय इति। तथेन्द्रियपारवश्यस्य तापजनकत्वात् तदधीनतया न वर्तितव्यम्’ इति हेयोपमा॥३८॥
यथा धीराःपुरुषाः शनैःशनैः शरीरेऽहन्ता त्यजन्ति तथा वीरुधःआमतामपक्वतां जहुः। यथा च ते पुत्रादिषु ममता त्यजन्ति, तथा स्थलानि पङ्कंजहुः। यद्यप्यहन्ताममतात्यागे शास्त्रमप्यस्ति हेतुः, तथापि धैर्याभावेन स्वाभाविकप्रवृत्त्या पीडिताः शास्त्रीय प्रामाण्य न मन्यन्तेऽतो मुख्यत्वाद्धैर्यमेव हेतुत्वेनोक्तम्। त्यागे हेतुमाह—अनात्मस्विति। तथाच ‘सर्वस्य जगतः ईश्वरस्वामिकत्वं मत्वा तत्र सर्वथा अहन्ता-ममता त्याज्यैव ’ इति हेयोपमा144॥३९॥ आत्मनि मनसि सम्यगुपरते विरक्ते सति मुनिर्यथा व्यपरतागमो निवृत्तवेदघोषो भवति, ततःपरमध्ययनाभावात्, तथा शरदागमे सति निश्चलाम्बुः समुद्रस्तूष्णीमभूत्। तथाच ‘परमविरक्त्या तूष्णीं भवितव्यम्’ इत्युपादेयोपमा॥४०॥ केदारेभ्यः शालिक्षेत्रेभ्यः क्षरन्तीः अपो दृढैः सेतुभिः तन्निर्गममार्गनिरोधेन कर्षका अगृह्णन् अरक्षन्। ततः पर वृष्ट्यभावात् रक्षाभावे ताः शुष्येरन्। तत्र दृष्टान्तमाह—यथा प्राणैरिन्द्रियैः क्षुभितैर्द्वारभूतैः स्वेभ्यः स्रवज्ज्ञान तन्निरोधेन इन्द्रियप्रत्याहारेण योगिनो रक्षन्ति तथेति। तथा च ‘इन्द्रियनिग्रहपूर्वक विवेकरक्षा सर्वदैव कर्तव्या’ इत्युपादेयोपमा॥४१॥ यथा देहा-
शनैः शनैर्जहुः पङ्कं स्थलान्याम च वीरुध॥ यथाऽहममतां धीराः शरीरादिष्वनात्मसु॥ ३९॥
निश्चलाम्बुरभूत्तूष्णी समुद्रःशरदागमे॥ आत्मन्युपरते सम्यङ् मुनिर्व्युपरतागमः॥ ४०॥
केदारे145भ्यस्त्वपोऽगृह्णन् कर्षका दृढेसतुभि॥ यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥४१॥
शरदर्कांशुजान् तापान् भूतानामुडुपोऽहरत्॥ देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम्॥४२॥
खमशोभत146 निर्मेघ शरद्विमलतारकम्॥ सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम्॥४३॥
भिमानजं तापमध्यात्मिकादित्रिविध दुःख बोधो देहादिभिन्नात्मयथार्थज्ञान हरति, यथाच स्वविरहज व्रजयोषिता ताप मुकुन्दो हरति, तथा शरदर्का- शुजास्तापान् भूताना कर्षकादीनामुडुपश्चन्द्रो हरति। तथाच ‘संसारतापनिवृत्त्यर्थ ज्ञाने भक्तौ च प्रयत्नःकर्तव्य’ इत्युपादेयोपमा॥ ४२॥ शब्दब्रह्मणो वेदस्यार्थान् पूर्वोत्तरमीमांसानिर्णीतान् दर्शयतीति तथा तत्सत्त्वयुक्तं चित्त यथा शोभते तथा शरदा विमलाः तारका यस्मिंस्तत्, निर्गता मेघा यस्मिंस्तत् खमाकाशमशोभत। तत्र चित्तस्थानीयमाकाशम्, रजस्तमोनिवृत्तिस्थानीया मेघनिवृत्ति, सात्त्विकसेवास्थानीया शरत्, सत्त्वगुणस्थानीया विमलाः तारकाः, शब्दब्रह्मस्थानीय जगत्, तदर्थस्थानीयाः सर्वे पदार्थाः, सत्त्वाधिष्ठातृश्रीवासुदेवस्थानीयस्ताराधिष्ठाता चन्द्र इति। यतः “सात्त्विकान्येव
सेवेत पुमान् सत्त्वविवृद्धये” “सत्त्वात् सञ्जायते ज्ञानम्’ इत्यादिप्रामाण्यात् ‘वेदार्थज्ञानाय सात्त्विकसेवया सत्त्ववृद्धिरेव सम्पादनीया’ इति उपादेयापमा॥४३॥ यथा वृष्णिचक्रेण यादवसमूहेन आवृतो यदुपतिः कृष्णो भुवि सुधर्माया सभाया रराज, तथा अखण्डमण्डलः शशी पूर्णश्चन्द्रो व्योम्नि रराज। तथा च ‘एवं सभाया विराजमानो भगवान् भक्तैरुपासनीय’ इत्युपादेयोपमा॥४४॥ समः अन्यूनाधिकः शीतश्चाष्णेश्च यस्त प्रसूनपरिपूरितस्य वनस्य मारुतमाश्लिष्य जना घर्मजनितं ताप जहुः, गोप्यस्तु तमाश्लिष्यापि ताप न जहुः। तत्र हेतुमाह—कृष्णहृतचेतस इति। कृष्णेन हृतानि चेतांसि यासांताः। तासा तापस्य कृष्णविरहजत्वात्तथाभूतो मारुतः प्रत्युत दुःसह एवासीदिति। तथाच ‘भगवद्भक्ताना सुखं न विषयजनितम्, किन्तु तद्भजनजनितमेव’ इति सूचितम्॥४५॥ गावो, मृगा मृग्यः खगाः खग्यो, नार्यश्च शरदा निमित्तेन स्ववृषैः स्वपतिभिरन्वीयमाना बलादनुगम्यमानाः पुष्पिण्यो गर्भिण्योऽभवन्। तत्र दृष्टान्तमाह—यथा ईश्वराराधनार्थाः क्रियाः पतिस्थानीयेश्वरसम्बन्धात् फलैः पुष्पिण्यो भवन्ति धर्मादिसर्वपुरुषार्थ-
अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी॥ यथा यदुपति कृष्णो वृष्णिचक्रावृतो भुवि॥४४॥
आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम्॥ जनास्ताप जहुर्गोप्यो न कृष्णहृतचेतसः॥ ४५॥
गावो मृगाः खगा नार्यः पुष्पिण्यःशरदाऽभवन्॥ अन्वीयमानाः स्ववषैः फलैरीशक्रिया इव॥४६॥
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्विना॥ राज्ञा तु निर्भया लोका यथा दस्यून्विना नृप॥४७॥
पुरग्रामेष्वाग्रयणैरैन्द्रियैश्च महोत्सवैः॥ बभौ भूःपक्कसस्याढ्या कलाभ्यां नितरां हरेः॥४८॥
जनिका भवन्ति। अत एवोक्तम्—‘अकामः सर्वकामो वा मोक्षकाम उदारधीः॥ तीव्रेण भक्तियोगेन भजते पुरुष परम्’ इति॥ तथाच ‘सर्वथा सर्वपुरुषार्थ- लाभाय परमेश्वराराधनमेव कर्तव्यम्’ इत्युपादेयोपमा॥४६॥ वारिजानि कमलादीनि सूर्योत्थाने सूर्य उदिते सति उदहृष्यन् प्रफुल्लितानि जातानि, परन्तु कुमुदकुमुद विना। यथा धर्मात्मना राज्ञा सर्वे लोका जनाःनिर्भया हृष्टा भवन्ति, परन्तु दस्यून्विना। रात्रिविकाशित्वात् कुत्सिता मुद् हर्षो यस्य तत् इति दस्युसाम्यम्। नृपेति सम्बोधन सम्मतिसूचनार्थम्। राज्ञा त्वेवमेव वर्तनीयमित्युपादेयोपमा॥४७॥ पुरेषु ग्रामेषु च आग्रयणैर्नवान्नप्राशनार्थैर्वैदिकै- र्मन्त्रैःइन्द्रियैरिन्द्रियार्थैर्लौकिकैश्च महोत्सवैः हरेः कलाभ्यामवताराभ्या रामकृष्णाभ्या च पक्कसस्यैराढ्या सम्पन्ना भूःनितरामतिशयेन बभौ अशोभ- तेत्यन्वयः॥४८॥
वणिजो, मुनयो, नृपाः, स्नातका बह्मचारिणश्च वर्षाकाले रुद्धाः सस्यादिना मार्गप्रतिरोधेन हिंसाबाहुल्येन प्रवृत्तौ प्रतिबद्धा सन्तःशरत्काले आगते सति स्वस्थानान्निर्गम्य अर्थान् यथाक्रमेण वाणिज्यस्वाच्छन्द्यादिग्विजयविद्यादीन् प्रपेदिरे प्रापद्यन्त। तथा दृष्टान्तमाह—
यथा यज्ञयोगमन्त्रभक्त्यादिसिद्धाः प्रारब्धैः प्रतिरुद्धास्तत्समाप्तिकाले आगते स्वपिण्डान् स्वयोग्यान् देवभगवत्पार्षदादिदेहान् प्राप्नुवन्ति तथेति। अनेन ‘प्रारब्धस्य प्रतिबन्धकत्वात्तत्समाप्तावनु- ष्ठितक्रियाफल भविष्यत्येवेति निश्चेतव्यम्’ इत्युपादेयोपमा॥४९॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ विशोऽपि विवृतः प्रावृट्कालक्रीडानिरूपकः॥ ३॥ एकविंशे विहर्तुंवै वृन्दारण्यगतो हरिः॥ तद्वंशीरवलीलादि गोपीभिर्वर्णित
वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे॥वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते॥४९॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे प्रावृटशरत्क्रीडानिरूपणं नाम विंशतितमोऽध्यायः॥२०॥ श्रीशुक उवाच॥ इत्थं147 शरत्स्वच्छजलं पद्माकर- सुगन्धिना॥ न्यविशद्वायुना वातं संगोगोपालकोऽच्युतः॥१॥ कुसुमितवनराजिशुष्मिभृङ्गद्विजकुलघुष्टसरःसरिन्महीध्रम्॥ मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम्॥२॥
व्रजे॥१॥ एव सामान्यतःशरदं निरूप्य श्रीवृन्दावनशोभावर्णयन् तत्र प्रविश्य श्रीकृष्णो वेणुवादनकृतवानित्याह—
इत्थमिति द्वाभ्याम्। इत्थमेवंभूते वने गोगोपास्तत्सहितोऽअच्युतो न्यविशदित्यन्वयः। इत्थंशब्दार्थमेव विवृणोति—
शरदा स्वच्छानि जलानि यस्य तत् यस्मिन्निति वा। पद्माकरसुगन्धिना वायुना वात व्याप्तम्॥१॥ कुसुमितासु वनराजिषुये शुष्मिणो मत्ताःभृङ्गाः, द्विजाः पक्षिणश्च तेषा कुलैर्घुष्टा नादिताः सरांसि सरितो महीध्राःपर्वताश्च यस्मिंस्तद्वन पशुपालैर्बलेन च सहितो मधुपतिः श्रीकृष्णोऽवगाह्य प्रविश्य वेणु चुकूज अवादयत्॥२॥
स्मरस्य कामस्योदयो’ यस्मात् तत् कृष्णस्य वेणुगीतमाश्रुत्य तत्समीपं गत्वा तत्रत्य वृत्तमनुभूयागत्य काश्चित् स्त्रियः परोक्ष यथा भवति तथा स्वसखीभ्योऽन्ववर्णयन्। अन्यथा व्रजस्थाभिरननुभूतस्य वनवृत्तान्तस्य वर्णनासम्भवात्॥ यद्वा निलयानि त्यक्त्वा कदाचिदनुभूतस्यैव तदानीं वेणुरवश्रवणेनोद्गतस्य वृत्तान्तस्य वर्णनमिति ज्ञेयम्। भगवद्वेणुनादस्यालौकिकत्वाद्व्रजस्थानामपि श्रवणं सङ्गच्छते। अन्यथा वने उद्भूतस्य व्रजे श्रवणं न स्यात्॥ तदपि श्रवणं यथाधिकारमेव कार्यंकरोति। अतो मात्रादीना वात्सल्योत्पादकम्, अन्यासा कामिनीना स्मरोत्पादकम्। अन्येषामपि यथारुचि, ‘सर्वभूतमनोहरम्’ इति वक्ष्यमाणत्वात्॥३॥ हे नृप !तत् कृष्णचेष्टित वर्णयितुमारब्धाः आरब्धवत्योऽपि वर्णन कर्तुं नाशकन् समर्था न जाताः। तत्र हेतुमाह—स्मरस्य कामस्य वेगेन विक्षिप्तव्याकुलमनो यासां ताःइति। कामवेगे हेतुमाह —स्मरन्त्य इति॥४॥ ‘कीदृशस्य कृष्णस्य स्मरणतासां मनसः क्षोभकं जातम्? ’ इत्यपेक्षाया तत्स्वरूपमाह —बर्हापीडमिति। द्वितीयान्ताना पदाना ‘बिभ्रत्’ इत्यनेन सम्बन्धः। बर्हाणा मयूरपिच्छाना148
तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम्॥ काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन्॥३॥ तद्वर्णयितुमारब्धाः स्मरन्त्य कृष्णचेष्टितम्॥ नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप॥४॥ बर्हापीडं नटवरवपुः कर्णयोःकर्णिकारं बिभ्रद्वास कनककपिशं वैजयन्तीं च मालाम्॥ रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः॥५॥ इति वेणुरवं राजन् सर्वभूतमनोहरम्॥ श्रुत्वा व्रजस्त्रियःसर्वा वर्णयन्त्योऽभिरेभिरे॥६॥
आपीडशिरोभूषणं, नटवरद्वपु, कर्णयोः कर्णिकार कर्णिकारपुष्प, कनकवत् कपिश पीतः वासः, वैजयन्तीं पञ्चवर्णपुष्पग्रथिता माला च। अधरसुधया मुखवायुना वेणो रन्ध्रान् वशच्छिद्राणि पूरयन् वेणु वादयन्नित्यर्थः। ‘अधरसुधा’ इत्यनेन नूनमधरसुधैव पूर्णाद्वेणोरुच्चलन्ती गीतवत् प्रसर्पितुमर्हतीति गीतस्यालौकिकत्वादित्युत्प्रेक्षासूचनम्। गोपाना वृन्दैः समूहैर्गीता कीर्तिर्यशो दैत्यवधस्वरक्षादिरूपा यस्य सः कृष्णः स्वपदैस्तत्रतत्राङ्कितैः रमणं रतिजनकवृन्दारण्यप्राविशत्॥५॥ एवंभूतकृष्णतच्चरितं च स्मरन्त्यः स्मरवेगेन त वर्णयितुमशक्ता अपि कतिचित्क्षणानन्तरं स्मरवेगं उपशान्ते सति पुनर्लब्धाश्वासा वर्णयामासुरित्याशयेनाह—इतीति। ‘त्वयापीदं वक्ष्यमाणंसावधानतया श्रोतव्यम्’ इति सूचयन् सम्बोधयति—राजन्निति। एवंभूत सुधारूपेणोत्प्रेक्षितमलौकिकम्, अत एव सर्वभूतानां मनोहर वेणुरव व्रजे स्थिताः स्त्रियः श्रुत्वा ताः सर्वा एव पर्यायेण यथासम्भव श्रीकृष्णस्वरूप-
माधुर्यचरितादिकवर्णयन्त्यो अभिरेभिरे पदे पदे परमानन्दमूर्ति त मनसा परिरब्धवत्यः॥६॥ तदनुवर्णनमेवाह—अक्षण्वतामिति त्रयोदशभिः। ‘युष्माकमपीदं संमतमेव’ इति सूचयन्त्यःसम्बोधयन्ति—हे सख्य !अक्षण्वता चक्षुष्मता चक्षुषः फलमिदमेव मुख्यम्, अतः परमन्यदुत्कृष्टं फलवयं न विदामः न विद्म इत्यर्थ। ‘किं तत् फलम्’ इत्यपेक्षायामाह—वयस्यैः सखिभिः सह पशूननुविवेशयतोः वनाद्वनान्तर प्रवेशयतोर्व्रजेशस्य नन्दस्य सुतयोरामकृष्णयोर्वक्त्रं मुखं यैर्निपीतंअक्षिभृङ्गैस्तन्माधुर्यमनुभूत तैर्यज्जुष्ट सेवित प्राप्त तदेवेत्यन्वयः। तच्छोभातिशयसूचयन्त्यो मुखं विशिषन्ति— अनुवेणु वेणुमनुवर्तमानं त अवादयत्। तथा अनुरक्तकटाक्षमोक्षमिति स्निग्धकटाक्षविसर्गम्॥७॥ अन्या आहुः—चतेति। अत्र सर्वत्र वक्तृभेदात्
गोप्य ऊचुः॥ अक्षण्वतां149 फलमिदं न परं विदाम सख्यःपशूननुविवेशयतोर्वयस्यैः॥ वक्त्रंव्रजेशसुतयोरनुवेणुजुष्टं यैर्वा निपीतमनुरक्तकटाक्ष- मोक्षम्॥७॥ चूतप्रवा150लबर्हस्तबकोत्पलाब्ज-मालानुपृक्तपरिधानविचित्रवेषौ॥ मध्ये विरेजतुरल पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ॥८॥
पूर्वापरसङ्गतिर्नापेक्षिता। चूतस्याम्रस्य प्रवालाःकर्णयोः, बर्हस्तबका मयूरपिच्छगुच्छानि151 शिरसि, उत्पलाब्जाना माला कण्ठे, तैरनुपृक्ते मिलिते सहिते परिधाने नीलपीताम्बरे ताभ्या विचित्रो वेषो ययोस्तौ रामकृष्णौ क्व च कदाचित् पशुपालानां गोष्ठ्या सभायां मध्ये गायमानौ अलमत्यर्थंविरेजतुरित्यन्वयः। तत्र दृष्टान्तमाहु—रङ्गे इति। रङ्गे मल्लयुद्धस्थानविशेषे, नटसभाया यथा गायमानौ नटवरौ राजेते तथा। अनेन गोपानामपि तथा वेषः सूचितः। अहो ईदृक् स्वरूपं पश्यता भाग्यमित्याशयः॥८॥
__________________________________________________________
१.“रसद्वयार्थ द्वितय वेणुपूरणमेकत ॥स्वच्छदपापगमने हेतुश्चापि तथाऽपर॥ १॥ चतुर्भि पीठिकैव स्यात् षड्भिर्वेणोस्तु वादनम्॥ द्वाभ्यां भक्त प्रतिष्ठा च दोष स्याद्वर्णने तथा॥ वैपरीत्यात् समाधानमन्यथा स्यात्तु दूषणम् ॥२ ॥भगवता सह सलापो दर्शन मिलितस्य च॥ आश्लेष सेवन चापि स्पर्शश्चापि तथाविध॥ २॥ अधरामृतपान च भोगो रोमोद्गमस्तथा॥ तत्कूजिताना श्रवणमाघ्राण चापि सर्वतः॥ ४॥ तदतिकगतिर्नित्यमेव तद्भावन सदा॥ इदमेवेंद्वियवता फलं मोक्षोऽपि नान्यथा॥ १॥ यथाधकारे नियता स्थितिर्नाक्ष्णो फल भवेत्॥ एव मोक्षेपींद्रियादियुक्ताना सर्वथा नहि॥ ६॥ बाधकाना परित्यागे साधकाना न तद्भवेत्” इति सुबोधिन्याम्॥
अन्या आहुः—गोप्य इति। ‘स्म’ इत्याश्चर्यम्। अपिशब्दो दुर्लभताद्योतकः। हे गोप्यः !अयं वेणुः किं कुशलं पुण्यमाचरत् कृतवान्?। ‘तत् कथं ज्ञायते?’ इत्यपेक्षायामाहुः—यत् यस्मात् गोपिकानामपि दुर्लभा दामोदरस्याधरसुधा स्वयं स्वातन्त्र्येण अवशिष्टरस केवल रसमात्र यथा भवति तथा यथेष्टभुङ्क्ते। तत्रापि ज्ञापकमाहुः—यासां पयसा पुष्टस्ता मातृतुल्या ह्रदिन्यःहृष्यत्त्वचो विकसितकमलवदनमिषेण रोमाञ्चिता इव लक्ष्यन्ते। तथा येषां वशे जातस्ते तरवोऽपि मधुधारामिषेण आनन्दाश्रु मुञ्चन्त इव दृश्यन्ते। तत्र दृष्टान्तमाहुः—यथाऽऽर्या इति। आर्याः कुलवृद्धाः स्ववशे भगवत्सेवकं लब्धतत्प्रसाद दृष्ट्वा यथा हृष्यत्त्वचोऽश्रु मुञ्चन्ति तथेत्यर्थः॥९॥ अन्या आहुः—वृन्दावनमिति। हे सखि ! वृन्दावनं भुवः कीर्ति यशः स्वर्गादिभ्योऽपि विशेषतः आधिक्येन तनोति विस्तारयति। तत्र हेतु सूचयन्त्यः विशिषन्ति—यत् यस्मात् देवकीसुतस्य पदाम्बुजैस्तत्रतत्राङ्कितैर्लब्धा
गोप्यकिमाचरदयं कुशलं स्म वेणुर्दामोदराधरसुधामपि गोपिकानाम्॥ भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रुमुमुचुस्तरवो यथाऽऽर्याः॥ ९॥ वृन्दावन सखि भुवो वितनोति कीर्तिं यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि॥ गोविन्दवेणुमनुमत्तमयूरनृत्य प्रेक्ष्याद्रिसान्वपरतान्य- समस्तसत्त्वम्॥१०॥ धन्या152 स्म मूढमतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्तविचित्रवेषम्॥ आकर्ण्य वेणुरणितं सह कृष्णसारैः पूजां दधुर्विरचितां प्रणयावलोकै॥११॥
लक्ष्मीः शोभा येन तत्। किञ्च गोविन्दस्य वेणुमनु वेणुनिनाद श्रुत्वाऽनन्तर मन्दगर्जितं नीलमेघ तं मत्वा मत्त्वाये मयूरास्तेषां नृत्य प्रेक्ष्य सङ्घशस्तत्रतत्राद्रिसानुष्वपरतानि उपरतव्यापाराणि अन्यानि समस्तानि सत्त्वानि जन्तवो यस्मिंस्तत्। नैतदन्येषु लोकेषु विद्यते, अतो भुवः कीर्तिं वितनोतीत्याशयः॥१०॥ अपरा आहुः—हे सखि !मूढमतयः तिर्यक्जातित्वेन विवेकहीना अप्येता हरिण्यो धन्याः कृतार्था एव। तत्र हेतुसूचयन्त्यो विशिषन्ति—या वेणुरणितवेणुनादमाकर्ण्य श्रुत्वा उपात्त बर्हापीडादिना विचित्रो वेषो येन त नन्दनन्दन प्रति प्रणयसहितैरवलोकैर्विरचिता पूजा सन्मान दधुः कृतवत्यः। किञ्च कृष्णसारैः स्वपतिभिः सहिता एव पूजा दधुः, अस्मत्पतयस्तु गोपाः क्षुद्राः तथा पूजा न कुर्वन्ति इति आशयः॥ ११॥
अन्या आहुः—हे गोप्यः !वनितानामुत्सवो यस्मात्तथाभूतं रूपं शीलं च यस्य तं श्रीकृष्णनिरीक्ष्य तेन क्वणितस्य वादितस्य वेणोर्विचित्र गीतं च श्रुत्वा विमानगतयो विमानैर्गच्छन्त्यो देव्यो देवाङ्गना अर्थात् पतिसहचरा अपि स्मरेण नुन्नःपरिक्षिप्तः सारो धैर्य यासा ताःतथा सत्यो मुमुहुः। मोहे लिङ्गमाहुः—भ्रश्यत्प्रसूनाः कबराश्चूडा यासां ताः। विगता नीव्यो वासांसि यासां ताः, विगलद्वस्त्रानुसन्धानरहिता इत्यर्थः॥ १२॥ गाश्चकृष्णमुखान्निर्गतवेणुगीतमेव पीयूषममृत क्षरणशङ्कया उत्तभितैरुन्नमितैः कर्णरूपैः पुटैः पानपात्रैः पिबन्त्यस्तस्थुः। तथा स्तन्यपाने प्रवृत्ताः शावा वत्साश्च तद्गीतामृतमुत्तभितकर्णपुटैः पिबन्तः स्तुतस्तनपयःकवलाः स्तनेभ्यः क्षरितदुग्धग्रासमुखा एव तस्थुः, विस्मृतपानक्रिया बभूवुरित्यर्थः। तत्र हेतुं सूचयन्त्य आहुः—गोविन्द दृशा नेत्रमार्गेण आत्मनि मनसि स्पृशन्त्यः आलिङ्गन्त्य इति, अत एव अश्रूणा कला लेशा लोचनयोर्यासां ता गावस्ते शावाश्चेति॥१३॥ अन्या आहुः—हे अम्ब मातः !अस्मिन् वने ये विहगाः पक्षिणस्ते प्रायेण मुनय एव भवितुमर्हन्ति। तत्र हेतुमाहुः—ये विहगाः
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलश्रुत्वा च तत्क्वणितवेणुविचित्रगीतम्॥ देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः॥१२॥ गावश्च कृष्णमुखनिर्गतवेणुगीत-पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः॥ शावाः स्नुतस्तनपयःकवलाःस्म तस्थुर्गोविन्दमात्मनि दृशाऽश्रुकलाःस्पृशन्त्यः॥१३॥ प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदित कलवेणुगीतम्॥ आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाचः॥१४॥ नद्यस्तदा तदुपधार्य मुकुन्दगीतमावर्तलक्षितमनोभवभग्नवेगाः॥ आलिङ्गनस्थगित- मूर्मिभुजैर्मुरारेर्गृह्णन्ति पादयुगलं कमलोपहाराः॥१५॥
रुचिराः प्रवालाः पल्लवा येषां तान् द्रुमभुजान् तरुशाखा आरुह्य स्वभोग्यफलादावनासक्ताः कृष्णस्येक्षितं दर्शन यथा भवति तथान्यदर्शनवर्जनार्थ मीलितदृशः सङ्कुचितनेत्राः त्यक्तान्यवाचश्च सन्तस्तेनोदित प्रकटित मधुर वेणुगीतमेव शृण्वन्ति। मुनयोऽपि वेदद्रुमशाखामारुह्य तदुक्तकर्मफल- परित्यागेन रुचिरप्रवालस्थानि यानि कर्माणि तान्येव उपाददानाः श्रीकृष्णदर्शनं यथा भवति तथा मीलितदृशश्च सन्तः श्रीकृष्णगीतमेव शृण्वन्ति। अत एते त एव भवितुमर्हन्ति इति भावः॥ १४॥ ‘आस्तां चेतनकथा, अचेतनवृत्तं शृणुत’ इत्याशयेनान्या आहुः—नद्य इति। तदा नद्यः वेणुनादसमये मुकुन्दस्य वेणुगीतमुपधार्य श्रुत्वा आवर्तैः परिभ्रमैर्लक्षितेन सूचितेन मनोभवेन कामेन भग्नोवेगो यासा ताः, आलिङ्गनेन स्थगितमाच्छादितं यथा भवति तथा ऊर्मय एव भुजाः तैःकमलोपहाराः कमलान्यपहरन्त्यः, मुरारेः श्रीकृष्णस्य पादयुगलं गृह्णन्ति धारयन्ति॥१५॥
आतपे घर्मे रामेण गोपैश्च सह व्रजपशून् सचारयन्तमनु गवा पश्चाद्भागे वेणुमुदीरयन्त न श्रीकृष्णं दृष्ट्वा प्रथम तदुपरि उदितः पुनः प्रेम्णा प्रवृद्धश्च अम्बुदो मेघः कुसुमावलीभिः पुष्पवृष्टिभिः सह सख्युस्तस्य वपुषा आतपत्रं न्यधात् छत्र विहितवान्। लोकार्तिहरणशीलत्वश्यामत्वादिसाम्यात् मेघस्य कृष्णसखित्व बोध्यम्, तथा देवैः कृता पुष्पवृष्टिर्मेघकृतत्वेनोक्तेति च बोध्यम्॥१६॥ अन्याः साहङ्कारमाहुः—पूर्णा इति। पुलिन्द्यः, शबराङ्गनाःपूर्णाः कृतार्था एव। ‘कथम् ?’ इत्यपेक्षायामाहुः—उरुगायेत्यादिना। प्रथम दयिताना प्रियाणा स्तनेषु मण्डितेन अनुलिप्तेन पुनश्च ताभिः क्रीडासमये उरुगायस्य ‘उरुधा गीयत इति उरुगायः श्रीकृष्णः, तस्य पदाब्जयो रागेण आरुण्येन श्रीः कान्तिर्यस्य तेन कुङ्कुमेन आननेषु स्वमुखेषु कुचेषु च कामतप्तेषु लिम्पत्यस्तदाधि कामव्यथा जहुरित्यन्वयः। ‘कुङ्कुम ताभिः कथं प्राप्त ?तत्राहुः—तृणेति। तस्य वनस्थलीषु चङ्क्रमणेन तृणेषु लग्नेन। ‘तासां कामोद्दीपन कथम् ?‘तत्राहुः—तद्दर्शनेति। तस्य तृणलग्नस्य कुङ्कुमस्य दर्शनेन स्मरकृता रुक् पीडा तापो यासांताः॥ अतस्ताः कृतार्थाः, धिगन्या
दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैःसञ्चारयन्तमनु वेणुमुदीरयन्तम्॥प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाऽम्बुद आतपत्रम्॥१६॥ पूर्णाः पुलिन्द्यउरुगायपदाब्जरागश्रीकुङ्कमेन दयितास्तनमण्डितेन॥ तद्दर्शनस्मररुजस्तॄणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम्॥१७॥ हन्तायमद्रिरबला हरिदासवर्यो यद्रामकृष्णचरणस्पर्शप्रमोदः॥ मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवसकन्दर- कन्दमूलैः॥१८॥ गा गोपकैरनुवन नयतोरुदारवेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः॥अस्पन्दन गतिमतां पुलकस्तरूणां निर्योगपाशकृत- लक्षणयोर्विचित्रम्॥ १९॥
मादृशीर्या एवंभूत मन्मथाधिशमनं न लभन्त इत्याशयः॥ १७॥ ‘हन्त’ इति हर्षे ।हे अबलाः !अयमद्रिगोवर्धनो ध्रुव हरिदासेषु वर्यःश्रेष्ठः। तत्र हेतुमाहुः— यद्यस्माद्रामकृष्णयोश्चरणस्पर्शेन प्रमोदो यस्य सः, तृणाद्युद्गममिषेण रोमहर्षदर्शनात्। यस्माच्च गोभिर्गणेन सखिसमूहेन च सहवर्तमानयोस्तयो रामकृष्णयोः पानीयादिभिर्मान सत्कार तनोति। पानीयैर्जलैः, सुयवसैः शोभनतृणैः, कन्दरैः, कन्दैः, मूलैश्च॥ १८॥ हे सख्यः !इदं तु विचित्रमित्यन्वयः। तत् स्पष्टयन्ति—गोपकैः सह प्रतिवन गाः नयतोश्चारयतोर्नियुज्यन्ते गावः आभिरिति निर्योगा दोहनवेलायां गवा पादबन्धनार्था रज्जवः, पाशास्तु दुष्टगवामाकर्षणार्थारज्जवः, तैः। कृत लक्षण चिह्न ययोः। शिरसि निर्योगवेष्टनेन, स्कन्धयोः पाशधारणेन च गोपपरिदृढश्रिया विराजमानयो रामकृष्णयो कलानि मधुराणि पदानि येषु तैः। अत एव उदारै श्रोतॄणा परमानन्दप्रदैर्वेणुस्वनै तनुभृत्सु शरीरिषु ये गतिमन्तस्तेषां अस्पन्दनं ईषदप्यचलनं स्थावरधर्म, तथा तरूणा पुलको रोमाञ्चश्च जङ्गमधर्म इति॥१९॥
क्रीडावर्णनमुपसंहरति—एवमिति। एवंविधा अन्याश्च या भगवतः कृष्णस्य क्रीडास्ताश्च मिथः परस्परवर्णयन्त्यो गोप्यस्तन्मयता श्रीकृष्णैकानुसन्धानपरता ययुरित्यन्वयः। लीलाना वैचित्र्यं बहुत्वं च सूचयन्नाह—वृन्दावनचारिण इति॥२०॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥ १॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयटीका बालप्रबोधिनी॥ २॥ रचिता दशमे तत्र तामसरोध- वर्णनेएकविंशो गतो वृत्ति वेणुगीतनिरूपकः॥३॥कन्याभिरर्चन देव्या वरदान तथैव च॥ हरिणा च तरुस्तोत्र द्वाविंशे विनिरूप्यते॥ १॥ एवमूढानामनुराग निरुप्य अथानूढानामनुरागचेष्टितमाह—हेमन्त इति। हेमन्ते ऋतौ तस्यापि मासद्वयात्मकत्वात् प्रथमे मार्गशीर्षे मासि नन्दस्य व्रजराजस्य ये वशवर्तिनो गोपास्तेषां कुमारिका हविष्यान्न नीवारादि भुञ्जानाः स्वीकृताहारादिनियमाः सत्यः कात्यायन्या
एवंविधा भगवतो या वृन्दावनचारिणः॥ वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः॥२०॥
इति श्रीमद्भा० महा० दश०तामसनिरोधनिरूपणप्रकरणे वेणुगीतनिरूपणं नामैकविंशतितमोऽध्यायः॥२१॥
श्रीशुक उवाच॥ हेमन्ते153 प्रथमे मासि नन्दव्रजकुमारिकाः॥ चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम्॥१॥
आप्लुत्यांऽभसि कालिन्द्या जलान्ते चोदितेऽरुणे॥ कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम्॥२॥
गन्धैर्माल्यै सुरभिभिर्बलिभिर्धूपदीपकै॥ उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः॥३॥
देव्या अर्चनव्रत चेरुः ‘अद्यप्रभृति कृष्णप्राप्त्यर्थकात्यायनी पूजनीया’ इति नियमं चक्रुरित्यर्थः॥१॥ तत्पूजाप्रकारमाह—आप्लुत्येति। अरुणे उदिते अरुणोदयवेलायां कालिन्द्याः श्रीयमुनायाः अम्भसि आप्लुत्य स्नात्वा जलान्ते जलस्य तीरे सैकतीं वालुकामयीं प्रतिकृति कात्यायनीप्रतिमा कृत्वा ता देवीं गन्धपुष्पादिभिः आनर्चुः पूजयामासुः। ‘इदमपि लीलारहस्य त्वया सावधानेन श्रोतव्यम्’ इति सूचयन् सम्बोधयति—नृपेति॥२॥ सुरभिभिरिति। यथापेक्षित सर्वत्रान्वयः। गन्धैश्चन्दनादिभिः। बलिभिरिति। यान् अग्रे निधाय प्रणामः क्रियते तैर्नारिकेरादिभिर्द्रव्यैरित्यर्थः॥ उच्चावचैरुत्तममध्यमैरन्यैश्च यथासम्भव- प्राप्तैर्वस्त्राभरणादिभिः। उपहारैर्नैवेद्यैः। स्पष्टमन्यत्॥३॥
पूजामन्त्रमाह—कात्यायनीति। हे कात्यायनि ! नन्दगोपसुत मे मम पतिं कुरु, ते तुभ्यं नमः। इति एव प्रार्थनापूर्वकनमस्कारात्मकं मन्त्रं जपन्त्यस्ताः कुमारिकाः पूजा चक्रुरिति सार्धान्वयः। प्रत्येकं मन्त्रपठनात् ‘नम’ इत्येकवचनम्। ननु ‘दुर्लभोऽयं मनोरथः कथं मया सम्पादनीय’ इत्याशङ्क्य तत्र सामर्थ्यसूचयन्त्यः सूचयन्त्यः सम्बोधयन्ति—अधीश्वरीति। तत्रापि हेतु सूचयन्त्य आहुः—महामाये इति। भगवतोऽचिन्त्यकार्यसम्पादनशक्तिरूपे !॥ “एवमपि भगवदाज्ञया सर्वसम्पादनसमर्थापि तस्यैव युष्मत्पतित्वसम्पादने कथं समर्था? तदधीनत्वात्” इत्याशङ्क्याहुः—महायोगिनीति। महायोगो भक्तियोगः स विद्यतेऽस्या इति तत्सम्बोधनम्। तद्भक्तत्वात्त्वत्प्रसादे सोऽपि प्रसन्न एव सन् मनोरथं पूरयेदित्याशयः। ‘महामाये’ इत्यत्र ‘महाभागे’ इति पाठेऽपि ‘भगवत्प्रसादात्मक महद्भाग्य तवास्तीति, अस्मन्मनोरथसम्पादने समर्थाऽसि’ इति सूचितम्। तत्रापि हेतुर्भक्तिरेवेति ‘महायोगिनि’ इत्यनेनोक्तं ज्ञेयम्।
कात्यायनि महामाये154 महायोगिन्यधीश्वरि॥ नन्दगोपसुत देवि पति मे कुरु ते नम॥ इति मन्त्र जपन्त्यस्ताः पूजाचक्रुः कुमारिकाः ॥४॥ एव मास व्रत चेरुः कुमार्यः कृष्णचेतसः॥ भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः॥५॥ उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धवाहवः॥ कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम्॥ ६॥ नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत्॥ वासांसि कृष्णं गायन्त्यो विजह्रुःसलिले मुदा ॥ ७ ॥
‘क्रीडारहस्य च तव विदितमेव’ इति सूचयन्त्यः सम्बोधयन्ति—हे देवीति। ‘तत्र प्रत्युपकारे चास्माकं सामर्थ्य नास्त्येव ’ इति सूचनायअन्ते नमस्कारप्रयोगः ॥४॥ ‘दुर्लभोऽपि तासा मनोरथो भगवदनुग्रहेण स्वल्पेनैव कालेन सिद्ध’ इत्याशयेनाह—एवमिति। कृष्णे चेतांसि यासां ताः कुमार्यः एवमुक्तप्रकारेण मासपर्यन्तं व्रतमाहारादिनियमः चेरुः चक्रुः, भद्रकालीं कात्यायन्यपरनाम्नीमानर्चुश्च। कृष्णचेतस्त्वमेव स्पष्टयति—नन्दसुतोऽस्माकं पतिर्भूयादिति ॥५॥ ‘आप्लुत्य’ इति स्नानादिप्रकार उक्तः। ततः पूर्व तत्रागमनप्रकारमाह—उषसीति। अन्वह प्रतिदिनमुषसि प्रातःकाले उत्थाय स्वैः गोत्रैस्तत्तन्नामभिरन्याः ‘प्रतिबोध्य’ इति शेषः। यद्वा स्वैः गोत्रैर्वर्गैः सह अन्योन्याबद्धबाहवः परस्पर गृहीतहस्ताः कालिन्द्या स्नातु यान्त्यो गच्छन्त्यः उच्चैः कृष्णं जगुरित्यन्वयः ॥६॥ कदाचित् पूर्ववन्नद्यामागत्य तत्तीरे वासांसि निक्षिप्य संस्थाप्य मुदा हर्षेण कृष्णमेव गायन्त्यः सलिले विजह्रुरित्यन्वयः॥७॥
कृष्णस्तततासां स्वप्राप्त्यर्थव्रताचरणपूर्वकं दव्याराधनमाभप्रत्य ज्ञात्वा तासां कर्मसिद्धये स्नानपूजादिक्रियाफलदानाय वयस्यैः सखिभिर्वृतस्तत्रागत इत्यन्वयः। तदाराधनज्ञाने प्रत्येक तासा तादृङ्मनोरथपूरणे सामर्थ्ये च हेतुमाह—योगेश्वराणामपीश्वर इति। ननु “कात्यायन्याराधनफलंतयैव देयम्, कृष्णस्तत्कथं दातुं गतः ?” इत्याशङ्क्याह—भगवानिति। ‘नहि भगवान् देव्यधीनः, येन तया तस्य तासां पतित्वं सम्पादनीयम्, स्वतन्त्रत्वात्’। अतः “अर्चिष्यन्ति मनुष्यास्त्वा सर्वकामवरेश्वरीम्"इति स्वयमेव देव्यै वरप्रदानात् तस्य यथार्थत्वसम्पादनार्थ स्वयमेवागत इत्याशयः॥८॥ तत्रागत्य च तासां वासास्युपादाय गृहीत्वा सत्वरः त्वरया सहितो नीप कदम्बमारुह्य हसद्भिर्बालैः सह स्वयमपि प्रहसन् परिहासवचनमुवाच। भगवल्लीलाया आश्चर्यं सूचयति—हेति॥९॥ तद्वचनमेव दर्शयति—अत्रेति। हे अबलाः!अत्रागत्य काम यथेष्ट स्व स्व वासःप्रगृह्यताम्। इदं सत्यमेव ब्रवाणि, नो नर्म न
भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः॥ वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये॥८॥
तासां वासास्युपादाय नीपमारुह्य सत्वर॥ हसद्भिः प्रहसन् बालैः परिहासमुवाच ह॥९॥
अत्रागत्याबलाःकाम स्व स्व वासःप्रगृह्यताम्॥ सत्य ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिता॥१०॥
न मयोदितपूर्व वा अनृत तदिमे विदुः॥ एकैकशः प्रतीच्छध्व सहैवोत सुमध्यमाः॥११॥
तस्य तत् क्ष्वेलित दृष्ट्वा गोप्यः प्रेमपरिप्लुताः। व्रीडिताः प्रेक्ष्य चान्योन्य जातहासा न निर्ययुः॥१२॥
एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतस॥आकण्ठमनाः शीतोदे वेपमानास्तमब्रुवन्॥१३॥
परिहासम्। तत्र हेतुमाह—यत् यस्मात् यूय व्रतेन कर्शिताः श्रान्ताः। एवंभूतासु नर्मवचनं नोचितमित्याशयः॥१०॥ स्ववचने ससाक्षिकप्रामाण्यमाह— नेति। मया अनृत नोदित पूर्वम्, मया पूर्व कदाप्यनृत नोक्तमित्यर्थः। तत् अनृतस्यानुक्तपूर्वत्व इमे गोपा विदुर्जानन्ति। परिहासमेव सूचयन् सम्बोधयति—सुमध्यमा इति। अतः एकैकशोऽत्रागत्य, उत अथवा सहैवागत्य वासांसि प्रतीच्छध्व स्वीकुरुत। अत्र नास्माकमाग्रहः॥११॥ तदेव वस्त्राहरणादिरूपं तस्य क्ष्वेलितं दृष्ट्वा प्रेम्णा परिप्लुता व्याप्ता, अन्योन्य वीक्ष्य व्रीडिताश्च, जातो हासो यासां ता गोप्यो जलाद्बहिर्न निर्ययुः॥१२॥ गोविन्दे श्रीकृष्णे एवं ब्रुवति सति नर्मणा तत्परिहासवाक्येन आक्षिप्त आकृष्ट चेतो यासां ताः, शीतोदके आकण्ठ मग्नाः, अत एव वेपमानाः सञ्जातकम्पा गोप्यस्त कृष्णमब्रुवन्॥१३॥
तासां वाक्यान्याह—माऽनयमिति द्वयेन। तेन स्वाभेद सूचयन्त्यः सम्बोधयन्ति—भो अङ्गेति। अनयमन्याय्य मा कृथाः। बहुभिर्गोपैः सह वर्तमानेन कुलस्त्रीणामङ्गदर्शनमन्याय्यमेवेत्याशयः। “यदि कश्चिदज्ञातः पुरुष एवमन्याय्यं कुर्यात्तदा तस्याज्ञातत्वादेव तथाऽपयशो न स्यात्, तव तु ज्ञातत्वात् तत् स्यादेव” इत्याशयेनाहुः—त्वां तु वयं जानीम इति। ज्ञाने हेतुमाह—व्रजश्लाघ्यमिति। तत्रापि हेतुमाहुः—नन्दगोपसुतमिति। राजपुत्रत्वादित्यर्थः॥ “गोपानामग्रे एव नग्नदर्शनादेतैर्व्रजे कथनेन तवापकीर्तिःस्यादेव साचास्माकं दुःसहा, प्रियत्वात्” इति सूचयन्त्य आहुः—प्रियमिति। अतोऽस्मद्वासांसि देहि। दययाऽपि तद्दान युक्तम्, यतो वयं शीतेन वेपिताः कम्पिता इति॥१४॥ अन्या आहुः—श्यामसुन्दरेति। सम्बोधनेन ‘अस्मद्वाक्ये न त्वया प्रतारणतोद्भावनीया, तव सौन्दर्येण वशीकृतत्वात्’ इति सूचयन्ति। वयं च तव दास्यः अतस्तवोदित त्वदुक्तं सर्व करवाम करिष्यामः एव। वासांसि देहि ‘वस्त्रदान तव युक्तमेव, धर्मज्ञत्वात्। धर्मशास्त्रे च—“कृन्यायोनि पशुक्रीडा नग्नस्त्रीं प्रकटस्तनीम्॥ उन्मत्त पतित क्रुद्ध यन्त्रस्थ नावलोकयेत्”
मानय भो कृथास्त्वां तु नन्दगोपसुत प्रियम्॥ जानीमोऽङ्ग व्रजश्लाघ्य देहि वासांसि वेपिताः॥१४॥
श्यामसुन्दर ते दास्यः करवाम तवोदितम्॥ देहि वासांसि धर्मज्ञ नोचेद्राज्ञे ब्रुवामहे॥१५॥
॥श्रीभगवानुवाच॥
भवत्यो यदि मे दास्यो मयोक्त वा करिष्यथ॥ अत्राऽऽगत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः॥१६॥
ततो जलाशयात् सर्वा दारिका शीतवेपिताः॥ पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः॥१७॥
इति नग्नदर्शननिषेधादित्यभिप्रेत्य सम्बोधयन्ति—धर्मज्ञेति। अन्या आहुः—नो चेदिति। हे कृष्ण !यदि वासांसि न ददासि तर्हि राज्ञे व्रजराजाय नन्दायेद वृत्त ब्रुवामहे कथयिष्यामः इत्यर्थः॥१५॥ ‘मत्प्राप्त्यर्थ व्रतार्चनादिकं कृत्वा साक्षान्मत्प्राप्तौ सत्या लज्जाप्रतिबन्धको न युक्त’ इति सूचयन् सम्बोधयति— शुचिस्मिता इति। भवत्यो यदि मे दास्यो मदुक्त च करिष्यथ तदा नहि स्वामिनोक्त किञ्चित् कार्य किञ्चिन्न कार्यमिति युक्तम्, किन्तु सर्वमेव कार्यम्। अतोऽत्रागत्य स्ववासांसि प्रतीच्छन्तु गृह्णन्तु॥१६॥ ‘सत्य यदर्थो व्रतचर्यादिश्रमस्तदाज्ञोल्लङ्घन न युक्तम्’ इत्यभिप्रेत्य पाणिभ्या योनिमाच्छाद्य बहिः शीतेन वेपिताः कम्पयुक्ता अन्तश्च शीतेन कर्शिताः क्लिष्टाः सर्वा दारिकास्ततो जलाशयात् कालिन्दीसलिलात प्रोत्तेरुः निर्जग्मुः॥१७॥
ततस्तासां शुद्धभावेन परमया भक्त्या प्रसादित, अत एव तासु प्रीत प्रीतियुक्तो भगवान् आहता155 हन्तेर्गत्यर्थकत्वात् आगता कुमारिका वीक्ष्य वासांसि कदम्बस्कन्धे निधाय सस्मितंयथा तथा प्रोवाचेत्यन्वयः॥१८॥ भगवद्वचनमाह—यूयमिति। धृतव्रताः सत्योपि यूय विवस्त्राः सत्यो यदपो व्यगाहत विशेषेण आलोडितवत्यः तदेतत् देवाना हेलन व्रतवैगुण्यसम्पादकः अपराध एव। ‘उ’ इत्येवकारार्थ। “अप्स्वग्निर्देवताश्च तिष्ठन्ति अतो नाप्सु मूत्रपुरीष कुर्यान्न ष्ठीवेन्न विवसनः स्नायात् गुद्यो वा एषोग्निः"इति श्रुतेः। अतः अंहसः पापस्यापनुत्तये निवृत्त्यर्थ मूर्ध्न्यञ्जलि बद्ध्वाअधो नमः कृत्वा वसन प्रगृह्यताम्॥१९॥ इत्येवमच्युतेन पूर्णगुणेन कृष्णेनाभिहित कथित श्रुत्वा विवस्त्राप्लवन नग्नस्नान व्रतस्य च्युति च्युतिहेतु मत्वा तस्य व्रतस्य पूर्तिकामाः तस्य व्रतस्य अशेषाणामन्येषां च कर्मणा साक्षात्कृत फलरूप त कृष्णमेव नेमुः। तत्प्रणामे हेतुमाह—अवद्यमृग्यत इति।
भगवानाहता वीक्ष्य शुद्धभावप्रसादितः॥ स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम्॥१८॥ यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत्तदु देवहेलनम्॥ बद्ध्वाऽञ्जलि मुर्ध्न्यपनुत्तयेंऽहस कृत्वा नमोऽधो वसनं प्रगृह्यताम्॥ १९॥ इत्यच्युतेनाभिहितं156 व्रजाबला मत्वा विवस्त्राप्लवन व्रतच्युतिम्॥ तत्पूर्तिकामास्तदशेषकर्मणां साक्षात् कृत नेमुरवद्यमृग्यतः॥२०॥ तास्तथाऽवनता दृष्ट्वा भगवान् देवकीसुतः॥ वासांसि ताभ्यःप्रायच्छत् करुणस्तेन तोषितः॥ २१॥ दृढ प्रलब्धास्त्रपयाऽवहापिता157ः प्रस्तोभिताः क्रीडनवच्च कारिताः॥ वस्त्राणि चैवापहृतान्यथाप्यमु ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः॥ २२॥
यतः यस्मात् स एव अवद्यमृक् सर्वपापनिवर्तकः। ‘इत्यच्युतेनाभिहिता’ इति पाठान्तरम्॥ २०॥ तथा स्वोक्तप्रकारेणावनतास्ता कुमारिका दृष्ट्वा तेन प्रणामेन तोषितो भगवान् देवकीसुतः कृष्णस्ताभ्यो वासांसि प्रायच्छत् प्रददौ। ‘कथं प्रणाममात्रेणैव सन्तोषः’ तत्राह—करुण इति॥ २१॥ गोपीनां शुद्धभावमेव स्पष्टयति—दृढमिति। यद्यपि दृढमत्यर्थ प्रलब्धाः’यूय विवस्त्रा’ इत्यादिनाऽधिक्षिप्तां त्रपया लज्जया अवहापिताःत्याजिताः, ‘अत्रागत्य स्ववासांसि प्रतीच्छन्तु’ इत्यादिना प्रस्तोभिताः, ‘सत्य ब्रवाणि नो नर्म’ इत्यादिना उपहसिताः, क्रीडनवच्च कारिताः’बद्ध्वाञ्जलिम्’ इत्यादिना, प्रायश्चित्तव्याजेन वासांसि च तासा अपहृतानि, तथापि ताः कुमारिका अमु कृष्ण नाभ्यसूयन् उक्तदोषदृष्ट्या नापश्यन्। प्रत्युत प्रियस्य तस्य कृष्णस्य सङ्गेन निर्वृताः परमानन्दयुक्ता एव जाताः॥२२॥
ततः स्वस्ववासांसि परिधाय तस्मिन् श्रीकृष्णविषये लज्जायित लज्जाविलसितमीक्षण यासां तथाभूताः सत्यस्ततः स्थानान्नो चेलुरित्यन्वयः। तत्र हेतुमाह—गृहीतचित्ता इति। श्रीकृष्णमाधुर्येण गृहीत वशीकृत चित्त यासां ताः। एतदेव स्पष्टयति—प्रेष्ठेति। प्रेष्ठस्य अतिशयप्रीतिविषयस्य तस्य सङ्गमेन सज्जिता वशीकृता इत्यर्थः॥२३॥ ‘भूयान्नन्दसुतः पति’ इत्युक्तत्वात् पतिभावेन स्वपादस्पर्शेच्छया धृत व्रतमाहारादिनियमपूर्वक, देव्यर्चन याभिस्तासा सङ्कल्प स्वेन सह सम्भोगविषयकं भगवान् कृष्णो विज्ञाय ता अबलाः प्रत्याहेत्यन्वयः। ‘अबला’ इति पदेन तासां दीनता सूचिता। भक्तिस्तु व्रतकरणात् स्पष्टैव। ‘भगवानपि भक्तप्रेमवश्यतया बन्धनमपि प्राप्तः, ततः किमधिकम्?’ इति तस्य भक्तवात्सल्य सूचयन्नाह—दामोदर इति॥२४॥ मदर्चन मत्प्राप्त्यर्थं कात्यायन्यर्चन तथा भवतीना सङ्कल्पः पतित्वेन मया सह रमणविषयको मनोरथश्च युष्माभिर्लज्जया अकथितोऽपि मया
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः॥ गृहीतचित्ता नो चेलुस्तस्मिँल्लज्जायितेक्षणाः॥२३॥
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया॥ धृतव्रतानां सङ्कल्पमाह दामोदरोऽबला॥२४॥
सङ्कल्पो विदित साध्व्योभवतीनां मदनम्॥ मयाऽनुमोदितः सोऽसौ सत्यो भवितुमर्हति॥२५॥
न मय्यावेशितधियां कामःकामाय कल्पते॥ भर्जिता158 क्वथिता धाना प्रायो बीजाय नेष्यते॥२६॥
विदितः, मयाऽनुमोदितः, अङ्गीकृतश्च। अत सोऽसौ सङ्कल्पःसत्यो यथार्थः सफलो भवितुमर्हतीत्यन्वयः॥२५॥ ‘स च मोक्षपर्यवसायी भविष्यति’इत्याशयेनाह—न मयीति। मयि आवेशिता धीर्यैस्तेषां कामः विषयभोगसङ्कल्पः कामाय पुनः संसारविषयभोगाय न कल्पते। अन्येषां सङ्कल्पो यथापुनः संसारविषयभोगहेतुर्भवति तथा तद्धेतुर्न भवतीत्यर्थः। तत्र दृष्टान्तमाह—भर्जितेति। भर्जिता दग्धा, क्वथिता रन्धिता वा धाना यवादिरूपा यथा प्रायो बीजाय पुनरङ्कुरोत्पादनाय नेष्यते नाङ्गीक्रियते, तथा मदावेशितचित्तानामपि सकलकर्मवासनाना दग्धत्वान्न पुनः संसारागम इत्यर्थः। ‘धानाः’ इति बहुवचनान्तपाठः, तथा ‘नेशते’ इति पाठश्च दृश्यते, तत्र समर्था न भवन्तीत्यर्थः॥२६॥
हे अबलाः ! यूयं व्रज यात गच्छत, यतःसिद्धाःपूर्णमनोरथाः। ननु ‘भवत्सम्बन्धस्य अजातत्वात् कथं सिद्धमनोरथत्वम्?‘अत आह—यदिति। ‘पतिव्रतानां मनोरथः कथं न सिद्ध्येत्?’ इति सूचयन् सम्बोधयति—सतीरिति। हे सत्यः !यत् मया सह रमणमुद्दिश्य सङ्कल्प्य इदं व्रतमार्यायाः कात्यायन्याःअर्चनं च चेरुः कृतवत्यस्तत् इमाः आगामिनीः शरद्रात्रीर्मया सह रस्यथ रमण प्राप्स्यथेत्यन्वयः॥२७॥ इत्येव भगवता आदिष्टा आज्ञप्ताः लब्धकामाः वरदानेन प्राप्तमनोरथाश्च कुमारिकाः तत्पार्श्वस्य दुस्त्यजत्वात् कृच्छ्रात् महता कष्टेन तस्य पदाम्बुजं ध्यायन्त्यो व्रजं निर्विविशुरित्यन्वयः॥२८॥ अथेति कालान्तर लीलान्तर च ज्ञापयति। न चेयं तद्दिनलीला, ‘निदाघार्कातपे तिग्मे’ इति ज्ञापकात् पूर्वं हेमन्तस्योक्तत्वात्॥ गोपैः परिवृतः सहाग्रजश्च भगवान् देवकीसुतःकृष्णो गाश्चारयन् वृन्दावनाद्दूर गत इत्यन्वयः॥२९॥ तिग्मे तीक्ष्णे निदाघार्कातपे स्वाभिः छायाभिरात्मनः स्वस्य आतपत्रा-
याताबला व्रज सिद्धा मयेमा रंस्यथ क्षपाः॥ यदुद्दिश्य व्रतमिदं चेरुरार्यार्चन सतीः॥२७॥
॥श्रीशुक उवाच॥
इत्यादिष्टा भगवता लब्धकामाःकुमारिकाः॥ ध्यायन्त्यस्तत्पदाम्बुजं कृच्छ्रान्निर्विविशुर्व्रजम्॥२८॥
अथ गोपैः परिवृतो भगवान् देवकीसुतः॥ वृन्दावनाद्गतो दूरं चारयन् गाः सहाग्रजः॥२९॥
निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः॥ आतपत्रयितान् वीक्ष्य द्रुमानाह व्रजौकस॥३०॥
हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन॥ विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप॥३१॥
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान्॥ वातवर्षातपहिमान सहन्तो वारयन्ति नः॥३२॥
अहो एषां वरं जन्म सर्वप्राण्युपजीवनम्॥ सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः॥३३॥
यितान् छत्राकारेण स्थितान् वृक्षान् वीक्ष्य भगवान् व्रजौकसो गोपान् प्रत्याहेत्यन्वयः॥३०॥ तत्र गोपास्तत्तन्नाम्ना सम्बोधयति—‘हे स्तोक कृष्ण ! इत्यादिना॥३१॥ एतान् महाभागान् वृक्षान् पश्यत। ‘कथमेषां महाभागत्वम्? ‘तत्राह—परार्थमेव निश्चयेन जीवित येषां तान्। एतदेव स्पष्टयति—वातेति। स्वयं वातादीन् सहन्तः सहमाना अपि नोऽस्माकं वातादीन् वारयन्तीति॥३२॥ परोपकारिणां जन्म श्रेष्ठ भवति, तत्राप्येषां तु जन्म अहो आश्चर्यं वरं श्रेष्ठम्। तत्र हेतुमुपकारमाह—सर्वप्राणिनामुपजीवनं जीविकासाधनमिति। एतदेव सदृष्टान्तमाह—सुजनस्येति। यथा सुजनस्य कृपालोर्गृहे आगता अर्थिनो जना विमुखा निष्फला न यान्ति, तथा येषां वृक्षाणा स्थाने आगता अपि जना विमुखा नैव यान्तीत्यर्थः ‘वै’ अवधारणे॥ ३३॥
एतदेव स्पष्टयति—पत्रादिभिर्जनानां कामान् मनोरथान् वितन्वते पूरयन्ति। निर्यासो घनरसः, अस्थि काष्ठम्, तोक्माः पल्लवाद्यङ्कुराः॥ ३४॥यत् सदा प्राणादिभिर्देहिषु श्रेय एवाचरेत्। एतावतैव इह संसारे देहिना जन्मनःसाफल्यमित्यन्वयः॥ प्राणैः प्राणानामादरणकर्मभिः। अर्थैर्धनादिभिः। धिया हितचिन्तनेन। वाचा हितोपायोपदेशेन॥३५॥ इत्येव वृक्षानभिनन्दन् भगवान् प्रवालादीनामुत्करैः समूहैर्नम्रा शाखा येषां तेषां तरूणां मध्येन मध्यवर्तिमार्गेण यमुना गतः। तत्र प्रवालाःकोमलपत्राणि, स्तबकाः पुष्पगुच्छाः, दलानि पुष्पपत्राणि॥३६॥ हे नृप !तत्र यमुनाया गोपागाः अपः पाययित्वा ततस्तदनन्तर स्वयमपि स्वादु जल काम यथेष्टं पपुः। सुमृष्टाः स्वच्छाः, शिवाः आरोग्यकराः॥३७॥ तस्या यमुनाया उपवने
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः॥ गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते॥३४॥
एतावज्जन्मसाफल्यं देहिनामिह देहिषु॥ प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा॥३५॥
इति प्रवालस्तबकफलपुष्पदलोत्करैः॥ तरूणां नम्रशाखानांमध्येन यमुनां गतः॥३६॥
तत्र गाः पाययित्वाऽप सुमृष्टाःशीतलाःशिवाः॥ ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम्॥३७॥
तस्या उपवने काम चारयन्तः पशून्नृपः॥ कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन्॥३८॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे चीरहरणनिरूपणं नाम
द्वाविंशोऽध्यायः॥२२॥ गोपा ऊचुः॥॥ राम159 राम महावीर्य कृष्ण दुष्टनिबर्हण॥
एषा वै बाधते क्षुन्नस्तच्छान्ति कर्तुमर्हथः॥१॥
काम यथेच्छ पशून् चारयन्तः क्षुधार्ता गोपा कृष्णरामावुपागम्य हे नृप !इदं वक्ष्यमाणमब्रुवन्॥३८॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना। श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥ १॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ द्वाविंशो विवृतश्चीरहरणस्य निरूपकः॥ ३॥ त्रयोविंशे स्वंपूर्णस्य कृष्णस्य जगदीशितु॥ कृपया विप्रपत्नीभ्यो ह्यन्नयाञ्चानिरूप्यते॥ १॥ गोपवाक्यमाह—रामरामेति।
ज्येष्ठत्वात् प्रथमं रामसम्बोधनम्। वीप्सा आदरार्थी। ‘बाधानिवर्तने सामर्थ्यं तवास्ति’ इत्याशयेन सम्बोधयन्ति—हे महावीर्येति। ‘क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः’ इति श्रुतेः’क्षुधोऽपि शत्रुत्वात् सर्वशत्रुविनाशकस्य तव क्षुन्निवर्तकत्वमप्यावश्यकम्’ इत्याशयेन कृष्णः सम्बोधयन्ति—हे कृष्ण !हे दुष्टनिबर्हणेति। एषा क्षुत्नोऽस्मान् बाधते पीडयति, अतस्तस्याः शान्तिं निवृत्ति कर्तुं युवामर्हथः॥१॥ इत्येव गोपैर्विज्ञापितः क्षुन्निवृत्त्यर्थ प्रार्थितो भगवान् देवकीसुतः कृपालुः कृष्णः भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत्। ‘भक्ताया’ इति प्रसादे हेतुः सूचितः। एकवचन तु सद्यः सायुज्य गता तदभिप्रायेण, जात्यभिप्रायेण वा॥२॥ भगवद्वचनमाह—प्रयातेति द्वयेन। हे गोपाः!ब्रह्मवादिनः वेदार्थोपदेष्टारो ब्राह्मणाः स्वर्गकाम्यया स्वर्गप्राप्तीच्छया आङ्गिरस नाम सत्रयागमासते अनुतिष्ठन्ति, तद्देवयजनं यज्ञवाटं प्रयात गच्छत। तत्प्रसिद्धिः द्योतयति—हीति॥३॥ तत्र
॥श्रीशुक उवाच॥
इति विज्ञापितो गोपैर्भगवान् देवकीसुतः॥ भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत्॥२॥
प्रयात देवयजन ब्राह्मणा ब्रह्मवादिनः॥सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया॥३॥
तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः॥ कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्॥४॥
इत्यादिष्टा भगवता गत्वाऽयाचन्त ते तथा॥ कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि॥५॥
हे भूमिदेवाः शृणुत कृष्णस्याऽऽदेशकारिण॥ प्राप्तान् जानीत भद्र वो गोपान्नो रामचोदितान्॥६॥
गत्वा च तेभ्य ओदन याचत। एवमुक्तेऽपि याचने विलज्जमानान् दृष्ट्वाऽऽह—अस्मद्विसर्जिता इति। आवाभ्यांप्रहिताः, अतो युष्माकं का तत्र लज्जेत्याशयः। ननु “एवमपि युवा को वा जानाति? याचन तु साक्षादस्माकमेव, अतो लज्जा कुतो न?“तत्राह—आर्यस्य रामस्य मम चाभिधा नाम कीर्तयन्त इति। ‘तथाप्यपात्रत्व मत्वा कथं दास्यन्ति’ इत्याशङ्क्याह—भगवत इति॥४॥ इत्येव भगवता आदिष्टा आज्ञप्तास्ते गोपास्तत्र गत्वा कृताञ्जलिपुटा भूत्वा प्रथम दण्डवत् भुवि पतितास्तत्तस्तथा भगवदुक्तप्रकारेण विप्रान् अयाचतेत्यन्वयः॥५॥ तत्र प्रथम तेषा महत्त्व स्वदैन्य चसूचयन्तस्तान् सावधानीकुर्वन्ति—हे भूमिदेवाः !‘शृणुतेति। अस्मद्वाक्याङ्गीकारे वो युष्माकं भद्र कल्याणमेव ‘भविष्यति’ इति शेषः। ‘यूय के’ इत्यपेक्षायामाहुः—कृष्णस्यादेशः आज्ञा, तत्कारिणः रामेण चोदितान् युष्मत्सन्निधौ प्राप्तान् नोऽस्मान् गोपान् जानीतेत्यन्वयः॥६॥
‘किमर्थ प्राप्तास्तत् कथयत’ इत्यत आहुः— गा इति। इतोऽविदूरे निकट एव वर्तमानौ रामाच्युतौ वो युष्माकमोदनमन्न लषतःअभिलषतः। तत्र हेतुमाहुः—बुभुक्षिताविति। समीपागमने हेतुमाहुः—गाश्चारयन्ताविति। ‘क्षुधितेभ्योऽन्नप्रदान धर्म, इति तु युष्माकं विदितमेव’ इति सूचयन्तः सम्बोधयन्ति—धर्मवित्तमा इति। धर्मविदा मध्ये अतिशयिताः। तत्र हेतुत्वेन पुनः सम्बोधयन्ति—द्विजा इति। अतो वो युष्माकं यदि ओदन श्रद्धा चास्तितर्हि अन्नार्थिनोस्तयो रामकृष्णयोर्यच्छत॥७॥ “दीक्षितान्न न भुञ्जीत” इति वचनात् ‘वयं दीक्षिता अभोज्यान्ना’ इति वदिष्यन्ति इत्याशङ्क्य स्वयमेवाहुः—दीक्षाया इति। दीक्षानन्तर पशुसंस्थायाः अग्नीषोमीयपश्वालम्भात् पूर्वमेव तदन्नभक्षण निषिद्धम्, तथा सौत्रामण्यामिष्टया चाश्नन् दुष्यति। अन्यत्र पशुसंस्थानन्तर सौत्रामण्या अन्यदा च दीक्षितस्याप्यन्नमश्नन्न दुष्यति॥ हीति शास्त्र प्रमाण सूचयन्ति। तथाच पश्वाम्भस्य जातत्वान्न यूयमभोज्यान्ना इति भावः॥८॥ इत्येव गोपमुखेन भगवतो याच्ञा ते ब्राह्मणाः शृण्वन्तोऽपि न शुश्रुवुःदत्तचित्ता न जाताः। तत्र हेतुमाह—क्षुद्राशा इति। क्षुद्रे तुच्छे स्व-
गाश्वारयन्तावविदूर ओदन रामाच्युतौ वो लषतो बुभुक्षितौ॥ तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमा॥ ७॥ दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः। अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति॥८॥ इति ते भगवद्याच्ञांशृण्वन्तोऽपि न शुश्रुवुः॥ क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः॥९॥ देशः कालःपृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः॥ देवता यजमानश्च क्रतुर्धर्मश्च यन्मय॥ १०॥तं ब्रह्म परमं साक्षाद्भगवन्तमधोक्षजम्॥ मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे॥११॥ न ते यदोमिति प्रोचुर्न नेति च परतप॥ गोपा निराशा प्रत्येत्य तथोचु कृष्णरामयो॥१२॥
र्गादावेवाशा मात्र येषां ते। तथाप्यन्नमात्रप्रदानेन भगवतः सन्तोषे महत्फल भवेत् ‘तत् कुतो न कृतवन्तः?तत्राह—भूरिकर्माण इति। भूरीण्येव कर्माणि येषां ते। महत्सु कर्मस्वेव श्रद्धायुक्ताः॥ तत्र हेतुमाह—बालिशा अज्ञा इत्यर्थः। न च ते शिक्षायोग्याः, यतो वृद्धमानिनो ‘वयं ज्ञानवृद्धा’ इत्यभिमानवन्तः॥९॥ ननु ‘कर्मक्रममुल्लङ्घ्यादेशेऽकाले देवतार्थमन्नमन्यस्मै कथं देयम्’ इत्याशङ्क्याह—देश इति। पृथक् चरुपुरोडाशादि द्रव्यम्, तन्त्र प्रयोग, धर्मोऽपूर्वम्॥१०॥ देशादिप्रत्येक यन्मयः यद्विभूतिरूपस्तत्साक्षात परमब्रह्म, अत एवाधोक्षज इन्द्रियजन्यज्ञानागोचरमपि कृपयाविर्भूत भगवन्तमैश्वर्यादि- गुणपूर्ण ते ब्राह्मणा ‘मनुष्योऽयम्’ इति दृष्ट्या न मेनिरे, नादृतवन्त इति द्वयोरन्वयः’। तत्र हेतुमाह—मर्त्यात्मान इति। मर्त्ये देहे आत्माभिमानिनो ‘ब्राह्मणा वयं महान्त’ इति मन्यमाना इत्यर्थः। तत्र हेतुमाह—दुष्प्रज्ञा इति। दुर्बुद्धय इत्यर्थः॥११॥ ‘त्वमेव देहाद्यभिमानमदपरित्यागे समर्थोऽसि’ इति सूचयन् सम्बोधयति—परतपेति। यदा ते ब्राह्मणाः ‘सम्प्रति ब्राह्मणभोजननिष्पत्तेःपूर्वमेव गोपालकेभ्य कथं दास्याम’ इत्यभिमानेन ‘ओं दास्याम’
इति नोचु, तथा “यदि ब्राह्मणभोजननिष्पत्त्यनन्तरमन्नमुर्वरित भविष्यति तदा दास्याम, इदानीं तु न"इति भावेन ‘न’ इति च न प्रोचुस्तदा अन्नलाभे निराशा गोपा रामकृष्णौ प्रत्येत्य आगत्य तथा यथा तत्र वृत्त तत् ऊचुरित्यन्वयः। षष्ठी द्वितीयार्थे॥१२॥ तत् गोपैर्वर्णित ब्राह्मणदुश्चेष्टितमुपाकर्ण्यश्रुत्वा, भगवान् खिन्नान् गोपान् परिसान्त्वयन् प्रहस्य लौकिकीं “को वा याचको न पराभूयते?’ तथापि कार्यार्थिनो न निर्विद्यन्ते, भक्तिहीनाः पण्डिता अपि मुह्यन्त्येव” इत्यादिलोकस्थिति दर्शयन् गोपान् प्रति पुनर्व्याजहार उक्तवानित्यन्वयः। ननु ‘सामर्थ्यस्य विद्यमानत्वात् दुष्टेषु तेषु कोप एव युक्त’ इत्याशङ्क्य ‘जगत्पालकत्वेन धर्ममर्यादारक्षणार्थ तेन ब्राह्मणेषु क्षमैव कृता’ इत्याशयेनाह—जगदीश्वर इति॥१३॥ तद्वाक्यमाह—मामिति। अत्रागत ससङ्कर्षण क्षुधित मा ब्राह्मणपत्नीभ्यो ज्ञापयत, ता वो युष्मभ्य काम यथेष्टमन्न दास्यन्ति। यतो देहमात्रेणैव गृहे वसन्ति, धिया तु मय्येवोषिताः।
तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वर॥व्याजहार पुनर्गोपान् दर्शयँल्लौकिकी गतिम्॥१३॥
मां ज्ञापयत पत्नीभ्य ससङ्कर्षणमागतम्॥दास्यन्ति काममन्न व स्निग्धा मय्युषिता धिया॥१४॥
गत्वाऽथ पत्नीशालायां दृष्ट्वाऽऽसीना स्वलङ्कृताः॥ नत्वा द्विजसतीर्गोपा प्रश्रिता इदमब्रुवन्॥१५॥
नमो वो विप्रपत्नीभ्यो निबोधत वचांसि न॥ इतोऽविदूरे चरता कृष्णेनेहेषिता वयम्॥१६॥
गाश्चारयन् स गोपालै सरामो दूरमागत॥ बुभुक्षितस्य तस्यान्न सानुगस्य प्रदीयताम्॥१७॥
श्रुत्वाऽच्युतमुपायात नित्य तद्दर्शनोत्सुकाः॥ तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमा॥१८॥
तत्र हेतुः—मयि स्निग्धा इति॥१४॥ अथ भगवदाज्ञानन्तर ते गोपाःपुनर्यज्ञवाट गत्वा तत्र पत्नीशालायामासीना उपविष्टाःस्वलङ्कृताः द्विजसती ब्राह्मणपत्नीर्दृष्ट्वा नत्वा प्रश्रिता नम्रीभूताश्च सन्त इदं वचनमब्रुवन्नित्यन्वयः॥१५॥ तद्वाक्यमाह—नम इति। विप्रपत्नीभ्यो वो युष्मभ्य नमः। नोऽस्माकं वचांसि निबोधत। एव सावधानीकृत्याहुः—इतः अविदूरे समीपे विचरता कृष्णेन वयमिह युष्मन्निकटे ईषिताः प्रेषिताः स्म॥१६॥ ‘किमर्थम्’ तत्राहुः—सः कृष्णः गोपालैः रामेण च सहितो गाश्चारयन् गृहात् दूरमत्रागतः, अतो बुभुक्षितश्च। अतः सानुगस्य अस्मदाद्यनुगैः सहितस्य बुभुक्षितस्य तस्यान्न प्रदीयतामित्यन्वयः॥१७॥ ताश्च अच्युत कृष्णमुपायात समीपमागत श्रुत्वा जातसम्भ्रमा अनवस्थितचित्ता बभूवुः। तत्र हेतुमाह—नित्य तस्य दर्शने उत्सुकमुत्साहो यासां ता इति। तत्रापि हेतुमाह—तस्य कथाश्रवणेन आक्षिप्तमाकृष्ट मनो यासां ताः॥१८॥
बहुगुण संस्कारविशेषैर्बहवो रससौरभ्यादयो गुणा यस्मिंस्तत् भक्ष्यादिभेदैश्चतुर्विधमन्नं भाजनैः पृथक्पात्रैरादाय पत्यादिभिर्वार्यमाणा अपि प्रियंश्रीकृष्णमभिसस्रुःअभिजग्मुः। प्रतिबन्धानुल्लङ्घ्य गमने दृष्टान्तमाह—समुद्रमिव निम्नगा नद्य इति। यत्र दन्ताना विनियोगोऽस्ति तत् भक्ष्य चर्वणादि, यत्र दन्तविनियोगो नापेक्ष्यते तद्भोज्यमोदनादि, लेह्य दध्यादि, चोष्य इक्षुदाडिमाम्रादि॥१९॥ तथागमने हेतुः—भगवतीति। उत्तमश्लोके उत्तमयशसि दीर्घ बहुकालं श्रुतेन यशःश्रवणेन धृतः आशयश्चित्त याभिस्ता॥२०॥ अशोकवृक्षाणा नवपल्लवैर्मण्डिते शोभिते यमुनाया उपवने गोपैर्वृत साग्रज रामेण सहित विचरन्त कृष्ण ताःस्त्रियो ददृशुः॥२१॥ ताभिर्दृष्ट शोभातिशययुक्त भगवन्त वर्णयति—श्याममिति। मेघवच्छ्यामवर्णम्। हिरण्यवत् परिधिः परिधान यस्य त पीताम्बरम्। वनमाल्यैः कण्ठस्थितै पुष्पमालाभिः, र्बहैःशिरसि धारितैः मयूरपिच्छैः, धातुभिः गैरिका-
चतुर्विध बहुगुणमन्नमादाय भाजनैः॥ अभिसस्रुःप्रिय सर्वा समुद्रमिव निम्नगाः॥१९॥
निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभि सुतैः॥ भगवत्युत्तमश्लोके दीर्घश्रुतधृताशया॥२०॥
यमुनोपवनेऽशोकनवपल्लवमण्डिते॥ विचरन्तं वृत गोपैःसाग्रज ददृशु स्त्रिय॥२१॥
श्याम हिरण्यपरिधिं वनमाल्यबर्हधातुप्रवालनटवेषमनुव्रतांसे॥॥
विन्यस्तहस्तमितरेण धुनानमब्ज कर्णोत्पलालककपोलमुखाब्जहासम्॥२२॥
प्रायःश्रुतप्रियतमोदयकर्णपूरैर्यस्मिन्निमग्नमनसस्तमथाक्षिरन्धैः॥
अन्त प्रवेश्य सुचिर परिरभ्य ताप प्राज्ञ यथाऽभिमतयो विजहुर्नरेन्द्र॥२३॥
दिभिः, प्रवालैः शिरस्यवोभयतो धारितैः कोमलपत्रैश्च नटवद्वेषो यस्यतम्।अनुव्रतस्य सख्यु असे स्कन्धे विन्यस्तःस्थापितो इस्तो येन तम्। इतरेण हस्तेन लीलया अब्ज धुनान भ्रामयन्तम्। कर्णयोरुत्पले यस्य, अलकाःकपोलयोर्यस्य, मुखाब्जे हासो यस्य, त च त च॥२२॥ ‘तस्य दर्शनेन तासामलौकिक्य- वस्था जाता, सा सावधानेन श्रोतव्या’ इत्याशयेन सम्बोधयति—नरेन्द्रेति। प्राय बहुश श्रुता ये प्रियतमस्य कृष्णस्य उदया उत्कर्षास्त एव कर्णपूरा सता कर्णाभरणभूतास्तैर्यस्मिन् श्रीकृष्णे निमग्नमनस आविष्टचित्ताःविप्रभार्याः।अथ दर्शनानन्तरमक्षिरन्धैःद्वारभूतैर्लोचनच्छिद्रैस्त कृष्णमन्तःकरणे प्रवेश्य सुचिर परिरभ्य उपगूह्य संसारताप जहुस्त्यक्तवत्य। तत्र दृष्टान्तमाह—अभिमतयोऽहवृत्तयः प्राज्ञ सुषुप्तिसाक्षिणं परिरभ्य तस्मिन् लय प्राप्य यथा तापं त्यजन्ति तथेति॥२३॥
ता स्त्रियस्तथा प्राप्ता विज्ञाय प्रहसिताननो भगवानाहेत्यन्वय। विज्ञाने हेतुमाह—अखिलहग्द्रष्टेति, सर्वबुद्धिसाक्षी । ‘तथा’ इत्येतद्विवृणोति—त्यक्ता सर्वा गृहापत्यपत्यादिविषया आशा याभिस्ता, अतःकेवलमात्मन स्वस्य दिदृक्षयैव प्राप्ता इति॥२४॥ भगवद्वचनमाह—स्वागतमिति चतुर्भिः। स्वभक्त्या तासां भाग्यमभिनन्दन् सम्बोधयति—महाभागा इति। वो युष्माकं स्वागत शुभागमनम्, आस्यताम् अत्र क्षण विश्राम्यताम् अन्यच्च युष्माकं कार्यं वयं किं करवाम तदुच्यताम्। आगमनस्य शुभत्वे हेतुमाह—यदिति। हि यस्मात् यत् नोऽस्माकं दिदृक्षया प्राप्तास्तदिद वो युष्माकमुपपन्न युक्तमेव॥२५॥ युक्तत्वमेवोपपादयति—नन्विति। ननु निश्चितमेतत्, नात्र सन्देहः। कुशला निपुणा मयि अद्धा साक्षादेव भक्तिं प्रीतिं कुर्वन्तीत्यन्वयः। ‘के ते कुशला’ इत्यपेक्षाया तानाह—स्वार्थदर्शना इति। स्वस्यात्मनोऽर्थं फलं पश्यन्ति ते। लोकेऽप्येवविधानामेव नैपुण्य प्रसिद्धम्। भक्तेः साक्षात्त्वमेव स्पष्टयति—अहैतुक्यव्यवहितामिति। अहैतुकीं फलाभिसन्धिरहिताम्, अव्यवहिता निरन्तराम्। ननु ‘अन्यस्मिस्त्वय्येव निरुपाधिकी
तास्तथा त्यक्तसर्वांशाः प्राप्ता आत्मदिदृक्षया॥ विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः॥२४॥
स्वगतं160 वो महाभागा आस्यतां करवाम किम्॥ यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि व॥२५॥
नन्वद्धामयि कुर्वन्ति कुशलाः स्वार्थदर्शनाः॥ अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा॥२६॥
प्राणबुद्धिमन स्वात्मदारापत्यधनादयः॥ यत्सम्पर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः॥२७॥
तद्यात देवयजनं पतयो वो द्विजातय॥ स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिन॥२८॥
भक्तिः कथंस्यात्’ इत्याशङ्क्य स्वस्य सर्वात्माभेदमभिप्रेत्य दृष्टान्तमाह—आत्मा चासौ प्रियश्च तस्मिन् यथेति॥२६॥ आत्मनः सर्वतःप्रेष्ठत्वमुपपादयति—प्राणेति। प्राणादयो यस्यात्मनः सम्पर्कात् सम्बन्धादेव प्रिया आसस्ततः सकाशादपरः को नु प्रिय स्यादित्यन्वयः। स्वाः ज्ञातयः, आत्मा देहः॥२७॥ तत् तस्मात् मद्दर्शन भक्त्यादिना कृतार्थत्वाद्यूय देवयजनं यज्ञवाट यात गच्छत। ननु ‘कृतार्था वयं किमर्थं गच्छामः’इत्याशङ्क्याह पतय इति। वो युष्माकं पतयो युष्माभिस्तत्र गताभिःसह स्वसत्र पारयिष्यन्ति समापयिष्यन्तीति पतीनामुपकाराय गच्छतेत्यर्थः। सहसत्रपारणे हेतुमाह—द्विजातयो गृहमेधिन इति। द्विजातीना गृहस्थानां भार्यासाहित्येनैव कर्मस्वधिकारादित्याशयः॥२८॥
एवमुक्ता विप्रपत्न्य आहुः—मैवमिति द्वयेन। एवं नृशंस परुषं वचो भवान् गदितुं मार्हति नैव योग्यो भवति, परमाप्तत्वात्। अतः स्वाज्ञारूपं निगम न पुनरावर्तत इति वेदवाक्यं सत्यंकुरुष्व। ननु ‘मद्दासानामेव अपुनरावृत्तिः श्रूयते, न ससारिणाम्’ इत्याशङ्क्याहुः—तवेति। समस्तबन्धून्पतिपुत्रादीन् अतिलङ्घ्य तिरस्कृत्य त्वया यदवसृष्टमवज्ञयाऽपि दत्त तुलसिदाम बहुमानेन केशैर्निवोढु दासीं भवितुं वयं तव पादमूल प्राप्ता इत्यन्वयः। अतो न पुनर्गमन युक्तमिति भावः॥२९॥ यदुक्त ‘पत्युपकाराय गच्छत’ इति तत्राहु—गृह्णन्तीति। नोऽस्मान् पत्यादयो न गृह्णन्ति, तानतिलङ्घ्यागतत्वान्नैव ग्रहीष्यन्तीत्यर्थः। बन्धवो ज्ञातयः, सुहृदो मित्राणि, अन्ये अपरिचिता जना गृहाद्विनिः सृता अस्मान् कुत एव गृह्णीयुः?। ‘प्रतिबन्धकदोषनिवर्तनेऽपि त्वंसमर्थोऽसि’ इति सूचयन्त्यः सम्बोधयन्ति—अरिन्दमेति। तस्मात् भवतःप्रपदयोःपादाग्रयोः पतितात्मना पतितदेहानां नोऽस्माकं
पत्न्य ऊचुः॥
मैवं विभोऽर्हति भवान् गदितुंनृशस सत्य कुरुष्व निगमं तव पादमूलम्॥
प्राप्ता वयं तुलसिदामपदावसृष्टं केशैर्निवोढुमतिलङ्घ्यसमस्तबन्धून्॥२९॥
गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये॥
तस्माद्भवत्प्रपदयोःपतितात्मनां नो नान्या भवेद्गतिररिन्दम तद्विधेहि॥३०॥
श्रीभगवानुवाच॥
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः॥ लोकाश्च वो मयोपेता देवा अप्यनुमन्वते॥३१॥
न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह॥ तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ॥३२॥
श्रीशुक उवाच॥
इत्युक्ता यज्ञपत्न्य161स्ता यज्ञेवाट पुनर्गता॥ ते चानसूयवः स्वाभि स्त्रीभिः सत्रमपारयन्॥३३॥
त्वत्तोऽन्या गतिर्न भवेत् नास्त्येव, अतस्तत् स्वदास्यमेव विधेहि सम्पादय॥३०॥ एव सम्प्रार्थितो भगवानाह—पतय इति। मयोपेताः भक्तत याङ्गीकृता युष्मान् पत्यादयो ये चान्ये लोका जनास्ते केऽपि नाभ्यसूयेरन् दोषारोपेण न पश्येयुः। यज्ञभागिनो देवा अप्यनुमन्वते निर्दोषतयाङ्गीकरिष्यन्ति, अन्यस्य तु का वार्तेत्यर्थः॥३१॥ यद्दास्य प्रार्थित तत्राह—नेति। हि यस्मात् इह संसारे अङ्गसङ्गःदेहाना निकटवर्तित्वं नृणां प्रीतये सुखाय अनुरागाय स्नेहवृद्धये च न भवति, अनादरहेतुत्वात्। तस्मादित्यादि स्पष्टम्॥३२॥ ते च ब्राह्मणाः अनसूयवः तासु स्वाज्ञोल्लङ्घनादिदोषदृष्टिरहिताएव, स्पष्टमन्यत्॥३३॥
तत्र यज्ञवाटे पूर्व गमनस्य एव एका ब्राह्मणी भर्त्रा विधृता गृहीता सती यथाश्रुत भगवन्त हृदा मनसा उपगूह्य कर्मानुबन्धन यस्य तथाभूत स्वदेह विजहौ, विहाय च शुद्धस्वरूपेण भगवन्त प्राप्तेति ज्ञेयम्॥३४॥ भगवानपि ऐश्वर्यादिगुणवत्त्वेन सङ्कल्पमात्रेण अन्नादिसम्पादनसमर्थोऽपि तथा प्रभुरपि राजवदाज्ञयापि तत्सम्पादनसमर्थोऽपि गोविन्दः श्रीकृष्णस्तेनैव भक्तवात्सल्यप्रदर्शनाय विप्रभार्याभ्यो याचितेनैव चतुर्विधान्नेन गोपकान् आशयित्वा स्वयं च तदेव बुभुजे इत्यन्वयः॥३५॥ ‘एवंविधा अनेका भगवल्लीलाः स्वभक्तानां वज्रवासिना प्रमोदायैव’ इति वदन् उपसंहरति—एवमिति। लीलार्थ स्वीकृतनरवपुःश्रीकृष्ण एव नृलोकमनुशीलयन् अनुकुर्वन् गोगोपगोपीनाम् इति कर्मणि षष्ठी। रूपवाक्कृतैः रूपसौन्दर्येण वाङ्माधुर्येण कृतैर्नानाविधचरितैश्चगोपादीन् रमयन् रमयितुं रेमे इत्यर्थः॥३६॥ अथानन्तर यत् यस्मात् मर्त्यविडम्बयोःनरानुकरणवतोर्विश्वेश्वरयोर्याच्ञामहन् हतवन्तः,
तत्रैका विधृता भर्त्रा भगवन्त यथाश्रुतम्॥ हृदोपगुह्य विजहौ देह कर्मानुबन्धनम्॥३४॥
भगवानपि गोविन्दस्तेनैवान्नेन गोपकान्॥ चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभु॥३५॥
एवं लीलानरवपुर्नृलोकमनुशीलयन्॥ रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः॥३६॥
अथानुस्मृत्य162 विप्रास्ते अन्वतप्यन् कृतागसः॥ यद्विश्वेश्वरयोर्याच्ञामहन् मर्त्यविडम्बयोः॥३७॥
दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम्॥ आत्मानं च तया हीनमनुतप्ता व्यगर्हयन्॥३८॥
धिग्जन्मनस्त्रिवृद्विद्यां धिग्व्रत धिग्बहुज्ञताम्॥ धिगलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे॥३९॥
अतः ‘कृतागसो वयम्’ इत्यनुस्मृत्य ते विप्रा अन्वतप्यन्नित्यन्वयः॥३७॥ स्त्रीणां भगवति कृष्णे अलौकिकीमत्युत्कटा भक्ति दृष्ट्वा आत्मान च तथाभक्त्या हीन दृष्ट्वा अनुतप्ताः सन्तः आत्मान व्यगर्हयन् अनिन्दन्॥३८॥ निन्दाप्रकारमाह—धिगिति। धिगिति अधिक्षेपे। अध अक्षज ज्ञानं यस्मात् सः अधोक्षजः अतीन्द्रियः तथाभूतोऽपि कृपया प्रत्यक्षो जातः, तस्मिन् श्रीकृष्णे ये तु वयं विमुखास्तेषां नोऽस्माकं यज्जन्मादि तत् सर्वंधिक् अकिञ्चित्करम् अतितुच्छमित्यर्थः। जन्म विशिनष्टि—त्रिवृदिति। शौक्ल, सावित्रं दैक्ष्य चेति त्रिगुणितम्। विद्या वेदविद्याम्। व्रत ब्रह्मचर्यम्। बहुज्ञता चातुर्यम्। कुल प्रसिद्धम्। क्रियाया दाक्ष्य चातुर्यम्॥३९॥
_______________________________________________________
१.“पश्चात्तापो विगर्हा च हेतुस्तस्य निरूप्यते॥ तथात्वे चापि हेतुर्हि स्वहीनत्व च कर्मभि॥ १॥ संस्काराणा च हेतुत्व भक्तेरन्यच्च साधनम्॥स्वभक्तेर्बोधन हेतुरन्यथा नोपपद्यते॥ २॥ तथात्वसाधन तस्य कर्मवैयर्थ्यबोधनम्॥ द्वाभ्यां रूपद्वयोक्त्यैव स्त्रीसम्बन्धात् कृतार्थता॥३॥ क्षमापन नमस्कारे प्रार्थनाभिर्निरूप्यते॥ अनागमनमिच्छातो भक्त्यैवेयं मतिर्भवेत्॥४॥ ब्राह्मणानामय धर्म स्नेहाच्चापि न बाध्यते॥ भिक्षारूपेण सा याच्या बाध्यते न तु लौकिकी”॥५॥ इति सुबोधिनीकारिका।
“नून निश्चितमेतत् भगवतो माया योगिना ज्ञानयोगचेष्टानामपि मोहिनी, कर्मनिष्ठाना शास्त्रमर्यादारहितानां च मोहिनी, इति तु किं वक्तव्यम्"इति सूचयितुमपिशब्दः। यत् यस्मात् वयं नृणां गुरवः उपदेशकर्तारोऽपि स्वार्थे स्वप्रयोजने मुह्यामहे मुह्यामः। गुरुत्वे हेतुमाहुः—द्विजा इति। “जन्मना ब्राह्मणो गुरुः” इति वाक्यात्॥४०॥ अहो आश्चर्यमेतत्, नारीणामपि कृष्णे दुरन्तमस्माभिः प्रतिरोधे कृतेऽप्यप्रतिबद्ध भाव भक्तिं पश्यतेत्यन्वयः।अपिशब्देन तासां संस्कारादिराहित्येन हीनत्वं सूचयन्तस्तद्भक्तेः प्रत्यक्षसिद्ध माहात्म्यमाहुः—य इति। यो भावः गृहसज्ञान् मृत्युपशान् अविध्यत् अच्छिनत्। एवंप्रभावे हेतु सूचयन्नाहुः—जगद्गुराविति। ब्रह्मादिसर्वपूज्य इत्यर्थः॥४१॥ तासां हीनत्वमेव स्पष्टयन्ति—नेति। द्विजातिसंस्कारः उपनयन, शौचं शुद्धता चैतद्वयं सर्वद्विजातिसाधारणधर्मः। गुरौ निवासः गुरुगृहनिवासपूर्वकवेदाध्ययनं ब्रह्मचारिधर्मः। तपो वनस्थधर्मः। आत्ममीमांसा आत्मविचारो यतिधर्मः। शुभाः क्रियाः सन्धोपासनयज्ञादिरूपाः गृहस्थधर्मः। यद्यप्यासा संस्कारादयो न सन्ति॥४२॥ अथापि तदभा-
नून भगवतो माया योगिनामपि मोहिनी॥ यद्वयं गुरवो नॄणां स्वार्थे मुह्यामहे द्विजा॥४०॥
अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ॥ दुरन्तभावं योऽविध्यन्मृत्युपाशान् गृहाभिधान्॥४१॥
नासां द्विजातिसंस्कारो न निवासो गुरावपि॥ न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः॥४२॥
अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे॥भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि॥४३॥
ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ॥अहो नःस्मारयामास गोपवाक्यैः सतां गति॥४४॥
अन्यथा पूर्णकामस्य कैवल्याद्याशिषा पतेः॥ ईशितव्यैःकिमस्माभिरीशस्यैतद्विडम्बनम्॥४५॥
वेऽपि कृष्णे दृढा भक्तिरस्ति। अस्माकं संस्कारादिमतामपि सा नास्तीत्याश्चर्यम्॥ कृष्णभक्तेर्दुर्लभत्वं सूचयन् विशिषन्ति—उत्तमश्लोके इति। अविद्यानिवर्तकयशसीत्यर्थः। तत्र हेतुमाह—योगेश्वरेश्वरे इति॥४३॥ भगवद्याच्ञाप्रयोजन निश्चिन्वन्त आहुः—नन्विति। ननु निश्वये निश्चितमेतत् स्वार्थेस्वपरमप्रयोजने विमूढानाम् अज्ञानाम्, अत एव गृहस्येहया व्यापारेण प्रमत्ताना विचारेऽप्यसमर्थाना नोऽस्माकं परमफलभूतमात्मानं गोपवाक्यैः स्मारयामासेत्यन्वयः। तदनुग्रहस्याश्चर्य सूचयन्ति—अहो इति। तत्र हेतुमाहुः—सता गतिरिति। सदाचाराणा फलभूत इत्यर्थः॥४४॥ अन्यथा उक्तास्मत्प्रयोजनं विना पूर्णकामस्यास्माभिः किं फलं साधनीयम्? न किञ्चिदित्यर्थः। तत्र हेतुः—ईशितव्यैरिति। तत्परवशतया समर्थैरित्यर्थः। पूर्णकामत्वे ज्ञापकमाहुः—कैवल्येति। मोक्षादिचतुर्विधपुरुषार्थप्रदस्येत्यर्थः। अतः ईशस्य सर्वथा समर्थस्यापि एतत् अन्नयाच्ञादिविडम्बनमस्मदनुग्रहार्थ- मनुकरणमात्रमेवेत्यर्थ॥४५॥
लक्ष्मीसेव्यत्वेनापि भगवतःपूर्णकामत्वमेव सूचयन्तस्तद्याच्ञ्याअपि स्वमोहकत्वमाहुः—हित्वेति। अन्यान् ब्रह्मादीन् हित्वा तथा स्वात्मनो दोषाः चाञ्चल्यगर्वादयः, तेषां अपवर्गेण त्यागेन यस्य पादस्पर्शाशया चरणसेवामनोरथेन यमसकृत् निरन्तरं श्रीलक्ष्मीर्भजते, तस्य या ओदनयाच्ञासा जनाना विज्ञजनानामपि मोहिनीत्यन्वयः॥४६॥ स्वमोहमेव स्पष्टयन्ति—देश इति। देशादिपदार्थः प्रत्येक यन्मयः यद्विभूतिरूपः॥४७॥ स एष साक्षात् पूर्णो भगवान् ऐश्वर्यादिगुणपूर्णःयोगेश्वराणां ब्रह्मादीनामपीश्वरो विष्णुर्यदुषु जात इति आश्रृण्म सर्वत्र श्रुतवन्तोऽपि वयं मूढा मूर्खा न विद्महे तदनुसन्धानं न कृतवन्त इत्यर्थः। ‘तच्छ्रवणे तु सन्देहो नास्ति’ इत्याशयेनाहुः—हीति॥४८॥ आत्मानमेव विगर्ह्य भगवद्भक्तस्वस्त्रीजनसङ्गत्याऽऽत्मनः कृतार्थतामप्याहुः—अहो इति। वयं लोके इति धन्यतमाः कृतार्था एव। तत्रे हेतुमाहुः—येषामिति। येषानोऽस्माकं तादृशीः स्त्रियः।
हित्वाऽन्यान् भजते यं श्रीः पादस्पर्शाशयाऽसकृत्॥ आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी॥४६॥
देश काल पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः॥ देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः॥४७॥
स एष भगवान् साक्षाद्विष्णुर्योगेश्वरेश्वरः॥ जातो यदुष्वित्याश्रृण्म163 ह्यपि मूढा न विद्महे॥४८॥
अहो वयं धन्यतमा येषां नस्तादृशी स्त्रियः॥ भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ॥४९॥
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे॥ यन्मायामोहितधियो भ्रमाम कर्मवर्त्मसु॥५०॥
स वै न आद्य पुरुषः स्वमायामोहितात्मनाम्॥अविज्ञातानुभावानां क्षन्तुमर्हत्यतिक्रमम्॥५१॥
‘कीदृश्य’ इत्यपेक्षायामाहुः—यासां भक्तिप्रभावेण अस्माकमपि हरौ निश्चला मतिर्जातेति॥४९॥ एवमवज्ञारूपेऽपराधे उपायान्तरस्याभावात् प्रणमतस्तमेव क्षमापयन्ति—नम इति। कृष्णाय तुभ्य नमः। ‘सर्वज्ञत्वस्याग्रे किं बहु वक्तव्यम्’ इत्याशयेनाहुः—अकुण्ठमेधसे इति। अकुण्ठा सर्वत्र प्रसृतामेधा बुद्धिर्यस्य यस्मै। तत्र हेतुमाहुः—भगवत इति। ‘त्वन्मायामोहितानामस्माकमपराधस्त्वयाऽवश्यं सोढव्य’ इत्याशयेनाहुः—यस्य मायया मोहिता विवेकरहिता धीर्येषां तेषां वयं कर्ममार्गेषु भ्रमाम इति॥५०॥ स वै सर्वशास्त्रप्रसिद्धः आद्यः सर्वकारणभूतः पुरुषः सर्वान्तर्यामी श्रीकृष्णः स्वमायया मोहित आत्मा अन्तःकरण येषां तेषाम्, अत एव न विज्ञातस्तस्यानुभावो यैस्तेषा नोऽस्माकमतिक्रम स्वाज्ञोल्लङ्घनापराध क्षन्तुमर्हतीत्यन्वयः॥५१॥
कृष्णे कृत हेलनमवज्ञान यैस्ते ब्राह्मणा इत्येव स्वाघ स्वापराधमनुस्मृत्य अच्युतयोः ‘कर्मणि षष्ठी’ रामकृष्णौ दिदृक्षवो द्रष्टुमिच्छवोऽपि कसात् भीताः दर्शनार्थास्मद्गमनेन कंसो ‘मम वैरी विष्णुरयमेव’ इति ज्ञात्वा कदाचित् कचिद्व्रजेऽपकार कुर्यात्तदा तस्य ‘अस्मन्निमित्तत्वादन्योऽपि महानपराधः स्यात्’ इति शङ्किताः न चाचलन् तद्दर्शनार्थंनैव जग्मुः। स्वाश्रमस्था एव तमभजन्नित्यर्थः॥५२॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ त्रयोविंशो गतो विप्र-भार्यानुग्रहबोधकः॥३॥ इन्द्रपूजा चतुर्विंशे हेतुभिः सन्निव-
इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः॥ दिदृक्षवोऽप्यच्युतयो कंसाद्भीता न चाचलन्॥५२॥
इति श्रीम० महापु० दश० तामसनिरोधनिरूपणप्रकरणे विप्रपत्नीप्रसादनिरूपण नाम त्रयोविंशोऽध्यायः॥२३॥
श्रीशुक उवाच॥ भगवानपि164 तत्रैव बलदेवेन संयुतः॥ अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान्॥१॥
तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शन॥प्रश्रयावनतोऽपृच्छद्वृद्धान्नन्दपुरोगमान्॥२॥
र्तिता॥ कृता गोवर्धनपूजा कृष्णेनेति निरूप्यते॥१॥ गोवर्धनमखोत्सव सप्रसङ्ग निरूपयति—भगवानिति। बलदेवेन संयुतो भगवान् कृष्णस्तत्रैव गोकुले निवसन् इन्द्रयागाय कृतोद्यमान् गोपान् अपश्यदित्यन्वयः। अपिशब्देन “निरपेक्षस्यापि भगवत इन्द्रमदनाशाय तद्यागनिवर्तने व्रजवासिजनानां परमसौभाग्यलाभाय च गोवर्धनपूजामिषेण स्वपूजने प्रवृत्तिः” इति सूचयति॥१॥ भगवान् कृष्णस्तदभिज्ञोऽपि ‘इन्द्रयागार्थोऽयमुद्यम’ इति जानन्नपि प्रश्रयेण विनयेन अवनतः सन् नन्दादीन् वृद्धानपृच्छदित्यन्वयः। तज्ज्ञाने हेतुमाह—सर्वदर्शन इति, सर्वसाक्षीत्यर्थः। तत्रापि हेतुमाह—सर्वात्मेति, सर्वेषामन्तरात्मेत्यर्थः॥२॥
तत्प्रश्नमेवाह—कथ्यतामिति। ‘अनुशिष्टेनैव भाव्य पितुः पुत्रेण’ इत्याशयेन सम्बोधयति—पितरिति। सम्यक् भ्रमो यत्र स सम्भ्रम उत्सवविशेषः कोऽयं वो युष्माकमुपागत स मे मह्यं कथ्यताम्। ‘यागविशेषोऽयम्’ इति चेत्तर्हि “अस्य किं फलम्, कस्य च देवविशेषस्य उद्देशः, क देवमुद्दिश्यैतत् कर्म प्रवृत्तम्” इति देवताप्रश्न। “केन वा साधनेन केन वाऽधिकारिणाऽयं मखः साध्यते” इति द्वयोः प्रश्नः॥३॥ अज्ञत्वं ज्ञापयन् पुनः सम्बोधयति—पितरिति। महान् कामः श्रवणे महतीच्छा वर्तते, अतः शुश्रूषवे मह्यमेतत् मत्पृष्ट सर्व ब्रूहि। ‘गोप्यत्वाद्वक्तुंश्रोतु च न योग्यम्’ इत्याशङ्क्याह—नहीति। अत्रैको हिशब्दो हेत्वर्थकः, द्वितीयो हिशब्दोऽवधारणे। हि यस्मात् इह व्यवहारभूमौ साधूना कृत्य कर्म गोप्य नैव भवति। ‘के ते साधव’ इत्यपेक्षाया सर्वात्मनामिति। सर्वत्रैकात्मदृष्टीनामित्यर्थः॥४॥ एतदेव स्पष्टयति—अस्तेति। अस्ता निरस्ता ‘स्व पर’ इति दृष्टिर्येषां तेषामित्यर्थः। पर इति दृष्ट्यभावादेव ‘तद्भेदा मित्रादयोऽपि येषां न सन्ति’
कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः॥किं फलं कस्य चोद्देशः केन वा साध्यते मखः॥३॥
एतद्ब्रूहि महान् कामो मह्यशुश्रूषवे पितः॥ नहि गोप्य हि साधूना कृत्य सर्वात्मनामिह॥४॥
अस्तस्वपर165दृष्टीनाममित्रोदास्तविद्विषाम्॥उदासीनोऽविद्वर्ज्यआत्मवत् सुहृदुच्यते॥५॥
ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति॥ विदुष कर्मसिद्धिः स्यात्तथा नाविदुपो भवेत्॥६॥
तत्र तावत् क्रियायोगो भवता किं विचारित॥ अथवा लौकिकस्तन्मे पृच्छत साधु भण्यताम्॥७॥
इत्याह—अमित्रेति। न विद्यते मित्र, उदास्त उदासीनो, विद्विट् येषां तेषामित्यर्थः। ‘विषयदर्शिनामपि सुहृद्विषये कृत्य न गोप्यम्’ इत्याह—उदासीन इति। अरिवत् उदासीनोऽपि मन्त्रेषु वर्ज्यः। सुहृत् मित्र तु आत्मवत् स्वतुल्य एवोच्यते, अतः सुहृत्त्वादह श्रोतुः योग्य एवेत्याशयः॥ किञ्च ज्ञात्वा सुहृद्भिसह विचार्य तद्रहस्य ज्ञात्वा तथा अज्ञात्वा गतानुगतमात्रेणाप्यय जनः कर्माण्यनुतिष्ठति। तत्र यथा विदुष कर्मसिद्धिः फलं स्यात्तथा अविदुषः फलं न भवेत्। तत्रैव सति तावदय क्रियायोगोपायो भवता किं सुहृद्भिःसह शास्त्रतो विचारितः, अथवा लौकिकःलोकव्यवहारत एव प्राप्तस्तदेतत् पृच्छतोमम साधु सत्य भण्यताम्॥५॥६॥७॥
आचारप्राप्त एव, तथापि तस्य कर्तव्यत्व सहेतुकमाह—पर्जन्य इति। भगवान् इन्द्र पर्जन्यो वर्षाधिपतिः, यतो मेघास्तस्येन्द्रस्यात्मवत्प्रियस्वरूपाः।ते भूतानां प्रीणनमाप्यायनकर जीवनकर च पथोजलमभिवर्षन्ति। न च ‘अष्टौ मासान्निपीत यत्’ इत्यत्र ‘कथं सूर्यस्य वृष्टिकर्तृत्वमिति शङ्क्यम्, सूर्यरश्मिविशेषाणामेव मेघत्वात् तेषांचाधिष्ठातेन्द्र इति न विरोधः। तदुक्तं वैष्णवै—“भौममेतत्पयो दुग्ध गोभि सूर्यस्य वारिदैः॥ पर्जन्य सर्वलोकस्य भवाय भुवि वर्षति’ इति॥८॥ ततः किमत आह—तमिति। ‘पुत्रत्वान्नान मद्वाक्ये प्रतारणा शङ्कनीया, सत्यमेवोच्यते इति सूचयन् सम्बोधयति—तातेति। वयं वैश्याः अन्ये च ब्राह्मणक्षत्त्रियादयो नरास्तमिन्द्र क्रतुभिर्यज्ञैर्यजन्ते आराधयन्तीत्यन्वयः। आराधने हेतुमाह—ईश्वरमिति। तत्र हेतुमाह—वार्मुचा मेघाना पतिमिति। नच तदाराधनेऽस्माकं धनादिव्ययः, तज्जलेनैव सिद्धत्वात्। ‘अतो न तत्र स्वकर्तृत्वाभिमानोऽपि युक्त’ इत्याशयेनाह—तस्य रेतसा जलेन सिद्धैर्द्रव्यै अन्नादिभिःसम्पादितैःक्रतुभिरिति॥९॥ ‘तस्य महानुपकारो मन्तव्य’ इत्याशयेनाह—
॥नन्द उवाच॥
पर्जन्यो166 भगवानिन्द्रो मेघास्तस्याऽऽत्ममूर्तयः॥ तेऽभिवर्षान्ति भूतानां प्रीणन जीवन पयः॥८॥
त तात वयमन्ये च वार्मुचां पतिमीश्वरम्॥ द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नरा॥९॥
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे॥ पुंसां पुरुषकाराणां पर्जन्यः फलभावनः॥ १०॥
य एव विसृजेद्धर्मपारम्पर्यागत नर॥ कामाल्लोभाद्भयाद्द्वेषात् स वै नाप्नोति शोभनम्॥११॥
तच्छेषेणेति। इन्द्रयागावशिष्टेनान्नादिना नरा उपजीवन्ति जीविका कल्पयन्ति। एवमिन्द्राराधनपूर्वकजीवनस्य फलमाह—त्रिवर्गफलहेतव इति। धर्मार्थकामसिद्धये जीवन्तीत्यर्थः। ननु ‘कृष्यादिव्यापारेणैवान्नादिसिद्धिदर्शनात् किमिन्द्राराधनेन?’ तत्राह—पुंसामिति। पुंसा पुरुषकाराणां कृष्यादि- व्यापाराणां पर्जन्य इन्द्र एव वृष्टिद्वारा फलभावनः फलसाधकः, अन्यथा वृष्टिविना कृष्यादिवैफल्यदर्शनादित्यर्थः॥१०॥ अतएव वृद्ध्याचारपरम्परया आगत धर्मरूप याग यो नरः कामाद्यन्यतमाद्धेतोर्विसृजेत् त्यजेत् स शोभन सुख नाप्नोति। “प्राप्तसेवापरित्यागो द्वेषमूलमिदं स्मृतम्” इति वचनाद्देवता- द्वेषविषयत्वेन दुःखमेव प्राप्नोतीत्याशयः। तत्र कामः भोगासक्तिः, लोभो धनादिविषयः, भय तद्विद्वेषिपुरुषात् कायक्लेशाच्च, द्वेषो देवतायामकिञ्चित्कर- बुद्ध्या प्रमाणे अप्रामाण्यबुद्ध्या वा॥११॥
‘इन्द्राय मन्यु जनयन्’ इति कोपजननद्वारा गर्वपर्वतादिन्द्रमवतारयितुमेव देवतानिराकरणम्, न त्वत्रैव तात्पर्यम्। यज्ञाङ्गभूतानां देवतानामप्यनादिवेद- प्रमाणसिद्धत्वेन तन्निराकरणे तद्वैगुण्यापत्तेरित्यर्थः॥ ननु ‘सुरेश्वरस्येन्द्रस्य गर्वनिराकरणे कथं कृष्णःसमर्थ’ इति शङ्कानिरासाय केशवपदप्रयोगः। को ब्रह्मा, ईशो रुद्र, तयोरपि सुखं यस्मात् स तथा। तस्येन्द्रगर्वनिराकरणं किं दुर्घटमित्याशयः॥ अन्यत् स्पष्टम्॥१२॥ यदुक्तं ‘पर्जन्यः फलभावनः’ इति, तत् प्रतिक्षेतुकामस्तावज्जन्मादिसर्वस्य कर्माधीनत्वमाह—कर्मणेति। जन्तुर्जीवमात्र उत्पद्यते, लीयते म्रियते, सुखादिकं च कर्मणैवाभिपद्यते प्राप्नोति। एवकारेणान्यस्य तत्र हेतुत्वं निराकरोति। क्षेम निर्भयत्वम्। ‘शास्त्रेषु युक्तिसिद्धोऽयमर्थ’ इत्याशयेनाह—हीति॥१३॥ ननु ‘कर्मणा तज्जनितापूर्वस्य च जडत्वात् कथं तत एव केवलाद्विचित्रफलसिद्धिः, अतः कर्मफलदाता सर्वज्ञ ईश्वरोऽवश्यमपेक्ष्य’ इत्याशङ्क्याह—अस्ति चेदिति। अन्यतमस्य कर्मणा फल रूपयति कल्पयति ददातीति तथाभूतःकश्चिदीश्वरोऽस्ति चेत्तर्हि सोऽपि कर्तारमेव भजते, यो यत् कर्म करोति तस्मात् एव तत्फलं
॥श्रीशुक उवाच॥
वचो निशम्य नन्दस्य तथाऽन्येषां व्रजौकसाम्॥ इन्द्राय मन्यु जनयन् पितर प्राह केशवः॥१२॥
॥श्रीभगवानुवाच॥
कर्मणा जायते जन्तुःकर्मणैव विलीयते॥ सुखदुखभय क्षेम कर्मणैवाभिपद्यते॥१३॥
अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम्॥कर्तार भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः॥१४॥
किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम्॥ अनीशेनान्यथा कर्तुं स्वभावविहित नृणाम्॥१५॥
स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते॥ स्वभावस्थमिदं सर्वं सदेवासुरमानुषम्॥१६॥
देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा। शत्रुर्मित्रमुदासीन कर्मैव गुरुरीश्वरः॥१७॥
ददाति स ईश्वरः। कर्माकर्तुः प्रभुः फलदाता तु नैव भवति। हिशब्दद्वयमवधारणे॥१४॥ अतः सर्वस्य कर्माधीनत्वात् स्व स्व कर्मानुवर्तिना भूतानामिह लोके इन्द्रेण किं प्रयोजन सिद्ध्यति? न किमपत्यर्थः। तत्र हेतुमाह—अनीशेनेति। नृणां स्वभावेन पूर्वसंस्कारेण विहित कारित कर्म तदधीन सुखदुःखादिकं च अन्यथा कर्तुं विपरिवर्तयितुमनीशेन असमर्थेनत्यर्थः॥१५॥ स्वभावाधीनत्वमेव स्पष्टयति—स्वभावतन्त्र इति। अयं जनः प्राणिमात्र स्वभावतन्त्रः स्वभावाधीन एव। हीति एवार्थे। अत स्वभावमेवानुवर्तते स्वभावानुसारेणव लौकिकालौकिकधर्माधर्मादिक्रियासु प्रवर्तते इत्यर्थः। नच “कश्चिदेवैव स्वभावाधीनः, किंतु सर्वमपि जगत्” इत्याह—स्वभावस्थमिति॥१६॥ अतः ‘कर्मणा जायते’ इत्युक्तमेवोपपन्नमित्याह—देहानिति। जन्तुःजीवःकर्मणा उच्चावचान् उत्कृष्टापकृष्टान् देहान् प्राप्य कर्मसमाप्तौ तान् उत्सृजति परित्यजति। तथा शत्रुरपि स्वकर्मेव, स्वापकारे
वर्तमानस्याप्यन्यत्र मित्रतादर्शनात्॥ अतो न हि परस्य स्वस्मिन् शत्रुता स्वतःसिद्धा, किन्तु स्वदुरितप्रयुक्तैव। तथा मित्रमपि सुखप्रद स्वकर्मैव, स्वोपकारे वर्तमानस्याप्यन्यत्र शत्रुतादर्शनात्। तथोदासीनोऽपि कर्मैव, कुत्रचित् शत्रुतया मित्रतया वा वर्तमानस्याप्यन्यत्रोदासीनतादर्शनात्। तथा गुरुरपि कर्मैव, शुभादृष्टविना नित्यस्य सर्वत्र विद्यमानस्यापि तस्य प्रसादादर्शनात्॥१७॥ तस्मात् जन्मादेः कर्माधीनत्वात् कर्मैव सम्पूजयेत् सन्मानयेत्।तत्सन्मानप्रकार माह—स्वभावेति। यस्य य स्वभावःस्वभावाधीनो वर्णाश्रमादि, तत्र स्थितः सन् स्वानुरूपकर्मकृद्भवेत्। एव कर्मणैव फलासिद्धेर्देवतानिराकृता। ‘यदि देवतैव प्रसन्ना फल ददातीति सैवाराधनीया’ इत्याग्रहस्तदा ‘तदपि विचारपूर्वकमेव कर्तव्यम्’ इत्याशयेनाह—अञ्जसेति। येन दैवतविशेषेणाञ्जसा सुखेनासौ जनो वर्तेत जीवेत् तदेवास्या दैवत सेव्यम्। ‘लोकवेदव्यहारे प्रसिद्धोऽयमर्थ’ इत्याह—हीति॥१८॥ विपक्षे दोषमाह—आजीव्येति। यस्तु पुरुष एकतर भाव देवताविशेषमाजीव्य जीवनोपायत्वेनोपसेव्यत् तत्रापरितोषात् अन्यमुपजीवति सेवते स तस्मात् सेवितात अन्यस्मात् क्षेमं सुखं न विन्दते, तस्य स्वस्मिन् विश्वासाभावात्। तत्र दृष्टान्तमाह—जारमिति। असती पुश्चली नारी यथा पतिं विहाय जारमुपसेव्य ततोऽपि सुख न
तस्मात् सम्पूजयेत् कर्म स्वभावस्थःस्वकर्मकृत्॥ अञ्जसा येन वर्तेत तदेवास्य हि दैवतम्॥१८॥
आजीव्यैकतर भाव यस्त्वन्यमुपजीवति॥ न तस्माद्विन्दते क्षेम जार नार्यसती यथा॥१९॥
वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुव॥ वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया॥२०॥
कृषिवाणिज्यगोरक्षा कुसीद तुर्यमुच्यते॥ वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम्॥२१॥
सत्त्व रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः॥ रजसोत्पद्यते विश्वमन्योन्य विविध जगत्॥२२॥
प्राप्नोति, पतिपरित्यागदर्शनेन विश्वासानास्पदत्वात्, तथेत्यर्थः॥१९॥ ‘जीविकासम्पादको ह्यवश्यमाराधनीय’ इत्याशयेन स्वजीविका वक्तुं तावत्सर्वजीविकामाह—वर्तेतेति। विप्रो ब्राह्मणो वेदाध्ययनादिना वर्तेत्जीविका सम्पादयेत्। स्पष्टमन्यत्॥२०॥ वैश्यवृत्तेश्चातुर्विध्यमाह—कृषीति। कृष्यादयस्तिस्रः, कुसीद वृद्धिजीवनं तुर्य चतुर्थम्, एव वार्ता चतुर्विधोच्यते। तत्र तासु अनिश सर्वदैव गोवृत्तय गोपालनमेव वृत्तिर्येषा तथाविधा वयम्। कृषिवाणिज्यसहिता गोरक्षा इति समासः॥ २१॥ ननु “तर्हि गवा तृणजलादिसम्पत्त्यर्थ वृष्ट्यधिष्ठातेन्द्रोऽवश्यमाराधनीय” इत्याशङ्क्याह—सत्त्वमिति। सत्त्वादय यो गुणाः यथाक्रम जगत स्थित्युत्पत्त्यन्तहेतव। तत्र रजसा गुणेन हेतुभूतेन अन्योन्य स्त्रीपुरुषयोगेन विविध देवमनुष्यतिर्यगादिरूप विश्व सर्वं जगदुत्पद्यते॥२२॥
रजसा रजःस्वभावेन प्रेरिता मेघाःसर्वतः सर्वत्र नदीसमुद्रोषरपर्वतादिषु जलप्रयोजनरहितेषु देशेष्वप्यम्बूनि वर्षन्ति, तैरम्बुभिरेव प्रजाःसिद्ध्यन्ति सम्पादितान्नादिप्रयोजना भवन्ति। एवं सति महेन्द्रःकिं करिष्यति? यदीन्द्रेण बुद्धिपूर्वकं वृष्टिः कृता स्यात्, तदा तदाराधकानादेश एव स स्यात्। न सर्वत्रेति भावः॥ ॥२३॥ तथापि ‘योगक्षेमनिर्वाहार्थमिन्द्र आराधनीय’ इत्याशङ्क्याह—नेति। ‘वृद्धानामग्रे मया किं बहु वक्तव्यम्’ इति सूचयन् सम्बोधयति—तातेति। नोऽस्माकं पुरादयो न सन्ति येषां रक्षाद्यर्थमिन्द्रोऽपेक्षितः स्यादिति शेषः। यतो नित्य वयवनौकस इति। दिवसेऽपि वनशैलनिवासिनः। पुरः नगराणि, जनपदा देशाः, ग्रामाः हट्टाः॥२४॥ यस्मादिन्द्रेण न कश्चिदुपकारस्तस्मात् जीवनहेतूना गवा प्रत्यक्षभूदेवाना ब्राह्मणानां कन्दमूलफलतृणजलादिभिर्नित्य योगक्षेमनिर्वाहकस्याद्रेर्गोवर्धनस्य च मखो यागः अद्यप्रभृति आरभ्यताम्। अनेन “अञ्जसा येन वर्तेत तदेवास्य हि दैवतम्"इति यदुक्त तत् स्पष्टीकृतम्। ननु ‘अस्य यागस्याननुभूतपूर्वकत्वात् कथं कर्तव्य’ इति प्रकारापेक्षायामाह—य इति साधैश्चतुर्भिः। इन्द्रयागस्य ये सम्भाराः साधनानि तैरेवाय मखः
रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वत॥ प्रजास्तैरेव सिद्ध्यन्ति महेन्द्रः किं करिष्यति॥२३॥
न न पुरो जनपदा न ग्रामा न गृहा वयम्॥वनौकसस्तात नित्यं वनशैलनिवासिनः॥२४॥
तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यता मख॥ य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः॥२५॥
पच्यन्ता विविधा पाकाः सूपान्ताःपायसादय॥ संयावापूपशष्कुल्यःसर्वदोहश्च गृह्यताम्॥२६॥
हूयन्तामग्नयः सम्यग्ब्राह्मणैर्बह्मवादिभिः॥ अन्न बहुविध तेभ्यो देय वो धेनुदक्षिणाः॥२७॥
अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथाऽर्हतः॥ यवस च गवां दत्त्वा गिरये दीयता बलिः॥२८॥
साध्यताम्॥२५॥ विविधाः पाकाः पक्तव्यपदार्थाः पच्यन्ताम्। तेष्वेव काश्चिद्दर्शयति—सूपान्ता इति। सूप मौद्गतदन्ते कर्तव्यम् तत्करणे विलम्बो न भवति, तस्योष्णता चापेक्षिता। पायस बहुदुग्धे अल्पीयासः प्रक्षिप्तास्तण्डुला अल्पाग्निना पच्यमाना महता कालेन पच्यन्ते तत्, तस्य शीतता चापेक्षितेति, तदादौ कर्तव्यम्।सयावः गोधूमचूर्णसारांशाः सितामिश्रा दुग्धे घृते वा पक्वाः। अपूपाः गुडमिश्रितगोधूमचूर्णनिष्पादिता घृतपक्वाः। शष्कुल्यो नालाकारेण भ्रमद्वर्तुला भक्षविशेषाः। दोहो दुग्धदध्यादिः सर्वो गृह्यताम्। विक्रयादिविनियोगो न कर्तव्यः॥२६॥ ‘अयाजयद्गोसवेन’ इत्युद्धवोक्तेरस्योत्सवस्य गोवर्धनपूजाप्रधानत्वेऽपि यागत्वसिद्ध्यर्थमाह—हूयन्तामिति। ब्रह्मवादिभिर्वेदज्ञैर्ब्राह्मणैरग्नयः आहवनीयादयः सम्यक् हूयन्ताम्। वो युष्माभिस्तेभ्यो ब्राह्मणेभ्यो बहुगुण षड्रसोपेतमन्न देयम्, धेनुसहिता दक्षिणाश्च देयाः॥२७॥ अन्येभ्यश्चाश्वादिभ्यो यथार्हतः यथा योग्यमन्नादिक देयम्, तथा गवां यवसं तृणं च दत्त्वागिरये गोवर्धनाय बलिर्नैवेद्य पक्वान्नादिक सर्वंदीयताम्॥२८॥
सुखसेव्यत्व दर्शयन्नाह—स्वलङ्कृता इति। स्वनुलिप्ताः चन्दनादिलेपनयुक्ताः॥ २९॥ ‘पुत्रस्य मम प्रियाचरण तव पितुर्युक्तमेव’ इति सूचयन् सम्बोधयति—तातेति। एतत् एवंविध कर्म मम मत कर्तव्यत्वेन सम्मतं तत् हठात् अश्रद्धया कृतमपि निष्फलमेव स्यात्, अतो यदि भवता रोचते तर्हि गोब्राह्मणाद्रीणा मह्यं मम च दयितः प्रियोऽयं मखः क्रियतामित्यन्वयः॥३०॥ एव भगवता प्रोक्त वचन निशम्य श्रुत्वा नन्दाद्याः साधु सादर यथा भवति तथा तद्वचः अगृह्णन्त अङ्गीकृतवन्तः। भगवतस्तत्पूजाविधानेऽभिप्रायमाह—शक्रदर्पजिघासतेति। इन्द्रदर्पहननसामर्थ्ये नन्दादिभिस्तद्वाक्याङ्गीकारे च हेतु सूचयन्नाह—कालात्मनेति। पूर्वमपि शक्रयागः कालेनैव प्रवृत्तः, इदानीमपि तेनैव स निवर्तितो गोवर्धनयागश्च प्रवर्तितः, सर्वप्रति साधारणकार-
स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ता सुवाससः॥ प्रदक्षिणं च कुरुत गोविप्रानलपर्वतान्॥२९॥
एतन्मम मतं तात क्रियता यदि रोचते॥अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः॥३०॥
श्रीशुक उवाच॥ कालात्मना भगवता शक्रदर्पजिघांसता॥ प्रोक्तं निशम्य नन्दाद्या साध्वगृह्णन्त तद्वचः॥३१॥
तथा च व्यदधुःसर्वयथाऽऽह मधुसूदनः॥ वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान्॥३२॥
उपहृत्य बलीन् सर्वानादृता यवसं गवाम्॥गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥३३॥
अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः॥ गोप्यश्च कृष्णवीर्याणि गायन्त्य सद्विजाशिष॥३४॥
कृष्णस्त्वन्यतम रूप गोपविश्रम्भण गतः॥ शैलोऽस्मीति ब्रुवन् भूरि बलिमादद्वृहद्वपुः॥३५॥
णत्वादित्याशयः॥३१॥ ततश्च मधुसूदनः कृष्णः यथा आह तथैव सर्व व्यदधुः कृतवन्तः। तदेव स्पष्टयति—वाचयित्वेति। स्वस्त्ययनं पुण्याह ब्राह्मणैर्वाचयित्वा तद्द्रव्येण इन्द्रयागार्थसम्पादितपक्कान्नादिना गिरि द्विजाश्च प्रति सर्वान् बलीन् नैवेद्यानि तथा गवा यवस तृण चोपहृत्य समर्प्य आदृता आदरयुक्ताःसद्विजाशिषःलब्धब्राह्मणाशीर्वादास्ते नन्दादयो गोपाः, तथा स्वलङ्कृताः कृष्णवीर्याणि गायन्त्यो गोप्यश्च गोधनानि पुरस्कृत्य अग्रे कृत्वा अनडुद्भिर्युक्तानि अनासि शकटान्यारुह्य गिरेःप्रदक्षिण चक्रुरिति त्रयाणामन्वयः॥३२॥३३॥३४॥ कृष्णस्तु गोपाना विश्रम्भण गोवर्धने दैवतविश्वासकर- मन्यतम रूपान्तर गतः प्राप्तः, अत एव बृहद्वपुश्च सन् गिरेर्मूर्ध्नि स्थितः ‘शैलाभिमानी देवोऽस्मि’ इति ब्रुवन् गोपैरर्पित बलिमादत् अभक्षयत्॥३५॥
अहो आश्चर्यंपश्यत। युष्माभिर्बहुकालमि ‘द्रपूजा कृता, परन्तु कदापि प्रत्यक्ष स नाभूत्॥ असौ शैलस्तु रूपी प्रत्यक्षवरूपःसन् अनुग्रह व्यधात् अनुग्रहेणास्मद्दत्तं बलि बुभुजे। एष गिरिः कामरूपी यथेष्टरूपग्रहणसमर्थोऽतोऽवजानतः अवज्ञा कुर्वाणान् वनौकसो मर्त्यान् मनुष्यान् सिंहव्याघ्रसर्पादिरूपेण हन्ति। हि यस्मादेव तस्मादात्मनः गवां च शर्मणे क्षेमायास्मै गोवर्धनदेवाय वयं नमस्यामः इति वदन् व्रजजनैः सह श्रीकृष्णः आत्मना स्वयमेव तस्मै गृहीताभिनवस्वरूपाय आत्मने नमश्चक्रे इति द्वयोरन्वयः॥ ३६॥ ३७॥ गोवर्धनपूजामुपसंहरति—इतीति। इत्येवं वासुदेवेन कृष्णेन प्रणोदिताः प्रेरितास्ते नन्दादयो गोपा अद्रयादीना मख यथावद्विधाय कृष्णेन सहिता व्रज गताः॥३८॥ इति श्रीवल्लभाचार्य-वश्यगोपालसू-
तस्मै नमो व्रजजनै सह चक्रेऽऽत्मनाऽऽत्मने॥अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात्॥३६॥
एषोऽवजानतो मर्त्यान् कामरूपी वनौकस॥ हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम्॥३७॥
इत्यद्रिगोद्विजमख वासुदेवप्रणोदिता॥ यथा विधाय ते गोपा सहकृष्णा व्रजं ययु॥३८॥
इति श्रीमद्भा० महा० दश० तामसनिरोधनिरूपणप्र० गोवर्धनपूजानिरूपण नाम चतुर्विंशतितमोऽध्यायः॥२४॥
श्रीशुक उवाच॥ इन्द्रस्त167दाऽऽत्मनः पूजां विज्ञाय विहतां नृपगोपेभ्यःकृष्णनाथेभ्यो नन्दादिभ्यश्रुकोप सः॥१॥
नुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्द सिद्धये॥श्रीमद्भागवतस्येयटीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ चतुर्विंशो गतो वृत्तिं गिरिपूजानिरूपकः॥३॥ पञ्चविंशे तु शक्रेण जलपाषाणमारुतै॥ पीडित गोकुल त्रात कृष्णेनेति निरूप्यते॥१॥ ‘राज्ञामपमाने कोपो भवत्येव, तत्तु स्वदृष्टान्तेन ज्ञेयम्’ इत्याशयेन सम्बोधयति—नृपेति। स प्रसिद्ध देवराज इन्द्रः आत्मनःपूजा गोपैर्विहता त्यक्तां विज्ञाय नन्दादिभ्यो गोपेभ्यश्चुकोप। ‘तदत्यनुचितं कृतवान्’ इत्याह—कृष्णो नाथो रक्षको येषां तेभ्य इति॥१॥
क्रुद्धश्चसन् इन्द्रः सावर्तक सवर्तःप्रलयस्तत्कर्तार नाम प्रसिद्धम्। तत्र हेतुः—अन्तो विनाशः, तत्कारिणा मेघाना गणं प्राचोदयत् व्रजनाशाय प्रेषयामास।प्रेरणवाक्यं चाह—ननु ‘कथं कृष्णनाथाना घाते प्रवृत्त’ इत्याशङ्क्य ‘आत्मसम्भावनया निरस्तविवेकत्वात्’ इत्याशयेनाह—ईशमान्युतेति। उत यस्मात् ईशमानी ‘अहमेवेश्वर’ इति गर्ववानित्यर्थः॥२॥ तद्वाक्यं दर्शयति—अहो इत्यादिपञ्चभिः। गोपानां श्रीमदस्य धनसम्पत्तिकृतस्य मदस्य माहात्म्य वैभवमहो आश्चर्यभूतं ‘पश्यत’ इति शेषः। ‘यदि कश्चित् पुरदेशाधिपतिर्महाराज एव कुर्यात्तदा तस्मै तच्छोभेतापि, एतेषां तु वासस्थानस्याप्यास्था नास्ति’ इत्याशयेनाह—काननौकसामिति। तदाश्चर्यमेव दर्शयति—कृष्णमिति। मर्त्य मरणशीलमुपाश्रित्य ये गोपा मम देवस्य हेलनमपमानं चक्रुरित्यर्थः॥३॥ विपरीताचरणे दृष्टान्तमाह—यथेति। आन्वीक्षिकीमात्मानुसन्धानरूपा विद्या हित्वा क्रतुभिरेव केचित् भवार्णव यथा तितीर्षन्ति तर्तुमिच्छन्त्येव केवल, नतु तरन्ति, किन्तु तत्रैव निमज्जन्ति। तत्र हेतुमाह—नामनौनिभैरिति। नाममात्रेण ‘अक्षय्य चातुर्मास्ययाजिनः सुकृत भवति’ इत्यर्थवादमात्रेणैव संसारतार- कत्वेन श्रुतैः, नतु वस्तुतस्तेषां तारकत्वमित्यर्थः। तत्र हेतुः—अदृढैरिति, असमर्थैर्नश्वरैः। तत्रापि हेतुः—कर्ममयैरि-
गण सांवर्तकं नाम मेघानं चान्तकारिणाम्॥ इन्द्र माचोदयत् क्रुद्धो वाक्य चाहेशमान्युत॥२॥
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम्॥कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम्॥३॥
यथाऽदृढैःकर्ममयै क्रतुभिर्नामनौनिभैः॥ विद्यामान्वीक्षिकी हित्वा तितीर्षन्ति भवार्णवम्॥४॥
वाचाल बालिश स्तब्धमज्ञ पण्डितमानिनम्॥ कृष्ण मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम्॥५॥
एषां श्रियाऽवलिप्तानां कृष्णेनाध्मायितात्मनाम्॥ धुनुत श्रीमदस्तम्भ पशून्नयत सङ्क्षयम्॥६॥
ति, क्रियानिवर्त्यैरित्यर्थः॥४॥ दार्ष्टान्तिकमाह—वाचालमिति। एव वाचाल बहुभाषिण बालिश शिशु स्तब्धमनम्रमज्ञ तथापि वृथैव पण्डितमानिन पण्डितमन्य मर्त्य कृष्णमुपाश्रित्य गोपा मे देवस्याप्रियमपमान सुखार्थ चक्रुः। परन्तु न तेन सुख प्राप्स्यन्ति, किन्तु दुःखे एव निमग्ना भविष्यन्तीत्याशयः। एव भगवन्निन्दाया योजितापीन्द्रस्य भारती त स्तौति। तथाहि—वाचाल शास्त्रयोनित्वात्, बालिश शिशुवन्निरभिमानित्वात्, स्तब्धमनममन्यस्य वन्द्यस्याभावात्, अज्ञः नास्ति ज्ञो यस्मात्त सर्वज्ञ, पण्डितमानिन ब्रह्मविदा बहु माननीय, कृष्ण सदानन्दरूप पर ब्रह्म, मर्त्यं तथापि भक्तवात्सल्येन मनुष्यतया प्रतीयमानमित्यर्थः॥५॥ एव गोपानामपराध तेषु स्वरोष च निरूप्य तेषां द्रोह कर्तुमाज्ञापयति—श्रियेति। श्रिया सम्पदाऽवलिप्ताना गर्वितानाकृष्णेनाध्मायिता सवर्धिता आत्मानो मनांसि येषां तेषामेषा गोपाना श्रीमदप्रयुक्त स्तम्भ गर्व धुनुत अपनयत। ‘कथम्’ इत्यपेक्षायामाह—एषा सम्पद पशुप्रयुक्तत्वात् पशूनेव सम्यक् क्षयं नयत॥६॥
व्रजगन्तुं बिभ्यत आलक्ष्याह—अहमिति। अहं च ऐरावत नाग हस्तिनमारुह्य महावीर्यै असह्यवेगैर्मरुद्भिः सह नन्दगोष्ठस्य जिघांसया हननार्थंव्रजमनुव्रजे युष्मत्पृष्ठत एवागमिष्यामीत्यन्वयः॥७॥ इत्थं मघवता इन्द्रेणाज्ञप्ता प्रलयकर्तृत्वात्तन्मध्ये ते बद्धा भवन्ति, तदा तु निर्मुक्तं बन्धनयेषां तथाभूता मेघा नन्दगोकुलमासाद्य आसारैःजलधारासम्पातैःओजसा बलेन पीडयामासुः॥८॥ तत्प्रकारं प्रपञ्चयति—विद्योतमाना इति विद्युद्भिर्विद्योतमानाः, स्तनयित्नुभिः अशनिभिः स्तनन्तः गर्जन्तः, तीव्रैर्महावेगैर्मरुद्गणैः नुन्नाः प्रेरिताःसन्तो मेघा जलशर्करा जलोपलान् ववृषुः॥९॥ अभीक्ष्णशः पुनःपुनः स्थूणावत् स्तम्भवत् स्थूला वर्षधाराःअभ्रेषु मेघेषु मुञ्चत्सु सत्सु जलस्य ओघैःप्रवाहैः प्लाव्यमाना सती भूःनतोन्नत नत निम्नमुन्नत तद्विपरीत च यथा भवति तथा नादृश्यत॥ १०॥ पशवो गोपा गोप्यश्च अत्यन्तासारेण अतिवातेन शीतेन चार्ताः पीडिताः, अत एव जातवेपनाः जातकम्पाः सन्तो गोविन्द शरण ययुः॥११॥ शरणगमनप्रकारमाह—शिर इति। जातावेकवचनम्। शिरांसि सुताश्च कायेनाच्छाद्य
अह चैरावत नागमारुह्यानुव्रजे व्रजम्॥ मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया॥७॥
॥श्रीशुक उवाच॥
इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः। नन्दगोकुलमासारैःपीडयामासुरोजसा॥८॥
विद्योतमाना विद्युद्धि स्तनन्त स्तनयित्नुभि॥ तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः॥९॥
स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णश ॥जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम्॥१०॥
अत्यासारातिवातेन पशवो जातवेपना॥ गोपा गोप्यश्च शीतार्ता गोविन्द शरण ययुः॥११॥
शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः॥वेपमाना भगवत पादमूलमुपाययु॥१२॥
कृष्ण कृष्ण महाभाग त्वन्नाथ गोकुल प्रभो॥ त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सलः॥१३॥
भगवतः पादमूलमुपाययुः। तत्र हेतुः—वेपमाना इति। तत्र हेतुः—आसारपीडिता इति॥१२॥ तत्र गोपगोपीना प्रार्थनामाह—कृष्णकृष्णेति। सम्भ्रमाद्वीप्सा। गोकुल गवा कुल वश नोऽस्माश्च देवात् इन्द्रात् त्रातुमर्हसि। ‘देवात्’ इत्यनेन त्वत्तोऽन्येन ततो रक्षाऽशक्येति सूचितम्। ‘नच तत्प्रार्थनैव युक्ता’ इत्याशयेनाहुः—कुपितादिति। ‘रक्षाकरण च तवावश्यकम्’ इति सूचयन्त आहुः—तन्नाथामिति। त्वमेव नाथः, स्वामी रक्षको यस्य तत्। ‘त्वदुपकारे च वयं न समर्था’ इत्याशयेन सम्बोधयन्ति—महाभागेति। महान् भागो भक्ताना यस्मात्। ‘तव पूर्णतायां किं वक्तव्यम्’ इत्याशयः। ‘रक्षणे सामर्थ्य तु तवास्त्येव ’ इत्याशयेन पुनः सम्बोधयन्ति—प्रभो इति। ‘तथापि रक्षार्थ प्रवृत्तौ मम किं प्रयोजनम्’ इत्याशङ्क्य पुनः सम्बोधयन्ति—भक्तवत्सलेति। भक्तकृपावशादेव तद्रक्षाया प्रवृत्तिरित्याशयः॥१३॥
शिलावर्षस्य निष्ठुरपातेन हन्यमानम्, अत एव अचेतन जडीकृत गोकुल निरीक्ष्य हरिः आश्रितदुःखहर्ता भगवान् सर्वज्ञःकृष्णः कुपितेनेन्द्रेण कृतमु— पद्रव मेने॥१४॥ मननप्रकारमाह—अपर्त्विति । अपगत, ऋतुर्यस्य तत् अपर्तु, अति उल्बणभयंकरम्, अतिशयितो वातो यस्मिंस्तदतिवातम्, शिलामयं शिलाप्रचुर वर्षमस्माभिः स्वयागे निहते सति व्रजनाशायेन्द्रो वर्षति करोतीत्यर्थः॥१५॥ अथ भगवतः प्रतिज्ञापूर्वक गोवर्धनोद्धरणमाह—तत्रेति। तत्रैव सति विधिं वर्षप्रयुक्तपीडाप्रतीकारमात्मयोगेन स्वसामर्थ्येन सम्यक् साधयिष्यामि, तेन च मौढ्याल्लोकेशमानिनामिन्द्रादीना श्रीमदरूप तमस्तमःकार्यं हरिष्यामि। बहुवचनमिन्द्रस्य लोकपालश्रेष्ठत्वात् ‘तन्मदनाशद्वारा वरुणादीनामपि मदविनाशो भविष्यति’ इति सूचनार्थम् ॥१६॥ ननु ‘सात्त्विकानां देवानां मानभङ्गः कथं युक्तः तत्राह—नहीति। सद्भावः सत्त्व ‘मद्भाव’ इति पाठान्तरम्, तद्युक्ताना सुराणाम् ‘ईशा वयम्’ इति विस्मयो गर्वोहि
शिलावर्षनिपातेन हन्यमानमचेतनम्॥निरीक्ष्य भगवान् मेने कुपितेन्द्रकृत हरिः॥१४॥
अपर्त्वत्युत्बणं वर्षमतिवात शिलामयम्॥स्वयागे निहतेऽस्माभिरिन्द्रो नाशाय वर्षति॥१५ ॥
तत्र प्रतिविधि सम्यगात्मयोगेन साधये॥ लोकेशमानिनां मौढ्याद्धरिष्ये श्रीमदं तमः॥१६॥
नहि सद्भाव168युक्तानां सुराणामीशविस्मयः॥ मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते॥१७॥
तस्मान्म169च्छरणं गोष्ठं मन्नाथ मत्परिग्रहम् ॥ गोपाये स्वात्मयोगेन सोऽय मे व्रत आहितः॥१८॥
यस्मान्न युक्तः, ‘अतस्तन्मानभङ्गो युक्त एव’ इति शेषः। ‘तेन किं स्यात्’ इत्यपेक्षायामाह—मत्त इति। असतामीशाभिमानिना यो मत्तो मानभङ्गः स प्रशमायोपकल्पते सर्वानर्थनिवृत्तये पर्यवस्यति॥१७॥ तस्मादिन्द्रमानभङ्गकरणस्यावश्यकत्वात् स्वात्मयोगेन स्वसामर्थ्येन गोष्ठ व्रज गोपाये रक्षयेयम् । सोऽयं व्रजरक्षाविषयको व्रतः सङ्कल्पः मे मया आहितः कृतः । तत्र हेतूनाह—मच्छरणमिति। अहमेव शरण रक्षको यस्य तत् ॥ मन्नाथमिति । अहमेव नाथः स्वामी यस्य तत्॥ मत्परिग्रहमिति। मया स्वकीयत्वेन परिग्रहो यस्य तत्, मत्कीडोपकरणभूतमित्यर्थः॥१८॥
इति स्वमनस्युक्त्वा कृष्णःलीलया अनायासेनैव एकेनैव हस्तेन गोवर्धनाचल कृत्वा उत्कृत्य बालको यथा छत्राक धरति तथा वामेन हस्तेन दधारेत्यन्वय। वामहस्तेनैव धारणमुक्त हरिवंशे—“स धृतः सङ्गतो मेघैर्गिरिःसव्येन पाणिना"इति॥१९॥ अथ धारणानन्तर भगवान् “हे अम्ब !हे तात !हे व्रजौकसः !यथोपजोष यथासुखं सगोधनाःसर्वे यूयं गिरिगर्तं विशत” इति गोपान् प्रत्याहेत्यन्वयः। नच ‘मध्ये योजनविस्तार तावद्विगुणमायतम्” इति हरिवंशे व्रजविस्तारस्य वर्णितत्वात् ‘कथं गोवर्धनगर्ते व्रजो माति स्म’ इति शङ्कनीयम्, भगवतोऽचिन्त्यशक्या तस्य महत्त्वापत्तेः। तदुक्तं हरिवंशे तेनैव—“शैलोत्पाटनभूरेषा महती निर्मिता मया। त्रैलोक्यमुत्सहेऽनेन रक्षितुं किं पुनर्व्रजम्” इति॥२०॥ इह गिरिगर्ते स्थितैर्वो युष्माभिर्मद्धस्तादद्रिनिपातने अद्रिनिपातनिमित्त त्रासो न कार्यः। तथा वातवर्षाभ्यां यद्भय तेनाप्यलतदपि न कर्तव्यम्। हि यस्मात्तत्तो भयात्राण रक्षण वो युष्माकं मया विहित
इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम्॥ दधार लीलया कृष्णश्छत्राकमिव बालक॥१९॥ अथाऽऽह भगवान् गोपान् हेऽम्ब तात व्रजौकसः॥ यथोपजोषं विशत गिरिगर्त सगोवर्धनाः॥२०॥ न त्रास इह व कार्यो मद्धस्ताद्रिनिपातने॥ वातवर्षभयेनाल तत्त्राण विहित हि वः॥२१॥तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसाः॥ यथावकाशं सधनाःसव्रजाःसोपजीविनः॥२२॥ क्षुत्तृड्व्यथा सुखापेक्षा हित्वा तैर्व्रजवासिभिः॥ वीक्ष्यमाणो दधावद्रिं सप्ताह नाचलत् पदात्॥२३॥ कृष्णयोगानुभावं त निशम्येन्द्रोऽतिविस्मितः॥ निस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् संन्यवारयत्॥२४॥
निर्मितम्॥२१॥ तथोक्तप्रकारेण कृष्णेन आश्वासित मानस येषां ते सधनाः सगोधनाः, सव्रजाः शकटारोपितोपकरणसहिताः, सोपजीविनः भृत्यपुरोहितादि- वर्गसहिताः सर्वे व्रजौकसो यथावकाशमसङ्कीर्णं यथा भवति तथा गिरिगर्तं निर्विविशुः॥२२॥ तद्दर्शनानन्देन क्षुत्तृड्व्यथा निद्रादिसुखापेक्षा च हित्वा विस्मृत्य तैर्व्रजवासिभिर्वीक्ष्यमाणो भगवान् सप्ताहमद्रिं दधार। पदात् ‘तदुद्धारसमये यत्रैव पादौ न्यस्तौ ततः स्थानात्’ नाचलत्॥२३॥ तं श्रीकृष्णस्य योगानुभावं सामर्थ्यं मेघद्वारा निशम्य श्रुत्वाऽतिविस्मितः, निस्तम्भः गतमद, भ्रष्टो व्रजविनाशविषयकः सङ्कल्पो यस्य सः, इन्द्रः स्वकीयान् मेघान् वर्षातःसन्यवारयत्॥२४॥
दारुण वातवर्षमुपरत निवृत्त दृष्ट्वा, अत एव विगतानि अभ्राणि यस्मात्, अत एव उदितः प्रकाशमानः आदित्यो यस्मिंस्तथाभूतं खमाकाशं च निशाम्य दृष्ट्वा गोवर्धनधरो भगवान् गोपानब्रवीत्॥२५॥ तदुक्तमाह—निर्यातेति। हे गोपाः ! स्त्रीभिर्धनैरर्भकैश्च सहिता निर्यात गोवर्धनगर्तादितो निर्गच्छत। त्रासं वर्षभय त्यजत। यतो वातवर्षमुपारत निवृत्तम्। ‘तथापि महावृष्ट्या व्रजभूमिर्जले निमग्ना स्यात्’ इत्याशङ्क्याह—व्युदप्राया इति। निम्नगा नद्योऽपि व्युदप्रायाःनिरुदकप्रायाः स्वल्पजलाः सन्तीत्यर्थः। प्रलयहेतु जलमपि भगवदचिन्त्यशक्त्यैव शुष्कमिति ज्ञेयम्। नच “जलशोषेण वृष्टिनिवारणादिना वा रक्षा कुतो न कुता? गोवर्धनोद्धरणस्य किं प्रयोजनम्?” इति शङ्कनीयम्। “अन्यथा रक्षाकरणे व्रजवासिना गोवर्धनपूजाया निष्फलत्वबुद्धिःस्यात्तथा च ततोऽग्रे तत्पूजा न स्यात्, तद्द्वारारक्षणे तु ‘पूजितेन गोवर्धनेन रक्षिताः, अतोऽयं महान् देवः सर्वदा पूजनीयः” ।इति बुद्ध्या सर्वदा तत्पूजा स्यात्” इत्याशयेन गोवर्धनोद्धारेणैव व्रजरक्षा कृतेति ज्ञेयम्॥२६॥ ततो भगवदुक्त्यनन्तर ते सर्वे गोपाःस्त्रियो
खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम्॥निशाम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत्॥२५॥ निर्यात त्यजत त्रासं गोपाःसस्त्रीधनार्भकाः॥ उपारतं वातवर्षं व्युदप्रायाश्च निम्नगा॥२६॥ ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम्॥शकटोढोपकरण स्त्रीवालस्थविरा शनैः॥२७॥ भगवानपि त शैल स्वस्थाने पूर्ववत् प्रभुः॥ पश्यतां सर्वभूतानां स्थापयामास लीलया॥२८॥तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयु परिरम्भणादिभिः॥ गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्भिर्युयुजु सदाशिष॥२९॥
बालाः स्थविरा वृद्धाश्च शकटैरूढमुपकरण यथा भवति तथा स्व स्व गोधनमादाय निर्ययुः गिरिगर्तान्निर्जग्मुः॥२७॥ भगवान् श्रीकृष्णोऽपि सर्वेषां भूतानां जनानां पश्यतामेव लीलया अनायासेनैव त शैल पूर्ववत् पूर्व यथाऽऽसीत्तथैव स्वस्थाने स्थापयामास। आयासाभावे हेतुः—प्रभुसमर्थः॥२८॥ तं कृतरक्षण कृष्णं प्रेमवेगात निभृताःपूर्णा व्रजौकस यथा यथोचित परिरम्भणादिभिः समीयुः सम्यक् मिलिताः, गोप्यश्च सस्नेह मुदा हध्यादिभिरपूजयन्, तथा वृद्धब्राम्हणादयः सती आशिषः आशीर्वादान् युयुजुः। आदिशब्दात् मस्तकाघ्राणचुम्बनवामबाहुसम्मर्दनतदङ्गुलिस्फोटनश्रमदुःखाभावप्रश्नादयो गुरुवर्गस्य, परिहासादयः समवर्गस्य, पादपतनपादसम्मर्दनादयो लघुवर्गस्य ज्ञेया। दध्ना तिलक अक्षताना तदुपरि स्थापनमपा तदुपरि भ्रामणेनाधःपातनं ज्ञेयम्॥२९॥
एव सामान्यतःसर्वेषां स्नेहकृत्यमुक्त्वा विशेषतो यशोदादीना तदाह—यशोदेति। स्नेहेन कातरा व्याकुलचित्ताः यशोदादयःकृष्णमालिङ्ग्यआशिषो युयुजुरित्यन्ययः॥३०॥ दिवि स्वर्गे देवादयोऽपीन्द्रनिग्रहेण व्रजसंरक्षणेन च न दुर्मनस्काजाताः, किन्तु तुष्टाः सन्तो भगवन्त तुष्टुवुः। पुष्पवर्षाणि मुमुचुः। “तुष्टा इति मानसिकः, तुष्टुवुरिति वाचनिकः, मुमुचुरिति कायिकः” इति त्रिविधोऽपि शुभव्यापारो दर्शितः चक्रवर्तिना। ‘दुष्टखण्डमण्डलाधि- पतिनिग्रहेऽपि प्रजास्तुष्टा एव भवन्तीति तु तव विदितमेव’ इत्याशयेन सम्बोधयति—पार्थिवेति॥३१॥ दिवि देवैः प्रणोदिताः शङ्खदुन्दुभयो नेदुः, तथा हे नृप !तुम्बुरुप्रभृतयो गन्धर्वपतयो जगुः॥३२॥ हे राजन् !ततस्तदनन्तरमनुरक्तैः पशुपैर्गोपैः परिश्रितो बलेन च सहितः स हरिः गोष्ठमव्रजत्। गोपिकाश्चास्य कृष्णस्य तथाविधानि गोवर्धनोद्धरणतुल्यानि अन्यान्यपि कृतानि कर्माणि गायन्त्यः मुदिता गोष्ठमीयुः जग्मुः। हृदिस्पृशः प्रेम्णा कृष्णस्य
यशोदा रोहिणी नन्दो रामश्च बलिनां वरः॥ कृष्णमालिङ्ग्ययुयुजुराशिषः स्नेहकातराः॥३०॥ दिवि देवगणाः साध्याःसिद्धगन्धर्वचारणा॥ तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव॥३१॥ शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः॥ जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप॥३२॥ ततौऽनुरक्तैः पशुपैःपरिश्रितो राजन् स गोष्ठं सबलोऽवजद्धरिः॥ तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः॥३३॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे गोकुलरक्षानिरूपणं नाम पञ्चविंशोऽध्यायः॥२५॥ श्रीशुक उवाच॥ एवंविधानि170 कर्माणि गोपाः कृष्णस्य वीक्ष्य ते॥ अतद्वीर्यविदः प्रोचु समभ्येत्य सुविस्मिताः॥१॥
हृदि स्पृशन्तीति तथाभूताः, प्रेष्ठत्वेन तासा हृदि स्पृशतीति तस्येति कृष्णविशेषण वा॥३३॥ इति श्रीवल्लभाचार्य—वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधर्णने॥ पञ्चविंशो गतो वृत्ति व्रजरक्षानिरूपकः॥३॥ षड्विंशे विस्मिता जाता गोपाः कृष्णस्य कर्मभिः॥नन्देन तत्प्रबोधाय गर्गगीत निरूप्यते॥१॥ एवंविधानि गोवर्धनोद्धरण- सदृशान्यतिमानुषाणि कृष्णस्य कर्माणि ते गोपा वीक्ष्य अनुस्मृत्य सुविस्मिताः आश्चर्ययुक्ताः सन्तो नन्द समभ्येत्य समभिगम्य प्रोचुः। ननु ‘ईश्वरलीलायाः किमाश्चर्यम्?” इत्याशङ्क्याह—अतद्वीर्यविद इति। तस्य वीर्यमैश्वर प्रभावमजानन्त इत्यर्थः॥१॥
तदुक्तमेवाह—बालकस्येति। ‘वै’ अवधारणे। यत् यस्मात बालकस्य सत एतानि कर्माणि अत्यद्भुतान्येव तस्मात् असौ आत्मनः स्वस्य जुगुप्सितमयोग्य ग्राम्येषु गोपेष्वस्मासु जन्म कथमर्हतीत्वन्वयः॥२॥ अद्भुतानि कर्माण्येव दर्शयन्ति—यः इति द्वादशभिः। यः सप्तहायनः सप्तवर्षमात्रवयाःबालः सर्वथा असमर्थःस कथमेकेन करेण लीलया अनायासेन गिरिवरमबिभ्रदित्यन्वयः। अडभाव आर्षः, ‘बिभ्रत्स्थित’ इति शेषो वा। अनायासेन धारणे दृष्टान्तमाह—पुष्करं कमल गजराडिवेति॥३॥ आसमन्तात् मीलिताक्षेण तोकेन अतिबालेन महौजसो महाबलायाः पूतनायाः प्राणैः सह स्तनः कथं पीतः?। अज्ञाततया बलात् पाने दृष्टान्तमाह—कालेनेति। तनोः शरीरस्य क्यो यौवनमायुर्वा यथा कालेन पयिते, तथेत्यर्थः॥४॥ शकटस्याधः शयानस्य मास्यस्य मासास्त्रयः परिच्छेदका यस्य तस्यासमर्थस्य, अत एव रुदतः उदक् ऊर्ध्वचरणौ हिन्वतः प्रक्षिपतः प्रपदा
बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै॥ कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम्॥२॥
य सप्तहायनो बालः करेणैकेन लीलया॥ कथं बिभ्रद्गिरिवर पुष्करं गजराडिव॥३॥
तोकेनामीलिताक्षेण पूतनाया महौजसः॥ पीत स्तनः सह प्राणैःकालेनेव वयस्तनो॥४॥
हिन्वतोऽधःशयानस्य मास्यस्य चरणावुदक्॥अनोऽपतद्विपर्यस्त रुदतः प्रपदा हतम्॥५॥
एकहायन आसीनो ह्रियमाणो विहायसा॥दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम्॥६॥
क्वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले॥गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत्॥७॥
वने सञ्चारयन् वत्सान् सरामो बालकैर्वृत॥ हन्तुकामं बकं दो++मुखतोऽरिमपाटयत्॥८॥
वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया॥ हत्वा न्यपातयत्तेन कपित्थानि च लीलया॥ ९॥
पादाग्रेण हतम्, अत एव विपर्यस्त सत् अनः शकट कथमपतदित्यन्वयः॥५॥ य एकहायनः एकवार्षिकः, अत एव आसीनः उपविष्टः चलनेऽप्यसमर्थः, अत एव दैत्येन तृणावर्तेन विहायसा आकामार्गेण ह्रियमाणः स कथं त तृणावर्त कण्ठग्रहणेनातुर विवश कृत्वा अहन्नित्यन्वयः॥६॥ क्वचित् कदाचित् हैयङ्गवस्तैन्ये नवनीतचौर्ये सति क्रुद्धया मात्रा उलूखले बद्धोबाहुभ्यामर्जुनयोर्मध्ये गच्छन् रिङ्गन् तावर्जुनौ कथमपातयत्?॥७॥ रामेण सहितो बालकैश्च वृतो वने वत्सान् सञ्चारयन् आत्मान हन्तुकामम्, अत एव अरिं शत्रु बक बकवेषमसुर दोर्भ्या भुजाभ्यां मुखतो मुख चञ्चु गृहीत्वा कथमपाटयत् विदारितवान्?॥८॥ जिघांसया हन्तुमिच्छया वत्सरूपेण वत्सेषु प्रविशन्त प्रविष्ट वत्सासुर लीलया भ्रामणरूपया हत्वा तेन मृतदैत्यशरीरेण कपित्थानि न्यपातयत्॥९॥
बलदेवेनान्वित सहित रासभदैतेय धेनुकासुर तद्बन्धूश्चहत्वा परिपक्वैःफलैरन्वित तालवन क्षेम निर्भयत्वेन सर्वै प्रवेष्टुं योग्य चक्रे॥१०॥ उग्रमतिभयङ्कर प्रलम्ब बलेन घातयित्वा स्वयं व्रजपशून् गोपाश्च आरण्यवह्नितः अमोचयत्। अत्र यद्यपि धेनुकप्रलम्बयोर्वधो बलेनैव कृतस्तथापि सर्वत्र कृष्णप्रभावस्य दृष्टत्वात्तस्यैव मुख्यता। ‘तर्हि बलेनैव कथमघातयत्?’ तत्राह—बलशालिनेति॥११॥ आशीविषतमः अतिक्रूरविषश्चासावहीन्द्रश्च त प्रसह्य बलात दमित्वा ततो विगतमदं त ह्रदादुद्वास्य निष्कास्य यमुना निर्विषोदका चक्रे॥१२॥ ‘सर्वथा त्वया महान् आनन्दो दत्तः, कस्त्वा स्तोतु समर्थ?‘इति सूचयन्तः सम्बोधयन्ति—नन्देति। सर्वेषां पशुपक्ष्यादिसहितानां नोऽस्माकं व्रजौकसामस्मिन् ते तव तनये कृष्णे दुस्त्यजो
हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः॥ चक्रे तालवनं क्षेमं परिपक्वफलान्वितम्॥१०॥ प्रलम्ब घातयित्वोग्रं बलेन बलशालिना॥अमोचयद्व्रजपशून् गोपांश्चारण्यवह्नितः॥११॥ आशीविषतमाहीन्द्रं दमित्वा विमद हृदात्॥ प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम्॥१२॥ दुस्त्यजश्चानुरागो- ऽस्मिन् सर्वेषां नो व्रजौकसाम्॥ नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिक कथम्॥१३॥ क्वसप्तहायनो बालः क्वमहाद्रिविधारणम्॥ ततो नो जायते शङ्का व्रजनाथ तवाऽऽत्मजे॥१४॥ नन्द उवाच॥ श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके॥एनं कुमारमुद्दिश्य गर्गोमे यदुवाच ह॥१५॥ वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः॥ शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत॥१६॥
ऽनुरागस्तथाऽस्मासु तस्यौत्पत्तिकः स्वाभाविकोऽनुरागः कथम्?॥१३॥ क्व सप्तहायनो बालः, क्वच महाद्रेर्विधारणम्?ततः तस्मात् सर्वात्मसर्वशक्तिविना उक्तप्रभावस्यासम्भवात् हे व्रजनाथ !तवात्मजे नोऽस्माकं परमेश्वरत्वशङ्का जायते॥१४॥ एव श्रीकृष्णस्याद्भुतकर्मभिर्विस्मितान् गोपान् नन्दो गर्गोक्ति- माश्राव्य तदैश्वर्यंं वर्णयति—श्रूयतामिति। हे गोपाः!मम वचः श्रूयताम्। तेन वचःश्रवणेन ममार्भके बालके या वो युष्माकं शङ्का सा व्येतुं अपगच्छतु। ‘अस्मिंश्च वचसि विश्वासः कर्तव्यः, परमात्मोक्तत्वात्’ इत्याशयेनाह—एनमिति। ‘ह’ इति स्फुटमुवाच॥१५॥ ‘किल’ इति निश्चयेन।अनुयुग तनूः अवतारान् गृह्णतोऽस्य शुक्लादयस्त्रयो वर्णा आसन्। इदानीं कृष्णता गतः॥१६॥
अयं श्रीमास्तवात्मजः प्राक् कदाचिद्वसुदेवस्य सुतो जातः, अतस्तदभिज्ञा एनं वासुदेव इति सम्प्रचक्षते॥१७॥ तानि नामरूपाणि सर्वाण्यहमपि नो वेद, अन्ये जनास्तु कुतो विदुः? स्पष्टमन्यत्॥१८॥ एष वो युष्माकं श्रेयः पारलौकिक सुखमाधास्यत् करिष्यति। अस्मिंश्च लोके गोपाना गोकुलस्य चानन्दकरो भविष्यति। सर्वाणि दुर्गाणि अन्येन दुर्निवार्यदुःखानि॥१९॥ हे व्रजपते !पुरा अराजके दस्युभिः पीडिताः साधवोऽनेन रक्ष्यमाणाःसमेधिताः सवर्धिताश्च सन्तो दस्यून् जिग्युः जितवन्तः॥२०॥ ये महाभागाः अनेकजन्मानुष्ठितसुकृता मानवा एतस्मिन् प्रीति कुर्वति तानेतान् अरयः शत्रवो नाभिभवन्ति। तत्र दृष्टान्तमाह—विष्णुपक्षानिति। विष्णुना रक्ष्यमाणान् देवान् यथा असुरा नाभिभवन्ति तथेत्यर्थः॥२१॥ यस्मादेव तस्मात् हे नन्द!अयं कुमारो गुणादिभिर्नारायणसमः। एव ‘वर्णास्त्रय’ इत्यारभ्य नन्दो गर्गवाक्यमाश्राव्य स्वयमाह—तत्कर्म-
प्रागय वसुदेवस्य क्वचिज्जातस्तवाऽऽत्मजः॥ वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते॥१७॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते॥ गुणकर्मानुरूपाणि तान्यह वेद नो जनाः॥१८॥ एष वःश्रेय आधास्यद्गोप गोकुलनन्दनः॥ अनेन सर्वदुगाणि यूयमञ्जस्तरिष्यथ॥१९॥ पुराऽनेन व्रजपते साधवो दस्युपीडिता॥ अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः॥२०॥ य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः॥नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः॥२१॥ तस्मान्नन्दकुमारोऽयं नारायणसमो गुणैः॥ श्रिया कीर्त्याऽनुभावेन तत्कर्मसु न विस्मयः॥२२॥ इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते॥ मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम्॥२३॥ इति नन्दवच श्रुत्वा गर्गगीतं व्रजौकस॥ दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजस॥ मुदिता नन्दमानर्चुः कृष्णः च गतविस्मयाः॥२४॥
स्विति। यस्मात् गर्गोनारायणसमत्वेनोक्तवान् तत् तस्मात् अस्य कर्मसु युष्माभिर्विस्मयो न कार्यः॥२२॥ स्वनिश्चयमाह—इतीति। इत्येवमद्धा साक्षात् मा प्रति समादिश्य कृष्णप्रभाव निरूप्य गर्गे स्वगृह गते सति अह कृष्ण नारायणस्याश मन्ये। साक्षान्नारायणत्वेऽपि तस्य स्वपुत्रत्वासम्भावनया नन्दस्य तदशत्वाभिमानः। ‘न केवल गर्गवाक्यमेव तत्र प्रमाणम्, किन्तु तत्प्रभावदर्शनमपि’ इत्याशयेनाह—अक्लिष्टेति। अक्लिष्टानि भक्तजनक्लेशनिवर्तकानि कर्माणि करोतीति तथा तमित्यर्थः॥२३॥ अमिततेजसः अचिन्त्यप्रभावस्य कृष्णस्य दृष्टाः श्रुताश्चानुभावा यैस्ते व्रजौकसःइत्येव गर्गगीत, ‘तत्कर्मसु न विस्मयः’ इत्यादि नन्दवचश्च श्रुत्वा गतविस्मयाः आश्चर्यरहिता मुदिताश्च सन्तः नारायणबुद्ध्या श्रीकृष्ण तस्य नन्दपुत्रत्वाङ्गीकारात् नन्दमपि तत्पितृबुद्ध्या आनर्चुरिति सार्धान्वयः॥२४॥
गोवर्धनोद्धरण सपरिकरमनुस्मरन् प्रकटितैश्वर्यस्य श्रीकृष्णस्य प्रीति प्रार्थयते—देवे इति। स्वयज्ञस्य विप्लवेन प्रतिरोधेन या रुट् कोध, तया देवे इन्द्रे नाशाय वर्षति सति वज्राश्मपरुषानिलैः अशनिजलशर्करातीव्रवायुभिःसीदत्पालपशुस्त्रि सीन्दतःपालाः पशवःस्त्रियश्च यस्मिंस्तथाभूत गोष्ठ व्रजदृष्ट्वा अनुकम्पी जातकृप उत्स्मयन् प्रहसन प्रौढिमाविष्कुर्वन् शैल गोवर्धनमुत्पाट्य उत्कृत्य एकेन करेण बिभ्रत् दधत् यो गोष्ठमपात् पालितवान् स इन्द्रमदभित् गवामिन्द्रःश्रीकृष्णो नोऽस्मान् वक्तृश्रोत्रादीन् प्रीयात् प्रीयतामित्यन्वयः। अनुकम्पाया हेतुमाह—आत्मशरणमिति। आत्मा स्वयमेव शरण रक्षको यस्य तत्। ‘देवे’ इत्यादिपदैरन्यैरपरिहार्यत्वं सूचितम्। अनायासेन गोवर्धनधारणे दृष्टान्तमाह—अबल इति। बालो लीलार्थमु-
देवे वर्षति यज्ञविप्लवरुषा वज्राश्मपर्षानिलैःसीदत्पालपशुस्त्रि आत्मशरण दृष्ट्वाऽनुकम्प्युत्स्मयन्॥
उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रंयथा बिभ्रद्गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न इन्द्रो गवाम्॥२५॥
इति श्रीमद्भा०महा० दश० तामसनिरोधनिरूपणप्रकरणे गर्गगीतनिरूपण नाम षड्विंशतितमोऽध्यायः॥२६॥
॥श्रीशुक उवाच॥
गोवर्धने171 धृते शैल आसाराद्रक्षिते व्रजे॥गोलोकादाव्रजत् कृष्ण सुरभिःशक्र एव च॥१॥
च्छिलीन्ध्र छत्रयथा बिभर्ति तथेत्यर्थः। ‘इन्द्रमदभित्, इन्द्रो गवाम्’ इति पदद्वयेन उत्तराध्यायार्थस्मरण ज्ञेयम्॥२५॥ इति श्रीवल्लभाचार्य-वश्यगोपाल- सूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये। श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ षड्विंशो विवृतोऽध्यायो गर्गगीतनिरूपकः॥३॥ सप्तविंशे तु भीतेन शक्रेण सस्तुतिर्हरेः॥ तथा च सुरभीन्द्राभ्यामभिषेको निरूप्यते॥१॥ गोवर्धने शैले कृष्णेन धृते सति तस्य परिश्रममाशङ्क्य भयात्त क्षमापयितुं शक्रःआव्रजत्। आसारात् धारापातात् व्रजे गोकुले रक्षिते सति हर्षाच्छ्रीकृष्णाभिषेकार्थ सुरभिः कामधेनुश्च गोलोकादाव्रजत्। एवकारः पादपूरणार्थः॥१॥
‘तत्रेन्द्र आगत्य किं कृतवान्’?तत्राह—विविक्त इत्यादिना ‘अथाह सुरभिः’ इत्यतः प्राक्तनेन ग्रन्थेन। इन्द्रो विविक्त उपसङ्गम्य एकान्ते श्रीकृष्णसमीपं गत्वा अर्कःसूर्यस्तद्वद्वर्चोयस्य तेन किरीटेनैनं कृष्ण पादयो पस्पर्श नमश्चकार। ततश्च कृताञ्जलिः सन् वक्ष्यमाणमाहेति द्वयोरन्वयः। विविक्तसङ्गमे हेतुमाह—व्रीडित इति। लज्जया पादस्पर्शे हेतुमाह—कृतहेलन इति, वर्षादिना कृतापराध इत्यर्थः॥२॥ त्रिलोकेशमदव्याप्तस्य स्वापराधाङ्गीकार एव कथम्?” तत्राह—नष्टः ‘त्रिलोकेशोऽहम्’ इति मदो यस्य सः। तत्र हेतुमाह—दृष्टेति। अमित तेजः प्रभावो यस्य तस्य अस्य कृष्णस्य दृष्टः गोवर्धनोद्धरणव्रजरक्षादिरूपः श्रुतश्च पूतनानिधनादिरूपोऽनुभावो येन सः॥३॥ तत्कृता स्तुतिमेव दर्शयति—विशुद्धसत्त्वमित्यादिदशभिः। तव धाम स्वरूप शान्त रागलोभादिविकाररहितम्। तत्र हेतुमाह—तपोमयमिति। ‘यस्य ज्ञानमय तप’ इति श्रुतेः। ज्ञानप्रचुरमित्यर्थः॥ तत्र हेतुमाह—विशुद्धसत्त्वमिति, ‘सत्त्वात् सञ्जायते ज्ञानम्’ इति वचनात्॥ विशुद्धमेव स्पष्टयति—ध्वस्ते अविद्यमाने रजस्तमसी यस्मिंस्तत्, अत एव अयमस्मदा-
विविक्त उपसङ्गम्य व्रीडितःकृतहेलन॥ पस्पर्श पादयोरेन किरीटेनार्कवर्चसा॥२॥ दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजस॥ नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः॥३॥ इन्द्र उवाच॥ विशुद्धसत्त्व172 तव धाम शान्त तपोमय ध्वस्तरजस्तमस्कम्॥ मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः॥४॥ कुतो नु तद्धेतव ईशतत्कृता लोभादयो येऽबुधलिङ्गभावा॥ तथापि दण्ड भगवान् बिभर्ति धर्मस्य गुप्त्यैखलनिग्रहाय॥५॥
दिषु दृश्यमानो मायामयःप्राकृतः गुणसम्प्रवाहो गुणैःसम्प्रोह्यते इति स ससारस्ते तव न विद्यते। तत्र हेत्वन्तरमप्याह—ग्रहणानुबन्ध इति। ग्रहणेन प्राकृतदेहादावात्माध्यासेनैवानुबद्ध्यते इति तथा। तव सर्वज्ञस्य तथाध्यासाभावादित्याशयः॥४॥ यद्येव तदा तत्कृता देहाद्यात्माध्यासकृतास्तद्धेतवः पुनरन्यदेहग्रहणस्य हतवो लोभादयस्तु कुतः स्युः?। तत्रैव हेत्वन्तर सूचयन् सम्बोधयति—ईशेति। ननु ‘ज्ञानिनामपि ते दृश्यन्ते?’ तत्राह—अबुधलिङ्गभावा इति, अज्ञानिना गमकाः। रागलोभादिसत्त्वे ज्ञानित्वमेव न सिद्ध्यतीति भावः॥ ननु ‘रागलोभाद्यभावे कथंत्वन्मखभङ्गेन स्वमखसाधने प्रवृत्तिः?’ इत्याशङ्क्याह—तथापीति। लोभाद्यभावेऽपि भगवान् ऐश्वर्यादिपूर्णोऽपि भवान् खलाना परोद्वेजकानामस्मदादीना निग्रहाय वशीकरणार्थ मानभङ्गादिरूप दण्ड बिभर्ति करोति। तत्प्रयोजनमाह—धर्मस्य गुप्त्या इति। दण्डाभावे प्रमादेन त्वदाराधनरूपस्य धर्मस्य विलोपादित्याशय॥५॥
‘उचित च तव एतत्’ इत्याह—पितेति। जगता प्राणिना त्वं पिता जनक, गुरुरुपदेष्टा, अधीश नियन्ता चेति दण्डस्योचितत्वे हेतुत्रयम्। तत्र सामर्थ्यमाह—दुरत्यय इति। तत्र हेतुमाह—काल इति। तस्मादुपात्तदण्डःसङ्कल्पितदण्डः सन् जगदीशमानिनामस्माकं मान विधुन्वन् दूरीकुर्वन् स्वेच्छातनुभिः लीलावतारैः समीहसे चेष्टसे। ‘मानदूरीकरण तु शिक्षाद्वारा कल्याणार्थमेव’ इत्याह—हितायेति॥६॥ ‘तेन हित भवत्येव’ इत्याह—ये इति। ये मद्विधाश्च ते अज्ञाश्च, अत एवात्मान जगदीश मन्यमानास्ते भयकालेऽपि त्वामभय भयरहित दण्डधर वीक्ष्य तन्मद जगदीशाभिमानप्रयुक्त मदमाशु हित्वा अपस्मयाः अपगतगर्वाः सन्तः आर्यमार्ग सता वर्त्म त्वद्भक्तिं प्रभजन्ति अनुवर्तन्ते। अतस्तवेहा लीला खलानामनुशासन शिक्षैव॥७॥ एव स्वयागभङ्गगोवर्धनपूजादि- भगवल्लीलायाःस्वशिक्षार्थत्वमभिधाय त क्षमापयति—स इति। ‘समर्थस्य स्वामिनः क्षमैव युक्ता’ इत्याशयेन सम्बोधयति—प्रभो इति। स सर्वेश्वरस्त्व कृतागसः वर्षादिना कृतापराधस्य ममापराध क्षन्तुमर्हसीत्यन्वयः। ‘अपराधः कुतः कृत’?” इत्यत आह—ते इति।
पिता गुरुस्त्व जगतामधीशो दुरत्ययःकाल उपात्तदण्ड॥हिताय स्वेच्छातनुभिः समीहसे मान विधुन्वन् जगदीशमानिनाम्॥६॥ ये मद्विधाज्ञा जगदीशमानिनस्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम्॥ हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम्॥७॥ स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषःप्रभावम्॥ क्षन्तु प्रभोऽथार्हसि मूढचेतसो मैव पुनर्भून्मतिरीश मेऽसती॥८॥ तवावतारोऽयमधोक्षजेह स्वयभराणामुरुभारजन्मनाम्॥ चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम्॥९॥
तव प्रभावमविदुषः अजानतः। प्रभावा ज्ञाने हेतुमाह—ऐश्वर्येति। इन्द्राधिपत्येन यो मदस्तेन प्लुतस्य व्याप्तस्येत्यथः। मदेऽपि हेतुमाह—मूढचेतस इति। मूढमविद्यया विवेकहीनं चेतो यस्य तस्येत्यर्थः। हे ईश सर्वान्तर्यामित्वेन सर्वकरणसमर्थ। अथ इतोऽनन्तरमपि मे ममासती दुष्टा त्रिलोकेशत्वाभि- मानरूपा मतिर्मा भूदिति प्रार्थनान्तरम्॥८॥ एतदवतारप्रयोजनमाह—तवेति। अधः अक्षज ज्ञान यस्मात्तत्सम्बोधन हे अधोक्षज! एवंविधस्यापि तवेह भूमावयमवतारः स्वयभराणां स्वप्राणमात्रपोषकाणाम्, अत एव उरुभारजन्मनां बहूनां भाराणा जन्म येभ्यस्तेषां चमूपतीना राज्ञामभवाय विनाशाय, युष्मच्चरणसेविना तु भवाय यथोचित धर्मादिपुरुषार्थलाभाय। तथाच पूर्व मम दुर्मदत्वेन मानभङ्गस्य कृतत्वादिदानीं तु त्वच्छरणागते मय्यनुग्रह एव युक्त इत्याशयः। ‘एवंविधनानाक्रीडा अपि तवावतारप्रयोजनम्’ इति सूचयन् सम्बोधयति—देवेति॥९॥
एव क्षमा प्रार्थ्य तदर्थ नमस्करोति—नम इति द्वयेन। तुभ्यं भगवते ऐश्वर्यादिषड्गुणपूर्णाय, पुरुषाय सर्वान्तर्यामिणे, अन्तस्थत्वेऽपि महात्मने अपरिच्छिन्नाय, वासुदेवाय वसुदेवनन्दनाय, कृष्णाय सदानन्दरूपाय, सात्वता यादवाना पतये। ‘नम’ इत्यस्य सर्वत्रान्वयः॥१०॥ कर्माधीनत्वशङ्का वारयन्नाह—स्वच्छन्दोपात्तदेहाय स्वेच्छया स्वीकृतदेहाय। तथा देहस्य प्राकृतत्वशङ्का वारयन्नाह—विशुद्ध ज्ञानमेव मूर्तिर्यस्य तस्मै। सर्वस्मै विश्वरूपाय। तत्र हेतुमाह—सर्वबीजायेति, सर्वोपादानायेत्यर्थः॥ सर्वेषां भूतानामात्मने साक्षिणे नमः॥११॥ ‘कृतागस ’ इति यदुक्त त स्वापराध निवेदयति—मयेति। स्वस्यातितुच्छत्व सूचयन् सम्बोधयति—भगवन्निति। आसारवायुभिर्गोष्ठनाशाय मयेद चेष्टितमकृत्य कृतमित्यन्वयः। तत्करणे हेतुमाह—तीव्रमन्युनेति। क्रोधे हेतुमाह—यज्ञे विहते सतीति। ‘मया परमेश्वरेण यज्ञे विहतेऽपि तव क्रोधः कथमुचितः?’ तत्राह—मानिनेति। त्रिलोकेशत्वा-
नमस्तुभ्यं भगवते पुरुषाय महात्मने॥ वासुदेवाय कृष्णाय सात्वतांपतये नमः॥१०॥ स्वच्छन्दो173पात्तदेहाय विशुद्धज्ञानमूर्तये॥ सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः॥११॥ मयेदं भगवन् गोष्ठनाशायासारवायुभिः॥ चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना॥१२॥ त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तंभो वृथोद्यमः॥ईश्वर गुरुमात्मान त्वामह शरण गतः॥१३॥ श्रीशुक उवाच॥ एवं174 सङ्कीर्तितःकृष्णो मघोना भगवानमुम्॥मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत्॥१४॥
मिमानिनेत्यर्थः॥१२॥ ‘मयैवमपराधे कृतेऽपि त्वया तु स्वोचितमेव कृतम्’ इत्याशयेन सम्बोधयति—ईशेति। ‘त्वयाऽनुगृहीतोऽस्मीति कथं’ तत्राह— ध्वस्तस्तम्भ इति। ध्वस्तः स्तम्भः अविनयो यस्य सः। तत्र हेतुमाह—हतोद्यम इति। हतः उद्यमो व्रजविनाशविषयको यस्य सः॥ “अत इदानीं त्वामह शरण गतोस्मीति, शरणागमनयोग्यश्च त्वम्” इत्याशयेनाह—ईश्वरमिति। गुरु शास्त्रप्रवर्तकमात्मानं परमात्मानं सर्वान्तर्यामिणमित्यर्थः॥१३॥ मघोना इन्द्रेण एव सङ्कीर्तितः सस्तुतः कृष्णो मेघवत् गम्भीरया मधुरया वाचा अमु इन्द्र हर्षयन् स्वयमपि प्रहसन् इदंवक्ष्यमाणमब्रवीदित्यन्वयः। ‘तस्य तस्मिन्नपराधवत्यपि क्रोधो न जातः, वैराग्यादिगुणपूर्णत्वात्’ इत्याशयेनाह—भगवानिति॥१४॥
भगवद्वाक्यमाह—मयेति त्रिभि। हे मघवन् !अनुगृह्णता अनुजिघृक्षता मया ते तव मखभङ्गः अकारि कृतः। ‘मखभङ्गेन कथमनुग्रहः?’ इत्यपेक्षायामाह—मदनुस्मृतय इति। इन्द्राधिपत्येन भृशमत्यन्त नित्य प्रमत्तस्य कर्तव्यमदनुसन्धानशून्यस्य मदनुस्मृतये मखभङ्गः कृतः। तेन मदनाशद्वारा मदनुस्मृत्यापादनमेवानुग्रह इति भावः॥१५॥ एव यस्य चानुग्रहमिच्छामि तं सम्पद्भ्यो भ्रशयामि, यस्मात् ऐश्वर्यश्रीभ्यामाधिपत्यसम्पद्भ्या यो मदस्तेनान्धो विवेकशून्यो जनः दण्डपाणि दण्डधर कालयमादिरूप मा न पश्यति। अत्रेद बोध्यम्—यत्र ऐश्वर्यादिसत्त्वे मदस्तद्भ्रशदशाया धर्मार्थकामसाधनप्रवृत्त्य- भावपूर्वककेवलभगवद्भजनपरत्वं तत्रैव भगवदनुग्रहः। यत्र चैश्वर्यादिसत्त्वेऽपि उक्तप्रकारेण भगवद्भजनपरत्वं तत्रैव भगवदनुग्रहः, अम्बरीषादौ तथादर्शनात्॥ यत्र त्वैश्वर्यादिसत्त्वे तदभावे वा त्रिवर्गसाधने प्रवृत्तिरेव, तत्र तु स्वकर्मभोग एव तदनुग्रहः। “त्रैवार्गिकायासविघातमस्मत्पतिर्विधत्ते पुरुषस्य शक्र॥ ततोऽनुमेयो भगवत्प्रसाद"इति वृत्रवचनात्॥ इन्द्रे तु पूर्णानुग्रहाभावान्न स ऐश्वर्याद्भ्रशितः, अत एव वक्ष्यमाण पारिजातापहरणे मदेन पुनर्भगवता सह युद्ध सङ्गच्छते॥१६॥ हे शक्र ! ‘स्वर्ग गम्यताम्, गत्वा च मे अनुशासन क्रियताम्। तेन वो युष्माकंभद्रमेव भविष्यति। ‘किं तदनुशासनम्?’ इति तत्राह—स्थीयतामिति। स्तम्भवर्जितैः गर्वरहितैः युक्तैःस्वकर्तव्ये सावधानैर्वो युष्माभिः स्वाधिकारेषु
॥श्रीभगवानुवाच॥
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता॥ मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम्॥१५॥
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति॥ त भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्॥१६॥
गम्यतां शक्र भद्रं वःक्रियतां मेऽनुशासनम्॥ स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः॥१७॥
अथाऽऽह सुरभि कृष्णमभिवन्द्य मनस्विनी॥ स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम्॥१८॥
॥सुरभिरुवाच॥
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव॥ भवता लोकनाथेन सनाथा वयमच्युत॥१९॥
स्थीयतामित्यन्वयः। बहुवचन वरुणाद्यभिप्रायेण॥१७॥ एवमिन्द्रकृतस्तुत्यादिकंनिरूप्य सुरभिकृत्यमाह—अथेति। इन्द्रप्रति भगवदाज्ञानन्तरं स्वसन्तानैः स्वापत्यैर्गोभिः सह सुरभिः कृष्णमामन्त्र्य सम्बोध्य साधुरक्षा कृतेत्यभिनन्द्य चाहेत्यन्वयः। तस्य स्तुतियोग्यत्व सूचयन् विशिनष्टि—गोपरूपिणमीश्वरमिति। सुरभेरपि तत्स्तुतिकर्तृत्वयोग्यतामाह—मनस्विनीति। प्रशस्तमनस्का॥१८॥ सुरभिवाक्यमाह। सम्बोधमान्याह—कृष्णकृष्णेति। वीप्सा आदरार्था।जगदुपादानत्वं सूचयन्त्याह—विश्वात्मन्निति। निमित्तकारणता सूचयन्ती सम्बोधयति—विश्वसम्भवेति। एवं सति विकारित्वमाशङ्क्य सम्बोधयति— अच्युतेति। ‘एतत् कथं सम्भवति?” इत्याशङ्क्य सम्बोधयति—महायोगिन्निति। अचिन्त्यशक्तियुक्त इत्यर्थ। भवता वयं सनाथा रक्षिताः। ‘युक्त च तवैतत् ‘इत्याशयेनाह—लोकनाथेनेति॥१९॥
हे जगत्पते !यतस्त्व नोऽस्माकं परमक सर्वोत्कृष्टं दैवम्, अतस्त्व गवा विप्राणां देवानां ये चान्ये साधवस्तेषां च नोऽस्माकं भवाय अभ्युदयायेन्द्रो भवेत्यन्वयः॥२०॥ ननु ‘भवतामिन्द्रोऽस्त्येव’ तत्राह—इन्द्रमिति। ब्रह्मणा तदधिकारप्रदेन नोदिता वयं त्वां त्वामेव नोऽस्माकमिन्द्रमभिषेक्ष्यामः। अस्मत्कुलनाशाय प्रवृत्तस्य पुरन्दरस्य इन्द्रत्वेनालमित्याशयः॥ ननु ‘देव इन्द्रो भवितुमर्हति मर्त्योऽह कथमिन्द्रः स्याम् ‘इत्याशङ्क्याह—अवतीर्णोऽसीति। हे विश्वात्मन् सर्वेश्वर !त्वंभूमेर्भारापनुत्तयेऽवतीर्णोऽसीति॥२१॥ एवं सुरभिःकृष्णमुपामन्त्र्य सम्प्रार्थ्य तस्य मौनभावेऽपि मौनत्वस्य सम्मतिज्ञापकत्वात् तेन तत्सम्मति ज्ञात्वा आत्मनः पयसाऽभ्यषिञ्चत। तथेन्द्रोऽपि देवैः मातृभिरदित्यादिभिश्च नोदितः प्रेरितः सुरैः ऋषिभिश्च सहितः ऐरावतस्य हस्तिनः करेण शुण्डेन उद्भूतैराकाशगङ्गाया जलैर्दाशार्ह कृष्णमभिषिक्तवान्। ‘गोविन्द’ इति चाभ्यधात् अभिधा चकार॥२२॥२३॥
त्व175 नः परमकं दैवत्व न इन्द्रो जगत्पते॥ भवाय भवगोविप्रदेवानां ये च साधवः॥२०॥ इन्द्र नस्त्वाऽभिषेक्ष्यामो ब्रह्मणा नोदिता वयम्॥ अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये॥२१॥श्रीशुक उवाच॥ एवं कृष्णमुपामन्त्र्य सुरभिः पयसाऽऽत्मनः॥ जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः॥२२॥ इन्द्रः सुरर्षिभिः साकं नोदितो देवमातृभिः॥ अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात्॥२३॥ अहमिन्द्रो हि देवानां त्वगवामिन्द्रतां गतः॥ गोविन्द इति लोके त्वां गास्यन्ति भुवि मानवाः॥२४॥ तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः॥ जगुर्यशो लोकमलापह हरेःसुराङ्गना संननृतुर्मुदान्विताः॥२५॥ तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरश्चाद्भुतपुष्पवृष्टिभिः॥ लोकाः परां निर्वृतिमाप्नु- वंस्त्रयो गावस्तदागामनयन् पयोद्रुताम्॥२६॥
तद्दर्शयति—अहमिति। हिशब्दः प्रसिद्धौ। अत्र ‘गा इन्द्रत्वेन विन्दति गोविन्द’ इति नामनिरुक्तिर्बोध्या॥२४॥ तत्र भगवतोऽभिषेकस्थाने आगताः तुम्बुर्वादयो हरेर्यशो जगुः। गाने हेतुमाह—लोकमलापहमिति। लोकस्य वक्तृश्रोतृस्मर्तृजनस्य मलानि पापादीनि हन्तीति तत्। तथा।सुराङ्गना रम्भादयः अप्सरसो मुदान्विता ननृतुः॥२५॥ त श्रीकृष्णं देवाना निकायेषु समूहेषु ये केतव इव दर्शनीया मुख्यास्ते तुष्टुवुः, तथाऽद्भुतानां पुष्पाणां वृष्टिभिः हि प्रसिद्ध यथा तथा अवाकिरन् आच्छादितवन्तश्च। तथा त्रयो लोकाः त्रिलोकस्था जनाः परा निर्वृति परमानन्दमाप्नुवन्।तदा गावो गा पृथ्वीं पयोभिर्द्रुतासिक्तामनयंश्चक्रुः॥२६॥
सरितो नानारसौघा क्षीरादिवाहिन्यो जाता। वृक्षाश्चमधूनि स्रवन्तीति तथाभूता आसन्। अकृष्टपच्याः कर्षणंविनैव पक्वाओषधयो व्रीह्यादयः आसन्। अत्र समास कर्मधारयः। तथा गिरयः उन्मणीन् उद्गतान् बहिःप्रकटान् मणीन् अबिभ्रत् अबिभरुः॥२७॥ ‘तव राज्याभिषेकेऽपिकुलस्य महानानन्दो जात’ इति सूचयन् सम्बोधयति—कुरुनन्दनेति। तत्रापि स्नेहातिशयेन पुनः सम्बोधयति—तातेति। कृष्णे इन्द्रतयाऽभिषिक्ते सति निसर्गतः स्वभावतः क्रूराण्यप्येतानि सर्पव्याघ्रादीनि भूतानि निर्वैराण्यभवन्॥२८॥ उपसंहरति—इतीति। इत्येवं गवा गोकुलस्य व्रजस्य च पतिं कृष्ण गोविन्दनामधारणपूर्वकमभिषिच्य कृष्णेनानुज्ञातः स शक्रो देवादिभिर्वृतो दिव स्वर्गं ययौ॥२९॥ इति श्रीवल्लभाचार्य-वश्य-
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः॥ अकृष्टपच्यौषधयो गिरयो बिभ्रदुन्मणीन्॥२७॥ कृष्णे ऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन। निर्वैराण्यभवस्तात क्रूराण्यपि निसर्गतः॥२८॥ इति गोगोकुलपति गोविन्दमभिषिच्य सः॥ अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम्॥२९॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे गोविन्दाभिषेकनिरूपण नाम सप्तविंशोऽध्यायः॥२७॥॥ श्रीशुक उवाच॥ एकादश्यां176 निराहारःसमभ्यर्च्य जनार्दनम्॥ स्नातु नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्॥१॥
गोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्द सिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ सप्तविंशो गतो वृत्तिमभिषेकनिरूपकः॥३॥॥ नन्दस्यानयन कृत्वा श्रीकृष्णो वरुणालयात्। स्वलोक दर्शयामासेत्यष्टाविंशे निरूप्यते॥१॥ एव गोवर्धनपूजनेन इन्द्रमान विमर्द्य तद्वशीकरण निरूपितम्, अथ नन्दानयनेन वरुणवशीकरण सप्रसङ्ग निरूपयति—एकादश्या- मित्यादिना। नन्दस्तु कदाचिदेकादश्या निराहारः सन् जनार्दन सम्यगभ्यर्च्य कलामात्रावशिष्टाया द्वादश्या पारणाभिनिवेशेन कालिन्द्या स्नातु जलमाविशत्॥१॥
तमासुरीमसुरसञ्चारविशिष्टा वेलामविज्ञाय अननुसन्धाय “मुहूर्तार्धावशिष्टाया द्वादश्या पारणा प्रति। निशीथात् सम्यगुत्थाय क्रियाःकुर्याद्यथोचितम्॥ अग्निहोत्रादिकर्माणि तथा नैमित्तिकानि च। आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात्"इत्यादिशास्त्रानुसारेण निशि अर्धरात्रिसमये उदकं प्रविष्ट नन्द गृहीत्वा वरुणस्य भृत्यो रात्रौ जलरक्षापरःवरुणस्यान्तिक समीपमनयत्। ननु ‘नन्दस्तु शास्त्रानुसारेण रात्रौ स्नातु प्रवृत्तः, तस्य कोऽपराधो येन स गृहीतवान्?’ इत्याशङ्क्याह—असुर इति। भगवद्धर्मानभिज्ञत्वादित्याशयः। अत एव वरुणो वक्ष्यति—अजानता मामकेनेति॥२॥ ततः प्रभाते त नन्दमपश्यन्तो गोपका’ ‘हे कृष्ण !हे राम !स्नातु गतो नन्दो न मिलति’ इति चुक्रुशुः। भगवान् सर्वज्ञः कृष्णस्तदाक्रोशमुपश्रुत्य पितर नन्द च वरुणेनाहृत ज्ञात्वा तस्य वरुणस्यान्तिक गतः। तस्य तत्र गमने हेतुमाह—स्वानां स्वभक्तानामभयद इति। तत्र सामर्थ्यमाह—विभुरिति। ‘राजधर्म ईदृश एव, यत्स्वसेवका अनुपेक्षणीया’ इति सूचयन् सम्बोधयति—राजन्निति॥३॥ स्वान्तिक प्राप्त हृषीकाणामीशं नियन्तार
तं गृहीत्वाऽनयद्भृत्यो वरुणस्यासुरोऽन्तिकम्॥अविज्ञायाऽऽसुरीं वेलां प्रविष्टमुदकं निशि॥२॥ चुक्रुशुस्तमपश्यन्त कृष्ण रामेति गोपका॥भगवांस्तदुपश्रुत्य पितर वरुणाहृतम्॥ तदन्तिकं गतो राजन् स्वानामभयदो विभु॥३॥ प्राप्त वीक्ष्य हृषीकेश लोकपाल सपर्यया॥महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सव॥४॥ वरुण उवाच॥ अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगत प्रभो॥ त्वत्पादभाजो भगवन्नवापुःपारमध्वनः॥५॥ नमस्तुभ्य भगवते ब्रह्मणे परमात्मने॥ न यत्र श्रूयते माया लोकसृष्टिविकल्पना॥६॥
कृष्ण वीक्ष्य तस्य दर्शनेन महानुत्सवो यस्य स लोकपालो वरुणो महत्या सपर्यया पूजासाधनेन पूजयित्वा आहेत्यन्वयः॥४॥ वरुणकृता स्तुतिमाह—अद्येति चतुर्भि। प्रभो हे स्वामिन्! अद्य अधुना मे मया देहो निभृतः धृतः, त्वद्दर्शनादिना मम जन्मसाफल्य जातमित्यर्थः। अद्यैवार्थः परम फलमधिगतः प्राप्तः, सर्वरत्नाकरपतिनापि मयेतः पूर्वं नैवविधोऽर्थ प्राप्तः तवैव परमार्थत्वादित्यर्थः। ‘संसारोऽपि त्वदर्शनादिना निवृत्तप्राय एव’ इत्याशयेनाह—त्वत्पादेति। त्वच्चरणभक्ता अध्वनः जन्ममरणादिलक्षणस्य संसारमार्गस्य पार त्वामवापु प्रापुः॥५॥ एव स्वकृतार्थतामाविष्कृत्य, अथ स्वापराध क्षमापयितुकामो भगवतःसर्वशास्त्रसिद्धान्तसिद्धफलरूपत्व वर्णयन् नमस्करोति—नम इति। भगवते वैष्णवे सिद्धान्तसिद्धाय, ब्रह्मणे श्रुतिसिद्धान्तसिद्धाय, परमात्मने स्मृतिसिद्धान्तसिद्धाय, तुभ्यं प्रत्यक्षप्रमासिद्धाय नमः। ननु ‘ममापि सर्वजनसाधारणतया प्रत्य-
क्षत्वात् कथंसर्वशास्त्रसिद्धफलरूपत्वम्?’ इत्याशङ्क्याह—नेति। यत्र भवद्विग्रहे लोकानां जनानां सृष्टि देवमनुष्यादिशरीर विकल्पयति या माया प्रकृतिः सा नियामकतया कस्मिन्नपि शास्त्रे न श्रूयते, अतो न सर्वजनसाधारणत्वशङ्का युक्ता॥६॥ अथ स्वापराध निवेदयन् क्षमापयति—अजानतेति। मामकेन मद्भृत्येन अयं तव पिता आनीत इति यत् तत् मद्भृत्यकृतत्वान्मदपराध क्षन्तुमर्हसि। ‘तर्हि किमित्यानीत’ इत्याशङ्क्याह—अकार्यवेदिनेति। कार्य कर्तव्यमजानता। तत्र हेतुमाह—अजानतेति। त्वद्धर्म त्वत्प्रभाव चाजानतेत्यर्थः॥ तदज्ञाने हेतुमाह—मूढेनेति, अविद्यामोहितेनेत्यर्थः॥७॥ ‘प्राप्तकामधेन्वाद्यैश्वर्यस्य तव न काचिदपेक्षा’ इत्याशयेन सम्बोधयति—गोविन्देति। एष ते पिता त्वया नीयताम्। ‘महाश्चायमपराध’ इति सूचयन् सम्बोधयति—पितृवत्सल इति। ‘तथापि सदानन्दरूपस्य तव अनुग्रह एव युक्त’ इत्याशयेन सम्बोधयति—कृष्णेति। ममाप्यनुग्रह कर्तुमर्हसि। कोऽसावनुग्रहोऽपेक्षित’ इत्यपेक्षाया ‘तं त्वमेव जानासि, सर्वसाक्षित्वात्’ इत्याशयेनाह—अशेषदृगिति॥८॥ एव वरुणेन प्रसादितः प्रसन्नी-
अजानता मामकेन मूढेनाकार्यवेदिना॥ आनीतोऽयं तव पिता तद्भवान् क्षन्तुमर्हति॥७॥
ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक्॥ गोविन्द नीयतामेष पिता ते पितृवत्सल॥८॥
॥श्रीशुक उवाच॥
एवं प्रसादितःकृष्णो भगवानीश्वरेश्वरः॥आदायागात् स्वपितर बन्धूनां चावहन् मुदम्॥९॥
नन्दस्त्वतीन्द्रिय दृष्ट्वा लोकपालमहोदयम्॥ कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत्॥१०॥
ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम्॥ अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः॥११॥
कृतो भगवान् कृष्णः स्वपितर नन्दमादाय बन्धूना व्रजवासिना मुद हर्षमावहन् व्रजमगात्। ‘वरुणेऽपि तत्प्रार्थितमनुग्रह कृतवान्’ इति सूचयन्नाह— ईश्वरेश्वर इति। ईश्वराणां वरुणादीनामपीश्वर इत्यर्थः॥९॥ नन्दस्त्वतीन्द्रियमदृष्टपूर्व लोकपालस्य वरुणमस्यमहोदयमैश्वर्य दृष्ट्वा तेषां वरुणादीनाकृष्णे सन्नति नम्रता भृत्यता च दृष्ट्वा अतीव विस्मितः सन् ज्ञातिभ्यः उपनन्दादिभ्यस्तदब्रवीत् अवर्णयत्॥१०॥ ततस्ते तु गोपाः कृष्णमीश्वर मत्वा तद्वैभवदर्शनाय औत्सुक्ययुक्ता धीर्येषा तथाभूताः सन्तः अयमधीश्वर अपि किं सूक्ष्मामदृष्टपूर्वा स्वगति स्वविभूति नोऽस्माकमुपाधास्यत् दर्शयिष्यतीति मनोरथ कृतवन्तः॥११॥
इत्येवं स्वाना भक्तानामभिप्राय स्वयमेव विज्ञाय तेषां सङ्कल्पस्य मनोरथस्य सिद्धये वक्ष्यमाणमचिन्तयदित्यन्वयः। ‘कथं तैरकथित ज्ञातवान्?’ तत्राह— अखिलदृगिति। सर्वसाक्षीत्यर्थः। ‘तन्मनोरथपूरणचिन्तया तस्य किं प्रयोजनम्?’ इत्याशङ्क्याह—कृपयेति॥१२॥ तच्चिन्तामेवाह—जन इति। ‘वै’“इति निश्चयेन। एतस्मिंल्लोके संसारे जनः अविद्या स्वरूपाज्ञानं, ततः कामः शब्दादिविषयभोगाभिलाषः, ततश्च तत्प्राप्त्यनुगुणकर्माणि। तैरुच्चावचांसु उत्कृष्टापकृष्टासु गतिषु देवतिर्यङ्मनुष्यादियोनिषु भ्रमन् गच्छन्नपि स्वा गति स्वपरमार्थभूतं मत्स्वरूपं न वेद न जानाति, अतः एतेषां व्रजवासिना स्वसाधनवशात् ममालौकिकस्वरूपवैभवदर्शन सुदुर्लभमेव। तथापि परमभक्तत्वादेतेषां मनोरथानुरोधेन मया प्रदर्शनीयमिति शेषः॥१३॥ इत्येव सञ्चिन्त्य भगवान् सर्वथा सर्वकरणे समर्थः श्रीकृष्णः गोपानां लोकव्यापिवैकुण्ठाख्य तथा स्व स्वरूप च दर्शयामासेत्यन्वयः। तदुभयविशिनष्टि—तमसः परमिति। प्राकृतप्रपञ्चातीतमित्यर्थः। ‘तत्प्रदर्शने केवल कृपैव हेतुः, न तेषां तद्दर्शनानुरूप साधनमस्ति’ इत्याह—महाकारुणिक
इति स्वाना स भगवान् विज्ञायाखिलदृक् स्वयम्॥सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत्॥१२॥
जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः॥ उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्॥१३॥
इति सञ्चिन्त्य भगवान् महाकारुणिको हरि॥ दर्शयामास लोक स्वं गोपानां तमसः परम्॥१४॥
सत्यं177 ज्ञानमनन्तं यद्ब्रह्म ज्योतिःसनातनम्॥ यद्विपश्यन्ति मुनयो गुणापाये समाहिताः॥१५॥
ते तु ब्रह्मह्रदं नीता मग्नाःकृष्णेन चोद्धृताः॥ दृदशुर्ब्रह्मणो लोक यत्राक्रूरोऽभ्यगात् पुरा॥१६॥
इति। कृपायामपि तच्छीलमेव हेतुमाह—हरिरिति। आश्रितजनदुःखहरणशील इत्यर्थः॥ १४॥ प्रकृतेः पर वेदप्रतिप्राद्य स्वरूपमेव वर्णयति—सत्यमिति। सत्यं परमार्थभूतम्, ज्ञान चैतन्यरूपम्, अनन्त देशकालपरिच्छेदरहितम्, ज्योतिः स्वप्रकाशम्, सनातन शश्वत्सिद्ध गुणापाये गुणानां निरासेसति समाहिताः सावधाना मुनयः मननशीला ज्ञानिनो यत् पश्यन्ति यच्च वेदप्रसिद्ध ब्रह्म तत्स्वरूप दर्शयामासेत्यन्वयः॥१५॥ प्रदर्शनप्रकार प्रदर्शयन्नुक्तमेव स्पष्टयति—ते त्विति द्वयेन। ते तु गोपा ब्रह्मह्रद नीताः प्रापितास्तस्मिन्निमग्नाश्च सन्तो ब्रह्मणस्तस्यैव लोकं वैकुण्ठाख्य ददृशुरित्यन्वयः। ‘कोऽसौ ब्रह्मह्रद’ इत्यपेक्षायामाह यत्रेति। यत्र यमुनाह्रदेअक्रूरोऽध्यगात् वैकुण्ठादिक दृष्टवास्तस्यैव ब्रह्मह्रद इति नाम। शुकपरीक्षित्सवादात् प्राक्तनत्वात् पुरेति भूतनिर्देशः॥१६॥
नन्दादयो गोपास्तु तं लोक दृष्ट्वा तथा तत्र लोके छन्दोभि मूर्तिमद्भिर्वेदै स्तूयमान श्रीकृष्ण च दृष्ट्वा परमानन्देन निर्वृता पूर्णा अभवन्। ततश्च पुन श्रीकृष्णेन उद्धृताः समाधेरिवोत्थापिताः पूर्ववत्त दृष्टा विस्मिता बभूवुरिति व्यवहितेनान्वयः॥ १७॥ इति श्रीवल्लभाचार्य-वश्यगोपाल सूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ अष्टाविंशो गतो वृत्तिं लोकदर्शनबोधकः॥३॥ पतिर्ब्रह्मादीना सकलजगता यः कलयिता वनेऽनृत्यद्गोपीजनगणगतः प्रेमवशगः॥ सदा पूज्यो देवैरपि मुनिगणैश्चिन्तितपदः स वा ईशः कुर्यान्मम सकलवाछागतफलम्॥१॥ अथ पञ्चभिरध्यायै रास-
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृता॥ कृष्ण च तत्र छन्दोभिः स्तूयमान सुविस्मिता॥१७॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे वैकुण्ठप्रदर्शन नामाष्टाविंशतितमोऽध्याय॥ २८॥॥छ॥॥ श्रीशुक उवाच॥ भगवानपि^(१) ता रात्री शरदोत्फुल्लमल्लिका॥ वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रित॥१॥
क्रीडामहोत्सवः॥ वर्ण्यते मुनिना कृष्णसद्गुणाकृष्टचेतसा॥२॥ ऊनत्रिंशे व्रजस्त्रीणामागम तु वनेऽन्तिकम्॥ तासां गर्वेण कृष्णस्य चान्तर्धान निरूप्यते॥३॥ एव सप्तवर्षवयस्कस्य भगवत इन्द्रादिगर्वनिवृत्त्यर्थ गोवर्धनपूजादिलीलाऽनुवर्णिता। अथ “सोऽपि कैशोरक वयो मानयन् मधुसूदनः। रेमे ताभिरमेयात्मा क्षपासु क्षपिताहित” इति विष्णुपुराणवचनात् प्रकटितकैशोरवयस्कस्य तस्य ब्रह्मादिविजयेन सरूढगर्वस्य कामदेवस्य
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
१ “ब्रह्मानदात् समुद्धृत्य भजनानन्दयोजने॥लीला या युज्यते सम्यक् सा तुर्ये विनिरूप्यते॥१॥ लौकिकस्त्रीषु ससिद्धस्तद्वारा पुरुषो भवेत्॥ स्वानदानुभवार्थ हि योग्यतापि निरूपिता॥२॥ अतो हि भजनानद स्त्रीषु सम्यग्विधार्यते॥ तद्द्वारा पुरुषाणा च भविष्यति न चान्यथा॥३॥ स्त्रिय एव हि त पातुं शक्तास्तासु तत पुमान्॥ अतो हि भगवान् कृष्ण स्त्रीषु रेमे ह्यहर्निशम्॥४॥ बाह्याभ्यतरभेदेन आतरं तु पर फलम्॥ तत शब्दात्मिका लीला निर्दुष्टा सा निरूप्यते॥५॥ ततो रूपप्रपन्नस्य पंचधा रमण मतम्॥ आत्मना प्रथमा लीला म++तु तत परा॥६॥ वाक्प्राणैस्तु तृतीया स्यादिंद्रियैस्तु तत परा॥ शारीरी पंचमी वाच्या ततो रूप प्रतिष्ठितम्॥७॥ षड्विंशे तु हरि पूर्व जीवानानदयत् स्वयम्॥ ते चेत्समर्पितात्मानस्तत्रोपायश्च रूप्यते॥८॥ आत्मा यावत्प्रपन्नोऽभूत्तावद्वै रमते हरि॥ सोऽन्त करणसंबधी तिरोधत्ते हरिश्च स”॥९॥ इति सुबोधिनीकारिका। *अयैतस्याध्यायस्यव्याख्यानसामपि
सुबोधिनीस्थमनूदितमित्याकलनीय सुधीभि। प्रथम भजनानद निरूपयितु स्त्रीषुस्वाद स्थापनीय इति तासु रत्यर्थमिच्छा कृतवानित्याह—भगवानपीति। ‘मयेमा रस्यय क्षपा’ इति या रात्रयो वरत्वेन दत्ता स्त्रीणा रमणार्थाता रात्रीर्भगवान् परिगृह्य सर्वास्वेव रात्रिपु ता
अधिदैविकीरारोप्य पूर्णत्वात्तासा
पूर्णिमारूपा कृत्वा क्रतमपि शरदमेव कृत्वा तस्यापि कार्य पुष्पाण्येन कृत्वा
रसोद्दीपकत्वेन सर्वा सामग्रीं विधाय पश्चाद्रमणार्थं स्वानदप्रकाशक कामपितामह मन उत्पादितवान्। तत्र सर्वासु संकल्पस्यम्मिन्नपि बोधनीय। सत्र वेणुरपि सहायता प्राप्स्यति।
गर्वनिवृत्त्यर्थारासलीलां निरूपयति—भगवानपीति। भगवानपि या “यातावला व्रज सिद्धा मयेमा रस्यथ क्षपाः"इति रमणार्थ प्रतिश्रुतास्ता रात्रीर्वीक्ष्य रन्तुं मनश्चक्रे इत्यर्थः। “अपिशब्दात्, गोपीना तु भगवता सह रमणेच्छा सदैवास्ति, तदर्थमेव कात्यायन्यर्चनादिप्रयत्नस्य कृतत्वात्। इदानीं तु भगवान् वैराग्यादिगुणपूर्णोऽपि स्वभक्तानां तासां मनोरथपूरणार्थ ताभिः सह रन्तु मनश्वके” इति सूचितम्। नमु “तासां बह्वीना मनोरथ स एकःपूरयितुं कथं शक्तः?“इत्याशङ्क्याह—योगमायामुपाश्रिते इति। युज्यते कार्यार्थ नियुज्यते सा योगा एवंभूता या माया अघटितघटनापटीयसी स्वाचिन्त्या शक्तिस्ता विधेयतयोपाश्रित, अतस्तस्य न किमपि दुर्घटम्। तासु रात्रिषु रमणयोग्यतामाह शरदेति। शरदा हेतुना उत्फुल्ला मल्लिका या सुताः। यद्यपि शरदि न मल्लिकाकुसुमानि प्रफुल्लानि भवन्ति, तथापि भगवत्प्रभावात् वृन्दावने तथा नियमो नास्ति। निदाघोऽपि ‘वसन्त इव लक्षित’ इत्युक्त-
त^(१)दोडु178राजःककुभः करैर्मुख प्राच्या विलिम्पन्नरूणेन शन्तमै॥ स चर्षणीनामुदगाच्छुचो मुजन् प्रिय प्रियाया इव दीर्घदर्शनः॥२॥
त्यात्॥ ‘रात्रीः’ इत्यनेन शृङ्गाररसस्यरात्रिष्वेव प्रौढत्वाद्दिवसे तन्निषेधाच्च तास्वेव रमणसमय इति सूचितम्। बहुवचनेन बह्नीषु रात्रिष्वेव रमण सूचितम्॥१॥ यदैवं भगवान् रन्तु मनश्चक्रे तदा तन्मनसः उत्पन्नः स प्रसिद्धःउडुराजश्चन्द्रः सर्वनक्षत्राधिपतिश्चन्द्रः अरुणेन उदयरागेण प्राच्याः
———————————————————————————————————————————————
ततः कामवर्णनम्। अत तादृशः मनः कृतवान्। यद्यपि एत्प्रणालिकाव्यतिरेकेणापि स्वानद तत्र स्थापयितुं शक्त तथापि मर्यादा तिष्ठत्विति भगवानपि मनश्चक्रे। ननु एव सति स्वानदस्थानत्यागात् अन्यथा भवेत्। तत् स्वरूपादपि प्रच्युत स्यादित्याशक्याह योगमायामुपाश्रित इति। योगमाया हि यथास्थितमेवान्यत्र स्थापयति। यथा सकर्षण लीलार्थं सापि पूर्वपरिगृहीतेति नापूर्वं किंचित्। यथा प्रमाणे रक्षाया च बलभद्रोपयोग एव कार्ये योगमायाया। तत्राप्यतरग योगमाया अन्यत्र स्थित प्रमाणमन्यत्रापि योजयति अन्यत्र स्थित चानदमन्य च। प्रमाणातिरिक्तमार्गो भक्तिमार्गश्चाग्रे विततौ भविष्यत। याश्च रात्रयो रमणार्थमेव निर्मिता ता एव परिगृहीता। अन्यथा साधारणीपरिग्रहे सर्वत्रैवानद स्यात्। शरदि ऋतावुत्फुल्ला मल्लिका यासु तां दृष्ट्वा रमणार्थं मन कृतवान्।योगमाया च समीप एवाश्रित्य स्थित॥१॥ इति सुबोधिन्याम्॥
१.नूतने तस्मिन् मनसि देवता नास्तीति अनधिष्ठित य कार्यं न साधयिष्यतीति तदधिष्ठातृ दैव चन्द्र च ससृज इत्याह—तदोडुराज इति। यदैव मन कृतवान् तदैव तस्याधिदैवतमुडुराज उद्गात् उदीतो जात। यद्यप्येकदा रात्रयो दृष्टा तथापि क्रमेणैव तासां स्थिति भगवन्मनश्चन्द्रस्याधिदैविकत्वात् पूर्ण एव स निष्कलकश्च मनस्येवाविर्भूते तस्याविर्भाव। क्रीडा यामुपरतायामुपरति मध्याकाशपर्यंतमेव गमन नास्तमय। कदाचिदपि सोपि चन्द्र स्त्रीणा मनांसि उडुस्थानानीति तेषामपि रक्षक। इदं प्रथमतया जात इतिपूर्वस्यामेव दिशि तस्योदय उच्यते। सा दिग्देवानामिति तस्या दिश इन्द्रो देवता अधिपतिश्च इदानीं भगवानेवेन्द्र इति तस्य रेतोरूपःतस्यामुद्गत अत प्राच्या ककुभ मुख मध्यभागस्वकरै स्वकिरणै विलिंपन् उद्गात्। तस्या मुखे न राग स्थित प्रतिस्पर्धिन्या सूर्यसंबधेन रागसंभवात्। अत अस्यापि मुख कुकुमसदृशैः करैरारक्त क्रियते। यदि चन्द्र स्वदिशो मुख॥१४०॥
ककुभो दिशःमुखं विलिम्पन् तथा शन्तमैः सुखतमैः करै किरणैःचर्षणीना स्थावरजङ्गमात्मकप्राणिना शुचस्तापान् ग्लानीर्मृजन् अपनयन् उद्गात् उदितो जात इत्यन्वयः। तत्र दृष्टान्तमाह—प्रिय इति। दीर्घकालेन दर्शन यस्य स प्रोष्यागतः प्रियो भर्ता यथा प्रियाया भार्याया मुखमरुणेन कुङ्कुमेन विलिम्पन्नागच्छति तथेत्यर्थः॥२॥ कुमुदंकुमुदं विकसनीयतया विद्यते यस्य तम्, यद्वा कौ पृथिव्या मुत् अस्यास्तीति तं भूमेरानन्दकरम्। तत्र हेतुमाह— अखण्डसम्पूर्णमण्डलं यस्य तम्। रमाया लक्ष्म्याआननस्य आभा इव आभा यस्य तम्। अय च लक्ष्मीमुखदृष्टान्तः ‘तद्विवाहादिसमये कुङ्कुमयुक्त- मुखा-
दृ^(१)ष्ट्वा कुमुद्वन्तमखण्डमण्डल रमाननाभ नवकुङ्कुमारुणम्। वनं च तत्कोमलगोभिरञ्जितंजगौ179 कलं वामदृशा मनोहरम्॥३॥
निशम्य180गीतं तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः॥ आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः॥४॥
वस्थायाम्’ इति सूचयति—नवकुङ्कुमवदरूणमिति। एवंविध चन्द्र दृष्ट्वा तथा तस्य कोमलैः स्वल्पप्रकाशैः गोभि अभितो रञ्जित रमणीय कृत वनं च दृष्ट्वा वामा मनोहग शोभा यासां तासां मनोहर मनसः आकर्षण यथा स्यात्तथा कल मधुर जगौ वेणुनाद कृतवानित्यर्थः। ‘कोमलगोभिः’ इति तृतीयान्त— पाठस्वीकारे दीर्घाभाव आर्षः। ‘अञ्जितम्’181 इति वा पदच्छेदः॥३॥ अनङ्गस्य कामस्य वर्धनमुद्दीपक तस्य गीत व्रजे स्थिताः स्त्रियो निशम्य यत्र
————————————————————————————————————————————
न रजयेत् तदा भगवन्मनोऽपि स्त्रीणा हृदय न रजयेत्। करा शतमा शीतलत्वात् तापहारका। किंच अरुणेन गुणेन कृत्वाऽत्यत कल्याणरूपा। अरुणो हि रागप्रधान पुरुषोपि यद्यनुरागेण स्पृशति तदा सुखं भवति। ननु “अस्य चन्द्रस्य यदि अधिष्ठातृत्वमात्र तदा मनस्येव उदयो भवेत्। यद्यधकारनिवृत्ति प्रयोजन तदा भगवतैव अधकारो निवर्तेत। यदि वा उद्दीपकत्वं तदापि भगवतैव तत्संभव अतोऽस्यासाधारण कार्यं वक्तव्यम्” इति चेत आह—सचर्षणीना शुचो हरन्निति। चर्पण्य सर्वत्र परिभ्रमणशक्तय ता सर्वत्र परिभ्रान्ता अपि न क्वापि परमानन्दसंबधिन्यो जाता। यदि वा कश्चिन्मुच्येत तथापि ता न प्रवेश लभते, तत पूर्वमेव ता निवृत्ता भवति। अतस्तासा शोकस्तिष्ठत्येव॥ चर्षणीसहिताना जीवाना वा तासां शोक इदानीमेव निवृत्त, शक्तिसहितानामेव परमानदानुभवस्य वक्तव्यत्वात्। प्रायेण तदानींतना जीवा तादृशशक्तियुक्ता। तस्मिन्नुदिते परमानदानुभवोऽवश्यभावीति। तथा सति प्रयोजनत्रयः दिग्देवतायां मुख समार्जन चर्षणीना शोकदूरीकरणमधंकारनिवृत्त्यादिश्च कठोक्त द्वयमपि तदेकसाध्यमिति वक्तुं दृष्टन्तमाह—प्रिय प्रियाया इति। दीर्घकालेन दर्शन यस्य। महता कालेनागतो भर्ता प्रिय प्रियाया पतिव्रताया शोक दूरीकृत्य मुखसमार्जन च करोति। न चैतत्कार्यमन्यथा सिद्ध्यति॥२॥
१ एव मनस उत्पत्तिमुक्त्वा तद्देवतायाश्च तत संकल्पोत्पत्त्यर्थतच्छब्दयोनित्व निरूपयन् तद्दर्शनेन वेणुनाद उत्पन्न इत्याह—दृष्ट्वेति। कुमुद्वाश्चन्द्र पृथिव्या सर्वत्रैव मुद कृतवानिति। तथाकरणे सामर्थ्य— ‘अखडमडलम्’ इति। न खड मंडल यस्य॥ एतस्य रसोत्पादनविभावत्वमप्यस्तीति ज्ञापयितुं ‘रमाननाभम् ’ इति उक्तम्। लक्ष्म्या अय भ्राता भवतीति रमाया आननवत् आभा यस्य तथोक्त। किं च नवकुङ्कुमवदरुणवर्णमपि तेन विवाहसमये यथा लक्ष्मीमुख तथा अय वर्तते। अतो नूतनकामजनक॥ किं च वनमपि रसपोषक तस्य कोमलगोभिरल्पकिरणै अभितो रजितमारक्तयुक्तम्। किरणाना रसदोग्धृत्व वन एव पाल्यमानत्व च ज्ञापयितु गोपदम्। रमाननाभत्वेन पूर्वंनिरूपणाद्यथा तन्नूतनकटाक्षाभावोदयहेतवस्तथैतेऽपीति ज्ञापनाय च। गोपदमिन्द्रियस्यापि वाचकमिति तथा। अधुना भायोत्पत्तिरेव, तत्पोषस्तु स्वामिन्यागमनादिनाऽग्रे भावीति ज्ञापयितुं कोमलपदम्। यत्र तेन वनमपि रज्यते तत्र यदर्थमागतं तद्भाग कथं न कुर्यात्? तत संकल्पद्वारा कामजनने सर्वे कार्य भविष्यतीति क्ल यथा भवति तथा जगौ गान कृतवान्। तच्च गान वामदृशा सुदरदृष्टीना स्त्रीणा मनोहरमिति। तस्माद्गायत स्त्रिय कामायत इति श्रुते॥ अर्थाद्गीतेनसर्वा समाहूता इति। यदि व्यत्तमधुर गीत कुर्यात् तदा गतिमेव शृण्वत्य तत्रैव स्थिता भवेयु। यासां पुनर्दृष्टिर्नोत्तमा तास्तु नाकारिता एव॥ ३॥
स्थाने वने स कान्तः कमनीयतया पतित्वेन स्वीकृतः कृष्णोऽस्ति तत्र जग्मुरित्यन्वयः। असापत्न्याथ अन्योन्यमलक्षितो न ज्ञापितो गमनोद्यमो याभिस्ताः। तासांगमने त्वरां सूचयन्नाह—जवेन वेगेन लोलानि चञ्चलानि कुण्डलानि यासां ताः। एवंगमने हेतुमाह—कृष्णेन स्वसौन्दर्यसौस्वर्यादिभिर्गृहीतानि आकृष्टानि मानसानि देहेन्द्रियादिप्रवर्तकानि मनांसि यासां ता इति॥४॥ “कृष्णप्राप्तिमिच्छद्भिस्त्रैवर्गिक कर्मोपेक्ष्य तत्प्रवणैकचित्ततया तत्प्राप्तये प्रयतितव्यम्, अन्यथा तत्प्राप्तिः सुदुर्लभा” इति सूचयन्नर्धावसितत्रैवर्णिककर्मत्यागपूर्वकं गोपीनामागमनप्रकारमाह—दुहन्त्य इति त्रिभिः। व्रजे गवा बहुत्वेन काश्चिद्गोप्यो गा दुहन्त्यो दोहमर्धदुग्धपूर्णपात्र हित्वा अभिययुः कृष्णाभिमुखं ययुः। तत्र हेतुमाह—समुत्सुका इति। तत्समये वेणुनादश्रवणेन तत्प्राप्तौ सम्यगुत्साहयुक्ता इत्यर्थः। सर्वासां गमनेऽयमेव हेतुर्बोध्यः। दोहनसमये च गोवत्सौ बद्धौ भवतस्तथैव तत्त्यागे धर्मोपेक्षा दुग्धत्यागेऽर्थोपेक्षा च बोध्या॥ काश्चित्तु स्थालीस्थं पयोऽधिश्रित्य चुल्ल्यामारोप्य त्यक्त्वा एतत्क्वाथमप्रतीक्षमाणा अभिययुः। अनेनाप्यर्थो-
दु^(१)हन्त्योऽभिययुःकाश्चिदोह हित्वा समुत्सुकाः॥ पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः॥५॥
परिवेष182यन्त्यस्तद्धित्वा पाययन्त्यःशिशून् पयः॥ शुश्रूषन्त्यःपतीन् काश्चिदश्नन्त्योऽपास्य भोजनम्॥६॥
पेक्षा॥ अवरास्तु सयावं गुडघृतमिश्रित गोधूमकण पक्व स्थूलीति प्रसिद्धम्। यद्वा पयसि पच्यमानाः गोधूमकणा एव सयांवमनुद्वास्य चुल्ल्या अनवतार्य अभिययुः। इयमप्यर्थोपेक्षा॥५॥ काश्चित्तु परिवेषयन्त्यः पत्यपत्यादीन् भोजनार्थं निवेश्य अन्नादिकं पात्रेषु ददत्यः तत्परिवेषणं हित्वा,
———————————————————————————————————————————————
एवाहूता तथापि आह्वान सदृशमिति निरोधोऽपि कर्तव्य इति सर्वा एव समागता। किंच यद्भगवता गीत तदनगमेव वर्धयति, अंग तु नाशयत्येव। अतो नूतन उत्पन्न काम ता आनीतवान्। किंच व्रजस्य स्त्रिय पूर्वमपि भगवदीया, अत कृष्णेनैव गृहीत मनो यासाम्। अत शीघ्रमेव यत्र कात तत्र गता। अनेन आकारिता एव प्रथमागता इत्युक्तम्। तासां मुख्य कात इति, अत एव अन्योन्यमलक्षित उद्यमो यासाम्। ता हि प्रत्येकमेव भगवत पतित्वेन स्वीकृतवत्य। स पूर्वमुपात्तो य कान्तस्तासा शरीरविचारेऽपि दृष्टिर्न जातेति वक्तुं जवेन लोले कुंडले यासामिति कर्णपीडाननुसंधान प्रदर्शितम्। तां स्त्रियो गौडदेशस्था तत एव। कुमारिका समागता इति पूर्व मथुरादेशस्थितानामपि अनागरीणा कुंडले एव ताटकयोरेव वा कुंडलत्वम्॥४॥
१ प्रसगादन्यासामप्यागमनमाह—दुहत्य इति। तासां वा क्रियापराणा तत्र काश्चन षोडशसहस्रव्यतिरिक्ता नवविधा समागता दशविधा वा। गुणाना त्रैविध्यात् नवविधत्वम्, निर्गुणाश्चैकविधा। जातिकुललोकधर्मपरा तिस्रस्तिस्र उदीरिता। तत्र गोपजातीया दुग्धपरा तत्र दुग्धस्योत्पत्तिस्थितिप्रलयान् कुर्वति तास्तिस्र प्रथममुदीरिता। एवंविधा अपि गणश इति, वक्तुं सर्वत्र बहुवचनम्। काश्चित् दुहत्य एव दोह दोहनरक्षण कर्म मध्ये त्यक्त्वा भगवदाभिमुख्येन ययु ।गौर्वत्सश्च बद्धौ दोहनपात्र च अर्धदुग्ध य समय सर्वथा त्यक्तुमशक्य तस्मिन् समये समागता। तथा समागमने हेतु-समुत्सुका इति। सम्यगुत्सुका को वेद क्षणान्तरे भगवान् क्व गमिष्यतीति॥ अन्या पुन पय अधिश्रित्य तथैव ययु। भोजनार्थं पयसि पच्यमाना गोधूमकणा सयावशब्देनोच्यन्ते। तेषां दाहे सर्वनाश इति पक्कदशैव सयावशब्देनोच्यते। अतस्तदप्यनुद्वास्य काश्चन अभिययु। अपरा इति सर्वत्र गुणैर्भिन्नस्वभावत्वम्॥१॥
तथा काश्चित् पयः शिशून् पाययन्त्यस्तद्धित्वा, तथा काश्चित् पतीन् शुश्रूषन्त्यः सेवमानास्ता शुश्रूषा हित्वा अभिययुः। एतैस्तु धर्मेपेक्षा दर्शिता॥ काश्चिच्चाश्नन्त्यो भोजनमपास्य त्यक्त्वाऽभिययुः। अनेन कामोपेक्षा सूचिता॥६॥ अन्यास्तु लिम्पन्त्य शरीरे चन्दनादिलेपन कुर्यत्यो लेपन हित्वा कृष्णान्तिकं ययुः। तथाऽन्याः प्रमृजन्त्यः अङ्गोद्वर्तनादिक कुर्वत्यः तद्धित्वा ययुः। काश्चित् लोचने अञ्जन्त्यः अञ्जन हित्वा ययुः। एतेनापि कामोपेक्षा॥ ‘श्रीकृष्णासक्तमनसा तत्तुष्ट्यर्थमन्यथाकृतमपि कर्म फलत्येव’ इति द्योतयन्नाह—व्यत्यस्तेति। व्यत्यस्तानि स्थानतःस्वरूपतश्च ऊर्ध्वाधोधारणेन विपर्यय प्राप्तानि
लिम्पन्त्यः183प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने॥ व्यत्यस्तवस्त्राभरणाःकाश्चित् कृष्णान्तिकं ययुः॥ ७॥
तां^(२) वार्यमाणाःपतिभिःपितृभिर्भ्रातृबन्धुभिः॥ गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः॥८॥
वस्त्राणि आभरणानि च यासांताः काश्चित् कृष्णस्यान्तिकं ययुः॥७॥ ‘पत्यादिभिस्तासां प्रतिबन्धः कुतोन कृतः?’ इत्यपेक्षायामाह—“ता इति रक्षेत् कन्या पिता विन्ना पतिः पुत्रस्तु वार्द्धके। अभावे ज्ञातयस्तेषां न स्वातन्त्र्य क्वचित् स्त्रियः” इति शास्त्रानुसारेण यथायथ ता गच्छन्त्यः स्त्रिय पत्यादिभिर्वार्यमाणा अपि न न्यवर्तन्त किन्तु कृष्णान्तिक ययुरेवेत्यन्वयः। ननु ’ तासां लोकभय परलोकनाशभय वा कुतो न जातम् " इत्याशङ्क्याह—
——————————————————————————————————————————————
१ लिम्पन्त्य शरीरानुलेपन कुर्वत्य। प्रमृजन्त्य उद्वर्तनादिक कुर्वत्य। गृह वा लिम्पन्त्य, प्रमृजन्त्य आभरणानि भाण्डानि वा प्रमृजन्त्य॥ अत्रापि पूर्ववदेव क्रम। शरीरसेवात गोसेवा मुख्या, तत पतिसेवेति। अञ्जत्य काश्च लोचने इति गुणातीता। अत काश्चनेति दुर्लभाधिकारः सूचितः। ज्ञानमार्गशोधिका इति निर्गुणत्वम्। तासामागमने दैहिकविचारोऽपि न जात, किं पुनस्तद्धर्माणामिति वक्तुं वस्त्राभरणयोर्व्यत्यासमाह—व्यत्यस्तेति। व्यत्यस्तानि विपरीतानि वस्त्राण्याभरणानि च यासाम्। एवमुद्यम सर्वासामेव साधारणो निरूपित। व्यत्यासो मार्गगताविति केचित्। तन्मध्येपि काश्चित् कृष्णान्तिक ययु, काश्चित् न। या पुन शब्दपरा जाता ता उद्युक्ता अपि नागता। या पुन शब्दापेक्षा त्यक्तवत्यस्ता सर्वतो निरपेक्षा विपरीतावश्यकदेहधर्मा भगवदन्तिकमागता॥७॥
२. सर्वासामनागमने हेतुमाह—ता वार्यमाणा इति। “रक्षेत्कन्या पिता विन्ना पति पुत्रस्तु बार्धके। अभावे ज्ञानयस्तेषां न स्वातत्न्य क्वचित् स्त्रिय” इति चत्वारो रक्षका। अतो यथायथ पतिभिर्वार्यमाण जाता। काश्चन पितृभिस्तथैव पुत्रै बन्धुभिश्च। ते हि निरूद्धा अपि फलरसानभिज्ञा न साधनप्रबणा स्वद्वारैव स्त्रीणा भजन मन्यन्ते। नतु स्वातन्त्रेण। तथापि गोविन्देनापि हृत आत्मा अत करण यासाम्। निवारण हि श्रौत्रम्, प्रवर्तकश्च भगवान्,करणारूदाश्च पुरुषा। नहि नौका प्रवाहवेगाद्गच्छती तिष्ठ तिष्ठेत्युक्ता तिष्ठति। अय स्वधर्मो वातासां नास्तीत्याह—मोहिता इति। यदि ता कृष्णान्तिक न गच्छेयुस्तदा मुर्छिता इव प्राणास्त्यजेयु। सर्वात्मभावज्ञापनायैवाधुना व्रजस्थानामेतदागमनज्ञान कारितवानिति ज्ञेयम्। अन्यग्रन्थे “मन्यमाना स्वपार्श्वस्थान” इति वाक्याद्यथा वनस्थित्यज्ञान संपादितवान् एव पूर्वमेवागमनाज्ञानमेव कथं न संपादयेत । प्रक्षालानद्धि पकस्य दूराद्स्पर्शन वरम्” इति न्यायेन तज्ज्ञान संपाद्यत्त
संभावितदोषाभावसंपादनात्तदसंपादनस्यैव वरीयस्त्वादिति॥८॥
मोहिता इति। तत्र हेतुमाह—गोविन्देति। गो इन्द्रियाणि नियम्यतया विन्दत इति गोविन्दः सर्वेन्द्रियनियन्ता श्रीकृष्णस्तेनापहृतः आत्मा अन्तःकरणं यासां ताः। अन्तःकरणारूढा जीवाः, अन्तःकरणप्रवर्तकश्च भगवान्, अतः कथं तासां वाङ्मात्रेण निवारणं स्यात्? नहि प्रवाहवेगेन गच्छन्ती नौका तिष्ठ तिष्ठेत्युक्ता तिष्ठतीति भावः॥८॥ कथंचिन्निरुद्धानां तु सद्य एव भगवत्सायुज्य जातम्’ इत्याह—अन्तरिति त्रिभिः। काश्चिद्गोप्यो गृहान्तर्गताःगृहमध्य एव स्थिताः, अतः पत्यादिभिर्द्वारपिधानादिना न लब्धो विशेषो भगवदभिसरणयोग्यो निर्गमो याभिस्ताः, दुःखेन मीलिते लोचनेयाभिस्ताः कृष्ण दध्यु। तत्र हेतुमाह—पूर्वत एव तद्भावनायुक्ता इति॥९॥ ततश्च जारबुद्ध्याऽपि तमेव सङ्गता तस्मिन्नेव सायुज्यं प्राप्ता इत्यन्वयः। तत्सायुज्यस्य मुक्तिरू–
अन्तर्गृ184हगताःकाश्चिद्गोप्योऽलब्धविनिर्गमाः॥कृष्ण तद्भावनायुक्ता दध्युर्मीलितलोचनाः॥९॥
दुः^(२)सहप्रेष्ठविरह—तीव्रतापधुताशुभाः॥ ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः॥१०॥
पत्वाद्दुर्लभत्व सूचयन्नाह—परमात्मानमिति। अपिशब्दाद्यद्यपि जारबुद्धिः संसारहेतुरेव, तथापि भगवद्विषयकत्वान्मोक्षहेतुर्जातेति सूचितम्। ननु ‘प्राकृतदेहसत्त्वे कथं मोक्षः?’ तत्राह—जहुगुर्णमय देहमिति। ननु ‘प्रारब्धकर्मबन्धसत्त्वात् कथं देहत्यागः " इत्याशङ्क्याह—सद्य इति। सद्य एव प्रकर्षेण सहवासत क्षीणं बन्धनं यासां ताः। ननु “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्"इति शास्त्रसिद्धान्तात् ‘अनेकजन्मभोगेन क्षययोग्याना कर्मणा कथं सद्य एव क्षयः’ इत्याशङ्क्याह—दुःसहेति। दुःखेनापि सोढुमशक्यो दुःसहो यः प्रेष्ठस्य कृष्णस्य विरहरूपोऽग्नि तस्य यस्तीव्रस्तापः अनेकजन्मस्वनेकविधनरकादिभोग्य दुःखं तेन धुतानि विनष्टानि अशुभानि पापानि यासां ताः, तथा ध्यानेन प्राप्तो यः
——————————————————————————————————————————————
२.ननु " तत्र ज्ञानाभावात् विहितभक्त्यभावात् भगवतोऽपि सान्निध्याभावात् कथं मुक्ता " इति आशक्य ‘कर्मक्षयात् मुक्ता’ इति वक्तुं कर्मक्षयप्रकारमाह—दुःसहेति। दुःसहो यः प्रेष्ठविरहः स एव महानग्नि तस्य य तीव्रस्ताप तेन धुतानि निर्धूतानि ज्वालितानि भस्मसात्कृतानि अशुभानि यासामू। फलभोगे कर्म क्षीयत इत्यविवादम्। कोटिब्रह्मकल्पेषु कुभीपाकादिनरकेषु यावद्दुःख भवेत्तावद्दुःख भगवद्विरहे क्षणमात्रेण जातम्। तत सर्वपापफलभोग समाप्त। पुण्यक्षयप्रकारमाह—ध्यानप्राप्तेति। सर्वपापक्षये भगवान्ध्याने प्राप्त अच्युत परमात्मा, न तु समागतोपि जारत्वेन, अन्यथा ततोपि कर्मशेष स्यात्। तस्य योऽयमाश्लेष तेन या निर्वृति तया क्षीण मंगल पुण्य यासाम। कोटिब्रह्मकल्पेषु स्वर्गादिलोकेषु यावत्सुखमनुभूयते तावद्भगवदाश्लेषे क्षणमात्रेणैवानुभूतम्। अत पुण्यक्षयोऽपि जातस्ततो मुक्ता जाता इत्याह॥१०॥
अच्युतस्याश्लेषस्तेन या निर्वृतिः आनन्दस्तया क्षीणानि मङ्गलानि अनेकजन्मसु साम्राज्यादिसुखजनकानि पुण्यानि यासां ताः। एवं तत्कालतीव्रसुखदुःख- भोगेन निःशेषकर्मक्षयात् युक्त एव तदधीनदेहत्यागेन मोक्ष इति भाव॥१०॥ ११॥ अत्र राजा श्रुतिविरोधमाशङ्कते—कृष्णमिति। ‘मननशीलत्वादेतन्निर्णये तव सामर्थ्यमस्ति’ इति सूचयन् सम्बोधयति—मुने इति। “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति मर्यादामार्गे श्रुतौ ज्ञानमेव मोक्षसाधनत्वेनोक्तम्, तथा “भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्। स एव मुक्तिदाता च भक्तिस्तत्रैव कारणम्” इति पुष्टिमार्गे भक्तिरपि तत्साधनत्वेनोक्ता, सापि “ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः। द्वयोरप्येक एवार्थो भगवच्छब्द185लक्षणः” इत्यत्र निर्गुणेति निर्णीतम्।
तमेव186परमात्मानं जारबुद्ध्याऽपि सङ्गता॥ जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धना॥११॥
॥राजोवाच॥
कृष्णं^(३) विदुः परं कान्तं न तु ब्रह्मतया मुने॥ गुणप्रवाहोपरमस्तासां गुणधियां कथम्॥१२॥
तत्रापि सा ज्ञानद्वारा मुक्तिसाधनम्, “भक्त्या मामभिजानाति” इत्यादौ तथा निर्णयात्॥ एतास्तु कृष्ण पर केवल कान्त जारबुद्ध्या कमनीयमेव विदुः, निर्गुब्रह्मतया तु न विदुः। अतस्तासां भगवति स्वस्मिंश्च सौन्दर्यादिगुणबुद्धिरेव॥ गुणबुद्धिश्चगुणप्रवाहस्य जन्ममरणादिलक्षणसंसारस्य मूलमेव, अन्यथा गुणबुद्धिनिवारकाणि सर्वाणि शास्त्राणि व्यर्थान्येव स्युः। अतस्तासां गुणधियांगुणप्रवाहस्योपरमो निवृत्तिः कथं घटते?॥१२॥
——————————————————————————————————————————————————
३.अत्र राजा श्रुतिविरोधमाशंकते—कृष्णमिति। “तमेव विदित्वाऽतिमृत्युमेति नान्य पथा विद्यतेऽयनाय “इति श्रुतौ ज्ञानमेव साधनत्वेनोक्तम, तत्रैव पुन “भक्त्यैव तुष्टिमभ्येति विष्णु र्नान्येन केनचित्। स एव मुक्तिदाता च भक्तिस्तत्रैव कारणम् “॥ उभयोश्च निर्णय—“ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षण। द्वयोरप्येक एवार्थों भगवच्छब्दलक्षण” इति। ‘भक्त्या मामभिजानाति’ इत्यपि भगवतोक्तम्॥ ततो मर्यादाया ज्ञानेनैव मुक्ति पुष्टौ भक्या ज्ञानेन वा एतासां तु न द्वय भक्तिरपि सगुणज्ञानमपि सगुणमुभय व तामसम्। अत कथं मुक्तिरिति॥ तदाह—ता कृष्ण कान्त पर विदु। कान्त पतिर्जारो वा, नतु ब्रह्मतया विदु। मुने इति सोवनम् अत्र निर्णयपरिज्ञानार्थम्। विरोधस्तु स्पष्ट। तासां भगवति स्वस्मिंश्च गुणवुद्धिरेव गुणप्रवाहस्य मूलम्, अन्यथा गुणबुद्धिवारकाणि सर्वाण्येव शास्त्राणि व्यर्थानि भवेयुः। वैदिकपक्षस्त्वसंभावित एव। अतो गुणधिया गुणबुद्धियुक्तानां गुणप्रवाहोपरम कथम्॥१२॥
एवं पृष्टः शुको “निर्गुणज्ञानभक्त्योर्भगवत्प्रादुर्भाव एवोपयोगः। तत्र ज्ञानेन भक्त्या स्वेच्छया वा यदि भगवान् प्रादुर्बभूव तदा तत्सम्बन्धमात्रेणैव मोक्षज्ञानादेरावश्यकत्वम्। नहि वस्तुशक्तिर्ज्ञानादिकमपेक्षते, अन्यथा बुद्ध्याग्निस्पर्शेऽपि दाहदर्शनात्” इत्याशयेनोत्तरमाह—उक्तमिति। यदत्रोत्तर वक्तव्य तदेतत्ते तुभ्यं पुरस्तात् सप्तमस्कन्ध एवोक्तम् “गोप्यः कामाद्भयात् कसः” इत्यादिना। उक्तमेव कैमुत्यन्यायेन द्रढयति—
चैद्य इति। यदि हृषीकेशमिन्द्रियादिनियन्तार कृष्ण द्विषन्नपि चैद्यः शिशुपालो यथा यथावत् सिद्धि भगवत्सायुज्य गतः प्राप्तस्तदा अधोक्षजस्य तत्कृपांविना अतीन्द्रियस्य प्रियाः प्रीति-
॥ श्रीशुक उवाच॥
उक्त187 पुरस्तादेतत्ते चैद्यःसिद्धि यथा गतः॥ द्विषन्नपि हृषीकेश किमुताधोक्षजप्रियाः॥१३॥
नृणां^(२) निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप॥ अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः॥१४॥
विषया गोप्यः सायुज्य गतास्तत्र किमुत किमाश्चर्यमित्यर्थः॥१३॥ भगवदवतारप्रयोजनमाह—
नृणामिति। ‘तवाप्येतत् सम्मतम्’ इति सूचयन् सम्बोधयति—
नृपेति। नृणा निःश्रेयसार्थाय मोक्षार्थमेव भगवतो व्यक्ति प्राकट्यम्। ‘साप्यभिव्यक्तिः स्वेच्छयैव, न कर्माधीना’ इत्याशयेनाह—
अव्ययस्येति। विकारशून्यस्येत्यर्थः। तत्र हेतुमाह—
निर्गुणस्येति, गुणपारतन्त्र्यरहितस्येत्यर्थः। अत एव अप्रमेयस्य, बुद्ध्यगोचरस्येत्यर्थ। ‘भूभारहरणादि
————————————————————————————————————————————————
१.तत्रोत्तरमाह—उक्तमिति चतुर्भि। एतत् सप्तमस्कन्ध एवोक्त शिशुपालमुक्तौ। यथा शास्त्रद्वय भक्तिज्ञानप्रतिपादक साधन तथा भगवत्स्वरूपमपि। भगवान् हि मुक्तिदानार्थमेवावतीर्ण सच्चिदानन्दरूपेण प्रकट। अतो य कश्चन येन केनाप्युपायेन भगवति सबधं प्राप्नोति स एव मुच्यते। ज्ञानभक्त्योस्त्वाविर्भावार्थमुपयोग। आविर्भावश्चेदन्यथा सिद्ध तदा न ज्ञानभक्त्योरुपयोग। अत्र तु भगवान् स्वत एवाविर्भूत मुक्तिदानार्थम, सर्वसाधारण्येन ईश्वरेच्छाया अनियमत्वात्। अत आविर्भावस्वेच्छया भक्त्या ज्ञानेन वा भगवदवतारातिरिक्तकाले द्वयमेव हेतुः। अवतारदशाया तु न तयो प्रयोजकत्वम्। वर्षाकाले जल सर्वत्रसुलभमिति न कूपनदीनामनुपयोग शकनीय। तदाह—पुरस्तात्सप्तमस्कन्धयथा चैद्य शिशुपाल सिद्धि भगवत्सायुज्य गत द्विषन्नपि द्वेषं कुर्वन्नपि यद्यपि द्वेषकृतो दोष प्रतिबन्धको भवति तथापि स्मरणेन तदघ हत्वा तत्र सायुज्य प्राप्त। किंच नापि तस्य दोषोस्ति कश्चन। द्वेषादयोपि भगवतैवोत्पादिता। तदाह—हृषीकेशमिति। इंद्रियप्रेरकोऽय यथासुखं भावानुत्पादयति। यत्र द्वेषस्यापि मोक्षसाधकत्व तत्र अधोक्षजप्रिया किमु वक्तव्या मुक्ति गच्छतीति॥१३॥
२.अत्र मुख्यामुपमत्तिमाह—नॄणां निःश्रेयमार्थायेति। प्राणिमात्रस्य मोक्षदानार्थमेव भगवान् अभिव्यक्त। अत इयमभिव्यक्ति निःश्रेयसार्थैव। अन्यथा न भवेत्। असाधारणप्रयोजनाभावात्॥ भूभारहरणादिक व अन्यथापि भवति। अतो निःश्रेयसार्थमेव भगवतोऽभिव्यक्ति प्राकट्यम ।नृपेति संबोधन कदाचिद्राजा कथंचिद्गच्छति तद्वदिति ज्ञापयितुम्। प्रकारान्तरेण तादृशस्य नाभिव्यक्ति संभवतीति वक्तुं भगवत विशिनष्टि—आदौ भगवान् सर्वैश्वर्यसंपन्न अपराधीन कालकर्मस्वभावाना नियामक सर्वनिरपेक्ष किमर्थमागच्छेत् किंच स्वार्थं गमनाभावेपि परार्थ वा स्यात्। तदपि नास्तीत्याह—अव्ययस्येत्यादिचतुर्भिः पदै। अन्येषां कृतिसाध्य ज्ञानसाध्य वा यद्भवति तदुपयुज्यते। भगवास्तु अव्ययत्वात् अधिकृतत्वात् न कृतिसाध्य, अप्रमेयत्वात् ज्ञानसाध्योऽपि न। देहादिभजनद्वारा भजनीयो भविष्यतीत्यपि न। यतो निर्गुण निर्गता गुणा यस्मात्। गुणेषु विद्यमानेष्वेवान्यस्य प्रतिपत्ति तत्र भवति॥ यथा क्षुधि सत्यामन्नदान, कामे सति रूपयोग, इन्द्रियेषु सत्सु तद्विषयाणाम्। अतो भगवत सेवकपूरणीयाश कोपि नास्तीति भजनीयोपि न भवति। किं च लीलार्थं यद्यपेक्षेतापि तथापि सर्व तस्यैव, यत सर्वगुणाना स एवात्मा। अत साधनप्रकारेण नान्यस्याप्युपयोग। अत स्वपरप्रोजनाभावात् यदि साधननिरपेक्षा मुक्तिं न प्रयच्छेत् तदाऽभिव्यक्ति प्रयोजनरहितैव स्यात्॥१४॥
कार्यं तु सङ्केतमात्रेणापि कर्तुं शक्त’ इत्याशयेनाह—गुणात्मन इति। सत्त्वादिगुणनियामकस्येत्यर्थः॥ १४॥ अत गोप्य इव कामम्, शिशुपालादिवत् क्रोध वा कसादिवद्भय वा, यशोदादिवत्स्नेह वा ऐक्य पाण्डवादिवत् सम्बन्ध वा ज्ञानिवदभेद वा, सौहृद नारदादिवद्भक्ति वा नित्य निर-
काम^(१) क्रोध भयं स्नेहमेक्यं सौहृदमेव च॥ नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते॥१५॥
न^(२)चैव विस्मयःकार्यो भवता भगवत्यजे॥योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते॥१६॥
न्तर ये हरौ विद्धतःकुर्वाणाः भवन्ति ते हि तन्मयता यान्ति तत्सायुज्य प्राप्नुवन्त्येव। प्रत्ययान्तरस्य प्रतिबन्धकत्वमाशङ्क्य नित्यमित्युक्तम्॥१५॥ अन्ये विस्मय कुर्वन्तु, भवता तु गर्भे एव प्रभावस्य दृष्टत्वाद्भगवति कृष्णे एव मोक्षदाने असम्भावनारूपो विस्मयो नैव कार्य इत्यन्वयः। तत्र
————————————————————————————————————————————————
१ एव सति येन केनाप्युपायेन य एव संबध्यते तस्यैव मुक्तिर्भवतीत्याह—काममिति। कामादय षट् साधनानि भगवत्संबधे। तत्र काम स्त्रीणामेव। क्रोध शत्रूणामेव। भय वध्यानामेव॥स्नेह संबधिनामेव। ऐक्य ज्ञानिनामेव। सौहृद भक्तानामेव। सख्य तेष्वेव सिद्ध्यतीति पूर्वसिद्धज्ञानभक्त्यो नात्रोपयोग। तेषां मर्यादया स्वतन्त्राविर्भावस्य नियतत्वात्॥ एकस्य त्भयत्वे संयोगपृथक्त्वन्यायेन निर्णय। चेत्यनादरे। अन्यो वा कश्चनोपायो भवेत् पर सर्वदा कर्तव्य। अन्यथा अते या मति सा गतिरिति अन्यशेषतामापद्येत। कर्मवशाच्च नाते भगवतः स्मरणमन्यस्येव प्रपचविरोधित्वात् भगवत। अतो नित्य ये विदधते ते तन्मयतामेव प्राप्नुवति। ननु “कामादिषु क्रियमाणेषु दुःखातराभिभवे कथं नित्य करणं समवति?” तत्राह—हराविति। स हि सर्वदुःखहर्ता। नित्य तद्भावनाया जगदेव तदात्मकं स्फुरति दृष्टि कामेनानुरक्तेति कि पुन स्वात्मा। अत तदात्मका एव भवति सर्वत्र भगवदावेशात्॥ " जीवेऽन्त करणे चैव प्राणेष्विन्द्रियदे हयो। विषयेषु गृहेऽर्थे च पुत्रादिषु हरिर्यत " ॥ “तादृशीं भावनां कुर्यात् कामक्रोधादिभिर्यथा। पूर्वप्रपचविलयो यथा ज्ञाने तथा यत “॥१५॥
२ किंच आदावेव गोप्यो मुक्ता, किमाश्चर्यंबहव एवाग्रे मुक्ता भविष्यतीति तदा—न चैवमिति। एवमसभावनारूपो विस्मयो न कार्य, असभावितबुद्धीनामन्यथा- स्फुरणनियमात्। यतो भगवान् यत्किंचिन्मोक्षे ज्ञानादिकमुपयुज्यते एतत्सर्वं भगवत्येवास्ति। यदि ज्ञानव्यतिरेकेण मोक्षो न भवेदिति ज्ञास्यति तदा सिद्धत्वात् ज्ञानम्य तदपि दास्यति। किंच अन्य सदेह कुर्यादपि भगवतो माहात्म्य न दृष्टमिति भवता तु न कार्य गर्भ एव माहात्म्यदर्शनात्। किंच निर्दुष्टे सर्प संभवति। तत्र दोषाणां मूल नन्म तदभावे दोषाभाव इति तेन अजत्वात् निर्दष्टु अन्ये सर्वे हि जायते न तैस्तेषामुक्ति संभवति तुल्यत्वात्। किंच यो हि साधनपर स मुच्यते तत्र साधन मन सर्वतो निवृत्त तथा योगेन भवति तस्य योगस्य च नियामको भगवानेव। यद्यन्यस्यापि मोक्षो भवेत् भगवदिच्छथैव भवेत्। योगादिसाधनाना तन्नियम्यत्वात्। किंच सदानन्दो भगवान् फलात्मा य कश्चिन्मुच्यते स एतमेव प्राप्स्यति अत साधनैरप्ययमेव प्राप्य। सोऽत्र स्वयमेव संबध्यत इति न किंचिदनुपपन्नम्। किंच एतत्परिदृश्यमान सर्वमेव जगद्यतो विमुक्तिं यास्यति। भावनया गोकुले स्थित आह ज्ञानदृष्ट्या वा साक्षात्परपरया वा सर्वानेव मोचयिष्यतीति तदग्रेवक्ष्यति स्वमूर्त्येति श्लोकद्वयेन। यद्वा कृष्णमिति। एता कृष्ण कान्त पर विदु, न तु ब्रह्मतया। अतो गुणप्रवाहोपरम कथं संगच्छत इति। अत्रायं भावः—ब्रह्मत्वेन विज्ञान हि शास्त्रीयम्। तच्च सात्विक भवितुमर्हति, “सत्वात् संजायते ज्ञानम्” इति वाक्यात्॥ एतास्तु गुणातीतस्यानन्दमात्रकरप, दमुखोदरादे प्रकटस्यानतगुणपूर्णस्य सौदर्यादिगुणेषु परिनिष्ठितधिय। अतो निर्गुणत्वात् गुणप्रवाहोपरम’ कथं संगच्छते उपरमस्याभावरूपत्वेन प्रतियोगिसापेक्षत्वादत्र च प्रतियोगिन एवाभावादिति। मुने इति संबोधन शुद्धसत्वविभवे ज्ञानोदयस्यानुभवसिद्धत्वेन सवादार्थम्। अत्रोत्तरमाह—उक्तमिति। पुरस्तात् सप्तमस्कन्धे ‘गोप्य कामात्’ इत्यादिना। अत्रायमर्थ—यथा भगवति गुणातीत एवापरिनिष्ठितबुद्धित्वऽपि द्वेषस्य तत्र प्रयोजकत्वात् चैद्यादीना तामसत्व तथेतासामपि निर्गुण एव परिनिष्ठितबुद्धित्वेपि जारत्वबुद्ध तत्र प्रयोजकत्वात् सगुणत्वमेवेति लक्ष्यते। अय च राग सर्वभावप्रपत्त्यैकलभ्य। नहि जारत्वबुद्धौ सर्वभावप्रपत्ति, कामपूरकत्वेनैव तत्संभवनियमात्। अत्र च सगुणत्वस्य प्रतिबन्धकत्वात्। यथा चैद्यादीना स्वाधिकारानुसारेण तादृशशरीरनाशे तत्पदप्राप्ति स्वाधिकारानुसारेण तबै सामपि। स्त्राधिकारानुसारेण तथात्वे सगुणत्वोपरमेण
हेत्वन्तरमाह—यतः कृष्णात् एतत्कृपापात्रं स्थावरजङ्गमप्राणिमात्र विमुच्यते। मोक्षदाने सामर्थ्यमाह—योगेश्वरेश्वर इति। तत्र हेतुमाह—अज इति। कर्माधीनजन्मरहित इत्यर्थः। तत्र हेतुः—भगवतीति॥१६॥
————————————————————————————————————————————
सर्वभावप्रपत्त्यैव ततो निजपतिभजनमिति सर्वमवदातम्। अन्यथा “ये यथा मा प्रपद्यते” इति मर्यादा भज्येत। एतदेव मनसि कृत्वाह—उक्त पुरस्तादेतत्ते इति। ननु “तथापि तादृशप्रपत्तेरेव मूलत्वात् कथं सर्वभावप्रपत्तिसाध्य फल भविष्यति” इत्यत आह—द्विषन्नपीति। अयमर्थ—मोक्ष सुखानभीप्सु तद्विरुद्धद्वषकर्ता च चैद्य तस्मै यथा ज्ञानिनामपि दुर्लभा मुक्तिं दत्तवान् एव तादृक्प्रपत्तिमूलानामप्येतासां तादृश फल दत्तवानिति। एतेन यथा द्वेषमुक्त्योस्तारतम्य तथाऽन्यशेषभजनैतद्रसयोरपीति सूचितम्। ननु “ गोकुलस्य भगवत्क्रीडोपयोगित्वेन सर्वथाङ्गीकृतस्य सर्वस्यैव निर्गुणत्वे कथमेतासां सगुणत्वमुच्यते। किंच अग्रेपि यदि सर्वभावप्रपत्तिलभ्यमेव फल दित्सित भगवतस्तदा पूर्वमेव स एव भाव किमिति नोत्पादित?” इति चेत् अत्र वदाम। यासां साक्षात् भगवत्संवध तासां सर्वासामेव रासमडलमन्डनानां शरीरमपि गुणातीतमेवेति ज्ञापयितुं भगवानेव कतिपय गोपी सगुणदेहा स्थापयित्वा पूर्वोक्ताना भावोपि निर्गुण इति ज्ञापयितुमासा सगुण भावमुत्पाद्यैतन्निवर्तकोपि स्वयमेव नान्य इत्यपि ज्ञापयितुं तन्निवृत्ति विधायाग्रे भाविस्वविरहजदु खस्वसगमजसुखयो कर्माजन्यत्वमपि ज्ञापयितुं कर्मक्षयप्रकारेण स्वप्राप्तिं विधाय मत्स्वाम्येव सर्वमिदं कृतवानिति निगर्व। अत्र पुष्टिमार्गागीकारात् मर्यादामार्गीयानुपपत्तयोऽनवसरपराहता इति सर्वमनवद्यम्। अत एव श्रीशुकोपि ’ जहुर्गुणमय देहम्’ इति सगुण देहत्यागमेवोक्तवान्। अग्रे गुणातीततत्प्रपत्त्यभिप्रायेण गोप्यत्वात् स्पष्ट नोक्तवान्। अन्यथा गुणमयपदवैयर्थ्य स्यात्॥ ननु ‘पूर्वोक्तज्ञापनायैवेद कृतवानिति कथं ज्ञेयम्? उपपत्त्यभावात्’ इत्याशक्योपपत्तिमाह—नृणामिति। अयमाशय—लीलाया तत्स्थितभक्तेषु च सुतरा रासस्थासु या साधारणत्ववृद्धि सा सदोषत्वारोपापरपर्याया तासामगुणत्वात्तस्या दोषरूपत्वात् भगवत्स्वरूपे लीलाया च सगुणत्वप्रसज्ञकत्वाच्च॥ एव सत्येतल्लीलाया मुक्तिधकत्वमेव स्यात्, नतु तद्धेतुत्वम्। तथा सत्यवतारप्रयोजन विरुध्येतेत्यन्ययानुपपत्त्यैव तथोच्यत इति ज्ञापन प्रयोजनमपीदमेवेति ज्ञेयम्। व्याख्यान तु पूर्ववत्। ननु ‘इयदवधिसगुणास्वेतासु कृताया लीलाया पूर्वोक्तदोषप्रसजकत्व दुर्वारम् इत्याशक्य पूर्वलीलाकृतितात्पर्यमाह— काममिति। इदं हि साधारण्येनोच्यते। य एव नित्य विदधते ते तन्मयता यान्तीति। न त्वेतदेतद्गोपभार्याविषयकमेव, अत एव क्रोधाद्युक्तिरपि। अन्यथाप्रस्तावे नात्र तन्निरूपणमयुक्त स्यात्। तथा च सगुणेनापि भावेन भजते भगवान् स्वानुरूपमेव फलं ददातीति ज्ञापनाय पूर्वलीलेत्यर्थ। अन्यथा मुख्याधिकारिणामेव भगवत्प्राप्तिरिति ज्ञानेऽन्येषामप्रवृत्त्या मुक्त्युच्छेद स्यात्। एव शास्त्रमप्रयोजनक च स्यात्। मुख्याधिकारिणा स्वत एव प्रवृत्ते स्वरूपलीलयोस्तु न कदाचित्सगुणत्व लीलाविषयाणां सगुणानामपि निर्गुणत्वापादकत्वात्। नहि दोषनिवर्तकमौषध रोगिसंबन्ध सत्तद्वद्भवति तथा सति तदनिवर्तकत्वापत्ते। लीलाया विषयसाजात्यनियमे सगुणनिर्गुणभक्त्योरेकया वेणुवादनादिलीलया निरोधो नोपपद्येत। क्रोधादिवत् कामोपाधिकभावस्यापि जघन्यत्वज्ञापनायाविक्रोधादिनिरूपणं ज्ञेयम्। तन्मयता निर्गुणतामित्यर्थ। ननु साक्षादगसगित्वेऽपि सगुणत्वस्थिति वस्तुशक्ति कथं सहते वह्निबध इव तूलस्थितिमित्येको विस्मय। लौकिकरीत्या कामभाववतीष्वलौकिकस्य रमण द्वितीय। क्रोधाविर्भाववता तत्फल अननुभूयैव भगवत्प्राप्तिश्चापर स्नेहवत्समानफलत्व च। यशोदानदनेहिता भाववत्य, तस्य च वनस्थितस्यैव तद्ध्यानप्राप्तिश्चान्य। एतासां तदैव निर्गुणदेहप्राप्तिर्विनैव तत्साधनमिति चेतर। सर्वात्मभाववतामेव करिष्यमाणलीलाया अनुभव। अन्यस्यास्तु तद्रहितानामपीत्यनेकविस्मयाविष्ट राजानं ज्ञात्वा तन्निवारक क्रमेण वदन् पूर्व श्लोकोक्तभाववता भगवत्प्राप्तौ हेतूनप्याह—नचैवमिति। आद्यविस्मयाभावार्थमाह—भवतेति। अत्राय भाव—पूर्वमनिर्वर्त्य ब्रह्मास्त्रतोपि गर्भोपि रक्षितवान् भवन्त प्रयोजनमस्तीति। अधुना तु सद्भावात् बालवाक्यादपि न रक्षतीति भवतैवानुभूयते न त्वेतावतास्तु शक्तौ काचिन्न्यूनता इच्छाशक्त्यधीनत्वात्। सर्वासां शक्तीना तस्या सर्वतोधिकत्वात्॥ नहि मत्रप्रतिबन्धदशायामग्नेरदाहकत्वमिति तच्छक्त्यपगम एवेति वक्तुयुक्तम् प्रकृतेऽपि यासां साक्षादित्यादिनोक्तप्रयोजनार्थं भगवता तथा कृतमिति ज्ञात्वा भवता तु विस्मयो न कार्य ।अनुभावाननुभवेनान्य कुर्यादपीति द्वितीयतृतीयादिक परिहरति—भगवतीति। तत्रेश्वरो हि सर्वरसभोक्ता भवति ‘सर्वरस’ इति श्रुते। कामरसो हि तादृशभाववतीषु विशिष्टो न भूतो भवति कामशास्त्रे तथैव निरूपणात्। तथाचैश्वर्यवत्याय विस्मयो न कार्य। तथा भगवद्वीर्यस्येतरसाधनासाध्यसाधकत्वेनात्युग्रत्वात् क्रोधादिदोषमत्यातिनिवर्त्यमपि स वीर्येण हरिर्निवारयितुं समर्थ इति। तादृशे स विस्मयो न कार्य। यशो ह्यसाधारणमसाधारणे कर्मणि सति भवति। यदि स्नेहवत्स्वेव मुक्तिं दद्यान्न द्विट्सु तदान्यसाधारण्येनासाधारण यशो न स्यात्। भयद्वेषादिमस्त्वपि स्नेहादिमत्समानफलदाने
एव प्रासङ्गिक राजप्रश्नोत्तरमुक्त्वा प्रस्तुतमाह—ता इति। ता वेणुनादश्रवणेन निजान्तिकमायाता व्रजयोषितो दृष्ट्वा वाचःपेशैर्वाग्विलासैः
ता^(१)दृष्ट्वाऽन्तिकमायाता भगवान् व्रजयोषितः॥ अवदद्वतां श्रेष्ठो वाचःपेशैर्विमोहयन्॥ १७॥
—————————————————————————————————————————————
ह्यसाधारणत्वेनासाधारण यश स्यात्। तथाचैतादृशयशस सहजत्वेन तज्ज्ञापकधर्मा अपि हरौ सहजा एवेति नाय विस्मय कार्य। श्रीर्लक्ष्मी सा चैतादृशस्नेहवती यद्वक्षसि स्थिति प्राप्यापि चरणरज कामयते प्रत्यवतार चावतरति सदा तद्वत्त्वेन हरि स्नेहरसाभिज्ञ इति तद्वत्सु स्वरूपदान युक्तम्। ऐक्य हि ज्ञानमार्गे हरेश्च ज्ञानवत्वेन तेषु तथात्व युक्तम्। सौहार्दै हि सख्ये सति भवति, तच्च समानशीलव्यसनेष्वेव। “नाहमात्मानमाशासे मद्भक्तै साधुभिर्विना॥ श्रिय चात्यतिकीं ब्रह्मन्येषां गतिरह परा॥ साधवो हृदय मह्यसाधूना हृदय त्वहम्। मदन्य ते न जानति नाह तेभ्यो मनागपि ” इत्यादिवाक्यैर्यथा भगवतो भक्तातिरिक्ते रागाभावो भक्तेष्वेव च राग इति वैराग्यवत्त्व तथा भक्तानामपि भगवतीति सौहार्दयोग्येषु सौहार्दं ददातीति पूर्वोक्तवैराग्यवत्त्वात् तेषु तथा करण युक्तमिति भाव। ‘यशोदानन्दन’ इत्यादिनोक्तविस्मयाभावार्थमाह—अज इति। यदि भगवतो जीववत् कुत्रापि जन्म स्यात्तदाऽन्यत्र बहि स्थितोत्रातरहृदि कथमागतस्तत्र स नैवेति शका स्यात्तदभावात्स्वेच्छया यथा मायाजवनिका दूरकृित्य यशोदागृहे प्रकटस्तथा वने तथैवान्तर्हृद्यपीत्यजेनाय विस्मय कार्य। अग्रिमोक्ततदभावार्थमाह—योगेश्वरेति। योगिनो हि योगबलेन भोगार्थमनेकानि शरीराणि युगपत् क्षणमात्रेण सृजति तेषां च योग आगतुको धर्म। भगवाश्च तादृक्धर्मसंपादक फलदाता चेति तेषामपीश्वर इति सहजानदशक्तिमानिति तास्वलौकिकदेहसंपादनमात्र न विस्मयहेतुर्भवितुमर्हति। अग्रिमतदभावायाह—कृष्ण इति। ’ कृषिभूर्वाचक’ इतिवाक्यात्सदानन्द स्वरूपो भगवान् निर्दोषपूर्णगुण इति यावत्। तेन कृष्णातिरिक्तस्य वस्तुमात्रस्यैव सदोषत्वात्, तत्रापि स्वास्थ्यहेतुत्व जानत सदोषत्वमेवेति निश्चय। इयं च लीला स्वरूपानन्दरूपा तादृश्येवेति सर्वात्मभावरहितेष्वेतदनुभवायोग्यत्वान्नाय विस्मय कार्यं इत्यर्थ। किंच एतासां तु स्नेह पूर्वोक्तं साधनत्वेनासीत् गोकुल त्वदव्यापृत निशि शयानमिति वाक्यात्सर्वसाधनविमुख सदपि प्रतिक्षण स्वरूपे लीयते। अग्रिमाग्रिमलीलारसानुभवार्थं भगवान् पर पुन पुन पृथक्कृत्य तामनुभावयतीत्याचिंतानतशाक्तिमिति न किंचिदाश्चर्यमित्याशयेनाह—यत एतदिति। शुकस्त्वधुना लीलेतराननुसंधानात् भावनया तत्रैव स्थित इत्येतदित्युक्तवान् वर्त्तमानप्रयोग च कृतवान् तामेव लीलामनुभवतीति सर्वमनवद्यम्। ननु “ एतद्वैपरीत्यमपि सुवचम्। तथाहि—एता अपि पूर्वोक्तमध्यपातिन्य एव। अत एव पूर्वश्लोके तासामनिवृत्तिमुक्त्वा तादृशी सा लोकेत्यसभावितेति सा कथमुपपाद्यते” इत्याशंकानिरासायाह—अन्तर्गृहेत्यादि। अत्राय भाव—पूर्वं हि वचनेन निवर्तनम्। तथा सति निवृत्तिर्हि विपरीतस्वक्रियया भवति, सा चातिदूरे, यतस्तत्सजातीया काश्चिद्भर्त्रादिकृते क्रियया प्रतिबन्धे तत्प्रतिबन्ध्य देहमपि त्यक्त्वा भगवत्सगता जाता।तथा चैतादृश पूर्वोक्ता सर्वा इति युक्तैर्वा निवृत्ति। किं च तदभावना युक्ता इति यदेतच्छब्दस्य पूर्वपरामर्शित्वेन पूर्वं च पूर्वोक्तानामेव भावस्योक्तत्वादेतद्भावसजातीयभाववत्त्वपूर्वोक्तानामपीति गम्यते। तेनैतन्निष्ठाशेषधर्मवत्त्व तत्रापि सिद्धयति। एतासां मुक्तिर्दत्तेति तन्निवृत्ति विना न सेति तथोक्तम्। “तासां न तथेति न तथोक्तम्” इति चेत् अहो शकाढ्यमानिनोमौढ्यदार्ढ्यतव यस्मादालोचनलोचनराहित्येन बहिर्मौख्यसत्सख्यगिरिगर्त्ताघातपातविवशाशय परोक्तमपि नानुसधत्से। तथाहि—यच्छकानिरासायैतत्कथाऽवतारिता तद्भावश्च त्वया वर्णितस्तत्र त्वां पृच्छामस्तदर्थमिय कथा कल्पिता तत्सिद्धैवानूदिता? अत्य एव समतश्चेत्तत्रापि त्वां पृच्छाम एतासां प्रतिबंधे को हेतुरिति। स्वप्रियास्वपि सगुणत्व ख्यापयितुमेतासां प्रतिबन्धो हरिणैव कृत इति चेद्ब्रवीषि, हतैव विचारकस्य तव शतधा हृदय नास्फुटत्कुतस्तन्न जानीम। यतो मर्यादाभक्तिमार्गीयसेवाविषयकश्रद्धाया अपि निर्गुणत्व तत्साक्षादगसगिनीषु सगुणत्व ब्रवीषि। किंच “ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिका” इत्यादिना प्रभुणैव, “एता पर तनुभृत” इत्यादिनोद्धवेन, ‘नोद्धवोण्वमन्यून’ इत्यादिना भगवता स्तुतेनापि चरणरेणुप्रार्थनापूर्वक स्तुता इति क्व तद्गधशकापि। ननु “ कामोपाधिस्नेहवत्त्वेनतथोच्यत” इति चेत्, न। तथा स्नेहे भगवतोपि विषयान्तरतुल्यत्वेन ‘संत्यज्य सर्वविषयान्’ इति कथनानुपपत्ते। विषयार्थमेवागमनान्न च भगवतो विषयत्वेपि तदतिरिक्तविषयाणा त्यागोनूद्यत इति वाच्यम्, ‘तव पादमूल प्राप्ता’ इत्युक्तिविरोधात्। नहि कामिन्य एव वदति किन्तु भक्ता एव। किंच अतितोके पूतनासु पय पानानन्तर रक्षाकरणे श्रीशुकेन हेतुरुक्त इति प्रणयबद्धाभिर्गोपीभिरिति। नहि तादृशे कामोपाधिक स्नेह संभवति। न वा तादृशीनामजनादित्याग संभवति। प्रत्युत तदादि सर्व प्रसाध्यागमन कुर्यु। तदनन्तर यद्रमण तत्तु ‘रसो वै स’ इति श्रुते स्वरूपस्य रसात्मकत्वाद्रसरीत्या स्वरूपानन्ददानमेव “सात्त्विक सुखमात्मोत्थ विषयोत्थ तु राजसम्। तामस मोहदैन्योत्थ निर्गुण मदपाश्रयम्” इति भगवद्वाक्याद्भगवत्संबधिसुखस्यापि गुणातीतत्वमेव॥१६॥ १ एव प्रासंगिक परिहृत्य प्रस्तुतमाह—ता दृष्ट्वातिकमिति। यास्तु समाहूता समागता ता न निवार्यते। या पुन सगुणा
विमोहयन् स्वविषयक भाव दृढीकर्तुं भगवान् ‘स्वागतम्’ इत्यादि वक्ष्यमाणमवददित्यन्वयः। ननु ‘वाग्विलासमात्रेण कथं मोहनं स्यात्?’ तत्राह—वदता चतुर्मुखादिकवीना श्रेष्ठ इति॥१७॥ ‘मयि स्नेहवतामेव भाग्यस्य महत्त्वम्, स्वस्य परस्य च सुखहेतुत्वात्’ इति सूचयन् सम्बोधयति—महाभागा इति। वो युष्माकं स्वागतमागमन शोभनम्। ‘स्वस्थाने आगताना सत्कारः कर्तव्य’ इति सदाचार दर्शयन्नाह—वो युष्माकं किं प्रिय
॥श्रीभगवानुवाच॥
स्वागतं वो महाभागा प्रियं किं करवाणि वः॥ व्रजस्यानामयं कच्चिद्ब्रूताऽऽगमनकारणम्॥१८॥
रजन्येषा घोररूपा घोरसत्त्वनिषेविता॥ प्रतियात व्रजं नेह स्थेयं स्त्रीभिःसुमध्यमा॥ १९॥
करवाणीति। सर्वाः ससम्भ्रममागता विलोक्य स्वयमपि सभयमिवाह—व्रजस्येति। कच्चित् मदिष्टव्रजस्यानामयं मङ्गलमस्ति चेत्तर्ह्यागमनस्य कारण ब्रूत॥१८॥ ‘अत्र स्थित्यर्थमेवागमनम्’ इति चेत्तत्राह—रजनीति।‘भवत्यो यदि वृद्धाः स्युस्तदापि न तादृशी चिन्ता’ इति सूचयन् सम्बोधयति—सुमध्यमेति,
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
समागता अन्यसंबधिन्य ता शब्दश्रवणात् समागता इति। शब्देन निवारणीया अन्यशेषतया भजनमयुक्तमिति करिष्यमाणलीला तु सर्वभावप्रतिपत्तिसाध्या, अतो निवारणार्थं यत्नमाह—ता दुहत्य इत्याद्या। अतिकमायाता दृष्ट्वा स्वार्थमेवागता इति निश्चित्य भगवान् सर्वज्ञ सर्वसमर्थोपि ता अपि व्रजयोषित अपावृता स्वकीयाश्च। अत सर्वानुपपत्तिरहिता अपि दृष्ट्वा अवदत् धर्मप्रबोधनार्थं वक्ष्यमाणमुक्तवान्। ननु “ता पूर्वंनिवार्यमाणा समागता कथमेतद्वाक्येन निवृत्ता भविष्यति?अतो व्यर्थो वाक्प्रयास” इति चेत्तत्राह—वदता श्रेष्ठ इति। ये केचिद्वदति तेषांमध्ये श्रेष्ठ। अतो हृदयगाम्यस्य वचन भवति, अतो यावद्वचनेन निवृत्ता भवति तावन्न कृतौ योजनीया। किंच अलौकिकमप्यस्य निवर्त्तने सामर्थ्यमस्ति तदाह—वाच पेशैर्विमोहयन्निति। वाच पेशा वाक्सौदर्ययुक्ता शब्दा तैर्विशेषेण मोहयन्। अथवा ता दृढीकर्तुमेव सम्यक् मोहनार्थं निषेधवाक्यान्युक्तवान्, अन्यथा गच्छेयुरेव। अत अर्थत निवारयन्नपिपर्यवसानतो न निवारयति॥१७॥
१ भगवद्वाक्यान्याह—स्वागतमित्यादिदशभि। दशविधाना निवारकाणि। तमोरज सत्त्वभेदा स्वातपर्यवसानत। निरूप्यते स्त्रियस्तासु वाक्यान्यपि यथायथम्॥ प्रथमतस्ताम- ससात्त्विक्यो निवार्यंते। ततस्तामसराजस्य। ततस्तामसतामस्य। एवमग्रेऽपि विभज्या। प्रथम समागताना लौकिकन्यायेनाह—स्वागतमिति। कुशलप्रश्नोऽयं वो युष्माकमागमन स्वागतं किमिति। स्तुतिमाह—महाभागा इति। भवतीना महद्भाग्यम्। अत स्वागमनमेव, तथापि पृच्छत इति लोकोक्ति। वस्तुतस्तु निष्प्रत्यूह भगवत्सामीप्यमागता इति। समागतानामुपचारमाह—प्रिय किं करवाणि व इति। किंचित् प्रार्थयितुमागता इति लक्ष्यते तथा सति तद्वक्तव्यम्। अर्थादेतासां नाह स्वभावत प्रिय, किंतु कामत प्रिय इति ज्ञापितम्। तत्प्रयोजन त्रिविध भवति। इष्टरूप अनिष्टनिवृत्तिरूप देशकालव्यवहितकामित च। तत्रापि त्रैविध्यमस्तीति वाक्यत्रय वा। यद्भवत्यो धावत्य समागता तत्तत्र किं व्रजे कश्चन उपद्रवो जात?। यज्ज्ञापयितुं तासां समागमन पूर्वपूर्वानंगीकारे उत्तरोत्तरवाक्यम्। यदि प्रियमपि न किचित्कर्तव्य व्रजे च न काप्यनुपपत्तिस्तदागमनकारण ब्रूत॥१८॥
२ तत्राप्यनुत्तरे स्वयमेव पक्षान्तर कल्पयति। यथा भवत्य समागता तथाऽयमपीत्याशक्याह—रजनीति। एषा रजनी, न तु दिनम्। दिवस एवारण्ये कार्यार्थं गम्यते॥ अय तु चन्द्र, न तु सूर्य इति भाव। ननु ‘अस्तु रजनी, तथापि प्रकाशस्य विद्यमानत्वादागतव्यमेव’ इति चेत्तत्राह—घोररूपेति। प्रकाशयुक्ताप्येषा वस्तुतो घोररूपा भयजनिका ‘प्रकाशयुक्तायामपि रात्रौ गच्छन् पुरुषो बिमेतीति॥ किंच घोरसत्त्वनिषेविता घोराण्येव सत्त्वानि रात्रिं निषेवते, न त्वघोराणि। अतो रात्रावघोरो निर्गतो घोरैरुपहन्यते। अत स्वभावधर्मसंसर्गिणा स्वरूप ज्ञात्वा व्रज
सुमध्यमा हे सुकुमार्यः !इह वने स्त्रीभिर्न स्थेयम्, अतो व्रज प्रतियात। तत्र हेतुमाह—एषा रजनी रात्रिः घोरा भयङ्कररूपा, तथा घोरसत्त्वै भयङ्करप्राणिभिः व्याघ्रसर्पादिभिर्निषेविता॥१९॥ किंच वो युष्माकं मात्रादयो युष्मानपश्यन्तो विचिन्वन्ति मृगयन्ते, अतस्तेषां बन्धूना साध्वसमदर्शनजन्य भयं मा कृध्वनोत्पादयत। यद्यप्यविवाहिताभिरेव पत्यर्थं कात्यायन्याराधन कृत, तथाप्यत्र पतिपुत्रादिमतीनामपि तत्सौन्दर्याद्याकृष्टचित्तानामागमन
मातरः^(१) पितरःपुत्रा भ्रातरः पतयश्च वः॥ विचिन्वन्ति ह्यपश्यन्तो माकृध्व बन्धुसाध्वसम्॥२०॥
दृष्टं^(२) वनं कुसुमितं राकेशकररञ्जितम्॥ यमुनानिललीलैजत्तरुपल्लवशोभितम्॥२१॥
मूले स्पष्टमेव॥ २०॥ वनशोभादर्शनार्थमागमन प्रकल्प्याह—दृष्टमिति। कुसुमित नानाविधसुगन्धिपुष्पयुक्तम्। राकेशः पूर्णचन्द्रस्तस्य करैः किरणै रञ्जित प्रकाशितम्। यमुनास्पर्शिनोऽनिलस्य लीला मन्दगतिः, तया राजतः कम्पमानास्तरूणा पल्लवा तैः शोभित वन दृष्टम्॥२१॥
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
प्रतियात। ननु ‘एव सति तवैव स्थाने स्थास्याम, परिचितो भवान्’ इति चेत्तत्राह—नेह स्थेय स्त्रीभिरिति। वयं हि पुरुषा, रात्रिश्चेयम्, अतोऽत्र स्त्रीभिर्न स्थातव्यम्। तथा सत्युभयोरपि विक्रिया स्यात्॥ किंच भवत्यो यदि वृद्धा बाला वा भवेयु तदा स्थीयेतापि। भवत्यस्तु सुमध्यमा रसात्मिका। अतो देहाभ्यासे विद्यमाने सर्वथैव गतव्यम्। स्थितिपक्षेन अश्लेषो घोरपदयोर्ज्ञेय न प्रतियातेति च॥१९॥
१ अथ वयमभिसारिका एव त्वामुपदिश्य समागता किमिति प्रेष्यते इत्याशक्याह—मातर इति। भवतीना मातरो नियामिका। तास्तु नागता। अतो भवतीनामन्वेषणमपि करिष्यति। अत तासां साध्वस भयं मा कृध्वमा कुरुत। नच वक्तव्य ता अपि तथा स्त्रीत्वाद्वा नागमिष्यतीति तत्राह—पितर इति। तेषां कुले कलकशकया ते समागमिष्यत्येव। ‘तर्हि तै सह गन्तव्यम्’ इति चेत्तत्राह—विचिन्वति ह्यपश्यत इति। गोकुलान्निर्गताना कृष्णस्थानागमने मध्ये बहवो मार्गास्फुटिता सति तत्र भगवन्माया तिष्ठति, यथा कोऽपि भगवत्समीपगच्छति। अतो मार्गांतरेणैव गता अपश्यत सतो विचिन्वत्येव। अनेन स्थितौ शकाभावोप्युक्त। वधुभ्य साध्वसमिति च। तस्मात्सर्वा नागता इति नागतव्यम्। कुले च कलको भविष्यतीति च। न च तेपि स्त्रीस्वभाव जानतीति नागमिष्यतीति चेत् भगवदर्थं वा समागता इति तत्राह—पुत्रा इति। पुत्राणां सर्वथा रक्षकत्वम्। महती लज्जेति। तेषु दयया भयाभावार्थ गन्तव्यम्। ननु ते बालका इति चेत्तत्राह—भ्रातर इति। तेहि समर्थाअन्वेषणे लज्जावतश्च, अतो लज्जया अदृष्टा कदाचित् शरीरमपि त्यजेयुः। अतो भ्रातृस्नेहाद्गतव्यम्। ननु ’ ते अपकीर्तिंभयादन्वेषणे न गमिष्यति। ‘तरुणास्ते तरुण्यो वयम्’ इति चेत्तत्राह—व पतय इति। तेषां भोगापेक्षाप्यस्ति। तेषामेव चाय रस। अत परस्वनान्यस्मै देयम्। भोगस्य ततोपि सिद्धि सर्व एव अपश्यत गृहे अदृष्ट्वा अवश्य विचिन्वति। ततो बहुकालमदृष्ट्वा नाशशकया अपहारशकया च भय प्राप्स्यति। नच वक्तव्य किमस्माकं तै। तत्राह—बन्धुसाध्वसमिति। ते हि बान्धवा तै सहैव स्थातव्यम्। अतो बलवद्बाधकस्य विद्यमानत्वात् व्यायुज्य गतव्यमिति॥२०॥
२ एवमुक्ते परितो विलोकयतीराह—दृष्ट वनमिति। एषा हि राजसराजसी, अग्रिमा राजसतामसी। यदि वनदर्शनार्थमागत तदा दृष्टमेव वनम्, अत प्रतियतेति। अर्थात्सर्वदादृष्टमेवैतद्वनम्। नात्र भयमिति ज्ञापितम् गृहे च न गतव्यमिति। यदि गृहगमनापेक्षा तदैव गतव्यमिति वचनात्। तच्च वन कुसुमितमिति वर्णयति। यथा तासामन्यासक्तिर्भवति।
तत् तस्मात् वनदर्शनरूपकार्यस्य जातत्वात् गोष्ठ व्रज यात, मा चिरं विलम्बो न कार्यः। ‘गत्वा किं कर्तव्यं’ तत्राह—पतीन् शुश्रूषध्वमिति। ‘पतिशुश्रूषा च युष्माकं पतिव्रतानां परो धर्म’ इति सूचयन् सम्बोधयति—सतीरिति। हे सत्यः! वत्सा बालाश्च क्षुधार्ताः क्रन्दन्ति तान् दुग्ध
तद्यात^(१)मा चिरं गोष्ठ शुश्रूषध्वं पतीन् सतीः॥ क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत॥२२॥
अथवा मदभिस्नेहाद्भवन्त्यो यन्त्रिताशया॥ आगता ह्युपपन्न वः प्रीयन्ते मयि जन्तवः॥२३॥
पाययत गाश्र दुह्यत॥२२॥ अथवा मयि योऽभितः स्नेहः तस्माद्यन्त्रितः वशीकृतः आशयोऽन्तःकरण यासां ताः। तथा सत्यो भवत्यः आगतास्त- र्ह्येतद्वोयुष्माकमुपपन्न युक्तमेव। हि यस्मात् मयि जन्तवः सर्वेऽपि प्राणिनः प्रीयन्ते प्रीतियुक्ता भवन्ति॥२३॥
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
इदानीं पुष्पाण्येव जातानि न फलानीति वा। कुसुमिते वने रति कर्तव्येति भाव। सर्वत्र मोह प्रेषण चानुस्यूतम्। किंच राकेशस्य चन्द्रमस करै रजितम्। उद्दीपका एते। वन तामसम्, पुष्पाणि राजसानि चद्रकिरणा सात्त्विका इति। अयराकेश इति पूर्णचंद्र, अत पूर्णत्वे स्थातव्यम्। पर्वादिबुद्धौ गतव्यमिति। वायुमपि तत्रत्य वर्णयति–यमुनेति। यमुनासंबन्धिनाऽनिलेन लीलया ये एजत कम्पमानास्तरुपल्लवा तैर्मडितमिति। जलसबधाल्लीलया चलनात्तरूणा सुगंधानां संबन्धास्त्रिगुणो वायुरुक्त। वर्णनाया रसोद्बोधके चोपयुज्यते॥२१॥
१ एव वनं वर्णयित्वा अन्यासक्तिमुत्पाद्य ततो गतव्यमित्याह–तद्यातेति। तत्तस्माद्वन दृष्टमिति कार्यस्य सिद्धत्वाद्यात। एतादृश वनमिति मा यातेत्यपि ध्वनिः। चिरा मा विलंवोन कर्तव्यः, चिरं मा यातेति च। नहि कश्चिद्भगवत विहाय गोष्ठ गच्छति। किं च गोष्ठ यात। तत्र गवा शुश्रूषणमपि भवति। किंच तत्र गताना धर्म सिध्यतीत्याह–शुश्रूषध्वमिति। पतिसेवा हि स्त्रीणां धर्मः। तत्रापि भवत्य सती सत्यं, पतिविशेषण वा। पूर्वजन्मनि ता पतिव्रता स्त्रिय स्थिता पुरुषभावनया पुरुषा जाता भवन्तश्च पुरुषा विपरीता जाता इति अग्रेपि वैपरीत्य भविष्यतीति विचार्य गतव्यमिति भावः। धर्मस्तत्र रसस्तत्रैवेति। पतीनिति बहुवचनात् धर्माभावश्च। या भक्तीनां मध्ये पतिव्रता ता वा गच्छत्विति सर्वासामेव तथात्वेन गतव्यमेवेति। नहि पतिव्रता समायाति लौकिकधर्मपरायणा अतो भगवद्वाक्य रसालत्वात्तदभावमेव सूचयति। किंच वत्सा तथैव वृद्धा बालाश्च क्षुधिता ते क्रन्दति। अत तेषां रोदननिवृत्त्यर्थं तान्पाययत स्तन दुह्यत च गा। परार्थ च भवतीना जीवनम् न स्वार्थम्। अतो दुःखिताना स्थाने सुखाकाक्षिभिर्न गतव्यमिति॥२२॥
२ एवमुक्ते या स्निग्धदृष्टयो जाता ता प्रत्याह–अथवेति। मया वृथैवैते पक्षा कल्पिता। वस्तुतस्तु मा द्रष्टुमेवागता स्नेहात्। सिद्धातोऽय पूर्वपक्षार्थमनूद्यते। निरुक्तो भावो गुणात्मको दोषात्मको वा न फल प्रयच्छति। लौकिको भवति। अत अनूद्यते मयि योऽयमभित स्नेह सर्वभावेन तेन कृत्वा यत्रित आशयो यासां तादृश्यश्चेद्भवत्य इहागता। तदुपपन्नमेव तर्हि को विल्ब इति चेत्तत्राह–प्रीयते मम जतव इति। मम संबन्धिन सर्व एव जतव स्वयमेव प्रीता भवति। नतु मया किंचित्कर्तव्य स्नेह एव मयि न तु कृतिरिति। तत साधारण किमिममर्थ ज्ञात्वा प्रतियात। स्थितिपक्षे तु स्पष्टं एवार्थ। तद्यातेति फलिष्यति। नहि स्नेहादागत प्रेर्यमाणोऽपि गच्छति। यन्त्रितो वशीकृतः। अन्त करणे अत्यधीने जाते न किंचिदवशिष्यते। निष्कपटा च प्रीति कर्तव्येत्युभयत्र भाव॥२३॥
पतिसेवाया परमधर्मत्वमाह–भर्तृशुश्रूषणमिति। अमायया कापट्यपरित्यागेन भर्तृशुश्रूषण तस्य भर्तृबन्धूना पित्रादीनां च शुश्रूषण तत्प्रजानां पुत्रभृत्यादीना चानुपोषण स्त्रीणां पर उत्कृष्टो धर्मः। हीत्यर्थः न सन्देहः। ‘युष्माकं च पत्यादयःसर्वेऽपि सन्ति’ इति सूचयन् सम्बोधयति—कल्याण्य इति॥२४॥‘तथापि दुष्टस्य त्यागो युक्तः’इत्याशङ्क्याह—दुःशील इति। दुष्ट शील यस्य सः द्यूतस्तेयादिव्यसनवान्, दुर्भगो निष्फलोद्यमः, वृद्धः विकलेन्द्रियः, जडो मूर्खः, रोगी महारोगग्रस्तः, अधनो दरिद्रः, एवंभूतोऽपि पतिः स्त्रीभिर्न हातव्यः। ‘तर्हि कुतःकाश्चित्त्यजन्ति?’ तत्राह—लोकेप्सुभिरिति। पुण्यलोकमिच्छन्तीभिः। त्यजन्त्यस्तु नारक्यो ज्ञेया इत्याशयः॥ परन्तु “आ विशुद्धेः प्रतीक्ष्यो हि महापातकदूषित” इति स्मृतेः’ब्रह्महत्यादियुक्तो दूरत एव सेव्यः, तत्सम्पर्कस्तु वर्जनीय’ इत्याशयेनाह—अपातकीति॥ २५॥ ‘त्वया सह रमणेच्छया वयमागता ’ इति चेत्तत्र षट् दोषानाह—अस्वर्ग्यमिति।
भर्तु188शुश्रूषण स्त्रीणां परो धर्मो मायया॥ तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम्॥२४॥
दुःशीलो189दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा॥ पति स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी॥२५॥
अस्वर्ग्य190मयशस्यंच फल्गु कृच्छ्र भयावहम्॥ जुगुप्सित च सर्वत्र औपपत्य कुलस्त्रियाः॥२६॥
सत्कुलस्त्रियाः औपपत्य परपुरुषसम्बन्धः उपपतिः तज्जन्यः सुखमौपपत्य अस्वर्ग्य धर्मेण प्राप्तप्रायस्यापि स्वर्गस्य धर्मविनाशद्वारा नाशकम्। अयशस्य चेति। इह लोके यशोनाशकम् चकारान्नरकहेतुश्च॥ तत्र हेतु वदन्नपयशस्करत्वमप्याह—सर्वत्र लोके शास्त्रे च जुगुप्सित निन्दित चेति। तथापि कृच्छ्र कष्टसाध्यम्। तथापि न महत्, किन्तु फल्गु तुच्छ क्षणभङ्गुरमित्यर्थः। तथापि भोगकालेऽपि भयमेवावहतीति तथा तत्। अस्यार्थस्यप्रसिद्धिः सूचयति—हीति॥२६॥
ननु ‘एव पत्यादिसेवने त्वयि भक्तिर्न सिद्ध्येत्, अतस्तत्सिद्ध्यर्थं त्वत्सम्बन्धःकर्तव्य’ इत्याशङ्क्याह—श्रवणादिति। यतो यथा श्रवणादिभ्यो मयि भावः स्नेहातिशेया भवति तथा तादृशः सन्निकर्षेण अङ्गसम्बन्धेन न भवति, ततस्तस्मात् गृहान् प्रतियात॥२७॥ इत्येवभृत गोविन्दस्य भाषितमाकर्ण्य श्रुत्वा
श्रवणा^(१)द्दर्शनादयानान्मयिभावोऽनुकीर्तनात्॥ न तथा सन्निकर्षेण प्रतियात ततो गृहान्॥२७॥
॥श्रीशुक उवाच॥
इति^(२) विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम्॥ विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम्॥२८॥
गोप्यो दुरत्यया तदनुग्रहविना अनिवर्त्या चिन्तामापुरित्यन्वयः। चिन्ताया हेतुमाहः—विषण्णा इति। विषाद प्राप्ता इत्यर्थः॥ तत्र हेतुमाह—भग्नसल्पा इति। भग्नो भगवता सह रमणाविषयकः सङ्कल्पो मनोरथो यासां ताः। तत्र हेतुमाह—विप्रियमिति। गृहगमनविषयकमित्यर्थः॥२८॥
——————————————————————————————
तत्सुख क्षणमात्रसाध्यम्। स्वरूपतो महदपि कालत परिच्छिन्नम्। परिच्छिन्नमपि कृच्छ्रमिति कष्टसाध्यम्। नाल्पेन प्रयासेन सिद्ध्यति, अतो बलवदनिष्टानुबधि॥ किंच अनुभवकालेऽपि न रसमुत्पादयति, यतो भयजनकम्। शृङ्गारविरोधी भयानकरस, अत एव व्यभिचारशब्द वाच्य। मुख्यतया भयानकमेव रससमुत्पादयेत् विशेषत प्रथमत। किंच सर्वत्रैव जुगुप्सित सर्वदेशेषु सर्वकालेषु तत्कृत्वा यदि सत्कर्माणि कुर्यात् ततोऽपि जुगुप्सितो भवेत् धर्मबुद्धिस्तत्र विचिकित्सैव भवति। अतो बहुदोषग्रस्तत्वात् उत्तमाया नैतद्युक्तम्॥ २६॥
१ एव सगुणा प्रबोध्य गुणातीता प्रबोधयति—श्रवणादिति। ननु “लौकिकदृष्टावेते दोषा, नतु भक्तिमार्गे परमार्थदृष्टौ वा। भवास्तु पुरुषोत्तम” इति चेत्तत्राह—श्रवणादिति। नहि भक्ति मार्गे संबन्ध एव कर्तव्य इति शास्त्रमस्ति। भक्तिर्हि नवविधा, श्रवणादिरूपा प्रेमरूपा च। स्वतत्रपक्षे तु सुतरामेव नापेक्षा। स्नेहस्तु भगवद्विषयक अलौकिक। स एव सर्वाधिको भवति॥ लौकिकस्तु कामशेषता च प्राप्तो हीन एव भवति। तस्यालौकिकस्य कारणानि त्रीणि, श्रवण दर्शन ध्यानमिति। आदौ श्रवणम् भगवद्वाचकाना पदवाक्याना भगवति शक्तितात्पर्यावधारणम्। तथा सति विषयो व्यावर्तितो भवति, अन्यथा अन्यत्रापि स्नेह स्यात्॥ तदनुदर्शन तदर्थस्यानुभव, कृपया भगवत्साक्षात्कारो वा। भगवत्कामार्थ नारदादेरिव॥ ततो ध्यान योगेन चितनम्। एतैरेव मयि भावो भवति। स चोत्पन्नो भावोऽनुकीर्तनात् स्थिरो भवति। यथायमुपाय शास्त्रीय साधीयान् तथा निरतरसान्निध्येन जातो लौकिक स हि कामशेष इत्यवोचाम। अतो गृहान् प्रतियात। अत परमार्थविचारेऽपि न स्थातव्यम्। इति तथेत्यत्र मकार एव निषिद्ध। न स्वरूपतो महत्त्व निषिद्धम्। गृहस्थिताना च विहित भवतीति गृहगमनमाज्ञापितम्॥२७॥
२ एव तासा गृहगमने बोधिते तत्परित्यागानंतर पुनर्ग्रहणे वान्ताशनमिव मन्यमाना भगवद्वाक्य चानुल्लघ्यमिति विचार्य अतिविरोध उभयानुरोधिशरीरपरित्याग कर्तव्य इति निश्चित्य तत्रापि भगवत्संबधानन्दाभावात् इतिकर्तव्यतामूढा जाता इत्याह—इति विप्रियमिति। विगत प्रिय यस्मादिति उभयथापि प्रियाभाव। किं परीक्षार्थमाह। आहोस्विदभिप्रेत एवायमर्थ इति आसमतात् श्रुत्वा वाक्यतात्पर्य निर्धार्य सत्य गमनमेव वदतीति निश्चित्य अनभिप्रेतत्वेपि तत्प्रसवहेतुमलभमाना गोप्यो नैपुण्यरहिता गोविन्दस्य स्वामिन देवभाषितत्वेन अनृतशकारहितमीश्वरवाक्याच्च निर्धाररहितमाकर्ण्य विषण्णा जाता मनसि परम विषाद प्राप्ता। तत्र हेतुर्भग्नसंकल्पा इति। तदा परा चिंतामापु। कथमस्मद्विचारित भगवद्वाक्य च एकमुख भवतीतिसा चिन्ता त्रैलोक्य प्राप्य चेद जन्मजन्मान्तराणि च निर्धारमलभमाना दुरत्यया पर्यवसानरहिता जाता॥ २८॥
चिन्ता प्राप्ताना स्थितिमाह—कृत्वेति। शुच शोकादुद्गतेन श्वसनेनोष्णवातेन शुष्यन्तो बिम्बफलसदृशा अधरा येषु तानि मुखानि अव अवाञ्चि कृत्वा तथा चरणेन पादाङ्गुष्ठेन विवर प्रार्थयन्त्य इव महीं लिखन्त्यः। तथा उपात्तमषिभिर्गृहीतकज्जलैरस्रैरश्रुभिः कुचगतानि कुङ्कुमानि मृजन्त्यः क्षालयन्त्यस्तूष्णीमेव तस्थुः। स्म इत्यवधारणे। तत्र हेतुमाह—उरुर्दुःखभरो यासां ताः इति॥२९॥ किञ्च प्रेष्ठमिति। रुदितेन रोदनेन उपहते शोकाश्रुपूर्णतया लुप्तदर्शने नेत्रे प्रमृज्य प्रोञ्छतेन शोधयित्वा किञ्चित् सरम्भेन कोपावेशेन गद्गदाः स्खलिताक्षरा गिरो यासां ताः गोप्यः कृष्णं प्रति अब्रुवन् ऊचुरित्यन्वयः। एव गृहगमनाज्ञायामपि रुषा कथने हेतु सूचयन्नाह—अनुरक्ता इति। तस्मिन्नेव रागयुक्ता इत्यर्थः। अनुरागे हेतुमाह—प्रेष्ठमिति।
कृत्वा^(१) मुखान्यवशुचः श्वसनेन शुष्यद्बिम्बाधराणि चरणेन भुव लिखन्त्यः॥ अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम्॥२९॥ प्रेष्ठ^(२) प्रियेतरमिव प्रतिभाषमाण कृष्णं तदर्थविनिवर्तितसर्वकामा॥ नेत्रे विसृज्य रुदितोपहते स्म किञ्चित्संरम्भगद्गदा- गरोऽब्रुवतानुरक्ताः॥३०॥
‘प्रेष्ठ प्रत्यनुरक्तानां भाषणे विलम्बो नैव भवति’ इति लोकप्रसिद्धमेव इति सूचयति—स्मेति। अनुराग स्पष्टयन्नेवाह—तदर्थेति। तत्प्राप्त्यर्थमेव विशेषेण निश्चयेन निवर्तितास्त्यक्ताः सर्वे कामाः विषया याभिस्ताः। ‘तर्हि कथं सरम्भ?” इत्याशङ्क्यतत्र हेतुमाह—प्रियेतरमिव ‘स्थितम्’ इति शेषः। अप्रियसादृश्ये हेतुमाह—प्रतिभाषमाणमिति। स्वमनोरथप्रत्याख्यान कुर्वन्तमित्यर्थः॥३०॥
———————————————————————————————————————————
१ तत चितया यज्ज्ञात तदाह—कृत्वेति। चिन्ता प्रथम मूर्छिता जाता। तत मुखान्यवाङ्मुखानि कृत्वा कमपि स्वमुख न प्रदर्शयिष्याम इति अवाड् मुखानि कृतवत्य। अवगत शुचो याभि ता, शोकसंबधिन्यो वा जाता। शुच श्वसनेन शोकसंवन्धिना श्वासवायुना शुष्यति बिबाधराणि यासाम् तादृशानि मुखानि कृत्वा चरणेन भूमिं लिखत्य तथैवावस्था भवतीति भूमिवि वरमिव प्रार्थयन्त्य उपात्तमपिभि अस्त्रै कुचकुङ्कुमानि मृजत्य तूष्णीं तस्थु। मुखस्य अवाक्त्वेन भक्तितिरोभाव। श्वसनेन प्राणपीडाशोकेनात करणस्य। बिंबाधरशोपेण कामरसस्य। पदा भूमि लेखनेन शरीरस्य। अस्त्रैरिन्द्रियाणाम्। कुकुमाभावेन कान्ते। दुःखभरेण आनन्दस्य। तूष्णीं स्थित्या चैतन्यस्य तिरोभावो निरूपित। केवल स्याणुवत्स्थिता॥२९॥
२ एवमपि स्थितौ तूष्णीं स्थित भगवतमालक्ष्य किंचिद्विज्ञापयामासुरित्याह—प्रेष्ठमिति। भाषण पूर्वोक्तमेव अथवा तस्यामप्यवस्थायां किमिति रोदन क्रियते ? स्वस्था भक्त गृहे गच्छेत इत्येव वदति पर हसन्मुख। तदा तासां हृदये वाक्यामृतानि प्रविष्टानि सजातीयानि वाक्यान्युत्पादितवति। तदा भगवदुद्बोधिता एव ता भगवद्वाक्यानि पूर्वपक्षयितुमारेभिरे इत्याहु—प्रेष्ठमिति। प्रेष्ठा भवत्येव स्वसामग्र्या तथा संपादितत्वात्। पर वदत्यन्यथा तथाप्यप्रियमिव प्रतिभाषमाणमिति नोक्तम्। नहि कदाचिदपि भगवान् अप्रियवत् भवति। किन्तु प्रियो भवतीतरोपि भवति। सर्वभवनसामर्थ्यात्। इतरत्वेन प्रियत्व बाध्यते। यथा जगज्जगदतिरिक्तरूपश्च तदाह—प्रियेतरमित्र प्रतिभाषमाणमिति। य प्रियोंश तन्न तिरोधारयति। किंतु वाक्य न तेन रूपेण वदति, किन्तु रूपान्तरेण। तदा तेन सह वाद कर्तुं शक्य इति॥ नहि फल क्वचित्साधन भवति मा वृणुतेति वा वदति। पर बलादपि प्रतिबन्धनिराकरण कृत्वा स ग्राह्य एव तदाह। कृष्ण सदा नदमिति। ननु कोऽयं निर्बन्ध स एव काम्य इति। महाश्चेन्न मन्यते तदा अल्पतरा अपि काम्या इति तत्राह—तदर्थविनिवर्तितसर्वकामा इति। तदर्थ निशेषेण निवर्तिता सर्वे कामा याभि। अयमेव काम्य इति निश्चित्य पूर्वमेव सर्वे कामास्त्यक्ता। काममयश्चाय पुरुष। यदि त्यक्तापि गृह्येततदा भगवदुस्तमेव गह कथंन गृह्येत ? तम्मादयमेव कामोऽनशिष्यत। स चेन्न भवेत्
तदुक्तिमेवाह—मैवमित्येकादशभिः। ‘अस्मन्मनोरथपूरणसमर्थस्त्वम्’ इति सूचयन्त्यः सम्बोधयन्ति—विभो इति। ‘एवंभूतस्य तव दुराग्रहेणास्मत्त्यागोऽ- नुचित एव इत्याशयेन पुनःसम्बोधयन्ति—दुरवग्रहेति। एवमुक्तप्रकारकप्रत्याख्यानात्मकं नृशंस क्रूर घातुक वचन गदितु व्यक्ततया वक्तुं भवान् मा
॥गोप्य ऊचुः॥^(१) मैव विभोऽर्हति भवान् गदितु नृशंस सन्त्यज्य सर्वविषयांस्तव पादमूलम्॥
भक्ता191 भजस्व दुरवग्रह मा त्यजास्मान् देवो यथाऽऽदिपुरुषो भजते मुमुक्षून्॥३१॥
नैवार्हति, अतोऽस्मान् मा त्यज, किन्तु भजस्वेत्यन्वयः। तत्र दृष्टान्तमाहुः—देवो यथेति। देवः सर्वभजनीयाप्यादिपुरुष पुरुषोत्तमो भगवान् यथा मुमुक्षून्भजते तदभिलषिता मुक्ति सम्पादयति तथा। ‘भज’ सेवायाम्। सेवा च चित्तानुवृत्तिरूपा, अतोऽस्मदभिलषित सम्पादयेत्यर्थः। ननु मुमुक्ष वस्तु सर्वतो स्वरूपहानिरेवेति निश्चित्य फले मानमकृत्वा दृढीभूय रुदितोपहते नेत्रे विमृज्य यथास्थान सर्वं प्रापयित्वा किंचित्सरमेण वादार्थमुद्यम सरभ। भगवान् हि वाक्येन निराकरोति, नतु स्वरू
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
त्पत। वाक्य तु निराकार्यमिति तदर्थं सरभ सर्वोप्यत गत्वा परावर्तते पर सरभेण गद्गदागीर्यासा वर्णाना न स्फुटनिर्गमन ईश्वरवाक्यनिराकरणे यतो वाणी बिभेति। यद्यपीश्वरभीत्या निर्गमासंभवे गद्गदत्व गिरस्तथापि यथा भगवतो भीतिस्तथा तत्प्रियाभ्योपि भीतिरस्तीति ज्ञायते। तेन प्रभुभीतिकृतमस्फुटत्वं तत्प्रियाभीतिक्लमो निर्गम इति नोक्तानुपपत्तिरिति भावः। एतासां तु न भयम्, यत अनुरक्ता। रागो हि भयप्रतिपक्ष। यत्र राग स्वल्पोऽपि न तत्र भयम्। अत अब्रुवत उक्तवत्यः॥३०॥
१ वाक्यानां बाधवाक्यानि तावन्ति प्रार्थनाधिका। एकादशविधास्तेन तासां वाचो जयति हि॥ यद्भगवता प्रथममुक्त ‘स्वागत वो महाभागा’ इति यद्यपि भगवता वयं स्तुता तथापिप्रेषणाभिप्रायेण, नतु स्वस्मिन्नागता इति। तथा सति नेयं स्तुति किं त्वतिक्रूर वचनमनिष्टपर्यवसानात्। ननु अशक्ये किं कर्तव्य तत्राह–गोप्य ऊचु–मैव विभोर्हतीति। विभो इति भवान्सर्वमेव कर्तुं समर्थ। समर्थश्चेदन्यथा वदेत्तन्नृशसमेव भवति। दयाया विद्यमानाया न वदेदिति। यच्च भगवता उक्तं व्रजस्यानामयमिति तदस्माकं नोपदेश्यम्, यत सर्वविषयानेव सत्यज्य तव पादमूल प्राप्ता। अनेन त्यक्तार्थपरिग्रहोऽनुचितः। नापि जारत्वेन समागतमिति निरूपितम्। एकादशेन्द्रियाणामपि विषयास्त्यक्ता सवासना, स्तत्र विनिगमक तव पादमूल प्राप्ता इति। अन्यथा पादमूलप्रातिरेव न स्यात्। यदुक्तं ब्रूतागमनकारणमिति तत्राहुः–भजस्वेति। अन्यत्कर्तव्यमिति चेत्तत्राह। हे दुरवग्रहेति। दुष्टोऽयमवग्रह आग्रह यद्भजन न कर्तव्यमन्यत्कर्तव्यमितियथा जीवानाम्॥ते हि सर्व कर्तुं वाछति, न भगवद्भजनम्। यथायमाग्रहो जीवाना दुष्टस्तथात्रापि भवितुर्महति।’ ये यथा मा प्रपद्यते ’ इति तु नास्ति। यदि तदभिप्रायेणैव तथा तदा मा त्यजास्मानस्माभिर्न त्यज्यत इति। एतद्भजनं विषयवत्किन्तु प्रकारान्तरेणेति। विशेषतो वक्तुमशक्ता दृष्टान्तेनाहु—देवो यथेति। देवो हि सर्वानेव भजते। अन्यथा शास्त्र व्यर्थं स्यात् तत्राप्यादिपुरुषो देव पूर्वकाडेपि भजन सार्थकम्। सुतरामुत्तरकांडे आदिपुरुषस्तु सेव्य एव भवति, देवश्च नहि। देवभजन व्यभिचारजनक भवति। पुरुषातरभजनेपि प्रथमभर्त्रा विवाहितो भजनीयो भवति। अनंगीकारस्तूचित। न त्वभजनम्। एतेन स यथा स्वातिरिक्तभजन न सहते, तन्निवृत्तिपूर्वकमेव स्वभजन सपाद्य स्वयं भजते, तथा त्वयापि कार्यमतस्तत्र प्रेषण तवाप्यनुचितमिति ज्ञाप्यते। किंच यथा मुमुक्षून् भजते भगवानात्मीयत्वेन परिगृह्णाति आत्मतया स्फुरति स्वानद तेभ्य प्रयच्छति। “एष ह्येवानदयति” इति श्रुतेः॥ स्वाप्ययसपत्योरन्यतरापेक्षमाविष्कृतम्। हीति न्यायेन। भगवास्तदर्थमात्मान प्रकटीकरोतीति मुमुक्षून् भजत इत्युक्तम्। अन्यथा मुमुक्षव एव भगवत भजते, नतु भगवान्। अत फलद्वारा भजन यथा तेषा पुन पूर्वावस्था न संपादयसि सतत स्वस्मिन्नेव स्थापयसि तथा अस्मदर्थमाविर्भूय स्वानन्देन वयं योजनीया इति एतत्कर्तव्यमित्यर्थ। एतेन प्रार्थनायासकृदगीकृत्य तूष्णीभावपक्षो निरस्त। अग्रे गृहाणागमनाज्ञापनगृहस्थितिसंपादनादिकं तु रसपोषायैव, न नतु गृहार्थमिति ज्ञेयम्॥ ३१॥
विरक्ता पुरुषोत्तमभक्ता अतस्तदभिलषित स सम्पादयति, युष्मदभिलषित मया किमिति सम्पादनीयम्?’ इत्याशङ्क्याहु—सर्वविषयान् सन्त्यज्य तव पादमूल भक्ता सेवितवतीरित्यन्वयः। ‘भक्ता’ इत्यत्र ‘प्राप्ता’ इति पाठान्तरम्। ‘भजस्व’ इत्यात्मनेपदप्रयोगेण ‘भजनफल तवापि भविष्यति’ इति सूचितम्॥३१॥ ‘भर्तृशुश्रूषण स्त्रीणां परो धर्मः’ इति यद्भगवतोक्त तत्रोत्तरमाहुः—यदिति। ‘अस्मदुःखेन तवापि दुःखित्वमुचित स्नेहातिशयेनाभेदात्कथं प्रत्याख्यानेनास्मासु स्ववियोगज दुःखमुत्पादयसि?‘इति सूचयन्त्यः सम्बोधयन्ति—अङ्गेति। पतिरपत्यानि सुहृदस्तद्बन्धवस्तेषा
य^(१)त्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम्॥
अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा॥३२॥
मनुवृत्तिः स्त्रीणा स्वधर्म इति यत् त्वयोक्त तदेवमेव, नात्र सन्देहः। सन्देहाभावे हेतुं सूचयन्त्य आहुः—धर्मविदेति। परं त्वेतत् पत्यादिषु कर्तव्यमनुवर्तनं त्वय्येवास्तु। ननु ‘मद्भजनेन पत्यादिभजनं कथं सिध्येत्’ तत्राहुः—उपदेशपदे इति। शुश्रूषणीयत्वेनोपदिश्यमानाना पत्यादिना पदे अधिष्ठाने।
––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
१ यदपि भगवतोक्त स्त्रीणा स्वधर्मपरित्यागोऽनुचित इति, अत एषा रजनी घोररूपा, नेह स्त्रीभि स्थेयमिति, तत्राप्याहुः—यत्पत्यपत्येति। पतिरपत्यानि सुहृदश्च एषामनुवृत्ति स्त्रीणां स्वधर्म इति धर्मविदा त्वया उक्तम्। बहिर्मुख हि धर्मशास्त्रज्ञा। शारीरमेव धर्मः स्वधर्ममाहु, न त्वात्मधर्म भगवद्धर्मे वा। यतस्तेऽनात्मविद। तथा धर्मविदैव त्वया न त्वस्मान्विचार्य आत्मानवा त्वयोक्त तस्याप्यस्माभिर्विषयनिर्धार क्रियते, नतु दुष्यते। तदाहुः—अस्त्वेवमेतदिति। स्त्रीभिः स्वधर्म कर्तव्य इति यदुक्तं तदेवमेवास्तु। नहि पत्यादय धर्मस्वरूपम्, नाप्याधार किन्तु निमित्तम्। स च धर्म अनुष्ठीयमान प्रमीयमाणश्च भवति। अनुष्ठीयमाने पुत्रादयो निमित्तम्, प्रमीयमाणे गुरु। अत सा अनुवृत्ति प्रथमतो गुरावस्तु, अन्यथा स्वधर्मो ज्ञात एव न स्यात्। नच भगवद्वाक्यमनुवादकम्। पूर्वमस्माकं धर्मज्ञानाभावाद-यथा तदेव क्रियेत। नापि सेवाव्यतिरेकेणाय धर्मः स्फुरति, अन्यथा वचनमात्रेणैव गत स्यात्। अत उपदिष्टस्य सिद्धयर्थं सेवा कारय। उपदेशस्य पदमाश्रय कर्तेव भवति। अगेति कोमलसंबोधनात् नास्माभि प्रतिकूलतया निरूप्यते। किंच स्वधर्मा अनेकविधा। स्वापेक्षयोत्कृष्टविषया, समानविषया, हीनविषयाश्च। तत्र पूर्वपूर्वधर्मप्राबल्यम्। यथा स्त्रीणा पतिपुत्रादीना स्वसमानाना सेवाधर्म एव स्वनियामकस्येश्वरस्यापि अनुवृत्तिर्मुख्यो धर्म, अन्यथा तत्प्रेरणाभावे पतिसेवादौ न प्रवर्तेत। अत प्रकृतेपि भवा नीश्वरोंतर्यामी तादृशोपि भूत्वा पतिपुत्राद्यर्थ न प्रवर्तयसे किन्तु स्वसेवार्थमेव प्रेरयसि अतो वाक्योक्तधर्मसिद्ध्यर्थमपि भगवानादौ सेव्य। किंच धर्मो धर्मिमूल। तद्धि विरोधे न कर्तव्य फलार्थ च कर्तव्य। अन्यथा चेदनिष्ठेपि पुरुष प्रवर्तयन् अनाप्त स्यात्। अत एव धर्मशास्त्रे प्रियत्वाच्छरीरस्य तदनुरोधेनुक्त। द्रव्यसंस्कारविरोधे द्रव्य बलीय इति न्यायाच्च। तत्कस्यचित्प्रियो देह कस्यचिदात्मा कस्यचित्परमात्मा कस्यचिन्निर्वाहक। भवास्तु सर्वरूपो भवति। यत अत्यत प्रेष्ठ परमप्रेमास्पदमानन्द बन्धुर्देहनिर्वाहकश्च। किंच न केवलमस्माकं किन्तुतनुभृता सर्वेषामेव देहधारिणा भवाय नाशायेत्यत्र त्वया दत्तमेवशरीर तद्विचारितप्रयोजनार्थं जीवो गृहीत्वा तिष्ठतीति निरूपितम्। अत स देह भगवदीय भगवतैव स्थापित। तस्मै निवेद्य तदनुपयोगे जाते पश्चादन्यस्मै देयम्। चेतनो हि प्रेर्य। अत यावद्भगवदुपयोग ज्ञास्यति तावन्नान्यस्मै दास्यति। बोधितोपि यत तनुभृता त्वमेव प्रेष्ठ। प्रेष्ठाय च देय प्रिय वस्तु। अत्रार्थे किलेति प्रसिद्धिरेव प्रमाणम्। किंच न केवल देहदाता, किन्तु बन्धुरपि। येन प्रयत्नेन शरीर बिभर्ति स बन्धु, आत्मा धारकश्च॥ अतोन्तरगबहिरगन्यायेन नित्यानित्यन्यायेन वा भगवत्सेवैव मुख्या। यदा पुनस्त्वदनुपयोग तत्रापि चेत्तथा प्रेरण तदान्यस्मै दास्यामो नान्यथेति धर्मिविचार धर्मादप्यधिक, एतच्च त्वदनंगीकृत सर्वमेव विरुद्ध भवतीति प्रार्थ्यते। अस्त्विति।
तत्र हेतुमाहुः—ईश इति। सकलधर्मोपदेशानामीश्वराराधनार्थत्वात् तं त्वां विहाय पत्याद्याराधनेन किम्? अतः साक्षात्तवाराधनमेव कर्तव्यमित्याशयः। किञ्च ‘प्रेमास्पदस्य सेवा सुखकरी भवति’ इत्याशयेनाहु’—तनुभृतां सर्वप्राणिनां भवान् प्रेष्ठ इति। सर्वप्रेष्ठत्वे तदाराधनेनैव पत्यादिसर्वाराधनसिद्धौ च हेतुद्वयमाहुः—बन्धुरिति हितकर्ता, आत्मेति च। पत्यादीनामप्यात्मसहितानामेव सेवा विहिता, तद्रहिताना तु गृहान्निष्कास्य दाहादिविधानादिति ज्ञेयम्। “न वा अरे पत्यु कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति” इत्यादिशास्त्रसिद्ध एवायमर्थ इति सूचयन्ति—किलेति। नच ‘गोपीनां कथमेव भगवत्तत्त्वविज्ञानम्’ इति शङ्कनीयम्, तासां श्रुत्याद्यवतारतया अलौकिकप्रकारेणैव तथाज्ञानसम्भवात्। गोपीनां चातुर्विध्यं पाद्मेउक्तम्—“गोप्यस्तु श्रुतयो ज्ञेया ऋषिजा गोपकन्यकाः। देवकन्याश्च राजेन्द्र न मानुष्यः कथंचन” इति॥ तत्र बृहद्वामनपुराणे श्रुतिभिर्भगवान् प्रार्थितः— “कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः। कामिनीभावमासाद्य स्मरक्षुब्ध्या न सशयः॥ यथा त्वल्लोकवासिन्यः
कुर्वन्ति^(१) हि त्वयि रति कुशलाःस्व आत्मन्नित्यप्रिये पतिसुतादिभिरार्तिदैः किम्॥
तन्न प्रसीद परमेश्वर मा स्म छिन्द्या आशां भृतां त्वयि चिरादरविन्दनेत्र॥३३॥
कामतत्त्वेन गोपिकाः। भजन्ति रमण मत्वा चिकीर्षा जनिता तथा” इति॥ भगवानपि तथैव वर दत्तवान्—“आगामिनि विरिञ्चौ तु जाते सृष्ट्यर्थमुद्यमे॥ कल्प सारस्वत प्राप्य व्रजे गोप्यो भविष्यथ"इति। तथा ऋषिरूपास्तु याः प्रोक्तास्तास्तु ब्रह्मोतरखण्डवाक्याज्ज्ञेयाः—पुरा महर्षयः सर्वे दण्डकारण्य- वासिनः॥ दृष्ट्वा राम हरिं तत्र भोक्तुमैच्छन् सुविग्रहम्॥ ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले॥ हरि सम्प्राप्य कामेन ततो मुक्ता भवार्णवात्” इति। देवकन्यास्तु ‘सम्भवन्तु सुरस्त्रियः’ इत्यत्रैवोक्ता॥३२॥ एतदेव सदाचारेण द्रढयन्त्यस्तत्प्रसाद प्रार्थयन्ते—कुर्वन्तीति। कुशलाः शास्त्राभ्यासेनार्थनिपुणे त्वय्येव नित्यप्रिये रति प्रीति कुर्वन्ति। तथा चास्माकमपि त्वय्येव रतिर्युक्ता, पतिसुतादिभिः किं प्रयोजनमित्यन्वयः॥
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
सर्वरूपत्वात् त्वमेव सेव्य इति वा। अन्यत्र एकदा सर्वसेवा प्राप्ता अशतो बाधिता स्यात् विनिगमनाभावाच्च। अनेन स धर्मोपि न भवति, य कालादिना बाध्यते। अशक्यश्च भवति। नहि प्रमाण विरुद्ध विधत्ते। अत पत्यादिसेवाविधायक च शास्त्र त्वत्सेवामेव विधते। अत अनुवादपक्षे स्वतत्रविधानपक्षे वा भगवत्सेवैवोचितेति भाव॥ ३२॥
१ एव राजसीना निरूप्य सात्त्विकीना निरूपयति—कुर्वति हीति। यदप्युक्तं मातरपितरइति मा कृध्व
बधुसाहसमिति तत्किमिदं प्रथमतया अस्माभिरेव क्रियते, आहोस्विदन्येपि कुर्वति? तत्रापि किमधमा मात्राद्यनुवृत्ति कुर्वति, आहोस्विदुत्तमा? उत्तमा अपि त्वत्सेवायामशक्ता आहोस्विच्छक्ता, इति विचारणीयम्। अस्मिन्नर्थे निर्णायक महता चरित्रमाहु। ये त्वात्मनि कुशला आत्महितार्थिन, नतु देहेद्रियाणाम्, ते त्वय्येव रतिं कुर्वति। स्नेहेन हि क्रिया भवति। भगवत्कृतमेव जीवामि भवतीति तदुपपादित तच्चात्मने प्रतिमुखस्येत्यत्र। प्रीत्या च सेवा भवति। यदि पुत्रादिसेवापि धर्म स्यात्तदा पुरुषार्थत्वेन आत्मपर्यवसायिनी स्यात्। कुशला इत्यनेन तेषां कौशलमेतत्। प्रवृत्त्यपेक्षया निवृत्तिरुत्तमा। इद्रियदमनसामर्थ्याभाव एव अन्य-
नित्यप्रियत्वे हेतुमाहु—आत्मनीति। देहादाविव औपचारिकमात्मत्व वारयन्त्य आहुः—स्व इति। पतिसुतादीनामनादरे हेतुमाहुः—आर्तिदैरिति। अत्र शुश्रूषादिना परलोके च तदासक्त्या ससारप्राप्त्या पीडाप्रदैरित्यर्थः। ‘त्व तु सर्वतो रक्षितुं समर्थोऽसि, अतस्तव सेवैव युक्ता’ इत्याशयेन सम्बोधयन्ति—परमेश्वरेति। ‘प्रयासविना तव कृपादृष्ट्यैव जनस्य संसारतापो निवर्तते’ इत्याशयेन पुनःसम्बोधयन्ति—अरविन्दनेत्रेति। हि यस्मात्त्वदनुवृत्तिरेव तत्तस्मात् प्रसीद प्रसन्नो भव। चिरात् बहुकालमारभ्य त्वयि भृता निबद्धा नोऽस्माकं रमणाशा मा स्म च्छिन्द्याः विफला न कुर्वित्यन्वयः॥३३॥
चित्तं192सुखेन भवताऽपहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये॥
पादौ पद न चलतस्तव पादमूलाद्याम कथं व्रजमथो करवाम किं वा॥३४॥
यदुक्त ‘तद्यात मा चिरं गोष्ठम्’ इत्यादि तत्रोत्तरमाहुः—चित्तमिति। यदस्माकं चित्तं गृहेषु निर्विशति तत् सुखात्मकेन भवताऽपहृतम्, उत अपि तथा यौ करौ गृह्यकृत्ये गृहकार्ये निविष्टौ तावपि भवता हृतौ व्यापाररहितौ कृतौ। तथा पादावपि तव पादमूलात् पदमात्रमपि न चलतः। अतः व्रजं कथं याम? कथंचिच्छकटादिसाधनेन गत्वापि अनन्तरं तत्र किं करवाम? चित्तादिसङ्घातस्य त्वया स्तब्धीकरणत्वात् न त्वदुक्तपत्याद्यनुसरण कर्तुं शक्ता इत्यर्थः॥३४॥
–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––
गामी। कर्तव्य यतो यतो निवर्तेतेत्यत्र निरूपितम्। निरुद्धानींद्रियाण्यात्मगामीनि भवति। तत्राप्यात्मगामीनि तदैव भवति, यदि त्वदर्थमुपयुक्तानि भवति। अत केवलनिग्रहकर्त्रपेक्षया ये त्वयि रतिं कुर्वेति ते कुशला इति हिशब्दार्थ। त्वयीत्येकवचनेन च पूर्ववदेकत्र सर्वसंभवो निरूपित। किंच भवान्वात्मा स्वरूपभूत, न त्वध्यासन्यायेन तथा जात। किंच प्रियस्य हि सेवा कर्तव्या। स चेत्प्रिय कालपरिच्छेद्यो न भवति स भवानेव। अन्यथा जारसेवापि धर्म स्यात्, जन्मवद्दिनस्यापि परिच्छेदकत्वात्। किंच पतिसुतादयश्च न धर्महेतवो भवितुमर्हति, यत आर्तिदा। नहि धर्मनिमित्तानि कदाचिद्दुःखदानि भवति, अन्यथा संसारो न स्यात्। अत तै किम्? तेषां भयमस्तु अन्यद्वा, न तै किंचित्प्रयोजनमित्यर्थ। परमेकमेव प्रार्थनीयम्, यदभावे सर्वंशास्त्रयुक्तिश्चव्यर्था स्यात्। तदाहु—तत्तस्मात्प्रसीद त्वं प्रसन्नो भव। त्वदप्रसादादेव लोका भ्रान्ता दुखहेतुष्वपि प्रवर्तते। ननु ‘किं साधन प्रसादे भवतीनाम्’? इति चेत्तत्राहु वरदेश्वरेति। ये हि वरान् प्रयच्छति ते लोकानां क्लेश ज्ञात्वा यतो दयालव। अन्यथा तपसि क्रियमाणे वरंन प्रयच्छेयुः। तेषामपि त्वमीश्वरोतिदयालु। तद्द्वारापि सर्वेषां दुःखशमनं करोपि। अतो वयं क्लिष्टा क्लेश एव साधन तपोवत्। निषिद्धप्रकारस्तु यद्यप्यत्र कश्चन भविष्यति स न कर्तव्यः। ननु ‘यथैतावत काल पतिसेवा कृता एवमेवाग्रेपि कर्तव्या, प्राप्तत्वात्। गौणमपि कर्म समारब्ध समापयेदिति तस्मादविचार्यैव पतिसेवा कुरुत’ इति चेत्तत्राहुः—मा स्म च्छिद्या आशा धृतामिति। नास्माभि पतिसेवा कृता तदर्थं वा स्थितम्, त्वदाशया स्थितम्। मध्ये स्थिति निर्वाहार्थमेव तदंगीकार। इदानीं चेत्समागतानामभिलषितार्थो न सिध्येत् तदा आशा भग्ना भविष्यति। तस्या गताया प्राणा एव गमिष्यतीति। अत एव केनचित्स्त्रीहृदयज्ञेन निरूपितम्। आशाबन्धो हृदय रुणद्धीति। एतस्य मूलमपि स्त्रीशास्त्रे भविष्यति। चिरात्त्वय्येव धृता तस्या छिन्नायामवलबनाभावात् अध पतिष्याम इति। स्मेत्ययमर्थ प्रसिद्धः।अरविन्दनेत्रेति सबोधनं दृष्ट्वैवाप्यायकत्व निरूपयति। आशाहेतुरप्यनेनोक्तं तापहारकदृष्ट्या दर्शनात् भावोद्गारिण्या एव तथात्वात्। इयदवधिजीवनमप्यत एवेति भाव॥३३॥
‘तर्हि मया किं विधेयम्”? इत्यपेक्षायामाहुः—सिञ्चेति। हे अङ्ग हे सखे! त्वदधरामृतस्य पूरकेण प्रवाहेण नोऽस्माक तव हासपूर्वकोऽवलोकः कलगीत मधुरवेणुनादश्च ताभ्या जातो दृच्छयः कामः स एवाग्निस्तं सिञ्च प्रशमय। नो चेत् यद्येव न करोषि तर्हि कामाग्निना शुष्कदेहा वय त्वद्विरहेण जनिष्यते
सिञ्चाङ्ग193 नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम्॥
नो चेद्वयविरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोःपदवी सखे ते॥३५॥
योऽपरोग्निस्तेनोपयुक्तदेहा दग्धशरीराः सत्यः त्वद्ध्यानेन योगिवत्तत्व पदयोः पदवीं सन्निधान याम प्राप्नुयाम। मृत्वाऽपि त्वा न त्यक्ष्याम इत्यर्थः॥३५॥
——————————————————————————————————————————
तथा सति सर्वैर्नापहृत स्यात्। तदाह—सुखेनेति। भवता वा आनदरूपेणापहृतम्। नहि साक्षात्परमानदे सति कश्चित्परपरया पाक्षिक साधन गृह्णाति वनदर्शन दूरे गृहेपि यच्चित्त निर्विशति। अनेन ज्ञानशक्तेरपहारउक्त। नापि मतव्य वन किञ्चित्कार्यार्थमागता इति। तदर्थ क्रियाशक्तेरप्यपहारमाह—उत करावपीति। यौ गृह्यकृत्ये निविशत दूरेणापास्त वामकृत्य कामेन बलस्य हृतत्वात्। त्वत्स्पर्शेनैव करौ सजीवौ भवत नोचेन्मृतौ। अत सेवाविधिरपि हस्ताभावात्कुठित। नहि कररहित कर्मणि कश्चिन्नियुक्ते। किंच यत् व्याद्युद्यगतव्यमित्यभिप्रायेण वनदर्शन जातमित्युक्तम्, तदप्यसभावितम्। यतोऽस्माक पादौ द्वावपि तव पादमूलादस्मात्स्थानादेकमपि पद न चलत नान्यत्र गच्छत। पादाना गतियुक्ताना मूलभूतौ त्वत्पादौ, तस्यापि चेन्मूल गता तदा कथमन्यत्र गच्छेयु? अन्यथा वृक्षाणामपि गति स्यात्। मूल गताना अस्मात्स्थानादिति वक्तव्ये यत्तव पादमूलादित्युक्त तत्त्वद्गमनेन सर्वत्र गतु शक्यते। नतु तद्व्यतिरेकेणेति ज्ञापितम्। अत कथ याम।’ शकटादिना प्रेषणीया’ इति चेत्तत्राहु। अथो अथ तत्र गत्वा किं करवाम ’ यथा शकटादिक गृहे पातनार्थ साधनमस्ति नचैव हस्तयो कार्यकारणे किचिल्लोकिकसिद्धम्। न केवल गमनेन प्रयोजनम्। किंतु पित्रादिसेवार्थ गमनम्, तदभावाद्व्यर्थमेव गमनमिति भाव। तदाहु—अथो अथ किं वा करवामेति। हस्तनिरपेक्षा कृति भिन्नप्रक्रमेण भगवद्भावेन भवतीति तथोक्तम्। अनेन स्तनपानमप्यशक्य निरूपितम्। आशाभावे सर्वत्रैव शोषात्॥३४॥
ननु ‘स्वपतीनेवोपगच्छत, त एवैनमग्नि स्वाधरामृतेन सिञ्चेयु’ इति चेत्तत्राहु—यर्हीति। हे अम्बुजाक्ष कृपादृष्टयैव सर्वसन्तापनिवारक। नोऽस्माक न किञ्चित्त्वत्तो गोप्यम्, अस्मदङ्गत्वादित्याशयेन पुनः सम्बोधयन्ति—हे अङ्ग। यर्हियदा क्वचित् अरण्ये अरण्यजना व्रजवासिनः प्रिया यस्य तस्य तव रमायाः लक्ष्म्या अपि सेवावशात् दत्तःक्षणो भगवता सह रमणावसरो येन तथाभूत पादतल त्वत्कृपया अस्प्राक्ष्म स्पृष्टवत्यः। तत्र त्वया चाभिरमिता आनन्दिताः सत्यः तत्प्रभृति तदारभ्य अन्यस्य पत्युः समक्ष सम्मुखमपि स्थातु न पारयामः समर्था न भवामः। अतितुच्छास्ते न रोचन्ते
यर्ह्य194म्बुजाक्ष तव पादतलं रमाया दत्तक्षण क्वचिदरण्यजनप्रियस्य॥ अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातु त्वयाऽभिरमिता बत पारयामः॥३६॥श्री195र्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वाऽपि वक्षसि पद किल भृत्यजुष्टम्॥ यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासस्तदद्वयं च तव पादरजः प्रपन्ना॥३७॥
इत्यर्थः। तुच्छत्वेन पतीना त्यागात् भगवता च प्रत्याख्यानात् कामपीडाया विद्यमानत्वात् स्वखेद सूचयन्ति—बतेति॥३६॥ भगवच्चरणमाहात्म्य द्योतयन्त्यः स्वमनोरथे लक्ष्मीमनोरथ दृष्टान्तमाहुः—श्रीरिति। यस्याः श्रियः स्ववीक्षणकृते श्रीरस्मान् कृपया विलोकयत्वित्येतदर्थमन्येषा
———————————————————————————————————————————————————————
देहे गते त्वतर्यामिणा क्वचिद्गतव्यम्, देहातरस्य तु नोत्पत्ति। बीजस्य दग्धत्वाद्धरेणैव दग्धो न काम प्ररोहति स विपरीतो भवति। तत्रापि विशिष्टो विरह एकान्ताभावरूपो वा। अनेन त्वया सह एकान्ताभावे विरहत्वम्। यद्यपि पूर्वोक्ताग्निनैव दाह सभवति, तथापि भस्मसात्करणेन तस्य सामर्थ्य यावत्सर्वागेषु सूक्ष्मावयवेष्वप्यग्नि प्रविश्य बहुधा भवति। यथा वह्निसबधेन शुष्क काष्ठ ज्वलति तत उपाधेरप्यतरगत्वात्ते पदयोर्गमनम्। अतो गमन दुरापास्तम्। प्रस्तुतमरणमुपस्थित शीघ्र प्रतीकार कुरु
॥
३५
॥
ब्रह्मादिसुराणां तपआदिभिराराधनप्रयासः सा श्रीर्यथा ताननादृत्य भगवद्वक्षसि पदमेकान्तस्थान लब्ध्वाऽपि तुलस्या सह सापत्न्यमङ्गीकृत्य बहुभिर्भूपैर्जुष्ट सेवित ससङ्घर्षमपि यस्य तव पादरज. प्रपन्नाः तत्प्राप्त्यर्थमागता इत्यन्वयः। लक्ष्मीकृतोपासनायाः प्रसिद्धि सूचयन्ति—किलेति।
तन्न प्रसीद वृजिनार्दन तेऽङ्घिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशा.॥
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकामतप्तात्मनां पुरुषभूषण देहि दास्यम्॥३८॥
॥३७॥ यस्मात्त्वदुपासने त्वत्सेवने एव आशा अभिलाषो यासा ताः तथाभूताः सत्यो वय वसतीः पतिसुतादिसहितान् गृहान् विसृज्य त्यक्त्वा तवाङ्घ्रिमूल प्राप्ताः तत् तस्मात् हे वृजिनार्दन पापप्रतिबधकारिनिरासे समर्थ !’ हे पुरुषभूषण सौन्दर्यनिधे। तव यत् सुन्दरस्मित तद्विलसित यन्निरी-
————————————————————————————————————————————————
रविन्दार्थ महत्तप कृतवती। सा न स्त्रीत्वेन त्वदीया, किन्तु भक्तत्वेन। अन्यथा वक्षसि स्थलप्राप्य म्वतत्र तुलस्या सह सापत्न्यमप्यगीकृत्य चरणरजो न कामयेत्। चरणरजस्तु तुलस्या भवति। भक्ता हि भक्ते। तदुपपादित प्रथमस्कधे। तस्य रजस माहाम्त्यमाह—भृत्यजुष्टमिति। तद्रजसैव भृत्याना शरीरोत्पत्ते। किलेति प्रसिद्धौ। सर्व एव भक्ता त्वच्चरणरजसैव सपादितदेहवत, अत तुलसी। तत्र भक्तिरूपा प्रतिष्ठिता। तद्रज प्राप्तिर्येषा ते त्वत्सेवका एव भवति, अतो लक्ष्मी अन करणे स्थान प्राप्यापि अन्यस्त्यक्ष्यतीति चिन्तया रजश्चकमे। तस्मिन्प्राप्ते तु न शकापि। ननु किमेतावद्भय लक्ष्म्या तत्राहु—यस्या स्ववीक्षणकृते अन्यसुरप्रयास। अन्ये सर्व एव ब्रह्मादयो देवास्तप कुर्वन्ति लक्ष्मीरस्मान्पश्यत्विति, अन्यथा तेषा कोपि पुरुषार्थो न सिध्येदिति। अतो बहुभि। प्रार्थ्यमाना भीता जाता कश्चिदत्यतमपि तप कुर्यात्। स को वेद कि कुर्यादिति। रज कामनाया तु नेय शका। प्राप्तौ तु सदेह एव न भवति। एव चरणरजस प्राप्तौ अनन्यगामित्व निरूप्य स्वस्य तथात्वमाहु तद्वद्वय चेति, अस्मानपि बहव प्रार्थयन्ति तद्भयादेव पूर्व चरणरज स्पृष्टम्। ततो देहोपि तच्चरणरजसा समुद्भूत इति सर्वथा तव पादरज प्रपन्ना। चकाराद्या अपि साम्प्रतनागता या वा महिष्य एतादृशशरीरयुक्ता एव। अतोऽस्मदर्थं एव समागतो भवान् नात्मान गोषयतापि गुप्त स्थास्यति, तस्मान्नाग्रह कर्तव्य इति भाव॥३७॥
^(१) एव स्वस्य भगवदेकभोग्यशरीरत्वमुपपाद्य प्रार्थयति—तन्न इति। पूर्वश्लोकेनैव भर्तृशुश्रूषणविधिर्निराकृत। तदपरित्याग सुतरामेव तेनैव निराकृतो भवति। अनेनापि निराकरण प्रार्थयति भग, वस्कृपाभावे तादृशेनैव सबधो भवेदिति। कृपा हि सर्वतो अधिका। तत्तस्मात्कारणात् प्रसीद प्रसन्नो भव। त्वयि प्रसन्ने सर्व सेत्स्यतीति। ननु “भवतीना प्रतिकूलमदृष्ट दुःखप्रापकमस्ति अत कथ प्रसाद?इति चेत्तत्राहु—वृजिनार्दनेति। वृजिन दुःखजनक पाप स्वभावत एव सर्वेषा येन केनापि सबधेन तर्दयसि। प्रसादे हेतुमाहः—तेंघ्रिमूल प्राप्ता इति। यस्तु चरणतल प्राप्नोति स प्रसादमपि। स च प्रसाद पशुपुत्रादिरूपो मा भवत्विति। स्वाधिकारमन्येभ्यो व्यावर्तयति—विसृज्य वसतीरिति। गृहस्थाश्रमस्त्यक्त। नतु गृहमात्रमिति। वसतीरिति बहुवचनम्। परित्यागेपि हेतुमाहु—त्वदुपासनाशा इति। तत्सेवा करिष्याम इति आशामात्रैणैव पूर्वसिद्ध त्यक्तम्। तत्र समागताना पुनर्गृहसबधे कि वक्तव्यामिति। अतो देय प्रार्थयति— तव सुदर यत्स्तित मोहकमप्यानदजनक त्वत्सबधात्परमानदरूप तादृशस्मितपूर्वक यन्निरीक्षण तेन जात तीव्रो य काम तेन तप्तात करणाना पुरुषाणा भूषणरूप अनतकोटिकदर्पलावण्य। स्वत पुरुषार्थरूपमेव दास्यदेहि।अधिकारिभेदेन दास्यानेकविधत्वाद्देय रूप स्वतापोक्त्या व्यज्यते। उक्ततापाविशिष्टाना यदेतत्तापनिवर्तक तदिति। किंच प्रभोरपेक्षितवस्तुसमर्पणे हि दास्य भवति, न त्वन्यथा।
क्षण तेन जातो यस्तीव्रोदुःसहवेगः कामस्तेन तप्तः आत्मा अन्तःकरण यासा तासा नोऽस्माक प्रसीद प्रसन्नो भव, प्रसन्नश्च सन् दास्य देहि। त्वद्दास्यपूर्वक रमण सम्पादयेत्यर्थः। प्रकरणस्वारस्यात्॥३८॥ ननु ‘गृहस्वाम्य विहाय किमिति दास्य प्रार्थ्यते’ ‘तत्राहुः–वीक्ष्येति। अलकैः-
वीक्ष्या196लकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसुधं हसितावलोकम्॥
दत्ताभय च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमण च भवाम दास्यः॥३९॥
केशैरावृत मुख तथा कुण्डलयोः श्रीः शोभा ययोस्ते गण्डस्थले यस्मिन्, अधरे च सुधा यस्मिस्तच्च तच्च तव मुख वीक्ष्य दत्त भक्तेभ्यः ससारादभय येन
——————————————————————————————————————————
एव सति यथाऽस्माक्मुक्ततपो न प्रचुरा त्वदपेक्षा तथा तवास्मदपेक्षाया स्वयमुद्यम्यास्मदुपभोग कार्य इत्यर्थ पर्यवस्यति। अन्यथा दास्यस्य स्वकृतिसाध्यत्वेन दानोक्तिरनुपपन्ना स्यात्। अत एव तथा सबोधन पुरषो भूत्वा भूषणरूपेति। तद्धि कठादिषु सर्वेष्वगेषु भवति। त्वमपि तथा भूत्वा दास्य देहीति वाक्यैकवाक्यतया प्राप्यते। भूषणत्वोक्त्यैव स्वतत्रपुरुषार्थताप्युक्ता मणिखचित तद्धि भूषणत्वसपत्त्यर्थमध्ये लाक्षावदपि भवति तेन सहापि तद्धारणार्थ लाक्षामपि धारयति तुच्छामपि। तथा मध्ये कामोपयोग इति न तदुपाधिकृत दास्यचरणमपि तु तद्विपरीतमिति भाव। अतो दास्यार्थिन्य एव वयम्, न तु विवाहार्थिन्य। अत उपनयनाद्यपेक्षापि न लोकव्यवहारेण कर्तव्येति भाव॥३८॥
^(१) ननु भवतीना सर्वासामेव दास्यवरणे को हेतु सालोक्यादेरपि फलस्य विद्यमानत्वात्, तत्राहु—वीक्ष्यालकावृतमिति। अनेन लोकेप्साया पतिर्न त्यक्तव्य इति अत्रोत्तरमुक्तम्। लोके हि पुरुषार्थत्रयम्। चतुर्विधो मोक्ष। इन्द्राद्यैश्वर्यभावेन स्वर्गप्राप्ति। इहलोके परमा लक्ष्मी। तदत्र त्रयमपि दास्ये सर्वोत्कृष्टमस्तीति तदुपपादयति। प्रथम सारूप्य सालोक्य सामीप्य सायुज्यमिति मोक्षभेदा। ते दास्याग्रे अप्रयोजका। यतो मुखारविन्ददर्शनेन ते कामा निवर्तन्त इति। भक्तिरूपमुखारविन्दस्य तदपेक्षयोत्कृष्टधर्मवत्त्व निरूप्यते। अल्का सारूप्यमिव प्राप्ता भ्रमरास्ते बहव एवात्र आवृत्य मुख तिष्ठति। अत सारूप्यगतानामपि यदि भक्तिशेषत्व तदा किं सारूप्येण। किंच मुख कुडलश्रिकुडलाभ्या श्रीर्यस्य कुडलयोर्वा श्रीर्यस्मात्सा मीप्ये हि नैकट्य भवति। अत्यत सामीप्य जायमानमपि कुडलादप्यधिक न भविष्यति ते चेत्साख्ययोगरूपे भगवत्प्रमाणावलबिनी भगवदधीनगतिमती पुनर्भगवन्मुखनिरीक्षके तदा किं सामीप्येन। किंच गडस्थलाधरसुधमिति। गडौ स्थलरूपौ विशालौ। स्थले हि रस पातु शक्यत इति। अघरे च सुधा यस्मिन्। गडस्थले स्थित्वा अधरसुधा पातुमत्र शक्येति। सालोक्ये हि आनन्दमात्रमक्षरामृतपान चाक्षरापेक्षयापि गडस्थले स्थिति। चुबनाद्यर्थमुत्तमोऽधररसश्च अक्षररसादुत्तम इत्युक्तम्। कुडलश्रीयुक्त गडस्थलमित्यस्मिन्पक्षेपि सामीप्याद्भक्तौ शास्त्रीयो रस अधिको निरूपित। परस्पर तद्गुणवादरूपमक्षरादाधिक्य तु अधररसे स्पष्टमेव। किंच हसितावलोकमिति हसितपूर्वकमवलोको यस्मिन्। ब्रह्मानदे प्रविष्टाना न भक्तिविलास। हासो हि सर्वरसोद्बोधरूप। ज्ञान चाविर्भूत ब्रह्मानदे तु द्वयमप्यव्यक्तम् जले निमग्नस्य जलपानवत्। अनुभवरसो हि भिन्नतया स्थितौ भवति। अतो भक्तिरूपसुखस्य दृष्टत्वाद्दास्यमेव फल न मोक्ष \। भुजदडयुग च विलोक्य इन्द्रादिभावेनापि स्वर्गो न प्रयोजक इति निरूपयति। दत्ताभयमिति। स्वर्गे इन्द्र परमकाष्ठा प्राप्त। तेपि दैत्येभ्यो निरतर भीता इन्द्रादय तेषामप्यभयदातृ भगवतो भुजदडयुगल। तच्चेदत्रैवास्ति तत्परित्यज्य किर्मिद्रत्वेन। चकारात् न केवल भयमात्र प्रयच्छति, किन्तु क्रियाशक्त्या यज्ञादिना हविरपि प्रयच्छति। यथाऽग्नेइन्द्र स्वाधिकारसमाप्तौ मुक्तो भवति। दडपदेन अनुल्लध्यशासनत्वमुक्तम्। उभयत्र च दडो युगपदेन निरूपित। ततो हि सर्वथा दैत्यनाशो भवति। किंच वक्षोपि विलोक्य लोकाना श्रिया रमण भवति। श्रीरपि तत्र रमते। चकाराद्धर्मस्यापि। अतो दास्य एव भवाम। अत्र वीक्षणस्य दासीभवनहेतुत्वोक्त्या यत्राय भावो नास्ति तेषा नैतद्वीक्षणमस्ति। विधिप्रयुक्तत्वाभावेन तदविध्यनगीकारश्च युक्त इति ज्ञाप्यते। तदप्युक्त भगवता अस्वर्ग्यमित्यादि। स्वभजने दोपषटु तदपि परिर्गुणैर्निवारितम्। नहि परम पुरुषार्थसाधक पाप भवति। फलत एव पापस्य निद्यमानत्वात्॥१९॥
तथाभूत च भुजदण्डयुग विलोक्य श्रियो लक्ष्म्या एक मुख्य रमण रतिजनक तव वक्षश्च विलोक्य दास्यो भवामेति। श्रियैकेति सन्धिरार्षः॥३९॥ यदुक्त ‘जुगुप्सित च ह्यौपपत्यं कुलस्त्रिय’ इति तस्योत्तरमाहुः—का स्त्रीति। स्नेह सूचयन्त्यः सम्बोधयन्ति—अङ्गेति। ते तव कलानि मधुराणि पदानि
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहितार्यचरितान्न चलेत्रिलोक्याम्॥
त्रैलोक्यसौभगमिद च निरीक्ष्य रूप यद्गोद्विजद्रुममृगाःपुलकान्यविभ्रन्॥४०॥
यस्मिंस्तच्च तत् आयत दीर्घ मूर्छित च यद्वेणुगीत तेन सम्मोहिता आकृष्टचित्ता सती त्रैलोक्ये लोकत्रये सौभग सौन्दर्यातिशययुक्तमिद रूप च निरीक्ष्य त्रिलोक्या का सा स्त्री या आर्यचरितात् सदाचारात् स्वधर्मात् न चलेदित्यन्वयः। यद्यनधिकारिणा गवादीनामपि मोहस्तदाऽस्माक मोहे कि-
————————————————————————————————————————————————————————
^(१) ननु तथापि लोकविद्विष्ट स्त्रीणामभिसरणम्। अत सन्मार्गरक्षणार्थप्रमाणसिद्धमप्येतन्न कर्तव्यमत श्रवणदर्शनादिकमेव कर्तव्यम्’ इति चेत्तत्राहु—का स्त्रीति। अय धर्म पुरुषाणा च वक्तव्यो, न तु स्त्रीणा असभावितत्वात्। न त्वसभावितो धर्मो भवति। एव धर्मनाशे धर्मस्थापक स्वरूपमेव हेतु अद्भुतकर्मत्वात्। वस्तुतस्तु स्वरूप सबधिना भक्ताना धर्मे स्वरूपेणैव रक्षति। तच्चान्यभावेभ्यो रक्षणमेव तद्भावपोषण च। स्वरूपधर्मसबधिनस्तास्तैरेवेति न किचिदनुपपन्नमिति भाव। अत एव स्वरक्षणेन स्वान्तरगत्वज्ञापनायागेति सवोधनमप्रतारणाय च। या स्त्री लोके स्त्रीशब्दवाच्या सा कथमार्यचरितान्न चलेत्। त्रिलोक्या सत्त्वरजस्तम कार्यरूपाया तामसीना मौढ्यादार्यचरिते स्थिति मत्वातन्निराकरणम्। राजसीना स्वभाव एव। सात्त्विकीना सत्त्वा्द्धर्मबुद्धिमाशक्य तन्निराकरणम्। आर्यमार्गपरित्यागे हेतु ते कलपदामृतवेणुगीतसमोहितेति। समोहिता आर्यचरिताच्चलत्येव। समोह पचपर्वाविद्यास्थानीय भगवत्सबधादविद्या तु न बाधते। परमन्य एव बाधका। तेषा बल ते इति त्वदीया इति। कलान्यव्यक्तमधुराणि यानि पदानि तत्राविर्भूत यदमृत तदेव वेणुद्वारा गीत तेन समोह। गीत देहमोहजनक गायत स्त्रिय कामयते इति। स्त्रीतु देह एव। इन्द्रियाणा व्यामोहको वेणु रसात्मकत्वादमृत प्राणाना पदान्यत करणस्य अव्यक्ता आत्मन इति। सम्यग्विमोहिता आर्या प्रमाणबलविवेकिन प्रमाणे हीन्द्रमहेन्द्रयोरपि भेदस्वीकार। पृथगुपस्थिता सर्व एव भिन्ना इति। अन्यथा इन्द्रयाजिनोग्रे सवत्सरान्ते प्रायश्चित्तश्रवण न स्यात्। सवत्सरस्य परस्तादग्नये व्रतपतये पुरोडाशमष्टाक पाल निर्वपेदिति। अतो देहव्यतिरिक्त स्वरूपेणोपस्थितोपि प्रमाणबले विरुध्यते। वस्तुविचारस्तु प्रमेयबलमाश्रित्य अन्यथा विधिनिषेधविधयो व्यर्था। स्यु। तदुत्तरत्र वक्ष्यति एकादशे। अतो मार्गान्तरविरोधा मार्गान्तरेणोपयुज्यते इति मर्यादाभगोत्र न दूषणम्। एतस्योत्तरमग्रे शुकश्च वक्ष्यति रासानन्तर धर्मव्यतिकरो दृष्ट इति। तस्मादत्र फलस्य सिद्धत्वात्साधनदृष्ट्या अपकीर्तिर्नास्मत्प्रतिबधिका। किच न केवल नाम्ना मर्यादाभग, किन्तु स्वरूपेणापि। तदाहु—त्रैलोक्यसौभगमिति। त्रैलोक्यस्यापि सुभगत्व यस्मात्। यथा सूर्येण दिन चद्रमसा रात्रि तथा त्रैलोक्यमेव भगवद्रूपेण सुदरता याति। इदमिति प्रत्यक्षसिद्धम्। चकारादनुभावाश्च तच्छ्रुत्वा एतत् दृष्ट्वा का वा आर्यचरितान्न चलेत्। अस्त्विय प्रमाणवार्ता दुर्बला प्रकारातरेणापि चलति। भगवतोरूपेण प्रमेयमर्यादाप्यपगच्छति या कथमपि नान्यथा भवति तदाह—यद्गोद्विजद्रुममृगा इति। गावो हि प्रमाणवार्तानभिज्ञा मातरमपि गच्छति। द्विजा पक्षिण सर्वभक्षा। द्रुमा स्थावरा कदाचिदपि बहि सवेदरहिता, निरिन्द्रिया एवेति केचित्। मृगा सर्वतोभया तेपि चेद्भगवद्रूपेण गीतेन वा आश्लिष्टरसा पुलकानि धारयति रसिकमनुष्यधर्मानाविष्कुर्वति। ये भगवता अन्यथैव स्पृष्टा। स्त्रियस्तु स्वभावतोप्यन्यथा भवतीति नाश्वर्यं किंचिदत्र॥४०॥
माश्वर्यम्’ इत्याशयेनाहु—यदिति। याभ्या वेणुगीतश्रवणरूपदर्शनाभ्या गवादयः पुलकान्यबिभ्रन् अबिभरुरित्यर्थः॥४०॥ सकलव्रजजनार्त्यपाकरणाय अवतीर्णस्य स्वदासीना मनोरथभङ्गेन आर्त्युत्पादन न युक्तम्, कितु तदपाकरणमेव युक्तम्’ इत्याशयेन सम्बोधयन्ति—आर्तबन्धो इति। आदिपुरुषो भगवान् यथा सुरलोकगोप्ता रक्षार्थमुपेन्द्रादिरूपेणावतरति, तथा भवानपि ब्रजस्य सर्वस्य भयार्तिहरो भयार्तिहरणार्थमभिजातोऽसीति व्यक्त यस्मात् निश्चितमेव, तस्मात् तव किङ्करीणा नोऽस्माक स्मरतापतप्तेषु स्तनेषु शिरस्सु च सकलतापनिवर्तकत्वेन युक्त निज करपङ्कज निधेहि
व्यक्त197 भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषःसुरलोकगोप्ता॥
तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम्॥४१॥
॥श्रीशुक उवाच॥
इति198 विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः॥प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत्॥४२॥
सस्थापयेत्यन्वयः॥४१॥ इत्येवं तासां विक्लवित पारवश्यप्रलपित श्रुत्वा आत्मारामोऽपि निजानन्दपरिपूर्णोऽपि भगवान् सदय यथा भवति तथा कृपया तदार्तिहरणार्थ प्रहस्य गोपीररीरमत् रमयामासेत्यन्वयः। ‘कथमेकस्ता रमयितु शक्तः?इत्यपेक्षायामाह—योगेश्वरेश्वर इति। योगेश्वरा हि
————————————————————————————————————————————————————————
^(१) एव भगवदुक्ताना वाक्याना निवारणार्थं पुष्टिम्पर्गसिद्धात निरूप्य एतद्भगवत्कृपैकसाध्यमिति भगवत्कृपा प्रार्थयन्ति—व्यक्तमिति। नापि त्वदुक्तमस्मदुक्त वा किंचित्साधक बाधक वा, तथापि स्वावतारप्रयोजन विचार्य अस्मासु कृपा कर्तव्या। तत्प्रयोजनमाहु—भवान् व्रजभयार्तिहरण एवं व्यक्तमभिजात। व्रजस्य आर्ति पीडा भय च त्वया दूरीकर्तव्यम्, अन्यथा साक्षाद्भगवत अवतारे प्रयोजन न पश्याम। भूभारहरण तु सकर्षणाशेन वसुदेवादिप्रिय प्रद्युम्नेन। सर्वधर्मरक्षा त्वनिरुद्धेन। यदि व्रजभयार्तिनिराकरण न क्रियेत तदा किमवतारातरकार्यस्यात्। अतो व्यक्त भगवान् ब्रजभयार्तिहर। इदानीं यथार्तिरस्माक तथा न कदापि अस्मादप्यगमेत्। सर्वस्यापि व्रजस्य महती आर्ति। अत आर्तिनिवृत्ति कर्तव्या। ननु मर्यादयैव निवृत्तिकरणमुचितम्, न तु अमर्यादया। तथा सति भवतीना कामशान्ति ज्ञान वा भवत्विति चेत्तत्राहु—देवो यथादिपुरुष इति। भगवान् ब्रह्मरूप सर्वसम, तथापि इन्द्रादिपु कृपा कुर्वन् दैत्यान् मारयति विषमतामर्गीकरोति। न तु देवेभ्यो ज्ञान प्रयच्छति। यत्र स्वरूपमेव अन्यथा करोति तत्र वाचमन्यथा करोतीति किं वक्तव्यम्। अतो यथादिपुरुषोपि देवो भूत्वा सुरलोकगोप्ता जात, तथा भवानपि धर्ममर्यादारक्षक। अस्मत्सबध करोतीति भाव। तदेव रसपोषणार्थं व्याजेनाहु—तन्नो निधेहीति। आदावस्माक शिरसि हस्त स्थापय यथा अस्माकमभय भवति। ततोऽस्माक हृदयतापनिवृत्त्यर्थ स्तनेषु च करपकजममृतस्रावि तापनाशक विधेहि। अनौचिती तु नास्ति यतो वय किंकर्य। परीक्षार्थ वा एतत् द्रष्टव्यमिति रसोक्ति ४१
^(२) एव प्रार्थनाया भगवान्यत्कृतवास्तदाह—इतीति। षड्गुणैश्वर्यभावेन पोढा रेमे हरि स्वयम्। स्वरूपेणापि शृगारो द्विविधोऽपि निरूपित॥ सामान्यरमण पूर्वं विशेषे मेलन पुरा। बाह्येन रमण पश्चादातर च तत परम्॥ ततो नानाविलासेन जलकेलिविभेदत। विप्रलभस्य सिद्ध्यर्थ तासा मानमुदीर्यते॥ तिरोभावस्ततश्चापि नाय लौकिककामुक॥ प्रथम तासा तापापनोदनार्थ सामान्यलीलामाह। इति तासा विक्लवित परमवैक्लव्यभाषित श्रुत्वा प्रहस्य अरीरमत्। ननु ‘निरिन्द्रिय कथ रेमे? ‘तत्राह—योगेश्वराणामपीश्वर इति। योगा दिपु सर्वे पदार्था स्फुरति। अणिमादयोपि तथा। तदैव स्वरूपमेवेन्द्रियादिभावेन प्रक्टीकृतवान् नतु स्वस्य कामेन। तथा सति बीजनिवृत्तौ कामो निवर्तेतेति तासा यथा न कदाचिदपि स
बहुरूपधारणेन बह्वीः स्त्री. रमयितु शक्नुवन्ति, तेषामीश्वरे भगवति तत्करण किमशक्यमित्याशयः॥४२॥ तद्रमणमेव प्रपञ्चयति—ताभिरिति चतुर्भिः। समेताभिर्मिलिताभिरताभिर्गोपीभिर्वृत अच्युतः सर्वत ऐश्वर्यज्ञानादिधर्मतः च्युतिरहितः श्रीकृष्णः उडुभिस्ताराभिर्वृत एणाङ्कश्चन्द्रो यथा विरोचते तथा व्यरोचत अशोभतेत्यन्वयः। गोपीना परमानन्द सूचयंस्ता विशिनष्टि—प्रियस्येक्षणेन कृपादृष्ट्या उत्फुल्लानि मुखानि यासा ताभिः। तदानन्दहेतुत्वेन भगवन्त विशिनष्टि—उदारं गोपीना मनोरथपूरक भाविश्रोत्रादीना पुरुषार्थप्रद च चेष्टित लीला यस्य स इति। चन्द्रसादृश्यमुप-
ताभिः199 समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः॥ उदारहासद्विजकुन्ददीधितिर्व्यरोचतै-
णाङ्क इवोडुभिर्वृतः॥४३॥ उपगीयमान उद्गायन् वनिताशतयूथप। मालां बिभ्रद्वैजयन्ती व्यच-
रन् मण्डयन् वनम्॥४४॥
पादयन्नाह—उदारेण महता तासा सुखप्रदेन वा हासेन द्विजेषु दन्तेषु कुन्दकुसुमवद्दीधितिः प्रकाशो यस्य स इति॥४३॥ वनिताना शतयूथानि पातीति तथा सः कृष्णस्ताभी रूपाधिक्येन गीयमानः स्वयं चोद्गायन् वैजयन्तीं पञ्चवर्णपुष्पग्रथिता माला बिभ्रत् वन
———————————————————————————————————————————————————————————
भावो गच्छति, तदर्थंप्रहस्य प्रकर्षेण हास्य कृत्वातासामुद्धारार्थं न तु भिन्नगणनया मर्यादाया पातयित्वा नाशनार्थमिति। तदाह—सदयमिति। गोपीरेवारमयत् स्वय त्वात्माराम एव तासा रसाधारत्वाय च सदयम्। क्रिया सर्वापि सैवात्र पर कामो न विद्यते। तासा कामस्य सपूर्तिर्निष्कामेनेति तास्तथा॥ कामेन पूरित काम ससार जनयेत्स्फुट। कामाभावेन पूर्णस्तु निष्काम स्यान्न सशय॥ अतो न कापि मर्यादा भग्ना मोक्षफलानि च। अत एतच्छ्रुतौ लोको निष्काम सर्वथा भवेत्॥भगवच्चरित सर्व यतो निष्काममीर्यते। अत कामस्य नोद्बोध तत शुकवच स्फुटम्॥ आत्मारामस्य आत्मनैव रमण व्यावर्तयितुमपिशब्द॥अरीरमद्बहुधा रेमे। उत्तरोत्तर रसाधिक्य च प्रकटितवान्॥४२॥
^(१) एव सामान्यलीलामुक्त्या विशेषलीलामाह—ताभिरिति त्रिभि। अजातस्मरकेलिभि प्रथमत ताभि समेतो जात मिलित पूर्वभयात्पृथक्स्थिता तत उदाराणि चेष्टितानि। यस्य अत्रौदार्य रसविषयकम्। यथा तासा महानेत्र रस आविर्भवति तथा कामशास्त्रसिद्धा लीला सर्वा एव कृतवान्। ततस्ता अत पूर्णरसा प्रियस्य भगवत ईक्षणार्थमुत्फुल्लानि मुखानि यासा तादृश्यो जाता। प्रियेक्षणेन वा सूर्यकिरणैरिव उत्फुल्लानि मुखानि वस्तुतो रोमस्थितरसार्थमेव तथाकरणमेतावति कृते रसो निवर्तेत। तदभावायाह—अच्युत इति। तासामपि रससमाप्त्यभावाय उदारो यो हास पूर्णकामप्रद कामार्थमेव यो मोह तेनैव स्नेह सवर्धित। तदाह—हाससहितास्ते द्विजा त एव कुदपुष्पाणि आरक्तान्यपि हासेन शुभ्राणि तेषु दीधितिर्यस्य। कुदत्व स्नेहस्यैतन्मात्रपर्यवसानार्थ पूर्व निरुपाधिरेव स्नेहस्थितो भगवता पररसशास्त्रोक्तरीत्या स्वरूपानन्द दातु तत्सजातीय कामोपाधिक स्नेहोऽधुना जनित इति ज्ञापनाय यत्स्नेहरूपरदाना द्विजपदेन कथनम्। तथा सति फलभोगात्कान्त्यभावमाशक्य तत्र दीधितिरुक्ता। यद्यपि भगवास्तन्निर्बन्धेन रेमे जगद्देोषनिराकरणार्थच न तु स्वय तथापि न पूर्णमनोरथ इव। किन्तु यथा लौकिक। तदाह दृष्टान्तेन—एणाक उडुभिर्क्षनत्रै सह यथा व्यरोचत तथेति। बधातिरिक्ता सर्वा बाह्या एव लीला उक्ता। एषा विशेषत प्रथमलीला बाधककामनिवारिका॥४३॥
द्वियीयलीलाया उद्बोधार्थ पूर्वसामग्रीमाह—उपगीयमान इति। ताभिरुपगीयमान निकटे गीयमान स्वयमप्युद्गायन् जात। तत वनिताशतानामनेकविधस्त्रीणामनेकविधानेव यूथान् पातीति तथा जात। यावतीभिर्मिलित रसहेतुर्भवति तावतीनामेक यूथम्। एव अनेकरूपाणि कृतानि तेषामत्र रक्षण दूरादेव आश्वासनेन च। तदा गायतो गच्छत। रूपमाह—मालामिति।
मण्डयन् अलकुर्वन् व्यचरत् इत्यन्वय॥४४॥ तस्या यमुनायास्तरलैरानन्दः शैत्येनानन्ददायकश्वासौ कुमुदानामामोदो यस्मिन् स च तेन वायुना हिमा’ शैत्ययुक्ता वालुका यस्मिन् तथाभूत नद्यास्तस्याः पुलिनमाविश्य गोपीभिः सह रेमे इत्यन्वयः॥४५॥ रमणप्रकारमाह—बाहुप्रसारेति। दूरेस्थिताग्रहणार्थ बाहुप्रसारण, परिरम्भः बलादाकृष्यालिङ्गन, करादीनामालभन स्पर्शश्च नर्माणि परिहासवचनानि, नखाग्रपातश्च तैः। क्ष्वेल्याक्रीडया अवलोकाश्च हसितानि च तैश्च व्रजसुन्दरीणा रतिपति काममुत्तम्भयन्नुद्दीपयन् रमयाञ्चकार ताः रमयामास॥४६॥ एवमुक्त-
नद्याः200पुलिनमाविश्य गोपीभिर्हिमवालुकम्॥ रेमे तत्तरलानन्द201कुमुदामोदवायुना॥४५॥
बाहुप्र202सारपरिरम्भकरालकोरुनीवीस्तनालभननर्मनखाग्रपातैः॥
क्ष्वेल्याऽवलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन् रतिपति रमयाञ्चकार॥४६॥
एवं203 भगवतः कृष्णालब्धमाना महात्मनः॥ आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि॥४७॥
प्रकारेण महात्मनः अत्युदारचित्तात्, तत्र हेतुः—भगवतः ऐश्वर्यादिपूर्णतया सर्वसम्पादनसमर्थात् कृष्णात् सदानन्दरूपात् लब्धमानाः प्राप्तमनोरथास्ता गोप्यो भुवि वर्तमानाना स्त्रीणा मध्ये आत्मानमभ्यधिकमतिश्रेष्ठ मेनिरे, अतो मानिन्यो जाताः। ‘न ह्यस्मत्सदृश्योऽन्याः सन्ति, अतोऽस्मान् यदि
——————————————————————————————————————————————————————
वैजयती नवरत्नखचिता स्वाभाविकी ऐश्वर्यप्रबोधिका कीर्तिमयीमाला बिभ्रत् वनमेव सर्व मडयन् अलकुर्वन् व्यचरत् लीलागतिं कृतवान्। एषा हि गतिस्तासा कामोद्बोधिका। स तासा कामपूरक एकस्माद्वनात् वनातर गत इति॥४४॥
^(१) एवमुद्बुद्धे कामे ताभि सह बधादिभी रेमे इत्याह—नद्या इति। नद्या पुलिनमच्छ कोमलमाविश्य आसमतात् प्रविश्य रमणे बधादिभिरतिकोमल कृत्वा गोपीभिरनेकविधाभी रेमे। हिमा शीतला वालुका यत्रेति अतरूष्मा निवारित। बहि शैत्य चाह—तत्तरलानदीति। तस्या नद्या तरला तरगा ताभिकृत्वा आनदयुक्तपुलिनमेव आनदयुक्तो वायुर्वा कुमुदाना चानदयुक्त सुगध तस्यानदजनकत्वेनैव माद्य निरूपित शैत्य च कुमुदाना जलसबधात्। तादृशवायुना सहित पुलिन महाबन्धेषु वायोरत्यपेक्षा॥४५॥
^(३) एव सर्वभावेन तासा जातस्मरकेलित्व सपादितम्, अत परमष्टविधालिंगनादिपूर्वक वेष्टितकादियुक्त रसविलासचरित्रमाह—बाहुप्रसारेति। दूरेस्थितामवयव वा स्पृष्ट बाहुप्रसारण ततो बलादपि परिरभ। तत करालकोरुनीवीस्तनानामालभनानि करालभन हस्ते ग्रहण पुरुषायितलीलासम्बन्धे वा। एव कुचोन्नमनार्थमलकाना स्पर्शः। ऊरुस्पर्शो बाहुबधार्थ। नीवीस्पर्श पुष्टे रसे मोचनार्थ। स्तनयोस्तु रसोद्गमनार्थ। एव पच स्पर्शा विहिता। नर्म परिहासवचनानि कामस्तमनार्थं, ततो नखाग्रपाता नखक्षतदतक्षतताडनादय कामयुद्धनिरूपका। तत्स्थाने स्थित काम तैरुद्बोध्य ते। यथा सेनाबधेन राजा समायाति॥ क्ष्वेलि क्ष्वेलिका प्रस्तोभनादि तत्पूर्वकाण्येवावलोकनानि हसितानि रसस्थापकानि। एव द्वादशविधोपि कामो द्वादशागेपु स्थित प्रवृद्धो भवति। तदाह—व्रज सुंदरी णामुत्तभयन्निति। सयुक्त कामो रतिपति, वियुक्तस्त्वग्निरूप। एवमाधिदैविक काममुद्बोधयन् रमयाचकार। गोपीना सुखमेव प्रकटितवान् नतु कामातेन विरतिमुत्पादितवान्॥४६॥
^(४) एव संयोगशृगारमुपपाद्य विप्रयोगमुपपादयितु तासा मानमाह—एवमिति। पूर्वोक्तप्रकारेण भगवत सर्वरसदानसमर्थात् कृष्णात् सदानदात् फलरूपाल्लब्धकामा प्राप्तमनोरथा सत्य आत्मानमेव पूर्ण मेनिरे, नतु भगवतं पूर्ण तेन वा स्वपूर्णताम्। ननु भगवानेव कथं कृतवान् ‘न्युना एव कथ न सरक्षिता ‘तत्राह महात्मन इति। भगवान् महानेवात्मा नद्यगाधे जले प्रविष्टमग्नो भवति घटो वा
प्रार्थयिष्यति तदा रसं दास्यामः’ इत्यभिमानयुक्ता जाता इत्यर्थः॥४७॥ तासा गोपीना स पूर्वोक्तश्चासौ सौभगमदः सौन्दर्याभिमानश्च त वीक्ष्य तथा तत्प्रयुक्तमानमस्वाधीनत्व वीक्ष्य केशवः कृष्णः प्रशमाय गर्वविनाशाय तत्र पुलिन एवान्तरधीयत अन्तर्हितवान्। गर्वनाशप्रयोजनमाह—प्रसादायेति। गर्वस्यानन्दतिरोधायकत्वात्तस्मिन् सति तस्याभिव्यक्तिर्न स्याद्गर्वनिरासेन परमानन्दमनुभावयितुमित्यर्थः। केशवपदेन को ब्रह्मा, ईशो रुद्रः, तावपि वशयतीति तस्य गोपीवशीकरण कियदिति सूचितम्॥४८॥ इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥
तासां204 तत्सौभगमद वीक्ष्य मानं च केशवः। प्रशमाय प्रसादाय तत्रैवान्तरधीयत॥४८॥
इति श्रीमद्भा० महा० दश० तामसनिरोधनिरूपणप्रकरणेऽन्तर्धाननिरूपणं नामैकोनत्रिशोध्याय॥२९॥
॥श्रीशुक उवाच॥
अन्तर्हिते भगवति सहसैव ब्रजाङ्गनाः॥अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम्॥१॥
ऊनत्रिशो गतो वृत्तिमन्तर्धाननिरूपकः॥३॥॥छ॥॥ त्रिशे विरहतप्ताभिर्गोपीभिर्गहने वने। अन्तर्हितस्य कृष्णस्य मार्गण विनिरूप्यते॥१॥ एव सहसैव अकस्मादेव झटिति भगवति कृष्णेऽन्तर्हिते सति तमचक्षाणाः अपश्यन्त्यो ब्रजाङ्गना अतप्यन् इत्यन्वयः। तत्र दृष्टान्त-
——————————————————————————————————————————
आपूर्णो भवति। किच आत्मान स्त्रीणा मध्ये अभ्यधिक मेनिरे। भुवि चाप्यधिक भुवि स्त्रीणा मध्ये वा। अत एव मानिन्योपि जाता। न ह्यस्मत्सदृश्योऽन्या सति अतोऽस्मान् यदि प्रार्थयिष्यति तदा रस दास्याम इति मानयुक्ता जाता। भगवद्धर्मास्तासु समागता। तथा सति यथा प्रार्थनया पूर्वं भगवान् वशे जात एव वयमपि भविष्याम इति। रसार्थमेवैव भाव, नतु दोषरूप भगवद्भावात्॥४७॥
^(१) भगवास्तु ऐक्येनैव रस प्रयच्छन् बहिस्तिरोहितो जात इति आह—तासामिति। मान पूर्णतया च न दोषाय स्त्रीषु भूमौ च यदाधिक्यज्ञान दोषो भवति तदनूद्य तत्परिहारार्थतिरोहित इत्याह। तासा तत्प्रसिद्धि पूर्वोक्त सर्वोत्तमत्वलक्षण सौभाग्यमदवीक्ष्य तस्य मदस्य प्रशमाय अतरधीयत। ननु भगवद्रमणेन हि तासामेव भाव। अत स्वकृत एवेति कथं तिरोधान कृतवानित्याशक्याह—वीक्ष्य मान च प्रसादाय तत्रैवान्तरधीयतेति। मानापनोदन कर्तव्य मानस्त्वान्तर अशक्तो हि बहिरपनोदनार्थ यत्न करोति। चकारात्स्वधर्मं च। अत प्रसादाय प्रथमत तासा पश्चात्स्वस्य च तत्रैव गोपिकास्तु यूथमध्ये वा अतर्धान प्राप्तवान्। ननु ‘एतद्द्वयमपि न कर्तव्यमुपेक्षिता। कुतो नेति चेत् ‘तत्राह—केशव इति। यथा रजोगुण ब्रह्मणो निवार्य तस्मै मुक्तिं दत्तवान्। यथा वा शिवस्य तमोगुण निवार्य॥ एवमेतासामपि मद मान च निवार्य मुक्तिं दातु तथा कृतवानित्यर्थ। कायिकतिरोभावोऽय प्रथमाधिकारित्वाद्गोपीनाम्॥४८॥ श्रीमद्वल्लभाचार्यकृता सुबोधिनी।
^(२) “स्वानदस्थापनार्थाय लीला भगवता कृता॥ स बाह्यो जनित पुष्टो यथाऽतर्निविशेत्पुन॥१॥ गर्वाभावाश्च तत्रादौ निरूप्यते क्रमात् त्रय॥ उद्देशतो लक्षणत फलतश्च यथा यथम्॥२॥सप्तविंशे तिरोधानाल्लीलान्वेषणतत्परा॥ रसमतर्गत चक्रुर्गोपिका इति रूप्यते।इति सुबोधिनीकारिका।
माह—यूथप गजराजमपश्यन्त्य करिण्यो यथा तप्यन्ति तथेति॥१॥ एव वियोगेन सन्तप्तानामपि तासा तदेकपरतामाह–गत्येत्यादिभि। प्रमदा गोप्यो रमापतेः कृष्णस्य तास्ता विविधाश्चेष्टाः पूतनापयःपानादिलीला जगृहुः कृतवत्यः। ‘अन्यस्य तस्य लीलाकरणमन्याभिस्ताभि कथ सम्भवति? ‘इत्यपेक्षायामाह—तदात्मिका इति। प्राप्ततदभेदाभिमाना इत्यर्थः। तत्रापि हेतुमाह—तस्य गत्यादिभिराक्षिप्तानि आकृष्टानि चित्तानि यासाताः। अनुरागः प्रेम स्मितं च ताभ्या विभ्रमेक्षितानि सविलासनिरीक्षणानि तैर्मनोरमा आलापाश्च विहाराः क्रीडाश्च विभ्रमाः अन्याश्च विविधाः मीहिकाश्चेष्टाः तैः॥२॥ उक्तमेव स्पष्टयति—गतिस्मितेति। कृष्णस्य प्रिया अबला गोप्यस्त्वसौ कृष्णोहमेवेति न्यवेदिषुः परस्पर न्यवेदितवत्यः। तत्र हेतुमाह—कृष्णस्येव विहारविभ्रमाः क्रीडाविलासा यासा ता इति। तत्र हेतुमाह—तदात्मिका इति। तत्रापि हेतुमाह—प्रियस्य कृष्णस्य
गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः॥ आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा
जगृहुस्तदात्मिका॥२॥ गतिस्मितप्रेक्षणभाषणादिषु प्रियाःप्रियस्य प्रतिरूढमूर्तय॥ असावह त्वि-
त्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः॥३॥ गायन्त्य205 उचैरमुमेव सहता विचिक्युरुन्म-
त्तकवदनादनम्॥ पप्रच्छुराकाशवदन्तर बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन्॥४॥ दृष्टोव कच्चिदश्वत्थ
प्लक्ष न्यग्रोध नो मन॥ नन्दसूनुर्गतो हत्वा प्रेमहासावलोकनै॥५॥
गत्यादिषु प्रतिरूढा आविष्टा मूर्तयश्चेतासि यासा ता इति॥३॥ किश्व गायन्त्य इति। सहता मिलिताः सस्य उच्चैर्गायन्त्यः वनाइनान्तर गच्छन्त्योऽमु श्रीकृष्णमेव उन्मत्तकवद्विचिक्युरमृगयन्। उन्मत्ततुल्यत्वमेव स्पष्टयति–पप्रच्छुरिति। आकाशवत् सर्वभूतेषु चराचरेषु बहिरन्तर्व्याप्य सन्तं वर्तमानम्, अत एव पुरुष पूर्णमपि श्रीकृष्णं वनस्पतीन् पप्रच्छुरित्यन्वयः॥४॥ प्रश्नमेव प्रपञ्चयति—नवभिः। तत्र ‘महत्त्वादेते पश्येयुः ‘इत्याशयेनाश्वत्थादीन् पृच्छन्ति—दृष्ट इति। हे अश्वत्थादयः। वो युष्माभिःकच्चिन्नन्दसूनुर्दृष्टः। ‘किमर्थ पृच्छथ’ इत्यपेक्षायामाहुः—प्रेमहासविलसितैरवलोकनैर्नोऽस्माक मनो हृत्वा चोर इव गत इति॥५॥
एव प्रश्नेऽपि तदुत्तरमलब्ध्वा ‘एते महान्तः स्वपुष्पैर्बहूपकारिणश्च, अतो वदेयुः’ इत्याशयेन कुरबकादीन् पृच्छन्ति कच्चिदिति। हे कुरबकादयः। रामानुजः कृष्ण इतः अनेन मार्गेण गत कच्चित् १ किमर्थ पृच्छथ?इत्यपेक्षायामाहुः—मानिनीना गर्ववतीनामस्माकं दर्पहर स्मित यस्य सः। स्मितेन गर्व हृत्वा चोर इव गत इत्याशयः। अनेन यदि गर्वोदूरीकर्तव्यस्तर्हि स्मितमात्रेणैव स दूरीकर्तव्य, किमन्तर्धानेनेति तस्याल्पत्वमपि206 सूचितम्॥६॥तेम्योऽप्युत्तरमलब्ध्वा तुलसीं पृच्छन्ति—कच्चिदिति। उत्तरार्थमादरेण तद्भाग्यमभिनदन्त्यः सम्बोधयन्ति—कल्याणीति। भाग्यातिशये हेतुं सूचयन्त्यः सम्बोधयन्ति—गोविन्दचरणप्रिये इति। हे तुलसि। अलिकुलैः सह त्वा त्वा बिभ्रत् अच्युतः कृष्णः कच्चित्त्वया दृष्टः?‘अवश्य त्वया दृष्टः स्यात्’ इत्याशयेनाह—ते तवातिप्रिय इति॥७॥ ततोऽप्युत्तरमसम्प्राप्य ‘इय सौभाग्येन गर्विता सपत्नी कथ वदेत्? इमाः साधारण्यो वक्ष्यन्ति’
कच्चित् कुरबकाशोकनागपुन्नागचम्पकाः॥ रामानुजो मानिनीनामितो दर्पहरस्मितः॥६॥
कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये॥ सह त्वाऽलिकुलैर्बिभ्रदृष्टस्तेऽतिप्रियोऽच्युत॥७॥
मालत्यदर्शि व कच्चिन्मल्लिके जाति यूथिके॥प्रीति वो जनयन् यातः करस्पर्शेन माधव॥८॥
चूतप्रियालपनसासनकोविदारजम्ब्वर्कबिल्ववकुलाम्रकदम्बनीपाः॥ येऽन्ये प207रार्थभविका
यमुनोपकूलाःशसन्तु कृष्णपदवी रहितात्मनां नः॥९॥
इत्याशयेन पृच्छन्ति—मालतीति। हे मालत्यादयः। वो युष्माभिः कच्चित् माधवःकृष्णः अदर्शि दृष्टः?पुष्पग्रहणार्थ कराभ्यां स्पर्शेन वो युष्माक प्रीतिं जनयन् कच्चित् यातः गतः?। माधवपदोपादानेन लक्ष्मीपतित्वात् सौन्दर्यातिशय सूचयन्त्यस्तत्प्रश्ने हेतुरपि सूचितः॥८॥ ततोप्युत्तरमलब्ध्वा ‘फलादिभिः सर्वप्राणिसन्तर्पका एते वदेयुः’ इत्याशयेन पृच्छन्ति—चूतेति। चताम्रयोः208 कदम्बनीपयोश्चावान्तरभेदो द्रष्टव्यः। हे चूतादयः। येऽन्ये च परार्थभविकाःपरार्थमेव भवो जन्म येषा ते यमुनोपकूला यमुनाकूलसमीपे वर्तमाना वृक्षास्तीर्थवासिनो वा, ते भवन्तो209 रहितात्मना कृष्णाकृष्टत्वेन शून्यचेतसा नोऽस्माक कृष्णपदवीं कृष्णप्राप्तिमार्ग शसन्तु कथयन्तु॥९॥
तेभ्योऽप्युत्तरमसम्प्राप्य ‘यत्रकुत्राप्यस्तु, परतु पृथिव्या सह वियोगासम्भवात् सर्वोपकारिणी चेयमेव प्रष्टव्या’ इत्याशयेन पृच्छन्ति—कि त इति। क्षिति हे क्षिते। ते त्वया कि तपः कृतम्? ‘तत्तपस आश्चर्य सूचयन्ति—बतेति। अत्युग्रतपश्चरणे ज्ञापकमाहुः। केशवस्य कृष्णस्याङ्घ्रिस्पर्शेन उत्सवो यस्यास्तथाभूता विभासि। तत्रापि ज्ञापकमाहुः—अङ्गरुहैर्हरित तृणादिभिरुत्पुलकिता रोमाञ्चिता विभासि शोभसे इति। तत्र विशेष पृच्छन्ति—अपीति। किमय—मुत्सवः अह्निसम्भवः इदानीं तवैकदेशतदङ्घ्रिस्पर्शसम्भूतः? यद्वाउरुक्रमविक्रमात् पूर्वमेव त्रिविक्रमस्य पदा सर्वाक्रमणात्? आहो अथवा नैतावत, अपितु ततोपि पूर्वं वराहावतारस्य तस्य वपुषः परिरम्भणेनेति। अतस्त्वयि तत्कृपातिशयात्त्वया नून स दृष्टः स्यात्, त प्रदर्शय इति भावः॥१०॥ ततोऽप्युत्तरमसम्प्राप्य हरिण्या दृष्टिप्रसादस्य कृष्णदर्शनजन्यत्व सम्भाव्य ता पृच्छन्ति—अपीति। ‘त्वया वञ्चन न कार्यम्’ इत्याशयेन सम्बोधयन्ति—हे सखि हरिणपत्नि। वो युष्माक दृशा स्वगात्रैर्मनोहरमुखबाह्वादिभिः सुनिर्वृति सुख वितन्वन् अच्युतः कृष्णः प्रियया राधिकया सह इहोपगतः प्राप्तोऽपि किम्?
कि ते कृत क्षिति तपो बत केशवासिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि॥ अप्यङ्घ्रिसम्भव उरुक्रमवि-
क्रमाद्वा आहो वराहवपुषःपरिरम्भणेन॥१०॥ अप्येणपत्न्युपगत प्रिययेह गात्रैस्तन्वन् दृशां सखि
सुनिर्वृतिमच्युतो वः॥ कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रज कुलपतेरिह वाति गन्ध॥११॥
बाहु प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धै॥ अन्वीयमान इह वस्तरव
प्रणामं कि वाऽभिनन्दति चरन् प्रणयावलोकैः॥१२॥ पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः॥
नून तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्हो!॥१३॥
प्रियया सहेति यदुक्तं तत्र द्योतकमाहुः—कान्तेति। इह अत्र कुलपतेः गोकुलपतेःश्रीकृष्णस्य कान्ताया अङ्गसङ्गेन आलिङ्गनेन तत्कुचकुङ्कुमेन रञ्जितायाः कुन्दकुसुमस्रजो गन्धः वाति आगच्छति॥११॥ फलभारेण नतास्तरून् दृष्ट्वा ‘कृष्ण दृष्ट्वा प्रणता’ इति मत्वा पृच्छन्ति—बाहुमिति। हे तरव दक्षिणपाणिना गृहीत लीलापद्म येन सः, तुलस्या मोदमदेन अन्धैस्तुलसिकायाः अलिकुलैरन्वीयमानः अनुगम्यमानः रामानुजः श्रीकृष्णः प्रियाया असे स्कन्धे वाम बाहुमुपधाय इह विचरन् प्रणयसहितैरवलोकैः वो युष्माक प्रणाम किमभिनन्दतीत्यन्वयः॥ प्रियायामासक्तावभिनन्दनाभावस्यापि सम्भवादेव प्रश्नः॥१२॥ क्वाप्युत्तरमसम्प्राप्य काश्चिदाहु–हे सख्यः। इमा लताः पृच्छत। ‘एताः कथ जानन्ति? इत्यपेक्षायामाहु.—वनस्पते. स्वपतेर्बाहून स्कन्धानाश्लिष्टा अप्येता नून निश्चित तस्य कृष्णस्य करजै पुष्पात्रचय कुर्वतो नखै स्पृष्टाः, यतःउत्पुलकानि बिभ्रति। स्वपतिस्पर्शमात्रेण पुलकासम्भवादित्याशयः॥ तासा भाग्यस्याश्चर्य सूचयन्ति—अहो इति॥१३॥
उन्मत्तकवत् पप्रच्छुरित्येतत् प्रपञ्चितमनुवदन् ‘तास्ता विचेष्टा जगृहुः’ इति यदुक्त तत् प्रपञ्चयति—इत्येवमुन्मत्तस्येव वचासि यासा ताश्च ता गोप्यश्चताःकृष्णान्वेषणेन कातरा अतिविह्वलास्तदात्मिकास्तदभेदाभिमानवत्यश्च सत्यश्च तास्ता भगवतो लीला अनुचक्रुः अनुकृतवत्यः॥१४॥ हीति निश्चये। पूतनायन्त्याः पूतनावदाचरन्त्याः कृष्णवदाचरन्ती स्तनमपिबत्। तोकायित्वा शिशुवदात्मान कृत्वा रुदन्ती सती अन्या गोपी शकटवदाचरन्तीं गोपीं पदाऽहन् तताड। आचरण चात्र किञ्चिच्छरीरचेष्टया, किञ्चिद्वचनमात्रेण, किञ्चिद्भावनामात्रेण च बोध्यम्॥१५॥ दैत्यायित्वा तृणार्तदैत्यवदात्मान कृत्वा एका कृष्णार्भभावना कृष्णस्यार्भ बाल्य भावयति या तामन्या जहार। घोषाः किङ्कण्यस्तासा निःस्वनैः सहितौ अङ्घ्रीकर्षन्ती
इत्यु210न्मत्तवचो गोप्यःकृष्णान्वेषणकातराः॥ लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिका॥१४॥
कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्यपिबत् स्तनम्॥ तोकायित्वा रुदत्यन्या पदाऽहन् शकटायतीम्॥ १५॥ दैत्यायित्वा जहारान्यामेकां कृष्णार्भभावनाम्॥ रिङ्गयामास काऽप्यङ्घ्रीकर्षन्ती घोषनिः स्वनै॥ १६॥कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन॥ वत्सायती घ्नन्ती211 चान्या तत्रैका तु बकायतीम्॥१७॥
आहूय दूरगा यद्वतकृष्णस्तमनुव212र्ततीम्॥ वेणु क्वणन्ती क्रीडन्तीमन्या शसन्ति साध्विति॥१८॥
काचित रिङ्गयामास जानुपाणिना चचाल॥१६॥ द्वे तु गोप्यौ कृष्णरामायिते कृष्णरामवत् जाते, काश्चन गोप्यो गोपायन्त्यो गोपबालवज्जाताः। तत्र तासु गोपीषु मध्ये वत्सायतीं वत्सासुरवदारन्तीमन्या कृष्णवद्वर्तमाना घ्नन्ती जाता। चकारात् कपित्थानि च पातयामास। तथा एका तु कृष्णरूपा बकायतीं बकासुरवदाचरन्तीं घ्नन्ती जाता॥१७॥ यद्वत् यथा कृष्णो गाः आह्वयति तथा दूरगाः दूरे वर्तमाना गाः आहूय तं कृष्णमनुवर्ततीं अनुवर्तमानाम् ‘अनुकुर्वतीम्’ इति पाठान्तरम्, अन्याः गोपबालभावनायुक्ताः साधुसाध्विति शसन्ति प्रशशसुः। तदनुकरणमेव दर्शयतिवेणु क्वणन्तीं क्रीडन्तीमिति॥१८॥
काचित्तु तन्मनाः कृष्णाभेदाभिमानयुक्ता कस्याचित् स्वभुजमन्यस्या भुजे निधाय प्रचलन्ती पादन्यास कुर्वती, ननु सम्बोधने, ‘हे सख्यः। अह कृष्णः मम ललिता सुदरा213गति पश्यत’ इत्याहेत्यन्वयः॥१९॥ काचित्तन्मनाः “वातवर्षाभ्या मा भैष्ट भय मा कार्ष्ट, यतः तत् ताभ्या वातवर्षाभ्या त्राण रक्षण मया विहितम् “इत्युक्त्वा यतन्ती प्रयत्न कुर्वती एकेन हस्तेन अम्बरमुत्तरीय वस्त्रमुन्निदधे वितत्य ऊर्ध्व धृतवतीत्यर्थ.॥२०॥ हे नृप। एका कृष्णवद्वर्तमाना पदा शिरस्याक्रम्य आरुह्य अपरा ता कालियवद्वर्तमाना प्रति ‘हे दुष्ट अहे! ‘गच्छ इतो हृदात् अपसर’ इत्याहेत्यन्वयः। ननु ‘त्वद्भयात् कुतो गच्छेयम्? ‘तत्राह—जात इति। ननु निश्चयेन खलानां परोद्वेजकानां दण्धधृक् दण्डार्थमेवाह जातोस्मि। तथाच मदाज्ञोल्लङ्घनेनात्र स्थितौ खलत्वात्त्व मया दण्डितो भविष्यसीत्याशयः॥२१॥ तत्र गोपीषु मध्ये एका कृष्णवद्वर्तमाना गोपवद्वर्तमानाः प्रति ‘हे गोपाः ‘उल्बण भयङ्कर दावाग्नि पश्यत’ आशु चक्षूषि अपिदध्व निमीलयत, वो युष्माक क्षेम निर्भयत्व महमञ्जसा अनायासेनैव विधास्ये करिष्यामि इत्युवाचेत्यन्वयः॥२२॥ तत्र गोपीषु काचित
कस्यांचित् स्वभुज न्यस्य चलन्त्याहापरा ननु॥ कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः॥१९॥
मा भैष्ट वातवर्षाभ्यां तत्राणं विहितं मया॥ इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम्॥२०॥
आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप॥ दुष्टाहे गच्छ जातोऽह खलानां ननु दण्डधृक्॥२१॥
तत्रैकोवाच हे गोपा दावाग्निपश्यतोल्बणम्॥ चक्षूंष्याश्वपिदध्व वो विधास्ये क्षेममञ्जसा॥२२॥
बद्धाऽन्यया स्रजाकाचित्तन्वी तत्र उलूखले॥ भीता सुदृक् पिधायास्य भेजे भीतिविडम्बनम्॥२३॥
एव कृष्णं पृच्छमाना वृन्दावनलतास्तरून्॥ व्यचक्षत वनोद्देशे पदानि परमात्मनः॥२४॥
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः॥ लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कशयवादिभिः॥२५॥
तन्वी कोमलाङ्गी कृष्णवद्वर्तमाना अन्यया यशोदावद्वर्तमानया स्रजामालया नवनीतचौर्यनिमित्तेन बद्धा, अत एव भीता, सुदृक् शोभने दृशौ नेत्रे यस्मिस्तत् आस्य मुख पिधाय हस्ताभ्यामाच्छाद्य भीतिविडम्बनं भयानुकरण भेजे चकार॥२३॥ एव श्रीकृष्णलीलाः कुर्वत्यः पुनश्च वृन्दावनलतास्तरूंश्च कृष्ण पृच्छन्त्यो वनोदेशे वनप्रदेशे परमात्मनः कृष्णस्य पदानि भूमौ रजसि चिह्नतयोद्बुद्धानि व्यचक्षत अपश्यन्॥२४॥ तानि दृष्ट्वा च परस्परमुचुस्तदाह—पदानीति। महात्मन उदारचित्तस्यात्ममनोरथपूरकस्य नन्दसूनोरेतानि पदानि इति व्यक्त निश्चितम्। एवनिश्वये हेतुमाहुः—लक्ष्यन्ते
इति। हि यस्मात् ध्वजादिभिर्लक्ष्यन्ते चिह्नितानि दृश्यन्ते इति। आदिशब्दादन्येषा चक्रादीना ग्रहणम्। ध्वजादीना धारणस्थान तत्प्रयोजन चोक्त स्कान्देदक्षिणस्थ पदाङ्गुष्ठमूले चक्र बिभर्त्यजः। तत्र नम्रजनस्यारिषड्वर्गच्छेदनाय सः १। मध्यमाङ्गुलिमूले च धत्ते कमलमच्युतः। ध्यातृचित्तद्विरेफाणा लोभनायाति शोभनम् २।पद्मरयाधो ध्वज धत्ते सर्वानर्थजयध्वजम् ३। वनिष्ठामूल्तो वज्र भक्तपापाद्रिभेदनम् ४। पार्ण्णमव्येऽङ्कुश भक्तचित्तेभवशकारिणम् ५। भोगसम्पन्मय धत्ते यवमष्ठपर्वणि ६।॥ तथाऽन्यान्यपि चिह्नानि वैष्णवतोषण्यामुक्तानि। तथाहि—अङ्गुष्ठतर्जनी सन्धिमारभ्य यावदर्धचरणमूर्ध्वरेखा ७। चक्रस्य तले छत्रम् ८। अर्धचरणतले चतुर्दिगवस्थित स्वस्तिचतुष्टयम् ९। स्वस्तिकचतुःसन्धिषु जम्बूफलचतुष्टयम् १०। स्वस्तिकमध्ये अष्टकोणम् ११। इत्येव दक्षिणचरणे एकादश चिह्नानि॥ तथा वामपादाङ्गुष्ठमूले भक्तोन्मुख दरम्। सर्वविद्याप्रकाशाय दधाति भगवानसाविति १। मध्यमामूले वरमन्त र्बाह्यमण्डलद्वयात्मकम् २।तदधः कार्मुक विगतज्यम् ३। तदधो गोष्पदम् ४। ततले त्रिकोणम् ५। तदभितः कलशाना चतुष्टय क्वचित्रितयमित्युक्तम् ६। त्रिकोणतलेऽर्धचन्द्रोग्रद्वयस्याष्टत्रिकोणद्वयम् ७। तदधो मत्स्यः ८।एव वामपादेऽष्टौ मिलित्वा ऊनविशतिः॥२५॥ एवं तैरतैर्ध्वजादिचिह्नितैः पदैस्तस्य कृष्णस्य पदवीं स्थितिमन्विच्छन्त्यो अन्वेषयन्त्योऽबला गोप्यः
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः॥ वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन्॥२६॥
कस्याः पदानि चैतानि याताया नन्दसूनुना॥ असन्यस्तप्रकोष्ठाया करेणोः करिणा यथा॥२७॥
अग्रतः कस्याश्चिद्वध्याः पदैः सुपृक्तानि अन्तरान्तरा सम्मिलितानि तत्पदानि विलोक्य आर्ताः अतिदुःखिताः सत्यः समब्रुवन् परस्परमूचुः। तस्याश्च वामचरणे अङ्गुष्ठतले यवः१। तत्तले छत्रम् २।तत्तले छत्रम् ३। ततले वलयम् ४। अङ्गुष्ठतर्जनीसन्धिमारभ्य यावदर्धचरणमूर्ध्वरेखा ५। मध्यमातले कमलम् ६। तत्तले सपताको ध्वजः ७। तत्तले पुष्प वल्ली च ८,९। कनिष्ठातलेऽङ्कुशः १०।पार्ष्णावर्द्धचन्द्रः ११। एव इत्येकादश दक्षिणचरणे॥ अङ्गुष्ठमूले शङ्ख. १। तत्तले गदा २।कनिष्ठातले वेदिः ३। तत्तले कुण्डलम् ४। तत्तले शक्तिः ५। तर्जन्याद्यङ्गुलितले पर्वतः ६। तत्तले रथः७। पार्ष्णौमत्स्य ८। इत्यष्टौ मिलित्वैकोनविशतिः॥२६॥ तद्वाक्यान्येवाह—कस्या इत्यादिभिः सार्द्धैरष्टर्भिः। करिणा सह गच्छन्त्याः करेणोरिव नन्दसूनुना सह यातायाःतेनासे स्कन्धे न्यस्त स्थापित प्रकोष्ठो यस्यास्तस्या कस्या एतानि पदानि?॥२७॥
तस्या राधयति आराधयति इति राधेति नामनिरुक्तिमाहुः—अनयेति। अनया कृष्णेन सहागतया नून निश्चयेन हरिः भक्तदुखहर्ता आराधित214 दुःखहरणे सामर्थ्यमाहुः—ईश्वर इति। तत्र हेतुमाहुः—भगवानिति। ‘कुत एतज्ज्ञातम्’ ‘इत्यपेक्षायामाहुः—यदिति। यत् यस्मात् नोऽस्मान् विहाय प्रीतः सन् गोविन्दो या रह एकान्तमनयत्। न त्वन्यनारीणामेव तेन सह विहार सुलभः सुकर इत्याशयः॥२८॥ तत्र काश्चिदाहुः—धन्या इति। विश्वासार्थ सम्बोधयन्ति—आल्यः हे सख्यः! अमी गोविन्दस्य अङ्घ्रिरेवाब्जं तद्रेणवःअहो धन्याः सर्वपुरुषार्थप्रदाः। तत्र ज्ञापकमाहुः—यानिति। यान् रेणून् अघनुत्तये पुरुषार्थप्रतिबन्धकदोषनिवृत्तये ब्रह्मादयोऽपि मूर्ध्नि दधुः। अतोऽस्माभिरप्येतद्रजोभिषेकेण कृष्णः प्राप्तु शक्य इत्याशयः॥२९॥ अन्या आहुः—भवत्वेवम्, तथापि सर्वासा गोपीना सर्वस्वमच्युताधरं कृष्णाधरामृतमेकैव अपहृत्य रहः एकान्ते या भुङ्क्ते तस्याः यत् यानि अमूनि पदानि
अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः॥ यन्नो विहाय गोविन्द प्रीतो यामनयद्रहः॥२८॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः॥ यान् ब्रह्मेश रमा देवी दधुर्मूर्ध्न्यघनुत्तये॥२९॥
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्॥ यैकाऽपहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥३०॥
न लक्ष्यन्ते पदान्यत्र तस्या नून तृणाहरैः॥खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसी प्रियः॥३१॥
इमान्यधिकग्नानि पदानि वहतो वधूम्॥ गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः॥३२॥
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना॥ अत्र प्रसूनावचयः प्रियाऽर्थे प्रेयसा कृतः ॥ ॥ ॥ ॥
पदाक्रमणे ते पश्यतासकले पदे॥३३॥
तानि नोऽस्माकमुच्चैः भृश क्षोभ दुःख कुर्वन्तीत्यत्वयः॥३०॥ एव विचिन्वन्त्यस्ततोऽग्रे केवल कृष्णपादरेणूनवलोक्यात्यन्त तप्यन्त्य आहुः—नेति। अत्र तस्या वध्वाः पदानि न लक्ष्यन्ते न दृश्यन्ते, अतो नून निश्चित ता प्रेयसीं तस्याः प्रियः कृष्ण उन्निन्ये स्कन्धमारोपितवानित्यन्वयः। तत्र हेतुमाहुः—तृणाङ्कुरैः खिद्यती सुजाते सुकुमारे अङ्घ्रितले यस्यास्तामिति॥३१॥ स्कन्धारोपणे लिङ्गमाहुः—इमानीति। हे गोप्यः। वधू वहतः कृष्णस्याधिकमग्नानि भूमावधिक प्रविष्टानि पदानि पश्यतेत्यन्वयः। अधिकप्रवेशे हेतुमाहुः—भाराक्रान्तेति। ‘तथापि स्कन्धेन स्त्रीवहन कथ सम्भवति? इत्याकाङ्गायामाहुः—कामिन इति॥३२॥ पुनश्चाग्रे वध्वाःपदचिह्न दृष्ट्वाऽऽहुः—अत्रेति। महात्मना भक्तजनमनोरथपूरकात्युदारस्वभावेन कृष्णेन पुष्पहेतोः पुष्पावचयार्थमत्र कान्ताऽवरोपिता स्कन्धादवतारिता। तयोः परस्परमासक्तिमाहुः—अत्रेति। प्रेयसा कृष्णेन प्रियार्थे ता प्रियामलङ्कर्तुमत्र प्रसूना-
नामवचयः अवतारणं कृतम्। तत्र चिह्नमाहुः—प्रपदेति। प्रपदाभ्या पादाग्राभ्यामुच्चप्रसूनावतारणार्थमाक्रमणं क्षोणीतलसम्मर्दनं ययोः, अत एव द पू.अ.असकले अर्धलग्ने एते पदे पादौ पश्यत॥३३॥ काश्वित्तस्याः कृष्णजान्वन्तरमुपविष्टायाः चिह्नंक्षोणीसम्मर्दनादिकमालक्ष्याहुः—केशप्रसाधनमिति। अत्र तु कामिना कृष्णेन कामिन्यास्तस्याः केशानामितस्ततो विश्लथता प्रसाधन पुनः सीमन्तसमीकरणाभ्या बन्धन कृतम्। अन्या आहुः—कान्तामधिकृत्य तानि प्रसूनानि चूडयता चूडानुकरणेन बध्नता कृष्णेनेह ध्रुव निश्चितमुपविष्टम्॥३४॥ “किमेवं गोपीभिः केवल सम्भावनामात्रं कृतम्? किंवास्ति तथात्वम्” इति सन्दिहान राजानं प्रति शुक आह—तया215 सह रेमे इति। ‘तर्हि गोपीभिरुक्त कामित्वमपि सत्यमेव’ इत्याशङ्क्याह—आत्माराम इति। तस्यामप्यवस्थाया निजानन्द एव रममाण इत्यर्थः। तत्र हेतुमाह—अखण्डित इति। स्त्रीविभ्रमादिभिरनाकृष्टचित्त इत्यर्थः। तत्रापि
केशप्रसाधन त्वत्र कामिन्याः कामिना कृतम्॥ तानि चूडयता कान्तामुपविष्टमिह ध्रुवम्॥३४॥
रेमे तया चाऽऽत्मरत आत्मारामोऽप्यखण्डितः॥ कामिनां दर्शयन् दैन्य स्त्रीणां चैव दुरात्मताम्॥३५॥
इत्येव216 प्रलपन्त्यस्ताश्वेरुर्गोप्यो विचेतसः॥ यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने॥३६॥
सा च मेने तदाऽऽत्मान वरिष्ठं सर्वयोषिताम्॥हित्वा गोपीः कामयाना मामसौ भजते प्रियः॥३७॥
हेतुमाह—आत्मरत इति। स्वरूपानन्दलाभेनैव सन्तुष्ट इत्यर्थः॥ आप्तसमस्तकामश्चेत् किमिति तया सह रेमे तत्राह—कामिनामिति। विषयासक्तचित्तानां दैन्य पारवश्य स्त्रीणा दुरात्मता दौर्जन्य च दर्शयन् दर्शयितुमेव तया रेमे चकारादन्याभिश्च॥३५॥ प्रकृतमुपसंहरति—इत्येवमिति। उक्तप्रकारेण प्रलपन्त्यः प्रलापमनर्थक वचः कुर्वत्य’, ‘दर्शयन्त्य’ इति पाठे मिथस्तच्चिह्नानि दर्शयन्त्यो विचेतस उन्मत्तसदृशा गोप्यः विचेरुः। स्त्रीणा दुरात्मता दर्शयति—यामिति सार्धाभ्याम्।अन्याः स्त्रियो वने विहायानादृत्य या स्त्रियं कृष्णोऽनयत् सा च तदा सर्वयोषिता मध्ये आत्मानं वरिष्ठं मेने॥३६॥ तन्मननप्रकारमेवाह—हित्वेति। कामो यानमागमनसाधन यासा ताः सर्वा गोपीर्विहायासौ प्रियो मामेव भजते अनुवर्तते, अतोऽहसर्वयोषिता श्रेष्ठेति मेने॥३७॥
तत एवमभिमानानन्तर वनोद्देश किञ्चिद्दूर वनप्रदेश गत्वा केशवं ब्रह्मादिनियन्तारमपि कृष्ण प्रति इतोऽग्रेऽह चलितु न पारये न शक्नोमि, ‘अतो मां त्व स्न्धादिना नय’ इत्यब्रवीत्। ‘क्व नयामि’ इत्यपेक्षायामाह—यत्रेति। यत्र जिगमिषसितत्र नयेत्यर्थः। ‘कथमेव सर्वेश्वरमब्रवीत्’ इत्याशङ्क्य तत्र हेतुमाहदृप्ता स्वश्रेष्ठत्वाभिमानेन गर्वितेत्यर्थः। सर्वेश्वरमपि पति प्राप्य सर्वाराध्याया उत्तमाया अपि यद्येव दुर्बुद्धित्व तदाऽन्यासा दुर्बुद्धित्वेकः सन्देह इत्याशयः॥३८॥ कामिना दैन्य दर्शयति—एवमिति। एवमुक्तः स भगवान् ‘एव चेत्तर्हि त्वया स्कन्धमारुह्यताम्’ इति ता प्रिया प्रत्याहेत्यन्वयः। सर्वेश्वरेणापि यदि कामलीलाङ्गीकृता तर्ह्येवदैन्य प्राप्तम्, काऽन्यस्य वार्ता? परत्वखण्डितत्वात् ततस्तस्या स्कन्धारोहणोद्यताया सत्या कृष्णोऽन्तर्दधे। ततश्च सा वधूरन्वतप्यत॥३९॥ अनुतापमेव दर्शयति—हा नाथेति। ‘मयाऽनुचित कृतम्’ इत्यनुताप सूचयति—हेति। ‘स्वामित्वाद्दास्या मम पालनमेवोचितम्, न त्यागः’ इति सूचयन्ती सम्बोधयति—नाथेति। दासीत्वान्न मम रक्षकोऽन्योऽस्ति।’ तव तु रक्षाया सामर्थ्यमस्त्येव’ इत्याशयेन सम्बोधयति—महाभु-
ततो गत्वा वनोद्देश दृप्ता केशवमब्रवीत्॥ न पारयेऽहं चलितु नय मां यत्र ते मन॥३८॥
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति॥ ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत॥३९॥
हा नाथ रमण प्रेष्ठ कासि क्वासि महाभुज॥ दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम्॥४०॥
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरतः॥ ददृशुःप्रियविश्लेषमोहितांदुःखितां सखीम्॥४१॥
तया कथितमाकर्ण्य मानप्राप्ति च माधवात्॥ अवमान च दौरात्म्यादिस्मय परमं ययुः॥४२॥
जेति। ‘न चान्तर्हितः सन्नेव पालयिष्यामीति मन्तव्यम्, रमणत्वात ‘इत्याशयेनाह हे रमणेति। ‘त्वद्वियोगेन मन्मरणमेव स्यात्’ इत्याशयेनाह-हे प्रेष्ठेति। ‘मन्मरणेन तवापि दुःखमेव भविष्यति’ इति सूचयन्त्याह—सख इति। व्याकुलता सूचयन्त्याह—क्कासि क्कासि? कृपणायाः त्वद्वियोगेन दीनाया मे स्वसन्निधिं दर्शय इति॥४०॥ एव प्रियस्य विश्लेषेण मोहिता व्याकुलिता दुःखिता सखीं अविदूरतः समीपे भगवतो मार्गमन्विच्छन्त्यो मृगयमाणा गोप्यो ददृशुरित्यन्वयः। अनेन यः पूर्व सापत्न्यात् तत्सुखसम्भावनया स्वखेद उक्तः ‘तस्या अमूनि नः क्षोभ कुर्वन्ति’ इति, स इदानीं सखित्वाद्दुःखदर्शनेन निवृत्त इति ज्ञेयम्॥४१॥ ततश्च माधवान्मानप्राप्तिं स्वसन्मानप्राप्तिं लक्ष्मीपतित्वात्तत्कृतसन्मानस्य महत्त्वसूचनार्थं माधवपदमुपात्तम्, तथा आत्मनः स्वस्य दौरात्म्याद्दौर्जन्यात् हेतोरन्तर्धानेन परित्यागात्मकमवमानं च ततः प्राप्तम् चकारात् स्वविलापदुःखादिकं च तया कथितमाकर्ण्य तस्याद्भुतचरितेन परमं विस्मयमाश्चर्य ययुः॥४२॥
ततश्च यावच्चन्द्रज्योत्स्नया वन विभाव्यते प्रकाश्यते तावत्तया सह गोप्यः कृष्णान्वेषणार्थमविशन्। ततोऽग्रे घनतरुच्छायाकृतेन तमसा प्रविष्ट व्याप्त वनमालक्ष्य हरेरन्वेषणात् निववृतुः निवृत्ता जाताः॥४३॥ एवं तमः प्राप्ताना निराशया गृहगमनमाशङ्क्य ‘गृहादिस्मरणमेव नासीत्, कुतस्तद्गमनम्? इति सहेतुकमाह—तन्मनस्का इति। तस्मिन् कृष्णे एव मनो यासा ताः, तस्यैव आलापो भाषण यासा तास्तदालापाः, यत एवंभूतास्तस्मात्तस्य कृष्णस्येव विविधाश्रेष्टा यासा तास्तद्विचेष्टा, स एवात्मा यासा तास्तदात्मिकास्तदैक्यमानवत्य तस्य गुणान् भक्तवात्सल्यादीन् गायन्त्य आत्मान देहमगार गृहम्, बहुवचनात् पतिपुत्रोपकरणादीनि च न सस्मरुः॥४४॥’ ततः किं जातम्?’ इत्यपेक्षायामाह—पुनरिति। समवेताः सम्मिलिताः सर्वा एव गोप्यः यत्र पूर्व कृष्णेन सङ्गतास्तदेव कालिन्द्याः पुलिन पुनरागत्य कृष्णभावनाःकृष्णध्यानपरा सत्यः कृष्णमेव जगुरित्यन्वयः। तत्र
ततोऽविशन् वन चन्द्रज्योत्स्ना यावद्विभाव्यते॥ तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः॥४३॥
तन्मनस्कास्तदालापास्तद्विचेशस्तदात्मिकाः॥ तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः॥४४॥
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः॥ समवेता जगुःकृष्णं तदागमनकाङ्क्षिताः॥४५॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे तामसनिरोधनिरूपणप्रकरणे कृष्णान्वेषणनिरूपणं
नाम त्रिशत्तमोऽध्यायः॥३०॥॥छ॥॥छ॥ गोप्य ऊचुः॥ जयति तेऽधिकं जन्मना
व्रजःश्रयत इन्दिरा शश्वदत्र हि॥ दायत दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते॥१॥
हेतुमाह—तदागमन काङ्क्षितं यासा ता इति॥४५॥ इतिश्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ त्रिशत्तमो गतो वृत्ति कृष्णान्वेषणनिरूपकः॥३॥ एकत्रिशे तु गोपीभिः कृष्णागमनकाङ्क्षया॥ तमेव प्रार्थयन्तीभिर्यद्गीत तन्निरूप्यते॥१॥ गानमेव दर्शयति—जयतीति। अतिप्रियस्य तव कपटाचरणमयुक्तम्’ इत्याशयेन सम्बोधयन्ति—दयितेति। ते तव जन्मना निमित्तेन व्रजो वैकुण्ठादिलोकादप्यधिक यथा भवति तथा जयति उत्कर्षेण वर्तते। हि यस्मात्तव जन्मना त्वदनुयायिनी इन्दिरा लक्ष्मी शश्वत् नित्यमत्र व्रजे श्रयते ब्रजमलकृत्य वर्तते॥ ‘एव सर्वस्मिन् व्रजे मोदमाने तव दासभूतानामस्माक त्वयैवान्तर्धानेन दुःखोत्पादन न युक्तम् ‘इत्याशयेनाहुः—तावकास्त्वदीया गोपीजनास्त्वा दिक्षु विचिन्वते इति। नच त्वदीयत्वे सन्देह, यतस्त्वयि त्वदर्थमेव कथञ्चिद्धृता असवः प्राणा यैस्ताः। अतस्त्वया दृश्यतामस्माक प्रत्यक्षीभूयतामिति॥१॥
‘त्वयि धृतासव’ इत्यनेन’ तव दर्शनविनाऽस्माक मरण भविष्यति’ इति सूचितम्। ‘तत्र मरण भवतु, मम को दोष’ इत्याशङ्कयाहु—शरदिति। शरत्कालीनो योऽयमुदाशयः पुष्करिणी तत्र साधु सम्यक् प्रकारेण जात यत् सत् सुविकसित सुन्दर सरसिज कमल तस्योदरे या श्रीः शोभा ता मुष्णातीति हरतीति तिरस्करोति या दृक् तया दृशा नेत्रेण अशुल्कदासिका अमूल्यदासीर्नोनिघ्नतः प्राणापहारेण मारयतस्ते तव त्वया क्रियमाण इह लोकेऽय कि बधो नभवति? कि शस्त्रेणैव वधो भवति? दृशा वधो न भवति? कितु भवत्येव, अतोऽस्मज्जीवनार्थ दृश्यतामित्याशयः। ननु ‘किमर्थ मूल्यविनापि दास्यमङ्गीक्रियते ‘सुरतार्थम्’ इत्याशयेन सम्बोधयन्ति—सुरतनाथेति। ‘मयेमा रस्यथ क्षपाः’ इति दत्तवरस्य ‘तवेदानी तत्प्रतिषेधेन मारणमत्यन्तमनुचितम्’ इत्याशयेन पुनः सम्बोधयन्ति—वरदेति॥२॥ “यदि वय मारणीयास्तर्हि पूर्वं किमिति बहुभ्यः आपद्भ्यो रक्षितवानसि? पूर्वरक्षितानामिदानीं दृशा मन्मथप्रेरणेन मारणमनुचितमेव “इत्याशयेनाहुः—विषेति। ‘तत्रापि सत्यप्रतिज्ञस्य श्रेष्ठस्यैतदत्यन्तमनुचितम् ‘इत्याशयेन सम्बोधयन्ति—ऋषभेति। विषजल यत् कालि-
शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा॥ सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह कि वधः॥२॥ विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात्॥ वृषमयात्मजाद्विश्वतो भयादृषभ ते वयं रक्षिता मुहु॥३॥ न खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक्॥ विखनसाऽर्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले॥४॥
यहृदजल तस्मात् योऽप्ययो नाशस्तस्मात्, व्यालराक्षसात् अघासुरात्, इन्द्रकृताद्वर्षात्, मारुतात्, वैद्युतानलात् विद्युत्पातजादग्नेः, वृषःअरिष्टस्तस्मात मयात्मजात् व्योमासुरात, विश्वतोऽन्यस्मादपि सर्वतो भयात् कालियदमनादिभिर्मुहुः पुनःपुनस्त्वया वय रक्षिता.स्म.। अत्रारिष्टव्योमवधस्य भावित्वेऽपि तज्ज्ञान श्रुत्यवतारत्वात्॥३॥ ऋष्याद्यवताररूपा गोप्य एव ‘सर्वसाक्षिणस्तवाग्रे कि बहु वक्तव्यम्?इत्याशयेनाहु’—नेति। खलुशब्दोऽवधारणे सकलजगत्पालनार्थमवतीर्णस्य तव स्वाश्रितास्मदुपेक्षा न युक्ता ‘इत्याशयेन सम्बोधयन्ति—हे सखे इति। भवान् गोपिकानन्दनो यशोदासुतो नैव भवति। कित्वखिलदेहिना सर्वप्राणिना योऽन्तरात्मा अन्तःकरण त पश्यतीति तथा साक्ष्येव। ‘तस्य कथ जन्म’ इत्यपेक्षायामाहुः—विखनसा ब्रह्मणा प्रार्थितःसन् विश्वपालनाय सात्वता यादवाना कुले उदेयिवान् स्वेच्छया समवतीर्णोऽसि, नतु प्राकृतवत् कर्मवशाज्जात इत्यर्थः॥४॥
‘तस्मात्त्वद्भक्तानामस्माकमभिमतमेतच्चतुष्टय सम्पादय इत्याहुः—विरचिनेति चतुर्भिः। ‘महत्कुलोत्पन्नत्वेनापि तवास्मदार्तिहरण युक्तम्’ इत्याशयेन सम्बोधयन्ति—हे वृष्णिधुर्येति। तवकरसरोरुह नोऽस्माक शिरसि धेहि स्थापय। ‘तेन कि फलम्? ‘इत्यपेक्षाया’ त्वद्दर्शनादिजनितकामतापनिवृत्तिरेव’ इत्याशयेन पुनः सम्बोधयन्ति—कान्तेति। ‘तापनिवर्तकत्व तस्य स्वाभाविको धर्म’ इति सरोरुहपदेन सूचितम्। ‘केषा तापनिवृत्तिर्दृष्टा’ इत्याशयेनाहुः—ससृतेर्भयात् चरणमीयुषा शरणागताना भक्ताना विरचित दत्तमभय येन तदिति। ‘न केवल तापनिवर्तकम्, कितु मनोरथपूरक च। तेनास्मन्मनोरथ पूरय’ इत्याशयेनाहुः—कामदमिति। ‘कि तत्र ज्ञापकम् ‘इत्यपेक्षाया’ सर्वमनोरथपूरिकाया लक्ष्म्या अपि प्रभावस्त्वत्स्वीकारादेव’ इत्याशयेनाहुः—श्रीकरग्रहमिति॥५॥ ‘विशेषतः सकलव्रजजनानामार्तिनिरासायावतीर्णस्य तवास्मदार्तिहरणमावश्यकम्’ इति सूचयन्त्य सम्बोधयन्ति—व्रजनार्तिहन्निति। आर्तिहरणसामर्थ्य सूचयन्त्यः पुनः सम्बोधयन्ति—वीरेति। ‘युष्माक गर्व एव महान दोषः, अत एव तन्निरासायान्तर्हितोऽस्मि इति चेत् ‘निजजनाना स्मयो गर्वस्त ध्वसयतीति तथाभूत स्मित यस्य तेन त्वया स्मितमात्रेणैव गर्वो निरसनीय, न त्वन्तर्धानस्य प्रयोजनमस्ति इत्याश-
विरचिताभय वृष्णिधुर्य ते चरणमीयुषां संमृतेर्भयात्॥ करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम्॥५॥ व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वसनस्मित॥भज सखे भवत्किङ्करीःस्म नो जलरुहाननं चारु दर्शय॥६॥ प्रणतदेहिनां पापकर्शन तृणचरानुगं श्रीनिकेतनम्॥फणिफणार्पित ते पदाम्बुज कृणु कुचेषु न कृन्धि हृच्छयम्॥७॥
येन सम्बोधयन्ति—निजजनस्मयध्वसनस्मितेति। ‘अस्मन्मरणेन तवापि दुःख भविष्यति’ इति सूचयन्त्यः सम्बोधयन्ति—हे सखे इति। ‘उक्तेऽर्थे न कश्चित सन्देह’ इत्याशयेनाद्दुः—स्मेति। अतोन्तर्धानेन सुतरा गर्वस्य निवृत्तत्वाद्भवतः किङ्करीः दासीर्नोऽस्मान् भज अनुवर्तस्व। ‘का वा अनुवृत्तिःकर्तव्या? “इत्यपेक्षायामाहुः—चारु मनोहर जलरुहानन मुखकमल योषितामस्माक दर्शयेति॥६॥ किच ते पदाम्बुज नोऽस्माक कुचेषु कृणु स्थापय। तेन हृच्छय काम कृन्धि छिन्धि। ‘पादस्थापनमात्रेण कथ कामनिरास? “इत्यपेक्षाया पदाम्बुजं विशिनष्टि। ‘तत्र सुखप्रतिबन्धकपापनिरासकत्वात्’ इत्याशयेनाहुः—प्रणतेति। अविशेषेण प्रणताना शरणागताना देहिना पापकर्शन पापहन्तृ। कामनिरासे सामर्थ्य सूचयन्त्य आहुः—फणिन कालियस्य फणास्वर्पितमिति। एव सति क्रौर्यमाशङ्क्य सौकुमार्य सौन्दर्यसौभाग्यादिक व सूचयन्त्य आहु—श्रीनिकेतनमिति। लक्ष्म्या आश्रयभूतमित्यर्थः। तर्हि दुर्लभत्वमाशङ्क्य तत्कृपया सुलभत्व सूचयन्त्य आहुः—तृणचरान् गवादीन् पशूनप्यनुगच्छतीति तथा तत्॥७॥
‘तव कृपादृष्ट्यैव तापनिवृत्ति, नान्यथा’ इति सूचयन्त्य, सम्बोधयन्ति—हे पुष्करेक्षणेति। ‘अस्मासु स्त्रीषु वीरत्व न युक्तम् ‘इत्याशयेन पुनः सम्बोधयन्ति—वीरेति। तव गिरा वाण्या विमुह्यतीर्विधिकरीःकिङ्करीरिमा नः अस्मान् अधरसीधुना अधरामृतेन आप्याययस्व सञ्जीवयस्वेत्यर्थः। गिरो मोहकत्वे हेतूनाह—कोकिलादिशब्दवत् मधुरयेति। वल्गूनि मनोहराणि वाक्यानि यस्या तथेति। अस्मन्मोहकत्वे कि वक्तव्यम्? यतो बुधाना ज्ञानिनामपि मनोज्ञया हृदयज्ञयेति॥८॥ ननु ‘युष्माक पूर्णः स्नेहो नास्ति, यतो मद्विरहे सत्यपि जीवथ’ इत्याशङ्कायामाहुः—तवेति। तव कथामृत त्वद्विरहेण सन्तप्तानामस्माकं जीवनं जीवनकारणम्। ‘इत्याहुः। ‘तत् कुतः प्राप्तम्’? ‘इत्यपेक्षायामाहुः—ये भूरिदाः पूर्वजन्मसु बहुदत्तवन्तसुकृतिनो जनास्ते भुवि आतत विस्तृत यथा भवति तथा गृणन्ति निरूपयन्तीति। प्रसिद्धाद्देवभोग्यात् अमृतादुत्कर्षमाहुः—कविभिर्विवेकिभिरीडित स्तुतम्, देवभोग्यममृत तु तैस्तुच्छीकृत्य निन्दितम्। किञ्च कल्मषापह सर्वपापनिरासकम्, तत्त्वमृत नैवविधम्। किञ्च श्रवणमङ्गल श्रवणमात्रेण मङ्गलप्रदम्, तत्त्वनुष्ठानापेक्षम्। किच श्रीमत् सुशान्तम्, तत्तु मादकमिति॥९॥ ‘तर्हि मत्कथाश्रवणेनैव तृप्ताना युष्माक मद्दर्शनेनैव किम्?’ इत्याशङ्क्य ’ त्वद्वि-
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण॥विधिकरीरिमा वीर मुह्यतीरघरसीधुनाऽऽप्याययस्व नः॥८॥ तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्॥ श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः॥९॥ प्रहसित प्रिय प्रेमवीक्षणं विहरण च ते ध्यानमङ्गलम्॥ रहसि संविदो या हृदिस्पृशःकुहक नो मनः क्षोभयन्ति हि॥१०॥चलसि यद्व्रजाच्चारयन् पशून्नलिनसुन्दरं नाथ ते पदम्॥ शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मन’ कान्त गच्छति॥११॥
लासक्षुभितचित्तानामस्माक तावन्मात्रेण शान्तिर्नास्ति’ इत्याशयेनाहुः—प्रहसितमिति। ‘प्रेमविषयस्य तव कापट्य न युक्तम्’ इति सूचयन्ति—सम्बोधनद्वयेन। हे प्रिय। हे कुहक॥ध्यानमात्रेणापि मङ्गल परमानन्दप्रद ते प्रहसितादिक याश्च हृदिस्पृशो हृदयगमाः रहसि सविदः सङ्केतनर्माणि ताश्च नोऽस्माक मनो हि यस्मात् क्षोभयन्ति। तथा कथाश्रवणमात्रेण शान्तिर्नास्तीति शेषेणान्वयः॥१०॥ किच’ त्वयि वयमतिप्रेमार्द्रचित्ताः, त्वं पुनरस्मासु केन हेतुना कपटमाचरसि? ‘इत्याशयेनाहुः—चलसीति द्वयेन। स्नेहं सूचयन्यःसम्बोधयन्ति हे नाथ हे स्वामिन्। हे कान्त। यत् यदा पशुश्चारयन् व्रजाच्चलसि तदा नलिनवत् सुन्दर कोमल ते पद शिलैःकणिशैस्तृणैरङ्कुरैश्व सीदति क्लिश्येदिति नो मनः कलिलतामस्वास्थ्य गच्छति प्राप्नोति। एवं त्वदुःखशङ्कितचित्ता वयम्॥११॥
त्व तु दिनपरिक्षये सायकाले नीलकुन्तलैरावृत घनरजस्वल गोरजश्छुरित वनरुहानन अलिमालाकुलपरागच्छुरितपद्मतुल्यमानन बिभ्रत् मुहुर्मुहुर्दर्शयन् नो मनसि केवल स्मर यच्छसि अर्पयारी, नतु सङ्ग ददासि। ‘इति कपटत्व वीरस्य तव नोचितम्’ इति सूचयन्त्यः सम्बोधयन्ति—वीरेति॥१२॥ अतोऽधुना कापट्य विहाय आविर्भूयास्मत्प्रार्थित कुरु’ इत्याहु—प्रणतेति। ‘अस्मन्मनोग्लानिरस्त्वया निरसनीया’ इत्याशयेन सम्बोधयन्ति-आधिहन्निति। तत्र हेतु सूचयन्त्यःपुनःसम्बोधयन्ति-रमणेति। कामसन्तापनिरासाय ते तव चरणपङ्कज नोऽस्माक स्तनेष्वर्पयेत्यन्वयः। ‘कथ चरणसम्बन्धेन तापनिवृत्ति इति शङ्का पङ्कजपदेन निरस्तापि पुनस्तन्निरासकत्वे हेत्वन्तराणि सूचयन्त्यो विशिषन्ति—पद्मजेन ब्रह्मणार्चितमिति। तत्रापि हेतुमाहुः—प्रणताना काम मनोरथ ददातीति तथा तत्। धरण्या मण्डनमलङ्कारभूतम्। घराण इति ह्रस्वमार्षम्।आपदि ध्येयमिति ध्यानमात्रेणाप्यापन्निवर्तकमिति। शन्तम सेवासमये एव परमानन्दजनकमित्यर्थः॥१३॥ ‘अस्मासु स्त्रीष्वेतद्दानरूपमेव वीरत्व युक्तम्’ इत्याशयेन सम्बोधयन्त—वीरेति। ते तवाधरामृत नोऽस्माक वितर देहि। ‘अस्माकमेतदेव परमफलरूपम् ‘इत्याशयेनाहुः—सुरतवर्धनमिति। सुरतसम्भोगसुख वर्धयतीति तथा तत्। शोक-
दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम्॥ घनरजस्वल दर्शयन् मुहुर्मनसि नः स्मरं वीर यच्छसि॥१२॥ प्रणतकामद पद्मजार्चित धरणिमण्डन ध्येयमापदि॥ चरणपङ्कजं शन्तम च ते रमण नःस्तनेष्वर्पयाधिहन्॥१३॥ सुरतवर्धन शोकनाशन स्वरितवेणुना सुष्ठु चुम्बितम्॥ इतररागविस्मारण नृणां वितर वीर नस्तेऽधरामृतम्॥१४॥ अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम्॥ कुटिलकुन्तल श्रीमुख च ते जड उदीक्षतां पक्ष्मकृदृृशाम् १५
नाशनमिति। तत्र हेतुमाह—इतरेति। नृणा नृजातीनामस्माक यः इतरेषु धनपुत्रगृहलोकपरलोकादिषु पुरुषार्थेषु रागस्तस्य विस्मारकम्। तर्हि दुर्लभ कथ देयम् ‘इत्याशङ्क्य ‘त्वत्कृपया जडस्यापि वेणोः सुलभम्, किमस्माकम्?’ इत्याहुः— स्वरितेन नादितेन वेणुना सुष्ठु सम्यक् चुम्बितमिति॥१४॥ किच ‘क्षणमपि त्वदर्शने दुःख दर्शने च सुख दृष्ट्वा सर्वसङ्गपरित्यागेन वय त्वामुपागताः, त्व तु कथमस्मास्त्यक्तुमुत्सहसे’ इति सकरुणमाहुः—अटतीति द्वयेन। यत् यदा अह्नि दिवसे भवान् कानन वृन्दावन प्रति अटति गच्छति तत्त्वामपश्यता प्राणिना त्रुटिर्युगायते तृतीयस्कन्धे उक्तः त्रुट्याख्यः स्वल्पोऽपि कालो युगवद्भवति। एवमदर्शनदुःखमुक्तम्। यस्मादेव तस्मात् हे अच्युत। पुनश्च कथञ्चिद्दिनान्ते कुटिलाः कुन्तलाः केशा यस्मिस्तत् श्रीमत् शोभातिशययुक्त ते तव मुख उदीक्षता उच्चैरीक्षमाणाना तेषा दृशा पक्ष्मकृत् ब्रह्मा जडो मन्द एवेति सम्मतो भवति। एव निमेषमात्रमप्यन्तरमसह्यमिति दर्शनसुखमुक्तम्॥१५॥
यस्मादेव तस्मात् हे अच्युत अखण्डानन्दस्वरूप। वयमपि पतीन् सुतान् अन्वयान् तत्सम्बन्धिनो भ्रातृृन् बान्धवाश्चातिविलङ्घ्य अनादृत्य त्यक्त्वा तेऽन्तिक त्वत्समीपमागताः। आगमने हेत्वन्तरमाहुः—गतिविदो गीतगति जानतस्तवोद्गीतेन उच्चैर्गीतेन मोहिताः कितघयोषित पत्यादिवञ्चनेन आगता योषितो रात्रौ निशि त्वामात्माराम विना को वाऽन्यस्त्यजेत्? न कोऽपि इत्यर्थः॥१६॥ ‘अतस्त्वया त्यक्तानामस्माक प्राक्तनत्वद्दर्शननिदानस्य हृद्रोगस्य त्वत्सङ्गत्या त्वमेव चिकित्सा कुरु’ इत्याद्गुः—रहसीति द्वयेन। तव रहसि एकान्ते सविद साङ्केत्यचेष्टित, तद्विशिषन्ति—हृच्छयस्य कामस्य उदयो यस्मात् तत्। प्रहसितमानन च प्रेम्णा वीक्षण च श्रियो लक्ष्याःधाम स्थानभूतं बृहद्विशालमुरो वक्षश्च वीक्ष्य त्वत्सम्बन्धे अतिस्पृहा भवति। तथा मुहुः पुनःपुनश्च मनो मुह्यते मोह प्राप्नोति॥१७॥ स्वाभेद सूचयन्त्यःसम्बोधयन्ति—अङ्गेति। तव व्यक्तिःअभिव्यक्तिरवतारो व्रजस्य
पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागता॥ गतिविदस्तवोद्गीतमोहिता कितवयोषित
कस्त्यजेन्निशि॥१६॥ रहसि सविद हृच्छयोदय प्रहसितानन प्रेमवीक्षणम्॥बृहदुर श्रियो वीक्ष्य
धाम ते मुहुरतिस्पृहा मुह्यते मन॥१७॥ ब्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यल विश्वमङ्गलम्॥
त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम्॥१८॥ यत्ते सुजातचरणाम्बुरुह स्तनेषु भीता
शनैःप्रिय दधीमहि कर्कशेषु॥ तेनाटवीमटसि तद्व्यथते न कि स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां न
॥१९॥ इति श्रीम० महा० दशम० पूर्वार्धे तामसनिरो० गोपीगीतनिरूपण नामैकत्रिंशोध्याय॥३१॥
व्रजवासिजनस्य वनौकसा मुनीना च वृजिनहन्त्री पापनिरसनी, दुःखनिरसनी वा। तथा अलमतिशयेन विश्वस्य मङ्गल मङ्गलावहा च॥ अतस्त्वत्स्पृहात्मना त्वत्सम्बन्धस्पृहारूढमनसा नोऽस्माक स्वजनाना हद्रुजा हृदयरोगाणा कामादिरूपाणा यन्निषूदन विनाशक त्वत्सम्बन्धरूपमौषध तन्मनाक् ईषदपि त्यज देहीत्यन्वयः॥१८॥ अतिप्रेमधर्षिता रुदन्त्य आहु—यदिति। हे प्रिय। ते तव यत् सुजात सुकुमार चरणाम्बुज कर्कशेषु कठिनेषु स्तनेषु भीताः सम्मर्दनशङ्किताः सत्यो वय शनैःशनैर्दधीमहि धारयेम, तेन चरणेनाटवीमटसि विचरसि, ‘नयसि’ इति पाठे तु अटवीं प्रतिकाचिदन्या वा आत्मानमेव वा नयसि तदा तत् पदाब्ज कृर्पादिभिस्तीक्ष्णसूक्ष्मपाषाणादिभिः कि खिन्न व्यथते कथ तु नाम न व्यथते इति नोऽस्माक धीर्भ्रमति चाञ्चल्य गच्छति। तत्र हेतुमाह—भवदायुषामिति। भवानेवायुर्जीवन यासा तासामित्यर्थः॥१९॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥रचिता दशमे तत्र तामसरोधवर्णने॥ एकत्रिशो गतो वृत्ति गोपीगीतनिरूपकः॥३॥ ॥छ॥ ॥छ॥
द्वात्रिशे गतशोकाभिर्गोपीभिर्यमुनातटे॥ प्रादुर्भूतस्य कृष्णस्य सवादो विनिरूप्यते॥१॥ “नहि साधनसम्पत्त्या हरिस्तुष्यति कस्यचित्॥ भक्ताना दैन्यमेवैक हरितोषणकारणम्” इति सिद्धान्तात् अन्वेषणादिसाधनसम्पत्त्या तदप्राप्ति निरूप्य इदानीं तत्सन्तोषहेतु गोपीना दैन्य निरूपयति—इतीति। हे राजन्! कृष्णदर्शने लालसा अतिस्पृहा यासा ता गोप्य इत्येवमुक्तप्रकारेण चित्रधा अनेकप्रकारेण प्रगायन्त्यः प्रलपन्त्यः वदन्त्यश्च सुखर यथा भवति तथा उच्चैरुरुदुरित्यन्वयः॥१॥ एव दैन्येन सन्तुष्टो भगवान् प्रादुरभूदित्याहुः—तासामिति। तासा रुदन्तीना मध्य एव शौरि कृष्णः आविरभत्217। त वर्णयति—स्मयमान प्रहसत् मुखाम्बुज यस्य स पीताम्बरधरः स्रग्वी मालाधारी, साक्षान्मन्मथमन्मथः जगन्मोहकस्य कामस्यापि मोह-
॥श्रीशुक उवाच॥
इति218 गोप्य प्रगायन्त्यः प्रलपन्त्यश्व चित्रधा॥ रुरुदु सुस्वर राजन् कृष्णदर्शनलालसा॥१॥
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुज॥ पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः॥२॥
त विलोक्यागत प्रेष्ठ प्रीत्युत्फुल्लदृशोऽबलाः॥ उत्तस्थुर्युगपत् सर्वास्तन्वः प्राणमिवाऽऽगतम्॥३॥
काचित्219 कराम्बुज शौरेर्जगृहेऽञ्जलिना मुदा॥ काचिद्दधार तद्बाहुमंसे चन्दनभू220षितम्॥४॥
कस्वरूपधरः॥२॥ तमागत कृष्ण विलोक्य प्रीत्या उत्फुल्लदृशो विकसितनेत्राणि यासा ताः अबलाःगोप्यःसर्वा युगपदेव उत्तस्थुः। तत्र दृष्टान्तमाह—तन्वइति। यथा प्राणविना तन्वः तनवः करचरणादयो मूर्च्छिताः निश्चेष्टाश्च भवन्ति पुनस्तत्प्राप्तौ सचेष्टाः सन्त्यःस्वव्यापारे प्रवर्तन्ते तथा गोप्योऽपि कृष्णविना मूर्च्छिता आसन्, पुनस्त दृष्ट्वा सव्यापारा जाता इत्यर्थ। तस्य प्राणतुल्यत्वमाह—प्रेष्ठमिति॥३॥ उत्थिताना तासा पृथग्व्यापारानाह—क्वचिदिति। काचिद्गोपी मुदा हर्षेण अञ्जलिना सहतहस्तद्वयेन शौरेः कृष्णस्य कराम्बुज जग्राह। काचित्तु चन्दनेन भूषितं ‘रुषितम्’ इति पाठान्तरम्, लिप्तं तस्य बाहुमात्मनोऽसे स्कन्धे दधार॥४॥
काचित्तन्वी योषित् अञ्जलिना तस्य ताम्बूलचर्वितमगृह्णात्। एका तु तद्विरहेण सन्तप्ता सती तस्याङ्घ्रिकमल कमलवत्सुकुमार तापनाशक चािङ्घ्रिस्वस्तनयोरधात्॥५॥ एका तु भृकुटि कुवमाबध्य कुटिलीकृत्य प्रेमसरम्भेण प्रणयकोपावेशेन विह्वला, अतएव सन्दष्टो दशनच्छद अधरोष्ठो यया सा, कटाः कटाक्षास्तेषामाक्षेपैः सम्पातैः घ्नन्तीव ताडयन्तीव ऐक्षत॥६॥ अपरा तु अनिमिषन्तीभ्या दृग्भ्यामापीतमपि सम्यग्दृष्टमपि पुनः पुनर्जुषाणा जुषमाणा सेवमानापि नातृप्यत्। तत्र दृष्टान्तमाह—सन्त इति। तस्य चरणाम्बुजं पुनःपुनः सेवमाना अपि सन्तस्तद्भक्ता यथा न तृप्यन्ति अलप्रत्यय न कुर्वन्ति तथेत्यर्थः॥७॥ काचित्तु नेत्ररन्ध्रेण त कृष्ण हृदि कृत्य निधायोपगुह्यालिङ्ग्य नेत्रे निमील्य च पुलकानि रोमाञ्चितानि अङ्गानि यस्याः सा आनन्दव्याप्ता आनन्देन सम्प्लुता व्याप्ता योगीवाऽऽस्ते स्मेत्यन्वयः॥८॥ ताः सर्वा गोप्यः केशवस्यालोकन दर्शनमेव परम उत्सवस्तेन
काचिदञ्जलिनाऽगृह्णात्तन्वी ताम्बूलचर्वितम्॥ एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात्॥५॥
एका भृकुटिमाबध्य प्रेमसरम्भविह्वला॥ घ्नन्तीवैक्षत् कटाक्षेपैःसन्दष्टदशनच्छदा॥६॥
अपराऽनिमिषदृृग्भ्यां जुषाणा तन्मुखाम्बुजम्॥आपीतमपि नातृप्यत् सन्तस्तच्चरण यथा॥७॥
त काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च॥ पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता॥८॥
सर्वास्ताःकेशवलोकपरमोत्सवनिर्वृताः॥ जहुर्विरहज ताप प्राज्ञ प्राप्य यथा जनाः॥९॥
ताभिर्विधूतशोकाभिर्भगवानच्युतो वृत॥ व्यरोचताधिक तात पुरुष शक्तिभिर्यथा॥१०॥
निर्वृताः आनन्दिताः, अतस्तद्विरहज ताप जहुः। तत्र दृष्टान्तमाह—प्राज्ञ परमात्मान प्राप्य साक्षात्कृत्य यथा योगिजनाः। यद्वा प्राज्ञेनात्मना सम्परिष्वक्तो “न बाह्य किञ्चन वेदनान्तरम्” इति श्रुतेःप्राज्ञ सौषुप्त प्राप्य तदेकीभूय विश्वतैजसाद्यवस्थापन्ना जनाः यथा अध्यात्मिकादितापत्रय जहति तद्वदित्यर्थः॥९॥ विश्वासार्थ प्रेम सूचयन् सम्बोधयति— हे तातेति। विधूतशोकाभिस्तद्दर्शनस्पर्शादिना निवृत्ततद्विरहजन्यशोकाभिस्ताभिर्गोपीभिर्वृतः अच्युतः, तत्र हेतुः—भगवान् ज्ञानवैराग्यादिगुणपूर्णः कृष्णःअधिक व्यरोचत। तत्र दृष्टान्तमाह–परमपुरुषः शक्तिभि मूर्तिमतीभिर्विमलादिभिः परिवृतो यथा विरोचते तथेति॥१०॥
उक्तमेव स्पष्टयति—ता इति। विभु सर्वमनोरथे समर्थः श्रीकृष्णस्ता गोपी समादाय कालिन्द्याः पुलिनमाविश्य ताभिः परिवृतो व्यरोचतेति पूर्वेणैवान्वयः। पुलिन विशिनष्टि—विकसाद्धिःकुन्दैर्मन्दारैश्च सुरभिर्यो मन्दानिलस्तस्मात् षट्पदा भ्रमराःयस्मिन् तत्॥११॥ शरत्कालीनो यो निर्मलश्चन्द्रस्तस्याशुना किरणाना सन्दोहैः समूहैर्ध्वस्त दोषाया रात्रेस्तमो यस्मिन् तत्, अतएव शिव सुखकरम्, कृष्णाया यमुनाया हस्ततुल्यैस्तरलैस्तरङ्गैराचिता आस्तृता कोमला वालुका यस्मिस्तत्॥१२॥ तस्य भगवतो दर्शनेन य आह्लादस्तेन विधृता निरस्ता हद्रुजः तद्विश्लेषजा मन पीडा यासा ता गोप्यो मनोरथस्यान्त पर्यवसान ययुः पूर्णमनोरथा जाता इत्यर्थः। तत्र दृष्टान्तमाह—श्रुतयो यथेति। श्रुतयो यथा कर्मकाण्डे तत्तत्काम्यकर्म प्रतिपादयन्त्यः पूर्णाः, ज्ञानकाण्डे त्वीश्वर प्रतिपाद्य पूर्णमनोरथा भवन्ति तथेति। ‘तथाविधास्तमभजन्’ इत्याह—स्वैरिति। आत्मना जीवाना बन्धवे पर मोपकारिणे कृष्णाय रोदनाश्रुक्षालितै कुचकुङ्कुमैरङ्कितैः स्वकीयैरुत्तरीयवस्त्रैरासनमचीक्लपन रचयामासुः।
ताःसमादाय कालिन्द्या निर्विश्य पुलिन विभुः॥ विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम्॥११॥ शरच्चन्द्रांशुसन्दोहध्वस्तदोषातम शिवम्॥ कृष्णाया हस्ततरलाचितकोमलवालुकम्॥१२॥ तद्दर्शनाह्लादविधूतहृद्रुजोमनोरथान्त श्रुतयो यथा ययु॥ स्वैरुत्तरीयै कुचकुङ्कुमाङ्कितैरचीक्ल पन्नासनमात्मबन्धवे॥१२॥ तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हदिकल्पितासनः॥ चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपद वपुर्दधत्॥१४॥ सभाजयित्वा तमनङ्गदीपन सहासलीलेक्षणविभ्रमभ्रुवा॥ सस्पर्शनेनाङ्ककृताहस्तो सस्तुत्य ईषत्कुपिता बभाषिरे॥१५॥
॥१३॥ भगवतो भक्तवात्सल्यमाह—तत्रेति। योगेश्वराणा सिद्धयोगानामन्तर्हृदि हृदयकमलमध्ये कल्पितमासन यस्य। तत्र हेतुः—ईश्वरो सर्वनियन्ता। तत्रापि हेतुः—भगवान् ऐश्वर्यादिपूर्णः। एवभूतोऽपि त्रैलोक्ये या लक्ष्मीःशोभा तस्या एकमेव पदमाश्रयभूत वपुर्दधत् बिभ्राणः सः श्रीकृष्णस्तत्र गोपीकुचकुङ्कुमाङ्कितोत्तरीयकल्पितासने उपविष्टः गोपीना परिषद्द्रतः सभागतस्ताभिः सभाजित सम्मानितश्च सवकास शुशुभे इत्यन्वयः॥१४॥ ‘तत्र वने केन साधनेन सम्माननम्? इत्यपेक्षायामाह—सभाजयित्वेति। सहासलीलेक्षणेन विभ्रमो विलासो यस्या तया भ्रुवा त कृष्ण सभाजयित्वा अनुरञ्ज्यअङ्कङ्कृतौं स्वोरौ स्थापितौ यौ भगवतोङ्घ्रिहस्तौतयोः सस्पर्शनेन सम्मर्दनेन निमित्तेन सस्तुत्य ‘अहो शैत्यमहो सौकुमार्यम्’ इत्यादिस्तुति कृत्वा बभाषिरे। सम्मानने हेतुमाह—अनङ्गवर्धनमिति। सम्भोगप्रदत्वादित्यर्थ॥ भाषणे हेतुमाह—ईषत्कुपिता इति। तदन्तर्धानेन किञ्चित्कोपयुक्ता इत्यर्थ॥१५॥
तत्र भगवतो कृतज्ञता तद्वचनेनैवापादयितुकामा गूढाभिप्राया लोकवृत्तान्तमिव पृच्छन्ति—भजत इति। भो हे कृष्ण’ एके जना भजतोऽनुवर्तमानान् भजन्ति अनुवर्तन्ते। एके त्वेतद्विपर्यय कुर्वन्ति अभजतोऽपि भजन्तीत्यर्थः। अन्ये तूभयान् भजतः अभजतश्च न भजन्ति। एतत् भ221जता गुणदोषफलादिक सर्व साधु सम्यक् यथा भवति तथा नोऽस्मान् प्रति ब्रूहीत्यन्वयः॥१६॥ ए222व पृष्टो भगवानुत्तरमाह—मिथ इति। स्नेहेन सम्बोधयति—हे सख्य इति। ये मिथो भजन्ति परस्परमुपकुर्वन्तोऽनुवर्तन्ते ते हि यस्मात् स्वार्थे स्वप्रयोजन एव एकान्तो नियत उद्यमो येषा तथाभूताः, अतस्तेषा तत् भजन स्वार्थार्थ स्वप्रयोजनार्थमेव। नान्यथा न परार्थम्॥ अतस्तत्र भजने तत्फल सौहृद प्रेम, धर्मो बा नोत्पद्यते इत्यर्थः॥१७॥ ये वै अभ223जतो भजन्ति ते करुणाः कृपालवः। करुणा तेषा भजने परोपकारे प्रवर्तिकेत्यर्थः॥ तत्र दृष्टान्तमाह—मातापितरौ यथा कृपया पुत्रान् भजतःतथेति। हे सुमध्यमाः। अत्र निरपेक्षभजने निरपवादो निर्बाधो धर्मो भवति। धर्मोत्पत्तौ विवादो नास्तीत्यर्थः ॥ सौहृद स्नेहश्रोत्पद्यते इत्यर्थः॥१९॥
गोप्य ऊचुः॥ भजतोऽनुभजन्त्येक एक एतद्विपर्ययम्॥ नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भो
॥१६॥ श्रीभगवानुवाच॥ मिथो भजन्ति ये सख्य स्वार्थैकान्तोद्यमा हि ते॥ न तत्र सौहृद धर्मः
स्वार्थार्थं तद्धि नान्यथा॥१७॥ भजन्त्यभजतो ये वै करुणाः पितरो यथा॥ धर्मो निरपवादोऽत्र
सौहृदं च सुमध्यमाः॥१८॥ भजतोऽपि न वै केचिद्भजन्त्यभजत कुतः॥ आत्मारामा ह्याप्तकामा
अकृतज्ञा गुरुद्रुहः॥१९॥ नाह तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये॥ यथा-
ऽधनो लब्धधने विनष्टे तच्चिन्तयाऽन्यन्निभृतो न वेद॥२०॥
केचित्तु224 भजतोपि न भजन्ति, अभजतस्तु कुतो भजेयुः?। ते हि चतुर्विधा—एके आत्मारामा. बहिर्दर्शनः,रहिता, केचिदात्तकामा विषयदर्शने सत्यपि पूर्णकामत्वेन परभजनप्रवृत्तिरहिताः, अन्ये चाकृतज्ञाः परकृतोपकारानुसन्धानरहिताः मूर्खाः, केचित्तु गुरुद्रुहः निपुणाः, परोपकारानुसन्धानवन्तोऽपि पुष्टचित्तत्वात् य स्वोपकार करोति स गुरुतुल्यःपूज्य एव तदप्रत्युपकारेण तद्द्रोहमेव कुर्वन्तीत्यर्थः॥१९॥ एव भगवद्वचन श्रुत्वा” न चायमात्मारामः, बहिर्दर्शनसत्त्वात्। न चायमाप्तकामः, गानेनास्मदाह्वानस्य कृतत्वात्। न चायमकृतज्ञः, चतुरशिरोमणित्वात्। अतो भजन्तीनामस्माकमुपेक्षको गुरुद्रोह्येवायमित्येतद्वचनादेव सिद्धम् " इत्यभिप्रायेणाक्षिसङ्कोचैः परस्पर गूढस्मितमुखीस्ता दृष्ट्वाह—नाहमिति। हे सख्यः! अह तु भजतोऽपि जन्तून् न
भजामि प्रत्यक्षतो निरन्तर नानुवर्त इत्यर्थः। ‘तर्हि गुरुद्रोह्येव त्वम्’ इति चेन्न, मच्चिन्तनस्य परमपुरुषार्थहेतुत्वात् तदर्थान्तर्धानेन ‘परमकारुणिकः परमसुहृच्चाहम्’ इत्याह—अमीषामिति। मा भजता जन्तूनामनुवृत्तेरनुवर्तनस्य ध्यानरूपस्यानुवृत्तये अविच्छेदाय न तान् भजामीत्यन्वयः। एतदेव दृष्टान्तेन स्पष्टयति—यथेति। यथा अधनो निर्धनः पुमान् कदाचिल्लब्धधने विनष्टे सति तस्य धनस्य चिन्तया निभृतो व्याप्त·अन्यत् न वेद क्षुत्पिपासादिकमपि न जानाति, तथा मद्भक्तोऽपि कदाचिन्मा प्रत्यक्षतो दृष्ट्वा पुनर्मय्यन्तर्हिते सति मच्चिन्तया व्याप्तोऽन्यद्देहादिकमपि नानुसन्धत्ते इत्यर्थः॥२०॥ आत्मनः कृतज्ञतामाविष्कुर्वन्नुक्त कारुणिकत्वमेव स्पष्टयति—एवमिति। ‘अबलाना प्रियाणा द्रोहो न युक्त ‘इत्याशयेन सम्बोधयति—हे अबलाः ‘हे प्रियाः’ इति च। मदर्थ मत्प्राप्त्यर्थमुज्झिताः त्यक्ता·लोकाः युक्तायुक्तप्रतीक्षणात्, वेदा·धर्माधर्मानवेक्षणात, स्वा·ज्ञातयः तत्स्नेहपरित्यागात्, याभिस्तासा वो युष्माकमप्यनुवृत्तये परोक्ष यथा भवति तथा भजतामुपकुर्वता मया तिरोहित तत्तस्मात् मा मामसूयितु दोषदृष्ट्या द्रष्टु नार्हथ न योग्या स्थेत्यन्वय·। ‘प्रियाणा प्रिये दोषदर्शन न युक्तम्, इत्याशयेनाह—प्रियमिति।’ युष्माक मम प्रियत्वे तु न सन्देह’ इति सूचयति—हीति।
एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तयेऽबला·॥ मयापरोक्ष भजता तिरोहित माऽसूयितु मार्हथ तत्प्रियं प्रिया·॥२१॥ न पारयेऽहं निरवद्यसयुजां स्वसाधुकृत्य विबुधायुषाऽपि व·॥ या माऽभजन्
दुर्जरहशृङ्खलाः संवृश्च्यत· तद्धःप्रतियातु साधुना॥२२॥ इति श्रीमद्भागवते महापुराणे दशम-
स्कन्धे तामसनिरोधनिरूपणप्रकरणे गोपीसम्माननिरूपणं नाम द्वात्रिंशोऽध्याय·॥३२॥ ॥छ॥
॥२१॥ एवमुक्तेऽपि तासा सन्तोषमदृष्ट्वाऽऽह—नेति। निरवद्यसंयुजा निरवद्या निष्कपटा संयुक् सयोगो भजन यासा तासां वो युष्माक स्वसाधुकृत्यं न पारये स्वीयसाधुकृत्येन प्रत्युपकार कर्तुमह विबुधायुषापि न शक्नोमि। ‘कुत’ इत्यपेक्षाया ’ मच्चित्तस्य बहुषु प्रेमयुक्ततयाऽनेकनिष्ठत्वात् युष्मच्चित्तस्य मदेकनिष्ठत्वात् ’ इत्याशयेनाह—या भवत्यो दुर्जरा अजरा या गेहरूपाः शृङ्खलास्ताः सवृश्च्यनि.शेष छित्वा मा मा अभजन् तासामिति। तस्माद्वो युष्माकमेव साधुना साधुकृत्येन तत् युष्मत्साधुकृत्यं प्रतियातु प्रतिकृत भवत्वित्यर्थः। युष्मत्सौशील्येनैव ममानृण्यम्, न तु मत्कृतप्रत्युपकारेणेत्याशय·॥२२॥ इति श्रीवल्लभाचार्य—वश्यगोपालसुनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गरिधराख्येन भजनानन्द सिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने। द्वात्रिशोऽपि गतो गोपीसन्मानननिरूपकः॥३॥
त्रयस्त्रिशे प्रहृष्टाभिः सन्तुष्टाभि·स्ववाक्यत॥ गोपीभि सह कृष्णस्य रासलीला निरूप्यते॥१॥ इत्थ भगवतःसुपेशला. मनोहरा वाचःश्रुत्वा तस्याङ्गैः करचरणाद्यवयवैः स्पृष्टै उपचिताः समृद्धाः आशिषो मनोरथा यासा ता गोप्यस्तद्विरहज ताप जहुरित्यन्वयः॥१॥ तत्र यमुनापुलिने स्त्रीरत्नैः उत्तमस्त्रीभिर्गोपीभिरन्वितो गोविन्दो रासक्रीडा रसस्याऽऽनन्दस्याभिव्यक्तियस्मात् स रासः बहुनर्तकीयुक्तो नृत्यविशेषस्ता क्रीडामारभतेत्यन्वयः। रसोत्पादनयोग्यता सूचयन्नाह—स्त्रीरत्नैरिति। ‘तथाप्यननुकूलाश्चेत् कथ रसोत्पत्तिः?” इत्याशङ्क्याह—अनुव्रतैरिति। स्ववशवर्तिभिरित्यर्थ। तत्र हेतुमाह—प्रीतैरिति। तासामपि तत्रोत्साह द्योतयन्नाह—अन्योन्यमाबद्धाः सङ्गृहीता बाहवःयैस्तैरिति॥२॥ तदेवाभिनयेन दर्शयति-
॥श्रीशुक उवाच॥
इत्थ भगवतो गोप्य· श्रुत्वा वाच·सुपेशला·॥ जहुर्विरहज ताप तदङ्गोपचिताशिष॥१॥ तत्राऽऽर-
भत गोविन्दो रासक्रीडामनुब्रतै·॥ स्त्रीरत्नैरन्वित प्रीतैरन्योन्याबद्धबाहुभिः॥२॥ रासोत्सव·सम्प्रवृत्तो
गोपीमण्डलमण्डित·॥ योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयो·॥प्रविष्टेन गृहीतानां कण्ठे स्वनिकट
स्त्रियः॥३॥ य मन्येरन्नभस्तावद्विमानशतसङ्कुलम्॥दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम्॥४॥
रासोत्सव इत्याद्यक्षरचतुष्टयाधिकेन सार्द्धेन।तासा मण्डलरूपेणावस्थिताना द्वयोर्द्वयोर्मध्ये एकैकरूपेण प्रविष्टेन कृष्णेन कण्ठे गृहीतानामालिङ्गिताना गोपीना मण्डलैर्मण्डितः शोभमानो रासोत्सवः सम्प्रवृत्त इत्यन्वय। ‘एव तस्य बहुरूपदर्शने रसाभासः स्यात्’ इत्याशङ्क्याह—यमिति। य कृष्ण सर्वा. स्त्रियः स्वस्वनिकटस्थ मामेवासावाश्लिष्टवानिति मन्येरस्तेन। ननु ‘एकस्य कथ तथा प्रवेशः?सर्वसन्निहितत्वे वा कुतः स्वैकनिकटत्वाभिमास्तासाम्?इत्याशङ्क्याह—योगेश्वरेणेति। योगः अचिन्यशक्तिर्माया तस्या ईश्वरेण नियन्त्रा। तन्मायामोहेन तासा तथाभिमान इत्याशयः॥३॥ यदा रासोत्सव·सम्प्रवृत्तस्तावत् तत्क्षणमेव तद्दर्शनौत्सुक्येन व्याकुलमनसा सस्त्रीकाणा देवाना विमानशतैर्नभ· सङ्कुल सङ्कीर्ण बभूवेत्यन्वयः॥४॥
———————————————————————————————————————————————————————
त्रिंशत्तमे हरि प्रीता लीला कामकृतामपि। इद्रादिदुर्लभा चक्रेस्थानार्थमितीयते॥१॥ अस्या सर्वोपकाराय फलश्रुतिरुदीर्यते। लोकिक्यपि यदा दृष्टिस्तदा सिद्धाईर्यते॥२॥ रसात्मकस्तु य काम सोत्यत गूढ एव हि॥ अत शास्त्र प्रवृत्त हि तृतीयमान्तर तथा॥३॥अतोत्र भगवाश्चक्रेनृत्य कारितवास्तथा॥सर्वागेषु तु यो लीनस यथा व्यक्तता व्रजेत्॥४॥ जल वायुश्च सामग्री भूरग्निश्चप्रजायते॥अत्रैव लोके प्रकप्माधिदैविकमुत्तमम॥१॥कामाख्य सुखमुत्कृष्ट कृष्णो भुक्ते न चापर·इति सुबोधिनीकारिकाः।
ततस्तदा रासारम्भे देवैर्वादिता दुन्दुभयो नेदुः तैः कृताः पुष्पवृष्टयश्च पेतु·। ‘नानाविधाना पुष्पाणां भिन्ना भिन्ना बहुशो वृष्टिर्जाता’ इति ज्ञापयितु बहुवचनम्। सस्त्रीकाः स्त्रीभि सहिताः गन्धर्वपतय·भगवत्समाजे साधारणगन्धर्वगानस्य रसविशेषाजनकत्वात्तत्र योग्या विश्वावसुप्रभृतयो गन्धर्वश्रेष्ठास्तस्य भगवतः अमल श्रोत्रादिजनाना सकलमलनिवर्तक यशो जगुरित्यन्वयः॥५॥ एव बाह्यगीतवाद्यादिकमुक्त्वा नृत्यमध्ये एव रसोपयोगिवादित्राण्याह—वलयानामिति। सप्रियाणा कृष्णसहिताना योषिता गोपीना ये वलयादयः तेषा तुमुल. सङ्कीर्णः शब्दो रासमण्डले अभूत्। वलयानि हस्तभूषणानि। नूपुराणि पादभूषणानि। किङ्किण्यः कटिभूषणानि॥६॥ तत्र रासमण्डले हैमाना सुवर्णरचिताना मणीना द्वयोर्द्वयोर्मध्ये महामरकतो नीलमणिरचितादिभि स्वर्णवर्णाभिः श्यामस्वरूपो भगवान् देवकीसुतः अतीव शुशुभे। यद्वागोपीदृष्ट्यभिप्रायेण मध्यपदावृत्ति विनैवैकवचनम्॥७॥ ‘यथा ताभिर्भगवानतिशुशुभे तथा तेन ता अपि विरेजुः इत्याह—पादन्यासैरिति। पादन्यासैः पादविक्षेपैः, भुजविधुतिभिः
ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टय·॥ जगुर्गन्धर्वपतय सस्त्रीकास्तद्यशोऽमलम्॥५॥
वलयानां नूपुराणां किङ्किणीनां च योषिताम्॥ सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले॥६॥
तत्रापि शुशुभे ताभिर्भगवान् देवकीसुत·॥ मध्ये मणीनां हैमानां महामरकतो यथा॥७॥
पादन्यासैर्भुजविधुतिभि·सस्मितैर्भ्रूविलासैर्भज्यन्मध्यैंश्चलकुचपटैकुण्डलैर्गण्डलोलै·॥ स्विद्यन्मुख्य
कबररशनाग्रन्थयः कृष्णवध्वो गायन्त्यस्त तडित इव ता मेघचक्रे विरेजुः॥८॥ उच्चैर्जगुर्नृत्यमाना
रक्तकण्ठ्यो रतिप्रियाः॥ कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम्॥९॥
करचालनैः, स्मितेन सहितैः भ्रुवा विलासैश्च, भज्यद्भिर्भज्यमानैर्मध्ये·कटिभागैः, चलैः कुचै. पटैश्व, गण्डेषु लोलैश्चञ्चलै· कुण्डलैश्चोपलक्षिता·स्विद्यन्मुख्यः स्विद्यन्ति स्वेदमुद्गिरन्ति मुखानि यासा ताः। कबरेषु कचेषु रशनासु च दृढा ग्रन्थयो यासा ताः। यद्वा तेषु तासु च अग्रन्थयो निर्मुक्तग्रन्थयो गायन्त्यस्ताः कृष्णवध्वः कृष्णप्रिया गोप्यो मेघचक्रे मेघसमूहे तडित इव विरेजुः। तत्र बहुरूपधरः कृष्णो मेघचक्रमिव, तास्तु बहुविधास्तडित इव, स्वेदस्तुषार इव, गीत गर्जितमिवेति यथासम्भवमूह्यम्॥८॥ नृत्यमानाः नृत्यन्त्यस्ता उच्चैर्जगुः। तद्गीतस्याद्भुतत्व सूचयन्नाह—रक्तकण्ठ्य इति। नानारागैनुरञ्जितकण्ठ्य इति। गाने हेतुमाह—कृष्णस्याभिमर्शेन सस्पर्शेन मुदिता इति। पुनश्च तस्य रतिः प्रीतिरेव प्रिया यासा ता इति। तत्प्रीत्यर्थ जगुरित्याशयः। तद्वानस्योच्चत्वमाह—येन गीतेनेद विश्वमावृत व्याप्तमासीदिति। यद्वा तद्गीतस्य प्रसिद्धत्वमाह—यद्गीतेन लोकनिबद्धगाथादिना इदानीमपि विश्वमावृतमस्ति इति॥९॥
काचिद्गोपी मुकुन्देन कृष्णेन सम सह अमिश्रिता कृष्णोन्नीताभिरसङ्कीर्णा. स्वरजाती. उन्नीतवती तदा प्रीयता प्रीयमाणेन तेन कृष्णेन ‘साधु साधु इति वचनेन सा पूजिता सम्मानिता जाता। तदान्या काचिद्गोपी तदेव जात्युन्नयनमेव ध्रुव ध्रुवाख्य तालविशेष कृत्वोन्निन्ये, तस्यै गोप्यै पूर्वगोपीतोऽपि कृष्णो मानमादर बहृदात्। गानविद्याया चेय पूर्वतोप्यतिनिपुणा॥ स्वराश्व—” षड्जर्षभौ च गान्धारो मध्यम· पञ्चमस्तथा॥ धैवतश्च निषादश्च सर्वे स्युः श्रुतिसम्भवा·॥ मयूरचातकछागक्रौञ्चकोकिलदर्दुराः॥ मातङ्गश्च क्रमेणाह स्वरानेतान् सुदुर्लभान् “इत्युक्ता ज्ञेयाः। तेषा जातिभेदाश्च बहवो गानशास्त्रतो ज्ञेयाः॥१०॥ एव नृत्यगीतादिना श्रीकृष्णसम्मानिताना तासामतिप्रीतिविलसित वृत्तान्तमाह- काचिदिति। श्लथन्ति हस्ताभ्या वलयानि, शिरसः मल्लिकाकुसुमानि च यस्याः सा। तत्र हेतुमाह—रासेन परिश्रान्तेति। एवभूता काचिद्गोपी स्वपार्श्वस्थस्य गदाभृतः कृष्णस्य स्कन्ध स्वबाहुना
काचित् सम मुकुन्देन स्वरजातीरमिश्रिता॥ उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति॥ तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात्॥१०॥ काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः॥ जग्राह बाहुना स्कन्ध श्लथद्वलयमल्लिका॥११॥ तत्रैकांऽसगतं बाहुं कृष्णस्योत्पलसौरभम्॥ चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह॥१२॥ कस्याश्विन्नाट्याविक्षिप्तकुण्डलत्विषमण्डितम्॥ गण्ड गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम्॥१३॥ नृत्यन्ती गायती काचित् कूजन्नूपुरमेखला॥पार्श्वस्थाच्युतहस्ताब्ज श्रान्ताऽधात् स्तनयो· शिवम्॥१४॥ गोप्यो लब्ध्वाऽच्युतं कान्त श्रिय एकान्तवल्लभम्॥ गृहीतकण्ठ्यस्तद्दोर्भ्या गायन्त्यस्त विजह्निरे॥१५॥
जग्राहेत्यन्वय·॥११॥ तत्र तासा मध्ये एका गोपी असगत स्वस्कन्धे निहितमुत्पलस्य सौरभमिव सौरभं यस्य त चन्दनेनाऽऽलिप्त कृष्णस्य बाहुमाघ्राय हृष्टानि पुलकितानि रोमाणि यस्यास्तथाभूता सती चुचुम्बेत्यन्वय·। तद्भाग्यस्याश्वर्य सूचयति—हेति॥१२॥ नाट्येन नृत्येन विक्षिप्तयोश्चञ्चलयोः कुण्डलयोस्त्विषेण त्विषा मण्डित शोभमानं स्वगण्ड कपोल कृष्णगण्डे सन्दधत्या. संयोजयन्त्याः कस्याश्चिद्गोप्या·कृष्णरताम्बूलचर्वितमदात्॥१३॥ काचित्तु कूजन्ती नूपुरे मेखला च यस्था. सा नृत्यन्ती गायती च अत एव श्रान्ता सती शिव श्रान्तिनिर्वर्तक सुखकर पार्श्वस्थस्याच्युतस्य एव स्त्रीसमूहे स्थितावपि ज्ञानवैराग्यादिगुणच्युतिरहितस्य कृष्णस्य हस्ताब्ज स्वस्तनयोरधात्॥१४॥ श्रियो लक्ष्म्याः एकान्तवल्लभमतिप्रियमच्युत कृष्ण कान्तपति लब्ध्वा तस्य दोर्भ्या गृहीताः कण्ठा यासा ता गोप्यस्तमेव गायन्त्यो यथेष्ट विजहिरे॥१५॥
एव विश्रान्ताना पुनः रासः प्रवृत्तस्तमाह—कर्णेति। कर्णोत्पलैः कर्णावतसैश्च अलकविटङ्कैःअलकालङ्कृतैः कपोलैश्च घर्मैः स्वेदबिन्दुभिः वक्रे श्री शोभा यासा ता·, घोषाः किङ्किण्यः। वलयनूपुरैः तद्धोषैरन्यैश्च वाद्यैर्वादित्रैरुपलक्षितैः स्वकेशेभ्यः स्त्रस्ताः स्रजो यासा ता गोप्य·, भ्रमरा अपि गायकाः यस्या तस्या रासगोष्ठ्या राससभाया भगवता सम सह ननृतुरित्यन्वयः। ‘स्वकेशस्रस्तस्रज’ इत्यनेन तालगतिसन्तुष्टा. केशाः सशिरःकम्पाः पादेषु पुष्पवृष्टिमिवाकुर्वन्निति उत्प्रेक्षितम्॥१६॥ एव यथा गोप्यो नानाविभ्रमैर्भगवता सह विजहुस्तथा रमेशो लक्ष्मीशो भगवान् अपि परिष्वङ्गादिभिर्नानाविलासैर्ब्रजसुन्दरीभिः सह रेम इत्यन्वयः। परिष्वङ्ग आलिङ्गनम्, कराभिमर्शः करेण स्तनोर्वादीना स्पर्शः स्निग्धेक्षण सानुरागावलोकनम् उद्दामविलास हामः। चुम्बनादिभिः परिष्वङ्गादिभिश्व क्रीडन् क्रीडामकुर्वन्नित्यर्थः एव रमणे तस्यापि मोहासक्त्यादिदोषमाशङ्क्य तन्निराकुर्वन् दृष्टान्तमाह— यथेति। स्वप्रतिबिम्बैर्विभ्रम·क्रीडा यस्य सोऽर्भको यथा स्वालङ्कारवस्त्राद्यलङ्कृतै·प्रतिबिम्बै सह रमते तथा भगवानपि स्वीयमेव सर्वकला-
कर्णोत्पलालकविटङ्ककपोलघर्मवक्रश्रियो वलयनूपुरघोषवाद्यै॥ गोप्य· समं भगवता ननृतुः स्वकेशत्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम्॥१६॥ एव परिष्वङ्गकराभिमर्शस्त्रिग्वेक्षणोद्दामविलासहासै॥ रेमे रमेशो व्रजसुन्दरीभिर्यथाऽर्भक·स्वप्रतिबिम्बंविभ्रम॥१७॥ तदङ्गसङ्गप्रमुदाकुलेन्द्रिया·केशान् दुकूल कुचपट्टिका वा॥ नाञ्ज प्रतिव्योदुमल व्रजस्त्रियो विस्रस्तमालाभरणा· कुरूद्वह॥१८॥ कृष्णविक्रीडित वीक्ष्य मुमुहु. खेचरस्त्रिय·॥ कामार्दिता· शशाङ्कश्च सगणो विस्मितोऽभवत्॥१९॥
कौशल सौगन्ध्यलावण्यमाधुर्यादि च तासु सञ्चार्य स्वयमाप्तकामोऽपि तासा स्वभक्ताना मनोरथपूरणाय ताभिः सह रेमे। परन्तु बालस्याज्ञत्वान्मोहोऽपि भवति, भगवतस्तु सर्वज्ञत्वान्न मोहादिरित्यन्वय॥१७॥ ‘तास्तु भगवतो विलासैर्मोहिता बभूवुःइत्याह—कृष्णेति। विश्वासार्थ सम्बोधयतिकुरूद्वहेति। तस्य भगवतोऽङ्गसङ्गेन प्रकृष्टा या मुत् हर्षस्तया आकुलानि अवशानीन्द्रियाणि यासा ता·, अतएव विस्रस्ता माला आभरणानि च यासा ता व्रजस्त्रिय·विश्लथद्बन्धान् केशादीन् अञ्जसा अनुसन्धानपूर्वक प्रतिव्योढु यथापूर्व धर्तु नाल समर्था न बभूवुरित्यर्थः॥१८॥ न केवल व्रजस्त्रिय एव मुमुहुः, किन्तु एव कृष्णविक्रीडित वीक्ष्य कामेनार्दिताः पीडिता·खेचराणा देवाना स्त्रियोपि मुमुहुः। तथा सगण·शुक्राङ्गारकगुर्वादिगणसहित शशाङ्कश्चन्द्रश्च तद्वीक्ष्य विस्मितोऽभवत् आश्चर्य प्राप। अनेन विस्मितेन शशाङ्केन स्वगतौ विस्मृताया तत·प्राक्तना·सर्वेपि ग्रहास्तत्रतत्रैव स्थिता ततश्चातिदीर्घासु रात्रिषु यथासुख विजहुरिति सूचितम्॥१९॥
एव समुदिताना विहारमुक्त्वा पृथग्विहारमाह—कृत्वेति। “कात्यायनि महामाये महायोगिन्यधीश्वरि॥ नन्दगोपसुत देवि पतिं मे कुरु ते नमः इति प्रत्येक ताभिः प्रार्थनात् भगवतापि” याताबला व्रज सिद्धा मयेमा रस्यथ क्षपाः” इति तथैव प्रतिश्रुतत्वात् यावती· यावत्यो गोपयोषितः लीलया अनायासेनैवात्मान तावन्तं तावत्सङ्ख्याक कृत्वा सः सकलशास्त्रतात्पर्यगोचरः सर्वाराध्यो भगवान् ऐश्वर्यादिगुणपरिपूर्णः, अत एवात्मारामोऽपि तासा मनोरथानुसारेण कृपयैव प्रत्येक ताभिः सह रेम इत्यन्वयः॥२०॥ कृपातिशयमेव स्पष्टयति—एव तासामिति। ‘लीलारहस्यश्रवणे त्वमधिकारी सूचयन् सम्बोधयति—अङ्गेति। अतिविहारेण श्रान्ताना तासा गोपीना प्रस्विन्नानि वदनानि स करुणः कृपावान् कृष्णः शन्तमेन निरतिशयसुखकरेण पाणिना प्रेम्णा प्रामृजत् परिमृष्टवान्॥२१॥ ततोऽतिहृष्टाना गोपीना चरितमाह–गोप्य इति। तस्य भगवतः कररुहैर्नखैः स्पर्शेन प्रमोदो
कृत्वा तावन्तमात्मान यावतीर्गोपयोषितः॥ रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया॥२०॥
तासामतिविहारेण श्रान्तानां वदनानि स॥ प्रामृजत् करुण· प्रेम्णा शन्तमेनाङ्ग पाणिना॥२१॥ गोप्य·
स्फुरत्पुरटकुण्डलकुन्तलत्विङ्गण्डश्रिया सुधितहासनिरीक्षणेन॥ मान दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदा·॥२२॥ ताभिर्युत· श्रममपोहितुमङ्गसङ्गघृष्टराज· स कुचकुङ्करञ्जिताया॥ गन्धर्वपालिभिरनुद्रुत आविशद्वा· श्रान्तो गजीभिरिभराडिव भिन्नसेतु·॥२३॥
यासा ताः गोप्यः स्फुरता पुरटस्य सुवर्णस्य कुण्डलाना कुन्तलाना च त्विषा गण्डेषु या श्रीः तया सुधितेन अमृतायितेन हासयुक्तनिरीक्षणेन च ऋषभस्य भर्तुः कृष्णस्य मान विदधत्यः सन्मानं कुर्वन्त्यः पुण्यानि श्रवणकीर्तनादिपराणां पापनिवर्तकानि कृतानि तत्कर्माणि जगुरित्यन्वय.॥२२॥ अथ तस्य ताभि. सह जलक्रीडामाह—ताभिरिति द्वयेन। तासामङ्गसङ्गेन घृष्टा सम्मर्दिता या स्रक् तस्या स्रज·अतएव तासा कुचकुङ्कुमेन रञ्जिताया·सम्बन्धिभिर्गन्धर्वपालिभिः गन्धर्वपाः गन्धर्वपतय इव गायन्तो ये अलयस्तैरनुद्रुतः अनुगतः, विहारेण श्रान्तः श्रममपोहितुमपाकर्तु ताभिर्युतः स कृष्णो वार्जलमाविशत्। तत्र दृष्टान्तमाह—गजीभिरिति। भिन्नसेतु· विदारितवप्र. इभराट् गजश्रेष्ठो यथा गजीभिः सह श्रमनिरासार्थ जल प्रविशति, तथातिक्रान्तलोकमर्यादो भगवानपि ताभि. सह जलमाविशदित्यर्थः॥२३॥
हे अङ्ग राजन्। प्रहसतीभिर्युवतीभिरितस्ततः सर्वत. अलं अतिशयेन परिषिच्यमान· प्रेम्णेक्षितः कुसुमवर्षिभिर्वैमानिकैरीड्यमानः स्तूयमानः स्वय स्वरति· आत्मारामोऽपि गजेन्द्रस्य लीलेव लीला यस्य स भगवानत्राम्भसि रेम इत्यन्वय·॥२४॥ जलस्थलक्रीडे दर्शिते। वनक्रीडा दर्शयति—ततश्चेति। जलक्रीडानन्तर जलस्थलप्रसूनाना गन्धो यस्मिस्तेनानिलेन जुष्टानि व्याप्तानि दिशा तटानि अन्ता यस्मिंस्तस्मिन् यमुनाया उपवने मृगाणा प्रमदानां च गणैरावृतः कृष्णश्चचारेत्यन्वयः। तत्र दृष्टान्तमाह—यथेति। मदधारास्रावो द्विरदो मतगजो यथा करेणुभिर्वृतो वने विचरेत्तथेति॥२५॥ रासक्रीडा निगमयति—एवमिति। एवमुक्तप्रकारेण स कृष्णः शरदि भवा·काव्येषु कथ्यमाना ये रसास्तेषामाश्रयभूतास्ता. सर्वा एव निशाः सिषेवेत्यन्वयः। तासु सर्वास्वैव क्रीडितवानित्यर्थः। तासा रसाश्रयत्वे हेतुमाह—शशाङ्कश्चन्द्रस्तस्याशुभिः किरणैः विराजिता उज्ज्वलीकृता इति। तासु बह्नीषु रात्रिषु रमणे हेतुमाह—अनुरत. प्रीतियुक्तोऽबलागणो यस्मिन्निति। तासा सर्वासा मनोरथपूरणार्थ रेम इत्याशय। ‘तर्हि तासु पुत्राद्युत्पत्तिः स्यात्,
सोऽम्भस्यलं युवतिभि·परिषिच्यमान प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग॥ वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वय स्वरतिरत्र गजेन्द्रलील·॥२४॥ ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटे॥ चचार भृङ्गप्रमदागणावृतो यथा मदच्युद्दिरद· करेणुभि॥२५॥ एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागण·॥सिषेव आत्मन्यवरुद्धसौरत· सर्वा· शरत्काव्यकथारसाश्रया·॥२६॥ राजोवाच॥संस्थापनाय धर्मस्य प्रशमायेतरस्य च॥ अवतीर्णो हि भगवानशेन जगदीश्वर·॥२७॥ स कथ धर्मसेतूनां वक्ता कर्ताऽभिरक्षिता॥प्रतीपमाचरद्रह्मन् परदाराभिमर्शनम्॥२८॥ ॥ ॥ ॥
इत्याशङ्कयाह–आत्मन्येवावरुद्धसौरतश्चरमधातुर्नतु स्खलितो यस्य सः इति कामविजय उक्तः। तत्र सामर्थ्यमाह—सत्यकाम इति। सत्यसङ्कल्प इत्यर्थ।॥२६॥ एव रासलीला श्रुत्वा तत्र विरोधमाशङ्क्य राजा पृच्छति—संस्थापनायेति त्रिभि। धर्मस्य सस्थापनाय इतरस्याधर्मस्य प्रशमाय निरासाय च’ अशेन बलरामेण सह भगवान् कृष्णः अवतीर्ण·। अत्र “धर्मसस्थापनार्थाय सम्भवामि युगे युगे” इत्यादिशास्त्रप्रसिद्धि सूचयति—हीति। धर्मरसूचयति-हीति। धर्मरक्षाया हेतु सामर्थ्य च सूचयन्नाह—जगदीश्वरेति। जगतः पालकत्वात् स्वामित्वानियन्तृत्वाच्चेत्याशय·॥२७॥ सर्वज्ञत्व सूचयन् सम्बोधयति—ब्रह्मन्निति। स कृष्णो धर्मसेतूना धर्ममर्यादानां वक्ता उपदेशेन प्रवर्तकः, कर्ता स्वयमप्यनुष्ठाता, विरोधिनिरसनेनाभितो रक्षिता च सन् परदाराभिमर्शन परस्त्रीसम्भोगात्मक प्रतीप धर्मप्रतिकूलमधर्म कथमाचरत् कृतवान्?॥२८॥
एवं धर्ममर्यादोल्लङ्घनेन निन्दितकर्माचरणमनाप्तकामस्यैव दृष्टम्। यदुपति· कृष्णस्त्वाप्तकामः पूर्णमनोरथः, अतः किमभिप्रायः? केनाभिप्रायेणैतज्जुगुप्सित परदारसम्भोगात्मक निन्दित कर्म कृतवानित्यन्वयः। ‘उक्तेऽर्थे न सन्देह’ इति सूचयति—‘वै’ इति। ‘भगवदुपासनालक्षणव्रतनिष्ठत्वात्तव न किश्चिदविदितम्’ इत्याशयेन सम्बोधयति—हे सुव्रतेति। नोऽस्माक श्रोतॄणा सशयामिम छिन्धि निराकुरु॥२९॥ कैमुत्यन्यायेन भगवति शङ्कित दोष परिहर्तु सामान्यतो महता वृत्तान्तमाह—धर्मव्यतिक्रम इति। ईश्वराणा समर्थाना प्रजापतीन्द्रसोमविश्वामित्रादीना धर्मव्यतिक्रमो धर्ममर्यादोल्लङ्घनसाहसं परदाराभिमर्शनाद्यर्थ हठात्प्रवृत्तिरूप च दृष्टम्, परंतु तेषा दोषाय पापाय न भवति। तत्र हेतुमाह—तेजीयसामिति। अतितेजस्वित्वेन कर्मास्पर्शित्वादित्यर्थ.। तत्र दृष्टान्तमाह—वन्हेरिति। विष्ठादिसर्वममेध्य प्रदहतोऽपि वन्हेर्यथा तद्दोषसम्बन्धोऽपि न भवति तथेत्यर्थः॥३०॥ ननु “यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः” इति न्यायेन श्रेष्ठाचरितत्वात् ‘अन्योऽपि तदाचरेत्’ इत्याशङ्क्याह—नैतदिति। अनीश्वरः कर्मपरवश-
आप्तकामो यदुपति· कृतवान् वै जुगुप्सितम्॥ किमभिप्राय एतं न सशयं छिन्धि सुव्रत॥२९॥
॥श्रीशुक उवाच॥
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम्॥ तेजीयसां न दोषाय वह्ने सर्वभुजो यथा॥३०॥
नैतत् समाचरेज्जातु मनसाऽपि ह्यनीश्वर·॥ विनश्यत्याचरन् मौढ्याद्यथाऽरुद्रोऽब्धिज विषम्॥३१॥
ईश्वराणां वच·सत्य तथैवाऽऽचरित क्वचित्॥ तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत्॥३२॥
स्तेजोहीनो जातु कदाचिदपि एतच्छास्त्रविरुद्ध मनसापि नाचरेत् तच्चिकीर्षामपि न कुर्यादित्यर्थ। विपर्यये बाधकमाह—विनश्यतीति। हि यतो मौठ्यात् अज्ञत्वात् ईश्वरत्वाभिमानमात्राच्छास्त्रविरुद्धमाचरन्ननीश्वरो विनश्यति। तत्र दृष्टान्तमाह—यथेति। अरुद्रो रुद्रव्यतिरिक्त.अनीश्वर.अब्धिज विषभक्षयन् विनश्यति तथेत्यर्थ·। रुद्रस्तु परमेश्वरत्वात् जनोपकाराय भक्षितवान्, न तेन तस्य किमपि वैगुण्य जातमित्याशयः॥३१॥ ‘कथ तर्हि सदाचारस्य प्रामाण्यम्? इत्यपेक्षायामाह—ईश्वराणामिति। ईश्वराणा ज्ञानवैराग्यादिभिस्तेजीयसा वचः आज्ञारूप सत्य प्रमाणम्, तदपि तैस्तात्पर्यवृत्त्योक्त चेत्। अन्यथा परीक्षाद्यर्थमुक्तमश्वत्थामवधमकुर्वतोऽर्जुनस्य गृहपरिवर्तनमकुर्वतीना गोपीना च ईश्वराज्ञोल्लङ्घनदोषप्रसङ्गादिति ज्ञेयम्। तेषामाचरित तु क्वचिदेव किञ्चिदेव तथा प्रमाणमित्यर्थः। ‘किं तदाचरित यत्प्रमाणम्?’ इत्यपेक्षायामाह—तेषामिति। तेषामीश्वराणा यदाचरित स्ववचोयुक्त तात्पर्यवृत्त्योपदेशेनोपदेशात्मकेन स्ववचनेनैवाविरुद्ध बुद्धिमास्तदेव सम्यगादरेणाचरेत्॥३२॥
‘तेजीयसा न दोषाय’ इति यदुक्त तत् स्पष्टयति—कुशलेति। एषामीश्वराणा कुशलानामिति एषामाचरितेन कुशलाचारेणेत्यर्थ.। जनसङ्ग्रहार्थ धर्मानुष्ठानेन इहलोके चकारात् परलोके च अर्थ. फलं सुख न विद्यते नैव भवति, तथा विपर्ययेण अधर्मानुष्ठानेनैषा लोकद्वये अनर्थों दुःखमपि न भवति। तत्र हेतुमाह—निरहङ्कारिणामिति। अनात्मनि देहेन्द्रियादावात्माध्यासरहितानामित्यर्थः। ईश्वरा द्विविधा। तत्रेश्वरावताराणा विरुद्धे प्रवृत्तिर्लीलार्था, ज्ञानवैराग्यवता जीवाना तु प्रारब्धवशादिति ज्ञेयम्। ‘त्वमप्येतज्ज्ञाने समर्थोऽसि इत्याशयेनाह—हे प्रभो इति॥३३॥ कैमुत्यन्यायेन दर्शयति—किमुतेति। यदि ईशितव्याना नियम्याना निरहङ्कारिणा जीवानामपि कुशलाकुशलान्वयो न भवति, तदा तिर्यगादिरूपेण अवस्थितानामखिलाना सत्त्वाना जीवाना ईशितु नियन्तु श्रीकृष्णस्य कुशलाकुशलान्वय·पुण्यपापसम्बन्धो न भवतीति किमिति
कुशलाचरितेनैषामिह स्वार्थो न विद्यते॥ विपर्ययेण चाऽनर्थो निरहकारिणां प्रभो॥३३॥ किमुताखिलसत्त्वाना तिर्यङ्मर्त्यदिवौकसाम्॥ईशितुश्वेशितव्यानां कुशलाकुशलान्वयः॥३४॥ यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधताखिलकर्मबन्धा॥ स्वैर चरन्ति मुनयोऽपि न नह्यमानास्तस्येच्छयात्तवपुषकुत एव बन्धः॥३५॥ गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम्॥योऽन्तश्चरति सोऽध्यक्ष क्रीडनेनेह देहभाक्॥३६॥ अनुग्रहाय भूतानां मानुष देहमास्थितः॥ भजते तादृशी·क्रीडा या· श्रुत्वा तत्परो भवेत्॥३७॥
वक्तव्यमित्यन्वयः॥३४॥ उक्तकैमुत्यन्यायमेव प्रपञ्चयति—यत्पादेति। यस्य भगवतः पादपङ्कजपरागस्य निषेवणेन तृप्ता निवृत्तशब्दादिसमस्तविषयाभिलाषा भक्ताः, तथा योगस्य यत्पादपङ्कजध्यानात्मकस्य प्रभावेण विधुता निवृत्ताः अखिलाः कर्मात्मका बन्धा येषा ते योगिन·, तथा मुनयो ब्रह्मात्म्यैक्यमननशीला ज्ञानिनश्च न नह्यमानाः बन्धनमप्राप्नुवन्तः स्वैर चरन्ति यथेच्छ शास्त्रोल्लङ्घनेनापि कर्म कुर्वन्ति, तस्य स्वेच्छया आत्तवपुषः स्वीकृतदेहस्यैव विहरतोऽपि कुत एव बन्ध कस्मादेव हेतोर्बन्धः स्यात्?॥३५॥ यदुक्त ‘परदाराभिमर्शन धर्मप्रतिकूल कृतवान् ‘इति तत्रोत्तरमाह—गोपीनामिति। गोपीना तासा पतीना च तथा सर्वेषामपि देहिना योऽन्तश्चरति नियन्तृतया वर्तते सोऽध्यक्ष सर्वसाक्षी क्रीडनेन हेतुना इहलोके देहभाक् देह स्वीकृतवानिति न तस्य केनापि भेदो येन तासा परदारत्व स्यादित्याशयः॥ ३६॥ यत्पृष्टम्’ आप्तकामो यदुपति
केनाभिप्रायेण निन्दितमेतत् कृतवान्?” तत्रोत्तरमाह—अनुग्रहाय भूतानामिति। भगवानाप्तकामोपि भूतानि जीवान् अनुगृहीतु यथाकथञ्चित् स्वैकपरान् कृत्वा उद्धर्तुमेव मानुष देहमाश्रितः स्वीकृतवान्, अतस्तादृशीरेव क्रीडा भजते करोति। याः श्रुत्वा तत्परो भवेत् स्वैकपरो निरुद्धो भवेदित्यर्थः॥ यथा कर्माधिकारिण·कर्मसु प्रवर्तयितु कर्मानुष्ठानं कृतवान् तथाच ज्ञानयोगाधिकारिण· प्रति ज्ञानयोगाद्युपदेश कृतवास्तथा शृङ्गाररसाकृष्टचेतसोऽतिबहिर्मुखानपि स्वपरान् कर्तुं रासलीलामपि कृतवानित्याशयः॥३७॥ ननु ‘एवमप्येतदनभिज्ञास्तत्पतयः कृष्णाय किमिति नाभ्यसूयन् तत्राह—नासूयन्निति। खलु अवधारणे। व्रजौकसो गोपीना पतयः कृष्णाय नैवासूयन् दोषबुद्ध्या त नैवापश्यन्। तत्र हेतुमाह—तस्य भगवतो मायया मोहिता इति। मोहमेव स्पष्टयति—स्वान् स्वान् दारान् स्वपार्श्वस्थान् मन्यमाना इति। अनेन लोके यदि केचिद्भष्टाचारास्तदनुयायिनो वा निन्दितं स्वचरितमेवमभिप्रायकमेवेति भगवद्दृष्टान्तेन वदन्ति तदा तद्वचन नाङ्गीकर्तव्यम्, एवविधप्रभावाभावादिति सूचितम्॥३८॥ एव
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया॥ मन्यमाना· स्वपार्श्वस्थान स्वान् स्वान् दारान् व्रजौकस॥३८॥ ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिता·॥ अनिच्छन्त्यो ययुर्गोप्य· स्वगृहान् भगवत्प्रिया॥३९॥ विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनु शृणुयादथ वर्णयेद्यः॥ भक्तिं परां भगवति प्रतिलभ्य काम हृद्रोगमाश्वपहिनोत्यचिरेण धीर·॥४०॥ इति श्रीद्भागवते महापुराणे दशमस्कन्धे तामसनिरोध निरूपणप्रकरणे रासक्रीडानिरूपण नाम त्रयस्त्रिशोऽध्यायः॥३३॥ ॥छ॥॥छ॥॥छ॥ ॥छ॥
प्रासङ्गिकमुक्त्वा प्रकृतमाह—ब्रह्मरात्रे ब्राह्मे मुहूर्ते उपावृत्ते प्राप्ते सति वासुदेवेनानुमोदिता अनुमोदनपूर्वकमाज्ञापिता गोप्यो गन्तुमनिच्छन्त्योऽपि स्वगृहान् प्रतिययुः। अनिच्छाया हेतुमाह—भगवत्प्रिया इति॥३९॥ उक्तरासक्रीडादिफलमाह—विक्रीडितमिति। व्रजवधूभिः साकमिद विष्णो·कृष्णस्य विक्रीडित श्रद्धान्वितो यः पुमान् अनु क्रमेण शृणुयात् अथवा वर्णयेत् श्रावयेत् स तस्मिन् भगवति परामुत्कृष्टा भक्तिं प्रतिलभ्य प्राप्य अचिरेण जीवदशायामेव धीरः जितेन्द्रिय सन् हृद्रोगं हृत्स्थरोगवदनर्थकर काममाशु अपहिनोति निरस्यति। चकारः क्रीडान्तरस्यापि कालान्तरसूचनार्थ·॥४०॥ इति श्रीवल्लभाचार्य-वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाविकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येयं टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ त्रयसिशो गतो वृत्ति रासक्रीडानिरूपक॥३॥
चतुस्त्रिंशे त्वहेर्ग्रासान्नन्दस्य तस्य शापतः॥ शङ्खचूडाच्च गोपीना रक्षण विनिरूप्यते॥१॥ सर्पग्रस्तनन्दविमोचनात्मक भगवतो लीलान्तर सप्रसङ्ग निरूपयति—एकदेति। देवस्य महादेवस्य पूजार्थं यात्रा गमन देवयात्रा, तस्या जात कौतुकमुत्साहो येषा ते गोपाला नन्दादयः अनडुद्भिर्वृषैर्युक्तैरनोभिः शकटैरम्बिकावन मथुरात·पश्चिमदेशे स्थित तीर्थविशेष ययुरित्यन्वयः॥१॥ तत्र वने सरस्वत्या नद्या स्नात्वा हे नृप! ते अर्हणैः पूजासाधनैर्गन्धपूष्पादिभि· पशुपति रुद्रमम्बिका देवीं च भक्त्या आनर्चुः पूजयामासुः। पूजने हेतुमाह—विभुमिति। फलदाने समर्थम्॥ तत्रापि हेतुमाह—देवमिति॥२॥ ‘ततश्च महादेवो नोऽस्माक प्रीयता प्रीतो भवतु इत्यभिप्रायेण आदृता· आदरयुक्ताः सर्वे गोपाः गावः गाः हिरण्यं वासासि मधु मधुर मधुसहितमन्न च ब्राह्मणेभ्यो ददुरित्यन्वयः॥३॥ ततश्च ते महाभागा नन्दादयो जलमात्रं प्राश्य पीत्वा धृतव्रताः गृहीतब्रह्मचर्यादिनियमास्ता
॥श्रीशुक उवाच॥
एकदा देवयात्रायां गोपाला जातकौतुका·॥ अनोभिरनडुद्युक्तै·प्रययुस्तेऽम्बिकावनम्॥१॥
तंत्र स्नात्वा सरस्वत्यां देव पशुपति विभुम्॥ आनर्चुरर्हणैर्भक्त्या देवी च नृप तेऽम्बिकाम्॥२॥
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः॥ ब्राह्मणेभ्यो ददु·सर्वे देवो न· प्रीयतामिति॥३॥
ऊषु. सरस्वतीतीरे जल प्राश्य धृतव्रताः॥ रजनी तां महाभागा नन्दसुनन्द225कादय·॥४॥
कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षितः। यदृच्छयाऽऽगतो नन्द शयानमुरगोऽग्रसीत्॥५॥
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्॥ सर्पो मां ग्रसते तात प्रपन्नं परिमोचय॥६॥
तस्य चाक्रन्दितं श्रुत्वा गोपाला·सहसोत्थिता॥ ग्रस्त च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकै·॥७॥
रजनीं तत्र सरस्वतीतीरे ऊषु· न्यवसन्॥४॥ तस्मिन् विपिने यदृच्छया अकस्मादेवागतः कश्चिन्महानहिर्नन्दमग्रसीत् जग्रास। तत्र हेतुमाह—अतिबुभुक्षित इति। तदागमनाज्ञाने हेतुमाह—शयानमिति। अथापि ‘यदि पादाघातशब्दः स्यात्तदा जागरण स्यात्, तदपि नास्ति’ इत्याशयेनाह—उरग इति। उरसा गच्छन्नित्यर्थ·॥५॥ स चाहिना ग्रस्तो नन्दक्षुक्रोश। तदाक्रोशमेव दर्शयति। तत्र सम्भ्रमेण सम्बोधनद्वयम्—कृष्ण कृष्णेति। पुनश्च स्नेहातिशय सूचयन् सम्बोधयति—तातेति। अय महान् सर्पों मा ग्रसते, अतः प्रपन्न शरणागत मा सर्पात्त्व परिमोचयेति॥६॥ एव तस्य नन्दस्यातिक्रन्दित दीनवचनं श्रुत्वा चकाराद्रोदन च श्रुत्वा गोपालाः सहसा आशु उत्थिताः, नन्द च सर्पग्रस्त दृष्ट्वा विभ्रान्ता व्याकुलचित्ताः उल्मुकैः ज्वलत्काष्ठैस्त सर्प विव्यधुः ताडयामासु॥७॥
एवमलातैरुल्मुकैर्हन्यमानोप्युरङ्गमः सर्प· तं नन्द यदा नामुञ्चत् न तत्याज तदा सात्वता पतिः भक्ताना पालको भगवान् ऐश्वर्यादिपूर्णः श्रीकृष्ण अर्भ्यत्य आगत्य सर्प पदाऽस्पृशत्॥८॥ स च सर्प·भगवत· श्रीमतः भक्तमनोरथपूरकसम्पद्वतः पादस्य स्पर्शेन हतमशुभ सर्पतापादक शापरूप यस्य तथाभूतः सन् सर्पवपुर्हित्वा विद्याधरैरैर्चित सम्माननीय विद्याधररूप भेजे प्राप॥९॥ ततश्च प्रणत कृतप्रणाम दीप्यमानेन वपुषा शरीरेण पुरतः समवस्थित पुरुष पुरुषाकार हेममालिन सुवर्णमालाधर तं हृषीकेशः सर्वेन्द्रियनियन्ता साक्षी अपि भगवान् लोकेष्वैश्वर्य प्रकाशयितुमविद्वानिवापृच्छत्॥१०॥ प्रश्नमाह—क इति। य इदानीमद्भुतदर्शनः परया लक्ष्म्या शोभया रोचते प्रकाशते स भवान् कः? उत्तमस्य तव पारवश्यविना सर्पत्वासम्भवात्। कथमवशः
अलातैर्हन्यमानोऽपि नामुञ्चत्तमुरङ्गम·॥ तमस्पृशत् पदाऽभ्येत्य भगवान् सात्वतां पति॥८॥
स वै भगवत· श्रीमत्पादस्पर्शहताशुभ·॥ भेजे सर्पवपुर्हित्वा रूप विद्याधरार्चितम्॥९॥
तमपृच्छद्धृषीकेश·प्रणत समुपस्थितम्॥ दीप्यमानेन वपुषा पुरुष हेममालिनम्॥१०॥
को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः॥ कथ जुगुप्सितामेतां गति वा प्रापितोऽवशः॥११॥
॥सर्प उवाच॥
अहं विद्याधर· कश्चित् सुदर्शन इति श्रुतः॥ श्रिया सुरूपसम्पत्त्या विमानेनाचरन् दिशः॥१२॥
ऋषीन् विरूपानङ्गिरस·प्राहस रूपदर्पित॥ तैौरमा प्रापितो योनि प्रलब्धैः स्वेन पाप्मना॥१३॥
सन्नेता जगुप्सिता निन्दिता सर्पगतिं केन वा प्रापितोसि इति॥११॥ एव भगवता पृष्ट आत्मनः सर्पत्वकारण विज्ञापयन् कृतार्थतामाविष्करोति—अहमित्यादिसार्धैः सप्तभिः। सुदर्शन इति विश्रुतः प्रसिद्धः कश्चिद्विद्याधर· देवविशेषोऽह श्रिया कान्त्या सुरूपसम्पत्त्या सौन्दर्यसमृद्ध्या चोपलक्षित·कदाचिद्विमानेन सर्वा दिशः आसमन्तात् चरन्॥१२॥ ऋषीन् प्राहस हसितवानस्मि। तत्र हेतुद्वय दर्शयन् ऋषीनात्मान च विशिनष्टि—विरूपानिति। अष्टावक्रवद्विरूपानित्यर्थः। अह च रूपेण सौन्दर्येण गर्वित इति। तेषामृषीणा शापे सामर्थ्य सूचयन् विशिनष्टि—अङ्गिरस इति। अङ्गिरोगोत्रोत्पन्नानित्यर्थः। तैरुपहसितैर्ऋषिभिरिमा सर्पयोनिं अह शापेन प्रापितः। तत्र तेषा न कश्चिदपराधः, कितु स्वेनैव पाप्मना पापेन निमित्तेन ॥१३॥
शापस्तु तैर्ऋषिभिर्मे ममानुग्रहायैव कृतः। ‘तेषामनुग्रहकरणे को हेतुः’ इत्यपेक्षाया कारुण्यस्वभावत्वात्’ इत्याशयेनाह—करुणात्मभिरिति। ‘तच्छापेन कि शुभं प्राप्तम्, येन शापस्यानुग्रहार्थत्वम्’ इत्यपेक्षायामाह—यदिति। यच्छापाद्धेतोः त्रिलोकगुरुणा सर्वपूज्येन त्वयाऽह पादेन स्पृष्ट इति। ‘पादस्पर्शेनापि किम्’ इत्यत आह—हताशुभ इति। तव पादस्पर्शेन हतमशुभ पाप यस्य तथा जात इति॥१४॥ हे अमीवहन् सर्वपापनिवारक’ तव स्पर्शाद्धेतोः शापेन निर्मुक्तोऽह सर्वपापनिवारक त्वा आपृच्छे स्वलोक गन्तुमनुज्ञा याचे। ‘प्रसन्नतया त्वदनुज्ञाविना गतस्य पुन· शापादि भय स्यात् ‘इत्याशयेन विशिनष्टि—भवेति। भवेन ससारेण भीतानामत एव प्रपन्नाना शरणागताना भयमपहन्तीति तथा तम्॥१५॥ ‘अहमपि त्वा प्रपन्न.शरणमागतोस्मि, अतो मयि तवानुग्रहो युक्त’ इत्याशयेन सम्बोधयति—सत्पते सता भक्ताना पालकेति। पालकत्वे हेतु सूचयन् पुनः सम्बोधयति—सर्व-
शापो मेऽनुग्रहायैव कृतस्तै करुणात्मभि·॥ यदह लोकगुरुणा पदा स्पृष्टो हताशुभ॥१४॥ त
त्वाऽह भवभीतानां प्रपन्नानां भयापहम्॥ आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन्॥१५॥ प्रपन्नो-
ऽस्मि महायोगिन् महापुरुष सत्पते॥ अनुजानीहि मां देव सर्वलोकेश्वरेश्वर॥१६॥ ब्रह्मदण्डाद्वि-
मुक्तोऽहं सद्यस्तेऽच्युतदर्शनात्॥ यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च॥ सद्यः पुनाति किं
भूयस्तस्य स्पृष्ट पदा हि ते॥१७॥
लोकेश्वरेश्वर इति। सर्वलोकेश्वरस्येश्वरो ब्रह्मा, तस्यापीश्वर·। तत्रापि सामर्थ्ये हेतु सूचयन् पुनः सम्बोधयति—महायोगिन्निति। महान् योगे·उपायभूतो मायाशक्तिरूपोस्यास्तीति तथाभूतः। तत्रापि हेतु सूचयन् सम्बोधयति—महापुरुष इति। हे महापुरुष पुरुषोत्तम। यत उत्कृष्टोन्यो नास्तीत्यर्थः॥ एवंभूतस्य कि मनुष्यदेहग्रहणेन इत्याशङ्क्य’ क्रीडार्थमेवेदम्’ इत्याशयेन पुनः सम्बोधयति—देवेति। मामनुजानीहि स्वलोकगमनानुज्ञा देहि॥१६॥ ‘एव मनुष्यनाट्यग्रहणेपि न तव केनाप्यशेन च्युतिः’ इति सूचयन् सम्बोधयति—हे अच्युत। ते तव दर्शनादेव हेतोः सद्य एव ब्रह्मदण्डात् ब्राह्मणशापादह विमुक्तस्तदेतन्नाश्चर्यमिति शेषः। एतदेव कैमुत्यन्यायेन स्पष्टयति—यन्नामेति। यस्य तव नाममात्रमेव गृह्णन् उच्चरन्पुमान् अखिलान् श्रोतॄनात्मानं च सद्य एव पुनाति, तस्य तव पदा स्पृष्टोऽह पूत इति कि पुनर्वक्तव्यमित्यन्वय। तस्मिन्नर्थे शास्त्रप्रसिद्धि सूचयति—हीति॥१७॥
इत्येव सुदर्शनो विद्याधरः दाशार्हं कृष्णमनुज्ञाप्य पृष्ट्वा परिक्रम्याभिनन्द्य च दिव स्वर्गंयातः गत। नन्दश्च कृच्छ्रात् कष्टान्मोचितो बभूव॥१८॥ हे नृप। व्रजौकसो गोपास्तत्पादस्पर्शमात्रेण सर्पान्नन्दस्य, शापात् सुदर्शनस्य च मोक्षलक्षणं कृष्णस्यात्मवैभव स्वकीयमसाधारण प्रभाव निशाम्य दृष्ट्वा विस्मितं चेतो येषा ते तथाभूतास्तस्मिन्नम्बिकावने नियम पूजादिक समाप्यादरयुक्तास्तदेव वैभव कथयन्तस्तत्स्थानात् पुनर्व्रज प्रत्याययुरित्यन्वयः॥१९॥ अथ शङ्खचूडवधात्मक भगवच्चरितान्तर सप्रसङ्ग निरूपयति—कदाचिदिति। अथेति लीलान्तरे। गोविन्दो रामश्च वने रात्र्या व्रजयोषिता मध्यगौ सन्तौ विजहतुरित्यन्वयः। एव निर्भयतया विहारे सामर्थ्यमाह—अद्भुतविक्रम इति द्वयोर्विशेषणम्॥२०॥ तावेव वर्णयति—बद्ध सौहृद प्रेम यैस्तैः स्त्रीजनैर्ललित यथा तथा उपगीयमानाविति। खलङ्कृतौ च तौ अनुलिप्तानि चन्दनेनानुलिप्तानि अङ्गानि ययोस्तौ च,
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिव यात·कृच्छ्रान्नन्दश्च मोचित॥१८॥ निशाम्य कृष्णस्य तदात्मवैभव व्रजौकसो विस्मितचेतसस्तत॥ समाप्य तस्मिन्नियम पुनर्ब्रज नृपाऽऽययुस्तत्कथयन्त आदृताः॥१९॥ कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रम·। विजहतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम्॥२०॥ उपगीयमानौ ललित स्त्रीजनैर्बद्धसौहृदै॥ स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ॥२१॥ निशामुख मानयन्तावुदितोडुपतारकम्॥ मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना॥२२॥ जगतु सर्वभूतानां मनः श्रवणमङ्गलम्॥ तौ कल्पयन्तौ युगपत् स्वरमण्डलमूर्च्छितम्॥२३॥ गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप। स्रंसद्दुकूलमात्मान स्रस्तकेशस्रजं तत·॥२४॥
स्रग्विणौ वनमालाधरौ, विरजसी विरजस्के निर्मले अम्बरे वाससी ययोस्तौ॥२१॥ तथा उदित· उडुपश्चन्द्रः तारकाश्च यस्मिंस्तत्, मल्लिकाना गन्धेन मत्तैरलिभिर्जुष्ट सेवित सहचरितमित्यर्थः, कुमुदगन्धयुक्तेन वायुना च जुष्ट निशामुख निशाप्रवेश मानयन्तौ प्रशसन्तौ॥२२॥ तौ रामकृष्णौ अनिबद्धत्वादन्यैर्युगपत्कल्पयितुमशक्यमपि स्वरमण्डलस्य स्वरसमूहस्य मूर्च्छित आरोहणावरोहणप्रकार युगपत्कल्पयन्तौ सर्वभूतानां श्रोतॄणां मन. श्रवणयोर्मङ्गल सुखं यथा भवति तथा जगतुः अगायतामित्यन्वयः॥२३॥ तयोस्तद्गीतमाकर्ण्य श्रुत्वा मूर्च्छिता मोह गता गोप्यस्ततस्तस्मात् मोहात् हे नृप! स्रसत् भ्रश्यत् दुकूल यस्मात्स्रस्ताः भ्रष्टा·केशेभ्यः स्रजस्तथाभृतमात्मान देह नाविदन् देहात्पतस्त्राद्यनुसन्धान न कृतवत्य इत्यर्थः॥२४॥
एव स्वैरं यथेष्टं सप्रमत्तवद्रामकृष्णयोर्विक्रीडतोर्गायतोश्च सतो·शङ्खचूड इति नाम्ना ख्यातः कथितो धनदस्य कुबेरस्यानुचरो भृत्योऽभ्यगात्॥२५॥ इयमपि भगवतो राजलीला’ इति सूचयन् सम्बोधयति—हे राजन्निति। तयो रामकृष्णयोर्निरीक्षमाणयोरेव सतोः तावनादृत्य तौ नाथौ स्वामिनौ यस्य त क्रोशन्त रोदनपूर्वकमाह्वयन्तं प्रमदाजनमुदीच्या दिशि कालयामास हठात् प्रेरयामास। तत्र हेतुमाह—अशङ्कितः स्वानर्थशङ्काशून्य·निर्भय इत्यर्थ·।॥२६॥ त स्वपरिग्रहस्वकीयत्वेन परिगृहीत स्त्रीजन ‘हे कृष्ण! हे राम!’ इत्येव क्रोशन्त रोदनपूर्वकमाह्वयन्त विलोक्य भ्रातरौ रामकृष्णौ अन्वधावतामित्यन्वयः। ‘तासा रक्षण धर्म’ इति सूचयन् दृष्टान्तमाह—यथेति। दस्युना चौरेण काल्यमाना गाः दृष्ट्वा तद्विमोचनार्थ यथा कश्चिद्धावेत्तथेत्यर्थः॥२७॥ तत्प्रकारमाह—मेति। मा भैष्ट भयं मा कार्षीरित्येवभूत·अभयः गोपीना भयनिवर्तकः आरावः शब्दः ययोस्तौ, शालहस्तौ हस्ते गृहीतशालवृक्षौ,
एव विक्रीडतो·स्वैर गायतोः सम्प्रमत्तवत्॥ शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात्॥२५॥
तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्॥ क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कित॥२६॥
क्रोशन्त कृष्ण रामेति विलोक्य स्वपरिग्रहम्॥ यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम्॥२७॥
मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ॥ आसेदतुस्त तरसा त्वरित गुह्यकाधमम्॥२८॥
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्॥ विसृज्य स्त्रीजनं मूढ· प्राद्रवज्जीवितेच्छया॥२९॥
तमन्वधावद्गोविन्दो यत्र यत्र स धावति॥ जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बल·॥३०॥
अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मन·॥ जहार मुष्टिनैवाङ्ग सहचूडामणि विभुः॥३१॥
तरस्विनौ अतिवेगवन्तौ, अत एव तरसा वेगेन त्वरित यथा भवति तथा गुह्यकेष्वधम नीच त शङ्खचूडं आसेदतुः प्राप्तवन्तौ॥२८॥ स शङ्खचूडः कालः अनिवार्यो मरणसमयः मृत्युमरको देवविशेषः ताविव भयकरौ तौ रामकृष्णौ अनुप्राप्तौ वीक्ष्य उद्विजन् बिभ्यत् जीवितेच्छया स्त्रीजन विसृज्य त्यक्त्वा प्राद्रवत् पलायितः। ननु ‘यदि जीवितेच्छा तर्हि कालमृत्युरूपौ दृष्ट्वापि तच्छरणमेव कुतो नागतः?’ तत्राह—मूढ इति॥२९॥ स शङ्खचूडो यत्र यत्र धावति तत्र तत्र गोविन्दः कृष्णस्तमन्वधावत्। धावनप्रयोजनमाह—तस्य शिरोरत्न हर्तुमिच्छु·इति। बलरामस्तु स्त्रियो रक्षन् तत्रैव तस्थौ॥३०॥ अङ्ग हे राजन्। विभु सर्वकरणे समर्थः कृष्ण·अविदूर इव समीप एवाभ्येत्य तदभिमुखमागत्य मुष्टिनैव चूडामणिसहितं तस्य शङ्खचूडस्य शिरो जहार। पलायितवधस्य अनुचितत्वमाशङ्क्यतन्निरासायाह—दुरात्मन इति। दारहर्तृत्वेनाततायित्वान्न तद्वधोऽनुचित इत्याशयः॥३१॥
एवं शङ्खचूडं निहत्य भास्वरं तेजोयुक्त तच्छिरोमणिमादायागत्य योषितां पश्यन्तीनां सतीनां प्रीत्याऽग्रजाय रामाय अददत् ददौ। स्वनिकटे मणिस्थापने योषिता मध्ये एकस्यै कस्यैचिद्वाने वा योषिता दौर्मनस्य स्यादतस्तद्रक्षकायाग्रजायैव ददौ। तेन तासा सर्वासा सन्तोष इति ज्ञेयम्॥३२॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका गोप्य कृष्णे बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने ॥ चतुस्त्रिंशो गतो नन्दरक्षादिविनिरूपकः॥३॥ ॥छ॥ गोप्य· कृष्णे वनयाते तस्मिन्नाविष्टचेतसः॥ कृष्णलीला जगुरेतत् पञ्चत्रिंशे निरूप्यते॥१॥ ‘एव रात्रिषु श्रीकृष्णेन स्वैरमभिरमिताना परमानन्दे निमग्नाना दिवसेषु तद्विरहिताना निस्तारः कथम्’ इत्यपेक्षायामाह—गोप्य इति। कृष्णे वन याते सति त कृष्णमनुद्रुत तस्मिन्नासक्त चेतो यासा ता·गोप्यः कृष्णलीला एव प्रगायन्त्यो दुःखेन कष्टेन वासरान् दिनानि निन्युः॥१॥ तासां गान प्रकारमाह—वामबाहुकृतेत्यादिना। अत्र द्वौ द्वौ श्लोका-
शङ्खचूड निहत्यैव मणिमादाय भास्वरम्॥ अग्रजायाददत् प्रीत्या पश्यन्तीनां च योषिताम्॥३२॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिशत्तमोऽध्याय·॥३४॥
॥श्रीशुक उवाच॥
गोप्यः कृष्णे वन याते तमनुद्रुतचेतसः॥ कृष्णलीला प्रगायन्त्यो निन्युर्दु·खेन वासरान्॥१॥
॥गोप्य ऊचु·॥
वामबाहुकृतवामकपोलो वल्गितरधरार्पितवेणुम्॥कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्द·॥ २॥ व्योमयानवनिता· सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जा·॥ काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्य॥३॥
बेकवाक्यतया नेतव्यौ। रहस्यकथने प्रेमाधिक्यं हेतु सूचयन्त्यः सम्बोधयन्ति गोप्य इति। वामे बाहौ तन्मूले कृत. अर्पितो वामकपोलो येन सः, वल्गिते नर्तिते भ्रुवौ येन सः, मुकुन्द· कोमलाभिरङ्गुलिभिराश्रिता मार्गा सप्तस्वरच्छिद्राणि यस्य त अधरे अर्पित वेणु यत्र यदा ईरयति वादयति॥२॥ तदा व्योम्नि यानं गमनं येषां तेषां सिद्धानां वनितास्तत् वेणुगीतमुपधार्य श्रुत्वा प्रथम विस्मिताः आश्चर्य प्राप्तास्ततः काममार्गणेभ्य. समर्पितानि चित्तानि याभिस्ताः कामबाणपीडिताः सलज्जाश्च सत्यः कश्मल मोह ययुरित्यन्वयः। लज्जायां हेतुमाहुः—सिद्धैः स्वपतिभिः सह वर्तमाना अपि कामपीडिता इति। मोहे लिङ्गमाहु—अपस्मृता विस्मृता नीव्यो याभिस्ताः भ्रश्यद्वस्त्रानुसन्धानरहिता इत्यर्थः।’ अत एवभूतस्य कृष्णस्य विरह कथं सहामहे?’ इति सर्वत्र वाक्यशेषः॥३॥
‘यत्र अनधिकारिणा पशूनामपि मोहो भवति तत्राधिकारिणीना देवस्त्रीणा मोहे किमाश्चर्यम्?’ इत्याशयेनापरा आहुः—हे अबलाः। इदमस्माभिः कथ्यमान हन्त चित्र अतिचित्र शृणुतेति। हारहासः हारवद्विशदो हासो यस्य स·। यद्वा वेणुवादनार्थमधोवदनेन हसतो हारेषु स्फुरन् हासो यस्य सः, उरसि स्थिरा विद्युदिव लक्ष्मीर्यस्य सः, अय नन्दसूनुः कृष्णो यहिं आर्तजनाना तद्विरहपीडितानामस्मदादीना नर्मदः सन् सुखयितु कूजितो वादितो वेणुर्यस्य तथाभूतो भवति ॥४॥ तदा ब्रजे गोष्ठे ये वृषा मृगा गावश्च ते आरात् दूरादेव वेणुवाद्येन वेणुनादश्रवणेन हृतानि चेतासि येषा ते वृन्दशः समुदिताः सर्व एव दन्तैर्दष्टा एव नतु चर्विताः कवलास्तृणग्रासा यैस्ते धृता·श्रवणोन्मुखीकृताः उत्तम्भिताः कर्णा यैस्ते निद्रिताः सञ्जातनिद्रा इव लिखितचित्रमिवासन् तस्थुः॥५॥ अपरास्तु ‘आस्ता चेतनाना वार्ता, अचेतनासु सत्सु मोह इत्यतिचित्रम्’ इत्याहुः—बर्हिण इति। आलि हे सखि। बर्हिणो मयूरस्तबका. पिच्छगुच्छाः धातवो गैरिकादयश्च पलाशानि पल्लवाश्च तैर्बश्वासौ मल्लाना परिबर्हः परिकरश्च तं विडम्बयति अनुकरोति तथा सः बलेन सहितो
हन्त चित्रमवला·शृणुतेद हारहास उरसि स्थिरविद्युत्॥ नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणु·॥४॥
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात्॥ दन्तदष्टकवला घृतकर्णा निद्रिता लिखितचित्रमिवाऽऽसन्॥५॥ बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्ब·॥ कर्हिचित् सबल आलि सगोपैर्गा·समाह्वयति यत्र मुकुन्द·॥६॥ तर्हि भन्नगतय सरितो वै तत्पदाम्बुजरजोऽनिलनीतम्॥ स्पृहयतीर्वयमिवाबहुपुण्या·प्रेमवेपितभुजा· स्तिमितापः॥७॥ अनुचरै समनुवर्णितवीर्य आदिपुरुष इवाचलभूति·॥ वनचरो गिरितटेषु चरन्तीर्वेणुनाऽऽह्वयति गा· स यदा हि॥८॥
गोपैश्च सह वर्तमानो मुकुन्द कर्हिचित् यदाकदाचित् यत्र देशे वेणुना गाः समाह्वयति॥६॥ तदा तार्है सरितोपि अनिलेन नीत तस्य पदाम्बुजरजः स्पृहयतीः स्पृहयन्त्यो भवन्ति। वै निश्चयम्। तत्र चिह्नमाहु·—भग्ना गति र्यासां ताः। एतदेव स्पष्टयन्ति—स्तिमिताप इति। स्तिमिता निश्चला आपो यासा ताः, प्रेम्णा वेपिताः कम्पिता. भुजा. भुजस्थानीयास्तरङ्गा यासा ताः, स्पृहयन्त्येव केवल न तत्प्राप्नुवन्ति। तत्र हेतुमाहुः—अबहुपुण्या इति। तत्प्राप्तौ पुण्याधिक्यमपेक्षितं तदभावात्। तत्र दृष्टान्तमाहुः—वयमिवेति। वय यथा पुण्यप्रचयाभावात् तत्पदाम्बुजरजः स्पृहयन्त्यो भन्नगतयः प्रेमकम्पितभुजा नेत्रयोः स्तिमितजलाश्च भवामो न तल्लभामहे तथेत्यर्थः॥७॥ ‘स्थावरेष्वप्यतिचित्र दृश्यते’ इत्याहु·—अनुचरैरिति। आदिपुरुष· पुरुषोत्तम इवानुचरैर्गोपैः सम्यगनुवर्णित वीर्य यस्य स., अचला भूति लक्ष्मीर्यस्य सः वनचरः सन् स कृष्णो गिरितटेषु चरन्तीर्गा यदा हि वेणुना तत्तन्नामोपेतेन वेणुगीतेनाह्वयति॥८॥
तदात्मनि स्वस्मिन् पूर्णानन्द व्यञ्जयन्त्य इव पुष्पैः फलैश्वाढ्याः युक्ताः, अत एव प्रणता भारेण विटपाः शाखा यासा ताः, प्रेम्णा हृष्टा रोमाञ्चिता इव तनवो यासा ताः वनलताः तरवश्च तथाभूताः मधुधारा ववृषुरित्यन्वयः। ‘स्म’ इति विस्मयं सूचयन्ति॥९॥ किञ्च ‘सरसि कमलवनेषु विहरता पक्षिणामपि मनआकर्षक तद्गीतम्, कि पुनरन्येषाम्?इत्याशयेनाहुः—दर्शनीयतिलक इति। दर्शनीयानां सुन्दराणा मध्ये तिलक इव मुख्यः वनमालासु या दिव्यगन्धा तुलसी तस्या· मधुना मत्तैः अलिकुलैः अलघु उच्चैः क्रियमाणमभीष्टमनुकूल गीतमाद्रियन् आदरेण गृह्णन् कृष्णः यर्हि अधरे सन्धितवेणुर्भवति॥१०॥ तर्हि ये सरसि सारसाः हसाः अन्ये च विहङ्गास्ते चारुगीतेन हृत शब्दादिविषयेभ्यः प्रत्याहृत चेतो येषाम्, अत एव यत एकाग्रीकृत चित्त यैस्ते एत्य आगत्य धृत मौन तूष्णींभावो यैस्ते श्रवणसुखेन मीलिते दृशौ यैस्तथाभूताश्च सन्तो हरिमुपासत तत्समीपे उपविविशुरित्यन्वयः।
वनलतास्तव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्या·॥ प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनव ससृजु. स्म॥९॥ दर्शनीयतिलको वनमालादिव्यगन्धतुलसीमधुमत्॥ अलिकुलैरलघु गीतमभीष्टमाद्रियन् यर्हि सन्धितवेणु·॥१०॥ सरसि सारसहंसविहङ्गाश्चारुगीतहृतचेतस एत्य॥ हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौना॥ सहबलः स्रगवतसविलास·सानुषु क्षितिभृतो व्रजदेव्यः॥ हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम्॥ महदतिक्रमणशङ्कितचेता मन्दमन्दमनु गर्जति मेघ·॥ सुहृदमभ्यवर्षत् सुमनोभिश्छायया च विदधत् प्रतपत्रम्॥१३॥
हन्त’ इति भगवद्विरहजं स्वरभेद सूचयन्ति॥११॥ ‘मेघोऽपि कृष्णं सेवते’ इत्याहुः—सहबल इति। भो व्रजदेव्यो गोप्यः। स्रग्भिर्निर्मिताम्या अवतंसाभ्या कर्णभूषणाभ्यां विलासः शोभातिशयो यस्य सः, सहबलः बलेन सहितः, क्षितिभृतः गोवर्धनगिरे·सानुषु तटेषु वर्तमानः, स्वय जातहर्षः श्रीकृष्णो यर्हियदा विश्व हर्षयन् वेणुरवेण उपरम्भति निनादयति नादेनापूरयति॥१२॥ तदा महतः ब्रह्मादिपूज्यस्य कृष्णस्यातिक्रमणे शङ्कित चेतो यस्य स मेघस्तदुपरि न याति न चोच्चैर्गर्जति, कितु तत्रैव स्थितः सन् वेणुरवमनु मन्दं मन्द गर्जति। किंच विश्वतापनिवर्तकत्वश्यामत्यादिसाम्यात् सुहृद सखाय श्रीकृष्णं स्वच्छायया प्रतपत्रं प्रतपात् आतपात् त्रायत इति प्रतपत्र छत्र विदधत् कुर्वन् सुमनोभिरभ्यवर्षत्। अदृश्यैर्देवैः क्रियमाणकुसुमवर्षमेव कल्पयित्वेदमुक्तम्॥१३॥
आश्चर्यान्तरमाहुः—विविधेति। हे सति यशोदे। विविधेषु गोपचरणेषु गोपक्रीडासु विदग्धो निपुण. वस्तुतः तव सुतः कृष्णः अधरबिम्बे बिम्बतुल्ये रक्ते अधरे दत्तो निहितो वेणुर्येन तथाभूत·सन् वेणुवाद्यविषये उरुधा बहुप्रकारा निजैव शिक्षा यासु ता· न त्वन्यत·शिक्षिता स्वरजातीः निषादर्षभादिस्वरालापभेदान् यदा अनयत्॥१४॥ तदा शक्रप्रभृतयो सुरेशाः तत्ता. स्वरजातीः सवनशो मन्द्रमध्यतारभेदेन क्रमशः यतो गीतध्वनिरागतः ततः आनता कन्धरा ग्रीवा चित्त च येषा ते उपधार्य सम्यगाकर्ण्य कवयः अतिनिपुणा अपि ते न निश्चित तत्त्व तद्भेदो यैस्ते कश्मल मोह ययुरित्यन्वयः॥१५॥ ‘अस्माक तु मोहे किं ब्रूम’ इत्याहुः—निजपदेति। ध्वजादीनि विचित्राणि ललामानि चिह्नानि येषा तैः निजानि पदान्येवाब्जदलानि
विविधगोपचरणेषु विदग्धो वेणुवाद्य ऊरुधा निजशिक्षाः॥ तव सुत·सति यदाऽधरबिम्बे दत्तवेणुरनयत् स्वरजाती·॥१४॥ सवनशस्तदुपधार्य सुरेशा·शक्रशर्वपरमेष्ठिपुरोगा·॥ कवय आनतकन्धरचित्ता· कश्मलं ययुरनिश्चिततत्त्वाः॥१५॥ निजपदाब्जदलैर्ध्वजवज्रनीरजाङ्कुशविचित्रललामै·॥ ब्रजभुव·शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणु.॥१६॥ ब्रजति तेन वय सविलासवीक्षणार्पितमनोभववेगा॥ कुजगतिं गमिता न विदाम. कश्मलेन वसन कबर वा॥१७॥ मणिधर क्वचिदागणयन् गा मालया दयितगन्धतुलस्या॥ प्रणयिनोऽनुचरस्य कदांऽसे प्रक्षिपन् भुजमगायत यत्र॥१८॥ क्वणितवेणुरववञ्चितचित्ता· कृष्णमन्वसत कृष्णगृहिण्य·॥ गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः॥१९॥
तैर्व्रजभुवः खुरतोद गोखुराक्रमणव्यथा शमयन् वर्ष्मणा धुर्यो गजस्तद्वत् गतिर्यस्य स कृष्णः ईडितवेणुः वादितवेणुः॥१६॥ यत् व्रजति तेन निमित्तेन सविलासनिरीक्षणेन चार्पितो मनोभवस्य कामस्य वेगो यासु ता वय कुजाना वृक्षाणा गति दशा निश्चेष्टता गमिताः सत्यः कश्मलेन मोहेन वसन कबर वा न विदामः। विगलद्वस्त्रस्य मुक्तकबरस्य चानुसन्धानरहिता भवाम इत्यर्थ.॥१७॥ किच मणिधर इति। मणीन् ग्रथितान् गोगणनार्थ धारयतीति मणिधरः, तथा दयितः प्रियो गन्धो यस्यास्तस्यास्तुलस्या·मालयोपलक्षितः, क्वचिद्देशे तैर्मणिभिर्गाः आ समन्तात् गणयन् प्रणयिनः प्रियस्य अनुचरस्य सख्युरसे स्कन्धे स्वभुज प्रक्षिपन् स्थापयन् यत्र यदा कदाचिदगायत॥१८॥ तदा तत्र क्वणितस्य वादितस्य वेणो रवेण शब्देन वञ्चितानि अपहृतानि चित्तानि यासा ताः कृष्णस्य हरिणस्य गृहिण्यो भार्या हरिण्यस्त गुणगणार्ण माधुर्यादिगुणसमूहाना समुद्र कृष्णमनुगत्य प्राप्य अन्वसत अन्वासत सर्वत आवृत्य स्थिता इत्यर्थ। ननु ‘चञ्चलस्वभावाना पतिभि सह वने विचरन्तीना कथमेव स्थिति. सम्भवति? “तत्राहु’—विमुक्त-
गृहाशा इति। तत्र दृष्टान्तमाहु.—गोपिका इवेति॥१९॥ तदेव वृन्दावनप्रदेशेषु क्रीडित्वा मध्याह्ने गोधनानि परावृत्य यमुनाया क्रीडतस्तस्य सौभाग्यमनुवर्णयन्ति—कुन्देति। ‘तव निर्दोषत्वमेव पुत्रस्य गुणवत्त्वे हेतुः’ इति सूचयन्त्यो यशोदा सम्बोधयन्ति–अनघे इति। सहैव बह्व्यः कथयन्त्यः काश्चित्तव वत्सः पुत्र इति काश्चिन्नन्दसूनुरिति चाहु। कुन्ददामभि कुन्दपुष्परचिताभिर्मालाभिः कृतः कौतुकेन उत्सवेन वेषोऽलङ्कारो येन सः गोपैर्गोधनैश्च वृतो यदा यमुनाया विजहार क्रीडति स्म, पूर्णकामस्याप्येव विहारे प्रयोजन सूचयन्त्य आहुः—प्रणयिना प्रेमवता गोपाना नर्मदः हर्षदः हर्षप्रदानार्थमित्यर्थः॥२०॥ तदा मलयजस्पर्शेन मलयस्य चन्दनस्यैव सुरभिः शीतश्च यः स्पर्शस्तेन त कृष्ण मानयन् मन्दो वायु· अनुकूल यथा भवति तथा उपवाति वीजयति। किच बन्दिन इव स्तावकाः सन्तः ये उपदेवगणाः गन्धर्वादिगणास्ते वाद्यादिभिस्त कृष्ण परिवव्रु·
कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम्॥ नन्दसूनुरनधे तव वत्सो नर्मदः प्रणयिनां विजहार॥२०॥ मन्दवायुरुपवात्यनुकूल मानयन् मलयजस्पर्शेन॥ बन्दिनस्तमुपदेवगणा ये वाद्यगीतवालिभि·परिवव्रु॥२१॥ वत्सलो व्रजगवां यदगध्रोवन्द्यमानचरण पथि वृद्धैः॥ कृत्स्नगोधनमुपोह्यदिनान्ते गीतवेणुरनुगेडितकीर्ति॥२२॥ उत्सव श्रमरुचाऽपि दृशीनामुन्नयन् खुररजश्छुरितस्रक्॥ दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराज·॥२३॥
परित उपासत॥२१॥ आयान्तमालोक्य हृष्यन्त्य. परस्परमूचुः—वत्सल इति। व्रजे स्थिताना गवाभिवानुकम्प्यानामस्माक वत्सल· हितकृत्, तत्र ज्ञापकमाहुः—यत् यस्मात् अगधः अस्मद्रक्षार्थ गोवर्धनमुद्धृतवान्, एतच्च बहुशो रक्षणस्योपलक्षणम्। वृद्धैर्ब्रह्मादिभिः पथि मार्गे वन्द्यमानचरणः, अनुगैर्गोपैरीडिता कीर्तिर्यस्य सः, गीतयुक्तो वेणुर्यस्य सः, दिनान्ते सायकाले कृत्स्न गोधनमुपोद्य एकीकृत्य॥२२॥ श्रमरुचा श्रमयुक्तयाऽपि कान्त्या दृशीनामस्मन्नेत्राणामुत्सव हर्षमुन्नयन् उच्चै· प्रापयन् खुररजोभिश्छुरिता व्याप्ताः स्रजो यस्य देवक्या जठरे भवतीति देवकीजठरभूः स एव उडुराजः निर्वृतिहेतुत्वाच्चन्द्रः सुहृदामस्माकमाशिष मनोरथस्य दित्सया दातुमिच्छया एष एति आगच्छति। यद्यपि नायकगता श्रमरुकू नायिकाना सुखकरी न भवति, तथापि यदि भगवान् श्रान्तो न भवेत्, शीघ्रमेव गच्छेत्तदा दर्शनसुख न स्यात्। ‘अतो मन्दगमनहेतुत्वात् सा गोपीनां सुखकर्येव जाता’ इति अपिशब्देन ज्ञेयम्॥२३॥
समीपमायान्तमनुवर्णयन्ति—मदेति। ईषन्मदेन विघूर्णिते विह्वलिते लोचने यस्य सः, बदरपाण्डुवदनः ईषत्पक्कबदरवत् पाण्डुरं वदनं यस्य सः, अत्र हेतुमाहुः—मृदू गण्डौ यस्मिंस्तद्वदन कनककुण्डलयोर्लक्ष्म्या कान्त्या मण्डयन् शोभयन्, वनपुष्पमालाधृक्, स्वसुहृदा निजस्नेहवता भक्ताना मानद. सन्मानकर्ता॥२४॥ द्विरदराजो गजश्रेष्ठः तद्वद्विहारो गतिर्यस्य सः, मुदितवक्र·प्रसन्नवदन, दिनान्ते सायकाले यामिनीपतिश्चन्द्र·यथा दिनताप मोचयन् आयाति तद्वद्व्रजगवामस्माक दुरन्त एतद्दर्शन विना दुर्निवार दिनविरहज ताप मोचयन्नेष यदुपतिः उपयाति समीपमायाति॥२५॥ उपसहरति। गोपीना स्नेहातिशयं सूचयन् सम्बोधयति—राजन्निति। तस्मिन् कृष्ण एव चित्त चेतना जीवित यासा ता., तथा तस्मिन्नेव मनः सङ्कल्पात्मक यासा ता·, अतएव महान् उदय उत्सवो यासा ता ब्रजस्त्रियः अह.सु तद्विरहेऽपि एव कृष्णलीला एवानुगायती·गायन्त्यो रेमिरे इत्यन्वयः॥२६॥ इतिश्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्भिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका
मदविघूर्णितलोचन ईषन्मानद·स्वसुहृदां वनमाली॥ बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या॥२४॥ यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते॥ मुदितवक्रउपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम्॥२५॥
॥श्रीशुक उवाच॥
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती·॥ रेमिरेऽहस्सु तच्चित्तास्तन्मनस्का महोदया·॥२६॥
इति श्रीमद्भा० महापु० दशमस्कन्धे तामसनिरोधनिरूपणप्रकरणे युग्मगीतनिरूपण नाम पञ्चत्रिंशोऽध्याय॥३५॥
॥श्रीशुक उवाच॥
अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः॥ मही महाककुत्काय कम्पयन् खुरविक्षताम्॥१॥ ॥ ॥
बालप्रबोधिनी॥२॥ रचिता दशमे तत्र तामसरोधवर्णने॥ पञ्चत्रिशो गतो वृत्ति युग्मगीतनिरूपकः॥३॥॥६॥ एव तामसभक्ताना निरोधो विनिरूपितः॥ अग्रे राजसभक्ताना निरोधो विनिरूप्यते॥१॥ अथारिष्टवधः कृष्ण-ज्ञान कसस्य तेन हि॥अक्रूराज्ञापन चेति षट्त्रिंशे विनिरूप्यते॥२॥ एव भगवज्जन्मारभ्य नानाविधतल्लीलादर्शनादिना ब्रजवासिना परमानन्दो निरूपितः, अतोऽग्रेऽरिष्टागमनादिना तथानन्दो नास्तीति पूर्वोक्तविरुद्धार्थान्तर सूचयन्नाह—अथेति। यत्तदोर्नित्यसंबन्धात् यदा चेद्भगवान् पुन. रासार्थमुद्यतस्तर्हि अरिष्टनामा वृषभाकृतिरसुर. खखुरैर्विक्षता विदारिता महीं कम्पयन् गोष्ठ व्रजमागत इत्यन्वयः। एव चोक्त विष्णुपुराणे—” प्रदोषार्द्धेकदाचित्तु रासासक्ते जनार्दने। त्रासयन् समदो गोष्ठमरिष्ट समुपागतः”॥ महीकम्पने हेतु सूचयन्नाह—महान्तौ ककुत्कायौ यस्य स इति॥१॥
त वर्णयति—रम्भमाण इति त्रयेण। खरतर कर्कश यथा भवति तथा रम्भमाण·वृषजातिब्द कुर्वन् पदा च महीं विलिखन् विदारयन् पुच्छमुद्यम्य ऊध्वेकृत्वा विषाणाग्रेण वप्राणि उन्नतस्थलानि चोद्धरन् उत्क्षिपन्॥२॥ किञ्चित् किञ्चित् ईषदीषत् शकृत् पुरीष मुञ्चन् तथा मूत्रयन् मूत्रमुत्सृजन् स्तब्धे निमेषरहिते लोचने यस्य सः, हे अन राजन्। यस्य निष्ठुरेण भयकरेण निर्ह्रादितेन शब्देन गवा नृणा नारीणा च॥३॥ अकालतः प्रसूतिसमय विनैव भयेन गर्भाः स्रवन्ति पतन्ति च। स्रावपातविभागश्च “आचतुर्थाद्भवेत् स्रावः पातः पञ्चमषष्ठयोः। अत ऊर्ध्व तु नारीणा प्रसवः परिकीर्तित” इति वचनाज्ज्ञेयः। तस्य महत्त्व सूचयन्नाह—यस्य ककुदि गलपृष्ठमासपिण्डे अचलशङ्कया घना निर्विशन्तीति॥४॥ तीक्ष्णशृङ्ग तमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसु·। हे राजन्। पशवश्च त वीक्ष्य भीताः सन्तो गोकुल सन्त्यज्य दुद्रुवुः पलायिताः॥५॥ हे कृष्ण’ हे कृष्ण। रक्ष रक्षेति वदन्तस्ते गोपादयः सर्वे
रम्भमाण·खरतरं पदा च विलिखन् महीम्॥ उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन्॥२॥ किञ्चित् किञ्चिच्छकृन्मुञ्चन् मूत्रयस्तब्धलोचन·॥ यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम्॥३॥ पतन्त्यकालतो गर्भा स्रवन्ति स्म भयेन वै॥ निर्विशन्ति घना यस्य ककुद्यचलशङ्कया॥४॥ तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः॥ पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम्॥५॥ कृष्ण कृष्णेति ते सर्वे गोविन्द शरणं ययु·॥ भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम्॥ मा भैष्टेति गिराऽऽश्वास्य वृषासुरमुपाह्वयत्॥ ६॥ गोपालै· पशुभिर्मन्द त्रासितै· किमसत्तम॥ बलदर्पहाऽहं दुष्टानां त्वद्विधानां दुरात्मनाम्॥७॥ इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन्॥ सख्युरसे भुजाभोगं प्रसार्यावस्थितो हरि·॥८॥
गोविन्दं शरण ययुः। अथ तेषामार्तवचनश्रवणानन्तर भयेन विद्रुत व्याकुल तद्गोकुल वीक्ष्य मा भैष्ट भय मा कार्ष्टेति गिरा आश्वास्य भगवान् वृषासुरमुपाह्वयत् स्वसमीपमाकारितवान्॥६॥ तत्प्रकारमाह—गोपालैरिति। मन्द हे मन्दबुद्धे। असत्तम हे दुष्ट! शब्देनैव त्वया त्रासितैर्गोपालैः पशुभिश्च तव किं फलम्? न किमपि। यतस्त्वविधानां दुष्टानां परोद्वेजकाना दुरात्मना दुर्बुद्धीना यो बलप्रयुक्तो दर्पः गर्वस्त हन्तीति तथाभूतोऽहम्। त्व बलगर्वितश्चेत्तर्हि ममाग्रे आगच्छेति शेषेणान्वयः॥७॥ हरिर्भक्तदुःखहर्ता भगवान् कृष्ण इत्येव वदन् आस्फोट्य करतलेन बाहुमाहत्य तेन तलशब्देन तमरिष्ट कोपयन् भुजा भुजः स एव भोगः सर्पदेहस्त सर्पदेहाकार भुज सख्युरसे स्कन्धे प्रसार्य सस्थाप्यावस्थितः। एव निर्भयतयाऽवस्थाने हेतुमाह—अच्युत इति। अप्रतिहतप्रभाव इत्यर्थः॥८॥
एवमाक्षेपवचनेन कोपित., अतः क्रुद्धः सोऽरिष्टोऽपि खुरेण अवनिमुल्लिखन् विदारयन् हन्तु कृष्णमुपाद्रवत् आजगाम। तस्य महत्त्व वेगातिशय चाह—उद्यता ऊर्ध्व गच्छता पुच्छेन भ्रमन्तो मेघा यस्मिन् सः॥९॥ आगमनप्रकारमाह—अग्रेति। अग्रे न्यस्ते विषाणाग्रे येन स्तब्धे असृग्वद्रक्तेलोचने यस्यः सः, कटाक्षिप्य कटाक्षेण तिर्यड् निरीक्ष्य अच्युत कृष्ण प्रति तूर्णं शीघ्रमाद्रवत्। तस्य वेगातिशय सूचयन् दृष्टान्तमाह—इन्द्रेण मुक्त.अशनिर्वज्र यथा गच्छेत्तथेति॥१०॥ स भगवान् कृष्ण शृङ्गयोस्त गृहीत्वा अष्टादश पदानि प्रत्यपोवाह प्रतिलोम व्यनुदत्। तस्य प्रबलत्व सूचयन् दृष्टान्तमाह— गजमिति। गजश्रेष्ठो यथा गज प्रति नुदेत्तथेत्यर्थ.॥११॥ ततश्च सोऽरिष्टो भगवता अपविद्धः अपक्षिप्त·पुनः सत्वरः शीघ्रमुत्थाय आपतत् वेगेन कृष्णाभिमुखमाजगामेत्यन्वयः। तत्र हेतु.—क्रोधेन मूर्च्छितो व्याप्तः। तत्र लिङ्गमाह—स्विन्नानि स्वेदयुक्तानि सर्वाङ्गानि
सोऽप्येवं कोपितोऽरिष्ट. खुरेणावनिमुल्लिखन्। उद्यत्पुच्छभ्रमन्मेघ क्रुद्ध·कृष्णमुपाद्रवत्॥९॥ अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम्॥ कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा॥१०॥ गृहीत्वा शृङ्गयोस्तं वा226अष्टादशपदानि सः॥ प्रत्यपोवाह भगवान् गज प्रति गज यथा॥११॥
सोऽपविद्धो भगवता पुनरुत्थाय सत्वर॥ आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छित·॥१२॥ तमापतन्त स निगृह्य शृङ्गयो· पदा समाक्रम्य निपात्य भूतले॥ निष्पीडयामास यथाऽऽर्द्रमम्बर कृत्वा विषाणेन जघान सोऽपतत्॥१३॥ असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपश्च पादाननवस्थितेक्षण·॥ जगाम कृच्छ्र निर्ऋतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुरा॥१४॥
यस्य स., निःश्वसन् श्वासानुचैर्मुञ्चन्॥१२॥ स श्रीकृष्ण आपतन्त तमरिष्ट शृङ्गयोर्निगृह्य गृहीत्वा भूतले निपात्य पदा समाक्रम्य निष्पीडयामास। तत्र दृष्टान्तमाह—यथेति। यथा रजकादिर्जनः अम्बरमार्द्रवस्त्र पदा समाक्रम्य हस्तेन निष्पीड्य ततो जल निःसारयति, तथा त निष्पीड्य तद्रोमच्छिद्रेभ्यो।रुधिर निःसारितवानित्यर्थः। ततश्च तद्विषाण कृत्वा उत्पाट्य तेन विषाणेन त जघान, स च तेन हननेनापतत्॥१३॥ ततश्च स मुखतोऽसृक्।रुधिर वमन् मूत्र शकृच्च एकवद्भावस्तदुभय समुत्सृजन् विमुञ्चन् पादाश्च क्षिपन् इतस्ततश्चालयन् अनवस्थिते चलिते ईक्षणे नेत्रे यस्य सः कृच्छ्र कष्टं यथा भवति तथा निर्ऋतेर्मृत्योः क्षय जगाम। मृत इत्येव विवक्षितम्, भगवतः सन्मुख तद्धस्तेन मृतस्य यमस्थानगमनासम्भवात्। एव मृताना मुक्तिकथनाच्च॥ अथानन्तर सुरा देवाः पुष्पै. हरि किरन्त आच्छादयन्त·ईडिरे तुष्टुवु·॥१४॥
एव ककुद्मिन वृषभासुर हत्वा स्वज्ञातिभिर्गोपैर्वनेषु स्तूयमान. गोपीना नयनोत्सवो यस्मात् सबलः बलेन सहितः श्रीकृष्णः गोष्ठ विवेश॥१५॥ एव कृष्णेन अरिष्टे दैत्ये निहते सति अथ अनन्तर नारद’ कसायाहेत्यन्वयः। ‘भगवता अरिष्टो निहतः, किंतु व्रजे रिष्टः सस्थापितः, तत्प्रभृतिदु खाधिक्यस्यैव निरूपणीयत्वात्’ इति सूचयन्नाह—अद्भुतकर्मणेति। ननु ‘व्रजे स्वैर क्रीडतः सतस्तद्विरुद्ध नारदः कथमाह ‘इत्याशङ्कयाह—देवदर्शन इति। ‘एव कथिते सति कसवधादिना देवकार्य भविष्यति’ इति देवेषु दर्शन कृपादृष्टिर्यस्य सः। ‘कथ तस्य भाविज्ञान’ तत्राह—भगवानिति। सर्वज्ञ इति॥१६॥ किमाह इत्यपेक्षायामाह—यशोदाया इति। देवक्या अष्टमगर्भतया प्रसिद्धा कन्या यशोदाया. सुतामाह, यशोदायाः सुतत्वेन प्रसिद्ध कृष्ण देवक्याः सुतमाह, रोहिणीपुत्र राम च देवक्याः सप्तमसुतमाह। ‘एव वसुदेवसुतौ चेत् कथ व्रज गतौ’ तत्राह—त्वत्तो बिभ्यता वसुदेवेन
एवं ककुद्मिनं हत्वा स्तूयमानः स्वज्ञा227तिभिः॥ विवेश गोष्ठं सबलो गोपीनां नयनोत्सव’॥१५॥ अरिष्टे
निहते दैत्ये कृष्णेनाद्भुतकर्मणा। कसायाथाऽऽह भगवान्नारदो देवदर्शन॥१६॥ यशोदाया सुतां
कन्यां देवक्या. कृष्णमेव च॥ रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता॥ न्यस्तौ स्वमित्रे नन्दे वै याभ्या
ते पुरुषा हता॥१७॥ निशम्य तद्भोजपति कोपात् प्रचलितेन्द्रिय॥ निशातमसिमादत्त वसुदेव-
जिघांसया॥१८॥ निवारितो नारदेन तत्सुतौ मृत्युमात्मन॥ ज्ञात्वा लोहमयै. पाशैर्बबन्ध सह भार्यया
॥१९॥ प्रतियाते तु देवर्षो कंस आभाष्य केशिनम्। प्रेषयामास हन्येतां भवता रामकेशवैौ॥२०॥
स्वमित्रे नन्दे न्यस्तौ गुप्ततया स्थापितौ। याभ्या रामकृष्णाभ्या ते तव पुरुषा. पूतनादयः दैत्या हताः॥१७॥ तन्नारदेन वर्णित निशम्य श्रुत्वा प्रचलितानि व्याकुलानीन्द्रियाणि यस्य सः भोजपतिः कस वसुदेवजिघासया निशातमसि खड्गमादत्त गृहीतवान्॥१८॥ तदा च ‘वसुदेवे हते सति तच्छ्रुत्वा तौ पलायेता तदा शत्रुभूतयोस्तयोर्वधो न स्यात्, अतो वसुदेव बद्धा प्रथम तयोर्वधोपायः कर्तव्य’ इति मन्त्र वदता नारदेन निवारित एवं च नारदवाक्येन तस्य वसुदेवस्य सुतौ आत्मन आत्माश्रयदेहस्य मृत्यु मृत्युरूपौ ज्ञात्वा लोहमयै पाशै· भार्यया देवक्या सह वसुदेव बबन्धेत्यन्वयः॥१९॥ देवर्षी नारदे प्रतियाते तु कस केशिनमाभाष्य हे केशिन् इति सम्बोध्य’ गोकुल गत्वा राममाधवौ भवता हन्येताम् इत्याज्ञाग्य त व्रजे प्रेषयामासेत्यन्वयः॥२०॥
ततः केशिप्रेषणानतर भोजराट् कसो मुष्टिकार्दान्समाहूयाहेत्यन्वयः॥२१॥ यदाह तद्दर्शयति– भो भो इति। ‘भो भो वीर’इति सामान्यसम्बोधनद्विरुक्त्या सर्वेषामेव सम्बोधन लक्ष्यते। तत्रापि मुख्यौ सम्बोधयति– चाणूरमुष्टिको इति। एतन्मदाज्ञापन निशम्यता श्रूयताम्। एव सावधानीकृत्याह– नन्देति। नन्दव्रजे रामकृष्णौ आनकदुन्दुभे सुतावासाते। किलेति नारदोक्त प्रमाण सूचयति॥२२॥ तत किमत आह– तत इति। ततस्ताभ्या मह्य मम मृत्युर्नारदेन निदर्शितः। ‘ततः कि कर्तव्यम्’इत्यत आह– इह सम्प्राप्तौ तौ भवद्भ्याचाणूरमुष्टिकाभ्या मल्ललीलया हन्येतामिति॥२३॥ मल्लरङ्गपरिश्रिता मल्लयुद्धभूमि सर्वतः सल्लग्नाः विविधा मञ्चा उत्तुङ्गस्तम्भादिराचितस्थानानि क्रियन्ता विरच्यन्ताम्। ‘किमर्थम्’इत्यपेक्षायामाह– पौराः पुरवासिनः जानपदा बहिर्देशवासिनश्च सर्वे तत्रोपविष्टाः स्वैर यथेष्ट सयुग युद्ध पश्यन्त्विति॥२४॥ एव मल्लान् रामकृष्णौ हन्तुमादिश्य तत्रापि तद्धनन आशङ्कित-
ततो मुष्टिकचाणूरशलतोशलकादिकान्॥ अमात्यान् हस्तिपाश्चैव समाहूयाऽऽह भोजराट्॥२१॥
भो भो निशम्यतामेतद्वीर चाणूरमुष्टिकौ॥ नन्दव्रजे किलाऽऽसाते सुतावानकदुन्दुभे॥२२॥
रामकृष्णौ ततो मह्यमृत्युः किल निदर्शितः॥ भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया॥२३॥
मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः॥ पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम्॥२४॥
महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम्॥ द्विपः कुवलयापीडो जहि तेन ममाहितौ॥२५॥
आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि॥ विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे॥२६॥
चित्तो हस्तिपं प्रत्युपायान्तरमाज्ञापयति– महामात्रेति। त प्रोत्साहयितु पुनः सम्बोधयति– भद्रेति। त्वया कुवलयापीडो द्विपो हस्ती रङ्गद्वार्युपनीयताम्। ‘किमर्थम्?’इत्यपेक्षाया ता पूरयन्नाह– तेन हस्तिना ममाहितौ शत्रुभूतौ इहागतौ रामकृष्णौ जहि॥२५॥ एव लौकिकमुपायमुक्त्वा अलौकिकमाह– आरभ्यतामिति। अय हि मम शत्रुर्विष्ण्वश इति नारदात् पूर्वमेव ज्ञातम्, अतोऽतिप्रबलस्तत्प्रतिपक्षयोग्य एव कश्चिदाराधनीय इति, तादृशश्च शिव एव, अतः स एवाराध्य। तत्रापि तस्य यागा बहवः सन्ति, तन्मध्ये युद्धे विजयाकाङ्क्षिभिः शैवतन्त्रप्रसिद्धः यत्र धनुषि शिवः पूज्यते स धनुर्यागः कर्तव्यः। चतुर्दशी हि शिवतिथिः, अतः स तस्यामेव यथाविधि तन्त्रोक्तप्रकारेण कर्तव्यः। तत्र मीढुषे कामपूरकाय शिवाय त प्रसादयितु मेध्यान् तद्योग्यान् शुद्धान् पशून् विशसन्तु मारयन्तु। पशुहननावना तत्सन्तोषो न स्यात्। ‘पशुहनने तू तत्परिकरभूता भूतादयोऽपि तेन सन्तुष्टाः साहाय्य करिष्यन्ति’इत्याशयेनाह– भूतराजायेति॥२६॥
इत्येवमुपायान् कर्तुमाज्ञाप्य तौ समानेतुं यदुपुङ्गव यादवेषु श्रेष्ठ अक्रूरमाहूय सम्मानार्थं स्वपाणिना तत्पाणिं गृहीत्वा ततश्च हेति हर्षेण उवाचेत्यन्वयः। तच्चातुर्यमाह– अर्थतन्त्रज्ञ इति। इद कार्यमनेनैव भविष्यतीति रहस्यज्ञ इत्यर्थः। यद्वा ‘ननु ततो मृत्यु ज्ञात्वा किमिति तदानयनाय आज्ञप्तवान्’। तत्राह– अर्थतन्त्रज्ञ इति। आग्रहात् स्वप्रयोजनमेव विचारयति, फलानुसन्धान तु तस्य नास्तीत्यर्थः॥२७॥ तदुक्तिमाह– भो भो इति। द्विरुक्तिरादरार्था। ‘यथान्यद्दान करोषि तथा मत्प्रार्थितमपि सम्पादय’ इत्याशयेन सम्बोधयति– दानपते इति। मह्य मम मैत्र मित्रकृत्य त्वया क्रियताम्, यस्मात्त्वत्तोऽन्यो भोजवृष्णिषु मध्ये आदृतः आदरयुक्तः हिततमश्च न विद्यते इति॥२८॥ अत कारणात् हे सौम्य हे प्रिय! कार्यगौरवस्य गुरुतरकार्यस्य साधने निमित्तेऽहं त्वामाश्रितः। ननु ‘महतस्तव कथ निकृष्टाश्रयण युक्तम्’इत्याशङ्क्य तस्य गुणाधिक्येन योग्यत्व सूचयन् दृष्टान्तमाह–
इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम्॥ गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह॥२७॥
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः॥ नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु॥२८॥
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधने॥ यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभु॥२९॥
गच्छ नन्द्रव्रज तत्र सुतावानकदुन्दुभेः॥ आसाते ताविहानेन रथेनाऽऽनय मा चिरम्॥३०॥
निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसश्रयैः॥ तावानय समं गोपैर्नन्दाद्यै साभ्युपायनैः॥३१॥
घातयिष्य इहानीतौ कालकल्पेन हस्तिना॥ यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः॥३२॥
यथेति। विभुर्महानपि इन्द्रो यथा विष्णुं कनिष्ठमपि वामनमाश्रित्य स्वार्थमभ्यगमत् बलिनाऽपहृता त्रिलोकीं पुनःप्राप्तवानित्यर्थ॥२९॥ एव सम्प्रार्थ्य ‘किं मैत्र मया कार्यम्?’ इत्यपेक्षायामाह– गच्छेति। नन्दस्य व्रज त्व गच्छ तत्र च आनकदुन्दुभेर्वसुदेवस्य सुतावासाते, तौ अनेन मदीयेनरथेनेहानय। मा चिर विलम्बो न कार्य इत्यर्थः॥३०॥ नारदोक्त प्रमाण सूचयति– किलेति। वैकुण्ठो विष्णुः सश्रयः आश्रयो येषा तैर्देवैस्ताभ्या मे मम मृत्युर्निसृष्टः प्रकल्पितः, अतो नन्दाद्यैर्गोपैः सम सह तावानय। ‘मदभिप्राय सङ्गोप्य धनुर्मखनिरीक्षणार्थमुपायन गृहीत्वा राजाज्ञया चलनीयमितिवक्तव्यम्’इत्याशयेनाह– साभ्युपायनैरिति॥३१॥ ‘ततः किं करिष्यसि’ तत्राह– इहानीतौ तौ कालकल्पेन मृत्युतुल्येन हस्तिना घातयिष्ये। यदि कथंचित्ततो हस्तितो मुक्तौ भविष्यतस्तर्हि वैद्युतोपमैः अशनितुल्यैर्मल्लेश्चाणूरादिभिर्घातये घातयिष्ये॥३२॥
तयो रामकृष्णयोर्निहतयोः सतोस्ततो वसुदेवपुरोगमान् तद्बन्धून् वृष्ण्यादींश्च हनिष्यामि। ‘तेषा हनन सुकरमेव, तद्वियोगदुःखेन सन्तप्तत्वात्’ इत्याशयेनाह– तप्तानिति॥३३॥ उग्रसेन स्वपितर च हनिष्यामि। तत्र हेतुमाह– स्थविर वृद्धमपि राज्यकामुकमिति। देवक च हनिष्यामि। तत्र हेतुमाह– तद्भ्रतरमिति। तत्पक्षपातिनमित्यर्थः। तथा येऽन्ये मम विद्विषस्ताश्च सर्वान् हनिष्यामि॥३४॥ ततश्च हे मित्र! एषा मही नष्टकण्टका शत्रुभीतिरहिता भवित्री भविष्यति। एतदेव स्पष्टयति– जरासन्धो मम गुरुः पूज्यश्च श्वशुरत्वात्। द्विविदाख्यो वानरो मम दयितः सखा॥३५॥ शम्बरादयो दैत्याश्च सर्वे मय्येव कृत सौहृद स्नेहो यैस्तथाभूताः। अतस्तैर्जरासन्धादिभिःसहितोऽह सुरपक्षीयान् नृपान् हत्वा सर्वा महीं भोक्ष्ये॥३६॥ एतन्मच्चिकीर्षित ज्ञात्वापि ‘धनुर्मखनिरीक्षणार्थ तथा यदुपुरस्य मथुरायाः श्रिय शोभा द्रष्टु च राजाहूतवान्’ इत्युक्त्वा अर्भकौ वसुदेवपुत्रौ रामकृष्णाविह
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान्॥ तब्दन्धून्निहनिष्यामि वृष्णिभोजदशार्हकान्॥३३॥
उग्रसेन च पितर स्थविर राज्यकामुकम्॥ तद्भ्रातर देवक च ये चान्ये विद्विषो मम॥३४॥
ततश्चैषा मही मित्र भवित्री नष्टकण्टका॥ जरासन्धो मम गुरुर्द्विविदो दयितः सखा॥३५॥
शम्बरो नरको बाणो मय्येव कृतसौहृदाः॥ तैरह सुरपक्षीयान् हत्वा भोक्ष्ये मही नृपान्॥३६॥
एतज्ज्ञात्वाऽऽनय क्षिप्र रामकृष्णाविहार्भकौ॥ धनुर्मखनिरीक्षार्थं द्रष्टु यदुपुरश्रियम्॥३७॥
॥अक्रूर उवाच॥
राजन् मनीषित सम्यक् तव स्वावद्यमार्जनम्॥ सिद्ध्यसिद्ध्योः सम कुर्याद्दैवं हि फलभावनम्॥३८॥
मनोरथान् करोत्युच्चैर्जनो दैवहतानपि॥ युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते॥३९॥
क्षिप्र शीघ्रमानयेत्यन्वयः॥३७॥ एवमुक्तोऽक्रूर आह– राजन्निति। राजन्निति सम्बोधनेन तदाज्ञापालनस्यावश्यकत्व सूचयति। स्वावद्यस्य स्वमरणस्य मार्जन परिहारः सम्यक् मनीषित विचारितम्। तथाप्यत्राभिनिवेशो न कार्य, यतः फलसिद्धौ तदसिद्धौ वा जनश्चित्त सम कुर्यात्। हि यस्मात् दैव फलभावन परमेश्वराधीनमेव फलमित्यर्थः॥३८॥ श्रीकृष्णे आगते सति धनुर्भङ्गाद्युपद्रवस्यावश्यभावित्वात् कसस्य च दुष्टस्वभावत्त्वात्कदाचित् ‘मत्कर्तृकानयनेनोपद्रवो जात इति मत्वा, अयं मय्येव कुपितो भवेत्’ इत्याशङ्क्य स्वदोषपरिहारार्थमुक्तमीश्वराधीनत्वमेव स्पष्टयति– मनोरथानिति। अय जनः प्राणी दैवहतान् एकदा दैवेन प्रारब्धफलदात्रेश्वरेण हतान् निघ्नितान् मनोरथानुच्चैः करोति मनोरथान् कृत्वा तदुपायेषुप्रवर्तते। फललाभालाभयोरीश्वराधीनत्वात्तल्लाभे हर्षेण तदलाभे च वृथा साधनक्लेशात् शोकेन च युज्यते। यद्यप्येव व्यवहारो लोके प्रसिद्धः, तथापि।ते तवाज्ञामह करोमि सेवकत्वात्तवाज्ञया तावानेतु गच्छामि, फल तु दैवाधीनमित्यर्थः॥३९॥
एवमक्रूर चकारात्केश्यादीन् ग्रामादिवासिजनानानेतुमन्याश्चादिश्य मन्त्रिणश्च विसृज्य गृह प्रस्थाप्य स कसःस्वगृह प्रविवेश। तथा अक्रूरोपि स्वमालय गृहं गतः॥४०॥ इति श्रीवल्लभाचार्य– वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ षट्त्रिंशोऽपि गतोऽरिष्टघातादिविनिरूपकः॥३॥ सप्तत्रिंशे हय हत्वा नारदेन स्तुतो हरिः॥ व्योमासुर जघानेति शुकेन विनिरूप्यते॥१॥ ‘कंसः केशिनमाहूय प्रेषयामास’ इत्युक्त तत्र ‘प्रेषितः स किमकरोत्’इत्यपेक्षायामाह–केशी त्विति। तुशब्देन तस्य बलपराक्रमयोराधिक्य सूचयति। स तु कसेन प्रहितः प्रेषितः केशी महाहयः सन् महीं कम्पयन् खुरैर्निर्जरयन् विदारयन् नन्दस्य व्रज जगामेति द्वयोरन्वयः। प्रबलत्व महत्त्व च स्पष्टयन् विशिनष्टि– मनसः जव इव जवो वेगो यस्य सः, सटा-
श्रीशुक उवाच॥एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य स। प्रविवेश गृहं कंसस्तथाऽक्रूर स्वमालयम्॥४०॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणेऽरिष्टवधनिरूपण नाम षट्त्रिशोऽध्यायः॥३६॥॥५॥॥श्रीशुक उवाच॥ केशी तु कसप्रहितः खुरैर्मही महाहयो निर्जरयन् मनोजव॥ सटावधूताभ्रविमानसङ्कुल कुर्वन्नभो हेषितभीषिताखिल॥१॥ विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः॥ दुराशयःकसहित चिकीर्षुर्व्रज स नन्दस्य जगाम कम्पयन्॥२॥ त त्रासयन्त भगवान् स्वगोकुल तद्धेषितैर्वालविघूर्णिताम्बुदम्॥ आत्मानमाजौ मृगयन्तमग्रणीरुपाह्वयत् स व्यनदत् मृगेन्द्रवत्॥३॥
भिः स्कन्धकेशैः अवधूतानि इतस्ततः क्षिप्तानि यानि अभ्राणि विमानानि च तैः सङ्कुल सङ्कीर्ण नभ कुर्वन्, हेषितैरश्वजातिशब्दैर्भीषितमग्विल विश्वयेन सः॥१॥ विशाले नेत्रे यस्य सः, विकटमास्यकोटर मुखच्छिद्र यस्य सः, बृहत्पीनो दीर्घश्च गलो यस्य सः, नीलो महाश्च अम्बुदो मेघ उपमा यस्य सः, कसहित कृष्णरामवध चिकीर्षुः कर्तुमिच्छुः, तत्र हेतुमाह–दुराशयः दुष्टचित्तः॥२॥ तद्धेषितैः तैरतिनिष्ठुरैर्हषितैः स्वगोकुल स्वकीय गोकुलवासिजन त्रासयन्त वालैःपुच्छरोमभिः विघूर्णिताः परिभ्रामिताः अम्बुदाः येन तमाजौ सङ्ग्रमार्थमात्मान कृष्ण मृगयन्तमन्वेषयन्त त केशिनमग्रणीः पुरो निर्गतः सन् भगवान् कृष्ण उपाह्वयत् स्वसमीपमाजुहाव। स च केशी तन्निशम्य मृगेन्द्रवत् व्यनदत नादमकरोत्॥३॥
ततश्च स केशी त कृष्णं निशाम्य दृष्ट्वा अत्यमर्षणः तदुत्कर्षमत्यन्तमसहमान अभिमुखःसन् मुखेन खमाकाश पिबन्निव मुख व्यादाय अभ्यद्रवत् आजगाम। ततः प्रत्यक् पद्भ्यामरविन्दलोचन कृष्ण जघान ताडयामास। ननु ‘तर्ह्यन्यैः कुतो न स निवारितः’ इत्याशङ्क्याह– दुरत्यय इति। अन्यैरत्येतुमशक्यः॥ तत्र हेतुमाह– दुरासद इति। तत्समीपगमनमप्यशक्यम्, तन्निराकरणस्य का कथा? तत्रापि हेतुमाह– चण्डजव इति। महावेग इत्यर्थः॥४॥ अधोक्षज इन्द्रियागोचरो भगवान् तत्तस्य हनन वञ्चयित्वा रुषा त केशिन हननाय प्रसारितयोः पादयोः दोर्भ्यां हस्ताभ्या प्रगृह्य परिविध्य भ्रामयित्वा धनुःशतपरिमितदेशे सावज्ञ उत्सृज्य प्रक्षिप्य व्यवस्थितः यथासुख स्थितो बभूव। तत्र दृष्टान्तमाह– यथेति। तार्क्ष्यसुतो गरुड यथा अनायासेनैव उरग क्षिप्त्वा निर्भयतयाऽवतिष्ठते तद्वदित्यर्थः॥५॥ एव भगवत्प्रक्षिप्तःकेशी प्रथम मूर्च्छित पुनश्च लब्धा सज्ञा स्मृतिर्येन सः
स त निशाम्याभिमुखो मुखेनपिबन्निवाभ्यद्रवदत्यमर्षण॥ जघान पद्भ्यामरविन्दलोचन दुरासदश्चण्डजवो दुरत्ययः॥४॥ तद्वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्या परिविध्य पादयोः॥ सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरग तार्क्ष्यसुतो व्यवस्थितः॥५॥ स लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम्॥ सोऽप्यस्य वक्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले॥६॥ दन्ता निपेतुर्भगवद्भुजस्पृशस्ते केशिनस्तप्तमयस्पृशो यथा॥ बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः सववृधे उपेक्षित॥७॥ समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन्॥ प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्ड विसृजन् क्षितौ व्यसुः॥८॥
पुनरुत्थितः सन् रुषा क्रोधेन मुखं व्यादाय तरसा वेगेन हरिं ग्रसितुमापतत् आजगाम। स हरिरपि स्मयन् हसन् एवास्ये वक्रे उत्तर वाम भुज प्रवेशयामास। तत्र दृष्टान्तमाह– यथा मूषकग्रहणार्थ तद्बिले सर्पः प्राविशति तथा तत्प्राणग्रहणाय तन्मुखे भगवान् स्वभुज प्रवेशितवान् इत्यर्थः। ॥६॥ ततश्चर्वणाय भगवद्भुजं स्पृशन्तीति तथा ते केशिनो दन्ता निपेतुः। तत्र दृष्टान्तमाह– तप्तमयो लोहपिण्ड स्पृशो यथा पतन्ति तद्वदिति। तस्य देहगतो भगवतो बाहुश्च ववृधे। तत्र दृष्टान्तमाह– उपेक्षितः अचिकित्सितः आमयो जलोदरादि रोगो यथा वर्धते तथेति॥७॥ सम्यगेधमानेन कृष्णभुजेन निरुद्धः प्राणवायुर्यस्य स केशी चरणान् विक्षिपन् इतस्ततश्चालयन् प्रस्विन्न प्रस्वेदयुक्त गात्र यस्य सः परिवृत्ते परिभ्रममाणे लोचने यस्य सः लेण्ड पुरीष विसृजन् व्यसुः प्राणरहितः सन् भूमौ पपात॥८॥
व्यसोः विगतप्राणस्य केशिनो देहात् महान्तौ भुजौ यस्य स कृष्णः स्वभुजमपाकृष्य निःसार्य अविस्मितो गर्वरहित एवावस्थितः। तदा उत्स्मयै तादृशदैत्यस्य अनायासेनैव वधादाश्चर्ययुक्तैर्दिविजैर्देवैः प्रसूनवर्षैः पुष्पवृष्टिभिः सह अभिष्टुतः स्तूयमानो जातः। ‘महाबलपराक्रमस्य हनने कुतो न तस्य गर्वोऽभूत्’ इत्यपेक्षायामाह– अयत्नहतारिरिति। अयत्नेनैव हतोरिर्येन सः। नहि तृणे छिन्ने वरिस्य गर्वो युक्तः, भगवतोऽग्रे तस्य तृणतुल्यत्वात्। ननु ‘वालविघूर्णिताम्बुदम्’ इत्युक्तेस्तस्य महत्त्वमुक्तम्, तथा ‘महाभुज’ इति भगवतोऽपि तादृक्प्राणनिरोधकमहाभुजत्वमुक्तम्, तथाच तस्मिन् मृतेऽपि “ततो भुजनिःसारण एव महानायासः सम्भवति, कथमयत्नहतारित्वम्” इति शङ्का दृष्टान्तेन निरस्यति– कर्कटिकाफलोपमादिति। कर्कटिकाफल हि पक्व विदीर्णं भवति, तद्वद्विदीर्णाद्देहादनायासेनैवाकृष्येत्यर्थः। ‘प्रसूनवर्षैर्दिविषद्भिरीडित’ इति पाठान्तरम्॥९॥ ‘नारदविज्ञप्तिः सावधानतया श्रोतव्या’ इत्याशयेन सम्बोधयति– नृपेति। देवर्षिः देवपक्षपाती नारदः केशिवधानन्तर रहसि एकान्ते कृष्णमुपसङ्गम्य एतद्वक्ष्यमाणमभाषतेत्य–
तद्देहत कर्कटिकाफलोपमाद्व्यसोरपाकृष्य भुज महाभुजः॥ अविस्मितोऽयत्नहतारिरुत्स्मयै प्रसूनवर्षैर्दिविजैरभिष्टुतः॥९॥ देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप॥ कृष्णमक्लिष्टकर्माण रहस्येतदभाषत॥१०॥ कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर॥ वासुदेवाखिलावास सात्वतां प्रवर प्रभो॥११॥
न्वयः। ‘नारदस्यैतद्भाषणे किं प्रयोजनम्?’ इत्यपेक्षाया ‘मथुरादिनिवासिभक्तमनोरथपूरणार्थम्’ इत्याशयेनाह– भागवतप्रवर इति। ‘भगवानपि तत्प्रार्थित किमिति करिष्यति’ इत्यपेक्षाया ‘तस्यापि दुष्टवधसाधुरक्षाया अभिप्रेतत्वात्’ इत्याशयेनाह–अक्लिष्टकर्माणमिति॥१०॥ नारदोक्तिमेवाह– चतुर्दशभिः। आदर सूचयति। सम्बोधयति–कृष्ण कृष्णेति। ‘मया कस प्रति रहस्यसूचने कृतेऽपि तव भय नास्ति’ इत्याशयेन पुनः सम्बोधयति– अप्रमेयात्मन्निति। न प्रमेय आत्मा स्वरूपं यस्य सः। ‘योगिनोप्येवंभूता भवन्ति, किं पुनस्तत्फलदाता’ इत्याशयेन पुनः सम्बोधयति– योगेशेति। तत्र हेतु सूचयन् सम्बोधयति–जगदीशेति। ‘जगदीश्वरत्व न केवल नियन्तृत्वमात्रम्, किंतु तदाधारत्वमपि’ इत्याशयेन सम्बोधयति– अखिलावासेति। ‘वसुदेवपुत्रस्य तव वसुदेवरक्षाप्युचितैव’ इत्याशयेन सम्बोधयति– वासुदेवेति। एतदवतारप्रयोजनमपि ‘भक्तरक्षैव’ इत्याशयेन पुनः सम्बोधयति– सात्वता प्रवर भक्ताना पालकेति। एव पूर्वोक्ते सर्वत्र सामर्थ्य सूचयन् सम्बोधयति– प्रभो अचिन्त्यमायास्वामिन्!॥११॥
‘सर्वान्तरात्मत्वेनापि तव भयं नास्ति’ इत्याशयेनाह– त्वमेक एव सर्वभूतानामात्मेति। ‘तर्हि कुतो न तथात्वेन सर्वदृश्य’ इत्याशङ्क्याह– गूढ इति। तत्र हेतुमाह– गुहाशय इति। तत्र दृष्टान्तमाह– एधसा काष्ठानामन्तर्ज्योतिरिवेति। ‘सर्वबुद्धिवृत्तिज्ञश्च त्वम्, अतः किं बहु विज्ञापनीयम्’ इत्याशयेनाह– साक्षीति। ‘ब्रह्मादिसर्वाराध्यः सर्वोत्तमश्च त्वमेवासि’ इत्याह– महापुरुष इति। तत्र हेतुमाह–ईश्वर इति। इष्टानिष्टफलदाने समर्थः॥१२॥ सर्वाधारस्याप्याधारः कश्चिदन्यः स्यात्’इत्याशङ्क्याह– आत्माश्रय इति। उक्त जगदीश्वरत्वमेव स्पष्टयति– आत्मना स्वरूपभूतया मायया प्रकृत्या पूर्व सत्त्वादिगुणास्त्व ससृजे, तैश्चगुणैरिद विश्व सृजसि उत्पादयसि, अवसि रक्षसि, अत्सि उपसहरसि। अतस्त्व जगदीश्वरः। ‘तत्रापि तवायासो नास्ति, सङ्कल्पेनैव कर्तृत्वात्’ इत्याह– सत्यसङ्कल्प इति॥१३॥ ‘सात्वता प्रवर’ इत्यनेन सूचितमवतारप्रयोजन स्पष्टयति– स इति।स परमेश्वर एव त्व
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्॥ गूढो गुहाशयः साक्षी महापुरुष ईश्वर॥१२॥
आत्मनाऽऽत्माश्रयः पूर्व मायया ससृजे गुणान्॥ तैरिद सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः॥१३॥
स त्व भूधरभूतानां दैत्यप्रमथरक्षसाम्॥ अवतीर्णो विनाशाय सेतूनां रक्षणाय च॥१४॥
दिष्ट्या ते निहतो दैत्यो लीलयाऽय हयाकृतिः॥ यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम्॥१५॥
चाणूर मुष्टिक चैव मल्लानन्यांश्चहस्तिनम्॥ कस च निहतं द्रक्ष्येपरश्वोऽहनि ते विभो॥१६॥
तस्यानु शङ्खयवनमुराणा नरकस्य च॥ पारिजातापहरणमिन्द्रस्य च पराजयम्॥१७॥
भूधरभूतानां भुव धरतीति भूधरा राजानः तद्रूपाणा दैत्यादीना विनाशाय, सेतूना धर्ममर्यादारूपाणां साधूना रक्षणायावतीर्णोसीत्यन्वयः॥१४॥ उपलक्षणविधया केशिवधमभिनन्दति– दिष्ट्येति। अयं हयाकृतिः अश्ववेषधरो दैत्यस्ते त्वया निहतः तत् दिष्ट्या। तेन सर्वेषा भद्रमेव जातमित्यर्थः। ‘कुत’ इत्यपेक्षाया तस्य भयकरत्वमाह– यस्येति। यस्य हेषितेन शब्दमात्रेण सन्त्रस्ता भीताः सन्तः अनिमिषा देवाः दिव स्वर्ग त्यजन्ति स्म। ईदृशस्यापि हनने यदि भगवतः प्रयासः स्यात्तदापि भक्ताना तदायासस्मरणेन तादृश आनन्दो न स्यात्, सोपि न जातोऽतो महानानन्द इत्याशयेनाह– लीलयेति॥१५॥ ‘एव व्रजे यत् कर्तुमुचित तद्भवान् कृतवान्’ इत्युक्त्वा इदानीं चाणूरादिदुष्टहननेन वसुदेवादिभक्तरक्षा कुर्विति भाव्यपि योगजज्ञानेन सिद्धवत् कृत्वा विज्ञापयति– चाणूरमित्यादिना। अद्यैवाऽक्रूर एष्यति, श्वो मथुरा गन्तासि, परश्वश्चाणूरादींस्त्वया निहतान् द्रक्ष्यामि। हे प्रभो समर्थ’॥१६॥ तस्य अनु तदनन्तर शङ्खादीना वधादिक द्रक्ष्यामीति श्लोकपञ्चकस्यान्वयः। शङ्खः पञ्चजनः॥१७॥
वीर्य स्वप्रभावप्रदर्शनमेव शुल्कादिलक्षणं प्रदेयद्रव्यादिरूप यस्मिंस्तथाभूत वीरकन्यानामुद्वाह हे जगत्पते’ पापात् ब्राह्मणगोहरणजनितात् कृकलासयोनिनिमित्तात्॥१८॥ भार्यया जाम्बवत्या सह स्वधामतो महाकालपुरत ‘आनीय’ इति शेषः॥१९॥ महाक्रतौ युधिष्ठिरराजसूये चैद्यस्य शिशुपालस्य च निधन वधम्॥२०॥‘एवकर्मकरण भाविश्रोत्रादिजनोद्धारार्थम्’ इत्याशयेनाह– कविभिर्भुवि गेयानि इति॥२१॥ अथानन्तरममुष्य भूभारस्य कर्माणि षष्ठी भूभार क्षपयिष्णोः अपचिकीर्षोस्ते तव अक्षौहिणीना निधन विनाशरूप कर्म द्रक्ष्यामीत्यन्वयः। भूभारहरणे सामर्थ्यमाह– कालरूपस्येति। ‘तदपि भूभारहरणमर्जुनादिद्वारा’ इत्याशयेनाह– अर्जुनसारथेरिति। ‘अत्र सन्देहो नास्ति’ इत्याशयेनाह– वा इति॥२२॥ एव विज्ञाप्य कृताभिनन्दन भगवन्त शरण व्रजति– विशुद्धेति। वय भक्तास्त्वामीमहि शरण व्रजेम। ‘त्वमेव शरणयोग्यो, नान्य’इत्याशयेन विशिनष्टि–
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम्॥ नृगस्य मोक्षण पापाद्द्वारकायां जगत्पते॥१८॥ स्यमन्तकस्य च मणेरादान सह भार्यया॥ मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः॥१९॥ पौण्ड्रकस्य वध पश्चात् काशिपुर्याश्व दीपनम्॥ दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ॥२०॥ यानि चान्यानि वीर्याणि द्वारकामावसन् भवान्॥ कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि॥२१॥ अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै॥ अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः॥२२॥ विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवाञ्छितम्। स्वतेजसा नित्यनिवृत्तमायागुणप्रवाह भगवन्तमीमहि॥२३॥ त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम्॥ क्रीडार्थमद्यात्तमनुष्यविग्रह नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम्॥२४॥ श्रीशुक उवाच॥ एवं यदुपति कृष्णं भागवतप्रवरो मुनिः॥ प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः॥२५॥
विशुद्धविज्ञानघन केवलज्ञानैकमूर्तिम्, अत एव स्वसस्थया स्वरूपसम्यस्थित्यैव निरतिशयानन्दस्वात्मानुभवरूपया सम्यगाप्ताः प्राप्ताः सर्वे अर्थाः कामा यस्य तम्, अमोघ वाञ्छित यस्य तम्। ननु ‘वाञ्छास्ति चेत्तर्हि तदधीनः ससारोऽपि दुर्वार’ इत्याशङ्क्याह– स्वतेजसेति। चिच्छक्त्या नित्यनिवृत्तो मायाकार्यरूपो गुणप्रवाहः ससारो यस्मात्तम्, अतएव भगवन्त निरतिशयैश्वर्यपूर्णम्॥२३॥ एव शरणमागत्य प्रणमति– यदुवृष्णिसात्वतां धुर्यं श्रेष्ठ त्वामहं नतोऽस्मीत्यन्वयः। श्रेष्ठत्वे हेतुमाह– ईश्वरमिति। ईश्वरत्वमेव स्पष्टयति– आत्ममायया स्वेच्छयैव विनिर्मिता ये अशेषाः सर्वे विशेषाः महदादयस्तैः कल्पना देवादिसृष्टिर्येन तम्, अद्य क्रीडार्थमात्तः स्वीकृतो मनुष्यविग्रहो येन तम्॥२४॥ तस्य कृष्णस्य दर्शनेनोत्सव आनन्दो यस्य स भागवतप्रवरो मुनिर्नारद एव यदुपति कृष्ण प्रणिपत्य तेनाभ्यनुज्ञातो ययावित्यन्वयः॥२५॥
भगवानपि आहवे युद्धे केशिन हत्वा बालैर्गोपैः सह पशून् गाः अपालयत्। ‘तत्पालनमप्यावश्यकम्’ इत्याशयेनाह– गोविन्द इति। गवामिन्द्रतया इन्द्रादिभिरभिषिक्तः। अपिशब्देन सूचित भक्तवात्सल्य स्पष्टयन्नाह– व्रजसुखावह इति। व्रजजनस्य सुखमावहतीति तथा। तेषा भक्तिं दर्शयति– प्रीतैरिति॥२६॥ प्रातरेव केशिवधानन्तर नारदोक्तमङ्गीकृत्य पशून् पालयता श्रीकृष्णेन व्योमो हतः तत्सप्रसङ्गमाह– एकदेत्यादिना। एकदा ते रामकृष्णादयो गोपालाः अद्रेः गोवर्धनस्य सानुषु तटप्रदेशेषु पशून् चारयन्तःचोरपालापदेशतः चोरपालव्याजेन निलीय चोरयित्वा स्थापन यासु ता निलायनाख्याः क्रीडाश्चक्रुरित्यन्वयः॥२७॥ ताः क्रीडाः स्पष्टयति– तत्रेति। तेषु गोपेषु केचिच्चोरा आसन्। केचित् रामकृष्णादयो मुख्या पालाः स्वामिनः आसन्। एके च दुर्बला मेषायिताश्चासन्। तत्र चौरा मेषायिताश्चोरयन्ति, पालाश्च तान् विचिन्वते। एवमकुतोभया निर्भयाः
भगवानपि गोविन्दो हत्वा केशिनमाहवे॥ पशूनपालयत् पालै प्रीतैर्व्रजसुखावहः॥२६॥एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु॥ चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः॥२७॥तत्राऽऽसन् कतिचिच्चोरा पालाश्च कतिचिन्नृप॥ मेषायिताश्च तत्रैके विजन्हुरकुतोभयाः॥२८॥मयपुत्रो महामायो व्योमो गोपालवेषधृक्॥ मेषायितानपोवाह प्रायोश्चोयितो बहून्॥२९॥गिरिदर्यां विनिक्षिप्य नीत नीत महासुरः॥ शिलया पिदधे द्वार चतुःपञ्चावशेषिताः॥३०॥तस्य तत् कर्म विज्ञाय कृष्ण शरणदः सताम्॥गोपान्नयन्त जग्राह वृकं हरिरिवौजसा॥३१॥स निज रूपमास्थाय गिरीन्द्रसदृश बली॥ इच्छन् विमोक्तुमात्मान नाशक्नोद्ग्रहणातुरः॥३२॥
सन्तः सर्वे विजन्हुः॥२८॥ तदा च महामायावी महामायावित्वेन प्रसिद्धस्य मयस्य पुत्रो व्योमाख्योऽसुरो गोपालवेषधरः स्वय प्रायशश्चोरायितः सन् मेषायितान् बहून् गोपान् अपोवाह अपकृष्य निनाय॥२९॥ एव नीत नीत गोप गिरेर्दर्यां गुहाया स महासुरो निर्दयो व्योमो विनिक्षिप्य तस्या द्वार शिलया पिदधे आच्छादितवान्। ततश्चमेषायिता गोपाश्चत्वारः पञ्च वाऽवशेषिताः तदानीं नीयमानेन सह पञ्च नो चेच्चत्वारः अवशिष्टाः॥३०॥ तदस्य व्योमस्य तत् गोपपिधानरूप कर्म विज्ञाय गोपान्नयन्त त व्योम कृष्णो जग्राह। तत्र वृक यथा हरिः सिहः ओजसा बलेन गृह्णाति तथेति। तद्ग्रहणे हेतुमाह– सता निजभक्ताना गोपाना शरणद आश्रयप्रद इति॥३१॥ तदा गोपरूप विहाय गिरीन्द्रसदृश पवर्तश्रेष्ठतुल्य निजरूपमास्थाय स्वीकृत्य स बलवानपि व्योम आत्मानं विमोक्तु विमोचयितुमिच्छन्नपि मोचयितु नाशक्नोत्। तत्र हेतुमाह– ग्रहणातुर इति। तद्ग्रहणेन व्याकुल इत्यर्थः॥३२॥
अच्युतो बलप्रभावच्युतिरहितः कृष्णस्त व्योम दोर्भ्यां भुजाभ्या निगृह्य भूतले पातयित्वा दिवि अन्तरिक्षे स्थिताना देवाना पश्यता पशुमारं यथा भवति तथा यज्ञीयपशुमिव मुष्टिभिरमारयत्। ‘पशुमारम्’ इत्यनेन ‘तस्य मारण धर्म’ इति सूचितम्। ‘देवाना पश्यताम्’ इत्यनेन तस्य देवभयकरत्व सूचितम्॥३३॥ ततश्च भगवान् गुहायाः पिधानमाच्छादन निर्भिद्य कृच्छ्रतः तन्निरोधजात् कष्टात् गोपान्निःसार्य तैः सुरैश्च स्तूयमानः स्वगोकुल प्रविवेशेत्यन्वयः॥३४॥ इति श्रीवल्लभाचार्य– वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमगिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ सप्तत्रिशो गतः केशि– वधादिविनि-
तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले॥ पश्यतां दिवि देवानां पशुमारममारयत्॥३३॥
गृहापिधानं निर्भिद्य गोपान्नि सार्य कृच्छ्रत॥ स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम्॥३४॥
इति श्रीमद्भा० महापु० दश० राजसनिरूपणप्रकरणे केशिवधादिनिरूपणं नाम सप्तत्रिंशोऽध्याय॥३७॥
॥श्रीशुक उवाच॥
अक्रूरोऽपि च तां रात्रि मधुपुर्या महामति॥ उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम्॥१॥
गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे॥ भक्ति परामुपगत एवमेतदचिन्तयत्॥२॥
कि मयाचरित भद्र कि तप्तं परम तप॥ किं वाऽथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम्॥३॥
रूपकः॥३॥ ॥छ॥ ॥अष्टत्रिशे यथाक्रूरः कृतवान् स्वमनोरथम्॥ तथैव रामकृष्णाभ्या सत्कृतश्चेति वर्ण्यते॥१॥ ‘कसेनाज्ञप्तोऽक्रूरः किं कृतवान्’ इत्यपेक्षायामाह– अक्रूरोऽपीति। यस्या रात्रौ कसेन समादिष्टस्ता रात्रिं मधुपुर्यामेवोषित्वा महामतिः महती सूक्ष्मा परमार्थग्रहणे समर्था मतिर्बुद्धिर्यस्य सोऽक्रूरोपि प्रातःकाले रथमास्थाय नन्दस्य गोकुल प्रति ययौ प्रतस्थे। ‘महामतिः’ इत्यनेन सूक्ष्मबुद्धित्वात् कसस्यार्थोऽनर्थो वा भवतु, मम तु तावद्भगवद्दर्शनादिना कृतार्थता भविष्यत्येवेति गमने तदभिप्रायः सूचितः॥१॥ पथि गच्छन्नम्बुजवच्छोभमाने कृपादृष्ट्यैव सन्तापहारके ईक्षणे यस्य तस्मिन् भगवति परा भक्तिमुपगतः, अत एव महाभागोऽक्रूरः एव वक्ष्यमाणप्रकारेण एतद्वक्ष्यमाणमचिन्तयत्॥२॥ तत्रादौ भगवद्दर्शन निश्चित्य तत्कारण स्वभाग्य बहुधा तर्कयति–किमिति। भद्र यज्ञादि मया किमाचरितम्? किं वा परम तपः व्रतोपवासादि तप्त कृतम्? अथवा किमर्हते पूज्याय पात्राय दत्तम्?। कुत एतन्मया कृतमिति सम्भावयति। तत्राह– यदिति। यस्मादद्य केशव ब्रह्मरुद्रयोरपि पूज्य कृष्ण द्रक्ष्यामि। अन्यथैतन्न सम्भाव्यते इति भावः॥३॥
स्वस्य श्रीकृष्णदर्शनासम्भवमाशङ्कते– ममेति। एतदुत्तमश्लोकस्य अविद्यानिवर्तकयशसो दर्शन मम दुर्लभं मन्ये।‘कुत एतत्?’ इत्याशङ्क्य तत्राधिकार्यभावमाह– विषयात्मन इति। विषयाक्रान्तचित्तस्य तदसम्भवादित्यर्थः। तत्र दृष्टान्तमाह– यथेति। शूद्राज्जन्म यस्य तस्य यथा ब्रह्मणो वेदस्य कीर्तनमध्ययन दुर्लभ तत्राधिकाराभावात्तथेत्यर्थः॥४॥ एवमाशङ्क्य पुनर्दर्शन सम्भावयति– मैवमिति। दर्शन न स्यादिति न, कि त्वधमस्य विषयाविष्टचित्तत्वेन नीचस्यानधिकारिणोऽपि ममाच्युतस्य दर्शन स्यादेव। ‘कुत’ इत्यपेक्षायामाह– ह्रियमाण इति। यथा नद्या ह्रियमाणाना तृणादीना किञ्चित्, कदाचित्तरति कूल प्राप्नोति, तथा कर्मवशेन कालेन ह्रियमाणाना जीवाना मध्येऽपि कश्चित्तरेदिति। ममापि ससारसागरतरण सम्भवतीति भावः॥५॥ किञ्च अद्य ममामङ्गल ससार
दुःखकारण पाप नष्ट अय च मे मम भवो जन्म फलवान् परमफलमोक्षवान्। ‘कुत
ममैतद्दुर्लभ मन्य उत्तमश्लोकदर्शनम्॥ विषयात्मनो यथा ब्रह्मकीर्तन शूद्रजन्मनः॥४॥ मैव ममाधमस्यापि स्यादेवाच्युतदर्शनम्॥ ह्रियमाण कालनद्या क्वचित्तरति कश्चन॥५॥ ममाद्यामङ्गल नष्ट फलवांश्चैव मे भवः॥ यन्नमस्ये भगवतो योगध्येयाङ्घ्रिपङ्कजम्॥६॥ कंसो बताऽद्याकृत मेत्यनुग्रह द्रक्ष्येऽङ्घिपद्मप्रहितोऽमुना हरे॥ कृतावतारस्य दुरत्यय तम पूर्वेऽतरन्यन्नखमण्डलत्विषा॥७॥ यदर्चित ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभि ससात्वतै॥ गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम्॥८॥
एव निश्चयः?’ तत्राह– यदिति। यस्माद्भगवतो योगिभिः केवल ध्येयमेव नतु दृश्यमघ्रिपङ्कजं नमस्ये॥६॥ अघटित घटनातोऽपि स्वोद्धार सम्भावयति– कस इति। ‘बत’ इत्याश्चर्यम्। भगवद्भक्तद्रोह्यपि कसोऽद्य मे ममात्यनुग्रहमकृत कृतवान्। यस्मात् यस्य चरणकमलस्य नखमण्डलस्यत्विषा नखसमूहकान्त्या हृदि ध्यायमानया पूर्वे ध्यातारोम्बरीषादयः दुरत्यय तमः दुस्तर ससारमतरन्। तत्कृतावतारस्य हरेरङ्घ्रिपद्मममुना कसेन प्रहितः प्रस्थापितोऽह द्रक्ष्ये इत्यन्वय॥७॥ चरणस्य सर्वत उत्कर्षमाह– यदिति। यच्छन्दयोस्तद्रक्ष्ये इति पूर्वेणान्वयः। यच्चरणकमल ब्रह्मादिभिः सुरैरर्चितमित्यैश्वर्यातिशयम्, श्रिया देव्या चार्चितमिति सौभाग्यातिशयम्, ससात्वतैर्भक्तसहितैर्मुनिभिश्चार्चितमिति परमपुरुषार्थत्वम्ः अनुचरै सखिभिः सह गोचारणाय यद्वनेऽचरदिति कृपालुत्वम्, यद्गोपिकाना कुचकुङ्कुमाङ्कितमिति भक्तिमता सुलभत्व च दर्शितम्॥८॥
तदानीमेव शुभसूचक शकुनमिति दृष्ट्वा मनोरथपूर्ति निश्चिनोति– द्रक्ष्यामीति। प्रसिद्धि द्योतयन्नाह– वै इति। यतो मृगा मे मम प्रदक्षिण यथा भवति तथा प्रचरन्ति गच्छन्ति ततो नून निश्चितं नात्र सन्देहः, शोभनौ कपोलौ तथाभूता नासिका च यस्मिस्तत। स्मितसहितःअवलोकश्च यस्मिन् अरुणे कञ्जवल्लोचने यस्मिस्तच्च तच्च गुडालकैर्वक्रकेशैर्वृत मुकुन्दस्य ससारविमुक्तिप्रदस्य कृष्णस्य मुख द्रक्ष्यामीत्यन्वयः ॥९॥ पुनरन्यच्चिन्तयति– अप्यद्येति। भुवो भारावताराय निजेच्छया मनुजत्वमीयुषोर्मनुष्यनाट्य स्वीकृतवतो लावण्यस्य सौन्दर्यातिशयस्य धाम्नः आश्रयस्य विष्णोरपि यदि अद्य उपलम्भन दर्शनं भविता भविष्यति तर्हि मह्यमम दृशो लोचनस्य फल न स्यादिति न अपि तु स्यादेवेत्यर्थः॥१०॥ य ईक्षितेत्यादिचतुर्णामेक कुलकम्। तत्रैव शङ्का– ननु ‘अस्मदादिवदेव कर्तृत्वभोक्तृत्वादिधर्मैस्तत्र तत्र प्रतीयमानस्य कथ विष्णुत्वम्?’ इतीमा शङ्का श्लोकत्रयेणापाकुर्वन्
द्रक्ष्यामि नून सुकपोलनासिक स्मितावलोकारुणकञ्जलोचनम्॥ मुख मुकुन्दस्य गुडालकावृत प्रदक्षिण मे प्रचरन्ति वै मृगा॥९॥ अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया। लावण्यधाम्नो भवितोपलम्बन मह्यन न स्यात् फलमञ्जसा दृशः॥१०॥ य ईक्षिताऽहरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रम। स्वमाययाऽऽत्मन्रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते॥११॥ यस्याखिलामीवहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः॥ प्राणन्ति शुम्भन्ति पुनन्ति वै जगद्यास्तद्विरक्ताः शवशोभना मता॥१२॥
चतुर्थेन तमह द्रक्ष्यामीति मनोरथ करोति– यः सदसतोः कार्यकारणयोःईक्षिता– ईक्षणमात्रेण कर्तापि अहरहित तत्राहममाभिमानरहितः। तत्र हेतुमाह– स्वतेजसा सच्चिदानन्दस्वरूपप्रकाशेनैवापास्ता तमोभिदाभ्रमा येन सः। तमः स्वरूपाज्ञान, भिदा तत्कृतो भेद, भ्रम अनात्मन्यात्मबुद्धि। एवभूतोपि सदनेषु गोपीगृहवृन्दावनादिषु विहरस्तदीक्षया तेषा जीवाना दृष्ट्या स्वमायया स्वेच्छया आत्मन् आत्मनि स्वस्मिन् रचितै प्रकाशितैः प्राणादिभिर्युक्तोऽस्मदादिवदभीयते प्रतीयते ॥११॥ ननु ‘सर्वथाऽहङ्कारादिरहितस्यात्मारामस्य अवतारो विहारो वा कुत’ इत्याशङ्क्य‘परानुग्रहार्थ एव इत्याशयेनाह– यस्येति द्वाभ्या। यस्य भगवतो गुणादिभिर्विमिश्रा युक्तास्तत्प्रतिपादिका वाचो जगत् वक्तृश्रोत्रादिप्राणिमात्र प्राणन्ति जीवयन्ति सफलजीवन कुर्वन्ति, शुम्भन्ति सज्जनसभासु शोभयन्ति, पुनन्ति पवित्रयन्ति। ‘नात्र सन्देह’ इति सूचयन्नाह– वै इति। तत्र गुणाः कृपालुत्वादयः, कर्माणि गोवर्धनोद्धरणादीनि, जन्मानि रामकृष्णादीनि। पवित्रीकरणे हेतुमाह– अखिलानि यान्यमीवानि वक्रादीना पापानि तानि घ्नन्तीति तथा
तैरिति। शोभादिकरणे हेतुमाह– सुमङ्गलैरिति। शोभनानि मङ्गलानि धर्मादिपुरुषार्था वक्रादीना येभ्यस्तै। विपक्षे दोषमाह– या इति। या वाचस्तैर्भगवद्गुणादिभिर्विरक्तास्तत्प्रतिपादनरहिताः तास्तु विचित्रैः पदैः रागादिभिश्चस्वलङ्कृता अपि वस्त्राद्यलङ्कृतशववच्छोभमाना मताः सता सम्मताः। यथा शवालङ्कारवस्त्रादिदर्शनग्रहणाद्यधिकारिणो नीचा एव नोत्तमास्तथा भगवद्यशोव्यतिरिक्तप्रतिपादना वाक् श्रवणाद्यधिकारिणोऽपि विषयाविष्टचित्ता नीचा एव, नोत्तमा इति ज्ञेयम्॥१२॥ ‘च’ इत्यवधारणे। स एव सात्वतान्वये यादवकुले श्रीकृष्णरूपेणावतीर्णः सन् व्रजे आस्ते। अवतारप्रयोजनमाह– यशो वितन्वन् विस्तारयन्। तत्प्रयोजनमाह– स्वसेत्विति। स्वयंरचितान् सेतून् वर्णाश्रमधर्मान् पालयताममरवर्याणा शर्मकृत्। दैत्यादिवधेन सुखकर्ता सन्। प्रयोजनान्तरमप्याह– गायन्तीति। अशेषाणा सर्वेषा श्रोत्रादीना मङ्गल वाच्छित फल यस्मात्तत् यद्यशो देवा गायन्ति। भवत्वेव लोकप्रयोजनम्, तस्य तु कि ‘प्रयोजन? येनावतारादि करोति’ तत्राह– ईश्वर इति। ईश्वरत्वात् स्वप्रयोजनाभावेपि जीवाना पुरुषार्थसिध्यर्थ अवतारादि करोति इत्याशयः॥१३॥ त श्रीकृष्ण त्वद्य नूनमह द्रक्ष्यामीत्यन्वयः। ‘कथमेव निश्चय’ इत्यपेक्षाया तत्र ज्ञापकमाह– उषसः प्रभात–
स चावतीर्ण किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत्॥ यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम्॥१३॥ त तत्वद्य नून महतां गति गुरु त्रैलोक्यकान्तं दृशिमन्महोत्सवम्॥ रूप दधानं श्रिय ईप्सितास्पद द्रक्ष्ये ममासन्नुषस सुदर्शना॥१४॥ अथावरूढ सपदीशयो रथात् प्रधानपुसोश्चरण स्वलब्धये॥ धिया धृत योगिभिरप्यह ध्रुव नमस्य आभ्यां च सखीन् वनौकस॥१५॥
समयाः मम सुदर्शना आसन् शुभसूचका बभूवुरित्यर्थः। तद्दर्शनेनात्मन कृतार्थता सूचयन्नाह– महता साधूना गति प्राप्यमिति। ननु ‘गुरुविना कथ कृतार्थता’ इत्याशङ्क्याह– गुरुमिति। महता गुरुरुपदेष्टापि स एवेति। तद्दर्शनाद्यर्थमेव तन्मार्गोपदेष्टा गुरुरपेक्षितस्तद्दर्शनादौ जाते तु न गुर्वन्तरापेक्षा इत्याशयः। तद्दर्शनेनैव कृतार्थताया परमानन्दजनक तत्स्वरूपसौन्दर्यातिशय हेतुमाह– श्रियो लक्ष्म्या ईप्सितमास्पदमाश्रयभूत स्वरूप दधानमिति। श्रिय ईप्सितत्वहेतुमाह– दृशिमता चक्षुष्मता महानुत्सवो हर्षो यस्मादिति। तथात्वेऽपि हेतुमाह– त्रैलोक्ये एकमेव कान्तमिति॥१४॥ किञ्च अथास्य दर्शनानन्तर सपदि झटित्येव
स्थादवरूढः अवतीर्णोऽह प्रधानपुसोः पुरुषोत्तमयोः रामकृष्णयोश्चरण तथा आभ्या अनयोः सखीन् वनौकसो व्रजवासिनश्च नमस्ये इति ध्रुव निश्चितमत्र सन्देहो नास्तीति अहो मे भाग्यम्। पुरुषोत्तमत्वे हेतुमाह– ईशयोरिति। तच्चरणदर्शनस्पर्शादेर्दुर्लभत्वमाह– स्वलब्धय इति। अनाद्यविद्याच्छादितस्वपरमार्थरूपप्रकाशाय योगिभिरपि केवल धिया धृत चिन्तित न त्वेव साक्षादृष्टमित्यर्थ॥१५॥
किञ्च न केवल नमस्कारादिलाभमात्रम्, कितु स्वाङ्घ्रिमूले पतितस्य मे मम शिरसि विभुर्महत्तमत्वात् कृष्णो निजहस्तपङ्कज अधास्यत् आधास्यति तेनाप्यह कृतार्थ एव स्याम्। तत्र हेतुमाह– दत्तेति। काल एव भुजङ्ग अजगरस्तस्य रहसा वेगेन प्रोद्वेजितानामत्यन्तभीतानाम्, अतएव शरणैषिणा स्वरक्षकत्वेनाङ्गीकृतानां नृणा दत्तमभय येन तत्॥१६॥ एव हस्तकमलस्य मुमुक्षूणा मोक्षप्रदत्वमुक्तम्। अथ सकामानामभ्युदयप्रदत्वमाह–समर्पणमिति। कौशिक कौशिकगोत्रोत्पन्नः इन्द्रः कश्चित् पूर्वजन्मति तथा बलिश्च वैरोचनिः पदत्रयपरिमितभूतलदानसमये यत्र यस्मिन् हस्तकमले अर्हण जलमात्र निधाय समर्प्य जगत्त्रयेन्द्रतामवाप। कौशिकेन किञ्चित्कदाचिद्भगवद्धस्ते दत्तम्, येनेन्द्रत्व लब्धमिति पुराणान्तराज्ज्ञेयम्। अथानुरक्ताना परमानन्दजनकत्वमाह–यद्वेति। वाशब्दः आश्चर्ये। सौगन्धिकस्य कमलविशेषस्य गन्ध इव गन्धो यस्य तथाभूत यत् विहारे रासक्रीडाया व्रजयोषिता विहारज श्रम स्पर्शेनापानुदत् दूरीचकार॥९७॥ ननु ‘शत्रुणा कसेन प्रेषितस्त्वमपि शत्रुरेव, अतः कथ त्वय्येवमनुग्रह करिष्यति?’
अप्यङ्घ्रिमूले पतितस्य मे विभु शिरस्यधास्यन्निजहस्तपङ्कजम्॥ दत्ताभय कालभुजङ्गरहसा प्रोद्वेजितानां शरणैषिणां नृणाम्॥ १६॥ समर्हण यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम्॥ यद्वा विहारे व्रजयोषितां श्रम स्पर्शेन सौगन्धिकगन्ध्यषानुदत्॥१७॥ न मय्युपैष्यत्यरिबुद्धिमच्युत कंसस्य दूत प्रहितोऽपि विश्वदृक्॥ योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा॥१८॥ अप्यङ्घ्रिमूलेऽवहित कृताञ्जलि मामीक्षिता सस्मितमार्द्रया दृशा॥सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुद वीतविशङ्क ऊर्जिताम्॥१९॥
इत्याशङ्क्याह– नेति। यद्यप्यह कसेन प्रहित प्रेषितस्तथाप्यच्युतः श्रीकृष्णो मय्यय कसस्य दूतः कार्यसाधकः इत्यरिबुद्धि नोपैष्यति न करिष्यति इत्यर्थ। यतो विश्वदृक् सर्वसाक्षी। तत्राप्यच्युतज्ञानत्व हेतुरच्युतपदेन सूचितः। एतदेव स्पष्टयति– यइति। यः क्षेत्रज्ञः साक्षी अमलेन यथार्थग्रहणे समर्थेन चक्षुषा चिच्छक्त्या चेतसोन्तर्बहिश्च स्थितस्य प्राणिजातस्येहित चेष्टितमीक्षते। तथाचाह बहिरेव कसानुवर्ती, अन्ततस्तु तत्सेवक एव, अत सर्वज्ञः स मयि नारिबुद्धिं करिष्यतीति भावः॥१८॥ अतोऽपि यदि अङ्घ्रिमूले चरणोपान्ते अवहित सयत रचिताञ्जलिं मा सस्मित यथा भवति तथा कृपामृतेनार्द्रया दृशा दृष्ट्या ईक्षिता द्रक्ष्यति तर्हि सपदि तत्क्षण एवापध्वस्तो विनष्टः समस्तकिल्बिषो दुरित पाप यस्य, वीता निवृत्ता पुनर्जन्मादिशङ्का यस्य तथाभूतश्च सन्नहमूर्जिता वृद्धा मुद वोढा प्राप्स्यामीत्यन्वयः॥१९॥
किञ्च अथ दर्शनानन्तर स यदि बृहद्भ्या दोर्भ्या भुजाभ्या मा परिरप्स्यते आलिङ्गयिष्यति तदैव मे ममात्मान्तःकरणविशिष्टो जीवस्तीर्थीकियते। पवित्रीकरिष्यते। ‘कुत’ इत्यत आह– अतः अस्मात् तदालिङ्गनाद्धेतोःकर्मात्मको बन्धश्च उच्छ्वसिति शिथिलीभविष्यति। ‘परमेश्वरस्त्वा कथ परिरप्स्यते’ इत्याशङ्क्य तद्योग्यता सूचयन्नात्मान विशिनष्टि– सुष्ठु हृत् यस्य स सुहृत् अतिशयेन सुहृदिति सुहृत्तमस्त तद्विषयककापट्यरहित ज्ञातिपितृव्य न विद्यते यस्मात् अन्यद्दैवत यस्य तमनन्यभक्त चेति।किञ्च यदा उरुश्रवाः महायशाः श्रीकृष्णः लब्धोऽङ्गसङ्गः परिरम्भो येन त प्रणत बद्धाञ्जलि च मा हे अक्रूर हे तातेति च वक्ष्यते प्रेम्णा सम्बोधयिष्यति तदा वय जन्मभूतः सफलजन्मानो भविष्यामः। स्वकुटुम्बाभिप्रायेण बहुवचनम्। ‘उरुश्रवा’ इत्यनेनैव दीनेष्वनुग्रहेणैव तद्यशोविस्तारस्त्वन्यथा न स्यादिति सूचितम्। व्यतिरेके दोषमाह– यस्तु पुमान् महीयसा सर्वपूज्येन भगवता नैवादृतः स्वकीयत्वेन गृहीतः अमुष्य पुसः तज्जन्म धिक् निन्यमित्यर्थः॥२०॥२१॥ ननु ‘सुहृदादिषु परिष्वङ्गसम्प्रश्नादयो
सुहृत्तम ज्ञातिमनन्यदैवत दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽव माम्॥ आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः॥२०॥ लब्धाङ्गसङ्गे प्रणत कृताञ्जलि मां वक्ष्यतेऽक्रुर ततेत्युरुश्रवा॥ तदा वय जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत्॥२१॥ न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एवा॥ तथाऽपि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थद॥२२॥ किञ्चाग्रजो माऽवनतं यदूत्तम स्मयन् परिष्वज्य गृहीतमञ्जलौ॥ गृहं प्रवेश्याप्तसमस्तसत्कृत सम्प्रक्ष्यते कसकृत स्वबन्धुषु॥२३॥
विषमस्य जीवस्य धर्मास्तस्मिन्नीश्वरे कथ सङ्गच्छन्ते? तस्य समत्वादन्यथा वैषम्य स्यात्’ इत्याशङ्क्याह– नेति।यद्यपि तस्य प्रियादयो न सन्ति तथापि ये भक्तास्त यथा भजन्ते तान् भक्तान् सोऽपि तथैव भजते, अतो न वैषम्यमित्यन्वयः। तत्र दृष्टान्तमाह– सुरद्रुमः कल्पतरुः यद्वत् यथा उपाश्रिताना भजतामेवार्थदः फलप्रदो भवति न सर्वेषा न ह्येतावता तस्य वैषम्य भवति तद्वदित्यर्थः। दयितः प्रियः। अस्यैव विवरण सुहृत्तम इतिमित्रमित्यर्थः। तथाऽप्रियः अस्य विवरण द्वेष्यो द्वेषविषयः, आप्तकामत्वात। ‘तर्ह्युपेक्ष्य एव कश्चित् स्यात्’ इत्याशङ्क्याह– उपेक्ष्य एवेति, सर्वपालकत्वादित्याशय॥२२॥ एव श्रीकृष्णविषयकान् मनोरथान् कृत्वा रामविषयक मनोरथ करोति– किञ्चेति। यदूत्तमः अग्रजो रामः स्मयन् हसन् अवनत कृतप्रणाम मा परिष्वज्य तदा यो मयाञ्जलि करिष्यते तस्मिन्नेव गृहीत मा गृह प्रवेश्य तत्राप्तानि लब्धानि सत्कृतानि अर्घ्यादीनि येन त मा प्रति स्वबव्धषु कसकृतमपकारादिक सम्प्रक्ष्यते इत्यन्वयः॥२३॥
इत्येव श्वफल्कतनयोऽक्रूरः अध्वनि मार्गे कृष्णमेवानुचिन्तयन् रथेन गोकुल प्राप्तः सूर्यश्चास्त प्राप्तः। ‘इयमक्रूरावस्था चान्येषा दुर्लभा’ इति सूचयन् सम्बोधयति– नृपेति। यद्यपि गोकुलमथुरयोरन्तरा क्रोशत्रयमेवाक्रूरस्तु प्रभातसमय एव रथारूढो मथुरातः प्रतस्थेऽतः शीघ्रमेव तदागमन युक्त, तथापि मनोरथपरवशस्तत्र तत्र विलम्बयन् सायकाले गोकुल प्राप्तः इति ज्ञेयम्॥२४॥ तत्र च क्षिते कौतुकानि अलङ्काररूपाणि अब्जादिरेखाभिर्विलक्षितानि अङ्कितानि अखिलैर्लोकपालैः किरीटेषु जुष्टाः सेविताः अमलाः अविद्यादिसकलमलनिवर्तकाः पादरेणवो यस्य तस्य भगवतः सम्बन्धीनि पदानि ददर्शेत्यन्वयः॥२५॥ तेषा पदाना दर्शनेन य आल्हादस्तेन विवृद्धः सम्भ्रमो व्याकुलत्व यस्य सः, तथा प्रेम्णा ऊर्ध्वानि उदञ्चितानि रोमाणि यस्य स, तथा अश्रूणा हर्षजाना कलाभिर्लेशैराकुले ईक्षणे यस्य सोऽक्रुरः। अहो इति दुर्लभता द्योतयति। ब्रह्मादीनामपि दुर्लभानि
श्रीशुक उवाच॥इति सञ्चिन्तयन् कृष्ण श्वफल्कतनयोऽध्वनि॥ रथेन गोकुल प्राप्त सूर्यश्चास्तगिरिं नृप॥२४॥ पदानि तस्याखिललोकपालकिरीटजुष्टामलपादरेणो॥ ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः॥२५॥ तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाऽश्रुकलाकुलेक्षण॥ रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्घ्रिरजांस्यहो इति॥२६॥ देहभृतामियानर्थो हित्वा दम्भं भिय शुचम्॥ सन्देशाद्यो हरेर्लिङ्गदर्शनश्रवणादिभि॥२७॥ ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ॥ पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ॥२८॥
अमूनि प्रभोः कृष्णस्याङ्घ्रिरजासीति विभावयन् रथादवस्कन्द्य अवप्लुत्य तेषु पादरजस्सु अचेष्टत व्यलुठदित्यन्वयः॥२६॥ प्रसङ्गादक्रूरभक्तेः परम पुरुषार्थत्वमाह– देहभृतामिति। सन्देशात् गुरूपदेशात् दम्भ मनस्यन्यथा सत्त्वेपि बहिरन्यथाप्रकाशन, भिय भय, शुच शोक च हित्वा हरेर्लिङ्गाना मूर्तीना दर्शन गुणाना श्रवणमादिपदेन कीर्तनस्मरणादिग्रहण देहभृता प्राणिनामियानेतावानेवेत्यर्थः परमपुरुषार्थः। ‘कोसौ’ इत्यपेक्षायामाह– य।इति। कसादेशादारभ्य यो भक्तिविशेषोऽक्रूरस्य जात स इत्यर्थः॥२७॥ ततश्च स व्रजे कृष्ण राम च ददर्श। तौ वर्णयति– गावो दुह्यन्त्यस्मिन्निति गोदोहन दोहस्थान गतौ प्राप्तौ पीताम्बरधरः कृष्णः नीलाम्बरधरः रामः शरत्कालीनाम्बुरुहवदीक्षणे ययोस्तौ॥२८॥
श्रियो लक्ष्म्याः शोभायाश्च निकेतौ आश्रयभूतौ बृहद्भुजौ पीनवर्तुलदर्घिभुजयुक्तौ बालो यो द्विरदो गजस्तद्वद्विक्रमो गतिर्ययोस्तौ॥२९॥ ध्वजादिदिरेखाभिश्चिह्नितैरङ्घिभिर्व्रज शोभयन्तौ महात्मानौ सुस्वभावौ अनुक्रोशोनुकम्पा तद्विलसितस्मितयुक्तमीक्षण ययोस्तौ॥३०॥ उदाराः श्रोत्रादिजनाना वाच्छितफलप्रदाः रुचिरा मनोहराः क्रीडा ययोस्तौ, स्रग्विणौ रत्नादिमालाधरौ, वनमालिनौ पुष्पमालाधरौ, पुण्य सुष्ठु गन्धो यस्य ते चन्दनेनानुलिप्तानि अङ्गानि ययोस्तौ, विरजे निर्मले वाससी ययोस्तौ॥३१॥ प्रधानपुरुषौ पुरुषोत्तमौ। तत्र हेतुः– जगद्धेतू इति।जगत्कारणभूतावित्यर्थः॥ तत्रापि हेतुमाह– आद्याविति। सृष्टेः पूर्वमपि विद्यमानौ जगत पती पालकौ, अतो जगत्यर्थे जगत्पालनार्थं स्वाशेन मूर्तिभेदेनावतीर्णौ बलकेशवौबलाधिक्याद्बलः
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ॥ सुमुखौ सुन्दरवरौ बालद्विरदविक्रमौ॥२९॥
ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरघ्रिभिर्व्रजम्॥ शोभयन्तौ महात्मान228ौसानुक्रोशस्मितेक्षणौ॥३०॥
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ॥ पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ॥३१॥
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती॥ अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ॥३२॥
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया॥ यथा मारकतः शैलो रौप्यश्च कनकाचितौ॥३३॥
रथात्तूर्णमवलुत्य सोऽक्रूर स्नेहविह्वल॥ पपात चरणोपाते दण्डवद्रामकृष्णयो॥३४॥
भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षण॥ पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन्नृप॥३५॥
केशौ ब्रह्मरुद्रौ वाति उत्पादयतीति केशवः। ‘क इति ब्रह्मणो नाम ईशोऽह सर्वदेहिनाम्॥ आवा तवाङ्गसम्भूतौ तस्मात् केशवनामवान्’ इति रुद्रेण केशवशब्दार्थनिरुक्तेः तौ॥३२॥ ‘तयोरेव स्वरूप सदा प्रयत्नेन ध्येयम्’ इत्याशयेन सम्बोधयन्ति– राजन्निति। स्वया प्रभया दिशा विगततिमिराः कुर्वाणौ। तत्र दृष्टान्तमाह– यथा कनकेन व्याप्तो मारकत इन्द्रनीलपर्वत इति कृष्णस्योपमा तथाभृतो रौप्यश्च भवपर्वत इति रामस्योपभेति विवेकः। एवभूतौ ददर्शेति पूर्वेण सम्बन्धः॥३३॥ तदा स्नेहेन विह्वलः सोऽक्रूरः तूर्ण शीघ्रमेव रथादवप्लुत्य रामकृष्णयोश्चरणोपान्ते दण्डवत पपातेत्यन्वयः॥३४॥ भगवद्दर्शनेन यः आल्हादरतेन यद्बाष्प तेन परितः आकुले ईक्षणे यस्य सः, पुलकैरुत्थितरोमभिराचित व्याप्तमङ्ग यस्य सः अक्रूरः हे नृपः। औत्कण्ठ्यात् बाष्पेन कण्ठनिरोधात् स्वाख्याने अक्रूरोऽह नमस्करोमीति कथने नाशकत् न प्रबभूव॥३५॥
भगवान् कृष्णस्तमभिप्रेत्य ‘अक्रूरोऽस्मदानयनार्थमागत’ इति ज्ञात्वा प्रीतः सन् कसहननसामर्थ्य द्योतयन् रथाङ्गेन चक्रेण अङ्कितस्तत्किणयुक्तो यः पाणिस्तेन तमभ्युपाकृष्य सम्मुख समीपमाकृष्य परिरेभे आलिङ्गितवान्। यतः प्रणवत्सलः॥३६॥ ततः सङ्कर्षणोपि कृतप्रेणतिमक्रूरमुपगुह्य229 आश्लिष्य महामनाः हृष्टमनाः स्वपाणिना तस्य पाणी अञ्जलिरूपेण सहतौ हस्तौ गृहीत्वा सानुजः कृष्णेन सहितो गृहमनयत्॥३७॥ अथ ततः स्वागत पृष्ट्वा तस्मै अक्रूराय प्रवरं श्रेष्ठमासन निवेद्य समर्प्य यथाविधि पादौ प्रक्षाल्य मधुपर्कार्हणमाहरत् आनीय समर्पितवान्॥३८॥ ततश्च आदृतः आदरयुक्तो विभुः रामः अतिथये तस्मै अक्रूराय गा समर्प्य श्रान्त त सवाह्य पादसवाहनादिना तच्छ्रममपनीय मेध्य विशुद्ध बहुगुणोपेत षड्रसयुक्तमन्न श्रद्धयोपाहरत् समर्पयामास॥३९॥ भुक्तवते तस्मै अक्रूराय रामः प्रीत्या मुखवासैः कर्पूरताम्बूलादिभिःगन्धमाल्यैश्च पुनः परा
भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना॥ परिरेभेऽभ्युपाकृष्य प्रीत प्रणतवत्सलः॥३६॥
सङ्कर्षणश्च प्रणतमुपगुह्य महामना॥ गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम्॥३७॥
पृष्ट्वाऽथ स्वागतं तस्मै निवेद्य च वरासनम्॥ प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत्॥३८॥
निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः॥ अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभु॥३९॥
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित्॥ मुखवासैर्गन्धमाल्यैः परां प्रीति व्यधात् पुनः॥४०॥
पप्रच्छ सत्कृत नन्दः कथ स्थ निरनुग्रहे॥ कसे जीवति दाशार्ह सौनपाला इवावय॥४१॥
निर्वृति तदागमनजन्य सुख मत्त्वा प्रीतिं व्यधात् उदपादयत्। तत्र हेतुमाह– परमधर्मविदिति। अतिथिपूजनस्य परमधर्मतत्त्वज्ञ इत्यर्थः॥४०॥ ततः सत्कृतमक्रूर नन्दः पप्रच्छ। तत्प्रश्नमेवाह– ‘कथम्’ इत्यादिपादानाभ्यां– द्वाभ्याम्। वशस्य प्रशस्तत्वात् तन्नाम्ना प्रशसा द्योतयन् सम्बोधयति दाशार्हेति। निरनुग्रहे अतिक्रूरे कसे जीवति सति यूय कथ केन प्रकारेण स्थ जीवथेत्यर्थः। तत्र दृष्टान्तमाह– सौनपाला इवेति। सूना हिसा तत्परः सौनः पशुघाती मासविक्रयी स एव पालको येषामवीनां मेषाणा ते इव तत्तुल्या यूयमित्यर्थः। यथा तन्निकटे तेषांजीवन दुर्घट तथा कसनिकटे युष्माकं जीवनमपि दुर्लभमित्याशयः॥४१॥
ननु ‘कुशलप्रश्न विहाय कथ जीवनप्रकारप्रश्न कृतः?,इत्यपेक्षाया तस्य निरनुग्रहत्वमेव स्पष्टयन्नुत्तरमाह– य इति। यः खलः परोद्वेजकः कमः क्रोशन्त्या रुदन्त्याः स्वस्य स्वसुर्भगिन्यास्तोकान् अपत्यानि अवधीत् तस्य प्रजाना वो युष्माक तावज्जीवनमेव दुर्लभम्, कुशल सुख तु कि स्वित् विमृशामहे विचारयामेत्यन्वयः। खलत्वे हेतुमाह– असुतृप् इति। असून् प्राणानेव तर्पयतीति तथा सः॥४२॥ प्रथम कुशल परिपृष्टेन नन्देनेत्थ सूनृतया मधुरया वाचा पृष्टः सुसभाजितः सत्कृतश्चाक्रूरः अध्वपरिश्रम जहावित्यन्वयः॥४३॥ इति श्रीवल्लभाचार्य– वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ अष्टत्रिशो गतोऽक्रूरागमनादिनिरूपकः॥३॥॥छ॥॥ गच्छति मथुरा कृष्णे विलापो व्रजयोषिताम्॥ अक्रूरेण च वैकुण्ठदर्शन
योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खल॥ कि नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे॥४२॥ इत्थं सूनृतया वाचा नन्देन सुसभाजितः॥ अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम्॥४३॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरूपणप्रकरणेऽक्रूरागमनादिनिरूपण नामाऽष्टत्रिशत्तमोध्यायः॥३८॥छ॥॥ श्रीशुक उवाच॥ सुखोपविष्टः पर्यङ्के रामकृष्णोरुमानितः॥ लेभे मनोरथान् सर्वान् पथि यान् स चकार ह॥१॥ किमलभ्य भगवति प्रसन्ने श्रीनिकेतने॥ तथाऽपि तत्परा राजन्न हि वाञ्छन्ति किञ्चन॥२॥ सायन्तनाशनं कृत्वा भगवान् देवकीसुत॥ सुहृत्सु वृत्तं कसस्य पप्रच्छान्यच्चिकीर्षितम्॥३॥ श्रीभगवानुवाच॥ तात सौम्याऽऽगतः कच्चित् स्वागतं भद्रमस्तु वः॥ अपि स्वज्ञातिबन्धूनामनमीवमनामयम्॥४॥
विनिरूप्यते॥१॥ ‘भगवद्भक्तानामेव मनोरथा सत्या भवन्ति, नान्येषाम्’ इत्याशयेनाह– सुखेति। एव पृष्ट्वा नन्दे गते सति रामकृष्णाभ्यामुरु अधिक यथा तथा मानितः, अत एव सुख यथा स्यात्तथोपविष्टः सोऽक्रूरो यान् मनोरथान् पथि चकार तान् सर्वाल्लेभे। ‘ह’ इति भगवत्प्रसादस्याश्चर्य सूचयति॥१॥ श्रीनिकेतने लक्ष्मीपतौ। तत्परा भगवद्भक्ताः। ‘तवाप्येतत् सम्मतम्’ इत्याशयेन सम्बोधयति– राजन्निति। स्पष्टमन्यत्।॥२॥तदा देवकीसुतो भगवान् कृष्णः सायकालोचित भोजन कृत्वा स्वसुहृत्सु वसुदेवादिषु कसस्य वृत्त वर्तनप्रकार अन्यच्च यच्चिकीर्षित तत् पप्रच्छ ॥३॥ प्रश्नमेव दर्शयति– तातेति चतुर्भिः। पितृव्यत्वात् तन्महत्त्व सूचयन् सम्बोधयति– तातेति। तत्रापि स्वप्रीति सूचयन् सम्बोधयति– सौम्येति। ‘कच्चित्’ इति परिप्रश्ने। स्वागत निर्विघ्नमागमन यथा भवति तथा त्वमागतः कच्चित्? तदस्मद्दिष्टम् वो युष्माक भद्रमस्तु सदा सर्वत्र कुशलमेव
भूयात्। स्वीयानामात्मीयाना ज्ञातीना सपिण्डाना बन्धूनामसपिण्डाना च अपि किमनमीवं दुष्टकसादिनिकटवर्तित्वात् प्रत्यह पापाचरण सम्भवति तद्राहित्य तथा अनामयमारोग्यमस्ति॥४॥ ‘एव प्रश्नोऽपि मम नातीव सङ्गच्छते’ इत्याह– कि न्विति। ‘युष्मद्दुःख मयि प्रतिफलति’ इत्याशेयन सम्बोधयति– अङ्गेति। मातुलनाम्नि नाममात्रेण मातुले वस्तुतस्तु नोऽस्माक कुलस्यामये रोगतुल्ये कसे एधमाने सति नोऽस्माक स्वाना ज्ञातीना तत्प्रजासु च कि नु कुशल पृच्छे॥५॥ ‘अहो’ इति स्वखेद सूचयति। अस्मत् अस्मत्तो निमित्तात् आर्ययोः पूज्ययोः पित्रोर्मातापित्रोः भूरि वृजिन दुःखमभूत्। एतदेव प्रपञ्चयति– यत् यस्मात् अस्मत्तो निमित्तात् तयोः पुत्राणा मरण जात यस्माच्च अस्मत्तो हेतोस्तयोर्बन्धन प्राप्तमिति। किञ्च सौम्य हे प्रिय! मह्य मम स्वाना स्वकीयाना वो युष्माक दर्शन तत्रत्यवृत्तपरिज्ञानार्थ बहुकालतः काङ्क्षित तदद्य इदानीं सञ्जातमिति दिष्ट्या। महानानन्दो ममाभूत्, अतो हे तात! तवागमनस्य कारण वर्ण्यतामिति॥६॥७॥ एव भगवता पृष्टो माधवो मधुवंशप्रभवोऽक्रूरः सर्वं वर्णयामास।
कि नु नः कुशल पृच्छे एधमाने कुलामये॥ कसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च॥५॥
अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययो। यद्धेतो पुत्रमरण यद्धेतोर्बन्धनं तयो॥६॥
दिष्ट्याऽद्य दर्शन स्वानां मह्य व सौम्य काङ्क्षितम्॥ सञ्जात वर्ण्यतां तात तवाऽऽगमनकारणम्॥७॥
॥श्रीशुक उवाच॥
पृष्टो भगवता सर्वं वर्णयामास माधवः॥ वैरानुबन्धं यदुषु वसुदेववधोद्यमम्॥८॥
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषित स्वयम्॥ यदुक्त नारदेनास्य स्वजन्माऽऽनकदुन्दुभे॥९॥
श्रुत्वाऽक्रूरवच कृष्णो बलश्च परवीरहा॥ प्रहस्य नन्द पितर राज्ञादिष्ट विजज्ञतु॥१०॥
सर्वशब्दविवक्षितमेव प्रपञ्चयति– ‘वैरानुबन्धम्’ इति सार्धेन। यदुषु विषयभूतेषु कसस्य वैरानुबन्ध वैरमप्रीतिस्तामनुबध्यत इति वैरानुबन्ध, स्तत्कार्यं क्लेशापादन तथा वसुदेववधस्योद्यम प्रयत्नम्॥८॥ यः धनुर्यागच्छद्मा सन्देशो यस्य स तदर्थ चाणूरादिभिर्घातनार्थ सोपायनसमानयनार्थ स्वय दूतः दूतीकृतः कसेन व्रजे सम्प्रेषितश्च यच्चानकदुन्दुभेः सकाशात् स्वस्य कृष्णस्य जन्म नारदेनोक्त तत्सर्वमस्य कृष्णस्याग्रे वर्णयामासेत्यन्वय। अनेन यथार्थकथनेन भगवति तस्य निष्कपटत्वदर्शितम्॥९॥ इत्यक्रूरस्य वचः श्रुत्वा कृष्णो रामश्च प्रहस्य राज्ञादिष्ट स्ववधादि राज्ञोऽभिप्रेत सङ्गोप्य ‘धनुर्यागनिरीक्षणाथ वय राज्ञाहूता’ इति नन्दप्रति विजज्ञतुः विशेषेण ज्ञापयामासतुः। तत्र हेतुमाह– पितरमिति। अन्यथा स तत्र गमन प्रति निरोध कुर्यात्तौ गृहीत्वा पलायेतैवेत्याशयः। ननु ‘कसस्य वधोद्यम श्रुत्वापि कथ तत्र गमने उत्सुकौ’ इत्याशङ्क्याह– परवीरहेति। परान् शत्रुभूतान् वीरान् हन्तीति तथेति द्वयोर्विशेषणम्, अतो भयाभावादित्याशयः॥१०॥
स नन्दोऽपि गोपान् समादिशत् आज्ञापयामास। ‘आज्ञापयामास’ इत्यत्र आज्ञापनमेवाह– गृह्यतामित्यादिना। गोरसः क्षीरादिः गृह्यताम्, तथोपायनानि राज्ञे दातुं योग्यानि उत्तमवस्तूनि गृह्णीध्व, शकटानि च वृषभैर्युज्यन्ताम्॥११॥ ‘किमर्थमेतत् कर्तव्यम्’ इत्यपेक्षायामाह– यास्याम इति। श्वः समनन्तरदिने मधुपुरीं प्रति गमिष्यामः, नृपतेः कसस्य गारेसान् क्षीरघृतादीन् दास्यामः। ‘किमर्थ तत्र गन्तव्यम् ?’ इत्यपेक्षायामाह– द्रक्ष्याम इति। सुमहत्पर्व धनुर्यागमहोत्सव द्रक्ष्यामः। ‘न चेदानीं यागः समाप्तः, न चात्र कापट्य किञ्चित्’ इत्याशयेनाह– जानपदा इति। जानपदाः सर्वदेशनिवासिनो निमन्त्रिता यान्ति गच्छन्ति इति नात्र सन्देहः। ‘प्रसिद्धमेतत्’इति सूचयन्नाह– किलेति। एव नन्दगोपः क्षत्रा व्रजरक्षाधिकृतेन गोकुले अघोषयत् सर्वत्र अघोषितवान्॥१२॥ तत्तदा ताः कृष्णैकजीवना गोप्यो रामकृष्णौ पुरीं प्रति नेतुम क्रूरं व्रजमागत–
गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः॥ उपायनानि गृह्णीध्व युज्यन्तां शकटानि च॥११॥ यास्याम श्वो मधुपुरीं दास्यामो नृपते रसान्॥ द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदा किल॥ एवमाघोषयत् क्षत्रा नन्दगोपः स्वगोकुले॥१२॥ गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम्॥ रामकृष्णौ पुरी नेतुमक्रूर व्रजमागतम्॥१३॥ काश्चित्तत्कृतहृत्ता पश्वासम्लानमुखश्रियः॥ स्रसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन॥१४॥ अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः॥ नाभ्यजानन्निम लोकमात्मलोकं गता इव॥१५॥ स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः॥ हृदिस्पृशश्चित्रपदा गिरः सम्मुमुहुः स्त्रियः॥१६॥
मुपश्रुत्य भृशमत्यन्तं व्यथिता बभूवुरित्यन्वयः॥१३॥ व्यथालिङ्गान्याह– पञ्चभिः। काश्चिद्गोप्यस्तेन श्रवणेन कृतो यो हृत्तापस्तेन यः श्वासस्तेन म्लाना मुखश्रीर्यासा ताः तथाभूता बभूवुः। काश्चन गोप्यस्तु दुकूलानि च वलयानि च केशग्रन्थयश्च स्त्रसिताः दुकूलादयो यासा तास्तथाभूता बभूवुः॥१४॥ अन्यास्तु गोप्यस्तस्य भगवतोऽनुध्यानेन निवृत्ता अशेषाश्चक्षुरादिवृत्तयो यासा ता इम लोक स्वदेहमपि नाभ्यजानन्। तत्र दृष्टान्त।माह– आत्मैव लोकस्तं गता आत्मसाक्षात्कारिण्यो योगारूढाश्च यथा देहानुसन्धानमपि न कुर्वन्ति तथेति॥१५॥ अपराश्च स्त्रियः अनुरागेण यत् स्मित तेन ईरिता, हृदि स्पृशन्तीति तथा मनोज्ञाः विचित्राणि पदानि यासु तथाभूताः, शौरेःकृष्णस्य गिरः स्मरन्त्यो मुमुहुरित्यन्वयः॥१६॥
मुकुन्दस्य सुललिता सुन्दरतरा गति तथाभूता चेष्टा रासक्रीडाद्यात्मिका स्निग्धो यो हासस्तद्युक्तमवलोकन च शोकमपघ्नन्तीति तथाभूतानि नर्माणि परिहासवाक्यानि प्रोद्दामानि अत्युन्नतानि गोवर्धनोद्धरणादीनि चरितानि च॥१७॥चिन्तयन्त्य। तत्र हेतुः– भीता इति। तत्रापि हेतुः– मुकुन्दस्य भाविना विरहेण कातरा विह्वलाः, अत एवाश्रूणि मुखेषु यासा ताः। व्याकुलताया हेतुमाह– अच्युते श्रीकृष्णे एवाशयो यासा ताः गोप्यः सङ्घशःस्वस्वसमुदायेन समेताः मिलिताः सत्यः प्रोचुरिति द्वयोरन्वयः॥१८॥ तदुक्तिमेव दर्शयति–‘अहो’ इत्यादिभिः। तत्र तावच्छ्रीकृष्णवियोगेहेत्वन्तर अपश्यन्त्यो विधातारमेवोपालभन्ते– अहो इति। ‘सर्वाधिष्ठातृत्वात्तवैव तदाचरणं न युक्तम्, आश्चर्यकर च’ इति सूचितम्। हे विधातः स्तव क्वचित्। क्वप्यशे दया नास्ति। ‘कथम्’ इत्यपेक्षायामाह– मैत्र्या हिताचरणेन प्रणयेन स्नेहेन देहिनो जनान् सयोज्य अकृतार्थान् अपूर्णमनोरथानेव तान्
गति सुललितां चेष्टां स्निग्धहासावलोकनम्॥ शोकापहानि नर्माणि प्रोद्दामचरितानि च॥१७॥ चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः। समेता सङ्घशःप्रोचुरश्रुमुख्योऽच्युताशया॥१८॥ गोप्य ऊचु॥ अहो विधातस्तव न क्वचिद्दया सयोज्य मैत्र्या प्रणयेन देहिनः॥ तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थक विक्रीडित तेऽर्भकचेष्टितं यथा॥१९॥ यस्त्वं प्रदर्श्यासितकुन्तलावृत मुकुन्दवक्र सुकपोलमुन्नसम्॥ शोकापनोदस्मितलेशसुन्दर करोषि पारोक्ष्यमसाधु ते कृतम् ॥ २०॥ क्रूरस्त्वमक्रूरसमाख्यया स्म नश्चक्षुर्हिं दत्तं हरसे बताज्ञवत्॥ येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुषि॥२१॥
वियुनङ्क्षिवियोजयसि। चकार एवकारार्थः। ‘नच तद्वियोजनात्तव किञ्चित्प्रयोजनमस्ति’ इत्याह– अपार्थक प्रयोजनशून्यमेव तवेद विक्रीडितमिति। तत्र दृष्टान्तमाह– अर्भकस्य चेष्टित यथा भवति तथेति॥१९॥ विगर्हित च तवेद कर्मेत्यर्थः य इति। असितैर्नीलेः कुन्तलैरावृत शोभनौ कपोलौ यस्मिस्तत् उन्नता नासिका यस्मिस्तत् शोकमपदनुदति इति शोकापनोदस्तथाभूतो यः। स्मितलेशः गूढहासस्तेन सुन्दर मुकुन्दस्य वक्रमस्माक प्रदर्श्य यस्त्व पुनस्तस्य पारोक्ष्यमदृश्यता करोषि तस्य ते तत्र कृत कर्म असाधु निन्यमित्यर्थः॥२०॥ ‘किश्च दत्तापहारित्वेनापि क्रूरस्त्वम्’ इत्याहुः– क्रूररत्वमिति। हि यस्मात् स्वेनैव दत्त नोस्माक चक्षुस्त्व हरसेऽतः क्रूरइत्यन्वय। ‘अज्ञानाद्धरणेऽपि कथ क्रूरता’ इत्याशङ्क्याहुः– अज्ञवदिति। परदुःखानभिज्ञ मूर्खवद्धरसे, न तु त्व तथा, सर्वाधिपतित्वेन चतुरत्वात्। ननु ‘अक्रूरो हरति, नाहम्’ इति चेत्तत्राहु– आख्यरसमक्रूयेति। नह्येव
कर्तुमन्यः प्रभवत्यतो नामान्तरेण त्वमेवागतोसीत्यर्थः। ‘स्म’ इत्येवकारार्थे। ‘बत’ इति खेदे। सर्वाधिष्ठात्रा त्वया यद्येव निन्द्य क्रियते तर्हि अन्यः को वा न कुर्यादिति महत्कष्टमित्याशय। ननु ‘कृष्णमेव हरामि, नतु युष्मच्चक्षु’ इत्याशङ्क्याहु– येनेति। येन त्वद्दत्तेन चक्षुषा मधुद्विषः श्रीकृष्णस्यैकदेशे नेत्रवक्रादौ त्वदीय सर्वसृष्टिनैपुण्य वयमद्राक्ष्म अत एतद्वियोगेऽन्यस्य दर्शनीयस्य अभावात् अस्मद्रहस्यमेताभि सर्वं ज्ञातमित्यमर्षेण कृष्ण वियोजयन् अस्मानन्धीकरोष्येवेत्याशयः॥२१॥ एव विधातारमुपालम्भ्य त विहाय परस्परमाहुः– न नन्दसूनुरिति। ‘बत’ इति खेदे। नन्दसूनुर्नोऽस्मान् न समीक्ष्यते। ‘अस्मदीक्षण तस्योचितमेव’ इत्याशयेनाहुः*–*स्वकृतातुरा इति। स्ववियोगेनै वव्याकुला इत्यर्थः। एव व्याकुलताया हेतुमाहुः– गेहादीन् विहाय अद्धा साक्षात् तस्यैव दास्य गता इति। एवभूतानामपि निरीक्षणाभावे हेतु कल्पयन्ति – क्षणभङ्ग अस्थिर सौहृद प्रेम यस्य स इति। तत्रापि हेतुमाहु– नवप्रिय इति। नवो नवः स्त्रीजनः प्रियो यस्य सः॥२२॥ सेर्ष्यमाहुः– सुखमिति। पुरयोषिता
न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते न स्वकृतातुरा बत॥ विहाय गेहान् स्वजनान् सुतान् पतीस्तद्दास्यमद्धोपगता नवप्रियः॥२२॥ सुखंप्रभाता रजनीयमाशिष सत्या बभूवु पुरयोषितां ध्रुवम्॥ याः सम्प्रविष्टस्य मुख व्रजस्पते पास्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥२३॥ तासां मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचित्तः परवान् मनस्व्यपि॥ कथ पुनर्न प्रति यास्यतेऽबला ग्राम्या सलज्जस्मितविभ्रमैर्भ्रमन्॥२४॥
मथुरापुरस्थस्त्रीणामिय रजनी रात्रिः सुखप्रभाता सुखसूचकानि शकुनानि प्रभातकाले यस्यास्तथा बभूव। तथा तासामाशिष मनोरथाः सत्या बभूवुः। निश्चितत्वात् भाविवृत्तस्यापि भूतत्वेन निर्देश। ‘मनोरथाना कथ सत्यता?’ इत्यपेक्षायामाहुः– या इति। याः पुरयोषितः पुर्या प्रविष्टस्य व्रजस्पते सुडागम आर्षः श्रीकृष्णस्य मुख पास्यन्ति। ‘मुखस्य पान कथम्?’ इत्यत आहुः– अपाङ्गेन नेत्रप्रान्तेन उत्कलितमुज्जृम्भितं स्मितमेव आसवो मादकत्वात् रसविशेषो यस्मिस्तदिति। पान चात्र सादर दर्शनमेव॥२३॥ ननु ‘द्वित्राणि दिनानि भवन्त्वेवम्, तथाप्यस्मत्स्नेहाकृष्टः पित्रादिभिश्च परावर्तितः पुनरागमिष्यति इति, कि सन्तापेन?’ इत्याशङ्क्याहुः– तासामिति। ‘सावधानतया विचारणीयम्’ इत्याशयेन सम्बोधयन्ति– हे अबला इति। स्वतो मनस्वी धीरोऽपि परवान् नन्दादिपरवशोऽपि मुकुन्दस्तासा पुरस्त्रीणा मधुवन्मनोहरैर्मञ्जुभिर्भाषितैर्वशीकृतचित्तस्तथातासा सलज्जस्मितैर्विभ्रमै रम्यैश्चविलासैर्भ्रमन् तास्वेवासक्ति कुर्वन् ग्राम्याः अविदग्धा नोऽस्मान् प्रति कथ पुनर्यास्यते? न कथञ्चिदित्यर्थ॥२४॥
किञ्च ‘अस्मदुत्सवभाजोऽन्य एवाद्य भविष्यन्ति’ इत्याहु– अद्येति। तत्र पुरे अध्वनि मार्गे गच्छन्त श्रीरमण लक्ष्मीकान्त गुणास्पद सौन्दर्यमाधुर्यादिगुणानामाश्रयभूत देवकीसुत ये द्रक्ष्यन्ति तेषा दाशार्हाणा तत्प्रभृतीना दृशो दृष्टेरद्य महानुत्सवो भविष्यति। आत्मनेपदमार्षम्। ‘अत्र सन्देहो नस्ति। यद्वा दृश इति द्वितीयाबहुवचनम्। दृशो नेत्राणि प्रति महानुत्सवः प्राप्स्यते इत्यर्थः॥ प्रात्यर्थस्य भवतेरात्मनेपदत्वात् ॥२५॥ ‘अक्रूर शपन्त्य’ इत्याहुः– मैतद्विधस्येति।एषा दुष्टा विधा विधानं कर्म यस्य तस्य अकरुणस्य कृपारहितस्य ‘अक्रूर’ इत्येतत् शोभन नाम माभूत् न युक्तम्। ‘कुत’ इत्यत आहुः– अतीव दारुण इति। अतिभयकरः अत क्रूरः व्यपदेष्टव्य इत्याशयः। इत्यत भयकरत्वमेव स्पष्टयन्ति– य इति। योसावक्रूरः सुतरा दुःखित जनमस्मत्समुदायात्मकमनाश्वास्य असान्त्वयित्वा प्रियात् प्राणादपि प्रिय कृष्णमध्वनः पार अस्मद्दृगगोचरमतिदूरदेश प्रति नेष्यतीत्यर्थः॥२६॥ तदा च श्रीकृष्णमालक्ष्याहुः– अनार्द्रधीरिति। अनार्द्रा स्नेहरहिता धीर्यस्य स एष कृष्णो रथमास्थितः गन्तु
अद्य ध्रुव तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम्॥ महोत्सव श्रीरमणं गुणास्पद द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम्॥२५॥ मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीव दारुण॥ योऽसावनाश्वास्य सुदुःखितं जन प्रियात् प्रिय नेष्यति पारमध्वनः॥२६॥ अनार्द्रधीरेष समास्थितो रथ तमन्वमी च त्वरयन्ति दुर्मदाः॥ गोपा अनोभिः स्थविरैरुपेक्षित दैव च नोऽद्य प्रतिकूलमीहते॥ ॥२७॥ निवारयामः समुपेत्य माधव कि नोऽकरिष्यन् कुलवृद्धबान्धवाः॥ मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद्दैवेन विध्वसितदीनचेतसाम्॥२८॥
रथमधिरूढः, तमनुसृत्य अमी अनोभिः शकटैरुपलक्षिता गोपाः त्वरयन्ति ‘शीघ्र गन्तव्यम्’ इति वदन्ति। यतो दुर्मदाः उत्साहितचित्ता। ‘तर्पुपनन्दादयो वृद्धाः कुतो न निवारयन्ति?’ तत्राहुः– स्थविरैरिति। एषामविनयमालक्ष्य वृद्धैरुपेक्षित गमननिवारण न कृतमित्यर्थः। किञ्च देवमप्यद्य नोऽस्माक प्रतिकूल यथा स्यात्तथा ईहते चेष्टते, अन्यथा गमने कश्चिदपि विघ्नः स्यादिति भावः ॥२७॥ एव परस्पर सम्मन्त्र्य साहसमधिरुह्याहुः– निवारयाम इति। माधव लक्ष्मीपति कृष्ण सम्यक् विनयपूर्वकमुपेत्य गमनान्निवारयाम। ननु ‘एव लज्जात्यागेन तन्निवारणे वृद्धानां कोपः स्यात्’इत्याशङ्क्याहु– किमिति। निमिषार्धमपि दुस्त्यजान्मुकुन्दस्य सङ्गाद्विध्वसितानि वियोजितानि, अत एव दीनानि चेतांसि यासा तासा नोऽस्माक मृत्युतोऽपि भयाभावात् कुलवृद्धा बान्धवाः अन्ये च सम्बन्धिनो किमकरिष्यन् किमनिष्ट करिष्यन्तीत्यर्थः॥२८॥
‘इतोप्यवश्य साहसमवलम्बनीयम्’ इत्याहुः– यस्येति। ‘युष्माकमप्येतत् सम्मतमेव’इत्याशयेन सम्बोधयति– गोप्य इति। ललित सुन्दर स्मित च वल्गु मत्रः मनोहररहः सलापश्च लीलावलोकः कटाक्षनिरीक्षणं च परिम्भण च तानि यस्यानुरागेणैवैतानि यस्या तस्या रासगोष्ठ्यारासक्रीडासभाया नोऽस्माभिः क्षणदा बह्व्योरात्रयः क्षणमिव नीताः क्रमितास्तममु कृष्ण विना दुरन्तं तमः दुःसह विरहदुःख कथ न्वतितरेम न कथञ्चिदपि तत्सोढु शक्यमित्यर्थः॥२९॥ ‘आस्ता तावद्दुःखविरहचिन्ता, जीवनमेव तावत् कथ स्यात्’ इत्याहुः– य इति। अनन्तः शेषावतारो बलः सखा सहचरो यस्य सः गोपैश्च परिवृत गवा खुररजोभिश्छुरिताः धूसरअलका स्रजश्च यस्य सः यः श्रीकृष्ण अन्हः क्षये दिनावसाने सायकाले व्रज विशन् वेणु वादयन्
यस्यानुरागललितस्मितवल्गुमन्त्रलीलाऽवलोकपरिरम्भणरासगोष्ठ्याम्॥ नीता स्म न क्षणमिव क्षणदा विना त गोप्यः कथ न्वतितरेम तमो दुरन्तम्॥२९॥ योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक्॥ वेणु क्वणन् स्मितकटाक्षनिरीक्षणेन चित्त क्षिणोत्यमुमृते तु कथं भवेम॥३०॥ श्रीशुक उवाच॥ एव ब्रुवाणा विरहातुराभृशं व्रजस्त्रियः कृष्णविषक्तमानसाः। विसृज्य लज्जां रुरुदुः स्म सुस्वर गोविन्द दामोदर माधवेति॥३१॥ स्त्रीणामेव रुदन्तीनामुदिते सवितर्यथ॥ अक्रूरश्चोदयामास कृतमैत्रादिको रथम्॥३२॥ गोपास्तमन्वसज्जन्त नन्दाद्या शकटैस्ततः॥ आदायोपायन भूरिकुम्भान् गोरससम्भृतान्॥३३॥
सन् स्मितपूर्वककटाक्षनिरीक्षणेन अस्माक चित्तं क्षिणोति अपहरति तममु कृष्णमृते विना कथ नु भवेम जीवेम? ॥३०॥ एवं परस्पर ब्रुवाणा भृशमत्यतं कृष्णे विषक्तानि मानसानि यासा ताः, अत एव भावितद्विरहभयेनातुरा विवशा व्रजस्त्रियो लज्जा विसृज्य त्यक्त्वा सुस्वरमुच्चैः ‘हे गोविन्द! हे दामोदर! हे माधव!’ इति सम्बोधयन्त्यो रुरुदुः स्मेत्यन्वयः। ‘स्म’ इत्यनेन तत्सम्भव द्योतयति। ‘गोविन्द’ इत्यनेनास्मदुपेक्षा तव न युक्ता’ इति सूचितम्। ‘दामोदर’ इति भक्तवात्सल्यं सूचितम्।‘माधव’ इति पतिविरहदुःसहत्वाभिज्ञस्त्वमिति सूचितम्॥३१॥ एवं स्त्रीणा रुदन्तीना सतीना ताअनादृत्य कृत मैत्र मित्रदेवताक सन्ध्योपासनादिक कर्म येन सोऽक्रूरः सवितर्युदिते सति अथानन्तर रथ चोदयामासेत्यन्वयः॥३२॥ ततस्तदनन्तर भूरि उपायन देयमुत्तम वस्तु तथा गोरससम्भृतान् कुम्भाश्चादाय नन्दाद्या गोपाः शकटैस्त कृष्णरथमन्वसज्जन्त पृष्ठतो ययुरित्यन्वयः॥३३॥
तदा गोप्यश्चदयित प्रिय कृष्णमनुव्रज्य तेनानुरञ्जिताः परावृत्य दर्शनादिना किञ्चिदानन्दिताः भगवतः प्रत्यादेश गमनप्रत्याख्यान काङ्क्षन्त्य एव अवतस्थिरे स्थिताः॥३४॥ तदा यदूत्तमो भगवान् कृष्णः स्वप्रस्थाने निमित्ते ता गोपीस्तथा तप्यतीस्तप्यमाना वीक्ष्य सप्रेमै प्रेमसहितैः आयास्ये ‘शीघ्रमागमिष्यामि’ इति दौत्यकैर्दूतवाक्यैः सान्त्वयामास॥३५॥ तदा च श्रीकृष्णमनुप्रस्थापिता आत्मानश्चित्तानि याभिस्ता गोप्यो यावद्रथस्य केतुरालक्ष्यते यावच्च रेणुरालक्ष्यते तावत्काल लेख्यानीव चित्रलिखितप्रतिमा इव उपलक्षिताः तत्रैवोपतस्थिरे॥३६॥ ततो दूरगमने सति गोविन्दस्य विनिवर्तने निराशाः सत्यस्ता गोप्यो निववृतुः न्यवर्तन्त। ‘तासा भगवद्विरहेणातिदुःखिताना दिनातिक्रमः कथम्’ इत्यपेक्षायामाह– विशोका इति।
गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिता॥ प्रत्यादेश भगवतःकाङ्क्षन्त्यश्चावतस्थिरे॥३४॥
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तम॥ सान्त्वयामास सप्रेमैरायास्य इति दौत्यकै॥३५॥
यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च॥ अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः॥३६॥
ता निराशा निववृतुर्गोविन्दविनिवर्तने॥ विशोका अहनी निन्युर्गायन्त्य प्रियचेष्टितम्॥३७॥
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप॥ रथेन वायुवेगेन कालिन्दीमघनाशिनीम्॥३८॥
तत्रोपस्पृश्य पानीयं पीत्वा मृष्ट मणिप्रभम्॥ वृक्षखण्डमुपव्रज्य सरामो रथमाविशत्॥३९॥
अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि॥ कालिन्द्या हृदमागत्य स्नान विधिवदाचरत्॥४०॥
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम्॥तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ॥४१॥
प्रियस्य कृष्णस्य चेष्टित गायन्त्यः विगतशोकाः सत्यः अहनी जात्यभिप्रायेण द्विवचनम्, रात्रिदिनानि निन्युः अतिक्रमितवत्य॥३७॥ हे नृपः! रामाक्रूराभ्या युक्तो भगवान् कृष्णोऽपि वायोरिव वेगो यस्य तेन रथेन अघनाशिनीं कालिन्दीं प्राप्त॥३८॥ तत्र कालिन्द्या मृष्ट निर्मल मणिप्रभ इन्द्रनीलमणिवच्छ्यामं पानीय जलमुपस्पृश्य तेन हस्तपादमुखानि प्रक्षाल्य पीत्वा च वृक्षाणा खण्ड समूहमुपव्रज्य सरामः कृष्णो रथमाविशत्॥३९॥ तदा च शत्रुभ्यः शङ्कितोऽक्रूरस्तौ रामकृष्णौ रथोपरि निवेश्य उपामन्त्र्य पृष्ट्वा च माध्याह्निकार्थ कालिन्द्या हृदमागत्य तत्र यथाविधि स्नानमाचरत् कर्तुमारेभे॥४०॥ सनातन ब्रह्म प्रणव जपन्॥४१॥
एव दृष्ट्वा च सोऽक्रूरः ‘तौ रथस्थौ आनकदुन्दुभेः सुताविह कथ स्तः?यदि रथादवरुह्यात्रागतौ तर्हि रथे न स्तः’ इति वितर्क्य उन्मज्ज्य व्यचष्ट ददर्श॥४२॥ तत्रापि रथेऽपि यथापूर्वमासीनौ ददर्श। दृष्ट्वा च सलिले यत्तयोर्मे मत्कर्तृक दर्शन तत्कि मृषा? ‘एव चेत्तर्ह्यत्र दर्शनं न स्यात्’इत्याशयेन सोऽक्रूरः पुनः सलिले न्यमज्जत्॥४३॥ तत्रापि जले भूयः पुनः अहीश्वर शेषमद्राक्षीत्। त शेष वर्णयति– नता कन्धरा ग्रीवा येषा तै सिद्धादिभिः स्तूयमानम्॥४४॥ सहस्र शिरासि फणा यस्य तम्, देव देदीप्यमान्, सहस्रेषु फणेषु मौलयः यस्य सन्तीति तथा तम्, नीलमम्बर यस्य तम्, बिसश्वेत बिसवत् पद्मकन्दवत् श्वेतम्, तत्र दृष्टान्तमाह– शृङ्गैः हिरण्मयैः शिखरैः श्वेत कैलासमिव स्थितम्॥४५॥ तस्याहीश्वरस्योत्सङ्गे कुण्डलीकृतदेहार्धे पुरुषमद्राक्षीत्। त वर्णयति– नीलमेघवच्छ्यामम्, पीते कौशेये कीटरचितकोशजनिततन्तुनिर्मिते वाससी यस्य तम्, चत्वारो भुजा यस्य तम्,
तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः॥ तर्हि स्वित्स्यन्दनेन स्त इत्युन्मज्ज्य व्यचष्ट स॥४२॥
तत्रापिच यथापूर्वमासीनौ पुनरेव स॥ न्यमज्जद्दर्शनं यन्मे मृषा कि सलिले तयोः॥४३॥
भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम्॥ सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः॥४४॥
सहस्रसिरसं देव सहस्रफणमौलिनम्॥ नीलाम्बर बिसश्वेत शृङ्गेः श्वेतमिव स्थितम्॥४५॥
तस्योत्सङ्गघनश्याम पीतकौशेयवाससम्॥ पुरुष चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम्॥४६॥
चारुप्रसन्नवदन चारुहासनिरीक्षणम्॥ सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम्॥४७॥
प्रलम्बपीवरभुजं तुङ्गांसोरस्थलश्रियम्॥ कम्बुकण्ठं निम्ननाभि वलिमत्पल्लवोदरम्॥४८॥
बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम्॥ चारुजानुयुग चारुजङ्घायुगलसयुतम्॥४९॥
शान्त प्रसन्नम्, पद्मपत्रे इवारुणे ईक्षणे यस्य तम्॥४६॥ चारु सुन्दर प्रसन्न च वदन यस्य तम्, चारुहासेन युक्त निरीक्षणं यस्य तम्, शोभने भ्रुवौ उन्नता नासिका च यस्य तम्, चारू कर्णौ यस्य तम्, शोभनौ कपोलौ यस्य अरुणः अधरः यस्य स चासौ स च तम्॥४७॥ प्रलम्बा आजानुलम्बिनः पीवराश्च भुजा यस्य तम्, तङ्गावुन्नतौ असौ स्कन्धौ यस्य स चासावुरसि श्रीर्यस्य तम्, कम्बुः शङ्खस्तद्वद्रेखात्रयोपेतो नातिदीर्घो नातिह्रस्वश्च कण्ठो यस्य तम्, निम्ना नाभिर्यस्य तम्, वलिमत्पल्लवोदर वलयः तिर्यक्निम्ना रेखा यस्य सन्ति तद्वलिमत् तच्च तत् पल्लववत् अश्वत्थदलसदृश च उदर यस्य तम्॥४८॥ बृहद्भ्या कटितटश्रोणिभ्या करभसदृशेन हस्तिशुण्डासदृशेन चारुणा ऊरुद्वयेन चान्वितम्, चारु जानुयुग यस्य तम्, चारुजङ्घायुगलेन सयुतम्॥४९॥
तुङ्गावीषदुन्नतौ गुल्फौ च अरुणनखाना व्रातः समूहश्च तेषा दीधितिभिर्वृतम्, नवा अङ्गुल्यः नवौ अङ्गुष्ठौ च तान्येव दलानि तैर्विलसती शोभमाने पादपङ्कजे यस्य तम्॥५०॥ सुमहार्हा बहुमूल्या उत्तमा मणिव्राताः येषु तैः किरीटादिभिर्भ्राजमानम्। ब्रह्मसूत्र यज्ञोपवीतम्। स्पष्टमन्यत्॥५१॥ पद्म करे दक्षिणे यस्य तम्, अवशिष्टैस्त्रिभिः करैः शङ्खचक्रगदा धरतीति तथा तम्, श्रीवत्सो दक्षिणावर्तरोमरेखाविशेषो वक्षसि यस्य तम्॥५२॥ सुनन्दादिभिः पृथग्भावोऽभिप्रायो येषा तैर्वचोभिः स्तूयमानम्। तत्र पार्षदैः स्वामीति, सनकादिभिर्ब्रह्मेति, ब्रह्माद्यैर्महेश्वर इति नवभिर्मरीच्यादिभिर्द्विजोत्तमैः प्रजापतिरिति च अभिप्रायभेदा ज्ञेयाः। भगवत्स्तुतौ तेषामधिकार दर्शयन् विशिनष्टि– अमलात्मभिरिति। अमलो विषयवासनारहितः आत्मा अन्तःकरण येषा तैः॥५३॥५४॥ श्रियादिभिर्द्वादशशक्तिभिर्निषेवितम्। श्रीर्लक्ष्मीः सर्वसम्पदधिष्ठात्री। पुष्टिर्यया स्वल्पाहारापि पुष्टा भवन्ति,
तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम्॥ नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम्॥५०॥
सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः॥ कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः॥५१॥
भ्राजमान पद्मकरं शङ्खचक्रगदाधरम्॥ श्रीवत्सवक्षसभ्राजत्कौस्तुभ वनमालिनम्॥५२॥
सुनन्दनन्दप्रमुखै पार्षदैः सनकादिभिः॥ सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः॥५३॥
प्रह्लादनारदवसुप्रमुखैर्भागवतोत्तमै॥ स्तूयमान पृथग्भावैर्वचोभिरमलात्मभि॥५४॥
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया॥ विद्ययाऽविद्यया शक्त्या मायया च निषेवितम्॥५५॥
विलोक्य सुभृश प्रीतो भक्त्या परमया युतः॥ हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः॥५६॥
तत्प्रवेशाभावे तु बह्वाहारापि न पुष्टा भवन्ति। एवमग्रेऽपि सर्वत्र ज्ञेयम्। गीः सरस्वती प्रसिद्धा। कान्तिः काचित् प्रभा राज्याभिषेकादिना प्रकटा भवति। कीर्तिः यशः। तुष्टिः सन्तोषः, यदभावे महानपि तृणवद्भवति। इला भूमिः। ऊर्जा सर्वसामर्थ्यरूपा। विद्या ज्ञानोपासनारूपा मोक्षोपकारिणी। अविद्या बन्धकरी अज्ञानम्, निद्रादयोपि तद्भेदा एव। शक्तिः सर्वप्रधानभूता इच्छारूपा। माया सर्वव्यामोहिका, चकारेण तदवान्तरभेदा असङ्ख्याता ज्ञेयाः॥५५॥ एवभूत विलोक्य सुभृशमत्यन्त प्रीतः परमया उत्कृष्टया च भक्त्या युतः, अतएव हृष्यन्त उदञ्चितास्तनूरुहाः लोमानि यस्य सः भावेन प्रीत्यतिशयेन परिक्लिन्नः आर्द्रःआत्मा चित्त लोचने च यस्य सः॥५६॥
सात्वतः अक्रूरः शनैः सत्त्व धैर्यमवलम्ब्य मूर्ध्ना भगवन्त प्रणम्य कृताञ्जलिपुटः संयोजिताञ्जलिपुटः अवहितः सावधानश्च सन् गद्गदया स्खलिताक्षरया गिरा वाण्या अस्तौषीदिति द्वयोरन्वयः॥५७॥ इति श्रीवल्लभाचार्य– वश्यगोपालसूनुना॥ श्रीमन्मकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ नवत्रिशो गतः कृष्ण–प्रयाणादिनिरूपकः॥३॥ ॥छ॥ अक्रूरो वैभव दृष्ट्वाकृष्ण मत्वेश्वरेश्वरम्॥ चत्वारिशे च तुष्टाव प्रणम्येति निरूप्यते॥१॥ ‘अस्तौषीत्’ इत्युक्ता स्तुतिमेव दर्शयति– नतोऽस्मीति। त्वा त्वामह नतोऽस्मीति। ‘ननु त्वमस्मत् पितृव्यः, कुतो मा बाल नमस्करोषि’ इत्याशङ्क्याह– अखिलेति। अखिलस्य प्रपञ्चस्य ये हेतवो महदादयस्तेषामपि हेतु कारणमित्यर्थः। तस्यापि कारणान्तराशङ्कायामाह– आद्यमिति। तद्विनाशाशङ्कायामाह –अव्ययमिति। अनादिनिधनमित्यर्थः। परिछिन्नत्वाशङ्कायामाह– पुरुषमिति, पूर्णमित्यर्थः। ननु “एवभूतो नारायण ‘एको ह वै नारायण आसीत्’ इत्यादौ प्रसिद्धः,
गिरा गद्गदयाऽस्तौषीत् सत्त्वमालम्ब्य सात्वत॥ प्रणम्य मूर्ध्नाऽवहितः कृताञ्जलिपुट शनैः॥५७॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे भगवत्प्रयाणनिरूपण नामैकोनचत्वारिशोऽध्यायः॥३९॥छ॥ अक्रूर उवाच॥॥ नतोऽस्म्यह त्वाखिलहेतुहेतु नारायण पूरुषमाद्यमव्ययम्॥ यन्नाभिजातादरविन्दकोशाद्ब्रह्माऽऽविरासीद्यत एषलोक॥१॥ भूस्तोयमग्नि पवन खमादिर्महानजादिर्मन इन्द्रियाणि॥ सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः॥ ॥२॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः॥ अजोऽनुबद्धः स गुणैरजाया गुणात् पर वेद न ते स्वरूपम्॥३॥
न त्वहम्” इत्याशङ्क्य ‘त्वमेव नारायण’ इत्याह– नारायणमिति। नारायणत्वमेव स्पष्टयति– यन्नाभीति। यस्य नाभेर्जातादरविन्दकोशाद्ब्रह्माऽऽविरासीत् त विशिनष्टि– यत इति। यतो ब्रह्मणः सकाशात् एष परिदृश्यमानो व्यष्ट्यात्मको लोक प्राणिसमूहो जात इत्यर्थः॥१॥ अखिलहेतुत्वमेव प्रपञ्चयति– भूरिति। पृथ्व्यादीनि आकाशान्तानि पञ्चमहाभूतानि, तेषामादिः कारणमहङ्कारः, महान् महत्तत्त्व, अजा मूलप्रकृतिः तदादिः पुरुषः, मनः, इन्द्रियाणि चक्षुरादीनि दश, सर्वेन्द्रियाणामर्थाः शब्स्पर्शरूपरसगन्धाः, विबुधाश्च सर्वेन्द्रियाधिष्ठातारो दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रका इत्युक्ताः एते ये सर्वे जगतो हेतवस्ते तवाङ्गात् भूताः जाताः॥२॥ ‘अत एव दुर्ज्ञेयस्त्वम्’ इत्याह– नेति। एते अजा प्रकृतिः आदिर्येषा ते आत्मनः स्वस्य ते तव च स्वरूप नैव विदुः। हिशब्दोऽवधारणे। अज्ञाने हेतुमाह– अनात्मतयेति। जडत्वेनेत्यर्थः। तत्र हेतुमाह–गृहीता इति। प्रत्यक्षादिभिर्दृष्टा॥ ननु ‘जडा मा मा जानन्तु, जीवास्तु ज्ञास्यन्ति’ इत्यत आह– अज इति। स अजो ब्रह्मापि अजाया
गुणैः रजआदिभिरनुबद्धः आवृतः। अतो गुणातीत ते तव स्वरूप न वेद, अर्वाचीनोऽन्यः कुतो ज्ञास्यतीति॥३॥ ननु ‘यदि कोऽपि न जानाति तर्हि कथ तस्य ससारनिवृत्तिः’ इत्येक्षाया ‘येनकेनापि मार्गेण भजतस्तत्सम्भवति’ इत्याशयेनाह– त्वामिति। योगिनस्त्वा महापुरुषचतुर्भुजादिविशिष्टरूपं परमेश्वरमद्धा साक्षादेव यजन्ति ध्यायन्ति। अन्ये च साधवः सदाचारनिष्ठाः केचित् साध्यात्ममात्मनि शरीरे भवमध्यात्म तेन सहित शरीरावयवाक्षिहृदयादिषु वसन्त त्वा यजन्ति। तथाहि छान्दोग्ये– “अथाध्यात्मं य एषोऽन्तरक्षिणि पुरुषो दृश्यते” इति। केचित्तु साधिभूत सर्वभूतस्थ सर्वशरीरक त्वा यजन्ति, ‘सरित्समुद्राश्च हरेः शरीरम्, इति वक्ष्यमाणत्वात्। केचित् पुनः साधिदैव आदित्यादिदेवान्तस्थ त्वां यजन्ति। यथोक्तं छान्दोग्ये– “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इति॥४॥ वेदस्य कर्मज्ञानोपासनाकाण्डभेदेन त्रिविधत्वात् प्रथम कर्ममार्गेण भजनमाह– त्रय्येति। केचिद्वैतानिकाः कर्मयोगिनो द्विजाः त्रय्या ऋग्यजुःसामात्मकवेदत्रयरूपया विद्यया बोधितैर्विततैर्यज्ञैस्त्वा वै त्वामेव यजन्ते
त्वां योगिनो यजन्त्याद्धामहापुरुषमीश्वरम्॥ साध्यात्म साधिभूत च साधिदैव च साधवः॥४॥
त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजाः॥ यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया॥५॥
एके त्वाऽखिलकर्माणि संन्यस्योपशम गताः॥ ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम्॥६॥
अन्ये च संस्कृतात्मानो विधिनाऽभिहितेन ते॥ यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम्॥७॥
त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम्॥ बह्वाचार्यविभेदेन भगवन् समुपासते॥८॥
आराधयन्ते। ननु ‘तच्चेन्द्रवरुणादीनामेवाराधनं प्रसिद्धम्’ इत्याशङ्क्याह– नानेति। नाना वज्रहस्तादीनि रूपाणि येषा ते ये अमराः तेषामाख्यया नाम्ना ऐन्द्रवारुणादिसूक्तैरिन्द्रादयः सर्वैश्वर्येण प्रकाश्यन्ते, न च सर्वेश्वरा बहवः सम्भवन्त्यतो नामभेदेन त्वामेव यजन्ते इत्याशयः॥५॥ ज्ञानमार्गेण भजनमाह– एके इति। एके मुख्याः ज्ञानिनः उपशम विषयवैतृष्ण्य गताः अतएवाखिलानि कर्माणि लौकिकवैदिकव्यापारान् सन्यस्य त्यक्त्वा ज्ञानयज्ञेन समाधिलक्षणेन ज्ञानविग्रह सच्चिदानन्दमूर्ति त्वा यजन्ति ध्यायन्ति॥६॥ उपासनामार्गेण भजनमाह– अन्ये चेति। अन्ये च ते त्वयाऽभिहितेन विधिना पञ्चरात्राद्युक्तप्रकारेण संस्कृत आत्मा देहो येषा ते त्वन्मयाः त्वन्मयत्वेनात्मान चिन्तयन्तो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धभेदेन बहुमूर्तिक नारायणरूपेणैकमूर्तिक च त्वामेव यजन्ते॥७॥ हे भगवन् ! अन्ये च शिवोक्तेन मार्गेण तत्रापि बहूनामाचार्याणां विभेदेन तत्तदाचार्योक्तावान्तरप्रकारभेदेन त्वामेव शिवरूपिण समुपासते॥८॥
हे प्रभो स्वामिन्। येऽप्यन्यदेवताभक्तास्ते यद्यप्यन्यदेवताधियः तत्तद्देवताविषयकपरमेश्वरबुद्धिमन्तः तथापि ते सर्वे त्वामेव यजन्ति। ‘कुत’ इत्यपेक्षा यामाह– परमेश्वरान्तरस्यासम्भवात्। ‘त्वमेव सर्वदेवान्तर्यामी परमेश्वरः पूज्यश्च’ इत्याशयेनाह– सर्वदेवमयेश्वरमिति॥९॥ अत्र दृष्टान्तमाह–यथेति। अद्रेः सकाशात् प्रभवन्त्युत्पद्यन्ते इति तथाभूता नद्यः पर्जन्येनापूरिता बहुस्रोतसो यथा सर्वतः सर्वासुदिक्षु सिन्धु मेव विशन्ति तद्वत् गतयो भजनमार्गा अपि त्वामेत्र विषयीकुर्वन्तीत्यन्वयः। न च ‘तर्हि भगवद्भक्तानामन्यदेवताभक्ताना च को विशेष’ इति शङ्क्यम्, ‘भगवद्भक्तानासाक्षादेव तत्प्राप्तिर्देवतान्तरभक्ताना तु तत्तद्देवताप्राप्तिस्ततश्च तासा यदा अधिकारसमाप्तौ भगवत्प्राप्तिः तदा एतेषामपि तत्प्राप्तिरिति विशेष’ इत्याशयेनाह–अन्तत इति। देवतान्तरस्यापि भगवत्प्राप्तौ सर्वकारणत्व हेतु सूचयन् सम्बोधयति– हे प्रभो इति॥१०॥ सूचित कारणत्व स्पष्टयस्तत्प्राप्तिप्रकारमाह– सत्त्वमिति। सत्त्वादयो भगवतः शक्तिरूपायाः प्रकृतेः गुणाः। तेषु हि प्राकृताः प्रकृतिपरिणामदेहाद्युपाधयो ब्रह्मपर्यन्ताः स्थावरादयो
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम्॥येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो॥९॥ यथाऽद्रिप्रभवा नद्य पर्जन्यापूरिताः प्रभो॥विशन्ति सर्वत सिन्धुं तत्त्वां गतयोऽन्तत॥१०॥सत्त्वं रजस्तम इति भवतः प्रकृतेर्गुणाः॥तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः॥११॥तुभ्य नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधिया च साक्षिणे॥गुणप्रवाहोऽयमविद्यया कृतः प्रवर्तते देवनृतिर्यगात्मसु॥१२॥
जीवाः स्वोपाधिद्वारा प्रोताः, प्रविष्टास्ते च प्रकृतौ, सा च त्वयीति, अतः क्रमेणोपाधिलयात् सर्वेऽपि त्वामेव प्रविशन्तीति॥११॥ स्वय तु भगवत्प्राप्तये तन्नमस्कार प्रार्थयति– तुभ्यमिति। ते त्वत्प्राप्यर्थ तुभ्य नमोस्तु। “एतदीशनमीशस्य प्रकृतिस्थोपि तद्गुणैः। न युज्यते इति” हि परमेश्वरलक्षणस्योक्तत्वादन्यान्विहाय तत्प्राप्तीष्टत्वे परमेश्वरत्वहेतुमभिप्रेत्य तल्लक्षणमाह-– अविषक्तदृष्टये इति। ‘अदृष्टेष्वासक्त्यसम्भवात्किमत्राश्चर्यम्’ इत्याशङ्कयाह–सर्वधिया च साक्षिणे इति। चकारो बुद्धिव्यतिरिक्तसर्वपदार्थसङ्ग्रहार्थ। अविषक्तदृष्टित्वे च हेतुमाह– सर्वात्मन इति। ‘इतरे तु स्वयमेव ससरन्तीति न ते भजनयोग्या’ इत्याशयेनाह– गुणेति। गुणैः सत्त्वदिभिः प्रकर्षेणोह्यत इति गुणप्रवाहो जन्ममरणाद्यात्मकससारोयमसकृत् पुनःपुनरविद्यया स्वरूपावरक– त्वच्छक्त्या देवनृतिर्यक्त्वे आत्मानो येषा तेषु देवादिशरीराभिमानिषु प्रवर्तन्ते इत्यर्थः॥१२॥
उक्त सर्वात्मकत्वमेव स्पष्टयति– अग्निरित्यादिना। अत्राग्न्याद्यनुवादेनेश्वरमुखाद्यवयवता विधीयते। योऽयमग्निः स तव मुखमित्यादि। अवनिस्तवाङ्घ्रिः अवनिशब्दः पातालप्रभृतिमहीतलपर्यन्तसङ्ग्राहकः, अङ्घ्रिशब्दस्तु पादमूलप्रभृतिजघनपर्यन्तावयवसङ्ग्राहकः,‘पातालमेतस्य हि पादमूलम्’ इत्युक्तत्वात्। सूर्य ईक्षण चक्षुः सर्वत्रैकवचन जात्यभिप्रायेण। नभो नाभिः अत्रापि नभःशब्दो भुवर्लोकप्रभृतितपोलोकपर्यन्तसङ्ग्राहकः, नाभिशब्दस्तु तत्प्रभृतीनामुरोग्रीवावदनललाटपर्यन्ताना सङ्ग्राहकः। अथ अपि च दिशः श्रुतिः श्रोत्रम्। द्यौः सत्यलोकस्तव क मूर्धा। सुरेशाः इन्द्रादयस्तव बाहवः। अर्णवाः समुद्रास्तव कुक्षिः। मरुद्वायुस्तव प्राणः बल च तत् कल्पितमुपासकैर्ध्यानार्थमिति शेषः॥१३॥ वृक्षा औषधयश्च तव रोमाणि। मेघास्तु तव शिरोरुहाः केशाः। अद्रयः पर्वताः परस्य परमेश्वरस्य तवास्थीनि नखानि च। रात्रिश्चाहश्च तव निमेषणम्, तत्र रात्रिर्निमीलन अहश्र्चोन्मीलनम्। प्रजापतिर्ब्रह्मा तव मेढ्रःगुह्यमिन्द्रियम्। वृष्टिस्तु तव वीर्य रेतः। तत्र प्रमाणमाह– ईष्यते प्रामाणिकैरुपासनायामिति शेषः॥१४॥
अग्निर्मुख तेऽवनिरङ्घ्रिरीक्षण सूर्यो नभो नाभिरथो दिशः श्रुतिः॥ द्यौः क सुरेन्द्रास्तव बाहवोऽर्णवाः कुक्षिर्मरुत्प्राणबल प्रकल्पितम्॥१३॥ रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः॥ निमेषण रात्र्यहनी प्रजापतिर्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते॥१४॥ त्यय्यव्ययात्मन् पुरुषे प्रकल्पिता लोका सपाला बहुजीवसलाः॥ यथा जले सञ्जिहते जलौकसोऽप्युदुम्बरे वा मशका मनोमये॥१५॥
न केवलमेतावत् एव, किन्तु बहुभिर्जीवैः सङ्कुलाः व्याप्ताः सपालाः पालकैः सहिताः सर्वे लोकाः अनन्तानि ब्रह्माण्डानि त्वयि कल्पिताः रचिताः सन्तःसजिहते प्रचरन्ति। ‘एव सर्वात्मत्वे जन्मादिविकारित्व स्यात्’ इत्यत आह– अव्ययात्मन्निति। लुप्तसप्तम्यन्त पदम्। अव्ययः सर्वपिकाररहितः आत्मा स्वरूप यस्य तस्मिन्नित्यर्थः। एकस्य कथ सर्वाधारत्व तत्राह– पुरुष इति, पूर्ण इत्यर्थः। ननु ‘एवभूतस्य ज्ञान कुतो न’ इत्यपेक्षायामाह– मनोमय इति। विशुद्धमनोग्राह्य इत्यर्थः‘मनसैवानुद्रष्टव्यः’ ‘दृश्यते त्वग्रया बुद्ध्या’ इत्यादिश्रुतेः। तत्र दृष्टान्तद्वयमाह– यथेति जलौकसो मत्स्यादयः यथा सावकाशं जले सञ्जिहते प्रचरन्ति नहि तेन जलस्य कापि क्षतिस्तथेत्यर्थः। अथवा उदुम्बरे उदुम्बरवृक्षे मशकाः कीटविशेषाः। उदुम्बरवृक्षे हि असङ्ख्यातानि फलानि भवन्ति तेषु च प्रत्येक परस्परवार्तानभिज्ञा मशकास्तिष्ठन्ति, एवमेकस्मिन्नेव त्वयि अनन्तानि ब्रह्माण्डानि निवसन्ति तेषा लोकेषु तत्तत्स्थानेषु परस्परवार्तानभिज्ञा जीवा निवसन्तीत्यर्थः॥१५॥
तर्हि तेषा जीवाना निस्तारः कथं तत्राह– यानीति। इहलोके क्रीडनार्थ व यानि यानि मत्स्यादिरूपाणि बिभर्षि तैरनुचिन्तितरूपैरामृष्टाः परिमार्जिताः शुचः आध्यात्मिकादितापा येषा ते लोका जनाः मुदा तव यशो गायन्ति, तेन तेषा निस्तार इति शेषः॥१६॥ ‘कानि तानि रूपाणि’ इत्यपेक्षाया तानि दर्शयन् भक्त्या स्वय नमस्करोति– नम इति। सत्यव्रतरक्षावेदोद्धारादिकारणेन स्वीकृतमत्स्यरूपाय नमः। सत्यव्रतरक्षाद्यर्थमेव प्रलयाब्धौ चरतीति तथा तस्मै। हयग्रीवावतारप्रयोजनमाह– म230धुकैटभयोर्मृत्यवे हन्त्रे॥१७॥ बृहते अकूपाराय कूर्माय नमः। तदवतारचरितमाह– मन्दरधारिण इति। क्षित्युद्धारणं विहारो यस्य तस्मै सूकरमूर्तये नमः॥१८॥अद्भुतसिहाय नरसिहाय ते तुभ्य नमः। अवतारप्रयोजन सूचयन् सम्बोधयति– साधुलोकभयापहेति। साधुलोकस्य भयमपहन्तीति तथा तत्सम्बोधनम्। वामनाय तुभ्य नमः। तदवतारप्रयोजनमाह–
यानि यानीह रूपाणि क्रीडनार्थ विभर्षि हि॥तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः॥१६॥
नम कारणमत्स्याय प्रलयाब्धिचराय च॥हयशीर्ष्णेनमस्तुभ्यं मधुकैटभमृत्यवे॥१७॥
अकूपाराय बृहते नमो मन्दरधारिणे॥क्षित्युद्धारविहाराय नमः सूकरमूर्तये॥१८॥
नमस्तेऽद्भुतसिहाय साधुलोकभयापह॥वामनाय नमस्तुभ्य क्रान्तत्रिभुवनाय च॥१९॥
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे॥ नमस्ते रघुवर्याय रावणान्तकराय च॥२०॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च॥ प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः॥२१॥
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने॥म्लेच्छे231प्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे॥२२॥
क्रान्त त्रिभुवनं येन तस्मै नमः॥१९॥भृगूणा पतये परशुरामाय नमः। तदवतारप्रयोजनमाह– दृप्त गर्वित क्षत्रकुलमेव वन तच्छिनत्तीति तथा तस्मै नमः। रघुकुलेषु वर्याय श्रेष्ठाय श्रीरामाय ते तुभ्य नमः। तदवतारप्रयोजनमाह– रावणस्य नाश करोतीति तथा तस्मा इति॥२०॥ चतुर्व्यूहरूपेणावतीर्ण श्रीकृष्ण नमस्करोति–नमस्ते वासुदेवायेति। तदवतारप्रयोजनमाह– सात्वताना भक्ताना पतये पालकायेति॥२१॥ बुद्धाय नमः वेदाप्रामाण्याद्युपदेष्टृत्वाद्दोषमाशङ्क्याह–शुद्धायेति। ‘वेदनिन्दकस्य कथ शुद्धता’ इत्याशङ्क्य ‘तन्निन्दाया दैत्यमोहनार्थत्वान्न वस्तुतस्तु तद्दोष’ इत्याशयेनाह– दैत्यदानवमोहिने इति॥२२॥
एव नमस्कृत्य स्व बन्धविमोक्ष प्रार्थयितु लोकवृत्तमाह– भगवन्निति। अय सर्वोपि जीवलोकस्तव मायया मोहितः, अतः ‘अह मम’ इत्यसति तुच्छे देहे तदनुबन्धिधनपुत्रादौ च ग्राहः अभिमानो यस्य सः कर्मवर्त्मसु शब्दादिविषयप्राप्त्युपायेषु भ्राम्यते इत्यन्वयः। “ये हि सस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः”॥ “यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान्। तावन्तो निखनन्त्येव हृदये शोकशङ्कवः” इत्यादिवचनप्रामाण्याच्छब्दादिविषयाणा दुःखहेतुत्वमेव, तत्र सुखहेतुत्वबुद्ध्या तत्साधनेषु प्रवृत्तिर्भ्रान्तिमूलैवेत्याशयः॥२३॥ ‘न केवलमयं लोक एव भ्राम्यति, कितु तदन्तर्गतोऽहमपि तथैव’ इत्याह– अह चेति। तत्र अहमित्यादिचतुर्भिस्तावदात्मनः कार्पण्यमावेद्य सोहमित्येकेन शरण प्रपद्य ततो द्वाभ्या प्रणामपूर्वक स्वरक्षा प्रार्थयते। ‘त्वमेवैतादृशरक्षाया समर्थ’ इत्याशयेन सम्बोधयति–विभो इति। अह च सर्वलोकवत् स्वमतुल्येषु क्षणभङ्गुरतया स्वप्नतुल्यपदार्थेषु आत्मादिषु सत्यधिया नित्यबुद्ध्या भ्रमामि आसक्ति करोमीत्यन्वयः। ‘एव जानन्नपि
भगवञ्जीवलोकोऽय मोहितस्तव मायया॥ अह ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु॥२३॥
अह चाऽऽत्मात्मजागारदारार्थस्वजनादिषु॥ भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो॥२४॥
अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम्॥ द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन प्रियम्॥२५॥
यथाऽबुधो जलं हित्वा प्रतिच्छन्न तदुद्भवैः॥ अभ्येति मृगतृष्णां वै तदत्त्वाऽह पराङ्मुखः॥२६॥
कुतस्तत्रासक्तः?’ तत्राह– मूढ इति। त्वन्मायया मोहित इत्यर्थः। अत्र आत्मा देहः। आत्मजाः पुत्राः। अगार गृहम्। दाराः स्त्रियः। अर्थो धनम्। स्वजनाः बान्धवादयः॥२४॥ मोहमेव स्पष्टयति– अनित्येति। देहादिषु अनित्येषु नित्या इति, अनात्मसु आत्मान इति, दुःखेषु दुःखप्रदेषु सुखप्रदा इति, विपर्यया मतिर्यस्य सः। हि यम्मात् एवभूतोह तस्मात् द्वन्द्वेषु सुखदुःखादिषु आरमते क्रीडतीति द्वन्द्वाराम आत्मनः प्रिय आत्मत्वादुपकारित्वाच्च निरतिशयनिरुपाधिकप्रीतिविषय त्वा न जाने। विपर्ययमतित्वे हेतुमाह– तमोविष्ट इति। अविद्याव्याप्त इत्यर्थः॥ ॥२५॥ तत्रैवाच्छादितहेत्वन्तर दृष्टान्तेन स्पष्टयति– यथेति। अबुधः अज्ञो जनो यथा तदुद्भवैः तस्मात् जलादुद्भवन्तीति तथा तैस्तृणादिभिश्छन्न जल हित्वा मृगतृष्णा जलवदाभासमाना मरीचिकामभ्येति अनुधावति तद्वत्त्वामह पराङ्मुखः। निरतिशयपुरुषार्थं परमानन्दस्वरूप त्वां हित्वा मरीचिकातोयवद्विषयसुखेष्वासक्त इत्यर्थः॥२६॥
ननु ‘तर्हि मनःसमाधान कृत्वा विषयासक्तिस्त्याज्या’ इत्याशङ्क्याह– नेति। अह मनः रोद्धुं वशीकर्तु नोत्सहे न शक्नोमि। तत्र हेतुमाह– कामकर्मभ्या हत क्षुभित प्रमाथिभिः प्रबलैरक्षैरिन्द्रियैश्चेचतस्ततो ह्रियमाण विषय प्रत्याकृष्यमाणमिति। ‘विवेकेसति किमशक्यम्’ इत्याशङ्क्याह– कृपणधीरिति। कृपणाविवेके असमर्था धीर्यस्य सः॥२७॥ स इन्द्रियपरतन्त्रोऽह तवाङ्घ्रिमुपगतः शरण प्राप्तोऽस्मि। भगवच्चरणस्य दुर्लभत्वमाह– असता विषयाकृष्टमनसा दुरापमिति। तर्हि विषयाकृष्टस्त्व कथ प्राप्तस्तत्राह– तच्चाप्यभ्युपगमन भवदनुग्रहभवदनुग्रहमूलकमह मन्ये। ‘तस्य मदनुग्रहमूलकत्व कथ सम्भवति’ इत्यपेक्षाया ‘सर्वान्तर्यामित्वात्’ इति हेतु सूचयन् सम्बोधयति– ईशेति। ‘त्वदनुग्रहात्कृतार्थोऽहम्’ इत्याह– पुस इति। यर्हि पुसः ससारिणः ससरणस्यापवर्गः समाप्तिः सम्भाविता स्यात् तदा हे अब्जनाभसता त्वद्भक्तानामुपासनया तस्य त्वद्विषयिका मतिः स्याद्भवति। मम तु त्वदनुग्रहेण त्वद्दर्शनस्पर्शनादिकमपि जातम्, अतो मोक्षे कः सन्देह इत्याशयः॥२८॥ एवमात्मनः कृतार्थता
नोत्सहेऽह कृपणधी कामकर्महत मनः॥ रोद्धु प्रमाथिभिश्चाक्षैर्हिृयमाणमितस्ततः॥२७॥ सोऽह तवाङ्घ्र्युपगतोऽस्म्यतां दुराप तच्चाप्यहं भवदनुग्रह ईश मन्ये॥ पुंसो भवेद्यर्हि ससरणापवर्गस्त्वय्यब्जनाभ सदुपासनया मतिः स्यात्॥२८॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे॥ पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये॥२९॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च॥ हृषीकेश नमस्तुभ्य प्रपन्न पाहि मां प्रभो॥३०॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे पुरुषस्तवनिरूपण नाम चत्वारिशत्तमोऽध्याय॥४०॥
माविष्कृत्यापि ससारस्य दुस्तरत्वमाशङ्क्य भगवन्त नमस्यस्ततो रक्षा प्रार्थयते– नम इति द्वयेन। विज्ञान चैतन्यमेव मात्रा मूर्तिर्यस्य तस्मै तुभ्य नमः। अत एव सर्वप्रत्ययहेतवे समस्तज्ञानकारणाय ब्रह्मणे नमः। तद्विशिनष्टि– पुरुषः प्रकृतिप्रवर्तकः, ईशः कालः, प्रधान प्रकृतिः, एतत्रितयात्मने। तथाच भगवानेकादशे वक्ष्यति– “प्रकृतिर्ह्यस्योपादानमाधारः पुरुषः परः। सतोभिव्यञ्जकः कालो ब्रह्म तत्रित यत्वहम्” इति॥ अनन्ताः शक्तयो यस्य तस्मै॥२९॥ वासुदेवाय श्रीवसुदेवनन्दनाय। सर्वभूतक्षयाय सर्वभूतनिवासाय। हे प्रभो हे पालनसमर्थ! तत्र हेतु सूचयन् पुनः सम्बोधयति– हृषीकेशेति। हे सर्वेन्द्रियनियन्तः। प्रपन्न शरणमागत मा पाहि ससारभयाद्रक्षेत्यर्थः॥३०॥ इतिश्रीवल्लभाचार्य– वश्यगोपालसूनुना। श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीाद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ चत्वारिंशो गतो वृत्ति पुरुषस्तवनात्मकः॥३॥
एकचत्वारिशके तु प्रविष्टस्य पुरीं हरेः॥दुष्टग्जकघातादि चरित विनिरूप्यते॥१॥ ‘एव सम्प्रार्थितो भगवान् किं कृतवान्?’तत्राह– स्तुवत इति। कृष्णो भगवानेव जले आत्मनो वपुषः चतुर्भुजरूप दर्शयित्वा तस्य अक्ररस्य स्तुवत एव सतो भूयस्तद्रूप समाहरत् उप सहृतवानित्य232र्थ। तत्र दृष्टान्तमाह– नट इति। नटो यथा नाट्य यथेष्ट रूप दर्शयित्वोपसहरति तथेत्यर्थः॥१॥ सोऽकूरोऽपि तमन्तर्हितं वीक्ष्य ज्ञात्वा जलादुन्मज्ज्य सत्वरः त्वरया युक्तः आवश्यक माध्याह्निक सर्वं कृत्वा विस्मितः सन् रथ प्रत्यागमत्॥२॥ तमागतमक्रर हृषीकेशः सर्वेन्द्रियनियन्ता कृष्णोऽपृच्छत्। हृषीकेशपदेन सर्वज्ञता सूचिता, तद्दिनैवप्रश्नासम्भवात्। प्रश्नमेवाह– इह अस्मिन् काले भूमौ, वियति आकाशे, जले वा ते त्वया किमद्धुतमाश्वर्यंदृष्टम् ?। ‘किञ्चिदृष्टमित्यत्र तु सन्देहो नास्ति’ इत्याशयेनाह– तथा दृष्टाद्भुत त्वा लक्षयामहे चिह्नैरनुमिनुमः॥३॥ एव
श्रीशुक उवाच॥ स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः॥ भूय समाहरत् कृष्णो नटो नाट्यमिवाऽऽत्मनः॥१॥ सोऽपि चान्तर्हित वीक्ष्य जलादुन्मज्ज्य सत्वरः॥ कृत्वा चाऽऽवश्यक सर्वं विस्मितो रथमागमत्॥२॥ तमपृच्छद्धृहृषीकेषः कि ते दृष्टमिवाद्भुतम्॥ भूमौ वियति तोये वा तथा त्वां लक्ष्यामहे॥३॥ अक्रूर उवाच॥ अद्भुतानीह यावन्ति भूमौ वियति वा जले॥त्वयि विश्वात्मके तानि कि मेऽदृष्ट विपश्यतः॥४॥ यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले॥ त त्वाऽनुपश्यतो ब्रह्मन्कि मे दृष्टमिहाद्भुतम्॥५॥ इत्युक्त्वा चोदयामास स्यन्दन गान्दिनीसुतः॥ मथुरामनयद्रामं कृष्ण चैव दिनात्यये ॥६॥
पृष्टोऽक्रूर आह– इह भूम्यादिषु यावन्ति अद्भुतानि सन्ति तानि सर्वाणि त्वय्येव सन्ति। तत्र हेतुः– विश्वात्मक इति। अतस्त्वां विपश्यतो मे मम षष्ठी तृतीयार्थे, मया किमदृष्ट सर्वमेवाद्भुत दृष्टम्॥४॥ ननु ‘मत्प्राप्तेः पूर्वमेव त्व विस्मितमुखो लक्षितोऽसि, अतः पूर्वमेव भूम्यादौ किञ्चिदद्भुत त्वया दृष्ट तद्वद’ इत्यत आह– यत्रेति। यत्र त्वयि सर्वाण्यद्भुतानि सन्ति त त्वा इह पश्यतो मे अन्यत्र भूम्यादौ किमद्भुत दृष्ट त्वा विना न तत्र किञ्चिदद्भुत दृष्टम्। त्वमेवाद्भुतरूपो दृष्ट इत्यर्थः। सर्वाधारत्व सूचयन् सम्बोधयति– ब्रह्मन्निति॥५॥ गान्दिनीसुत अक्रूरः इत्येवमुक्त्वा स्यन्दन रथ चोदयामास। ततो दिनात्यये दिवसे किञ्चिदारूढे सति रामं कृष्ण च मथुरामनयत्॥६॥
तत्र तत्र मार्गे ग्रामजना उपसङ्गता मिलिता वसुदेवसुतौ रामकृष्णौ दृष्ट्वा च प्रीताः सन्तो दृष्टिं नाददुः न प्रत्याजहु। पश्यन्त एव स्थिता इत्यर्थः। ‘राजदर्शने एतत् प्रसिद्धमेव’ इत्याशयेन सम्बोधयति– राजन्निति॥७॥ अक्रूरस्य स्नानादिक्रियया विलम्बो जातः, अतो यावद्रामकृष्णौ मथुरामनयत् तावत्ततः पूर्वमेव नन्दादयो गोपाः पुरोपवनमासाद्य आगत्य रामकृष्णागमम प्रतीक्षमाणा अवतस्थिरे स्थिताः॥८॥ तान् नन्दादीन् समेत्य भगवान् कृष्णः स्वपाणिनाऽक्रूरपाणि गृहीत्वा प्रहसन् प्रश्रित विनितमक्रूरमाह– इवशब्दो हास्ये ईषत्त्वद्योतनार्थः। आज्ञापने स्वातन्त्र्य द्योतयन्नाह। जगदीश्वर इति॥९॥ उक्तमेवाह– भवानिति। अग्रे मत्प्रवेशात्पूर्वमेव कसं प्रत्यस्मदानयनविज्ञापनार्थ सहयानो रथसहितो भवान् पुरीं प्रविशताम्, मत्प्रवेशे पुर्यामुपद्रवस्यावश्यभावित्वादित्याशयः। ‘अत एव कंसनिकटेऽपि त्वया न स्थेयम्’ इत्याशयेनाह– गृह प्रविशतामिति।
मार्गे ग्रामजना राजस्तत्र तत्रोपसङ्गता॥ वसुदेवसुतौ वीक्ष्य प्रीता दृष्टि न चाददु॥७॥ ता
वद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः॥ पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे॥८॥
तान् समेत्याऽऽह भगवान् क्रूर जगदीश्वरः॥ गृहीत्वा पाणिना पाणि प्रश्रित प्रहसन्निव॥९॥
भवान् प्रविशतामग्रे सहयान पुरी गृहम्॥ वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम्॥१०॥
॥अक्रूर उवाच॥
नाहं भवद्भ्यां रहित प्रवेक्ष्ये मथुरां प्रभो॥ त्यक्तु नार्हसि मां नाथ भक्त ते भक्तवत्सल॥११॥
आगच्छ याम गेहान्न सनाथान् कुर्वधोक्षज॥ सहाग्रज सगोपालैः सुहृद्भिश्चसुहृत्तम॥१२॥
वय त्विहोपवने अवमुच्य वस्तून्युत्तार्य विश्रम्य ततोऽथ तदनन्तर पुरीं द्रक्ष्यामः॥१०॥ एवमुक्तः अक्रूर आह– नेति। ‘कंसभय तु तव नास्त्येव’ इत्याशयेन सम्बोधयति– प्रभो इति। हे प्रभो! भवद्भ्या रामकृष्णाभ्या रहितो वियुक्तोऽह मथुरा पुरीं न प्रवेक्ष्ये। हे नाथ स्वामिन्! मा त्यक्तु नार्हसि। तत्र हेतुमाह–भक्तमिति। ‘भक्तवत्सलस्य तव भक्तत्यागो न युक्त’ इत्याशयेन सम्बोधयति– भक्तवत्सलेति॥११॥ ‘त्वत्कृपाविना त्वत्प्राप्तिर्दुर्लभा, अतीन्द्रियत्वात्, अतोऽह त्वा त्यक्तु नोत्सहे’ इत्याशयेन सम्बोधयति– अधोक्षजेति। परमोपकारित्वाच्चेति तत्रैव हेत्वन्तर सूचयन् सम्बोधयति– सुहृत्तमेति। सहाग्रजः सुहृद्भिर्गोपालैश्च सह आगच्छ, यामः सर्वे वय सहैव गमिष्यामः। गमनेन नोऽस्मान् गेहाश्च सनाथान् कुरु स्वकीयत्वेनाङ्गीकुर्वित्यर्थः। बहुवचनेन तत्र सर्वेषामवकाशोस्तीति सूचितम्॥१२॥
स्वपादरजसा नोऽस्माक गृहमेधिना गृहान् पुनीहि। ‘कुतो मत्पादरजसा गृहाः पवित्रा स्युः?’ तत्राह– यस्य तव पादस्य शौचेन प्रक्षालनोदकेन गङ्गारूपेण तर्पिताः पितरः साग्नयः सुराश्चानुक्षण तृप्यन्ति, अतस्तद्रजसा गृहपावित्र्ये कः सन्देहः?॥१३॥ किञ्च तवाङ्घ्रियुगलमवनिज्य प्रक्षाल्य वलिः श्लोक्यो विपुलकीर्त्यर्हः गुणैः महाश्चासीत्, अतुल पूर्वेन्द्रापेक्षयाधिकमैश्वर्य भूतले भाविन्यैन्द्रपदे च लेभे, तथा एकान्तिना निष्कामभक्ताना या त्वत्प्राप्तिरूपा गतिस्ता च लेभे। तुशब्दोऽन्यविलक्षणत्वद्योतकः। तत्प्राप्तौ सन्देहाभावाद्भावित्वेऽपि भूतत्वनिर्देशः॥१४॥ किञ्च तवाङघ्रयोरवनेजन्यः क्षालनाच्छुचयः पवित्रा आपः गङ्गा त्रीन् लोकान् त्रिलोकस्थजनान् अपुनन् पवित्रितवत्यः। तत्पावित्र्ये किं वक्तव्य या आपः ईश्वरोपि शर्वः शिरसा धृतवान्, अस्थिभिर्यत्स्पर्शमात्रेण सगरात्मजाः स्वर्याताः स्वर्ग गताः॥१५॥ एवं प्रार्थ्यमानो बहुधा सम्बोधयन् नमस्करोति–
पुनीहि पादरजसा गृहान्नो गृहमेधिनाम्॥ यच्छौचेनानुतृप्यन्ति पितरः साग्नय सुरा॥१३॥
अवनिज्याङ्घ्रियुगलमासीच्छ्लोक्यो बलिर्महान्॥ ऐश्वर्यमतुलं लेभे गति चैकान्तिनां तु या॥१४॥
आपस्तेऽङ्घ्र्यवनेजन्यस्त्रील्लोकान् शुचयोऽपुनन्॥ शिरसाधत्त याः शर्वः स्वर्याता सगरात्मजा॥१५॥
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन॥ यदूत्तमोत्तमश्लोक नारायण नमोस्तु ते॥१६॥
॥श्रीभगवानुवाच॥
आयास्ये भवतो गेहमहमार्यसमन्वितः॥ यदुचक्रुद्रुह हत्वा वितरिष्ये सुहृत्प्रियम्॥१७॥
॥श्रीशुक उवाच॥
एवमुक्तो भगवता सोऽक्रूरो विमना इव॥ पुरी प्रविष्ट कसाय कर्माऽऽवेद्य गृहं ययौ॥१८॥
अथापराह्णेभगवान् कृष्ण सङ्कर्षणाऽन्वित॥ मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः॥१९॥
देवानां ब्रह्मादीनामपि देव पूज्य, जगतो नाथ स्वामिन्, पुण्य पुण्यजनक श्रवण कीर्तन च यस्य तथाभूत, यदुषु उत्तम, उत्तमः श्लोको यशो यस्य तथाभूत, हे नारायण! ते तुभ्य नमोस्तु॥१६॥ एव सम्प्रार्थितो भगवानाह– आया
स्यइति। यदुचक्राय यदुवशसमूहाय द्रुह्यतीति तथा त कस हत्वा आर्यसमन्वितः बलभद्रसहितोऽह भवतो गेहमायास्ये आगमिष्यामि। अन्येषामपि सुहृदा प्रिय वितरिष्ये करिष्यामि, तत्र तत्करणे कः सन्देह इत्याशयः॥१७॥ एव भगवता उक्तः सोक्रूरो विमना इव ‘भगवदाज्ञाया अनुल्लङ्घयत्वात् तद्वियोगस्य व दुःसहत्वात् तथाप्यायास्ये इत्याश्वासनात् किञ्चिद्विमनाः सन्’ पुरीं प्रविष्टः। कसाय रामकृष्णानयनरूप स्वकृत कर्मावेद्य स्वगृह ययौ॥१८॥ अथाक्रूरगमनानन्तर पुरीं दिदृक्षुः गोपै परिवारितः सङ्कर्षणान्वितश्च भगवान् कृष्णः अपराह्णे मथुरा प्राविशदित्यन्वयः॥१९॥
ता मथुरा ददर्श। ता पुरीं वर्णयति– स्फाटिकानि स्फटिकमयानि तुङ्गान्युच्छ्रितानि गोपुराणि पुरद्वाराणि अन्यानि च द्वाराणि यस्या ताम् गोपुररेषु बृहन्ति हेममयानि कपाटानि तोरणानि च यस्था ताम्। ताम्र च आरः आरकूटःतन्मयाः कोष्ठा धान्यागाराः अश्व शालादयो यस्या ताम्। परिखाः परितः खातागर्तास्ताभिर्दुरासदा दुर्गमाम्, उद्यानानि दूरस्थानि वनानि रम्याण्युपवनानि तु निकटानि तैरुपशोभिताम्॥२०॥ सौवर्णाः शृङ्गाटकाश्चतुष्पथाः ह
र्म्याणि धनिना गृहाश्च निष्कुटा गृहोचिता आरामाश्च तैः श्रेणीनामेकरूपशिल्पोपजीविना सभाभिरुपवेशनस्थानैश्च तथाऽन्यैश्च भवनेर्गृहैरुपस्कृता अङ्कृलताम्। अमलः स्फटिकः हरितो मरकतः वैदूर्यादिरत्नैर्जुष्टेषु सयुक्तेषु वलभ्यादिषु आविष्टैःपारावतैर्बर्हिभिर्मयूरैश्च नादिता मित्युत्तरेणान्वयः। तत्र वलभ्यो गृहपुरोभागे वक्रदारुनिर्मिताः उपवेशनोच्चस्थानानि, वेदयो गृहाग्रे इष्टकादिबद्धा विश्रामभूमयः॥२१॥ जालामुख-
ददर्श ता स्फाटिकतुङ्गगोपुरद्वारां बृहद्धमेकपाटतोरणाम्॥ ताम्रारकोष्ठां परिखादुरासदामुद्यानरम्योपवनोपशोभिताम्॥२०॥ सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर्भवनैरुपस्कृताम्॥ वैदूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिद्भिर्वलभीषु वेदिषु॥२१॥ जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम्॥ संसिक्तरथ्यापणमार्गचत्वरा प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम्॥२२॥ आपूर्णकुम्भैर्दधिचन्दनोक्षितै प्रसूनदीपावलिभि सपलवैः॥ सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहांसपट्टिकैः॥२३॥
रन्ध्राणि गवाक्षच्छिद्राणि, कुट्टिमानि मणिबद्धभूमयः। ससिक्तानि रथ्यादीनि यस्या ताम्। रथ्या राजमार्गाः, आपणाः पण्यवीथयः, मार्गाः प्रसिद्धाः, चत्वराणि अङ्गणानि। प्रकीर्णमाल्यादयो यस्या ताम्। माल्यानि पुष्पाणि, अङ्कुराः यवाङ्कुराः, लाजाः भ्रष्टधान्यानि॥२२॥ दध्ना चन्दनेन उक्षितैः सिक्तैः प्रसूनाना दीपाना चावलयो येषु तैः सपल्लवैर्वृन्दै फलगुच्छैरुपलक्षिताः रम्भाः क्रमुकाश्च तत्सहितैः सकेतुभिः केतवो ध्वजास्तत्सहितैः पट्टिका वितस्तिविस्तारपट्टवस्त्राणि तत्सहितैः जलेनापूर्णैः कुम्भैः स्वलङ्क्रुतानि द्वाराणि येषा ते गृहा यस्या ताम्। तत्रेय रीतिः– द्वारेषूभयतस्तण्डुलानामुपरि कुम्भाः, तत्परितःप्रसूनावलयः, कण्ठे पट्टिका, मुखे चूतादिपल्लवाः, तदुपरि पात्रान्तरे दीपावलयः, तत्सन्निधौ रम्भाः क्रमुकाः केतवश्चेति॥२३॥
तामेवम्भूता पुरीं वयस्यैः सखिभिर्वृतौ नरदेववर्त्मना राजमार्गेण सम्प्रविष्टौ वसुदेवनन्दनौ द्रष्टुमुत्सुकाः उत्साहयुक्तास्त्वरिताः त्वरायुक्ताश्च पुरस्त्रियः याः काश्चित् साधारण्यस्ताः समीयुर्गृहान्निःसृत्य सन्मुखमाजग्मुः, याश्च न बहिर्निर्गमनयोग्याः कुलस्त्रियस्ताश्च हर्म्याण्यारुरुहुरिति विवेकः। ‘राज्ञामागमनेऽप्येवमेव भवति’ इति सूचयन् सम्बोधयति– नृपेति॥२४॥ तासा त्वरामौत्सुक्य च तत्कार्यद्वारा स्पष्टयति– काश्चिदिति। विपर्यक् ‘पादाभरण हस्ते हस्ताभरणं च पादे, तथाधोधार्य वस्त्रमुपरि उपरिधार्य वस्त्र चाध’ इत्येव विपरीत यथा भवति तथा घृतानि वस्त्राणि भूषणानि च याभिस्तथाभूताः काश्चित् समीयुरिति पूर्वस्यैवानुषङ्गः श्लोकद्वये सर्वत्र। अथ तथा अपरास्तु युगलेषु धार्येषु कुण्डलकङ्कणादिषु एक विस्मृत्यैक–
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना॥ द्रष्टु समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवाऽऽरुरुहुर्नृपोत्सुकाः॥२४॥ काश्चिद्विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैक युगलेष्वथापराः॥ कृतैकपत्रश्रवणैकनूपुरा नांक्त्वा द्वितीय त्वपराश्चलोचनम्॥२५॥ अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः॥ स्वपन्त्य उत्थाय निशम्य निःस्वन प्रपाययन्त्योऽर्भमपोह्य मातरः॥ ॥२६॥ मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोके॥ जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम्॥२७॥
मेव धृत्वा समीयुः। अन्यास्तु कृत निहितं एकमेव पत्र ताटङ्क ययोस्ते श्रवणे कर्णौ यासां एकमेव नूपुर चरणाभरणं यासा ताश्च ताश्च समीयु। अपरास्तु द्वितीय स्वलोचन नाङ्क्त्वा एकस्मिन्नेव लोचने कज्जल निधाय समीयुः॥२५॥ काश्चित्तु अभ्यज्यमानाः सखीभि क्रियमाणतैलाभ्यङ्गा अकृतस्नाना एव समीयुः। काश्चित्तु स्वपन्त्यः निःस्वन भगवदागमनान्मार्गजनकृत कोलाहलशब्द निशम्य श्रुत्वोत्थाय समीयुः। एवं सर्वासा गमने हेतुमाह– सोत्सवा इति॥२६॥ अरविन्दवल्लोचने यस्य सः तथा द्विरदेन्द्रो मत्तगजस्तद्वद्विक्रमो गतिर्यस्य स भगवान् प्रगल्भा उत्कटा लीला हसितानि ईक्षणानि च तैः तथा श्रियं लक्ष्मीं रमयतीति श्रीरमणस्तेनात्मना वपुषा च तासां स्त्रीणा दृशामुत्सव हर्षे ददत् मनांसि जहार अपहृतवान्॥२७॥
हे अरिन्दम निर्जितकामादिशत्रो! मुहुः श्रुतत्वात्तमनुद्रुतचेतसस्तस्त दृष्ट्वा तस्य प्रेक्षणपूर्वकं यदुत्स्मित तदेव सुधा तयोक्षण सेवन तेन लब्धो मानः सत्कारो याभिस्ताः दृशा उद्घाटितनेत्रद्वारा आत्मनि अन्तःकरणे लब्ध प्राप्त आनन्दमूर्तिंश्रीकृष्णमुपगुह्य आलिङ्ग्य हृष्यत्त्वचस्तदप्राप्तिजमनन्तमाधि मनोव्यथा जहुः॥२८॥ प्रासादशिखरारूढाः प्रीत्या उत्फुल्लानि मुखाम्बुजानि यासा ताः प्रमदा सौमनस्यैः पुष्पसमूहैः बलकेशवावभ्यवर्षन् आच्छादितवत्यः॥२९॥ एव स्त्रीकृतं सन्मान निरूप्य ब्राह्मणादिकृत तदाह– दध्यक्षतैरिति। तत्र तत्र मिलिता द्विजातयो दध्यादिभिस्तौ रामकृष्णौ आनर्चुरित्यन्वयः। तत्र हेतुमाह– प्रमुदिता इति। तत्र दधि अक्षताश्च तिलकार्थ शुभसूचकाः, उदकपात्र पादप्रक्षालनाद्यर्थ, स्रक् पुष्पमाला, गन्ध चन्दन, अभ्युपायनानि मिष्टान्नफलादीनि॥३०॥ पौराः पुरवासिन ऊचुश्च। कि तदाह– अहो आश्चर्यम्, गोप्यः कि महत्तपश्चक्रु?‘अन्यथैतन्न सम्भाव्यत’ इत्यभिप्रेत्याहु– या गोप्यो नरलोकस्य महानुत्सवो याभ्या तौ रामकृष्णावनुक्षण पश्यन्ति॥३१॥ एव जनेषु वदत्सु सत्सु तदा
दृष्ट्वा मुहु श्रुतमनुद्रुतचेतसस्तं तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः॥ आनन्दमूर्तिमुपगुह्य दृशाऽऽत्मलब्धं हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम्॥२८॥ प्रासादशिखरारूढा प्रीत्युत्फुल्लमुखाम्बुजाः॥ अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ॥२९॥ दध्यक्षतेः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः॥ तावानर्चु प्रमुदितास्तत्र तत्र द्विजातयः॥३०॥ ऊचुः पौरा अहो गोप्यस्तप किमचरन् महत्॥ या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ॥३१॥ रजक कञ्चिदायान्त रङ्गकार गदाग्रजः॥ दृष्ट्वाऽयाचत वासांसि घौतान्यत्युत्तमानि च॥३२॥ देह्यावयो समुचितान्यङ्ग वासांसि चार्हतोः॥ भविष्यति परं श्रेयो दातुस्ते नात्र संशय॥३३॥स याचितो भगवता परिपूर्णेन सर्वत॥ साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः॥३४॥
गदाग्रजो भगवान् आयान्त कञ्चिद्रजक रजको वस्त्रनिर्णेजकः स एव वस्त्राणा रङ्गमपि कुर्वन् रङ्गकारस्त दृष्ट्वाधौतानि निर्णिक्तानि अत्युत्तमानि च वासासि अयाचत॥३२॥ याञ्चाप्रकारमेवाह– देहीति। प्रथम स्नेह सूचयन् सम्बोधयति– अङ्गेति। आवयो अर्हतोः दानपात्रतया योग्ययोः समुचितानि योग्यानि वासासि देहि। दातुस्ते तव परमुत्कृष्ट श्रेयो भविष्यति, अत्र सन्देहो नास्ति॥३३॥ जीवाः कैश्चित्पदार्थैःपूर्णाः कैश्चित्पदार्थैरिक्ताः, तत्रापि कदाचित पूर्णाः कदाचिदपूर्णाः, कस्मिश्चिद्देशे पूर्णाः कस्मिश्चिद्देशे रिक्ता भवन्ति। कृष्णस्तु भगवत्त्वात् सर्वतः देशकालवस्तुपरिच्छेदविनैव परिपूर्णः। तेन याचितश्चेद्दद्यात् तर्हि सोऽपि परिपूर्ण एव स्यात्। स रजकस्तु रुषितः सन् साक्षेप आक्षेपगर्भ यथा स्यात्तथा प्राह एव कथने कसस्य दोषे हेतु सूचयन्नाह– राज्ञो भृत्य इति। तस्यापि दुष्टत्वम्। तथाकथने हेतुमाह–सुदुर्मद इति। अन्यथाऽक्रूरवत् सोऽपि भगवदनुसार्येव स्यादित्याशयः॥३४॥
तदुक्तिमेवाह—ईदृशानीति द्वाभ्याम्। उद्गत वृत्त सदाचारलक्षण येभ्यस्ते तथा तास्तथा मत्वा सम्बोधयति– हे उद्धृत्ता इति। ये यूयराज्ञे द्रव्याणि वस्त्राण्यभीप्सथ ते किमीदृशानि उत्तमान्येव वासासि परिधत्तेत्यन्वयः। ‘तद्धारणे किमाश्चर्यम्’ इत्याशङ्क्याह– नित्य गिरिवनेचरा इति। पशुपालाना वनचराणा नित्य कुचैलत्वादीदृग्वस्त्रधारणमसम्भावितमित्याशय एवेत्यर्थः॥३५॥ ‘अज्ञात्वा याचितम्’ इति चेत्तत्राह– यातेति। बालिशाः हे अज्ञाः। इतः स्थानादाशु यात शीघ्र स्थानान्तर गच्छत। तत्रापि यदि जिजीविषा जीवितुमिच्छा तर्ह्येव नैव प्रार्थनीयम्। प्रार्थने दोषमाह– हि यस्माद्राजकुलानि राजकीयाः पुरुषाः युष्मद्विध दृप्तमुद्धत जन बध्नन्ति, घ्नन्ति, लुम्पन्ति निःस्वकुर्वन्ति॥३६॥ एव विकत्थमानस्य असम्बद्धभाषणस्य रजकस्य शिरः कुपितो देवकीसुतः कराग्रेण नखेनैव कायादपातयत् पृथक्कृत्य पातितवान् इत्यन्वयः॥३७॥ ततस्तस्य रजकस्यानुजीविनः सर्वे वासः कोशान् वस्त्रपुटकान्
ईदृशान्येव वार्सासि नित्यं गिरिवनेचराः॥ परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ॥३५॥
याताऽऽशु बालिशा मैव प्रार्थ्य यदि जिजीविषा॥ बघ्नन्ति घ्नन्ति लुम्पन्ति दृप्त राजकुलानि वै॥३६॥
एव विकत्थमानस्य कुपितो देवकीसुतः॥ रजकस्य करोग्रेण शिरः कायादपातयत्॥३७॥
तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै॥ दुद्रवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः॥३८॥
वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा॥ शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित्॥३९॥
ततस्तु वायकप्रीतस्तयोर्वेषमकल्पयत्॥ विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः॥४०॥
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः॥ स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ॥४१॥
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मन॥ श्रिय च परमां लोके बलैश्वर्यस्मृतीन्द्रियम्॥४२॥
विसृज्य त्यक्त्वा सर्वतो मार्गंप्रति दुन्दुवुः पलायितवन्तः। ततो वासांसि अच्युतः कृष्णः जगृहे आदत्त गोपेभ्य च॥३८॥ दानप्रकारमेवाह– कृष्णः सङ्कर्षणश्चात्मनः प्रिये पीतनीले स्वाभीष्टे वस्त्रे वसित्वा परिधाय शेषाणि गोपेभ्यः आदत्त दत्तवान्। कानिचित्तु शेषाण्यनभिप्रेतानि वासासि भुवि विसृज्य त्यक्त्वा ततोऽगादिति शेषः॥३९॥ ततस्तु वायकः तन्तुवायकः प्रीतियुक्तः विचित्रवर्णैश्चैलेयैर्वस्त्रमयैराकल्पैभूषणैर्यथानुरूपं तयो रामकृष्णयोर्वेषमलङ्कारमकल्पयत् विदधे॥४०॥ तदा यथा पर्वणि उत्सवे स्वलङ्कृतौ सितेतरौ गौरश्यामौ बालगजौ राजेते तथा नानाविधचैलेयै रचितौ यौ वेषौ अलङ्कारौ ताभ्या रामकृष्णौ विरेजतुः॥४१॥ ततः प्रसन्नो भगवान् तस्य वायकस्य देहावासेनआत्मनः स्वस्य सारूप्य समानरूपता प्रादात् सङ्कल्पितवान्। तथास्मिन् लोके जीवदशायामपि परमामुत्कृष्टा श्रिय सम्पद, बल शरीर, ऐश्वर्यं भाव, स्वविषयिकां स्मृति, इद्रिय
तत्पाटव चादात्॥४२॥ ततश्च तौ सुदामाख्यस्य मालाकारस्य भवन जग्मतुः। ननु ‘पूर्णौ तौ मालार्थ किमिति तद्नेह गता’ इति शङ्कां वारयस्तस्य भक्त्यतिरेकमाह– तावित्यादिना॥४३॥ तयोरासनमानीय समर्प्य स्रगादिभिः अर्हणादिभिरन्यैश्च पूजासाधनैः पूजा चक्रे। स्पष्टमन्यत्॥४४॥ततश्च तौ प्राह। तदुक्तिमेवाह– न इति। मुख्यत्वादेक कृष्णमेव सम्बोध यति– प्रभो इति। हि यस्मात् वा युवयोरागमनेन मह्यमदर्थ पित्रादयस्तुष्टास्तेषामृणाद्वय विमुक्ताः, नोऽस्माकं कुल च पावित उद्धृतम्, अतोऽस्माक जन्म सार्थक सफल जातमित्यन्वयः॥४५॥ ननु ‘कथमावयोरागमनमात्रेण तव पित्रादीना ऋणाद्विमुक्तिः? स्तत्राह– भवन्ताविति। ‘किल’ इत्यवधारणे। विश्वस्य कृत्स्नस्य जगतो भवन्तावेव कारणम्। ‘जगत्कारणस्यापि कारणान्तर स्यात्’ इत्याशङ्क्याह– परमिति। मूलकारण स्वकारणान्तररहिनमित्यर्थः। ‘एवभूतस्यावतारे किं प्रयोजनम्’ इत्याकाङ्क्षायामाह– साधूना क्षेमाय पालनाय
ततः सुदाम्नो भवन मालाकारस्य जग्मतु॥ तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि॥४३॥
तयोरासनमानीय पाद्य चाथार्हणादिभि॥ पूजां सानुगयोश्चके स्रक्ताम्बूलानुलेपनै॥४४॥
प्राह न सार्थक जन्म पावितं च कुल प्रभो॥ पितृदेवर्षयो मह्यतुष्टा ह्यागमनेन वाम्॥४५॥
भवन्तौ किल विश्वस्य जगतः कारण परम्॥ अवतीर्णाविहांशेन क्षेमाय च भवाय च॥४६॥
नहि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः॥ समयोः सर्वभूतेषु भजन्त भजतोरपि॥४७॥
तावाज्ञापयतं भृत्यं किमह करवाणि वाम्॥ पुसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते॥४८॥
भवाय उद्भवाय च अशेन स्वसङ्कल्पेन मूर्तिभेदेनेह भूलोकेऽवतीर्णाविति॥४६॥ ननु “सर्वमूलत्व चेत्तर्हि समत्वमेव स्यात, न वैषम्यम्, प्रसिद्ध च रजकवधेन वायकप्रसादेन च वैषम्यम्, अतः कथ सर्वमूलत्वम्” इत्याशङ्क्याह– नहीति। जगत आत्मनोरुपादानभूतयो’ भजन्त भजतोरपि सुरतरुवद्वा युवयोः सर्वभूतेषु विषमा दृष्टिर्नैवास्ति इत्यन्वयः। ननु ‘भजतो भजतोरन्यानभजतोरपि सुरतरुवदवैषम्यमुक्तम्, दुष्टनिग्रह कुर्वतोस्तु कथ न वैषम्य स्यात्’ इत्याशङ्क्याह– ‘दुष्टनिग्रहस्यापि तद्भावनानुरूपश्रेय पर्यवसायित्वात् तत्रापि न वैषम्यम्’ इत्याशयेनाह– सुहृदोरिति, सर्वमित्रयोरीत्यर्थः॥४७॥ तौ जगदीश्वरौ भवन्तौ भृत्य मामाज्ञापयतम्। वा युवयोः कि दास्यमह करवाणि। ‘पूर्णत्वान्नावयोः किञ्चिदपेक्षितमस्ति’ इति चेत् तथापि ‘अस्मदनुग्रहार्थमवश्य वक्तव्य’ इत्यशयेनाह– पुस इति। यत् भवद्भिःस्वकीयत्वेनाङ्गीकृत्य कार्येषु नियुज्यते तदेष एव पुसोऽत्यनुग्रहः हिशब्दोऽवधारणे। बहुवचन तक्ताभिप्रायेण॥४८॥
‘केचित् भृत्याः राज्ञोप्यभिप्राय जानन्तीति स्ववृत्तान्तेन ज्ञेयम्’ इति सूचयन् सम्बोधयति– राजेन्द्रेति। इति एव विज्ञापयन् अभिप्रेत्य भगवदभिप्राय ज्ञात्वा प्रीतमानसः सुदामा प्रशस्तैः सुगन्धिभिः कुसुमैर्विरचिता माला ताभ्या ददौ॥४९॥ अनुगैर्गोपैः सह ताभिर्मालाभिः स्वलङ्कृतौ, अत एव प्रीतौ कृष्णरामौ प्रणताय प्रपन्नाय शरणागताय तस्मै वरान् ददतुः ‘वरान् वृणीष्व’ इत्युक्तवन्तौ। तत्र हेतुमाह– वरदाविति यथेष्टवरदाने समर्थावित्यर्थः॥५०॥ स सुदामापि अखिलात्मनि तस्मिन् श्रीकृष्ण एवामला भक्ति तद्भक्तेषु च सौहार्द मित्रता अन्येषु च भूतेषु प्राणिमात्रेषु परा दया स्वार्थनिरपेक्ष्यपरदुःखप्रहारेच्छारूपा वव्रेवृतवान्। एवकारोऽन्यभक्तिनिरासार्थः॥५१॥ इत्येव तद्याचित वर तस्मै दत्त्वा तथा तदयाचितमपि श्यादिक स्वयमेव भक्तवात्सल्येन दत्त्वा सहानुगः कृष्णस्ततो निर्जगामेत्यन्वयः। अन्वयवर्धिनीं वशेवृद्धिमतीम्। बल शरीरसामर्थ्यम्।
इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः॥ शस्तैः सुगन्धै कुसुमैर्मालां विरचिता ददौ॥४९॥ ताभि स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ॥ प्रणताय प्रपन्नाय ददतुर्वरदो वरान्॥५०॥ सोऽपि वव्रेऽचलां भक्ति तस्मिन्नेवाखिलात्मनि॥ तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम्॥५१॥ इति तस्मै वरं दत्त्वा श्रिय चान्वयवर्धिनीम्॥ बलमायुर्यश कान्ति निर्जगाम सहाग्रज॥५२॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे रजकवधादिनिरूपणं नाम एकचत्वारिशोऽध्यायः॥४१॥॥६६॥ श्रीशुक उवाच॥ अथ व्रजन् राजपथेन माधव स्त्रियं गृहीताङ्ग विलेपभाजनाम्॥ विलोक्य कुब्जां युवती वराननां पप्रच्छ यान्ती प्रहसन् सप्रदर233॥१॥
आयुः प्रसिद्धम्। यशः सुकीर्तिम्। कान्ति तेजः॥५२॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्द सिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने ॥ एकचत्वारिशकोऽगाद्रजकवधबोधकः॥३॥छ॥ द्विचत्वारिंशके चापि कृष्णस्याद्भुतकर्मणः। कुब्जासुरूपदानादि चरित विनिरूप्यते॥१॥ अथ मालाकारानुग्रहानन्तर राजमार्गेण व्रजन् माधवः गृहीतानि अङ्ग विलेपाना चन्दनादीना भाजनानि पात्राणि यया ता, वर सुदर आनन यस्यास्ता कुब्जा युवतींतरुणीं स्त्रियं यान्तीं गच्छन्तीं विलोक्य प्रहसन् पप्रच्छ। तत्र हेतुमाह–रसप्रद इति। ‘वरप्रद’इति पाठान्तरम्। स्वभक्ताना सुखप्रद इत्यर्थः। चन्दनादि गृहीत्वा तस्याऽपि सुखसम्पादनार्थमिति भाव॥१॥
तत्प्रश्नमेवाह–का त्वमिति। सोपहास सम्बोधयति–हे अङ्गने इति, हे वरोरु इति च। ‘उ ह’ इति निपातौ भ्रूविक्षेपयुक्ते वितर्के, अस्या पुर्या त्व का एतदनुलेपन कस्य कस्मै नयसीत्यर्थः। साधु यथार्थ नोऽस्मान् प्रत्येतत् कथयस्व। ‘कस्मैचिद्भवतु, युष्माक किम्?’ तत्राह– उत्तममिदमङ्गविलेपन आवयोर्देहि, तेनानुलेपनदानेन हेतुना ते तवाचिरादेव श्रेयः उत्तम फल भविष्यति॥२॥ एवमापृष्टा याचिता च साप्याह–दासीति। स्वमोह सूचयन्ती सम्बोधयति– सुन्दरेति। तिस्रो ग्रीवोरःकटयो वक्रायस्याः सा त्रिवक्रेति अन्वर्थ नाम यस्याःसाऽहं हि प्रसिद्धा अनुलेपनसाधनक्रियाया कसस्य सम्मता दास्यस्मि। सम्मतत्वे हेतुमाह– मद्भावित मयासाधितमनुलेपन भोजपतेः कसस्यातिप्रिय भवति, कुब्जतया बलाभावेन शनैर्घर्षितस्य चन्दनादेरतिसूक्ष्मत्वादित्याशयः। एव का त्व कस्यासीति प्रश्नयस्योत्तरमुक्त्वा देह्यावयोरित्यस्योत्तरमाह– युवाविनाऽन्यतमस्तदनुलेपन स्वीकर्तु कोऽर्हतीति॥३॥ एवमुक्त्वा भगवतो रूपादिभिर्धर्षितः मोहित आत्मा चित्त यस्याः सा सान्द्र घन अनुलेपन उभयो
का त्वं वरोर्वेतदुहानुलेपन कस्याङ्गने वा कथयस्व साधु नः देह्यावयोरङ्गविलेपमुत्तम श्रेयस्ततस्तेन चिराद्भविष्यति॥२॥ सैरन्ध्र्युवाच॥ दास्यस्म्यहं सुन्दर कससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि॥ मद्भावित भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति॥३॥ रूपपेशलमाधुर्यहसितालापवीक्षितैः॥ धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम्॥४॥ ततस्तावङ्गरागेण स्ववर्णेतरशोभिना॥ सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ॥५॥ प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम्॥ ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम्॥पभ्द्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना॥ प्रगृह्य चुबुकेऽध्यात्ममुदनीनमदच्युतः॥७॥
रामकृष्णयोर्ददावित्यन्वय। रूप चाङ्गसौष्ठव, पेशल च सौकुमार्य, माधुर्य च रसिकता, हसित च, आलापश्च भाषण च वीक्षित च, तैः॥४॥ ततश्च स्ववर्णेतरशोभिना रामकृष्णयोः सितासितवर्णाभ्या इतरौ रक्तपीतौ वर्णौताभ्यां शोभितु शीलमस्य तेन सम्प्राप्तपरभागेन सम्प्राप्तः परो नाभेरुपरितनो भागो येन तेन अङ्गरागेणानुरञ्जितौ तौ रामकृष्णौ शुशुभाते॥५॥ स्वदर्शने फल लोकस्य दर्शयन् अङ्गरागार्पणभक्त्या प्रसन्नो भगवास्ता त्रिवक्रा कुब्जामृज्वीमवक्रा कर्तु मनश्चक्रे। तस्या योग्यता सूचयन्नाह– रुचिराननामिति॥६॥ ऋजुकरणप्रकारमाह– पद्भ्यामिति। तस्याः प्रपदे पादाग्रद्वय निजपद्भ्यामाक्रम्य आक्रमणेनावष्टभ्य द्वे अङ्गुली उत्ताने उन्नते यस्मिस्तेन पाणिना तस्याश्चुबुके मुखस्याधोभागे अच्युत कृष्णः प्रगृह्य अध्यात्म देह उदनीनमत् उन्नमयामास॥७॥
सा कुब्जा मुकुन्दस्पर्शनादेव हेतोस्तदा सद्य एव ऋजु समान योग्यावयवमङ्ग यस्याः सा बृहत्यौश्रोणी पयोधरौ च यस्यास्तथाभूता प्रमदोत्तमा बभूव॥८॥ ततश्च सा स्मयन्ती तस्योत्तरीयान्तमाकृष्य तं केशव प्राहेत्यन्वयः। तत्र हेतुमाह– जातो हृच्छयः कामो यस्याः सेति। केशव ब्रह्मरुद्रयो रपि व सुख यस्मात्तमित्यनेन कामोत्पतौ हेतुः सूचितोपि हेत्वन्तरमपि सूचयन्नाह– रूपादिभिः सम्पन्नेति। तत्र रूप सौन्दर्यम्, गुणाः सौशील्यादयः, औदार्यपदेन दक्षत्वम्॥९॥ तदुक्तिमाह–एहीति। ‘त्वदनुग्रहविना न कामनिवृत्तिः’ इति सूचयति, सम्बोधयति च– वीरेति। एहि अस्मद्गृह प्रत्यागच्छ यामः त्वया सहैव गृह गच्छामः। इह स्थाने त्वा त्यक्तु नोत्सहे न शक्नोमि। ‘त्वयि प्रार्थनैव युक्ता, न बलात्कारः, पुरुषोत्तमत्वात्’ इत्याशयेन सम्बोधयति– पुरुषर्षभेति। त्वया निमित्तेन उन्मथित कामक्षोभितं चित्तं यस्यास्तस्या मम प्रसीद॥१०॥ रामस्य पश्यतः सत इति तस्य
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा॥ मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा॥८॥
ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम्॥ उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया॥९॥
एहि वीर गृह यामो न त्वां त्यक्तुमिहोत्सहे॥ त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ॥१०॥
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः॥ मुख वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह॥११॥
एष्यामि ते गृह सुभ्रू पुसामाधिविकर्शनम्॥ साधितार्थोऽगृहाणां न पान्थानां त्व परायणम्॥१२॥
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः॥ नानोपायनताम्बूलस्रग्गन्धै साग्रजोऽर्चितः॥१३॥
सङ्कोच सूचयति। स्त्रिया एव याच्यमानः कृष्णोऽनुगाना गोपाना चकाराद्बलस्य च मुख विलोक्य प्रहसन् हर्षेण तामुवाचेत्यन्वयः॥११॥ उक्तिमेवाह– एष्यामीति। स्नेह सूचयन् सम्बोधयति– सुभ्रू इति। इदानीं कार्यान्तरस्य विद्यमानत्वात् उद्वेगोस्तीति। साधितः कंसवधादिरूपोर्थः प्रयोजन येन तथाभूतः सस्ते गृह प्रत्यागमिष्यामि। तद्विश्वासार्थ गृह ता च विशिनष्टि– पुसामाधिविकर्शन कामप्रयुक्तमनः पीडाशमन गृहम्। अगृहाणां न विद्यन्ते अस्या पुर्या गृहा येषाम्, तत्र हेतुमाह– पान्थानामिति। अस्माक त्वमेव परायणमाश्रय इति॥१२॥ एवविधया माध्व्या मधुरया वाण्या तां विसृज्य तत उत्तरीयान्त त्याजयित्वा प्रस्थाप्य मार्गे व्रजन् साग्रजो रामेण सहितः कृष्णः वणिग्जनैः नानाविधैरुपायनै श्रेष्ठवस्तुभिस्ताम्बूलादिभिश्चार्चितो बभूव॥१३॥
तस्य भगवतो दर्शनेन यः स्मरस्य क्षोभस्तेन स्त्रिय आत्मानं देहं नाविदन्। तत्र लिङ्गमाह– विस्रस्ताः स्थानात् प्रचलिताः वासःप्रभृतयो यासा ता इति। ‘सर्वक्रियानिवृत्तिरपि जाता’ इत्याह– लेख्यवल्लिखितप्रतिमावन्निश्चला मूर्तयो यासा ता इति॥१४॥ ततश्च पारान् प्रति धनुषःस्थान धनुर्मखशाला पृच्छमानः अच्युतः कृष्णः तस्मिन् धनुषः स्थाने प्रविष्टः सन्नैन्द्रधनुरिवाद्भुत महत्त्वेन पूजितत्वेन च सत्कृतं धनुर्ददर्श। ॥१५॥ तदेव स्पष्टयति– बहुभिः पुरुषैर्गुप्त रक्षित अर्चित च परमा ऋद्धिः स्वर्णालङ्कारादिसमृद्धिरस्यास्तीस्ति तथा तद्धनुर्दृष्ट्वा नृभिश्च तद्रक्षकै र्बहुधा वार्यमाणोपि कृष्णः प्रसह्य बलात् धनुराददे गृहीतवान्॥१६॥ ततश्च उरुक्रमो महाबलपराक्रमो भगवान् सलील यथा भवति तथाऽना-
तद्दर्शनस्मरक्षोभादात्मान नाविदन् स्त्रिय॥ विस्रस्तवास कबरवलयालेख्यमूर्तय॥१४॥ ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः। तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम्॥१५॥ पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत्॥ वार्यमाणो नृभि कृष्ण प्रसह्य धनुराददे॥१६॥ करेण वामेन सलीलमुद्वृत सज्य च कृत्वा निमिषेण पश्यताम्॥ नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्ड मदकर्युरुक्रमः॥१७॥ धनुषो भज्यमानस्य शब्द खं रोदसी दिशः॥ पूरयामास यं श्रुत्वा कसस्त्रासमुपागमत्॥१८॥ तद्रक्षिणः सानुचराः कुपिता आततायिनः॥ ग्रहीतुकामा आवव्रुर्गृह्यतां बद्ध्यतामिति॥१९॥ अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ॥ क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः॥२०॥
यासेनैव वामेन करेणोद्धृत धनुः सज्य समारोपितज्याक कृत्वा नृणा पश्यतामेव सता निमिषमात्रेणैव कालेन विकृष्य मध्यतो बभञ्ज भग्नमकरोत्। अनायासेन भञ्जने दृष्टान्तमाह– यथा मदकरी हस्ती इक्षुदण्ड मध्यतो भञ्जयति तद्वदिति॥१७॥ तदा भज्यमानस्य धनुषः ध्वनिः खमाकाशं रोदसी द्यावापृथिव्यौ दिशश्च पूरयामास सर्वत्र व्याप्तो जातः। य शब्द श्रुत्वा कसस्त्रास भय प्राप्तवान्॥१८॥ तस्य धनुषो रक्षिणः सानुचराः आततायिनः जिघासया गृहीतशस्त्राः ग्रहीतुकामाः जिघृक्षव गृह्यताबध्यतामिति वदन्तः आवव्रुः तावावृतवन्तः॥१९॥ अथानन्तरमेव तान् दुरभिप्रायान् जिघासून् विलोक्य क्रुद्धौ रामकृष्णौ धनुषः शकले आदाय ताभ्या तान् जघ्नतुः॥२०॥
तदा कसेन प्रेषित बल सैन्य च हत्वा ततस्तस्मात् शालामुखात् बहिर्निष्क्रम्य तत्र तत्र पुरसम्पदो निरीक्ष्य हृष्टौ चेरतुः॥२१॥ तयो रामकृष्णयोस्तद्धनुर्भञ्जनादिलक्षणमद्भुत वीर्य कर्म निशम्य श्रुत्वा तेजः पराभिभवनसामर्थ्य, प्रागल्भ्य धृष्टता, रूप सौन्दर्य च दृष्ट्वा पुरवासिनस्तौ विबुधेषु उत्तमौ मेनिरे अमन्यन्त॥२२॥ स्वैर यथेष्टं यथा तथा तयोर्विचरतोः सतोः सूर्यो स्तगिरिमुपेयिवान् प्राप्तवान् ततश्च गोपैर्वृतौ रामकृष्णौ पुरात् शकटावमोचनस्थान नन्दादिसमीपमीयतुः आजग्मतुः॥२३॥ मुकुन्दस्य विगमे व्रजान्निर्गमनवेलाया तद्विरहणातुरा विवशा गोप्यः या आशिषः आशासत ‘सुख प्रभाता रजनीयम्’ इत्यादिना पुरयोषितामाशिष सत्या भविष्यन्तीति उक्तवत्यस्ताः सर्वा मधुपुरीं पुरुषभूषणस्य पुरुषोत्तमस्य कृष्णस्य
बल च कसप्रहित हत्वा शालामुखात्ततः॥ निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः॥२१॥ तयोस्तदद्भुत वीर्य निशम्य पुरवासिनः॥ तेज प्रागल्भ्य रूप च मेनिरे विबुधोत्तमौ॥२२॥ तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान्॥ कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतु॥२३॥ गोप्यो मुकुन्दविगमे विरहातुरा या आशासताऽऽशिष ऋता मधुपुर्यभूवन्॥ सम्पश्यतां पुरुषभूषणगात्रलक्ष्मी हित्वेतरान्नु भजतश्चकमेऽयन श्रीः॥२४॥ अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम्॥ ऊषतुस्तां सुख रात्रिं ज्ञात्वा कसचिकीर्षितम्॥२५॥ कंसस्तु धनुषो भङ्ग रक्षिणां स्वबलस्य च॥ वध निशम्य गोविन्दरामविक्रीडित परम्॥२६॥ दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मति॥ बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च॥२७॥
गात्रलक्ष्मीं देहशोभा पश्यता जनाना ऋताः सत्या बभूवुः। तद्गात्रशोभातिशय सूचयन्नाह– भजतः सेवमानान् इतरान् ब्रह्मादीन् हित्वा श्रीर्महालक्ष्मीर्यत् गात्रमयन चकमे स्वाश्रयतया स्वीकृतवती॥२४॥ अवनिक्तं क्षालितं अङ्घ्रियुगुल ययोस्तौ क्षीरोपसेचन क्षीरमिश्रमन्न भुक्त्वा क
मचिकीर्षित परेद्युः क्रियमाण स्ववधोद्योग च ज्ञात्वा ता रात्रि सुख यथा स्यात्तथा ऊषतुः॥२५॥ गोविन्दरामयोः पर केवल विक्रीडित अनायासेनैव कृत धनुर्भङ्गादिक निशम्य कसः॥२६॥ भीतः अतएव प्रजागरः अलब्धनिद्रःउभयतः स्वाप्नानि जागरितानि च मृत्योर्दौत्यकराणि आगमनसूचकानि चकारात् लोके दुष्कीर्तिसूचकानि च बहूनि दुर्निमित्तानि अपशकुनान्यचष्ट ददर्श। ‘तद्दर्शनात् तत्समयेऽपि भगवच्चरणागमनमुचितम्, तन्नाकरोद्दुर्बुद्धित्वात्’ इत्याशयेनाह– दुर्मतिरिति॥२७॥
तान्येव कानिचिदाह—त्रिभिः। तत्र तावज्जागरितान्याह—अदर्शनमिति द्वाभ्याम्। दर्पणजलादौ प्रतिरूपे सत्यपि दृश्यमानेऽपि तत्र स्वशिरसः अदर्शन, तथा द्वितीये असत्यपि अक्षिनिकोचनादिद्वित्वदर्शननिमित्ताभावेऽपि ज्योतिषा चन्द्रादीना द्वैरूप्य द्वित्व च ददर्श॥२८॥स्वच्छायाया छिद्रप्रतीतिः, कर्णरन्ध्रयोः पिहितयोः सतोरन्तःश्रूयमाणो यो ध्वनिःस प्राणघोषःतस्यानुपश्रुतिः अश्रवण, वृक्षेषु स्वर्णवर्णप्रतीति, रजःकर्दमादिषु स्घपदानामदर्शनम्॥२९॥स्वप्नानि दुर्निमित्तान्याह—स्वप्न इति। प्रेतैः परिष्वङ्गः आलिङ्गन, खरमारुह्य यान, विषभक्षण, नलदमाली जपा कुसुममालावान् तैलेनाभ्यक्तः दिगम्बरो नग्नश्चैको यायात् गच्छेत् इति यत्तदपि एक दुर्निमित्त, तथाभूतमप्यात्मान ददर्शेत्याशयः॥३०॥इत्थभूतानि मृत्युसूचकानि स्वाप्नानि जागरितानि चान्यान्यपि दुर्निमित्तानि पश्यन् मरणात् सन्त्रस्तः कसश्चिन्तया निद्रा न लेभ इत्यन्वयः॥३१॥
अदर्शनं स्वशिरस प्रतिरूपे च सत्यपि। असत्यपि द्वितीये च द्वैरूप्य ज्योतिषां तथा॥२८॥
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः॥स्वर्णप्रतीतिर्वृक्षेषु स्वप्नदानामदर्शनम्॥२९॥
स्वप्ने प्रेतपरिष्वङ्ग खरयान विषादनम्॥यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः॥३०॥
अन्यानि चेत्थभूतानि स्वप्नजागरितानि च॥पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया॥३१॥
व्युष्टायां निशि कौरव्य सूर्ये चाद्ध्यः समुत्थिते॥कारयामास वै कसो मल्लक्रीडामहोत्सवम्॥३२॥
आनर्चुःपुरुषा रङ्ग तूर्यभेर्यश्च जघ्निरे॥मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः॥३३॥
तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः॥यथोपजोष विविशु राजानश्च कृतासनाः॥३४॥
‘कसस्य कुमतित्वमनुसन्धेयम्’ इत्याशयेन सम्बोधयति—कौरव्येति। निशि व्युष्टाया प्रभाताया सत्यां सूर्ये चाद्भ्यः समुत्थिते सति “अद्भ्यः प्रातरुदेत्यपः साय प्रविशति य उद्गान्महतोर्णवाद्विभ्राजमानः सलिलस्य मध्यात् समावृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु"इत्यादिश्रुतेकसःमल्लाना क्रीडारूप महोत्सवमेव कारयामास॥३२॥तत्प्रकार स्पष्टयति—पुरुषाः कसभृत्याः रङ्ग मल्लक्रीडास्थान आनर्चुः मार्जनचन्दनाम्भःसेचनमालादिभिलङ्कृतवन्तः, तूर्याणि भेर्यश्व जनिरे शब्दिता जाताः। मञ्चाः दिदृक्षूणामुपवेशनार्थमुच्चानि स्थानानि स्रगादिभिः स्वलङ्कृता जाताः॥३३॥तेषु मञ्चेषु पौराः पुरवासिनो जानपदा बहिर्देशवासिनश्च ब्राह्मणक्षत्त्रियादयो जनाः, तथा कृतानि मञ्चोपरिस्थापितानि आसनानि सिंहासनानि येषा ते राजानश्च यथोपजोष यथासुख विविशुः उपविष्टाः॥३४॥
कसस्तु अमात्यैर्मन्त्रिभिः, परिवृत मण्डलेश्वरा ये राजानस्तन्मध्यस्थः दुर्निमित्तदर्शनादिना विदूयता प्रकम्पमानेन हृदयेन युक्तो राजोचित मञ्चमुपाविशत्॥३५॥तदा मल्लाना तालः करतलैर्भुजताडनशब्दःउत्तरः उच्चैः श्रूयमाणो येषु तेषु तूर्येषु वाद्यमानेषु सत्सु मल्ला रङ्गभूमि समाविशन् समागताः। ‘तेषामागमन हर्षेण’ इति सूचयन्नाह—स्वलङ्कृता इति। ‘भगवता सह युद्धार्थमेवागता’ इत्याशयेनाह—सोपाध्याया इति। उपाध्याया मल्लाचार्या इति, तैः सहिता इत्यर्थ। ननु ‘धनुर्भङ्गादि तत्कृतं कर्म श्रुत्वापि कुतो न भीता?‘तत्राह—हप्ता इति, गर्विताः॥३६॥ एव साधारणानामल्लाना साधारणेनागमन निरूप्य मुख्यानामागमनमाह—चाणूरेति। वल्गुवाद्यैः मनोहरतूर्यादिघोषैः प्रहर्षितास्ते प्रसिद्धाश्चाणूरादयो मल्ला उपस्थान स्वक्रीडास्थानमासेदुः आजग्मुः॥३७॥तथा भोजराजेन कसेन समाहताः निवेदितानि समर्पितान्युपायनानि यैस्ते नन्दादयो गोपाश्चैकस्मिन् मञ्चे
कसःपरिवृतोऽमात्यै राजमञ्च उपाविशत्॥मण्डलेश्वरमध्यस्थो हृदयेन विदूयता॥३५॥
वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च॥मल्लाःस्वलङ्कृता दृप्ताःसोपाध्याया समाविशन्॥३६॥
चाणूरो मुष्टिकःकूटःशलस्तोशल एव च। त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः॥३७॥
नन्दगोपादयो गोपा भोजराजसमाहुता॥निवेदितोपायनास्ते एकस्मिन् मञ्च आविशन्॥३८॥
इति श्रीमद्भा० महापु० दश० राजसनिरोधनिरू० कुब्जासुरूपदानादिनिरूपणं नाम द्विचत्वारिंशोऽध्यायः॥४२॥
॥श्रीशुक उवाच॥
अथ कृष्णश्च रामश्च कृतशौचौ परतप॥मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतु॥१॥
रङ्गद्वार समासाद्य तस्मिन्नागमवस्थितम्॥अपश्यत् कुवलयापीड कृष्णोऽम्बष्ठप्रचोदितम्॥२॥
आविविशुः॥३८॥इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥श्रीमद्गिरिधराख्येव भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥रचिता दशमे तत्र राजसरोधवर्णने॥द्विचत्वारिंशोऽगच्छत् कुब्जासुरूपबोधकः॥३॥ त्रिचत्वारिंशके हस्ति—हनन रङ्गवेशनम्॥चाणूरेण च संवादः कृष्णस्य विनिरूप्यते॥१॥अथ नन्दादिगमनानन्तर हे परतप !कृत शौच दन्तधा-वनस्नानादिक याभ्यां तौ रामकृष्णौ मल्लतालाना दुन्दुभीना व निर्घोष श्रुत्वा तदुत्सव द्रष्टुमुपेयतुः आजग्मतुः॥१॥कृष्णो रङ्गस्य मल्लक्रीडास्थानस्य द्वारमासाद्य आगत्य तस्मिन् द्वारे अम्बष्ठेन हस्तिपेन प्रचोदित कुवलयापीड नाग गजमवस्थितमपश्यत्॥२॥
ततश्चशौरिः कृष्णः परिकर बद्ध्वायुद्धचित दृढ परिधान कृत्वा कुटिलान् वक्रान् विकीर्णान् अलकान् समुह्य निबध्य मेघनादवद्गभीरया पूर्णाक्षरया वाचा हस्तिपमुवाचेत्यन्वयः॥३॥ तदुक्तिमेवाह—अम्बष्ठाम्बष्ठेति। अम्बष्ठाम्बष्ठेति द्विरुक्ति क्रोधसूचनार्था, नौ आवयोर्मार्ग देहि, अपक्रम मार्ग परित्यज, मा चिर विलम्ब मा कार्षीः। नो चेत् मार्गं न दास्यसि चेत् अद्यैव सकुञ्जर त्वा यमस्य सादन लोक नयामि॥४॥ एव निर्भर्सितः, अतएव कुपितोऽम्बष्ठः अङ्कुशादिना कोपितमतः अन्तको मृत्युः, कालस्तन्निमित्त, यमस्तु मृत्युनियन्ता, तैरुपमा यस्य तमतिभयंकर गज कृष्णाय कृष्ण हन्तु चोदयामास॥५॥करीन्द्रो हस्ती तरसा वेगेनाभिद्रुत्य सम्मुखमागत्य शुण्डया त कृष्णमग्रहीत्। ‘तदा स कृष्णोऽपि तस्य करात् शुण्डाग्रतो विगलितो विच्युतः सन्नमु हस्तिन निहत्य तस्याङ्घ्रिषु चरणाना मध्ये अलीयत अदृश्यो बभूवेत्यर्थः॥६॥ ततश्च सङ्क्रुद्धः स गजस्त केशव
बद्ध्वापरिकर शौरिः समुह्य कुटिलालकान्॥ उवाच हस्तिप वाचा मेघनादगभीरया॥ ३॥
अम्बष्ठाम्बष्ठ मार्गंनौ देह्यपक्रम मा चिरम्।नो चेत् सकुञ्जर त्वाऽद्य नयामि यमसादनम्॥ ४॥
एवं निर्भर्त्सितोऽम्बष्ठ कुपित कोपितं गजम्॥ चोदयामास कृष्णाय कालान्तकयमोपमम्॥ ५॥
करीन्द्रस्तमभिद्रुत्य करेण तरसाऽग्रहीत्॥ कराद्विगलित सोऽमु निहत्याङ्घ्रिष्वलीयत॥ ६॥
सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिःस केशवम्॥परामृशत् पुष्करेण स प्रसह्य विनिर्गतः॥ ७॥
पुच्छे प्रगृह्यातिबल धनुषः पञ्चविशतिम्॥ विचकर्ष यथा नागं सुपर्ण इव लीलया॥ ८॥
श्रीकृष्णमचक्षाणःअपश्यन् पुष्करेण शुण्डाग्रेण परामृशत् अन्वेषण कृत्वा त धृतवानित्यर्थः। पुष्करेणान्वेषणे हेतुमाह—घ्राणदृष्टिरिति। घ्राणभव-घ्राणम्, तेन दृष्टिर्दर्शन यस्य स। पशवो हि लोचनागोचरमपि घ्राणेन जानन्तीति प्रसिद्धम्। स च कृष्ण प्रसह्य बलात्पुनस्तद्ग्रहणाद्विनिर्गतः।॥७॥ ततश्च तमतिबल गज पुच्छे प्रगृह्य यावद्धनुषः धनुषा पञ्चविंशतिस्तावन्त देश लीलया अनायासेनैव विचकर्ष, धनुषः प्रमाण हि हस्तचतुष्टयम्, तेन हस्तशतपर्यन्त विचकर्ष आकृष्य नीतवानित्यर्थः। ननु ‘स च महान्, भगवाश्च सूक्ष्मः, अतः कथं तेन तस्याकर्षण सम्भवति ? किं वा तत्प्रयोजनम्?‘इत्यपेक्षाया दृष्टान्तमाह—नाग सर्पमिव वर्तमान गज सुपर्णः गरुडश्च स्वयं कृष्ण इति। यथा स्वभक्ष्य सर्प गृहीत्वा त मारयितु तद्बलविनाशाय विकर्षेत्तथा तद्बलविनाशाय भगवास्तं विकर्षितवानित्यर्थः॥८॥
स अच्युतः अक्षीणबलपराक्रम श्रीकृष्णःपुच्छग्राहिणमात्मान ग्रहीतु यदि स गजःदक्षिणत परिवर्तते तर्हि त सव्यतो भ्रामयति, यदा च सव्यतः परिवर्तते तदा तं बलाद्दक्षिणतो भ्रामयति, एवं पर्यावर्तमानेन करिणा सह बभ्राम। ‘एवं भ्रमणे भ्रामणे च तस्याभ्यासोऽप्यस्ति ’ इत्यनायासत्वं द्योतयन् दृष्टान्तमाह—बालो यथा गृहीतपुच्छेन भ्राम्यमाणगोवत्सेन सह भ्राम्यति तद्वदिति॥९॥ ततश्च तौ बाललीला त्यक्त्वा प्रौढलीलाप्रदर्शनार्थ पुच्छ त्यक्त्वा अभिमुखमभ्येत्य समागत्य स्वपाणिना वारण गजमाहत्य तेन पदे पदे स्पृश्यमानः स यथा पतेत्तथा प्रकर्षेण आ सर्वतो वञ्चयन् द्रवन् धावस्त पातयामासेत्यन्वयः॥१०॥पुनश्च स भगवान् धावन् क्रीडयैव त गज वञ्चनार्थमेव भूमौ पतित्वा सहसा झटिति तदलक्षित एवोत्थितः उत्थायान्यत्र स्थितः, स च गजः त कृष्ण पतित मत्वा क्रुद्धःसन् दन्ताभ्या क्षितिमहनत् अहन्। यदैव तद्वननायप्रवृत्तस्तदैव झटिति तत उत्थायान्यत्र
स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः॥बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः॥९॥ततोऽभिमुखमभ्येत्य पाणिनाऽऽहत्य वारणम्॥प्राद्रवन् पातयामास स्पृश्यमान पदे पदे॥१०॥स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः॥तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम्॥११॥स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः॥ चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद्रुषा॥१२॥तमापतन्तमासाद्य भगवान् मधुसूदन॥निगृह्य पाणिना हस्त पातयामास भूतले॥१३॥पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया॥दन्तमुत्पाट्यतेनेभ हस्तिपांश्चाहनवरिः ॥१४॥मृतकं द्विपमुत्सृज्य दन्तपाणि समाविशत्। असन्यस्तविषाणोऽसृङ्भदबिन्दुभिरङ्कित॥विरूढस्वेदकणिकावदनाम्बुरुहो बभौ॥१५॥
गमनात्तद्दन्तसबन्धोभूमावेव जातस्ततोपि तस्यैव दन्तव्यथा जाता, न काचिद्भगवतःक्षतिरिति ज्ञेयम्॥११॥एव पर्यावर्तनादिना स्वविक्रमे पराक्रमेप्रतिहते क्षीयमाणे सति कुञ्जरेन्द्रोऽत्यमर्षितः कृष्णपराक्रममसहमानः महामात्रैः हस्तिपैश्च चोद्यमानः रुषा क्रोधेन कृष्ण हन्तुमभ्यद्रवत वेगेनसन्मुखमधावत्॥१२॥ स च भगवान् त गजमापतन्त वेगेनागच्छन्तमासाद्य तस्य हस्त शुण्डा पाणिना निगृह्य भूतले पातयामास। ‘न च कृष्णेन तत्पातनमसम्भावितम्, यो हि ब्रह्मादीनामपि भयकर मधु हतवास्तदग्रेऽय को वराक’ इत्याशयेनाह—मधुसूदन इति ॥१३॥ हरिःश्रीकृष्णः पतित गजेन्द्र पदाऽऽक्रम्य पादाक्रान्तं कृत्वा मृगेन्द्रः सिंह इव लीलया अनायासेनैव तस्य दन्तमुत्पाट्य तेन दन्तेनैन हस्तिन हस्तिपाश्चाहनत् अहन्॥१४॥ ततश्च मृत द्विपं गजमुत्सृज्य त्यक्त्वा दन्तपाणिः कृष्णो रङ्ग समाविशत् तत्र च वीरादिश्रिया बभौ। तमेवविशिनष्टि—असे स्कन्धे न्यस्तो निहतो विषाणो गजदन्तो येन सः,
असृजः रुधिरस्य मदस्य च बिन्दुभिः अङ्कितः, विरूढाः उद्गताः स्वेदकणिका यस्मिंस्तद्वदनाम्बुरुहं यस्य सः॥१५॥ एव कृष्णं वर्णयित्वा गोपैः सहितयोः रामकृष्णयोरुभयोरपि शोभातिशयमाह—वृताविति। ‘अनेकरसयुक्ततया वक्ष्यमाणत्वात् सावधानतया श्रोतव्यम्’ इत्याशयेन सम्बोधयति—राजन्निति। गजदन्तावेव वरे श्रेष्ठे आयुधे ययोस्तौ कतिपयैर्गौपैर्वृतौ बलदेवजनार्दनौ रङ्ग मल्लक्रीडास्थान विविशतुः॥१६॥तत्र च “ये यथा मा प्रपद्यन्ते तास्तथैव भजाम्यहम्” इति स्ववाक्यानुरोधात् ‘रौद्रादिरसकदम्बमूर्तिर्भगवास्तत्तदभिप्रायानुसारेण तथा तथा बभौ ’ इत्याह—मल्लानामिति। मल्लादीना द्रष्टृृणामशन्यादिरूपेण दशधा विदित सन् साग्रजो बलदेवसहितः कृष्णो रङ्ग गत इत्यन्वयः। तत्र दशविधानां रसाना सङ्ग्रहश्लोकरौद्रोऽद्भुतश्च शृङ्गारो हास्य वीरो दया तथा। भयानकश्च बीभत्सः शान्तः सप्रेमभक्तिक"इति॥ अशनिः अशनिवद्रौद्रः। नरवरःअद्भुतरूपः स्मरः। श्रृङ्गाररसविशिष्ट स्वजनः यथा सर्वदा सह क्रीडति तथा हास्यरसविशिष्टः। असता क्षितिभुजा राज्ञा शास्ता शिक्षको वीररसविशिष्टः। पित्रोर्देवकी -
वृतौ गोपै कतिपयैर्बलदेवजनार्दनौ॥रङ्ग विविशतु राजन् गजदन्तवरायुधौ॥१६॥मलानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः॥मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्ग गतःसाग्रज॥१७॥हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ॥कसो मनस्व्यपि तदा भृशमुद्विविजे नृप॥१८॥तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरण- स्रगम्बरौ॥ यथा नटावुत्तमवेषधारिणौ मनःक्षिपन्तौ प्रभया निरीक्षताम्॥१९॥
वसुदेवयोः शिशुः करुणारसविशिष्टः। भोजपतेः कसस्य मृत्युर्भयानक। अविदुषा तत्प्रभावानभिज्ञाना विराट् विकलः अपर्याप्तो राजत इति तथा बीभत्सः, विकलत्वं च ‘क्व वज्रसारसर्वाङ्गौ’ इत्यादिना वक्ष्यते। योगिना पर तत्त्व परमात्मेति शान्तः। वृष्णीना यादवादिभक्तानां परदेवतेति भक्तिरसः।॥१७॥‘बलिष्ठे निहते राज्ञोऽपि भय भवत्येव, अत्र तु तवापि न सन्देहः, नृपत्वेनानुभूतत्वात्’ इति सूचयन् सम्बोधयति—नृपेति। कुवलयापीडाख्य गज हतं श्रुत्वा तौ रामकृष्णावपि दुर्जयौ दृष्ट्वामनस्वी धीरोऽपि कसो भृशमत्यन्त तदा उद्विविजे भीतो बभूव॥१८॥ विचित्रो वेष आभरणानि स्रजश्चाम्बर च ययोस्तौ रङ्गगतौ रामकृष्णौ प्रभया स्वकान्त्या निरीक्षता जनाना मनः क्षिपन्तौ क्षोभयन्तौ रेजतुरित्यन्वयः। ‘तत्र तदापि तयोर्भय नास्ति, क्रियाशक्त्यतिशयत्वात्’ इत्याशयेना—महाभुजाविति। तत्र दृष्टान्तमाह—उत्तमवेषधारिणौ नटौ यथा तथेति॥१९॥
हे नृप !मञ्चे स्थिताःनागराः पौराः, राष्ट्रका जानपदाश्च जनास्तावुत्तमपूरुषौ निरीक्ष्य प्रहर्षवेगेनोत्कलितानि उज्जृम्भितानि ईक्षणानि आननानि च येषा तथाभूता नयनैर्लावण्यपानपात्रैस्तयोराननं पपुः आननगत लावण्यरसपीतवन्तः, परन्तु न तृप्ताः। निराकाङ्क्षा न बभूवुरित्यर्थः॥२०॥एतदेव स्पष्टयति—पिबन्त इवेति। चक्षुरादिभिस्तयोरन्तःप्रवेशनादि कुर्वन्त एव स्थिता इत्यर्थः॥२१॥ तयो रूप गजदन्तायुधादियुक्त, गुणाः शौर्यादयः, माधुर्य हसितालापादिगतं, प्रागल्भ्यं धार्ष्ट्यं, तैः स्मारिताः स्मरण प्रापिता इव यथादृष्ट धनुर्भङ्गादि यथाश्रुतमवतारादि तदनतिक्रम्य ते जना वै प्रसिद्धतया परस्परमूचुरित्यन्वयः॥२२॥तेषामुक्तिमेवाह—एतावित्यादिभिरष्टभिः। एतौ रामकृष्णौ सूक्ष्माद्भगवत ऐश्वर्यादिगुणपूर्णस्यैवाशेनैव इह लोके तत्रापि वसुदेवस्य वेश्मन्यवतीर्णावित्यन्वयः। हिशब्दोऽवधारणे। ‘कोऽसौ भगवान् ?’ तत्राहुः—नारायणस्येति। औपचारिक
निरीक्ष्यतावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप। प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम्॥२०॥ पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया॥ जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः॥२१॥ऊचुः परस्परं ते वै यथादृष्ट यथाश्रुतम्॥ तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव॥२२॥एतौ भगवतः साक्षाद्धरेर्नारायणस्य हि॥अवतीर्णाविहाशेन वसुदेवस्य वेश्मनि॥२३॥एष वै किल देवक्यां जातो नीतश्च गोकुलम्॥कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि॥२४॥पूतनाऽनेन नीतान्तं चक्रवातश्च दानवः॥अर्जुनौ धेनुकः केशी गुह्यकोऽन्ये च तद्विधाः॥२५॥
भगवत्त्ववारणायाहुः—साक्षादिति। ‘किमर्थमवतीर्णौ’ इत्यपेक्षाया ‘दुःखहरणशीलत्वाद्भक्तदुःखनिरासार्थम्’ इत्याशयेनाहुः—हरेरिति। अशेनेति रामस्याशावतारत्वादजहत्स्वार्थया लक्षणया छत्रिणो गच्छन्तीतिवत्प्रयोगः, अन्यथा ‘कृष्णस्तु भगवान्स्वयम्’ इत्युक्तिविरोधापत्तेः॥२३॥ तत्र जन्मन आरभ्य श्रीकृष्णचरित्र सङ्ग्रहेणाहुः—एष इति। एष श्रीकृष्णो वसुदेबाद्देवक्या जातः, तेन च बिभ्यता गोकुल नीतः, एत एतावन्त काल नन्दगृहे गूढ इतरैरज्ञातो वसन् ववृधे एधाञ्चक्रे। ‘अस्मदुक्तौ सन्देहो न कर्तव्य ’ इत्याशयेनाहु—वै इति। प्रसिद्धत्वादिति। तत्र हेतु सूचयन्त आहुः—किलेति॥२४॥अनेनैव कृष्णेन पूतना अन्त मृत्युं नीता प्रापिता, चक्रवातस्तृणावर्तः दानवश्चान्त नीत। अर्जुनवृक्षौ च पातिताविति शेषः। धेनुकादयस्तथाविधा महाबलपराक्रमवन्तोऽन्ये बकासुरादयश्चान्त नीता। तत्र गुह्यक शङ्खचूडः॥२५॥
एतेनैव गोपालैः सहिता गावश्च दावाग्नेः सकाशात् परिमोचिताः। कालियाख्यःसर्पश्चानेनैव दमितः वशीकृत्य निष्कासित। इन्द्रश्च विगतोमदो यस्मात्तथाभूतः कृतः॥२६॥अद्रिप्रवरो गोवर्धनोऽमुना कृष्णेन कर्त्रा सप्ताह सप्तदिनपर्यन्तमेकहस्तेन धृतः, तेन वर्षादिभ्यो गोकुलं च परित्रातम्॥२७॥नित्यप्रमुदित हसितमीक्षण च यस्मिंस्तदस्य मुख मुदा पश्यन्त्यो गोप्यो विविधान् आध्यात्मिकाधिदैविकभेदभिन्नास्तापान् दुःखानि अश्रम यथा भवति तथा श्रमविनैव तरन्ति स्म अतिवर्तन्ते स्म॥२८॥अनेन परिरक्षितोऽय यदोर्वशः सुबहुविश्रुतः प्रसिद्ध श्रिय सम्पद, यशःकीर्ति, महत्त्व पूज्यत्व च लप्स्यत इति प्रामाणिका वदन्तीत्यन्वयः॥२९॥ अथ रामस्य गुणान् सङ्ग्रहेणाह—अयमिति। अयं च कमल-
गावःसपाला एतेन दावाग्ने परिमोचिताः॥कालियो दमित सर्प इन्द्रश्च विमद कृत॥२६॥
सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना॥वर्षवाताशनिभ्यश्चपरित्रातं च गोकुलम्॥२७॥
गोप्योऽस्य नित्यमुदितहसितप्रेक्षण मुखम्॥पश्यन्त्यो विविधांस्तापांस्तरन्ति स्माश्रम मुदा॥२८॥
वदन्त्यनेन वंशोऽय यदोःसुबहुविश्रुतः॥श्रिय यशो महत्त्व च लप्स्यते परिरक्षितः॥२९॥
अय चास्याग्रजः श्रीमान् राम कमललोचनः॥प्रलम्बो निहतो येन वत्सको ये बकादय॥३०॥
॥श्रीशुक उवाच॥
जनेष्वेव ब्रुवाणेषु तूर्येषु निनदत्सु च॥कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत्॥३१॥
हे नन्दसूनोहे राम भवन्तौ वीर्यसम्मतौ॥नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा॥३२॥
प्रिय राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः॥मनसा कर्मणा वाचा विपरीतमतोऽन्यथा॥३३॥
लोचनःश्रीमान् सौन्दर्यातिशययुक्तो रामोऽस्य कृष्णस्याग्रजः, येन प्रलम्बादयो निहताः। धेनुके द्विरुक्तिर्वत्से विपर्ययोक्तिश्च जनवादेष्वनिश्चयात्॥३०॥ जनेष्वेव ब्रुवाणेषु तदुत्कर्षमसहमानश्चाणूर कृष्णरामौ सम्बोध्य वाक्यमब्रवीत्॥३१॥ तदुक्तिमाह—हे नन्दसूनो कृष्ण !हे राम !भवन्तौ वीर्यवत्त्वेन सर्वसम्मतौ, अतो नियुद्धे मल्लयुद्धे कुशलौ श्रुत्वा तन्नियुद्ध दिदृक्षुणा राज्ञा आहूतौ॥३२॥ ननु ‘राज्ञो दर्शनेन सुख भवति, तेनामास्माक कः पुरुषार्थः सिद्धयेत्’ इत्याशङ्क्याह—प्रियमिति। वै प्रसिद्धमेतत्। राज्ञः प्रिय प्रकर्षेण कुर्वत्यः प्रजाः श्रेय उत्तमं फल धनादिक विन्दन्ति। प्रशब्दसूचित
निष्कापट्य स्पष्टयति—मनसा हितचिन्तनेन कर्मणा हिताचरणेन, वाचा यथार्थप्रियभाषणेनेति। अतः प्रियाचरणादन्यथा अप्रिय कुर्वत्यस्तु विपरीत बन्धनमारणभर्त्सनादिक प्राप्नुवन्ति॥३३॥ ‘न आवा नियुद्धे कुशलौ’ इत्यत आह—नित्यमिति। वत्सपाला गोपा प्रमुदिता वनेषु नित्य मल्लयुद्धेन क्रीडन्त एव गाश्चारयन्तीति यथा तथा स्फुट लोके प्रसिद्धमेव। अतो युवा नियुद्धकुशलावेवेति भाव॥३४॥यस्माद्राज्ञ प्रियाचरणात् प्रजाः श्रेयो विन्दन्ति तस्माद्यूय वय च राज्ञः प्रिय नियुद्ध करवामहे। एव राज्ञि प्रीते सति सर्वाणि भूतानि नोऽस्माक प्रसीदन्ति प्रसादयेयुः। कुतो यतो नृपः सर्वभूतमय इति॥३५॥तच्चाणूरवाक्य निशम्य श्रुत्वा नियुद्धमात्मनोऽभिमत मन्यमानः कृष्णस्तद्वचोऽभिनन्द्य तस्मिन् देशे काले च यदुचित तदब्रवीत्॥३६॥अस्य भोजपतेःकसस्य वय चकाराद्यूय च
जाः, अतस्तस्य प्रिय नित्य करवाम, ततश्च नोऽस्माकं तत्कृतः
नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम्॥वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गा॥३४॥
तस्माद्राज्ञः प्रिय यूयं वयं च करवामहे॥भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः॥३५॥
तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वच॥नियुद्धमात्मनोऽभीष्ट मन्यमानोऽभिनन्द्य च॥३६॥
प्रजा भोजपतेरस्य वयं चापि वनेचरा॥करवाम प्रियं नित्य तन्नः परमनुग्रह॥३७॥
बाला वय तुल्यबलैःक्रीडिष्यामो यथोचितम्॥भवेन्नियुद्ध माऽधर्म स्पृशेन्मल्लसभासदः॥३८॥
॥चाणूर उवाच॥
न बालो न किशोरस्त्वं बलश्च बलिनां वरः॥लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत्॥३९॥
परमानुग्रहःमहाननुग्रहो भविष्यति, अत्र न सन्देहः। अपिशब्देन स्वेषु वस्तुतस्तत्प्रजात्वाभाव सूचयति। तत्र हेतु सूचयन्नाह—वनेचरा इति॥३७॥यद्यपि राज्ञः प्रिय कर्तव्यं तथापि वयं बालाः, अतस्तुल्यबलैःसह क्रीडिष्यामः, न त्वधिकबलैर्भवद्भि। तत्र हेतुमाह—यथा नियुद्धमुचित भवेत। विपक्षे दोष सूचयन्नाह—मल्लसभासदः मल्लसभाधिकृतानधर्मो यथा न स्पृशेदिति॥३८॥एवमुक्तश्चाणूर आह—नेति। त्वं न बालो न किशोर, किंतु युवेव इत्याशयः। ‘यादृशस्त्व तादृश एव रामोऽपि’ इत्याह—बलश्चेति। ‘अथापि बलहीनोऽहम्’ इत्याशङ्क्याह—बलिनां वर इति। अत्र लिङ्ग वदन्। विशिनष्टि—येन त्वया सहस्रद्विपानां सत्त्वं बल बिभर्तीति तथाभूत इभो गजो लीलया अनायासेनैव हतः॥३९॥
तस्माद्बलवत्त्वाद्भवद्भ्याः सहबलिभिरस्माभिर्योद्धव्यम्। अत्र युद्धे अनयःअधर्मो नास्त्येव। “त्व च कंसस्य भागिनेयो वैरी च कापट्येन नन्दपुत्रतयास्मितस्तत्तव कापट्यमिदानीं ज्ञातमेव, अतःकापट्य परित्यज्य प्रसिद्धशत्रुवयुध्यस्व” इति सूचयन् सम्बोधयति—वार्ष्णेयेति। मयि विक्रम, मद्धननेन पराक्रम कुर्वित्यर्थ। तथा बलेन रामेण सह मुष्टिको विक्रमतु॥४०॥इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥रचिता दशमे तत्र राजसरोधवर्णने॥त्रिचत्वारिंशको रङ्ग- प्रवेशस्य निरूपकः॥३॥ चतुश्चत्वारिंशके तु कृष्णेनाक्लिष्टकारिणा॥कुपितेन वधस्तस्य कसस्य विनिरूप्यते॥१॥‘एव चाणूरेणोक्तो भगवान् किं कृतवान्’ इत्यपेक्षायामाह—एवमिति। एवमुक्ते चर्चितः निश्चयेन कृतश्चाणूरादिवधविषयकः सङ्कल्पो येन स भगवान्
तस्माद्भवद्भयां बलिभिर्योद्धव्यं नान्योऽत्र वै॥मयि विक्रमवार्ष्णेय बलेन सह मुष्टिकः॥४०॥इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजस- निरोधनिरूपणप्रकरणे रङ्गभूमिप्रवेशनिरूपण नाम त्रिचत्वारिंशोऽध्यायः॥४३॥॥श्रीशुक उवाच॥एवं चर्चितसङ्कल्पो भगवान् मधुसूदन॥आससादाथ चाणूरं मुष्टिक रोहिणीसुतः॥१॥हस्ताभ्यां हस्तयोर्बद्ध्वापद्भ्यामेव च पादयोः॥विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया॥२॥अरत्नी दे अरत्निभ्यां जानुभ्यां चैव जानुनी॥ शिर शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः॥३॥परिभ्रामणविक्षेपपरिरम्भावपातनैः॥उत्सर्पणापसर्पणैश्चान्योन्य प्रत्यरुन्धताम्॥४॥
कृष्णःअथानन्तरमेव ‘चाणूरमाससाद योद्धुमाजगाम। ततश्च स्वभयशङ्का तु नास्त्येव। तत्र हेतु सूचयन्नाह—मधुसूदन इति। तथा मुष्टिक रोहिणीसुतो राम आससाद॥१॥तदा कृष्णचाणूरौ राममुष्टिकौ च हस्तयोर्हस्ताभ्या पादयोः पादाभ्या बद्ध्वाजेतुमिच्छया प्रसह्य बलादन्योन्य विचकर्षतुराकृष्टवन्तौ॥२॥कनिष्ठाङ्गुलिव्यतिरेकेण कृतमुष्टिहस्तोऽरत्निः। अरत्निभ्या हे अरत्नी, जानुभ्या जानुनी, शिरसा शिरः, उरसा उरश्चाभिजघ्नतुः॥३॥परिभ्राभणं हस्तादिषु गृहीत्वा परितश्चालनम्, विक्षेपो नोदनम्, परिरम्भो बाहुभ्या निपीडनम्, अवपातन अधःक्षेपः, उत्सर्पणमुत्सृज्य पुरतो गमनम्, अपसर्पण पृष्ठतो गमनम् एतैस्तौ कृष्णचाणुरौ राममुष्टिकौ चान्योन्य प्रत्यरुन्धता प्रत्यावृतवन्तौ॥४॥
उत्थापन पादौ जानुनी च पिण्डीकृत्योत्थापनम्, उन्नयन हस्ताभ्यामृद्धृत्य नयनम्, चालन कण्ठादिलग्नस्य निःसारणम्, स्थापन पाणिपादादेः पिण्डीकरणम्, एभिः परस्परमात्मनो देहस्यापचक्रतुः अपकृतवन्तौ॥ तत्र हेतुमाह—जिगीषन्ताविति॥५॥ राज्यस्यानर्थहेतुत्व कसदृष्टान्तेन सूचयन् सम्बोधयति—राजन्निति॥वरूथशः सङ्घशः समेताःसानुकम्पाः कृष्णविषयकानुकम्पायुक्ताः सर्वयोषितस्तद्बलाबलवत् एकतो बलमन्यतः अबलं तद्युक्त विषम युद्ध पश्यन्त्यः परस्परमूचुरित्यन्वयः॥६॥तदुक्तिमेवाह—महानिति॥ एषा राजसभासदामय महानधर्मः॥ ‘यदि धर्मरक्षकराजसभायामेवाधर्मस्तदान्यत्र तु भविष्यत्येव स इति महान् खेद’ इति द्योतयन्ति—बतेति॥ ‘कोऽसौ अधर्म’ इत्यत आह—य इति॥बलाबलवद्युद्ध राजा चेत पश्येत्तर्हि स एतैर्वारणीयः, एते तु राज्ञः पश्यतःस्वयमपि तद्दर्शनमन्विच्छन्ति अनुमन्यन्तेऽय महानधर्म॥यद्यप्यत्र भगवत
उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि॥ परस्पर जिगीषन्तावपचक्रतुरात्मन॥५॥
तद्बलाबलवद्युद्धं समेताःसर्वयोषितः॥ऊचुः परस्पर राजन् सानुकम्पा वरूथशः॥६॥
महानयं बताधर्म एष राजसभासदाम्ये॥ ये बलाबलवद्युद्ध राज्ञोऽन्विच्छन्ति पश्यतः॥७॥
क्व वज्रसारसर्वाङ्गौमल्लौ शैलेन्द्रसन्निभौ॥ क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ॥८॥
धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुव भवेत्॥ यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित्॥९॥
न सभां प्रविशेत् प्राज्ञः सभ्यदोषाननुस्मरन्॥ अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते॥१०॥
एव बलवत्त्व, चाणूरस्य तु ततो दुर्बलवमेव, तथापि तत्प्रभावज्ञानाभावाद्वैपरीत्योक्तिः॥७॥ बलाबलवद्युद्धमेव दर्शयति—केति॥ वज्रसाराणि वज्रवत् कठिनानि सर्वाङ्गानि करचरणादीनि ययोस्तौ शैलेन्द्रो मेरुस्तत्सन्निभौ तत्सदृशौ मल्लौ क्व ? क्व च अतिसुकुमाराण्यङ्गानि ययोस्तौ नाप्त यौवन याभ्यां तौ किशोरौ ?॥८॥ न केवलमधर्मोत्पत्तिरेव, किंतु अस्य समाजस्य सभाया धर्मव्यतिक्रमः’ पूर्वसिद्धस्य धर्मस्य विनाशोऽपि ध्रुवं भवेत्॥ हिशब्देनास्यार्थस्य शास्त्रसिद्धत्व सूचयन्ति॥अतो यत्राधर्मः समुत्तिष्ठेत् प्रवर्तेत तत्र कर्हिचिदपि न स्थेयम्॥९॥ सभ्याना दोषाननुस्मरन् प्राज्ञो बुद्धिमान् सभा न प्रविशेत्॥ ‘तत्र प्रवेशे को दोष’ इत्यपेक्षाया ‘तत्र प्रविष्टस्य त्रिधैव गतिः, तत्र सर्वत्रैव दोष’ इत्याह—अब्रुवन् दोषं ज्ञात्वापि तूणीं तिष्ठन्, विब्रुवन् तेषा प्रीत्यर्थं धर्मपक्षा द्विपरीत ब्रुवन्, तथा पृष्टोऽप्यज्ञोऽप्यह न जानामीति च ब्रुवन्नरः किल्बिषमश्नुते पाप प्राप्नोति॥१०॥
अपरा आहुः—शत्रुमभितःशत्रोः सर्वतो वत्गतो धावतःकृष्णस्य श्रमवारिभिरुप्त व्याप्तं मुख वीक्ष्यतामिति। तत्र दृष्टान्तमाहुः—अम्बुभिरुप्त पद्म- कोशमिवेति॥११॥अन्या आहुः—आताम्रे ईषद्रक्ते लोचने यस्मिस्तत्। तत्र हेतुमाहुः—मुष्टिक प्रति सामर्ष सक्रोध हाससरम्भेण हासावेशेन शोभित रामस्य मुख किं न पश्यतेत्यन्वयः॥१२॥अन्या आहुः—पुण्या इति। धिगिमा सभाम् यस्यामय परिभूयते। व्रजभुवः पुण्या, यत् यासु अयं श्रीकृष्णः सहबलः बलरामेण सहितः वनसम्बन्धीनि चित्राणि माल्यानि यस्य सः गा पालयन् चारयन् हर्षेण वेणुक्वणयन् वादयन् विक्रीडया अञ्चति अटति। ‘एतत्पर्यटनेन कथं भूमेरुत्कर्षः१ ‘तत्राहुः—गिरित्ररमाभ्या महादेवलक्ष्मीभ्यामप्यर्चितावङ्घ्रीयस्य स इति। गिरित्रपद ब्रह्मादीनामप्युपलक्षणम्। तथाभूतत्वे हेतुमाहः—पुराणपुरुष इति। सर्वकारणभूतः पुरुषोत्तम इत्यर्थः। ‘तर्हि कथमस्मदादिवत्प्रतीयते १ तत्राहुः—नृलिङ्गेन मनुष्यनाट्येन गूढः आच्छादितैश्वर्य इत्यर्थः। ‘तामसानामाभीराणामावासत्वे व्रजस्योत्कर्षः, राजसाद्यावासत्वेऽपि मथुराया अपकर्षः’ इत्याश्चर्य
वल्गतःशत्रुमभित कृष्णस्य वदनाम्बुजम्॥वीक्ष्यतां श्रमवार्युप्तपद्मकोशमिवाम्बुभिः॥११॥किं न पश्यत रामस्य मुखमाताम्रलोचनम्॥मुष्टिकं प्रति सामर्ष हाससंरम्भशोभितम्॥१२॥पुण्या बत व्रजभुवो यदयं नृलिङ्गगूढःपुराणपुरुषो वनचित्रमाल्य॥गा पालयन् सहबलःक्वणयश्च वेणु विक्रीडयाऽञ्चति गिरित्ररमार्चिताङ्घ्रि॥१३॥गोप्यस्तपःकिमचरन् यदमुष्य रूप लावण्यसारमसमोर्ध्वमनन्यसिद्धम्॥दृग्भिः पिबन्त्यनुसवा- भिनवं दुरापमेकान्तधाम यशस श्रिय ऐश्वरस्य॥१४॥
द्योतयन्ति—बतेति॥१३॥‘अहो अल्पपुण्या वयम्, यतोऽस्माभिरनवसरेऽभिभूयमानो दृष्ट गोप्यस्तु बहुपुण्या। इत्याहुः—गोप्य इति।” गोप्यःकिं तपः समाचरन् ? ताभिराचस्ति तपोऽनिर्वचनीयमित्यर्थः। कुतः यस्मात् अमुष्य श्रीकृष्णस्य रूप दृग्भिर्नेत्रैः पिबन्ति अत्यासक्त्या पश्यतीन्त्यन्वः। ‘एतद्रूपदर्शनेन कथं तासां तपोऽनुमानम् ?’ इत्यपेक्षाया तदनुमापकत्वे रूपस्यालौकिकत्व हेतु दर्शयन् विशिनष्टि—दुराप अकृतपुण्याना द्रष्टुमपि दुर्लभमित्यर्थः। तत्र हेतुः—असमोर्ध्वमिति। नास्ति सममूर्ध्वमधिक च यस्य तत्। तत्रापि अनुसव सर्वदा अभिनवम्।यशस श्रियः लक्ष्म्या ईश्वरस्येति भावप्रधानो निर्देश ऐश्वर्यस्य च एकान्तधाम अव्यभिचारिस्थानम्। किं बहुना ?लावण्यस्य सौन्दर्यस्य सारम्। तत्र हेतुः—अनन्यसिद्ध स्वेच्छया गृहीतम्, नतु कर्माधीनमिति॥१४ ॥
किञ्च या दोहनादिष्वेन कृष्ण गायन्ति ता व्रजस्त्रियो धन्याः कृतार्था इत्यन्वयः। तत्र तद्गाने हेतुमाहुः—उरुक्रमे बहुलीलाविशिष्टेऽस्मिन् चित्त उरुक्रमचित्त तेन सहैव यान क्षेमादिषु प्रवृत्तिर्यासा ताः। ‘उरुक्रम चिन्तयाना’ इति पाठान्तरम्। तत्र हेतुमाहुः—अनुरक्तधिय इति। तत्र लिङ्गमाहुः—अश्रुकण्ठ्य इति, आनन्दाश्रुनिरुद्धकण्ठ्यः। तत्र दोहन गवाम्, अवहनन व्रीह्यादे, मथन नवनीतादेः, उपलेपो गृहाणाम्, प्रेङ्खेङखन दोलान्दोलनम्, अर्भरुदित रुददर्भकसान्त्वनम्, उक्षण सेचन, गृहसम्मार्जनम्॥१५॥ अपि च प्रातरिति। या अबलाःगोभिः सह प्रातर्व्रजान्निर्गच्छतः साय व्रजमाविशतश्च वेणु क्वणयतोऽस्य वेणु रवमाकर्ण्य गृहात्तूर्ण निर्गत्य पथि तस्य सदयावलोको यस्मिंस्तत्स्मितयुक्तं मुख पश्यन्ति ता भूरिपुण्या इत्यन्वयः॥१६॥हे भरतर्षभ !एव स्त्रीषु प्रभाषमाणासु सतीषु योगेश्वरो हरिः भक्तदुःखहर्ता भगवान् कृष्णः शत्रुं हन्तु मनश्चक्रे इत्यन्वयः॥१७॥
या दोहनेऽवहनने मथनोपलेपप्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ॥ गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या ब्रजस्त्रियउरुक्रमचित्तयाना॥१५॥प्रातर्व्रजाद्व्रजत आविशतश्च सायं गोभि समं क्वणयतोऽस्य निशम्य वेणुम्॥ निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुख सदयावलोकम्॥ १६॥ एव प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः॥ शत्रु हन्तु मनश्चक्रे भगवान् भरतर्षभ॥१७॥सभया स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचातुरौ॥पितरावन्वतप्येतां पुत्रयोरबुधौ बलम्॥१८॥तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ॥युयुधाते यथाऽन्योन्य तथैव बलमुष्टिकौ ॥ १९॥भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरै॥चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह॥२०॥स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ॥भगवन्त वासुदेव क्रुद्धो वक्षस्यबाधत॥२१॥
तदा पितरौ देवकीवसुदेवौ नन्दवसुदेवौ वा पुत्रयो रामकृष्णयोर्बलमजानन्तौ सभयाः स्त्रीणां गिरःश्रुत्वा पुत्रयोः स्नेहेन या शुक् तया आकुलौ आतुरौ अनुतप्येताम्॥१८॥एव यथा अच्युतेतरौ कृष्णचाणूरौ नानाविधैः परिभ्रामणादिभिस्तैस्तैर्नियुद्धविधिभिर्युयुधाते, तथैव बलमुष्टिकावपि युयुधाते॥१९॥वज्रस्य निष्पेषस्तीव्रप्रहारस्तद्वन्निष्ठुरैर्भगवतो गात्राणामरत्निनिजान्वादीना निष्पातैःप्रहारैर्भज्यमानाङ्गश्चाणूरो मुहुर्ग्लानिमवाप। ‘भक्ताना कोमलाङ्गत्वेन प्रतीय- मानस्यापि स्वविमुखान्प्रति वज्राङ्गत्वम्’ इत्याश्चर्य सूचयति—हेति॥२०॥श्येनस्येव वेगो यस्य स क्रुद्धश्चाणूर उभौ करौ मुष्टीकृत्य उत्पत्य उत्प्लुत्य भगवन्तमपि वासुदेव वसुदेवनन्दनं मत्वा वक्ष्यस्यबाधत अताडयदित्यर्थ॥२१ ॥
एवं तेन ताडने कृतेऽपि तत्प्रहारेण भगवान्नाचलत् ईषदपि नाकम्पत। तत्र दृष्टान्तमाह—यथा मालया हतो द्विपो हस्ती न प्रचलति तथेति। किंतु तरसा झटिति चाणूरं बाह्वोर्निगृह्य गृहीत्वा बहुशो भ्रामयन् हरिः॥२२॥ तरसा भ्रामणवेगेनैव क्षीण जीवित यस्य त भूपृष्ठे पोथयामास वेगेन।पातयामास। स च तेन पातितश्चाणूरो विस्रस्ता विक्षिप्ता आकल्पानि आभरणानि केशा स्रजश्च यस्य तथाभूतः सन्नपतत्। तत्र दृष्टान्तमाह—इद्रध्वज इवेति। इन्द्रध्वजो नाम गौडेषु प्रसिद्धः कस्मिंश्चिदुत्सवे महान् स्तम्भो ध्वजादिभिरलङ्कृतः पुरुषाकृती रज्ज्वाकृष्ट उच्छ्रीयते स यथा रज्जुशैथिल्येन पतति तथा कर्मबन्धक्षयात्सोऽपि पतित इत्यर्थः॥२३॥ तथैव मुष्टिकोऽपि तावत् पूर्व स्वमुष्टिनाऽभिहतेन ताडितेन बलिना बलभद्रेण कर्त्रा तलेनैव साधनेनाभिहत, अतो भृशमत्यन्त अर्दितः पीडितः, अतः प्रवेपितः कम्पितः मुखतो रुधिरमुद्वमन्नुद्गिरन् व्यसुः गतप्राणो वातेन प्रचण्डवातेन मारु-
नाचलत्तत्प्रहारेण मालाहत इव द्विपः॥ बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः॥२२॥
भूपृष्ठे पोथयामास तरसा क्षीणजीवितम्॥ विस्रस्ताकल्पकेशस्रागिन्द्रध्वज इवापतत्॥२३॥
तथैव मुष्टिकःपूर्वं स्वमुष्ट्याऽभिहतेन वै॥ बलभद्रेण बलिना तलेनाभिहतो भृशम्॥२४॥
प्रवेपितःस रुधिरमुद्वमन् मुखतोऽर्दितः॥ व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः॥२५॥
तत कूटमनुप्राप्तो रामः प्रहरतां वरः॥ अवधील्लीलया राजन् सावज्ञ वाममुष्टिना॥२६॥
तर्ह्येव हि शलःकृष्णपदापहतशीर्षक॥ द्विधा विदीर्णस्तोशलक उभावपि निपेततुः॥२७॥
चाणूरे मुष्टिके कूटे शले तोशलके हते॥ शेषाःप्रदुदुवुर्मल्ला सर्वे प्राणपरीप्सवः॥२८॥
गोपान् वयस्यानाकृष्य तैःसंसृज्य विजह्नतु॥ वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ॥२९॥
तेन आहत उन्मूलितोऽङ्घ्रिपो वृक्ष इवउर्व्युपस्थे भूपृष्ठे पपातेति द्वयोरन्वयः॥२४॥२५॥ ततः अनु अनन्तरमेव प्रहरता योद्धृणा वरः श्रेष्ठः बलवान्।रामः कूटाख्य मल्ल सावज्ञ सावहेलन यथा स्यात्तथा लीलयाऽनायासेनैव वाममुष्टिनाऽवधीत्॥२६॥ तर्ह्यैव हि प्रसिद्धतया शलः कृष्णस्य प्रपदा पादाग्रेण हतशीर्षको जातः, तोशलकश्च द्विधा विदीर्णो जात, एवमुभावपि मृतौ भूमौ निपेततुः॥२७॥ एवं चाणूरादिषु हतेषु सत्सु प्राणपरप्सिवः जीवितुमिच्छवः शेषाः अवशिष्टा, सर्वे मल्लाः प्रदुद्रुवुःपलायितवन्तः॥२८॥ ततश्च रामकृष्णौ वयस्यान् सखीन् गोपान् हस्ते गृहीत्वा आकृष्य तैःसह।संसृत्य सङ्गम्य वल्गन्तौ आलिङ्गनादि कुर्वन्तौ विजह्नतुयुद्धादि कृतवन्तौ। ‘ननु मल्लाना निहतत्वात्तौःसह युद्धस्य किं प्रयोजनम्’ इत्याकाङ्क्षाया ‘युद्धोत्साहजनकवाद्यविशेषाणा विद्यमानत्वात्तत्रत्याना द्रष्टृ जनाना प्रहर्षार्थम्’ इत्याशयेनाह—तूर्येषु वाद्यमानेषु सत्सु रुते शब्दयुक्ते नूपुरे ययोस्ताविति॥२९॥
तदा च कस विना विप्रप्रमुखाः सर्वे साधुजनाः साधु साध्विति वदन्तः रामकृष्णयोर्युद्धात्मकेन कर्मणा प्रजहृषुरित्यन्वयः॥३०॥एव मल्लुवर्येषु चाणूरादिषु हतेषु अवशिष्टेषु विद्रुतेषु पलायमानेषु च सत्सु भोजराट् कंसः स्वतूर्याणि स्वेनाज्ञप्तानि तूर्यादिवाद्यानि न्यवारयत्। भृत्यान् प्रति इदं वक्ष्यमाण वाक्य च ह स्फुटमुवाच॥३१॥ तदुक्तिमाह—निःसारयतेति। यद्यपि दुर्वृत्तत्वादेतौ वधयोग्यौ, तथापि वसुदेवात्मजत्वेन भागिनेयत्वाज्जीवन्तावेव पुरतः निःसारयत। गोपाना धन हरत। नन्दाधीनत्वान्नन्द बध्नीत। तत्र हेतुमाह—दुर्मतिमिति। ‘मम वैरिणोरेतयोःसङ्गोप्यस्वगृहस्थापनाद्दुर्मतित्वम्’ इति ज्ञेयम्॥३२॥वसुदेवश्च हन्यताम्। तत्र हेतुमाह—असत्तम। तास्कर्येण पुत्रयोरन्यत्र स्थापनात् दुष्ट इत्यर्थ॥ननु ‘एव राजविरोध कथं कृतवान् ?’ तत्राह—दुर्मेधा इति। दुर्बुद्धित्वादित्यर्थः। सानुगः सभृत्यादिवर्गः उग्रसेनश्च हन्यताम्। ‘पितृत्वेनापि
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः॥ऋते कसं विप्रमुख्याः साधवःसाधु साध्विति॥३०॥हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट्॥न्यवारयत् स्वतूर्याणि वाक्य चेदमुवाच ह॥३१॥निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात्॥धनं हरत गोपानां नन्द वध्नीत दुर्मतिम्॥३२॥वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तः॥उग्रसेनः पिता चापि सानुगःपरपक्षगः॥३३॥एव विकत्थमाने वै कसे प्रकुपितोऽव्ययः॥लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमा- रुहत्॥३४॥तमाविशन्तमालोक्य मृत्युमात्मन आसनात्॥मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी॥३५॥तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे॥समग्रहीद्दुर्विषहोग्रतेजा यथोरग तार्क्ष्यसुतः प्रसह्य॥३६॥
सङ्कोचो न कार्य’ इत्याह—नः पिताऽपीति। तत्र हेतुमाह—परेषा शत्रूणा पक्ष गच्छतीति तथा स इति॥३३॥एव कसे विकत्थमाने सत्येव प्रकुपितःसन्नव्ययः अप्रक्षीणबल श्रीकृष्णो लघिम्ना सिद्ध्या उपत्य तरसा झटिति उत्तुङ्गमपि कंसमञ्चमारुहत्॥३४॥तमाविशन्त स्वमञ्चमारुहन्त श्रीकृष्णमात्मनो मृत्युमालोक्य मनस्वी धीरः कंसः सहसा त्वरया आसनादुत्थाय त हन्तुमसिचर्मणी जगृहे॥३५॥दुर्विषह अविषह्य उग्र तेजो यस्य स भगवान् खड्गःपाणौ यस्य त दक्षिणतो वामतश्च अम्बरे ऊर्ध्व व श्येनमिव विचरन्त कसमाशु झटिति समग्रहीत्। वत्र दृष्टान्तमाह—तार्क्ष्यसुतो गरुडः प्रसह्य बलादुरग सर्पं यथा गृह्णाति तद्वदिति॥३६॥
ततो ग्रहणादेव चलत् विक्षिप्त किरीट यस्य त कस केशेषु प्रगृह्य दृढ गृहीत्वा मञ्चाद्रङ्गोपरि रङ्गभूमौ निपात्य तस्योपरि स्वयंपपातेत्यन्वयः। ‘किमर्थं तदुपरि पपात?’ इत्यपेक्षाया ‘विश्वाश्रयत्वेन गुरुतरत्वात्तन्मारणार्थम्’ इति सूचयन्नाह—विश्वाश्रय इति। विश्वाश्रयत्वमेव स्पष्टयति—अजनाभ इति। विश्वात्मक- मजंनाभौ यस्य सः। ननु ‘मारण तु शस्त्रादिना प्रसिद्धम्, तद्धित्वा भगवान् किमित्यमुमुपाय कल्पितवान् ? तत्राह—आत्मतन्त्र इति॥३७॥ततो जगतः प्राणिसमूहस्य पश्यतः सतः स्वभक्तद्रोहस्य फलं प्रदर्शयंस्त सम्परेत मृतमपि कस भूमौ विचकर्ष। तत्रायासमाशङ्क्यदृष्टान्तेन वारयति—हरिः सिंहो यथा मृतमिभ हस्तिन विकर्षेत्तथेति। ‘राज्ञो मरणात्तत्परिकरभूताना रोदन तव विदितमेव ’ इति।सूचयन् सम्बोधयति—हे नरेन्द्रेति। तदा तत्रत्यै राजकीयैः सर्वजनैरुदीरित उच्चारितः सुमहान् हाहेति शब्दोऽभूत्॥३८॥यतःस कसो नित्यदा
प्रगृह्य केशेषु चलत्किरीटं निपात्य रङ्गोपरि तुङ्गमञ्चात्॥तस्योपरिष्टात् स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः॥३७॥त सम्परेतं विचकर्ष भूमौ हरिर्यथेभ जगतो विपश्यतः॥हाहेति शब्दःसुमहांस्तदाऽभूदुदीरित सर्वजनैर्नरेन्द्र॥३८॥स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन श्वसन्॥ददर्श चक्रायुधमग्रतो यतस्तदेव रूप दुरवापमाप॥३९॥तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः॥अभ्यधावन्नभिक्रुद्धा भ्रातुर्निर्वेशकारिणः॥४०॥तथाऽतिरभसांस्तांस्तु सयत्तान् रोहिणीसुत॥अहन् परिघमुद्यम्य पशूनिव मृगाधिपः॥४१॥नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः। पुष्पैःकिरन्तस्त प्रीताः शशसुर्ननृतु स्त्रिय॥४२॥तेषां स्त्रियो महाराज सुहृन्मरणदुःखिता॥तत्राभीयुर्विनिघ्नन्त्य शीर्षाण्यश्रुविलोचनाः॥४३॥
उद्विग्नया भीतया धिया चक्रायुध तमीश्वर श्रीकृष्णमेव पानभोजनाद्यवस्थास्वप्यग्रतः ददर्श, ततो योगिभिरपि दुरवाप तदेव रूपमवाप। सारूप्यलक्षणा मुक्ति प्राप्तवानित्यर्थः॥३९॥ततस्तस्य कसस्य भ्रातर कङ्कादयोऽष्टौ भ्रातुर्मृतस्य कसस्य निर्वेशमानृण्य तत्कारिणः तत्कर्तुमतिक्रुद्धाःसन्तःअभ्यधावन् हन्तु सम्मुखमागताः॥४०॥अतिरभसो वेगो येषां तान् सयत्तान् उद्युक्तान् रोहिणीसुतःराम परिघमुद्धृत्य तथैवानायासेन अहन् जघान। तत्र दृष्टान्तमाह—मृगाधिपः सिंहः पशुनिवेति॥४१॥तदा व्योम्नि देवैर्वादिता दुन्दुभयो नेदुः। प्रीता ब्रह्मरुद्रादयो भगवद्विभूतयः पुष्पैःकिरन्तः शशसुः तष्टुवुः। स्त्रियो अप्सरसश्च ननृतुः॥४२॥हे महाराज ! तेषां कंसकङ्कादीना स्त्रियः सुहृदा स्वभर्तृणा मरणेन हेतुना दुखिताःअतः स्वशिरासि विनिघ्नन्त्यः अश्रूणि लोचनयोर्यासा तास्तत्र भर्तृसन्निधौ अभीयुःआजग्मुः॥४३॥
वीरशय्याया युद्धभूमौ शयानान् स्वभर्तृृनालिङ्ग्य शोचतीःशोचन्त्यो मुहुः शुचोऽश्रूणि विसृजन्त्यश्च ता नार्यः सुस्वर यथा भवति तथा विलेपुः॥४४॥ तासा विलापमेव दर्शयति—हा नाथेति। आत्मानं शोचन्ति—हेति नाथेतीत्यादीनि विलापे प्रेमसम्बोधनानि। धर्मज्ञेत्यादीनि तु सुखप्रदत्वेन स्वभ्रान्त्यैव वैपरीत्ये- नोक्तानि। निहतेन त्वया सहैव सगृहाः प्रजाश्च ते त्वदीया वयमपि निहता निहतप्रायाः॥४५॥ हे पुरुषर्षभ !पत्या स्वामिना त्वया विरहितेयं पुरी वयमिव न शोभते। तत्र हेतुमाहु—निवृत्ता उत्सवाःप्राणिना हासादिरूपा मङ्गलानि सुखानि च यस्या तथाभूता। इदमपि स्वभ्रान्त्यैवोक्तम्॥४६॥ अथ परमार्थदृष्ट्याऽऽहुः—अनागसामिति। तुशब्द अप्यर्थे।भो भर्तः !अनागसा निरपराधानामपि भूतानामुल्बण दुःसहं द्रोह त्वं कृतवान्, तेन कारणेनेमा दशा नीतो मृत्यु प्राप्तः। ‘तन्नाश्चर्यम्’ इत्याहुः—भूतानि द्रुह्यतीति तथा स को वा श सुख लभेत ? किंतु तस्य दुःखमेव युक्तमित्याशयः।
शयानान् वीरशय्यायां पतीनालिङ्ग्यशोचतीः॥विलेपुःसुस्वर नार्यो विसृजन्त्यो मुहु शुच॥४४॥
हा नाथ प्रिय धर्मज्ञ करुणानाथ वत्सल॥त्वया हतेन निहता वयं ते सगृहप्रजाः॥४५॥
त्वया विरहिता पत्या पुरीय पुरुषर्षभ॥न शोभते वयमिव निवृत्तोत्सवमङ्गला॥४६॥
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम्॥तेनेमां भो दशांनीतो भूतधुक्को लभेत शम्॥४७॥
सर्वेषामिह भूतानामेष हि प्रभवाप्ययः॥गोप्ता च तदवध्यायी न क्वचित् सुखमेधते॥४८॥
॥श्रीशुक उवाच॥
राजयोषित आश्वास्य भगवॉल्लोकभावन॥यामाहुर्लौकिकी सस्थां हतानां समकारयत्॥४९॥
मातर पितरं चैव मोचयित्वाऽथ बन्धनात्॥कृष्णरामौ ववन्दाते शिरसाऽऽस्पृश्य पादयो॥५०॥
॥४७॥ किंच एष श्रीकृष्ण एव सर्वेषां भूतानां प्रभवःप्रभवन्त्यस्मादिति प्रभवः स्रष्टा, तथा अपियन्ति लीयतेऽस्मिन्नित्यप्ययः सहर्ता, स च स च तथा गोप्ता रक्षिता च, अतः तद्वध्यायी तस्मिन् विषये अवध्यानमपमान कर्तु शील यस्य स क्वचिदपि देशे काले च सुख यथा स्यात्तथा नैधते। न वर्धते, किंतु दुःखमेवानुभवन्नश्यति। तथाच युष्माकं तदपमानकर्तृत्वान्मरणादि जात तन्नाश्रर्यमित्याशयः॥४८॥इत्थं शोचतीस्ता राजयोषितो भगवान् सान्त्वयित्वा हताना लौकिकीं परलोकसम्बन्धिनीं संस्था दाहादिक्रिया या मन्वादय आहुस्ता समकारयन्। तत्र हेतुमाह—लोकभावनःलोकमर्यादापालक इति॥४९॥मातरः देवकीं, पितरः वसुदेव च। स्पष्टमन्यत्॥५०॥
लोकमर्यादासंरक्षणार्थ कृत संवन्दन याभ्या तौ पुत्रौ कसवधादिप्रभावेण जगदीश्वरौ विज्ञाय ‘ईश्वरालिङ्गन कथं कर्तव्यम्’ इति शङ्कितौ न सस्वजाते इत्यन्वयः॥५१॥इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥चतुश्चत्वारिंशकोऽगात् कंसघातानिरूपकः॥३॥पञ्चचत्वारिंशकेऽथ कृष्णेन साग्रजेन वै॥ देवकीवसुदेवादिसान्त्वन विनिरूप्यते॥१॥ उपलब्धः विज्ञातःअर्थः निरतिशयपुरुषार्थः स्वयाथात्म्य याभ्या तथाभूतौ पितरौ विदित्वा पुरुषोत्तमः श्रीकृष्णः मा भूत् “मयि प्रसन्ने सति मद्विषयक ज्ञान न दुर्लभम्, किंतु मयि पुत्रबुद्ध्या मल्लीलानुभवानन्द एव। मज्ज्ञाने स्थिरे सति तु मनुष्यनाट्यलीलापि न सिद्धयेत्, अत इदानीमेव ज्ञान मा भूत्” इति विचार कृत्वा निजानन्दमोहिनीं माया ततान
देवकी वसुदेवश्चविज्ञाय जगदीश्वरौ॥कृतसवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ॥५१॥इति श्रीमद्भागवते महा-
पुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे कसादिवधनिरूपण नाम चतुश्चत्वारिंशोऽध्याय॥४४ ॥॥
श्रीशुक उवाच॥पितरावुपलब्धार्थौविदित्वा पुरुषोत्तमः॥मा भूदिति निजां मायां ततान जनमोहिनीम्॥१ ॥
उवाच पितरावेत्य साग्रजः सात्वतर्षभः॥प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम्॥२॥नास्मत्तो युवयोस्तात
नित्योत्कण्ठितयोरपि॥बाल्यपौगण्डकैशोराःपुत्राभ्यामभवन् क्वचित्॥३॥न लब्धो दैवहतयोर्वासो नौ भवद-
न्तिके॥यां बालाःपितृगेहस्था विन्दन्ते लालिता मुदम्॥४ ॥
तयोरुपरि मोहनार्थं प्रसारितवानित्यर्थः॥१॥ततश्च साग्रजः रामेण सहितः सात्वतर्षभो यादवश्रेष्ठो भगवान् कृष्णः मोहितौ पितरौ प्रत्येत्य आगत्य।प्रश्रयेण विनयेनावनतः नम्रः सादर यथा स्यात्तथा हे तात !हे अम्बेति सम्बोधनेन प्रीणयन् प्रीतिं जनयन्नुवाच॥२॥तदुक्तिमेव दर्शयति—नास्मत्तइति सप्तभिः। ‘पितृत्वादेतन्नासम्भावितम् इति सूचयन् सम्बोधयति—तातेति। नित्यमुत्कण्ठितयोस्तदनुभवाकाङ्क्षावतोरपि युवयोरस्मत्त आवयोःपुत्राभ्या पुत्रयोर्बाल्यादयो बाल्याद्यवस्थानुभवसुखानि क्वचित् कदाचिदपि नाभवन्॥३॥ ‘न केवल युवयोरेव सुखहानिः, कित्वावयोरपि’ इत्याह—नेति। पितृगेहस्थाः पितृभ्यः लालिता बाला या मुदविन्दन्ते सा भवद्भ्याः सकाशादावाभ्या न लब्धेति शेषः। तत्र हेतुमाह—नौ आवाभ्या भवदन्तिके वासो न लब्ध इति। तत्रापि हेतुमाह—दैवहतयोरिति। प्रारब्धहीनाभ्यामित्यर्थः॥४ ॥
एव युवयोरावयोश्च सुखहानिर्जातेत्युक्तम्। अथ ‘आवयोस्तु युष्मपरिचर्यालोपेन धर्महानिरपि जाता’ इत्याह—सर्वार्थसम्भव इति। सर्वेषां धर्मादीना पुरुषार्थाना सम्भवो यस्मिन् स देहो यतःयाभ्या जनित पोषितश्च तयोः पित्रोर्निर्वेश निष्कृतिमानृण्य मर्त्यः शतवर्षेणापिआयुषा तावत्पर्यन्तनिरन्तर- परिचर्ययापि न याति॥५॥तन्मध्ये तु यःआत्मजः पुत्रः कल्पः समर्थःसन् आत्मना देहेन धनेन च तयोः पित्रोर्वृत्ति अन्नवस्त्रादिजीविका न दद्यात् न कल्पयेत् त प्रेत्य यमलोके यमदूताः स्वस्य तस्यैव मास खादयन्ति। हीति। नात्र सन्देहः कार्य इत्यर्थः॥६॥ किञ्च यदि कल्पः समर्थःसन् मात्रादीन् यथोचितमबिभ्रत् न पुष्णाति स श्वसन् जीवन्नपि मृतप्राय एव॥७॥ यस्मादेव तस्माद्वायुवयोरनर्चतोरपूजयतोर्नोआवयोरेते एकादशवर्षात्मका दिवसाः मोघ व्यर्थमेवातिक्रान्ता गताः। ‘तत्रापि न ज्ञानपूर्विकोपेक्षा, किन्तु सामर्थ्याभाव एव हेतः. ‘इत्याह—अकल्पयोरिति। तत्रापि हेतुमाह—कसान्नित्यमुद्विग्न भीत चेतो ययोस्तयोरिति॥८॥‘यद्यपि पारवश्येनावयोरत्यन्तापराधो नास्ति, तथापि भव-
सर्वार्थसम्भवो देहो जनितःपोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यःशतायुषा॥५॥
यस्तयोरात्मज कल्प आत्मना च धनेन च॥ वृत्तिं न दद्यात्त प्रेत्य स्वमांस खादयन्ति हि॥६॥
मातरं पितरं वृद्ध भार्यां साध्वी सुत शिशुम्॥ गुरु विप्र प्रपन्न च कल्पोऽबिभ्रच्छ्वसन् मृतः॥७॥
तन्नावकल्पयोःकसान्नित्यमुद्विग्नचेतसोः॥ मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः॥८॥
तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयो॥ अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम्॥९॥
॥श्रीशुक उवाच॥
इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा॥ मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम्॥१०॥
सिञ्चन्तावश्रुधाराभिःस्नेहपाशेन चावृतौ॥ न किञ्चिदूचत् राजन् बाष्पकण्ठौ विमोहितौ॥११॥
त्प्रसादेनैवावयोर्भद्रम्’ इति सूचयन् क्षमापयति—तदिति। हे तात ! हे मातः ! दुर्हृदा दुर्बुद्धिना कसेन क्लिष्टयोः परतन्त्रयोर्बन्दिगृहेष्ववरुद्धयोर्वा युवयोः शुश्रूषावसरेऽपि शुश्रूषामकुर्वतोर्नौआवयोस्तत् त शुश्रूषाभावप्रयुक्तापराध पितृत्वात् क्षन्तुमर्हथ इत्यन्वयः॥९॥इत्येवभूतया हरेर्गिरा मोहितौ देवकी- वसुदेवौ अत एव तौ पुत्रौ मत्वा अङ्कमारोप्य परिष्वज्य च मुद प्रापतुः। तद्गिर आवश्यमोहकत्वे हेतुमाह—विश्वात्मन इति। सर्वान्तर्या- मिण इत्यर्थः। ‘तस्यान्तर्यामित्वे कथं मनुष्यत्वप्रतीतिः? तत्राह—मायामनुष्यस्येति। स्वेच्छयैव मनुष्यनाट्यमङ्गीकृतवत् इत्यर्थः॥१०॥‘जातज्ञान- योरपि पुनर्मोहनम्’ इति भगवच्चरितस्याद्भुतत्व सूचयन् सम्बोधयति—राजन्निति। अश्रुधाराभिस्तौ सिञ्चन्तौ किञ्चिदपि नोचतु। तत्र हेतुमाह—बाष्पकण्ठाविति। अश्रुनिरुद्धकण्ठावित्यर्थः॥तत्रापि हेतुमाह—स्नेह एव पाशस्तेनावृताविति। चकारो ममतासङ्ग्रहार्थः। स्नेहबन्धनेऽपि हेतुमाह—तन्मायया विमोहिताविति॥११ ॥
भगवान् कृष्णःपितरावेवमाश्वास्य सान्त्वयित्वा मातामहमुग्रसेन तु यदूना नृपमधिपतिमकरोत्। एवकरणे हेतुमाह—देवकीसुत इति॥१२॥ तमाह च। तदुक्तिमेवाह—हे महाराज !अस्मान् भृत्यादीन् प्रजाश्च आज्ञप्तुमर्हसि अस्मदधिपतिर्भवितुमर्हसीत्यर्थः। ननु ‘त्वमेव राजा भवितुमर्हसि परमेश्वरत्वात्, न अस्माभिः साधारणैर्यदुभिः ययातिना राज्यान्निराकृतत्वात्, अत एव कसो राज्याद्विनष्ट’ इत्याशङ्क्याह—यया तीति। यद्यपि ययातिशापाद्यदुभिर्नृपासने नासितव्य, तथापि ममाज्ञया राज्यस्थितौ तव न कश्चिद्दोषः॥१३॥ ननु ‘तथाप्यहमसमर्थः कथमधिपतिर्भवितुमर्हमि ?’ इत्यतआह—मयीति। मयि भृत्ये उपासीने त्वां सेवमाने सति विबुधादयोऽप्यवनताःसन्तो भवतो बलि हरन्ति समर्पयिष्यन्ति। भविष्यतोऽपि सन्देहाभावाद्वर्तमानतया निर्देशः। तर्हि अन्ये नराधिपा बलिमर्पयिष्यन्तीति किमुत वक्तव्यम् ? मत्प्रभावात् सर्वं भविष्यतीत्यर्थः॥१४॥ ततश्च कसभयाद्गतान् पलायितान् यादवादीन् सर्वान् स्वान् स्वकीयान् ज्ञातीन्, सम्बधन सम्बन्धिानश्च दिग्भ्यः समानाय्येति शेष॥१५॥ विदेशावासेन कर्शितान
एवमाश्वास्य पितरौ भगवान् देवकीसुत॥मातामहं तूग्रसेनं यदूनामकरोन्नृपम्॥१२॥
आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि॥ययातिशापाद्यदुभिर्नासितव्य नृपासने॥१३॥
मयि भृत्य उपासीने भवतो विबुधादय॥बलि हरन्त्यवनताः किमुतान्ये नराधिपाः॥१४॥
सर्वान् स्वान् ज्ञातिसम्बन्धान् दिग्भ्यः कंसभयाकुलान्॥यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान्॥१५॥
सभाजितान् समाश्वास्य विदेशावासकर्शितान्॥न्यवासयत् स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत्॥१६॥
कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथा॥गृहेषु रेमिरे सिद्धा कृष्णरामगतज्वराः॥१७॥
वीक्षन्तोऽहरह प्रीता मुकुन्दवदनाम्बुजम्॥नित्यं प्रमुदित श्रीमत् सदयस्मितवीक्षणम्॥१८॥
समाश्वास्य सान्त्वयित्वा सभाजितान् सम्मानितान् वित्तै सन्तर्प्य स्वगृहेषु न्यवासयदितेद्वयोरन्वयः। ननु ‘तृप्तिस्तु यथेष्टबहुधनलाभादेव सम्भवति, तदसङ्ख्याताना तेषां कंथ सन्तर्पण कर्तुं शक्यम्’ इत्याशङ्क्याह—विश्वकृदिते। यो हि सङ्कल्पमात्रेणैव विश्व करोति तस्यैतत्करण किमशक्यमित्या- शयः॥१६॥ कृष्णसङ्कर्षणभुजैर्गुप्ताः शत्रुभ्योः रक्षिताः, अत एव ताभ्यामेव गतो निवृत्तः ज्वरः आध्यात्मिकादिः सन्तापो येषां ते, लब्धमनोरथाः आप्तकामाः, अत एव सिद्धाः कृतार्था सन्तो यादवा गृहेषु रेमिरे॥१७॥ तेषां तद्दर्शनानन्द दर्शयति—वीक्षन्त इति। मुकुन्दस्य मोक्षप्रदस्य कृष्णस्य वदनमेव सन्तापनाशकत्वादानन्दजनकत्वाच्च अन्बुज तदहरहः पश्यन्तः प्रीताश्च सन्तो गृहेषु रेमिरे इति पूर्वेणैवान्वयः। परमानन्दजनकत्वमेव सूचयन् विशिनष्टि—नित्य प्रमुदितमिति। श्रीमत् सौन्दर्यातिशययुक्तम्, दयास्मिताभ्या सहिते वीक्षणे यस्मिंस्तत्॥१८॥
तद्दर्शनफलान्तरमाह—तत्रेति। तत्र मधुपुर्या मुकुन्दस्य मुखाम्बुजसुधा मुखमाधुर्य नेत्रैर्भृङ्गैर्मुहुः पिबन्तः प्रवयसो वृद्धा आपे युवानःअतिशयित बल ओजश्च येषां तथा आसन्॥१९॥ अथ मथुरावासिजनसमाश्वासनानन्तर ‘इयमपि भगवतो राजलीला विचित्रा’ इति सूचयन् सम्बोधयति—राजेन्द्रेति। हे राजेन्द्र भगवान् कृष्ण सङ्कर्षणश्च नन्द समासाद्य तत्समीपमागत्य परिष्वज्य आलिङ्ग्य इद वक्ष्यमाणमूचतुः। एवमुक्तौ हेतुमाह—देवकीसुत इति। देवक्या अपि मनोरथस्य तेनैव पूरणीयत्वादित्याशयः॥२०॥ तदुक्तिमेव दर्शयति—पितरित्यादित्रिभिः श्लोकैः। हे पितः !स्निग्धाभ्यामनुरक्ताभ्यां युवाभ्यां भृशमात्मनोऽप्याधिक्येन पोषितौ लालितौ च। ‘न चाश्चर्यमेतत्, लोकेपि तथैव प्रसिद्धत्वात्’ इत्याहतुः—आत्मनः स्वदेहादपि आत्मजेषु मातापित्रोरभ्यधिका प्रीतिः। हिशब्दः प्रसिद्धिद्योतकः॥२१॥ नच ‘देवकीवसुदेवौ युवयोः पितृत्वेनेदानीं प्रसिद्धौ, नावाम्’ इति मन्तव्यम्। यतः पोषणे रक्षणे
तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजस॥ पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधा मुहुः॥१९॥
अथ नन्दं समासाद्य भगवान् देवकीसुत॥ सङ्कर्षणश्चराजेन्द्र परिष्वज्येदमूचतु॥२०॥
पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्॥पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि॥२१॥
स पिता सा च जननी योपुष्णीतां स्वपुत्रवत्॥ शिशून् बन्धुभिरुत्सृष्टानकल्पै पोषरक्षणे॥२२॥
यात यूय व्रजतात वयं च स्नेहदुःखितान्॥ ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम्॥२३॥
एवं सान्त्वय्य भगवान्नन्द सव्रजमच्युत॥ वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम्॥२४॥
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः॥ पूरयन्नश्रुभिर्नेत्रसह गोपैर्ब्रज ययौ॥२५॥
चाकल्पैरसमथैर्बन्धुभिः पित्रादिभिरुत्सृष्टास्त्यक्तान् शिशून् अस्मान् यौ यशोदानन्दौ युवा पुत्रवत्पुष्णीता पोषितवन्तौ तावेव पितरावित्यर्थ। शिशूनिति बहुवचनमन्येपि वसुदेवपुत्रा अन्यगता आसस्तदभिप्रायेण॥२२॥ ‘अस्त्वेवम्, प्रकृते किम्’ तत्राहतुः—यातेति। हे तात !यूय सर्वे गोपा व्रजं प्रति यात, वयं त्वत्रत्याना सुहृदा पित्रादीना सुख विधायास्मत्स्नेहेन दुःखितान् वो युष्मान् ज्ञातीन् द्रष्टुमेष्याम इत्यन्वयः। वयमिति बहुवचन रामोद्धवाद्यभिप्रायेण॥२३॥एवं सव्रज व्रजवासिभिः सहित नन्द भगवान् कृष्णः सान्त्वय्य सादर यथा स्यात्तथा वस्त्रादिभिरर्हयामास। तत्र कुप्यानि सुवर्णरजतादिव्यतिरिक्तकास्या- दिपात्राणि। ‘भगवान्’ इत्यनेनैश्वर्यादिमत्त्वेन सान्त्वने सामर्थ्य सूचितम्। तत्रौपचारिक भगवत्त्व वारयन्नाह—अच्युत इति।॥२४॥इत्येवमुक्तः, अत एव प्रणयेन स्नेहेन विह्वलो नन्दस्तौ रामकृष्णौ परिष्वज्य अश्रुभिर्नेत्रे पूरयन् गोपैः सह व्रजं प्रतिययावित्यन्य॥२५॥
अथ अनन्तरं शूरसेनो वसुदेवः पुरोधसा गर्गाचार्येण ब्राह्मणैश्च यथाविधि पुत्रयो रामकृष्णयोर्द्विजसंस्कृति द्विजत्वापादकसंस्कारमुपनयन सम्यगकारयत॥२६॥ ततश्च विप्रान् सम्पूज्य सुष्ठ्वलङ्कृतेभ्यस्तेभ्यो ब्राह्मणेभ्यो दक्षिणा रुक्मस्य सुवर्णस्य माला आसा सन्तीति तथा सुष्ठ्वलङ्कृताःसवत्साः क्षौममालिनीःक्षौमवस्त्रमालावतीर्गावो गाश्चादात्॥२७॥ रामकृष्णयोर्जन्मर्क्षे जन्मनक्षत्रे या गावो मनोदत्ता मनसा सङ्कल्पितास्ताश्चानुस्मृत्य विप्रेभ्यो ददौ। ननु ‘तदानीं गाव’ क्व गता, येन मनसा दत्तवान्, इदानीं च कुत आगता’ इत्याकाङ्क्षायामाह—कसेनेति। तदानीमधर्मतः कसेन हताः, इदानीं तद्गोष्ठादाच्छिद्य दत्ता इत्यर्थः। स्मृत्वा दाने हेतु सूचयन्नाह—महामतिरिति॥२८॥ ततश्च लब्धः सरकारो उपनयनाख्यो याभ्या तौ द्विजत्व प्राप्य सुव्रतौ दृढसङ्कल्पौ यदुकुलाचार्याद्गर्गाद्गायत्र व्रत गर्गोपदिष्ट ब्रह्मचर्यमस्थितौ गृहीतवन्तौ॥२९॥ सर्वज्ञावपि अनन्यसिद्ध गुरूपदेशाविना
अथ शूरसुतो राजन् पुत्रयो समकारयत्॥ पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम्॥२६॥
तेभ्योऽदाद्दक्षिणां गावो रुक्ममालाःस्वलङ्कृताः॥ स्वलङ्कृतेभ्यः सम्पूज्य सवत्साःक्षौममालिनी॥२७॥
या कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः॥ताश्चाददादनुस्मृत्य कसेनाधर्मतो हृता॥२८॥
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ॥ गर्गाद्यदुकुलाचार्याद्गायत्र व्रतमास्थितौ॥२९॥
प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ॥ नान्यसिद्धामलज्ञान गूहमानौ नरेहितैः॥३०॥
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः॥ काश्य सान्दीपनिं नाम ह्यवन्तिपुरवासिनम्॥३१॥
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्॥ ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवाऽऽदृतौ॥३२॥
स्वतःसिद्धममलमप्रतिहत ज्ञान नरचेष्टितैर्गृहमानौ प्रच्छादयन्तौ लोकसङ्ग्रहार्थ विद्याग्रहणार्थ गुरुगृहे वासमिच्छन्तौ काश्यकाशगोत्रज अवन्तिपुरवासिन सान्दीपन्याख्य गुरु हीति प्रसिद्धतया उपजग्मतुरिति त्रयाणामन्वयः। सर्वज्ञत्वे हेतुमाह—सर्वविद्याना प्रभवौ उत्पादकाविति। तत्रापि हेतुमाह— जगदीश्वराविति॥३०॥३१॥ तौ गमकृष्णौ यथावत्तमुपासाद्य प्राप्य दान्तौ जितेन्द्रियौ सन्तौ अनिन्दिता निर्दुष्टा गुरौ वृत्ति ग्राहयन्तौ अन्यान्शिक्षयन्तौ आदृतौ आदरयुक्तौ देवमिव भक्त्या गुरुमुपेतौ सेवितवन्तावित्यर्थः। अस्यार्थस्य “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ॥तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन” इति शास्त्रप्रसिद्धत्व सूचयति—स्मेति॥३२॥
शुद्ध छलहीनो भावः स्नेहो यासु ताभिरनुवृत्तिभिःसेवाभिस्तयोस्तुष्टो द्विजवरो गुरुरङ्गैः “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्र पुराण च विद्याश्चैताश्चतुर्दश"“आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः। अर्थशास्त्र चतुर्थ च विद्या ह्यष्टादशैव ताः " इति॥ “छन्द पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयन चक्षुर्निरुक्त श्रोत्रमुच्यते। शिक्षा घ्राण तु वेदस्य मुख व्याकरण स्मृतम्"इत्युक्तलक्षणैः षड्भिरुपनिषद्भिश्च ब्रह्मप्रतिपादकैः सहितान् निखिलान् ऋगादिवेदान् प्रोवाचेत्यन्वयः॥३३॥ तथा सरहस्य मन्त्रदेवताज्ञानसहित धनुर्वेदम्, धर्मान् मन्वाद्युक्तधर्मशास्त्राणि, न्यायपथान् न्यायशास्त्राणि, आन्वीक्षिकीं आत्मविद्या सांख्ययोगादिरूपाम्, षड्विधा सन्धिविग्रहयानासनद्वैधीभावसमाश्रयरूपा राजनीति च प्रोवाचेत्यन्वयः॥३४॥ तयोर्विद्याग्रहणप्रकारमाह—सर्वमिति। हे नृप !तौ रामकृष्णौ सकृदेकदा निगदमात्रेणैव तद्गुरूपदिष्टं सर्व जगृहतुः सम्यग्गृहीतवन्तौ। तत्र हेतुमाह—सर्वविद्याप्रवर्तकाविति। तत्रापि हेतुमाह—नरवरेषु श्रेष्ठौ पुरुषोत्तमाविति॥३५॥ संयतौ वशीकृतदेहेन्द्रियादिसङ्घातौ रामकृष्णौ चतु षष्टिसङ्ख्यायुक्तैरहोरात्रैस्तावतीश्चतुःषष्टीः कला विद्याःसञ्जगृहतुरित्यन्वयः। ताश्च कलाः शैवतन्त्रोक्ता
तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः॥ प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः॥ ३३॥
सरहस्य धनुर्वेद धर्मान् न्यायपथांस्तथा॥ तथा चान्वीक्षिकी विद्या राजनीति च षड्विधाम्॥ ३४॥
सर्व नरवरश्रेष्ठौ सर्वविद्याप्रवर्त्तकौ॥ सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप॥ ३५॥
अहोरात्रैश्चतुःषष्ट्या संयतौ तावतीःकलाः॥गुरुदक्षिणयाऽऽचार्य छन्दयामासतुर्नृप॥ ३६॥
लिख्यन्ते—गीत गानविद्या १, वाद्य वादनविद्या २, नृत्यम् ३, नाट्य गीतादि त्रय मिलित्वा यत्तत् ४, आलेख्य पुस्तकादिलेखनप्रकार ५, विशेषकच्छेद्य विशेषका भ्रामकास्तेषा छेद्य खण्डनप्रकारः ६, तण्डुलकुसुमबलिविकाराः तण्डुलाना कुसुमाना च आरात्रिकाद्याकारेण रचनाप्रकारा. ७, पुष्पास्तरण शय्यादौ ८, दशनवसनादिरागाःदशनादिरञ्जनप्रकाराः ९, मणिभूमिकाकर्म मणयो यथा शोभन्ते तादृशतद्भुमिरचनाप्रकारः १० शयनरचन स्पष्टम् ११, उदकवाद्यमुदकघात यथा स्वत एवोदके नानाशब्दा भवन्ति तत्प्रकारः यथा आहतमुदक उपरि गच्छति अधोगच्छति विपरीत च गच्छति १२,चित्रयोगाः चित्रलेखनप्रकाराः १३, माल्यग्रथनविकल्पाः माल्यानां पुष्पाणां रचने विविधाः प्रकाराः १४, शेखरापीडयोजन शेखरस्य शिरसः केशबन्धस्य आपीडयोजन पुष्पादिमुकुटरचनाप्रकारः १५, नेपथ्ययोगा नटशालादिनिर्माणप्रकाराः १६, कर्णपत्रभङ्गाः कर्णाभरणपत्राणा भङ्गाअनेकभेदाः१७, सुगन्धयुक्तिःनानाविधसुगन्धोत्पादनप्रकारः१८, भूषणयोजनम् १९, ऐन्द्रजाल मायाप्रदर्शनप्रकाराः २०, कौचुमारयोगाः स्वस्मिन्नानारूपव्यञ्जनप्रकाराः २१, हस्तलाघव शैघ्र्ययुक्तेनालक्षितेन हस्तसञ्चारेण तत्तद्वस्तुपरिवर्तनम् २२, चित्रशाकापूपभक्ष्यविकारक्रियाः २३, पानकरसरागा-
सवयोजन पानकेषु रसस्य रागस्य आसवस्य मादकत्वविशेषस्य निर्माणम् २४, सूचीवायकर्म सीवनम् २५, सूत्रक्रीडा सूत्रसञ्चारणेन पुत्तलिकादिचालनम् २६, वीणाडमरुकवाद्यानि वीणादिवाद्याना रचनाप्रकारः २७, प्रहेलिका कूटवाक्यपरिज्ञानम् २८, प्रतिमाला सर्ववस्तुप्रतिनिधिनिर्माणम् २९,दुर्वाचकयोगाः यद्यद्वक्तु न शक्यते तत्तद्वक्तुमुपायाः ३०, पुस्तकवाचन अतिशीघ्रमविद्यमानानपि वर्णान् योजयित्वा पुस्तकवाचनम् ३१, नाटकाख्यायिकादर्शन नाटकशास्त्रस्य कथाना परिज्ञानं निर्माणम् ३२, काव्यसमस्यापूरण काव्ये अविद्यमानस्य सहसा पूरयितुमशक्यस्य पदस्य झटिति पूरणम् ३३, पट्टिकावेत्रबाणविकल्पाः पट्टिकादीना विविधकल्पनाः३४ तर्ककर्माणि तर्केणैव सर्वपदार्थाना ज्ञान कृतिश्च ३५, तक्षण तक्ष्णा कर्म ३६,वास्तुविद्या गृहनिर्माणप्रकारज्ञानम् ३७, रूप्यरत्नपरीक्षा ३८, धातुवादः स्वर्णादिधात्त्पादनोपायः३९, मणिरागज्ञान मणिषु रागनिर्माणज्ञानम् ४०, अकारज्ञान मण्याद्युद्भवभूमिज्ञानम् ४१, वृक्षायुर्वेदयोगाः वृक्षाणा जीवनप्रकारः फले निर्बीजत्वकरण वृक्षान्तरात्फलान्तरोत्पादनमित्यादि ४२, मेषकुक्कुटलावकयुद्धविधि ४३, शुकसारिकाप्रलापनम् ४४, उत्सादन मन्त्रादिना परस्य चित्तोद्वेगोत्पादनेन चासत्याऽऽजनप्रकार ४५, केशमार्जनकौशल ४६, अक्षरमुष्टिकाकथन अक्षराणा वस्त्रादिना आच्छादितानामदृश्याना तथा मुष्टिकास्थितवस्तुना सङ्ख्यायाः स्वरूपस्य च कथनम् ४७, म्लेच्छि-
द्विजस्तयोस्त महिमानमद्भुतं सलक्ष्य राजन्नतिमानुषी मतिम्॥ सम्मन्त्र्य पत्न्या स महार्णवे मृत बाल प्रभासे वरयाम्बभूव ह॥३७॥
तकलिविकल्पाः म्लेच्छितविकल्पाः कलिविकल्पाश्च यथा शत्रुर्म्लेच्छितो भवति सर्वैः सह कलि च करोति तथोपायाः ४८, देशभाषाज्ञानम् ४९, पुष्पशकटिकानिमित्तज्ञान पुष्पैरेव शकटविमानादिरचनाप्रकारः ५०, यन्त्रमातृकाधारणमातृका यत्रमातृका पूजनार्थ मातृकावर्णैर्यन्त्रनिर्माण सैव धारणमातृका ५१, सम्पाद्य अभेद्यस्यापि हीरकादेर्द्वैधीकरणम् ५२, मानसी काव्यक्रिया मानसस्थितस्यार्थस्य पूरणम् ५३, अभिधानकोशाः तत्तन्नामनिरूपकाः कोशाः प्रसिद्धाः ५४, छन्दोज्ञान कामिन्यादीनामभिप्रायज्ञानम् ५५, क्रियाविकल्पा येषां पदार्थाना लोके य उपायाः प्रसिद्धास्ताननादृत्याप्येकैकस्याः क्रियाया विविधेरुपायैर्निष्पादनप्रकाराः ५६, छलितकयोगाः परवञ्चनोपायाः ५७, वस्त्रगोपनानि तूलसूत्रमयादिवस्त्राणा पट्टवस्त्रादितया प्रदर्शनप्रक्रियाः ५८, द्यूतविशेषा ५९, आकर्षक्रीडा दूरस्थान्यपि क्रीडाद्रव्याणि यत्राकृष्यन्ते स क्रीडाविशेषः ६०, बालक्रीडनकानि तद्रचनाप्रकाराः ६१, वैनायिकाना वैजयिकाना वैय्यासिकाना विद्याना च ज्ञानमिति विद्यात्रयमिति चतुःषष्टिकलाः। ततो हे नृप !गुरुदक्षिणया गुरवे देयदक्षिणार्थ आचार्यंतमेव गुरु छन्दयामासतुः स्वाभीष्ट वरयेति प्रेरितवन्तौ॥३६॥‘आश्चर्यान्तर शृणु ’ इत्याशयेन सम्बोधयति—राजन्निति। स द्विजःसान्दीपनिस्तयोः
रामकृष्णयोस्तमनायासेनैव सर्वविद्याग्रहणात्मकमद्भुत श्रोतृजनाश्चर्यजनक महिमान तथा अतिमानुषीं मनुष्येष्वसम्भाविता मति च सलक्ष्य महापुरुषाविमौ’ इति निश्चित्येति शेषः पत्न्या सह सम्मन्त्र्य विचार्य प्रभासे क्षेत्रे महार्णवे निमज्ज्य मृत स्वपुत्र वरयाबभूव दक्षिणारूपेण याचितवानित्यर्थ। ‘मृतस्य याञ्चाप्याश्चर्यकर्येव’ इति सूचयन्नाह—हेति॥३७॥ ‘तथास्त्विति गुरुयाच्ञामङ्गीकृत्य मृतपुत्रप्रदानं कथमङ्गीकृतवन्तौ’ इत्याशङ्क्याह—महारथाविति। एतदेव स्पष्टयन्नाह—दुरन्तविक्रमाविति। दुरन्तोऽपारो विक्रमो ययोस्तौ रामकृष्णौ रथमारुह्य प्रभासाख्य तीर्थमासाद्य प्राप्य तत्र वेला समुद्रस्य तीरमुपव्रज्य क्षण निषीदतुः उपविष्टवन्तौ। समुद्रश्च ‘परमेश्वराविमौ’ इति विदित्वा तयोरर्हणमाहरत् यथावत् पूजन कृतवान्॥३८॥तदा च भगवान् इहस्थाने महता ऊर्मिणा तरङ्गेण योऽसौ बालकस्त्वया ग्रस्तः अन्तर्धापितः सोऽस्मद्गुरुपुत्रः, अत आशु प्रदीयतामिति त समुद्रमाहेत्यन्वयः।
तथेत्यथाऽऽरूह्य महारथौ रथ प्रभासमासाद्य दुरन्तविक्रमौ॥वेलामुपव्रज्य निषीदतु क्षण सिन्धुर्विदित्वाऽर्हणमाहरत्तयो॥३८॥तमाह भगवानाशु गुरुपुत्रःप्रदीयताम्॥योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा॥३९॥समुद्र उवाच॥ नैवाहार्षमह देव दैत्यः पञ्चजनो महान्॥ अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः॥४०॥ आस्ते तेनाहृतो नून तच्छ्रुत्वा सत्वर प्रभुः॥जलमाविश्य त हत्वा नापश्यदुदरेऽर्भकम्॥४१॥ तदङ्गप्रभव शङ्खमादाय रथमागमत्॥ ततः संयमनी नाम यमस्य दयितां पुरीम्॥४२॥
॥३९॥ एवमुक्तःसमुद्र प्राह—नैवेति। ‘तव तु सर्व विदितमेवास्ति, किं मया विज्ञापनीयम्’ इत्याशयेन सम्बोयधति—हे देव !हे कृष्ण ! त द्विजपुत्रमहं नैवाहार्ष नापहृतवान्, किंतु अन्तर्जलचरः जलान्तर्वर्ती पञ्चजनाख्यो दैत्य आस्ते तेन तव गुरुपुत्र आहृतः नूनम्, अत्र सन्देहो नास्ति। स च महान् अस्मदसाध्य इत्यर्थः। ‘स च केन रूपेण वर्तते ?” तत्राह—असुरोऽपि शङ्खरूपधर इति तत्सिन्धुवचन श्रुत्वाप्रभुः समर्थः श्रीकृष्णः सत्वर शीघ्रमेव जलमाविश्य तं दैत्य हत्वा तस्योदरे अर्भकं बालकं नापश्यत्॥४०॥४१॥ तस्य पञ्चजनस्याङ्गाज्जात पाञ्चजन्याख्य शङ्खमादाय रथ प्रत्यागमत् ततश्च सहलायुधः बलभद्रेण सहितो जनार्दनः श्रीकृष्णो यमस्य दयिता प्रिया संयमनीं नाम पुरीं गत्वा शङ्ख पाञ्चजन्य प्रदध्मौ ध्वनयामास। तदा च
प्रजाना शास्त्रमयार्दातिलङ्घिना सयमनः शास्ता यमः शङ्खनिर्ह्राद शङ्खध्वनिमाकर्ण्य श्रुत्वा आगत्य भक्त्योपबृहिता युक्ता तयोर्महतीं सपर्या पूजा चक्रे॥॥४२॥४३॥ सर्वेषां भूताना आशया हृदयानि आलयानि यस्य तं सर्वान्तर्यामिण कृष्णमवनतःसन्नुवाच। तदुक्तिमेवाह—लीलामनुष्य लीलार्थं परिगृहीतमनुष्यविग्रह, वस्तुतस्तु हे विष्णो !युवयोः किं कार्य वयं करवाम ?॥४४॥ इत्युक्तो भगवानाह—गुरुपुत्रमिति। उत्साहार्थ तन्महत्त्वेन सम्बोधयति—हे महाराज!इह त्वत्समीपे त्वद्भृत्यैरानीत मम गुरुपुत्रमानयस्वेत्यन्वयः। तमानीय मह्य समर्पयेत्यर्थः। ‘अत्रानयने तवापराधो नास्ति’ इति सूचयन्नाह—निजकर्मनिबन्धनमिति। तस्य कर्म चैतादृशम्, येनात्रागत इत्याशयः। ‘तर्हि मर्यादामुल्लङ्घ्यकथं समर्पणीय’ इत्याशङ्क्याह—मच्छासनपुरस्कृत इति। मदाज्ञया तत्समर्पणे न तव कश्चिद्दोष इत्याशयः॥४५॥तथेत्यङ्गीकृत्य तेन यमेनोपानीत गुरुपुत्रमादायागत्य
गत्वा जनार्दनःशङ्ख प्रदध्मौ सहलायुधः॥ शङ्खनिर्ह्रादमाकर्ण्य प्रजासयमनो यमः तयो सपर्यां महती चक्रे भक्त्युपबृहिताम्॥४३॥उवाचावनतः कृष्ण सर्वभूताशयालयम्॥लीलामनुष्य हे विष्णो युवयोः करवाम किम्॥४४॥श्रीभगवानुवाच॥ गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्॥आनयस्व महाराज मच्छासनपुरकृत॥४५॥ तथेति तेनोपानीत गुरुपुत्र यदूत्तमौ॥दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतु॥४६॥गुरुरुवाच॥ सम्यक् सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः॥ को नु युष्मद्विधगुरोः कामानामवशिष्यते॥४७॥गच्छतं स्वगृह वीरौ कीर्तिर्वामस्तु पावनी॥छन्दास्ययातयामानि भवन्त्विह परत्र च॥४८॥ गुरुणैवमनुज्ञातौ रथेनानिलरहसा॥ आयातौ स्वपुर तात पर्जन्यनिनदेन वै॥४९॥
यदूत्तमौ रामकृष्णौ स्वगुरवे दत्त्वा पुनर्वरान्तर वृणीष्वेति तमूचतु॥४६॥एवमुक्तो गुरुराह—सम्यगिति। स्नेहेन सम्बोधयति—वत्सेति। मुख्यतया कृष्णस्यैव सम्बोधनम्। भवद्भ्या गुरुनिष्क्रयः गुरुदक्षिणा सम्यक् सम्पादिता, अतो युष्मद्विधयोर्गुरोर्मम कामाना मध्ये को नु कामोऽवशिष्यते ? न कोऽपि। अतो न वरान्तरमपेक्षितम्॥४७॥हे वीरौ !स्वगृहं गच्छतम्। वा युवयो कीर्ति पावनी श्रोत्रादिजनपावनकर्यस्तु, तथेह परत्र च युवयोरधीतानि छन्दासि अयातयामानि अविस्मृतानि भवन्तु॥४८॥राज्ञि स्वस्नेह सूचयन् सम्बोधयति—तातेति। गुरुणैवमनुज्ञातौ रामकृष्णौ अनिलवद्रहो वेगो यस्य तेन, तथा पर्जन्यो मेघस्तद्वन्निनदो यस्य तेन रथेन वै प्रसिद्धतया स्वपुर प्रत्यायातौ आजग्मतुः॥४९॥
बहून्यहान्यपश्यन्त्यस्तदा रामजनार्दनौ दृष्ट्वा सर्वाः प्रजाः समनन्दन् परमानन्दयुक्ता जाताः। तत्र दृष्टान्तमाह—नष्टेति। नष्टमदर्शन गत तत् पुनर्लब्ध दृष्ट धन यैस्ते यथा परमानन्दयुक्ता भवन्ति तद्वदित्यर्थः॥ ५०॥ इति श्रीवल्लभाचार्यवश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥ १॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने। पञ्चचत्वारिंशकोऽगाद्वसुदेवादिबोधकः॥३॥ कृष्णेन प्रेषितश्चक्रे यशोदानन्दसान्त्वनम्॥ उद्धवो विद्ययेति षट्चत्वारिंशे निरूप्यते॥१॥ पूर्वाध्याये ‘ज्ञातीन् वो द्रष्टुमेष्याम’ इति भगवता नन्द प्रत्युक्त तत्र अत्रत्यस्यापि कार्यस्यावश्यकत्वात्तदुपेक्ष्य गमनं न सम्भवति, अतः कश्चित् प्रेषणीयः, तत्रापि गोपीना सान्त्वनमतिरहस्य सन्मन्त्रिसाध्यम्, तादृशश्चोद्धव इति त विशिनष्टि—वृष्णीनामिति। श्रीकृष्णस्य
समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ॥अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव॥५०॥
इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥
॥श्रीशुक उवाच॥
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयित सखा॥ शिष्यो बृहस्पते साक्षादुद्धवो बुद्धिसत्तम॥१॥
तमाह भगवान् श्रेष्ठ भक्तमेकान्तिन क्वचित्॥ गृहीत्वा पाणिना पाणि234 प्रपन्नार्तिहरो हरिः॥२॥
गच्छोद्धव व्रज सौम्य पित्रोर्नौ प्रीतिमावह॥ गोपीनां मद्वियोगाधि मत्सन्देशैर्विमोचय॥३॥
दयितः वल्लभः प्रियः। तत्र हेतुः—सखेति। तत्राप्युत्कर्षमाह—मन्त्रीति। तत्र हेतुः—प्रवरःश्रेष्ठ इति। तत्र हेतुः—बुद्धया सत्तमःश्रेष्ठ इति। तत्रहेतुः—साक्षाद्बृहस्पतेः शिष्य इति॥१॥ तमेकान्तिन अनन्य भक्तम्, अत एव प्रेष्ठ क्वचिदेकान्ते पाणिना पाणि गृहीत्वा भगवानाह। तत्र प्रयोजनमाह—प्रपन्नाना व्रजभक्तानामार्तिहरः स्ववियोगदुःख हर्तुमित्यर्थः। तत्र हेतुमाह—हरिः भक्तदुःखहरणस्वभावः॥२॥ तदुक्तिमाह—गच्छेति।सार्द्धैश्चतुर्भिः। श्रवणे सावधानतार्थं सम्बोधयति—उद्धवेति। ‘त्वत्सदृशो व्रजप्रेषणयोग्योऽन्यो नास्ति’ इति सूचयन् पुनःसम्बोधयति—सौम्येति। त्वं व्रज गच्छ। गमनप्रयोजनमाह—नौ आवयोःपित्रोर्नन्दयशोदयोः प्रीतिमावह मद्वियोगदुःख निवर्त्य हर्षं जनय। तथा गोपीनामपि मद्वियोगाद्धेतोर्य आधिःमनःपीडा ता मत्सन्देशैर्विमोचय॥३॥
गोपीना विशेषतः सन्देशे कारणमाह—ता इति। यतस्ता गोप्यः मन्मनस्का मय्येव सङ्कल्पविकल्पात्मक मनो यासां ताः। तथा मत्प्राणाः।मदर्थमेव प्राणधारण यासां ता। मदर्थे मत्प्राप्तिप्रतिबन्धतया त्यक्ता दैहिकाः देहसम्बन्धिनःपतिपुत्रादयः, देहनिर्वाहका भोजनशयनादयश्च याभिस्ताः। किं बहुना ? सर्वथा मामेव मनसा गताः प्राप्ताःमदतिरिक्तसर्वानुसन्धानरहिता इत्यर्थः। तत्र हेतुमाह—प्रेष्ठमिति। निरतिशयप्रीतिविषयमित्यर्थः। तत्रापि हेतुद्वयमाह—दयितमिति। दया सञ्जाताऽस्यास्तीति दयितः तम्, दयावन्तमित्यर्थः। आत्मानमिति। ‘आत्मनस्तु कामाय सर्व प्रिय भवति’ इति श्रुते॥ ‘सन्त्वेवविधाः, तथापि तदाधिविमोचनेन किम्’ तत्राह—य इति। मदर्थे मत्प्रसादार्थे त्यक्तो लोकः इहामुत्रसुख धर्मस्तत्साधन च यैः ये एवंविधा जनाः तानह बिभर्मि सवर्धयामि सुखयामीत्यर्थः। एव मत्प्रतिज्ञास्ति तत्सम्पादनाय गच्छेत्याशयः॥४॥तासा वि-
तां मन्मनस्का मत्प्राणा मदर्थे235 त्यक्तदैहिका। मामेव दयित प्रेष्ठमात्मान मनसा गताः॥ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम्॥४॥मयि ताःप्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः॥ स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वला॥५॥धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथंचन प्रत्या- गमनसन्देशैर्बल्लव्यो मे मदात्मिका॥६॥श्रीशुक उवाच॥इत्युक्त उद्धवो राजन् सन्देश भर्तुरादृत॥आदाय रथमारुह्य प्रययौ नन्दगोकुलम्॥७॥
योगाधिमेव स्पष्टयति—मयीति द्वयेन। ‘आवयोरपि भेदो नास्ति, अतोऽतिरहस्यमपि तवाग्रे कथयामि’ इति सूचयन् सम्बोधयति—अङ्गेति। प्रेयसा प्रीतिविषयाणामपि मध्ये प्रेष्ठे निरतिशयप्रीतिविषये मयि दूरस्थे सति ता गोकुलस्त्रियो मा स्मरन्त्यो विरहौत्कण्ठ्येन विह्वलाः परवशाःसत्यो विमुह्यन्ति देहतद्धर्मादींश्च नानुस्मरन्तीत्यन्वयः॥५॥किञ्च गोकुलान्निर्गमनसमये ‘शीघ्रमागमिष्यामि’ इत्यादयो ये प्रत्यागमनसन्देशास्तैर्मदात्मिका मच्चित्ता मे मदीया वल्लभाः प्रिया गोप्यः कथंचित् कृच्छ्रेण क्लेशेन प्राणानेव धारयन्ति। प्रायः शब्दो मूर्च्छासूचक। न तासा देहाद्यनुसन्धानमित्याशयः॥६॥‘स्वाम्याज्ञापालनावश्यकत्व तु स्ववृत्तान्तेन निश्चेयम्’ इति सूचयन् सम्बोधयति—राजन्निति। इत्येव भगवता उक्तः आदृतश्चोद्धवः ‘भवतीना वियोगो मे नहि सर्वात्मना कचित्’ इत्यादिना वक्ष्यमाण भर्तुः स्वामिनः श्रीकृष्णस्य सन्देशमादाय स्वीकृत्य रथमारुह्य नन्दस्य गोकुल प्रययावित्यन्वयः॥७ ॥
विभावसौ सूर्ये निम्लोचति सति अस्त गच्छति सति उद्धवः श्रीमत् सर्वसम्पद्युक्त नन्दस्य व्रज प्राप्तः। ‘तदा गोपीभिरज्ञात एव नन्दसङ्गम लब्धवान्’ इति सूचयन्नाह—प्रविशता पशूना खुररेणुभिश्छन्न यान रथो यस्य स इति॥८॥ व्रज वर्णयति—वासितेति पञ्चभिः। वासिताः पुष्पिण्यो गावश्च तदर्थे तत्सम्बन्धनिमित्त अभितः परस्पर युध्यद्भिः शुष्मिभिर्मत्तैर्वृषैर्नादितम्। ऊधोभारैरुपलक्षिताभि स्ववत्सान् प्रति धावन्तीभिः वास्राभिर्धेनुभिश्च मण्डितम्॥९॥ तथा इतस्ततो विलङ्घिद्भिःसितैः श्वेतवर्णैर्गोवत्सैश्च मण्डितम्। तथा गोदोहशब्दैः सहाभितो रवाः “मुञ्च मा मुञ्च नय आनय देहि गृहाण” इत्यादयो यस्मिंस्तत्। तथा वेणूना निःस्वनेन च मण्डितम्॥१०॥ रामकृष्णयोः शुभानि दुरितनिवर्तकानि कर्माणि गायन्तीभिः स्वलङ्कृताभि-
प्राप्तो नन्दव्रज श्रीमन्निम्लोचति विभावसौ॥ छन्नयानः प्रविशतां पशूनां खुररेणुभिः॥८॥
वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषै॥धावन्तीभिश्च वास्राभि236रूधोभारै स्ववत्सकान्॥९॥
इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डित सितै॥ गोदोहशब्दाभिरव वेणूनां निःस्वनेन च॥१०॥
गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः॥स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम्॥११॥
अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितै॥ धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम्॥१२॥
सर्वत पुष्पितवन द्विजालिकुलनादितम्॥ हंसकारण्डवाकीर्णैःपद्मखण्डैश्च मण्डितम्॥१३॥
तमागत समागम्य कृष्णस्यानुचर प्रियम्॥ नन्द प्रीतः परिष्वज्य वासुदेवधियाऽर्चयत्॥१४॥
र्गोपाभिस्तथाविधैर्गोपैश्च सुविराजितम्॥११॥अग्न्याद्यर्चनान्वितैः गोपगृहैश्चधूपादिभिश्चमनोरमम्॥१२॥सर्वत पुष्पितानि वनानि यस्मिंस्तत्। द्विजानापक्षिणा अलीना भ्रमराणा च कुलैः समूहैर्नादितम्। हंसै कारण्डवैर्जलकुक्कुटैश्चाकीर्णेर्व्याप्तैःपद्मखण्डैः पद्मसमूहैश्चमण्डितम्। हंसकारण्डवाद्याकीर्णपद्मखडमण्डितसरःप्रान्तवर्तिद्विजालिकुलनादितपुष्पितवनमण्डितमिति समुदितार्थ॥१३॥तं कृष्णस्य प्रियमनुचर सेवकमुद्धवमागतमाकर्ण्य प्रीतःसन्नन्दः आगत्य तं परिष्वज्य वासुदेवधियाऽर्चयत् कृष्णमेवागत मत्वा सत्कार कृतवानित्यर्थ॥१४॥
परमेणोत्कृष्टेनान्नेन पायसादिना भोजितम् कर्मणः करणत्वविवक्षया तृतीया, परमान्न भोजित कशिपौ पर्यङ्के सुखं यथा भवति तथा संविष्ट पादसवाहनादिभिर्गतमार्गश्रममुद्धव नन्दः पर्यपृच्छादित्यन्वयः॥१५॥प्रश्नमेवाह—कच्चिदित्यादिना। भगवत्सखित्वात्तस्मिन् स्वस्नेह सूचयन् सम्बोधयति—अङ्गेति। ‘महाभाग’ इति सम्बोधनान्तरं भगवद्भक्तत्वात्। विसर्गान्तपाठे तु वसुदेवविशेषणम्, भगवत्पितृत्वात्। नोऽस्माकं व्रजवासिना सखा शूरनन्दनो वसुदेवो बन्धान्मुक्तः सुहृद्भिर्बन्धुभिर्मित्रैर्वृतोऽपत्याद्यैर्युक्तश्च कच्चित् कुशली सुखी आस्ते तदस्माकमिष्टम्॥१६॥पापः पापाचारःकसःस्वेन स्वकीयेनैव पाप्मना दुरितेन हेतुना सानुगः भ्रातृमल्लादिसहितो हत इति दिष्ट्या, तेनास्माकं महानानन्दो जात इत्यर्थः। तत्पापमेव दर्शयति—कर्मणि षष्ठी। यः कसः साधून् परकार्यसाधकान् धर्मिष्ठान् यदून् सदा द्वेष्टि स्मेति॥१७॥ नोऽस्मान् सुहृद पित्रादिरूपान् प्रेमवतः मातर यशोदा,
भोजित परमान्नेन सविष्ट कशिपौ सुखम्॥ गतश्रम पर्यपृच्छत् पादसवाहनादिभिः॥१५॥
कच्चिदङ्ग महाभाग237 सखा नःशूरनन्दनः॥ आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृत॥१६॥
दिष्ट्या कंसो हत पापः सानुग स्वेन पाप्मना॥ साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा॥१७॥
अपि स्मरति नः कृष्णो मातर सुहृद सखीन्॥ गोपान् व्रज चाऽऽत्मनाथं गावो वृन्दावन238 गिरिम्॥१८॥
अप्यायास्यति गोविन्द स्वजनान् सकृदीक्षितुम्॥ तर्हि द्रक्ष्याम तद्वक्रसुनस सुस्मितेक्षणम्॥१९॥
दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिता॥ दुरत्ययेभ्यो मृत्युभ्यःकृष्णेन सुमहात्मना॥२०॥
सखीन्, गोपाश्च, आत्मा स्वयमेव नाथो रक्षको यस्य त बजं, गावो गाः, वृन्दावन, गिरि गोवर्धन चापि किं कृष्णः स्मरति ?॥१८॥अपि कि स्वजनानस्मानीक्षितुं गोविन्दः सकृदेकदापि आयास्यति खलु?। ‘तेन किम्’ इत्यपेक्षायामाह—तर्हि इति। यदि आयास्यति तर्हि तस्य वक्त्रद्रक्ष्यामः। तद्वक्त्रदर्शनाभिलाषाय तत्सौन्दर्यहेतु सूचयन्नाह—सुनसमिति। शोभना नासिका यस्मिंस्तत्। स्मितपूर्वकमीक्षण यस्मिंस्तत्॥१९॥भगवत्कृतानुपकाराननुस्मरति—दावाग्नेरिति। दावानलात्, वातात्, वर्षाच्च, वृषात् अरिष्टात्, सर्पात् कालियात्, सुदर्शनाच्च अन्येभ्यश्च दुरतिक्रमेभ्यः मृत्युभ्यो कृष्णेन वयं रक्षिता जाताः। ‘एव युष्मत्सरक्षणे किं कारणम्’ इत्यपेक्षायाम्’ आश्रितार्तिहरणोदारचित्तत्वमेव’ इत्याशयेनाह—सुमहात्मनेति॥२०॥
‘एव चेत्तर्हि तद्दर्शनार्थं तत्रैव कुतो न गम्यते ?तत्राह—स्मरतामिति। ‘तद्भक्तस्य तवाप्यत्र नासम्भावना’ इति सूचयन् सम्बोधयति—अङ्गेति। कृष्णस्य वीर्याणि गोवर्धनोद्धरणादिपराक्रमान् लीलया अपाङ्गेन निरीक्षण च हसित च भाषित च स्मरता नोऽस्माकं सर्वा एव क्रियाः भोजनाद्यावश्यकव्यापारा अपि शिथिला जाताः। अतस्तत्र गमनेऽप्यसामर्थ्यमित्याशयः॥२१॥‘तद्विस्मृतौ कदाचित् स्वास्थ्यसम्भवेऽपि पर तद्विस्मृतिरेव तावन्न सम्भवति, स्मारकबहुत्वात्’ इत्याह—सरिदिति। सरित् यमुना तत्र जलाहरणार्थमवश्य गन्तव्यम्, तत्रापि कालियदमनादि तेन कृतम्, अतः सापि तत्स्मारिका। तथा शैल वनोद्देशेऽपि गाश्चारयितुमवश्य गन्तव्यम्, तेऽपि गाश्चारयतो मुकुन्दस्य चरणेनाङ्किताः। आक्रीडानि।क्रीडास्थानानि सरितादीनि ईक्षमाणाना नोऽस्माकं मनस्तदात्मता कृष्णाकारता याति गच्छति॥२२॥मनुष्यादावसम्भावितैर्भगवच्चरितै र्भगवत्त्व-
स्मरतां कृष्णवीर्याणि लीलापङ्गानिरीक्षितम्॥हसित भाषित चाङ्ग सर्वा न शिथिला क्रिया॥२१॥
सरिच्छैलवनोद्देशान्मुकुन्दपदभूषितान्॥आक्रीडानीक्षमाणानां मनो याति तदात्मताम्॥२२॥
मन्ये कृष्णं च राम च प्राप्ताविह सुरोत्तमौ॥सुराणां महदर्थाय गर्गस्य वचन यथा॥२३॥
कंसं नागायुतप्राणं मल्लौ गजपति तथा॥अवधीष्टां लीलयैव पशूनिव मृगाधिप॥२४॥
तालत्रय महासार धनुर्यष्टिमिवेभराट्॥बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम्॥२५॥
मध्यवस्यति—मन्य इति। राम च कृष्णं च सुरोत्तमौ वासुदेवसङ्कर्षणाविहलोके प्राप्ताववतीर्णौ मन्ये। तत्प्रयोजनमाह—सुराणा महते अर्थाय असुरादिसहारेण यज्ञादिप्रवर्तनेन च भोगसिद्धय इति। भगवदवतारत्वे शिष्टसंवादं प्रमाणमाह—गर्गस्य वचन यथेति। ‘तस्मान्नन्दात्मजोऽय ते नारायणसमो गुणैः’ इत्युक्तत्वात्॥२३॥‘यद्यपि समत्वोक्त्याऽवतारत्वं गर्गेण नोक्तं तथापि तत्पराक्रमैस्तदनुमीयत’ इत्याशयेनाह—कसमिति त्रिभिः। नागायुतस्य हस्तिदशसहस्रस्य प्राणो बल यस्य त कंस, तथा मल्लौ चाणूरमुष्टिकौ महाबलौ, गजपतिं ‘सहस्रद्विपसत्त्वभृत्’ इत्युक्तविध कुवलयापीड च लीलया अनायासेनैव अवधीष्टा हतबन्तौ। ननु ‘एवभूतानामपि मणिमन्त्रादिप्रयोगेण हनने किमाश्चर्यम्’ इति शङ्का निराकुर्वन्ननायासेन हनने दृष्टान्तमाह—मृगाधिपःसिंहः इतरान् पशून् यथा हन्ति तद्वदिति॥२४॥ताल तालवृक्षो हस्तशतत्रयपरिमितस्तत्रयपरिमित महासार अयोवदतिदृढ धनुःयष्टिभिक्षुदण्ड इभराट् गजेन्द्रो यथा भञ्जयति तथा बभञ्जेत्यन्वयः। तथैकेन हस्तेन सप्ताह सप्तदिनपर्यन्तं गिरिं गोवर्धनमधात् दधार॥२५॥
तथा सुरासुरजयिनः प्रलम्बादयो दैत्या येन कृष्णेनेह व्रजे लीलयैव हताः। प्रलम्बे रामहतेऽपि कृष्णहतत्वोक्तिरत्वस्य प्रधानत्वसूचनार्था॥२६॥ इत्येव कृष्ण सस्मृत्य सम्मृत्य अश्रुकण्ठः अश्रुभिर्निरुद्धकण्ठः ‘अत्युत्कण्ठ’ इति वा पाठः, नन्दस्तूष्णीं बभूव किञ्चिदपि वक्तुं न शशाक। तत्रहेतुमाह—प्रेम्णःप्रसरेण उद्रेकेण विह्वलोव्याकुलः। तत्रापि हेतुमाह—कृष्णेऽनुरक्ता अनुरागयुक्ता धीर्यस्य स इति॥२७॥ स्नेहेन स्तुतौ प्रस्नुतौ पयोधरौ यस्याः सा यशोदा भर्त्रावर्ण्यमानानि पुत्रस्य चरितानि शृण्वन्ती अश्रूणि आनन्दजनेत्रजलबिन्दून् अवास्राक्षीत् ववर्ष॥२८॥ इत्थ तयोर्नन्दयशोदयार्भगवति परममनुराग वीक्ष्य मुदा युक्त नन्दं उद्धव आह॥२९॥ तदुक्तिमेव दर्शयति—युवामित्यादिना। ‘एव प्रेमदर्शनेन
प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः॥दैत्याः सुरासुरजितो हता येनेह लीलया॥२६॥श्रीशुक उवाच॥इति सस्मृत्य सम्मृत्य नन्दः कृष्णानुर- क्तधीः॥अश्रुकण्ठो239ऽभवत्तूष्णी प्रेमप्रसरविह्वल॥२७॥यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च॥शृण्वन्त्यश्रुण्यवस्त्राक्षीत् स्नेहस्नुतपयोधरा॥२८॥तयोरित्थं भगवति कृष्णे नन्दयशोदयो॥वीक्ष्यानुराग परमं नन्दमाहोद्धवोमुदा॥२९॥ऊद्धव उवाच॥युवां240श्लाघ्यतमौ नून देहिनामिह मानद॥नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी॥३०॥एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्॥अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ॥३१॥
ममापि महासुख ददासि’ इति सूचयन् सम्बोधयति—मानदेति। युवा यशोदानन्दौ इहलोके देहिना मध्ये श्लाघ्यतमौ अतिशयेन प्रशंसायोग्यौ। नूनमिति, अत्र सन्देहो नास्तीत्यर्थः। तत्र हेतुमाह—यत यस्मात् अखिलस्य सर्वस्य ब्रह्मादेरपि गुरौ पूज्ये नारायणे कृष्णे ईदृशी अनुरागयुक्ता मतिः युवाभ्या कृतेति॥३०॥ अखिलगुरुत्वेजनकत्व नियन्तृत्व च हेतुमाह—एताविति। हि यस्माद्रामो मुकुन्दः मुक्तिदाता श्रीकृष्णश्चेत्येतौ द्वावपि विश्वस्य योनी बीजे भवतः। बीज उपादानकारणम्, योनिःनिमित्तकारण च। ननु ‘पुरुषप्रधानयोर्बीजत्व योनित्व च प्रसिद्धम्’ इत्याशङ्क्याह—पुरुषःप्रधानमिति। पुरुषोऽशः, प्रधान शक्तिः अतः प्रधानपुरुषावप्येतावेव इत्यर्थः। एव जनकत्वमुक्तम्। नियन्तृत्वमाह—अन्वीयेति। भूतेषु स्थावरजङ्गमशरीरेषु अन्वीय प्रविश्य तेषां भूताना तद्विलक्षणस्य ज्ञानस्य चैतन्यात्मकस्य जीवस्य ईशाते ईशौ नियन्तारौ भवत इत्यर्थः। एव सर्वकारणत्वे नियन्तृत्वे हेतुमाह—इमौ पुराणाविति, अनादित्वादित्यर्थः॥३१॥
‘यत्कृता मतिरीदृशी’ इत्यनेन सूचिता कृतकृत्यतामेवोपपादयति—यस्मिन्निति द्वाभ्याम्। ‘यस्मिन्’ इत्यस्य ‘तस्मिन्’इत्युत्तरेण सम्बन्धः। जनो यःकोऽपि प्राणी क्षण क्षणमात्रमपि विशुद्ध विषयान्तरचिन्तारहित मनो यस्मिन् समावेश्य स्थिरीकृत्य तेन कर्माशय कर्मवासना निर्हृत्य दग्ध्वा ब्रह्ममयः प्राकृतसङ्घातनिवृत्त्या प्राप्तनिजानन्दस्वरूपः अर्कवर्णः प्रकाशमानमूर्तिश्च सन् परा गति तत्पद याति। ‘कदाचिदेव तस्मिन् मनोधारणेऽपि पुनरविद्यया शक्त्या तत्पदप्राप्तिर्न भवति’ इति सूचयन्नाह—प्राणवियोगकाल इति। ततो विषयासक्त्यसम्भवादित्याशयः॥३२॥तस्मिन् भवन्तौ भावं निरतिशयानुराग नितरा निरन्तर विधत्ता अकुरुताम्। अतो युवयोस्तु कृत्य कर्तव्य किमवशिष्टम् ? न किञ्चिदपीत्यन्वयः। तद्भक्तेरेव परमफलत्वे हेतु सूचयन् विशिनष्टि—महात्मन्निति। महात्मनि पुरुषोत्तमे। तत्र हेतुमाह—अखिलस्य चिदचिदात्मकस्य जगतः आत्मा उपादान हेतुर्निमित्त
यस्मिञ्जनःप्राणवियोगकाले क्षण समावेश्य मनो विशुद्धम्। निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्ण॥३२॥तस्मिन् भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ॥ भाव विधत्तां नितरां महात्मन् किं वाऽवशिष्ट युवयो सुकृत्यम्॥३३॥आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः॥प्रियं विधास्यते पित्रोर्भगवान् सात्वतापतिः॥३४॥हत्वा कंस रङ्गमध्ये प्रतीप सर्वसात्वताम् ॥यदाह वः समागत्य कृष्ण सत्य करोति तत्॥३५॥
स च तस्मिन्निति। ‘तर्हि कथमस्मदादिवत्प्रतीतिः ?‘तत्राह—कारणेन भूभारहरणादिनिमित्तेन मर्त्यस्येव मूर्तिर्यस्य तस्मिन्निति॥३३॥ यत्पृष्टम् “अप्यायास्यति गोविन्दः स्वजनान् सकृदीक्षितुम्” इति तत्राह—आगमिष्यतीति। अच्युतः कृष्णः अदीर्घेण स्वल्पेन कालेन गच्छता व्रजभागमिष्यति। पित्रोर्युवयोःप्रिय दर्शनादिमनोरथ विधास्यति पूर्ण करिष्यति। तत्र कैमुत्यन्यायं सूचयति—सात्वता स्वभक्ताना पतिः पालक इति। य साधारणसर्वभक्ताना मनोरथ पूरयति, तस्य स्वपितृमनोरथपूरणे कः सन्देह इत्याशयः। तत्र सामर्थ्यमाह—भगवानिति॥३४॥ ‘न केवल भवन्मनोरथपूरणमेव तदागमनप्रयोजनम्, किन्तु स्वप्रतिज्ञापालनार्थमप्यागमिष्यति’ इत्याशयेनाह—हत्वेति। रङ्गमध्ये मल्लयुद्धभूमौ कस हत्वा वो युष्मान्प्रति समागत्य कृष्णः"यात यूय व्रज तात वयं च स्नेहदुःखितान्। ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां प्रियम्” इति यदाह तत् सत्य करोति करिष्यत्येव। कसस्य हनने हेतुमाह—सर्वसात्वता प्रतीपमिति। सर्वेषां यादवाना स्वभक्तानां प्रतिकूलमित्यर्थ॥३५ ॥
‘तद्दर्शनादौ भक्तेः कारणत्वात्तस्या युवयोर्विद्यमानत्वान्न तत्र सन्देह’ इति सूचयन् सम्बोधयति—महाभागाविति। मा खिद्यत खेद मा कुरुतम्। अन्तिके समीपे कृष्ण द्रक्ष्यथः। ‘न केवल स मथुरायामेवास्ति, किन्तु सर्वत्र’ इत्याहुः—स श्रीकृष्णःसर्वभूतानामन्तर्हृदि हृदयमध्ये आस्ते। ‘तर्हि सर्वैः किमिति न दृश्यते?’ तत्राह—ज्योतिरिवैधसि इति। यथैधसि काष्ठे स्थितमपि ज्योतिरग्निर्मथनाद्युपायमन्तरेण न दृश्यते, तथा सर्वत्र स्थितोऽपि भगवान् भक्तिविना न दृश्यत इत्यर्थः॥३६॥ननु ‘प्रियतरान् पित्रादीन् विहाय कथमत्रागमिष्यति’ इत्याशङ्क्याह—नहीति। अस्य कृष्णस्य प्रियादयो नैव सन्ति। तत्र हेतुमाह—समानस्येति। सर्वत्र समदृष्टेरित्यर्थः। तत्रापि हेतुमाह—अमानिन इति। प्राकृतदेहादौ अहममाभिमानशून्यस्य इत्यर्थः॥३७॥तत्रापि हेतुमाह—प्राकृत- देहोऽपि नैवास्ति इति। तत्रापि हेतुमाह—जन्मापि नास्त्येवेति। एवकारस्य सर्वत्र नञा
मा खिद्यतं महाभागौ द्रश्क्ष्यथःकृष्णमन्तिके॥ अन्तहृदि स भूतानामास्ते ज्योतिरिवैधसि॥३६॥
न ह्यस्यास्ति प्रिय कश्चिन्नाप्रियो वास्त्यमानिन॥ नोत्तमो नाधमो वाऽपि समानस्यासमोऽपि वा॥३७॥
न माता न पिता तस्य न भार्या न सुतादयः॥ नात्मीयो न परश्चापि न देहो जन्म एव च॥३८॥
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु॥ क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते॥३९॥
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्॥ क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः॥४०॥
सह सम्बन्धः। परः शत्रुः॥३८॥जन्माभावे जन्मकारणकर्माभाव हेतुमाह—नचेति। लोके प्राणिसमूहे जन्मादिहेतुः पुण्यपापात्मक यत् कर्म तदस्य नास्ति। ‘तर्हि कथं तस्य लोकेऽवतारः?‘तत्राह—स कर्माद्यनधीनोऽपि क्रीडार्थः क्रीडार्थप्रयोजनः सन् साधूना परित्राणाय च सदसन्मिश्रयोनिषु देवतिर्यङ्मनुष्येषु कल्पते स्वेच्छया आविर्भवतीत्यर्थः॥३९॥एव सूचितमेव जीववैलक्षण्य स्पष्टयति—सत्त्वमिति। निर्गुणः सत्त्वादिप्राकृतगुणपारवश्यरहितोऽपि भगवान् सत्त्वादिगुणान् भजते स्वक्रीडोपकरणतया स्वीकरोति। ससारातीतः अजः कर्माधीनजन्मरहितोऽपि क्रीडन् सत्त्वादिभिस्त्रिभिर्गुणैर्विश्व सृजति उत्पादयति, अवति रक्षति, हरति सहरति च॥४०॥
ननु ‘यद्येव ससारातीतः कर्मपारवश्यरहितश्च तदा कथमस्मदादिवज्जन्मकर्मादिमत्तया प्रतीयते?‘तत्राह—यथेति। भ्रमरिका परिभ्रमण तयोपलक्षितया दृष्ट्या यथा मही भ्राम्यतीव ईयते प्रतीयते, तथा स्वचित्ते कर्तरि सति तत्रचित्तेअहंधिया भ्रान्तस्य जनस्य स्वदोषेण सर्वात्मा भगवानपि कर्तेव कर्माधीनजन्मादिमत्तया स्मृतः प्रतीतो भवतीत्यर्थः॥४१॥युवयोर्यदि तत्र पुत्रत्वाभिमानस्तर्हि युवयोरेवायमात्मजो नैव भवति, किंतु सर्वेषामपिपुत्रादिरूप ईश्वरो नियन्ता च स एव। हिशब्दोऽवधारणे, यतो भगवान् हरिरिति हेतुः सूचितः॥४२॥किं बहुना? दृष्टादिरूप वस्तुतरा वस्तुमात्र अच्युताद्दिना तद्भिन्नतया न वाच्य निर्वचनार्हं नैव भवति, यतः स एव सर्वम्। तत्र हेतुमाह—परमार्थभूत इति। परमकारणत्वादित्यर्थः॥एवमपि
यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते॥ चित्ते कर्तरि तत्राऽऽत्मा कर्तेवाहधिया स्मृतः॥४१॥[]241
युवयो241रेव नैवायमात्मजो भगवान् हरि॥सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः॥४२॥ दृष्टश्रुत भूतभवद्भविष्यत् स्थास्नुश्चरिष्णुर्महदल्पकं च॥ विनाऽच्युताद्वस्तुतरां न वाच्य स एव सर्वं परमार्थभूतः॥४३॥एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्॥गोप्य समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीन्यमन्थन्॥४४॥ता दीपदीप्तैर्मणिभिर्विरेजूरज्जूर्विकर्षद्भुजकङ्कणस्रजः॥ चलन्नितम्बस्तनहारकुण्डलत्विषत्कपोलारुणकुङ्कुमाननाः॥४५॥
अच्युतपदेन विकाराभावः सूचितः॥४३॥हे राजन् ‘कृष्णानुचरस्य उद्धवस्य नन्दस्य च परस्परमेव ब्रुवतोः सतोःसा निशा व्यतीता, तदा गोप्यःसमुत्थाय दीपान्निरूप्य प्रज्वाल्य वास्तून् देहल्यादीन् समभ्यर्च्य गन्धादिभिः सम्पूज्य दधीन्यमन्थन्॥४४॥मथ्नतीस्ता वर्णयति—ता इति। मन्थनरज्जूर्विकर्षत्सु भुजेषु कङ्कणाना स्रजः समूहा यासा ताः। चलन्तो नितम्बाः स्तनाहाराश्च यासाम्, कुण्डलैस्त्विषन्तः कपोला यासाम, अरुणानि कुङ्कुमानि येषु तान्याननानि यासा ताश्च, ताश्च ताश्च गोप्यो दीपैर्दीप्ता ये काञ्च्यादिस्थिता मणयस्तैर्विरेजुरित्यन्वयः॥४५॥
तदा दध्नोनिर्मन्थनजन्यशब्देन मिश्रितःअरविन्दलोचन श्रीकृष्णमुच्चैर्गायन्तीना व्रजाङ्गनाना ध्वनिर्दिवमस्पृशत् व्याप्तवान्। येन ध्वनिना दिशाममङ्गल निरस्यते अपनुद्यते॥४६॥ ततश्च भगवति सूर्ये उदिते सति व्रजौकसो व्रजवासिगोपीजनाः नन्दद्वारि शातकौम्भ सुवर्णालङ्कृत रथ दृष्ट्वा अयं रथः कस्येति चकाराद्वक्ष्यमाण चोचुः॥४७॥ तदुक्तिमाह—‘अक्रूर’ इति सार्धेन। किं वा सोऽक्रुर पुनरागतः ? ‘कोऽसौ’ इत्यपेक्षायामाह—यः। कसस्यार्थसाधकः प्रयोजनसम्पादकः। प्रयोजनसम्पादनमेव दर्शयति—येनाक्रूरेण कसप्रयोजनसिद्ध्यर्थ कृष्णो मधुपुरीं नीतः प्रापित इति। ‘कृष्णदर्शनादिनाऽस्माकं सर्वतापनिवृत्तिरासीत् तदपहारेण तु तेन पुनर्वय सन्तप्ताः कृता ’ इति सूचयन्त्य आहुः—कमललोचन इति॥४८॥ अस्मदुःखदातृत्वेनैवास्य फलवैपरीत्यं जातम्, कंस एव मृतः। अत इदानीं तत्प्रयोजनाभावात् किमर्थ पुनरागत’ इत्यपेक्षाया प्रयोजन सम्भावयन्ति—किमिति।
उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः॥ दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम्॥४६॥ भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः॥ दृष्ट्वा रथं शातकौम्भ कस्यायमिति चाब्रुवन्॥४७॥ अक्रूर आगतः किं वा यःकसस्यार्थसाधकः॥ येन नीतो मधुपुरी कृष्ण कमललोचन॥४८॥ किं साधयिष्यत्यस्माभिर्भर्तुः प्रेतस्य निष्कृतिम्॥ इति स्त्रीणां वदन्तीनामुद्धवोऽगात् कृताह्निकः॥४९॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे नन्दादिसान्त्वननिरूपणं नाम षट्चत्वारिंशोऽध्यायः॥४६ ॥॥श्रीशुक उवाच॥ तं वीक्ष्य कृष्णानुचरं व्रजस्त्रिय प्रलम्बबाहु नवकञ्जलोचनम्॥पीताम्बरं पुष्करमालिन लसन्मुखारविन्दं मणिमृष्टकुण्डलम्॥१॥
प्रेतस्य मृतस्य भर्तुः कसस्य निष्कृतिमौर्ध्वदैहिक किमस्माभिः कृत्वा साधयिष्यति?किमस्मन्मासैः पिण्डान् कृत्वा तस्मै दास्यतीत्यर्थः। इत्येव स्त्रीणा वदन्तीना सतीना तस्मिन्नेव समये कृताह्निकः कृतस्नानादिनियमः उद्धवोऽगात्॥४९॥इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥२॥रचिता दशमे तत्र राजसरोधवर्णने॥षट्चत्वारिंशको यातो नन्दसान्त्वनबोधकः॥३॥ श्रुत्वा भ्रमरगीत तु कृष्णादेशेन गोपिका॥बोधिता इति वै सप्तचत्वारिंशे निरूप्यते॥१॥ तं कृष्णस्यानुचर सेवकमुद्धव वीक्ष्य व्रजस्त्रियः शुचि स्त्रीदर्शनेऽपि कामविकाररहित स्वाभाविक स्मित यस्य, अपीच्य स्त्रीणा मनोहरमतिसुन्दर दर्शन यस्य, अच्युतस्य कृष्णस्येव वेषःपीताम्बरादिभूषणानि च यस्य सोऽयं कः कुतश्च देशादागतः कस्य पुत्रभृत्यादिरूपः ?
स्मेति वितर्के। इत्येव वितर्कयन्त्यः उत्सुकाः तत्परिज्ञाने उत्साहवन्त्यः त परिवव्रुः परिवेष्टितवत्य इति द्वयोरन्वयः।अच्युतवेषभूषण इति तत्परिज्ञानोत्साहे हेतुरुक्तः। तमेव विवृणोति—प्रलम्बौ आजानुलम्बिनौ बाहू यस्य तम्। नवकञ्जे सद्योविकसितपद्मदले इव लोचने यस्य तम्। पीते अम्बरे यस्य तम्। पुष्करस्य कमलस्य मालाऽस्यास्तीति पुष्करमालिनम्। लसत् शोभमान मुखारविन्द यस्य तम्। मणियुक्ते मुष्टे परिशुद्धे उज्वले कुण्डले यस्य तम्। उक्त कृष्णानुचरत्वमेव स्पष्टयति—उत्तमश्लोकस्य अविद्यानिवर्त्तकयशसः श्रीकृष्णस्य चरणाम्बुज एवाश्रयो यस्य तमिति॥१॥२॥ ततश्च त रमापतेः श्रीकृष्णस्य सन्देशहर विज्ञाय रहसि एकान्ते आनीय सव्रीडेन हासेन, ईक्षणेन, सूनृतेन मधुरभाषणेन, आदिशब्देन अर्घ्यादिभिश्च सत्कृत आसने उपविष्ट अवनता कृतप्रणामा सत्यः प्रश्रयेण विनयेनापृच्छन्॥३॥ तत्प्रश्नप्रकारमेवाह—जानीम इति
शुचिस्मितः कोऽयमपीच्यदर्शनःकुतश्च कस्याच्युतवेषभूषणः॥इति स्म सर्वाः परिववुरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रयम्॥२॥तं प्रश्रयेणावनता सुसत्कृत सव्रीडहासेक्षणसूनृतादिभिः॥रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापते॥३॥जानीमस्त्वां यदुपतेः पार्षद समुपा- गतम्॥भर्त्रेहप्रेषित पित्रोर्भवान् प्रियचिकीर्षया॥४॥ अन्यथा गोव्रजे तस्य स्मरणीय न चक्ष्महे॥स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः॥५॥अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्॥पुम्भिः242स्त्रीषु कृता यद्वत्सुमनस्स्विव षट्पदैः॥६॥
यदुपतेःकृष्णस्य पार्षद सेवक समुपागत त्वां जानीमः। ‘किमर्थं समुपागतोऽहम्’ इत्याकाङ्गायामाहुः—भर्त्रेति। भर्त्रा त्वत्स्वामिना तेन स्वपित्रोर्नन्दयशोदयोः प्रिय कर्तुमिच्छया भवानिह प्रेषितः प्रस्थापितः॥४॥ ‘कुतोऽयं निश्चय’ इत्यत आहु—अन्यथेति। पित्रोः प्रियचिकीर्षामन्तरेण तस्य कस हत्वा वशीकृतराज्यस्य यदुपतेर्गोव्रजे पशुपयोग्ये स्थाने स्मरणीय किञ्चिन्न चक्ष्महे न पश्यामः। ‘तर्हि पित्रोरपि स्मरण मा भूत्’ इत्याशङ्क्याहुः—स्नेहेति। बन्धूना पित्रादीना सम्बन्धी यः स्नेहरूपोऽनुबन्धः पाश स सहजत्वान्मुनेः मननशीलस्य विरक्तस्य सन्यासिनोऽपि दुस्त्यजस्त्यक्तुमशक्य॥५॥अन्यत्र स्नेहस्योपाधिकत्वमाह—अन्येष्विति। बन्धुव्यतिरिक्तेषु मैत्री स्नेहःअर्थकृता प्रयोजनप्रयुक्ता। अतो यावदर्थविडम्बन यावत् प्रयोजनं
तावत् स्नेहानुकरणमात्रम्। प्रयोजनसिद्ध्यर्थं स्नेहप्रदर्शनम्, न तात्विकः स्नेह इत्यर्थः। तत्र दृष्टान्तद्वयमाहुः—पुम्भिः स्त्रीषु कृता यद्वत् यथा कामनिमित्ता मैत्री कामे निवृत्ते तु सापि निवर्त्तते। ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति शास्त्रेणापि निष्कामस्य स्त्रीपरित्यागविधानात्॥ सुमनस्सु पुष्पेषु षट्पदैर्भ्रमरैः कृता यथा मकरन्दनिमित्ता, मकरन्दग्रहणानन्तर तदभावदशाया वा तत्परित्यागदर्शनात्। पुष्पनाशेऽपि क्लेशादर्शनाच्च॥६॥ उदाहरणान्तरैर्यावदर्थविडम्बनमेवान्यत्र मैत्र्याःप्रदर्शयन्ति निःस्वमिति श्लोकद्वयेन। प्रथम धनवन्त पुरुषं स्वदेहमपि तदधीन कृत्वाऽनुवर्तमाना अपि गणिका वेश्यास्तद्धन गृहीत्वा न विद्यते स्व धन यस्य तथाभूत पश्चात्त्यजन्ति। ‘समबुद्ध्याऽनुवर्तमानानामेवं त्यागो भवतु, उत्कृष्टभावेनानुवृत्तौ तु स न स्यात्’ इत्याशङ्क्याहुः—अकल्पमिति।पालनपोषणादिसामर्थ्यदशाया नृपतिमनुवर्तमाना अपि प्रजाः पश्चाद्दैवयोगेन अकल्प पालनाद्यसमर्थं त त्यजन्ति। ‘लोके एवं कापट्या- त्त्यागो भवतु, वैदिके सदाचारे तु स न स्यात्’ इत्याशङ्क्याहुः—अधीतेति। पूर्वमध्ययनदशाया आचार्य “उपनीय तु यः शिष्य वेदमध्यापयेद्द्विजः। संकल्प सरहस्य च तमाचार्यं प्रचक्षते” इत्युक्तलक्षण गुरुमनुवर्तमाना अपि शिष्याः पश्चात् अधीता
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजा॥ अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम्॥७॥
खगा वीतफल वृक्ष भुक्त्वा चातिथयो गृहम्॥ दग्धं मृगास्तथाऽरण्यं जारो भुक्त्वा रतां स्त्रियम्॥८॥
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः॥ कृष्णदूते व्रज याते उद्धवे त्यक्तलौकिकाः॥९॥
विद्या यैस्तथाभूताः सन्तस्त त्यजन्ति। ननु ‘शब्दव्यवहारे एव भवतु, अनुष्ठानव्यवहारे स न स्यात्’ इत्याशङ्क्याहुः—ऋत्विज इति। पूर्व यज्ञादि- कर्मानुष्ठानेन यजमानमनुवर्तमाना अपि ऋत्विजः पश्चाद्दत्ता दक्षिणा येन त लब्धदक्षिणाः सन्तस्त्यजन्ति॥७॥ तथा खगाः प्रथम सफल वृक्ष सेवमाना अपि वीतफल फलरहित त त्यजन्ति। ‘विवेकहीनानामेव एव व्यवहारः, विवेकिनामय न स्यात्’ इत्याशङ्क्याहुः—भोजनात् पूर्वमुपविष्टा अपि अतिथयो भुक्त्वा च गृह त्यजन्ति। तथा हरिततृणेऽरण्ये विचरन्तोऽपि मृगा दग्ध तत्त्यजन्ति। जारःकामान्धः परस्त्रीभोक्ता भोगात् पूर्व तस्या प्रीतियुक्तोऽपि भुक्त्वा च कामनिवृत्तौ रतामतृप्तामपि ता त्यजति॥८॥ तस्य श्रीकृष्णस्य कैशोरबाल्ययोरवस्थयोर्यानि प्रियाणि कर्माणि तानि सस्मृत्य सस्मृत्य गायन्त्यो रुदन्त्यश्च गोप्य कृष्णदूते उद्धवे व्रज याते आगते तमित्येवमपृच्छन् इति पूर्वेणैवान्वयः। ‘कथमेव परपुरुष॥२१८॥ प्रति प्रश्नः सम्भवति इत्याशङ्क्याह—गतह्निय इति। परित्यक्तलज्जाः॥तत्र हेतुमाह—त्यक्तलौकिका इति। लोकव्यवहारानुसन्धानरहिताइत्यर्थः। तत्रापि हेतुमाह—गोविन्द इति। गोविन्द एव गतानि निविष्टानि वागादीनि तद्व्यापाराश्चयाता ताः। हिशब्दो युक्तिसूचकः।
युक्तश्चायमर्थः। अन्यत्रासक्तमनसामन्यानुसन्धानाभावस्य प्रसिद्धत्वादित्याशयः॥९॥१०॥ तत्र काचिद्गोपी कृष्णसङ्गम ध्यायन्ती मधुकर भ्रमर दृष्ट्वा त प्रियेण श्रीकृष्णेन प्रेषित प्रस्थापित दूत कल्पयित्वा साक्षादुद्धव प्रत्येव कथनस्यानुचितत्वात् तस्मिन्नुद्धवे दृष्टि कृत्वा तदपदेशेन उद्धवमेव इदं वक्ष्यमाणमब्रवीदित्यन्वयः॥११॥ तद्भ्रमरगीतमेव दर्शयति—मधुपेति दशभिः। तत्र चरणनिकटमागच्छन्त विलोक्याह—हे मधुप भ्रमर !हे कितवस्य धूर्तस्य वञ्चकस्य बन्धो कार्यसाधक मित्र !अस्मत्सपत्न्या कुचाभ्या विलुलिता आलिङ्गनदशाया सम्मर्दिता या माला तस्याः कुङ्कुम कुचसम्बन्धात्ततो मालाया प्राप्त यत्कुङ्कुम तद्येषु तैः श्मश्रुभिर्नोऽस्माकमङ्घ्रिमा स्पृशेत्यन्वयः। ‘सपत्न्या’ इत्यादिना चरणस्पर्शनिषेधे हेतुः सूचितः, ईर्ष्या च प्रदर्शिता। ‘आयास्ये’ इत्युक्त्वा गतस्य तस्य रूयन्तरसम्बन्धकथनाद्भगवतो धूर्तत्व स्पष्टीकृतम्। ‘मधुप’ इति सम्बोधनेन केवल मध्वर्थित्वात्त्वमपि धूर्तोऽविश्वसनीय एवेति सूचितम्। ननु ‘युष्मत्प्रसादार्थ कृष्णप्रेषितेन मया युष्मदङ्घ्रिस्पर्शो युक्त एव’ इत्याशङ्क्याह—वह-
गायन्त्यःप्रियकर्माणि रुदन्त्यश्च गत
न्हियः॥ तस्य सस्मृत्य सस्मृत्य यानि कैशोरबाल्ययोः॥१०॥काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्॥प्रियप्रस्थापित दूतं कल्पयित्वेदमब्रवीत्॥११॥ गोप्युवाच॥मधुप कितवबन्धो मा स्पृशाङ्घ्रिसपत्न्याःकुचविलुलितमालाकुङ्कुमश्मश्रुभिर्न॥वहतु मधुपतिस्तन्मानिनीनां प्रसाद यदुसदसि विडम्ब्य यस्य दूतस्त्वमीदृक्॥१२॥सकृदधरसुधां स्वां मोहिनी पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक्॥परिचरति कथं तत्पादपद्म नु243पद्मा ह्यपि बत हृतचेता उत्तमश्लोकजल्पैः॥१३ ॥
त्विति। मधवो यादवाः तेषां पति कृष्णः यदि व्रजपतित्व विहाय यदुपतिर्जातस्तदा तासा मानिनीना मानवतीना पुरस्त्रीणामेव प्रसादन वहतु करोतु, किमस्माकं वनचरीणा प्रसादनेन? तादृङ्मानाभावादित्याशयः। किञ्च यस्य दूतस्त्वमीदृक् स्त्रीकुचकुङ्कुमयुक्तश्मश्रुवास्तस्य यदुसदसि उपहासास्पदत्वमेव स्यात्॥१२॥ ननु ‘किमिति एवमवजानीथ? किं वस्तेनापकृतम्?’ अत आह—सकृदिति। सकृदैकदेव स्वामधरसुधामस्मान् पाययित्वा सद्यः अविलम्बेनैव तत्यजे। त्यागमात्रे दृष्टान्तमाह—सुमनस इवेति। भवादृक्। त्वादृशः कृतघ्नो भ्रमरो यथा रस पीत्वा सुमनसः कुसुमानि त्यजति तद्वत्। अयं तु पाययित्वा तत्यजे एतावास्तु विशेषः। ‘तस्य तर्हि कोऽपराध ? नहि तेन युष्माकं किञ्चिदपि गृहीतम्’ इत्याशङ्क्याह— मोहिनीमिति। लोक वेदमर्यादाविस्मारिकामित्यर्थ। अतो यल्लोभेन लोकद्वय नष्ट तदपि सुख न लब्धमित्यस्माक सर्वस्वहानिर्जातेत्याशयः। आश्चर्यमाह—
परिचरतीति। वयमनभिज्ञत्वादेव वञ्चिताः। पद्मा सर्वोत्तमा परमचतुरा लक्ष्मीस्तस्य कृतघ्नस्य पादपद्म कथं नु परिचरति सेवते ?। एवमाश्चर्य कृत्वा स्वयमेव तत्र कारण तर्कयन्त्याह—अपि बतेति। अपीति सम्भावनायाम्। बतेति वितर्के। एवमेव सम्भवतीत्यर्थः। उत्तमश्लोकाः पुण्यकीर्तिमन्तो ये तद्भक्ता नारदादयस्तेषा जल्यैः श्लाघावचनैर्हृतमाकृष्टं चेतो यस्यास्तथाभूता सत्येव तत्पादपद्म सेवते इत्यन्वयः। हीत्यवधारणे॥१३॥ ‘बहुधाझङ्कार कुर्वाण तमस्मत्प्रसादलाभार्थ श्रीकृष्ण गायति’ इति मत्वाह—किमिति। ‘गमनसाधनाना चरणाना बहुत्वादन्यत्र कुतो न गच्छसि’ इति सूचयन्ती सम्बोधयति—हे षडङ्घ्रे इति। इह नोऽस्माकमग्रतो यदूनामधिपतिं व्रजाधिपतित्वं विहाय स्वीकृतयदुपतित्वं कृष्ण किमर्थं बहु गायसि ? ‘किञ्चिल्लाभार्थम्’ इति चेत् ‘गृहे स्थिता एव दाने समर्था भवन्ति, वयं तु तदर्थ त्यक्तगृहाः तेनत्यक्ताश्च। अतो न किमपि दातु समर्था’ इत्याशयेनाह—अगृहाणामिति। किंच ‘नवीनगानश्रवणे आह्लादो भवति, तत्कापट्यस्य तु बहुशोऽनु भूतत्वात् किं तद्गानश्रवणेन’ इत्याशयेनाह—पुराणमिति। अतो यदि किंचित् प्राप्तुमिच्छसि तर्हि विजयस्यार्जुनस्य सखा यःकृष्णस्तस्य सखीनामग्रे तस्य कृष्णस्य प्रसङ्गो गीयताम्। ताश्चेष्टास्तद्गानेन सत्कृतास्ते तव
किमिह बहु षडङ्घ्रेगायसि त्वं यदूनामधिपतिमगृहाणामग्रतो नः पुराणम्॥
विजयसखसखीनां गीयतां तत्प्रसङ्ग क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः॥१४॥
दिवि भुवि च रसायां का स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याःस्युः॥
चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः॥१५॥
इष्ट कल्पयन्ति शीघ्रं सम्पादयिष्यन्ति। शैध्यद्योतनार्थो वर्तमानप्रयोगः। तत्र हेतुमाह—तदालिङ्गनेन क्षपिता दूरीकृता कुचरुक् यासां ता इति। कृष्ण- कृतसन्मानेन सर्वसम्पादने समर्था इत्याशयः॥१४॥ननु ‘यदि पुरस्त्रियस्तस्य सुलभाः स्युस्तदा तेन सन्मानिता मदिष्ट साधयेयुः, परंतु ता एव तस्य दुर्लभाः, अत एव युष्मान् प्रसादयितु मा प्रेषितवान्’ इत्याशङ्क्याह—दिवीति। दिवि स्वर्गे, भुवि भूलोके, रसाया रसातले, अधोलोके च याः स्त्रियः स्युस्तासा मध्ये काः स्त्रियः तदिति पृथक्पदमव्यय तस्य श्रीकृष्णस्य दुरापा दुर्लभाः ?न का अपि दुर्लभाः, किन्तु सर्वा अपि सुलभा एवेत्यर्थः। तत्र हेतु ब्रुवती विशिनष्टि—कपटपूर्वको यो रुचिरो मनोहरो हासस्तत्पूर्वको भ्रूविजृम्भः भोगादिसूचको भ्रूविलासो यस्य तस्येति। भूतिःसर्वोत्तमा सर्वोपास्या।सर्वसम्पदधिष्ठात्री लक्ष्मीरपि यस्य चरणरज उपास्ते सेवते, तत्र वयं काः किं दुर्लभाः कथं प्रार्थनीयाः? ‘एव चेत्तर्हि कथं पूर्व तेन यूयमङ्गीकृताः’।इत्यपेक्षायामाह—अपि चेति। उत्तमस्त्रीणा तत्सुलभत्वेऽपि कृष्णपक्षे दीनानुकम्पिनि पुरुषे एव यत उत्तमश्लोकशब्दः प्रवर्तते महायशा इति व्यवहारो भवतीति स्वयशोविस्तारायैवास्मानङ्गीकृतवान्, नास्मत्सुखार्थः। अन्यथा त्यक्त्वा न गच्छेदित्याशयम्॥१५ ॥
पादमूले प्रविशन्त क्षमापयिष्यन्तमिव मत्वाह—विसृजेति। बलाच्छिरसि न्यस्त पाद विसृज त्यज। ननु ‘भवतीभिरुक्तमेव करिष्यामीति, किमेवं तिरस्कारेण’ इत्याशङ्क्याह—वेद्मीति। मुकुन्दादभ्येत्य शिक्षित्वा आगतस्य दौत्यैर्दूतकर्मभिश्चाटुकारैः प्रियवचनैश्चानुनयविदुषः प्रार्थनाचतुरस्य ते सर्वं कपटमह वेद्मि। मुकुन्दवत् त्वमपि न विश्वसनीय इति भाव। ननु ‘तेन किमपराद्धम्, येनैव तिरस्क्रियते ?‘तत्राह—स्वकृत इति। स्वकृते तदर्थमेव विसृष्टानि उपेक्षितानि अपत्यानि पतयोऽन्ये च लोका धर्मसाध्याः स्वर्गादयो याभिस्ता अस्मान् इह व्रजे व्यसृजत्तत्याज अयमहानपराधः। त्यागे हेतुमाह—अकृतचेता इति। न कृते उपकारे चेतो यस्य सः, कृतघ्न इत्यर्थः। अतोऽस्मिन् किं नु सन्धेय सन्धिना साध्यम् ? नहि कृतघ्ने सन्धिरुचितः। न वा कृतोऽपि स इष्टसाधनमित्याशयः॥ १६॥ ‘न केवल कृतघ्नएव, अपि तु क्रौर्यादिगुणयुक्तश्च’ इत्याह—मृगयुरिवेति। मृगयुर्व्याध इव सुग्रीवमग्रे कृत्वा स्वयं विलीनः सन् कपीन्द्र स्वापराधरहित वालिन विव्यधे जघान। ननु ‘मासार्थ हरिणादयो
विसृज शिरसि पादं वेद्मयह चाटुकारैरनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्॥
स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेताः कि नु सन्धेयमस्मिन्॥ १६॥
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितःकामयानाम्॥
बलिमपि बलिमत्त्वाऽवेष्टयद्ध्वाङ्क्षवद्यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थ॥ १७॥
राजादिभिर्हन्यन्ते एव तेन को दोष’ इत्यत आह—अलुब्धधर्मेति। न लुब्धस्य सम्भावितो धर्मोयस्य सः। लुब्धको हि मासमत्तु मृगान् हन्ति, अय तु न तथा, कपिमासस्याभक्ष्यत्वात्। अतो वृथाकाठिन्यादिमानिति भावः॥ तथा स्त्रिय शूर्पणखा विरूपामकृत छिन्नकर्णनासिकामकरोदित्यर्थ। ‘तथाकरण तस्य अनुचितम्’ इत्याशयेनाह—कामयानामिति। काम एव यान प्राप्तिसाधन यस्यास्तामित्यर्थः। ननु ‘विरक्तस्य तन्निरासोऽपि युक्त एव’ इत्याशङ्क्याह—स्त्रीजित इति। सीतापरतन्त्रइत्यर्थः। एव दाशरथीरामरूपेण अनर्थ कृतवान्॥ तथा वामनरूपेणापि बलि वैरोचनिसमर्पिता भूम्यादिपूजा अत्त्वा परिगृह्य त बलिमावेष्टयत् पाशैर्बबन्धेत्यर्थः। तत्र दृष्टान्तमाह—ध्वाङ्क्षवदिति। ध्वाङ्क्षःकाकः स यथा किश्चिद्भुक्त्वापि स्वामिन पुनरावेष्टयति तद्वदित्यर्थः। य इत्थ दुःखदस्तत्तस्य असितस्य कृष्णस्य सख्यैर्मैत्रीभिरलं पूर्णम्, न किञ्चित्प्रयोजनमित्यर्थः। ननु ‘एव चेत्तर्हि तत्कथयापि किमन्यैव कथा कथनीया’ इति चेत्तत्राह—दुस्त्यज इति। तस्य कथारूपोऽर्थो दुस्त्यजस्त्यक्तुमशक्य इत्यर्थः॥ १७॥
न केवलं वयमेव तत्कथया विक्षिप्ताः, किंतु बहवो जनाः। यस्यानुचरितमेव लीलापरमानन्दजनकम्। अत एव कर्णयोः पीयूषममृत तस्या विप्रुट् कणिका तस्याः सकृत अदन सेवन तेन विधूता निरस्ता द्वन्द्वधर्मा रागद्वेषक्षुत्पिपासादयो येषां ते। अतएव अहंकारनिरासाद्विनष्टाःअसत्तुल्या अचेतनप्रायाःसपदि शीघ्रमेव दीन दुःखितमपि गृहे स्थित कुटुम्ब विहाय दयारहिताः स्वयमपि दीना भोगहीना विहङ्गाः पक्षिण इहलोके भिक्षुचर्या चरन्ति प्राणवृत्तिमात्र कुर्वन्तीत्यर्थः। अतो यद्यपि त्याज्य एव तत्कथार्थः, तथापि त्यक्तु न शक्नुमः। किं कुर्म इति निन्दापरोऽर्थः ॥ पारमार्थिकस्त्वयमर्थः—विधूतद्वन्द्वधर्मा इत्यन्त समासः पूर्ववत्, ततस्ते च ते अविनाष्टश्चेति समासः। इतरे तु द्वन्द्वधर्माणो विनष्टा एवेत्यर्थात्सूचितम्। ते सपदि तत्क्षणमेव दीन तुच्छ गृहसहित कुटुम्ब विहाय किञ्चित्सङ्ग्रहाभावाद्दीना इव ‘धीरा’ इति पाठान्तरम्, विहङ्गा हसा इव सारासारविवेकचतुरा भिक्षुचर्यांचरन्ति।
यदनुचरितलीलाकर्णपीयूषविप्रुट्सकृददनविधूतद्वन्दधर्मा विनष्टाः ॥
सपदि गृहकुटुम्ब दीनमुत्सृज्य दीना244 बहव इव विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८ ॥
वयमृ245तमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाःकृष्ण्वध्वो हरिण्यः॥
ददृशुरसकृदेतत्तन्नखस्पर्शतीव्रस्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९ ॥
तस्मादेव परमपुरुषार्थरूपत्वाद्दुस्यज एव तत्कथार्थः, कथं त त्यजाम इति ॥१८॥ ‘तर्ह्येव विचक्षणा यूय कथं तद्वश गता’ इत्यत्राह—वयमिति। जिह्मस्य कुटिलस्य तस्य व्याहृत ‘न मयोदितपूर्व वा अनृतम्’ इति साधनकाले, ‘नपारयेऽह निरवद्यसयुजाम्’ इति फलकाले च वाक्यद्वय वस्तुतोऽनृतमपि ऋत सत्यमिति श्रद्दधाना वयं तस्य नखस्पर्शैर्नखक्षतैस्तीव्रास्मररुक् स्मरपीडा यासा तथाभूताः असकृत् पुनःपुनरेतदुःखमेव ददृशिम अद्राक्ष्म। तत्र दृष्टान्तमाह—कुलिकरुतमिति। कृष्णस्य हरिणस्य वध्वो हरिण्यो यथा कुलिकस्य व्याधस्य रुत मधुरगान श्रुत्वा मोहितास्तत्समीप गता बाणवधादिदुःखमेवानुभवन्ति तथेत्यर्थः। तथामोहे हेतुमाह—अज्ञा इति। ‘कृष्णवध्व’ इति नाम्नापि साम्यता दर्शिता। ‘सुदूतस्य तव अस्मद्धिताचरणमेव युक्तम्’इति सूचयन्ती सम्बोधयति—उपमन्त्रिन्निति। तद्वार्तायास्तत्स्मारकत्वेन दुःखहेतुत्वादन्यवार्ता भण्यता कथ्यताम् ॥ १९ ॥
परावृत्य पुनरागत प्रत्याह—प्रियसखेति। हे प्रियस्य सखे ! प्रेयसा प्रियतमेन कृष्णेन प्रेषितस्त्व पुनरागाः आगतः, तर्हि हे अङ्ग !मे मम त्व माननीयोऽसि पूज्योऽसि, अतः यत्किञ्चिदवरुन्धे भवान् प्राप्तुमिच्छति तद्वरय वृणीष्व। ‘भगवत्समीपे युष्याक नयनामिच्छामि’ इति चेत्तत्राह—नयसीति। ‘त्वमपि सौम्यस्वभावोऽसि, अतो विचारय सापन्यदुःख कथं सोढव्यम्’ इत्याशयेन सम्बोधयति—हे सौम्येति। इहास्मिन्नपि काले दुस्त्यज द्वन्द्व मिथुनीभावो यस्य तस्य पार्श्व समीपमस्मान् कथं नयसि नेष्यसि ?। ‘तत्र को दोष’ इत्यपेक्षायामाह—श्रीलक्ष्मीर्नाम वधू साक सहैव तत्राप्युरस्येव सतत निरन्तरमास्ते इति॥ २०॥ प्रणयकोप विहाय शान्ता सत्याह—अपीति सम्भावनायाम्, बतेति हर्षे, नन्विति वितर्के। उद्धवे स्वस्नेह सूचयन्ती सम्बोधयति—सौम्येति। आर्यस्य पूज्यस्य नन्दस्य पुत्रः भक्तत्वेन स्वीकृतत्वान्नामाग्रहणम्, उपनीत सन् विद्याग्रहणार्थ गत इति श्रुतम्। ततो गुरुगृहादागत्य
प्रियसख पुनरागाःप्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग॥नयसि कथमिहास्मान् दुस्त्यजद्वन्दपार्श्वं सततमुरसि सौम्य श्रीर्वधूःसाकमास्ते॥२०॥ अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते स्मरति स पितृगेहान् सौम्य बन्धूश्च गोपान्॥ क्वचिदपि स कथा न किङ्करीणां गृणीते भुजमगुरुसुगन्ध मूर्ध्न्यधास्यत् कदा नु॥२१॥ श्रीशुक उवाच॥ अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः॥ सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत॥२२॥ उद्धव उवाच॥ अहो यूय स्म पूर्णार्थाभवत्यो लोकपूजिताः॥ वासुदेवे भगवति यासामित्यर्पित मन॥ २३॥
अधुना किं मधुपुर्यामास्ते ?पितृभ्या गेहैश्व सहितान् बन्धून् गोपान् किं स्मरति ?क्वचित कदाचिदपि किङ्करीणां नोऽस्माकं कथा वार्तां स गृणीते ?।एव वृत्त पृष्ट्वा मनोरथं करोति—कदा वा अगुरुवत् सुगन्ध स्वभुज नो मूर्ध्नि अधास्यत् निधास्यति इति॥ २१॥ एव कृष्णस्य दर्शने लालसा औत्सुक्य यासां तथाभूता गोपीर्निशम्य दृष्ट्वाअथ गोपीवाक्यश्रवणानन्तर प्रियस्य कृष्णस्य सन्देशैस्ताः सान्त्वयन्नुद्धव इदंवक्ष्यमाणमभाषत॥२२॥ तद्भाणमेत्र दर्शयति— अहो इति षड्भिः। घोषवासिनीनामेवभक्तेर्दुर्लभत्वात्ता दृष्ट्वाऽऽश्वर्य सूचयति—अहो इति। स्मेति निश्रये। पूर्ण अर्थः पुरुषार्थो यासा तथाभूता यूयम्, तथा भवत्यो लोकेषु पूजिताःपूजायोग्याः। उभयत्र हेतुमाह—वासुदेव इति। भगवति ऐश्वर्यादिषड्गुणपूर्णे वासुदेवे वसुदेवनन्दने श्रीकृष्णे यासा युष्माकमित्येवमनन्यवृत्तिक मनोऽर्पित स्थिरीकृतम्॥ २३॥
कथं तदर्पणमात्रेण पूर्णार्थत्वं लोकपूज्यत्व च’ इत्यत आह—दानेति। दानादिभिर्या कृष्णे भक्तिःसाध्यते सा एव अनुत्तमा न उत्तमा यस्याः सर्वपुरुषार्थ- श्रेष्ठा भक्तिर्भगवति भवतीभिःप्रवर्तितेति दिष्टया महानानन्दो जात इति द्वयोरन्वयः। ‘दानादीना भक्तिसाधनत्व सर्वशास्त्रप्रसिद्धम्’ इति सूचयति—हीति। दान तुलापुरुषादिदानम्, व्रत एकादश्यादि उपवासः, तपः कृच्छ्रचान्द्रायणादि, होमः अग्निहोत्रादिः, जपः मन्त्रादि’ स्वाध्याय स्वाधिकारानुरूप- वेदाध्ययनादि, संयमः इन्द्रियादिनिग्रहः, अन्यानि च विविधानि श्रेयःसाधनानि कूपारामनिर्माणादीनि, तै। भक्तेरुत्तमत्वमेव स्पष्टयति—मुनीनामपि दुर्लभेति। तत्र हेतुत्वेन भगवन्त विशिनष्टि—उत्तमश्लोक इति। उत्तमः अविद्यानिवर्तकः श्लोको यशो यस्य तस्मिन्नित्यर्थः॥ २४॥॥ २५॥ तासा भक्तिमेव दर्शयति—दिष्ट्येति। यत् यस्मात् पुत्रादीन् हित्वा त्यक्त्वा पर पुरुषं श्रीकृष्णाख्य अवृणीत वृतवत्यः, अतः पूर्णार्था
दानव्रततपोहोमजपस्वाध्यायसमै॥ श्रेयोभिर्विविधैश्चान्यैःकृष्णे भक्तिर्हि साध्यते॥२४॥
भगवत्युत्तमश्लोके भवतीभिरनुत्तमा॥भक्ति प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा॥२५॥
दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च॥ हित्वाऽवृणीत यूयं यत् कृष्णाख्य पुरुषं परम्॥२६॥
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे॥ विरहेण महाभागा महान् मेऽनुग्रहःकृतः॥२७॥
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः॥ यमादायागतो भद्रा अह भर्त्तूरहस्कर॥२८॥
लोकपूजिताश्चत्यन्वय॥२६॥ तासा भक्तिदर्शनेन स्वस्यापि भक्तेरुद्बोधादात्मनः कृतार्थतामाह—सर्वात्मभाव इति। अधोक्षजे विषयाविष्टचित्तानामिन्द्रियजन्यज्ञानाविषयेऽपि श्रीकृष्णे भवतीना सर्वात्मभावः सर्वतोऽधिकस्नेहरूप एकान्तभक्तियोगः अधिकृतः प्राप्तः। ‘अतो युष्मद्भाग्य तु किं वक्तव्यम्’ इत्याशयेन सम्बोधयति—महाभागा इति। विरहेण हेतुना स्वसर्वात्मभावप्रदर्शनेन भवतीभिर्मे मह्यमपि महाननुग्रहः कृतः, तेनाहमपि कृतार्थो जात इत्यर्थः॥२७॥ हे भद्राः कृतार्थाः। य सन्देशमादाय अहमागतोऽस्मि, स भवतीना सुखावहः प्रियस्य श्रीकृष्णस्य सन्देश श्रूयतामित्यन्वयः। ‘साधारणपुरुष प्रति रहस्योक्त्यसम्भवादिदानीं तेनापि साधारणेनापि सन्देशेन किम्’ इति शङ्का वारयन् आत्मान विशिनष्टि—भर्त्तूरहस्कर इति। श्रीकृष्णस्य रहस्यकार्यकर्तेत्यर्थः॥२८॥
तत्सन्देशमेवाह—भवतीनामिति सार्धनवभिः। भवतीना मे मया सह वियोग क्वचित् कस्मिन्नपि देशे काले च नहि नास्त्येवेत्यर्थः। तत्र हेतुमाह—सर्वात्मनेति। भावप्रधानोऽय निर्देशः। मम सर्वात्मत्वेनेत्यर्थ॥२९॥ एतदेव दृष्टान्तेन स्पष्टयति—यथेति। यथा भूतेषु चराचरेषु महाभूतानि तदाश्रयतया स्थितानि तथाऽहमपि मनआदीनामाश्रय इत्यन्वयः। भूतान्येव दर्शयति—ख आकाशः, वायुश्च, अग्निश्च, जल च, मही च॥३०॥ ननु ‘आकाशादीना चराचरसर्वोपादानत्वात्तदाश्रयत्व सम्भवति, तव कथं मनआद्याश्रयत्वम्’ इत्याशङ्क्य स्वस्यापि तदुपादानत्वादिकमाह—आत्मन्येवेति। आत्ममायानुभावेन स्वसङ्कल्पमात्रेण आत्मन्येवाधारे आत्मनैव साधनान्तररहितेन आत्मानमेव भतादिरूपेण सृजे
॥ श्रीभगवानुवाच॥ ^(१)भवतीनांवियोगो मे न हि सर्वात्मना क्वचित्॥२९॥
यथा भूतानि भूतेषु खं वाय्वग्निर्जल मही॥ तथाऽह च मनःप्राणभूतेन्द्रियगुणाश्रय॥३०॥
आत्मन्येवाऽऽत्मनाऽऽत्मान सृजे हन्म्यनुपालये॥ आत्ममायानुभावेन भूतेन्द्रियगुणात्मना॥३१॥
आत्मा ज्ञानमय शुद्धो व्यतिरिक्तोऽगुणान्वयः॥ सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते॥३२॥
सृजामि, तदनु अनन्तर पालये पालयामि, हन्मि च इत्यन्नयः। ‘बुद्धीद्रिय’ इति पाठान्तरम्॥३१॥ ननु ‘एव सर्वस्यैकात्मत्वे जीवात्मनोऽपि जाड्यादिदोषप्रसङ्ग स्यात् तत्राह—आत्मेति। जीवात्मा तु शुद्धः। तत्र हेतुः—अगुणान्वय इति। न गुणेषु सत्त्वादिषु अन्वेतीति तथा प्राकृतगुणगत—विकारादिदोषरहित इत्यर्थः॥ तत्र हेतुः—व्यतिरिक्त इति। गुणकार्याव्यतिरिक्त इत्यर्थः॥ तत्रापि हेतुः—ज्ञानमय इति। ज्ञानस्वरूप इत्यर्थ॥ ननु ‘जाग्रदादिनानावस्था जीवस्य प्रसिद्धैव, कुतः शुद्धता’ इति चेत्तत्राह—सुषुप्तीति। मायावृत्तिभिः प्रकृतिपरिणाममनोवृत्तिभि विश्वतैजसप्राज्ञरूपेण
_________________________________________________________________
^(१)“भवतीनाम्। वियोग स्वाभाविक औपाधिक अज्ञातश्चेति त्रेधा भवति। आत्मना जीवानामेकत्वात्परस्पर भेदाभावेऽपि ओपाधिको भेदोऽस्ति तत्रोपाधय उद्गमो वा माया वा भगवदिच्छा वा अज्ञान वेति वादान्तर जीवब्रह्मणोस्तु भेदे अज्ञानमेव हेतु सुरा वियोगे ब्रह्मणस्तु तदुभयाभावात्। न जीवै सह कथंचिद्भेद भगवास्त्यक्त्वागत इति हि ईर्ष्यादौहेतु स नापि त्यजति नापि त्याग मन्यते। जीवास्तु भगवन्त त्यक्ष्याम इति वदन्तो भ्राता एव। अतोऽयमर्थो निरूपणीय। तत्र द्वेधापि प्रतिजानीते। भवतीना वियोगो मम नास्ति मम च वियोगो भवतीना नास्ति। एकत्र कृतघ्नता अपरत्र दुःखं च फलति। वस्तुरूपेण वियोगाभावेऽपि एकदेशेन वृक्षकपिवियोगवत्कालभेदेन च स्त्रीपुरुषवञ्च वियोग संभवति। तदुभयं निषेधति। नहि सर्वात्मनेति। क्वचिदिति काले सर्वात्मना केनाप्यशेनेति देशे एव चतुर्धा भवति। अत्र प्रयोगसाधनचतुष्टयप्रतिपादक अधर्म चरितमिति प्रतिभाति आत्मत्वात् भक्तवश्यवात् सत्यवाक्यत्वात् स्वभावत इत्येवरूप गोपिकावियोगो भगवतो नास्ति भगवानात्मेति भगवद्वियोगश्च न गोपिकाना भक्तवश्यत्वात्। कालभेदेनापि न वियोग। न पारयेऽहमिति। न ह्येतावदुक्त्या एतावदर्थे तासामिच्छा किं न पूरयेत्। भगवतश्चाय स्वभाव यत् स्त्रीषु कृपावान् अत केनाप्यशेन ता न परित्यजति”। इति सुबोधिनी।
प्रतीयते, न स्वत इत्यर्थः। तत्र जाग्रदवस्थापन्नो विश्व, स्वप्नावस्थापन्नस्तैजसः, सुषुप्त्यवस्थापन्नः प्राज्ञः। तथाच देवोऽह मनुष्योऽहं काणोऽहं , बधिरोऽहं सुख्यहं दुःख्यहं बुभुक्षितोऽहम् ’ इत्यादिप्रतीतिरपि देहेन्द्रियान्तःकरणाध्यासादेव, न स्वत इति बोध्यम्॥३२॥ ‘कथं तर्ह्यध्यासनिवृत्त्या कृतार्थता’ इत्याकाङ्क्षायामाह—येनेति। येन मनसा इन्द्रियार्थान् शब्दादीन् ध्यायेत चिन्तयेत् ध्यायश्च सन् इन्द्रियाणि प्रतिपद्यते, इन्द्रियाणीतिदेहादेरप्युपलक्षणम्, देहेन्द्रियाद्यध्यास प्राप। अतोऽध्यासनिवृत्त्यर्थ तन्मनो निरुन्ध्यात् शब्दादिविषयेभ्यो निवर्त्य वश नयेदित्यर्थ। ननु ‘तत्तद्विषयाणा तद्ग्राहकेन्द्रियान्तः- करणाना च सत्त्वे कथं मनसस्ततो निरोधःसम्भवति’ इत्याशङ्क्य ‘विविक्तात्मज्ञानेन तत् सम्भवति’ इति दृष्टान्तेनाह—मृषेति। विगतनिद्र स्वापादुत्थितो यथा मृषा मिथ्याभूत स्वप्न ध्यायन्नपि न तत्र सज्जते किन्तु ततो मनोरोधमेव करोति, तथा शब्दादिश्रवणादेरिन्द्रियधर्मत्वात्तज्जन्यसुखादेरन्तःकरणधर्मत्वा- च्चात्मनस्तेन प्रयोजनाभावात् प्रत्युत बन्धहेतुत्वाच्च विविक्तात्मज्ञानवान् विषयेभ्यो मनो निरुन्ध्यादित्यर्थः॥ ३३॥ ननु ‘बहूनि मोक्षसाधनानि महद्भिरुपदिष्टानि, तत्कथं निरोधमात्रेण कृतार्थता इत्युच्यते’ इत्याशङ्क्य ‘साधनान्तराणा मनोनिरोधे एव
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थित॥ तन्निरुन्ध्यादिन्द्रियाणि विनिद्र प्रत्यपद्यत॥ ३३॥
एतदन्त समाम्नायो योग साङ्ख्य मनीषिणाम्॥ त्यागस्तपो दमः सत्य समुद्रान्ता इवापगा॥ ३४॥
यत्त्वह भवतीनां वै दूरे वर्ते प्रियो दृशाम्॥ मनसः सन्निकर्षार्थ मदनुध्यानकाम्यया॥ ३५॥
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते॥ स्त्रीणां च न तथा चेत सन्निकृष्टेऽक्षगोचरे॥ ३६॥
पर्यवसानात् मनोनिरोध एव साक्षात्साधनम् ’ इत्याह—एतदन्त इति। समाम्नायो वेदः वेदोक्तसाधनकलाप, योगो यमनियमाद्यष्टाङ्गः, साङ्ख्य साङ्ख्यो- क्तात्मानात्मविवेकः, त्यागो दानम्, तपः अनशनादि, दमः इन्द्रियनिग्रहः, सत्य यथार्थभाषणम्। समाम्नायादयः सत्यान्ता एतदन्ताः एतमनोनियमन अन्तः अवधिः फल येषा तथाभूता इत्यर्थः। तत्र दृष्टान्तमाह—आपगा नद्यो यथा समुद्रान्ता इति॥ ३४॥ ननु ‘न वय ससारविमुक्तिमात्रकामा, किन्तु सर्वसुन्दरसकलगुणगणालङ्कृतत्वत्प्राप्तिकामा एव, अतस्तदुपायोपदेश एवाचित’ इति चेत्तत्राह—यत्त्विति। यत्तु भवतीना दृशा दूरेऽह वर्ते तन्मदनुध्यानकामनया मनसः सन्निकर्षार्थमेव। ‘वै’ इत्यवधारणे। दूरस्थितावपि ‘कथं मनःसन्निकर्षः स्यात्’ इत्याशङ्क्याह—प्रिय इति॥ ३५॥ उक्तमेवोपपादयति—यथेति। प्रसङ्गात् स्त्रीणामित्युक्तम्। चकारादन्येषा च मनो यथा दूरचरे प्रेष्ठे आविश्य निश्चल सद्वर्तते तथा सन्निकृष्टेऽक्षगोचरे न वर्तते, सदा सन्निधानस्य अनादरकारणत्वात्॥ ३६॥
‘त्वयि मनआवेशेऽपि किम्’इत्यपेक्षायामाह—मय्यावेश्येति। विमुक्ता अशेषा वृत्तयो व्यापारा यस्मात् तत्। अतएव कृस्नसम्पूर्ण मना मय्यावश्य स्थिरीकृत्य मामेव नित्यमनुक्षण स्मरन्त्यः अचिराच्छीघ्रमेव मामुपैष्यथ प्राप्स्यथ॥३७॥ ‘न च मामुपैष्यथेति मधुरवचनमात्रम्, तथा जातत्वात्’ इत्याशयेनाह—या इति। ‘युष्माकं तु मत्प्राप्तिः सुलभैव’ इति सूचयन् सम्बोधयति—कल्याण्य इति। अस्मिन् वृन्दावने रात्र्या क्रीडता मया सह अलब्धरासा या गोप्यस्ता महीर्याणा मल्लीलाना चिन्तया मामेवापुरित्यन्वयः। अतो यूयमपि मच्चिन्तनेन मा प्राप्स्यथेति न सन्देहः। तासा रासालाभे हेतुमाह—व्रज आस्थिता इति। भर्त्रादिभिः प्रतिबन्धादिति भावः॥३८॥ एव प्रियतमस्य कृष्णस्यादिष्ट श्रुत्वा तस्य सन्देशेनागता तल्लीलाविषयिका स्मृतिर्यासां ता व्रजयोषितःप्रीता हृष्टा सत्य उद्धव प्रत्यूचु। ‘आगतस्मृतीः’ इति द्वितीया प्रथमार्थे॥ ३९॥ तासामुक्तिमाह—दिष्ट्येति चर्तुदशभिः।
मय्यावेश्य मनःकृत्स्न विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ॥३७॥
या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिता॥ अलब्धरासा कल्याण्यो माऽऽपुर्मद्वीर्यचिन्तया॥३८॥
श्रीशुक उवाच॥ एव प्रियतमादिष्टमाकर्ण्य व्रजयोषितः॥ ता ऊचुरुद्धव प्रीतास्तत्सन्देशागतस्मृतीः॥३९॥
गोप्य ऊचुः॥ दिष्ट्याऽहितो हतःकंसो यदूनां सानुगोऽधकृत्॥ दिष्ट्याऽऽप्तैर्लब्धसर्वार्थेःकुशल्यास्तेऽच्युतोऽधुना॥४०॥
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्॥ प्रीति नःस्निग्धसव्रीडहासोदारेक्षणार्चित॥४१॥
कथ रतिविशेषज्ञः प्रियश्च वरयोषिताम्॥ नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः॥४२॥
‘दिष्ट्या’ इति आनन्दे।यदृनामघकृत् दुःखद सानुगो भ्रातृमल्लादिसहितो कसोहत एतद्दिष्ट्या, तेनास्माकं महानानन्दो जातः। लब्धा अर्थाधनादिसम्पदो यैस्तैराप्तैवृद्धैर्वसुदेवादिभिः सह अच्युतः कृष्णोऽधुना कुशल्यास्तेएतदपि दिष्ट्या॥४०॥ ‘त्वद्दर्शनेनास्माकं महानानन्दो जातः इति सूचयन्त्यःसम्बोधयन्ति—सौम्येति। कञ्चिदिति प्रश्ने। किंचित् पृच्छाम इत्यर्थ॥ नोऽस्माकं गदाग्रज श्रीकृष्ण पुरयोषिता स्निग्ध च तत्सव्रीडहासेनोदार मनोरथपूरक च यदीक्षण तेनार्चितः सत्कृतः सन् तासां प्रीति करोति॥४१॥ अन्या ऊचुः—कथमिति। रतिविशेष जानातीति रतिविशेषज्ञः, अत एव च पुरयोषिता प्रियः, अत एव तासा मधुरवाक्यैर्बिभ्रमैर्नानाविलासैश्चानुभाजित सत्कृतःकथं न अनुबध्येत वशवर्ती भवेदित्यन्वयः॥४२॥
‘सत्यमेव त्वया वक्तव्यम्, एतदेव तवोचितम्’ इति सूचयन्ती सम्बोधयति—साधो इति। पुरस्त्रीणा गोष्ठीमध्ये सभामध्ये तत्रापि स्वैरकथान्तरे यथेष्टविहारकथामध्ये प्रस्तुते कस्मिंश्चित प्रसङ्गे क्वचिदपि नः अस्मान् गोविन्दः अपि किं स्मरति ?। ननु ‘विदग्धाना पुरस्त्रीणा विलासैराकृष्टचित्तस्य तस्य कथमविदग्धाना युष्माकं स्मरण स्यात्’ इत्याशङ्क्य ‘वैलक्षण्यस्यापि प्रतियोगिविधया स्मारकत्वात् स्मरण सम्भवति’ इत्याशयेनाहुः—ग्राम्या इति। अविदग्धा अस्मानित्यर्थः॥४३॥ तदा व्रजस्थितिकाले कुमुदैः कुन्दैः शशाङ्केन च रम्ये वृन्दावने क्वणन्ति चरणनूपुराणि यस्या तस्या रासगोष्ठ्या राससभायामस्माभि प्रियाभिः सह यासु निशासु रेमे ताः कि कदाचिदनुस्मरतीत्यन्वयः। ‘स स्मरतु मा वा, अस्माकं तु तत्स्मरण सर्वदैव भवति’ इत्यत्र हेतुसूचयन्त्यो विशिनष्टि—ईडितेति। ब्रह्मादिभिःकविभिःईडिता स्तुता मनोज्ञामनोहरा कथा यस्य स इत्यर्थः॥ ४४॥ अन्या ऊचुः—किं स्मरणप्रश्नेन ?
अपि स्मरति नः साधो गोविन्द प्रस्तुते क्वचित्। गोष्ठीमध्ये पुरस्त्रीणां ग्राम्या स्वैरकथान्तरे॥ ४३॥ ताःकि निशाः स्मरति यासु तदा प्रियाभि- र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये॥ रेमे क्वणच्चरणनूपुररासगोष्ठ्यामस्मा भिरीडितमनोज्ञकथ कदाचित्॥ ४४॥ अप्येष्य246तीह दाशार्हस्तप्ताःस्वकृतया शुचा॥ सञ्जीवयन्नु नो गात्रै र्यथेन्द्रो वनमम्बुदैः॥ ४५॥ कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः॥ नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृतः॥ ४६॥
स्वकृतया शुचा स्वनिमित्तशोकेन सन्तप्ता नोऽस्मान् गात्रैर्मुखकरप्रदर्शनस्पर्शादिभिःसञ्जीवयन् सम्यक् सुखपूर्वक जीवयितु दाशार्हः कृष्णः अपि किं नु इह व्रजे एष्यति आगमिष्यतीत्यन्वयः। तत्र दृष्टान्तमाहुः—यथेति। इन्द्रो यथा अम्बुदैर्मेघैःशुष्क वन सञ्जीवयन्नायाति तद्वत्॥ ४५॥ अन्या ऊचुः—कस्मादिति। पूर्व त्वनन्यगतिकत्वेनात्र उषितवान् सोऽधुना चेन्नागतस्तर्हि इतोऽग्रे उत्तरोत्तर प्रतिबन्धकबाहुल्यात् कस्माद्धेतोः कृष्ण इह आयाति आगमिष्यति ?। प्रतिबन्धकानेव सूचयन्त्यो विशिषन्ति—प्राप्त राज्य येन स, हताः अहिताः शत्रवः कसादयो येन सः, नरेन्द्रकन्या उद्वाह्य सर्वैः सुहृद्भिःपितृपुत्रपौत्रादिभिर्वृतःप्रीतश्च भविष्यति॥ ४६॥
अन्यास्तु परमार्थमूचुः—किमिति। वनौकोभिः वनवासिनीभिरस्माभिरनिपुणाभि, अन्याभिर्विदग्धाभिः पुरवासिनीभिर्वा आप्तकामस्य पूर्णमनोरथस्य कृष्णस्य किंको वाऽर्थः प्रयोजन क्रियेतेत्यन्वय। आप्तकामत्वे हेतुमाहुः—महात्मन इति। महान् सर्वमनोरथपूरक आत्मा अन्तःकरण यस्य तस्येत्यर्थ। सर्वमनोरथपूरकत्वे हेतुमाहुः—श्रीपतेरिति। सर्वसम्पदधिष्ठात्र्या लक्ष्म्याः पतित्वादित्यर्थः। ‘पूर्णवैराग्यवत्त्वादपि तस्यान्येनानुपयोग’ इत्याशयेनाहुः—कृतात्मन इति। वशीकृतान्तःकरणस्येत्यर्थः॥४७॥ आशायाः परम दुःखम्, नैराश्य आशाराहित्यमेव पर सौख्य परमसुखसाधनम्। हीति प्रसिद्धमेतत्। तामेव दर्शयति—स्वैरिणीति। प्रसिद्धा वेश्या पिङ्गलाख्याप्येवमेवाह। ‘तर्हि सा आशा कुतो न त्यज्यते ?’ तत्राहुः—तदिति। तथा तत् आशायाःदुःखहेतुत्व जानतीनामपि नोऽस्माकं कृष्णे दुरत्यया दुस्त्यजा आशा वर्तते॥४८॥ आशाया दुस्त्यजत्वमेवोपपादयन्ति—क इति। उत्तमैः ब्रह्मादिभिः श्लोक्यते स्तूयते स उत्तमश्लोकःतस्य सविद एकान्तवार्ता सन्त्यक्तु कः प्राणी उत्सहेत न ? कोपीत्यर्थः।
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः॥ श्रीपतेराप्तकामस्य क्रियेतार्थःकृतात्मनः॥४७॥
पर सौख्य हि नैराश्य स्वैरिण्यप्याह पिङ्गला॥तज्जानतीनां नः कृष्णे तथाऽप्याशा दुरत्यया॥४८॥
क उत्सहेत सन्त्यमुत्तमश्लोकसविदम्॥अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित्॥४९॥
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे॥ सङ्कर्षणसहायेन कृष्णेनाचरिता प्रभो॥५०॥
पुनःपुनःस्मारयन्ति नन्दगोपसुत बत॥ श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुम॥५१॥
गत्या ललितयोदारहासलीलावलोकनैः॥ माध्व्या गिरा हृतधियः कथं तद्विस्मरामहे॥५२॥
तत्सवित्त्यागानुत्साहमेव कैमुत्यन्यायेन दृढयति—अनिच्छतोऽपि तामकामयमानस्यापि यस्याङ्गात् उदरस्थलात् श्रीःलक्ष्मीः क्वचित् कदाचिदपि न च्यवते न प्रचलति॥४९॥ किंच ‘तद्विस्मृतौ तु नाम्माकं दुःख स्यात्, परंतु सापि न सम्भवति, स्मारकाना बहुत्वात्’ इत्याहुः—सरिच्छैलेति त्रिभिः। ‘तद्दासत्वेनान्यविस्मरणे समर्थोऽपि तद्विस्मरणे तु त्वमपि न समर्थ’ इति सूचयन्त्यः सम्बोधयन्ति—प्रभो इति। सरिच्छैलादयो नन्दगोपसुत पुनः पुनः स्मारयन्ति। अतस्त विष्णु कृष्ण विस्मर्तु नैव शक्नुम इति द्वयोरन्वयः। ‘बत’ इति स्वखेद सूचयन्ति। स्मारणे हेतुमाहुः—सङ्कर्षणसहायेन रामसहितेन कृष्णेन आचरिताः सेविता’, अतःश्रिय सौन्दर्यसम्पदो निकेतैराश्रयैस्तस्य पदकैस्तत्तद्देशे चिह्नतया स्थितै स्मारयन्तीत्यन्वयः। सरिच्छैलादिदर्शनादीनामपि जलाहरणाद्यर्थमप्यावश्यकत्वमेवेति ध्येयम्॥५०॥५२॥ किञ्च सावधानया बुद्धया विचारेण परित्यज्य गतत्वात् कृतघ्नतादिदोषदर्शनेन -
तद्विस्मरण भवेदपि, वयं तु तस्य गत्यादिभिर्हता आकृष्टा धीर्यासा तथाभूताः, अतः कथं त विस्मरामहे विस्मराम?। ललितया मनोहरया गत्या, उदारेण मनोरथपूरकेण हासेन, लीलया कटाक्षेण अवलोकनै, माध्व्या मधुरया गिरा वाण्या च॥५२॥ ‘भगवद्विरहज दुःख भगवानेव निवर्तयितुं शक्तः’ इति निश्चित्य तमेव प्रार्थयन्ते—हे नाथ स्वामिन्!वृजिनार्णवे दुःखसमुद्रे मग्न गोकुलवासिजन तस्मादुद्धरेत्यन्वयः। ननु ‘असङ्गस्य कथस्वामित्वम् ’ इत्याशङ्क्य ‘लक्ष्मीपतित्व तव प्रसिद्धमेव ’ इत्याशयेन सम्बोधयति—हे रमानाथेति। रमापतित्वेऽपि गोकुलोद्धारःकथं सङ्गच्छते तत्राहुः—व्रजनाथेति। ‘ब्रजनाथत्व कथम् इत्यपेक्षायाम् ‘इन्द्रसुरभिभ्या तथात्वेनाभिषेकात्’ इत्याशयेन पुनःसम्बोधयति—गोविन्देति। स्वभावतोऽपि त्व भक्तदुःखहर्ता कुतोऽस्मानुपेक्षसे ’ इत्याशयेन पुनः सम्बोधयति—आर्तिनाशनेति॥ ५३॥ एव तासा कृष्णविरहेण व्याकुलता दृष्ट्वा पुन र्भवतीना वियोगो मे नास्तीत्यादि तद्वाक्यान्युक्तवास्ततस्तैःकृष्णसन्देशैरधोक्षज श्रीकृष्ण स्वात्मानं ज्ञात्वा व्यपेतःअपगतो विरहकृतः ज्वरः सन्तापो यासा ता गोप्यो गुरुतयोद्धवमेव
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन॥मग्नमुद्धर गोविन्द गोकुल वृजिनार्णवे॥५३॥॥
॥श्रीशुक उवाच॥
ततस्ताःकृष्णसन्देशैर्व्यपेतविरहज्वराः॥ उद्धवं पूजयाञ्चक्रुर्ज्ञात्वाऽऽत्मानमघोक्षजम्॥५४॥
उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः॥ कृष्णलीलाकथां गायन् रमयामास गोकुलम्॥५५॥
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः॥ व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया॥५६॥
सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान्॥ कृष्ण सस्मारयन् रेमे हरिदासो व्रजौकसाम्॥५७॥
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्॥उद्धवः परमप्रतिस्ता नमस्यन्निद जगौ॥५८॥
पूजयाञ्चक्रुरित्यन्वयः॥ ५४॥ गोपीना शुचः शोकान् विनुदन् अपनयितु कतिचिन्मासान् स उद्धवो व्रजे उवास। ‘कथदुःखापनोद कृतवान्’ इत्यपेक्षायामाह—कृष्णलीलाकथा गायन् गोकुल गोकुलवासिजन रमयामास सुखयामासेति॥ ५५॥ स उद्धवो यावन्त्यहानि नन्दस्य वज्रेऽवात्सीत्तावन्त्यहानि कृष्णस्य वार्तया कालाद्यनुसन्धानाभावाद्व्रजौकसा व्रजवासिजनाना क्षणप्रायाणि क्षणतुल्यानि आसन् बभूवु॥ ५६॥ ननु ‘भगवन्त परिरयज्य कथ परार्थ बहुकाल व्रजेऽवात्सीत्’ इत्यपेक्षायामाह—सरिदिति। सरिदादीन् वीक्षन् विशेषत ईक्षमाणस्तेषु कृष्णलीलाप्रश्नादिभिर्ब्रजौकसा कृष्ण सस्मारयन्।हरिदास उद्धवो रेमे स्वयमप्यानन्दानुभव कृतवानित्यर्थः॥५७॥ एव प्रदर्शितप्रकार आदि यस्य तद्गोपीना कृष्णावेशेनात्मनो मनसो विक्लव व्याकुलता दृष्ट्वा परमप्रीत उद्धवस्ता गोपीर्नमस्यन् नमस्करिष्यन् उत्तमस्य स्वस्य गोपस्त्रीनमस्कृतिरयुक्ता न भवतीति दर्शयितु प्रथम तासा महत्त्वमिद वक्ष्यमाण पञ्चभिर्जगौ॥ ५८॥
तद्वाक्यान्याह—एता इति षड्भिः। एता गोपवध्वः पर केवल तनुभृतः सफलजन्मानः। तत्र हेतुमाह—एवमुक्तप्रकारो गोविन्दे रूढो भावः प्रेमात्मको यासा ता इति। ‘कृष्णप्रेमवत्त्वेन कथमेतासा कृतार्थत्वम्’ इत्याकाङ्क्षाया ‘तस्य सर्वात्मत्वेन तत्सत्कारेणैव ब्रह्मादिसकलसत्कारसिद्धेर्नात परमन्यत् कृत्यमस्ति’ इत्याशयेनाह—अखिलात्मनीति। अत एव तत्प्रेम्णो दुर्लभत्वमाह—यत् प्रेम भवात् भीः येषां ते मुमुक्षवो वाञ्छन्ति मुक्तिहेतुत्वात्, तथा वय भक्ता अपि यद्वाञ्छामः, संसारदुःखविस्मृतिपूर्वकपरमानन्दजनकत्वात्। ‘तथापि जन्मना त्वेतासा निकृष्टत्वमेव’ इत्याशङ्क्याह—किमिति। अनन्तस्य अनन्तमूर्तेर्भगवतः कथासु रसो रागो यस्य तस्य प्राणिनो ब्रह्मजन्मभिः, ब्राह्मणसम्बन्धिभिःशौक्लसावित्रयाज्ञिकैस्त्रिविधैरपि जन्मभि यद्वा चतुर्मुखजन्मभिरपि किं कोऽतिशयः ?यत्रतत्रापि जातो भगवद्भक्तिमानेव सर्वोत्तम इत्यर्थः॥५९॥ गोपीना
एता247[]248पर तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावा॥
वाञ्छन्ति यद्भवभियो मुनयो वय च किं ब्रह्मजन्मभिरनन्तकथारसस्य॥५९॥
क्वेमा स्त्रियो वनचरीर्व्यभिचारदुष्टा कृष्णे क्व चैष परमात्मनि रूढभावः॥
नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्छ्रेयस्तनोत्यगदराज इवोपयुक्त॥६०॥
नाय श्रियोऽङ्ग उ नितान्तरतेःप्रसादः स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः॥
रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठलब्धाशिषां य उदगाद्व्रजसु249न्दरीणाम्॥६१॥
प्रेमातिशय दृष्ट्वा स्वयमाश्चर्य करोति—क्वेति। स्त्रियो जन्मतो दुष्टा, वनचरी, वनचर्यः स्थानतोऽपि दुष्टाः सत्सङ्गरहिताश्च, व्यभिचारो नाम कामसङ्कल्पस्तेनापि लोकदृष्ट्या शास्त्रदृष्ट्या च दुष्टाःइमा गोप्य क्व? एषोऽतिदुर्लभःपरमात्मनि कृष्णे रूढभावःनिश्चलस्नेहश्च क्व ? असम्भावित एवेत्यर्थः। ‘आसा स कथं जात’ इत्यपेक्षाया ‘प्रकारान्तरेणासम्भवाद्भगवदनुग्रहादेव’ इति निश्चिनोति—नन्विति निश्चये। ईश्वरः सर्व कर्तु समर्थःअनु निरन्तर भजतो जनस्य अविदुषः स्वप्रभावमजानतोऽपि साक्षात् स्वयमेव श्रेयः फल तनोति विस्तरतो ददात्येवेत्यर्थः। अविदुषोऽपि फलसम्पादने दृष्टान्तमाह—अगदेति। अगदराज ओषधिश्रेष्ठः अमृत उपयुक्तःउपभुक्तः स्वप्रभावमजानतोऽपि यथा आरोग्य तनोति तद्वदित्यर्थः।॥६०॥ ‘अन्येऽपि भक्ता भगवत्प्रसाद लेभिरे, परन्त्वय गोपीषुभगवत्प्रसादस्तु अत्यपूर्व’ इत्याह—नायमिति। रासोत्सवे रासक्रीडायामस्य कृष्णस्य
भुजदण्डाभ्या गृहीत आलिङ्गितः कण्ठस्तेन लब्धा आशिषो मनोरथा याभिस्तासा व्रजसुन्दरीणा गोपीना योऽयंभगवत्प्रसादः उदगात् आविर्बभूव सोऽयं प्रसादः, स्वयोषिता नाभूत्। तासा प्रसादयोग्यताया सौन्दर्याद्यतिशये हेतु सूचयति—नलिनस्येव गन्धः, रुक् कान्तिश्च यासा तासामिति। किं बहु वक्तव्यम् ? अङ्गेवक्षसि नितान्तरतेः एकान्तरातिमत्याः श्रियो लक्ष्म्या अप्यय प्रसादो नाभूत्, अन्याः स्त्रियस्तु कुत एव प्रसादविषयाः स्युरित्यन्वयः। ‘आश्चर्य भगवदिच्छाया’ इत्याह—उ इति॥६१॥ तासा भाग्यातिशय मत्वा स्वयोग्य प्रार्थयते—आसामिति। आसां गोपीना चरणरेणुजुषा गुल्मलतौषधीनां मध्येऽहं किमपि वृन्दावने स्या भवेयम्। ‘एतदपि यदि मम स्यात्तदा दुर्लभत्वादाश्चर्यमेव’ इत्याह—अहो इति। ननु ‘कथमासा चरणरेणुर्दुर्लभ’ इत्यपेक्षाया ता विशिनष्टि—या इति। या गोप्यः दुस्त्यजं स्वजन पतिपुत्रादिरूपमार्याणा पन्थान च हित्वा श्रुतिभिर्विमृग्यामतिदुर्लभा मुकुन्दस्य मुक्तिप्रदस्य श्रीकृष्णस्य पदवीं प्राप्तिमार्ग भेजुःकृष्णैकचिन्तनपरा बभूवुरित्यर्थः। अनेन लौकिकालौकिक-
आसामहो चरणरेणुजुषामह स्यां वृन्दावने किमपि गुल्मलतौषधीनाम्॥या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवी श्रुतिभिर्विमृग्याम्॥६२॥या वै श्रियाऽर्चितमजादिभिराप्तकामैर्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्॥कृष्णस्य तद्भगवतश्चरणारविन्द न्यस्त स्तनेषु विजहुःपरिरभ्य तापम्॥६३॥वन्दे नन्दनव्रजस्त्रीणा पादरेणुमभीक्ष्णशः॥यासां हरिकथोद्गीत पुनाति भुवनत्रयम्॥६४॥
॥श्रीशुक उवाच॥
अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च॥गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्॥६५॥
सर्वव्यवहारपरित्यागेन “यदा यस्यानुगृह्णाति भगवानात्मभावितः। स जहाति मति लोके वेदे च परिनिष्ठिताम्” इत्युक्तपूर्वो भगवदनुग्रहस्तासु दर्शितः॥६२॥पुनश्चाश्चर्येण तासु भगवदनुग्रहमेव दर्शयति—या इति। ‘वै’ इति निश्चये। नात्र कश्चित् सन्देहः। भगवत ऐश्वर्यादिगुणपूर्णस्य कृष्णस्य श्रिया लक्ष्म्याऽर्चित पूजित, तथा आप्तकामैः प्राप्तैश्वर्यैरजादिभिश्चतुर्मुखादिभिरपि पूजित, तथा योगेश्वरैः सिद्धैरप्यात्मनि मनसि चिन्तित यच्चरणारविन्द तत्तेनैव रासगोष्ठ्या स्तनेषु न्यस्त या गोप्यःपरिरभ्य आलिङ्ग्य कामसन्ताप विजहुः परितत्यजुः॥६३॥एव गोपीना नमस्कारयोग्यता प्रतिपाद्य नमस्करोतिवन्दे इति। यासा हरिकथया सहोत्कर्षेण गीत चरित भुवनत्रय भूरादिलोकत्रयस्थान् श्रवणकीर्तनादिपरान् जनान् पुनाति, तासा नन्दव्रजस्त्रीणा पादरेणुमहमभीक्ष्णशः पुनःपुनर्वन्दे इति त्रयाणामन्वयः॥६४॥ अथ गोपीना विरहतापनिवृत्त्यनन्तर दाशार्ह उद्धवो गोप्यादीननुज्ञाप्य अनुज्ञा सम्प्रार्थ्य गोपाश्चामन्त्र्य पृष्ट्वा यास्यन् मथुरा गन्तु रथमारुरुहे॥६५॥
नानाविधानि उपायनानि रामकृष्णाद्यर्हाणि वस्तूनि पाणिषु येषां ते तथा अनुरागेण अश्रूणि लोचनयोर्येषा ते नन्दादयो गोपा निर्गत व्रजान्निष्क्रान्त तमुद्धव समासाद्य सादरमागत्य प्रावोचन्नित्यन्वयः॥६६॥ तदुक्तिमेवाह—मनस इति द्वयेन। उपदेष्टृत्वादुद्धवमेव गुरु मत्वा प्रार्थयन्ति—नोऽस्माकं मनसो वृत्तयः कृष्णपादाम्बुजविषयाः स्युः। वाचस्तु तन्नाम्नामभिधायिन्यः स्युः। कायो देहस्तु तन्नमस्कारादिष्वस्तु॥६७॥ कर्मभिःपुण्यपापात्मकैस्तदनुगुण्या ईश्वरेच्छया च यत्र क्वापि भ्राम्यमाणाना देवमनुष्यादिषु जायमानाना नोऽस्माकं मङ्गलाचरितैर्दानैस्तज्जनितैः पुण्यैरीश्वरे कृष्णे रतिरनुरागोऽस्त्वित्यन्वयः’॥६८॥ हे नराधिप !एव कृष्णभक्त्या गोपैः सभाजितः सम्पूजितः ‘सम्प्रार्थित’ इति तु पाठान्तरम्,
तं निर्गतं समासाद्य नानोपायनपाणय॥नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचना॥६६॥
मनसो वृत्तयो न स्युःकृष्णपादाम्बुजाश्रया॥ वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु॥६७॥
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया॥ मङ्गालाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे॥६८॥
एव सभा250जितो गोपैः कृष्णभक्त्या नराधिप॥उद्धव पुनरागच्छत् मथुरां कृष्णपालिताम्॥६९॥
कृष्णाय प्रणिपत्याऽऽह भक्त्युद्रेक व्रजौकसाम्॥ वसुदेवाय रामाय राज्ञे चोपायनान्यदात्॥७०॥
इति श्रीमद्भा० महा० द० राजसनिरोधनिरू० भ्रमरगीतनिरूपण नाम सप्तचत्वारिंशोऽध्यायः॥४७॥
उद्धवः पुनर्मथुरामागच्छदित्यन्वयः। ननु ‘कृष्णविहारस्थल व्रज विहाय कुतो मथुरामागत’ इत्याशङ्क्य ‘भगवतो मथुराया वर्तमानत्वात्तत्र गमनं तद्दासस्योचितमेव’ इत्याशयेनाह—कृष्णपालितामिति॥६९॥ ततश्च कृष्णादिभ्यः प्रणिपत्य यथोचित व्रजौकसा भक्त्युद्रेकमाह, नन्दादिभिर्दत्तान्युपायनानि चादात्॥७०॥ इति श्रीवल्लभाचार्य—वश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥ श्रीमद्भाग- वतस्येय टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥ सप्तचत्वारिंशकोगाद्भृङ्गगीतनिरूपकः॥३॥
अष्टचत्वारिंशके हि कुब्जया रमण हरेः॥अक्रूरसान्त्वन चापि विशेषेण निरूप्यते॥१॥अथ नन्दादिव्रजवासिजनसान्त्वनानन्तर भगवान् कृष्णः कामतप्तायाः सैरन्ध्र्याकुब्जायाः कामसन्ताप विज्ञाय कामपूर्त्या तस्याः प्रिय सुखमिच्छन् तस्या गृह ययौ। सन्तापज्ञाने हेतुमाह—सर्वदर्शन इति। सर्वसाक्षीत्यर्थः॥एव परस्त्रीकामपूरणे दोषमाशङ्क्याह—सर्वात्मेति॥१॥तदा भगवदिच्छया जाता तद्गृहसम्पत्तिमाह—महार्हेति सार्धेन। महार्हैरमूल्यैरुपस्करैः पात्रादिभिराढ्यमन्वितम्। कामोपायैः कामशास्त्रोक्तैःकामोद्दीपकैः सुरतबन्धादिलेख्यैरुपबृहित समृद्धम्। मुक्तादामभिः, पताकाभिर्ध्वजैः, वितानैश्चन्द्रातपत्रैः, शयनैः शय्याभिः, आसनैरुपवेशनार्थ सुखस्पर्शास्तरणैः, सुरभिभिरगरुसम्भवैर्धूपैः, दीपैश्च, मणिमयैःस्रग्भिः, गन्धैश्चन्दनादिभिश्च मण्डितमलङ्कृतम्॥२॥एवंविध गृह प्रति आयान्त त कृष्णमवेक्ष्य जात सम्भ्रमो यस्याः सा सैरन्ध्री सद्यस्तत्क्षण एव आसनात्
श्रीशुक उवाच॥ अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शन॥ सैरन्ध्र्याःकामतप्तायाःप्रियमिच्छन् गृह ययौ॥१॥ महार्होपस्करैराढ्य कामोपा- योपबृहितम्॥ मुक्तादामपताकाभिर्वितानशयनासनैः॥ धूपैः सुरभिभिर्दीपैःस्रग्गन्धैरपि मण्डितम्॥२॥ गृह तमायान्तमवेक्ष्य साऽऽसनात्सद्यः समुत्थाय हि जातसम्भ्रमा॥ यथोपसङ्गम्य सखीभिरच्युत सभाजयामास सदासनादिभिः॥३॥ तथोद्भव साधुतयाऽभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम्॥ कृष्णोऽपि नूत्नं शयनं महाधनं विवेश लोकाचरितान्यनुव्रत॥४॥ सा मज्जनालेपदुकूलभूषणस्रग्गन्धताम्बूलसुधासवादिभिः॥ प्रसाधितात्मोपससार माधव सव्रीडलीलोत्स्मितविभ्रमेक्षितैः॥५॥
समुत्थाय सखीभिः सह यथा यथोचित उप सङ्गम्य अभिमुखमागत्य समीचीनैरासनादिभिः आदिशब्दादर्ध्यादिभिश्च सभाजयामास पूजयामासेत्यन्वयः। ‘युक्त चैवकरणम्’ इति सूचयति—हीति॥३॥ तथेोद्धवश्च साधु सम्यक् यथा भवति तथा तयासैरन्ध्र्याभिपूजितस्तत्र भगवता साम्यस्यानुचितत्व मत्वा तया दत्तमासन हस्तेनाभिमृश्य संस्पृश्य उर्व्यामेव न्यषीदत् उपविवेशेत्यन्वयः। कृष्णोऽपि नूत्न नवीन कैश्चिदप्यनधिरूढ महाधन अनर्घ्य शयन पर्यङ्क विवेश। ननु ‘परमेश्वरस्य कथमेव कामिवत् परस्त्रीशयनारोहण घटते’ इत्याशङ्कयाह—भक्तमनोरथपूत्यर्थ लोकाना चरितानि चेष्टितान्यनुव्रतः अनुसरन्नित्यर्थः॥४॥ मज्जनादिभिः प्रसाधित भगवता सह रमणयोग्यतामापादितः आत्मा देहो यया तथाभूता सती सव्रीड लीलया उद्गत स्मित येषु विभ्रमेषु तद्युक्तैरीक्षितैरवलाकनैरुपलक्षिता सा कुब्जा माधवमुपससार उपजगाम॥५ ॥
नवसङ्गमे विषये या हीर्लज्जा तया शङ्किता स्वयमागमनमकुर्वतीं ता कान्ता सुन्दरीमाहूय कङ्कणेन भूषिते हस्ते प्रगृह्य शय्यामधिवेश्य तया रामया स्त्रिया सह भगवान् रेमे इत्याशयः। ‘अहो भगवत्सेवामाहात्म्य येन चन्दनार्पणमात्रेण कसदास्यपि तेन सह विजहार, तदन्यभक्ताना सुख तु किं वक्तव्यम्’ इत्याशयेनाह—अनुलेपार्पणमेव पुण्यलेशो यस्यास्तयेति॥६॥ सा अनन्तस्य अनन्तशक्ते कृष्णस्य चरण जिघ्रन्ती अनङ्गेन कामेन तप्तेषु कुचादिषु तच्चरण निधाय तेन चरणेन कुचादीना रुजः कामपीडा मृजन्ती अपनयन्ती स्तनान्तरगतं कुचमध्यगत कान्त प्रियतम कृष्ण दोर्भ्या भुजाभ्या परिरभ्य आलिङ्ग्य दीर्घं बहुकालानुवृत्त कामसन्तापमजहात् तत्याज। आलिङ्गनमात्रेण सन्तापनिवृत्तौ हेतु सूचयन् विशिनष्टि—आनन्दमूर्तिमिति॥७॥ सा सैरन्ध्री एवमङ्गरागार्पणमात्रेण दुष्प्राप्यमपि त श्रीकृष्ण प्राप्येद वक्ष्यमाणमयाचतेत्यन्वयः। केवल कामभोगपरैव सा,
आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे॥प्रगृह्य शय्यामधिवेश्य रामयो रेमेऽनुलेपार्पणपुण्यलेशया॥६॥ साऽनङ्गतप्त- कुचयोरुरसस्तथाऽक्ष्णोर्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती॥ दोर्भ्या स्तनान्तरगत परिरभ्य कान्तमानन्दमूर्तिमजहादतिदीर्घतापम्॥७॥सैव251 कैवल्यनाथ त प्राप्य दुष्प्रापमीश्वरम्॥अङ्गरागार्पणेनाहो दुर्भगेदमयाचत॥८॥ आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया॥ रमस्व नोत्सहे त्यक्तु सङ्गं तेऽम्बुरुहेक्षण॥९॥ तस्यै कामवर दत्त्वा मानयित्वा च मानदः॥ सहोद्धवेन सर्वेश स्वधामागमदर्चितम्॥१०॥
न गोप्य इव तदेकनिष्ठेति ता निन्दति—दुर्भगेति। ‘निष्कामाणा मोक्षप्रदत्वात्तदेकनिष्ठात्वमेव युक्तम्’ इति सूचयन् दुष्प्राप्यत्वे हेतुमाह—कैवल्यनाथमिति। तत्रापि हेतुमाह—ईश्वरमिति। तन्मायामोहस्याश्चर्य द्योतयति—अहो इति॥८॥ तद्याचनमेवाह—आहेति। तत्सङ्गत्यागानुसाहे प्रेमातिशय हेतुं वदन्ती सम्बोधयति—प्रेष्ठेति। प्रेष्ठत्वे सौन्दर्यातिशय हेतु सूचयन्ती सम्बोधयति—अम्बुरुहेक्षणेति। ते तव सङ्गमह त्यक्तु नोत्सहे न प्रभवामि, अतो मया सह कतिचिद्दिनानि रमस्व इह मद्गृहे त्वया उष्यतामित्याहेत्यन्वय॥९॥ एव याचितो मानदो भक्तसम्माननाचरणशीलः कृष्णस्तस्यै याचमानायै सैरन्ध्र्यैकामवर दत्त्वा तथास्त्वित्युक्त्वा मानयित्वा च किञ्चिद्दिननिवासेन मधुरभाषणभूषणदानरमणादिभिभिस्तन्मनोरथ पूरयित्वोद्धवेन सह अर्चित सर्वसम्पत्समृद्ध स्वधाम आगमत्। सर्वमनोरथपूरणसामर्थ्ये हेतुमाह—सर्वेश इति॥१०॥
न केवल सैव दुर्भगा, किन्तु अन्योऽपि यःकश्चित् दुराराध्य भक्तिप्रतिपत्तिव्यतिरिक्तोपायसहस्रैरप्याराधयितुमशक्य विष्णु सम्यग्भक्त्या आराध्य मनोग्राह्य मनःप्रिय विषयसुख वृणीते सोऽसौ कुमनीषी कुबुद्धिरेवेत्यन्वयः। मनोग्राह्यस्य विषयस्य वरणायोग्यत्वे हेतुमाह—असत्त्वादिति। तुच्छत्वाद्दुःखहेतुत्वाच्च सर्वेश्वरा ब्रह्मरुद्रकालकर्मादयस्तेषामपीश्वरो नियन्ता भगवान्, “अतस्ततःकालाद्यतिक्रमणेन विमोक्ष एव प्रार्थनीयः, न विषयभोग” इति सूचयन्नाह—सर्वेश्वरेश्वरमिति॥ ११॥ प्रकरणान्तरमारभते—अक्रूरेति। किञ्चिच्चिकीर्षयन् हस्तिनापुरप्रस्थान कारयितुमिच्छन्नक्रूरस्य प्रियकाम्यया प्रिय कर्तुमिच्छया च रामोद्धवाभ्या सहितो भगवान् कृष्णः अक्रूरभवन प्रति प्रागादित्यन्वयः। ‘कुतः पाण्डवाक्रूरादीना प्रिय चिकीर्षति’ इत्यपेक्षायामाह—प्रभुरिति। स्वामीत्यर्थः॥ १२॥ तान् नरवरेभ्यः श्रेष्ठान् स्वबान्धवान् रामकृष्णोद्धवान् आराद्दूरादेव वीक्ष्य प्रमुदितः सोऽक्रूरः प्रत्युत्थाय
दुराराध्य समाराध्य विष्णु सर्वेश्वरेश्वरम्॥ यो वृणीते मनोग्राह्यमसत्त्वात् कुमनीष्यसौ॥११॥
अक्रूरभवन कृष्णः सहरामोद्धवः प्रभुः॥ किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया॥१२॥
स तान्नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान्॥ प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च॥१३॥
ननाम कृष्णं राम च स तैरप्यभिवादितः॥ पूजयामास विधिवत् कृतासनपरिग्रहान्॥१४॥
पादावनेजनीरापो धारयन् शिरसा नृप॥ अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः॥१५॥
अर्चित्वा शिरसाऽऽनम्य पादावङ्क गतौ मृजन्॥प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषतः॥१६॥
परिष्वज्य तदागमनमभिनन्द्य च॥ १३॥ राम कृष्ण च ननामेति द्वयोरन्वयः। ततश्च तै रामकृष्णादिभिरभिवादितो वाचा कृतप्रणामः सोऽक्रूर कृतःआसनस्य परिग्रहःस्वीकारो यैस्तान् रामादीन् विधिवत् पूजयामासेत्यन्वयः॥१४॥ पूजादिप्रकारमेवाह—पादावनेजनीरिति। ‘भक्तिमार्गरसज्ञस्त्वम्’ इति सूचयन् सम्बोधयति—नृपेति। आ अप इति च्छेदः। पादाववनिज्येते प्रक्षाल्येते याभिस्ता अपः आ सर्वतः शिरसा धारयन् अर्हणेन अर्घ्यादिना अम्बरादिभिश्चार्चित्वा शिरसा आनम्य अङ्कगतौ उत्सङ्गे निधापितौ पादौ मृजन् सम्मर्दयन् प्रश्रयेणावनतः अक्रूरः कृष्णरामौ अभाषतेति द्वयोरन्वयः॥ १५॥ १६॥
तद्भाषितमेवाह—दिष्ट्येति। भवद्भ्या सानुगो मल्लादिसहितः पापात्मा कसो हतः। वा युवयोरिद कुल दुरन्तादपारात् कृच्छ्रात् दुःखादुद्धृत समेधितं सम्यग्वर्धित चेति दिष्ट्या, तेन महानानन्दो जात इत्यर्थः॥१७॥ननु ‘एव कष्टादुद्धारे सवर्धने च मम किं सामर्थ्यम्’ इत्यत आह—युवामिति। युवा जगतो हेतू। ‘हेतुत्वमपि न निमित्तत्वमात्रं, किन्तु उपादानत्वमपि’ इत्यभिप्रेत्याह—जगन्मयाविति। तत्र हेतुमाह—प्रधानपुरुषाविति। पुरुषोत्तमावात्यर्थः। जगन्मयत्वमेव स्पष्टयति—पर कारण अपर कार्य च भवद्भ्या विना व्यतिरिक्त किञ्चिदपि नास्तीति॥१८॥ननु ‘प्रत्यक्षादिसिद्ध कार्यकारणभेदः कथं नास्तीत्युच्यते ?‘तत्राह—आत्मसृष्टमिति। ‘ब्रह्मवादश्रुतिप्रसिद्धो ऽयमर्थ इति सूचयन् सम्बोधयति—ब्रह्मन्निति। रजआदिभिः
दिष्ट्या पापो हतःकसःसानुगो वामिद कुलम् ॥भवद्भ्यामुद्धृत कृच्छ्राद्दुरन्ताच्च समेधितम्॥१७॥युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ॥भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम्॥१८॥आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः॥ ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम्॥१९॥यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति॥नाना ॥एव भवान् केवल आत्मयोनिष्वात्माऽऽत्मतन्त्रो बहुधा विभाति॥२०॥सृजस्यथो252 लुम्पसि पासि विश्व रजस्तमःसत्त्वगुणैःस्वशक्तिभिः॥न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः॥२१ ॥
स्वशक्तिभिरात्मनैव सृष्टमिदं विश्वमन्वाविश्य उपादानत्वात्तद्रूपोऽप्यन्तर्यामितया प्रविश्य श्रुतप्रत्यक्षगोचर यथा भवति तथा बहुधा भवानेव ईयते।प्रतीयते इत्यन्वयः॥१९॥एकस्यैवात्मनो बहुधा भान दृष्टान्तेनोपपादयति—यथा हीति। हीति प्रसिद्धमेतत्। योनिषु स्वकारणकेषु चराचरेषु यथा मह्यादीनि कारणान्येव नाना तत्तद्रूपेण भान्ति एव केवलमेक एव भवान् आत्मयोनिषु स्वकारणकेषु भूतभौतिकेषु कार्यमात्रेषु बहुधा तत्तद्रूपेण भाति। ननु ‘पुरुषोत्तमस्य तत्स्वरूपग्रहणे को हेतुः ?’ इत्यपेक्षायामाह—आत्मतन्त्र इति। कालकर्मादिपारतन्त्र्यरहितोऽपि स्वेच्छया लीलार्थ नानारूपो भवतीत्यर्थः॥२०॥एवमुपादानत्वमुक्त्वा तस्यैव निमित्तत्व वदस्ततो जीववद्बन्धमाशङ्क्य निराकरोति—स्वशक्तिरूपै रजआदिगुणैः
विश्व सृजसि, अथ अनन्तर पासि, लुम्पसि सहरसिच, तथापि तै रजआदिगुणैःसृष्ट्यादिकर्मभिर्वा न बध्यसे। तत्र हेतुमाह—ज्ञानात्मनस्ते क्व च बन्धहेतुरिति। कस्मिन्नपि देशे कस्मिन्नपि काले कस्यामप्यवस्थाया तव बन्धकारण नास्ति, ज्ञानस्वरूपत्वात्। मायायास्तु स्वाश्रयानावरकत्वात्॥ जीवस्य तु त्वदिच्छया बन्धो भवतीत्याशयः॥२१॥ ननु ‘जीववद्देहादिदर्शनात द्विधाग्रहणादिबन्धमोक्षोपायदर्शनाच्च कुतो न बन्धादि’ इत्याशङ्क्याह—देहाद्युपाधेरिति। आदिपदेनेन्द्रियान्तःकरणप्राणादिग्रहणम्। देहादेरनिरूपितत्वात् प्राकृतत्वेन निरूपयितुमशक्यत्वात् साक्षादानन्दस्वरूपस्य आत्मनस्तव भवो जन्म नास्ति, तथा देहादिप्रयुक्ताभिदा भेदोऽपि नास्ति, अतो बन्धोऽपि नास्ति, मोक्षोऽपि नास्ति। ‘तर्हि कथं मयि केषाचिद्बन्वमो- क्षादिव्यवहार’ इत्यपेक्षायामाह—निकाम इति। स्वाभिप्रायानुरूपस्त्वयि त्वद्विषयको नोऽस्माकमविवेक एव तथाव्यवहारहेतुरित्यर्थः॥२२॥ ननु
देहाद्युपाधेरनिरूपितत्वाद्भवो न साक्षान्न भिदाऽऽत्मन स्यात्॥ अतो न बन्धस्तव नैव मोक्ष स्यातां निकामस्त्वयि नोऽविवेक॥२२॥ त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराण॥बाध्येत पाखण्डपथैरसद्भिस्तदा भवान् सत्त्वगुण बिभर्ति॥२३॥ स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्ण स्वांशेन भारमपनेतुमिहासि भूमेः॥ अक्षौहिणीशतवधेन सुरेतरांशराज्ञाममुष्ये च कुलस्य यशो वितन्वन्॥२४॥ अद्येश नो वसतयःखलु भूरिभागा य सर्वदेवपितृभूतनृवेदमूर्ति॥ यत्पादशौचसलिलं त्रिजगत् पुनाति स त्वं जगद्गुरुरधोक्षज या प्रविष्टः॥ २५॥
एवंभूतस्य पुरुषोत्तमस्य ममावतारे किं प्रयोजनम्’ इत्यपेक्षायामाह—त्वयेति। जगतःप्राणिमात्रस्य हिताय त्वयोदितो योऽयं पुराणः चिरतनो वेदपथः वेदबोधितो धर्ममार्गः स यदा यदा असद्भिः नरकादिदुःखहेतुभूतैर्पाखण्डपथैर्वेदविरुद्धमार्गैर्बाध्येत पीडयेत तदा तदा भवान् सत्त्वगुण शुद्धसत्त्वमय।विग्रह बिभर्तीत्यर्थः॥२३॥ एव सर्वावतारसाधारणप्रयोजनमुक्त्वा श्रीकृष्णावतारप्रयोजनमाह—सत्त्वमिति। हे प्रभो दुष्टसहारे सता पालने च समर्थ। स विश्वपालनादिकर्ता त्वं सुरेतराणामसुराणामशंभूता ये राजानः कसादयस्तेषामक्षौहिणीना यानि शतानि तेषां वधेन हेतुना भूमेर्भारमपनेतु निराकर्तु तथा अमुष्य यादवकुलस्य यशो विनन्वन् विस्तारयितुं चेह भूलोके वसुदेवगृहे स्वाशेन बलभद्रेण सहावतीर्णोऽसीत्यन्वयः॥२४॥ एवं भगवन्त स्तुत्वा तदागमनेनात्मनः स्वानुबन्धिना च कृतार्थतामाविष्करोति—अद्येति। हे ईश !अथ नोऽस्माकं सर्वेषां वसतयो गृहाः खलु निश्चयेन
भूरिभागाः महापुण्याः। ‘वसतय’ इति तत्रत्याना प्राणिनामप्युपलक्षणम्। तत्र हेतु वदन् भगवन्त वसतीश्च विशिनष्टि—हे अधोक्षज अतीन्द्रिय !सर्वे देवाःब्रह्मरुद्रेन्द्रादयश्च पितरश्च भूतानि च नृदेवा राजानश्च मूर्तयो यस्य स, यस्य च तव पादयोः शौचसलिलं क्षालनोदक गङ्गारूप त्रिजगत् त्रिलोकीं पुनाति स जगता गुरुः पूज्यस्त्वं या वसती प्रविष्ट इत्यन्वयः॥२५॥ ‘आयास्ये भवतो गेहम्’ इति यद्भगवतोक्त तत्सत्य कृतमिति परितुष्यन् ‘त्वमेव शरणयोग्यः, नान्य’ इति आह—क इति। पण्डितो विवेकी चेत्त्वत्तः अपर शरण कः समीयात् व्रजेत्। भगवतः शरणयोग्यताया हेतून् वदन् विशिनष्टि—भक्ताः प्रियाः यस्य तस्मात्, ऋता सत्या गीर्यस्य तस्मात्, सुहृदो हितकारिणः, कृतज्ञात् कृत भक्तकृत भजन दुष्टकृत द्रोह वा जानाति स्मरतीति तथा तस्मात्, किञ्च सुहृदः शुद्धान्तःकरणस्य भजतो भक्तस्य सर्वानभिकामान् वाञ्छितान् धर्मादीन् ददाति। किं बहुना ? आत्मानमपि तदधीन करोति॥ ननु ‘एव पराधीनतायामपकर्षः स्यात्’ इत्याशङ्क्याह—यस्य तवउपचयापचयौ उत्कर्षापकर्षौन स्त इति॥२६॥ तद्दर्शनमभिनन्दति—दिष्ट्येति। हे जनार्दन मायानिवर्तक !योगेश्वरैः सनकादिभिः सुरेशैरिन्द्रादिभिरपि दुरापा दुर्लभा दुर्ज्ञेया वा
कःपण्डितस्त्वदपर शरणं समीयाद्भक्तप्रियादृतगिर सुहृदः कृतज्ञात्॥ सर्वान् ददाति सुहृदो भजतोऽभिकामानात्मानमप्युपचयापचयौ न यस्य॥२६॥ दिष्ट्या जनार्दन भवानिह नःप्रतीतो योगेश्वरैरपि दुरापगति सुरेशै॥ छिन्ध्याशु न सुतकलत्रधनाप्तगेहदेहादिमोहरशनां भवदीयमायाम्॥२७॥ इत्यर्चित संस्तुतश्च भक्तेन भगवान् हरिः॥ अक्रूरं सस्मितं प्राह गीर्भि सम्मोहयन्निव॥२८॥ श्रीभगवानुवाच॥ त्व नो गुरुःपितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा। वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याःप्रजा हि वः॥२९॥ भवद्विधा महाभागा निषेव्या अर्हसत्तमाः॥ श्रेयस्कामैर्नृभिर्नित्य देवाःस्वार्थान साधवः॥३०॥
गति र्यस्य स भवान् नोऽस्माकमिह गृहे प्रतीतः चाक्षुषसाक्षात्कारात्मकप्रतीतिविषयो जात इति दिष्ट्या, तेन महानानन्दो जात इत्यर्थः। स्ववाञ्छित प्रार्थयते—छिन्धीति। सुतकलत्रादिषु मोहः आसक्तिरेव रशना पाशः तद्रूपा नोऽस्माकं भवदीया माया त्वमाशु छिन्धि विनाशयेत्यर्थः। कलत्र स्त्री। आप्ता मातापित्रादयो वृद्धाः॥२७॥ इत्येव भक्तेन अक्रूरेणार्चितः संस्तुतश्च भगवान् हरिः सस्मित स्मितेन सहित यथा भवति तथा गीर्भिरक्रूरसम्मोहयन्निव प्राहेत्यन्वयः। ‘हासो जनोन्मादकरी च माया’ इति वचनात्तत्स्मितस्य मायारूपत्त्वात्तन्मोहनार्थं स्मित साहित्य ज्ञेयम्। ‘तथापि तस्यपरमभक्तत्वान्न तथा मोह’ इति सूचयितुमिवशब्दप्रयोगः॥२८॥ तदुक्तिमेवाह—त्वमिति सप्तभिः। त्वं नोऽस्माकं गुरुः पूज्यः, यतःपितृव्यः पितुर्भ्राता च। श्लाघ्यः प्रशंसनीयो बन्धुश्च। वयं तु नित्यदा भवता रक्ष्याः कुमार्गतः शत्रुभ्यश्च निवर्तनीयाः, पोष्या वर्धनीयाः अनुकम्प्याः, कृपायोग्याश्च। हि यस्माद् वो युष्माकं प्रजाःपुत्रादिरूपाः॥२९॥ ’ न केवलमस्माकमेव यूय पूज्या, अपि तु सर्वेषामपि ’ इति सहेतुकमाह—भवद्विधा इति।
श्रेयस्कामैर्मोक्षादिफलार्थिभिर्नृभिर्भवादृशा नित्य निषेव्याः। तत्र हेतुमाह—अर्हसत्तमा इति। उत्कृष्टतमा इत्यर्थः। तत्रापि हेतुमाह—महाभागा इति। अनेकजन्मानुष्ठितपुण्यवन्त इत्यर्थः॥ ननु ‘देवानां सेव्यत्व प्रसिद्धम्’ इत्याशङ्क्याह—देवा इति। देवाःस्वार्थाः स्वार्थमपेक्ष्य उपकार कुर्वन्ति। साधवः भागवतास्तु न तथा, किन्तु केवल परमार्थसाधनपराः॥ अतो देवाद्यपेक्षयापि साधूना सेव्यत्वमिति भावः॥३०॥ हेत्वन्तरेणापि देवादिभ्यः साधूना- मुत्कर्षमाह—नहीति। साधूनामपेक्षया न अम्मयानि जलमयानि गङ्गादितीर्थान्युत्कृष्टानि, न वा मृच्छिलामया देवा उत्कृष्टाः। ‘कुत’ इत्यपेक्षायामाह—हि यस्मात्ते मृच्छिलामया देवा उरुकालेन सेविताः पुनन्ति, साधवस्तु दर्शनात्तत्क्षण एव ज्ञानभक्त्याद्युपदेशमात्रेण पुनन्तीति साधव एव सेव्या इत्यर्थः॥३१॥ ‘किञ्चित् चिकीर्षयन् प्रागात्’ इत्युक्त तदेव कार्यमादिशति—स उक्तविध साधुर्भवान् नोऽस्माकं ये सुहृदस्तेषा
न253ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः॥ ते पुनन्त्युरुकालेन दर्शनादेव साधवः॥३१॥
स भवान् सुहृदां वै न श्रेयान् श्रेयश्चिकीर्षया। जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम्॥३२॥
पितर्युपरते बाला सह मात्रा सुदुःखिताः॥ आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम॥३३॥
तेषु राजाऽम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः॥ समो न वर्तते नून दुष्पुत्रवशगोऽन्धदृक्॥३४॥
गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा॥विज्ञाय तद्विधास्यामो यथाश सुहृदां भवेत्॥३५॥
इत्यक्रूर समादिश्य भगवान् हरिरीश्वर॥ सङ्कर्षणोद्भवाभ्यां वै ततः स्वभवन ययौ॥३६॥
मध्ये श्रेष्ठः, अतः पाण्डवाना श्रेयश्चिकीर्षया तद्वृत्तजिज्ञासार्थ गजसाह्वय हस्तिनापुर गच्छस्व गच्छेत्यन्वयः॥ ३२॥ पितरि पाण्डावुपरते मृते सति बालास्तत्पुत्रा युधिष्ठिरादयो राज्ञा धृतराष्ट्रेण स्वपुर प्रत्यानीतास्तत्र मात्रा पृथया सह अतिदुखिःताः वसन्ते निवसन्ति इति शुश्रुम श्रुतवन्तो वयम्॥३३॥ दुःखे हेतुमाह—तेष्विति। अम्बिकापुत्रो राजा धृतराष्ट्रः तेषु भ्रातृपुत्रेषु समः स्वपुत्रतुल्यतया न वर्तते। नून निश्चितमेतत्॥ तत्रहेतुमाह—दुष्पुत्रेति। दुष्टो यः पुत्रःदुर्योधनस्तद्वशग इत्यर्थः। तत्र हेतुः—अन्धदृगिति। अन्धा दृक् नेत्ररूपा यस्य सः॥ न केवल नेत्राभ्यामेवान्धः, किंतु दीना विवेकहीना धीर्यस्य तथाभूतोऽपीति॥३४॥ अतस्त्व हस्तिनापुर गच्छ। अधुना तेषा पाण्डवाना वृत्त वर्तन साध्वसाधु वेति तद्वृत्त विज्ञायसुहृदा तेषां शं सुख यथा भवेत्तथोपाय विधास्यामः करिष्याम॥३५॥ इत्येवमक्रूर समादिश्याज्ञाप्य सङ्कर्षणोद्धवाभ्या सहितस्ततः अक्रूरभवनात्
स्वभवन ययौ। आज्ञापने सामर्थ्यमाह—ईश्वर इति। तत्र हेतुमाह—भगवानिति। ऐश्वर्यादिगुणपूर्णत्वादित्यर्थः॥३६॥ इति श्रीवल्लभाचार्य-वश्यगोपालसूनुना॥श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥१॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्यये टीका बालप्रबोधिनी॥२॥ रचिता दशमे तत्र राजसरोधवर्णने॥गतोऽष्टचत्वारिंशोऽपि कुजारतिनिरूपकः॥३॥ पाण्डववृत्तमाज्ञाय कृष्णायावर्णयत् सुधीः॥अक्रूर इति ह्येकोनपञ्चाशे विनिरूप्यते॥१॥ सोऽक्रूरः कौरवेन्द्राणा यशोभिः कीर्तिहेतुभिः कृतदेवब्राह्मणाद्यायतनादिभिरङ्कित हास्तिनपुर गत्वा तत्र भीष्मेण सहितमाम्बिकेय धृतराष्ट्र विदुरादींश्च ददर्शेत्यन्वयः। तत्र पृथा कुन्ती॥१॥ बाह्लीकपुत्रः सोमदत्तः। भारद्वाजो द्रोणः। गौतमःकृपः। द्रौणिरश्वत्थामा॥२॥गान्दिनीसुतोऽकूरो यथावत् यथायोग्य हास्यहस्तग्रहणालिङ्गननमस्कारादिपूर्वक बन्धुभिः सह उपसङ्गम्य मिलित्वा तैश्च
इति श्रीमद्भा० महापु०दशमस्कन्धे राजस०नि० कुब्जारमणादिनि० नामाष्टचत्वारिंशोऽध्यायः॥४८॥
॥श्रीशुक उवाच॥
स गत्वा हास्तिनपुर कौरवेन्द्रयशोऽङ्कितम्॥ ददर्श तत्राम्बिकेय सभीष्म विदुर पृथाम्॥१॥
सहपुत्र च बाह्लीक भारद्वाज सगौतमम्॥ कर्णं सुयोधन द्रौणि पाण्डवान् सुहृदोऽपरान्॥२॥
यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः॥ सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम्॥३॥
उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया॥ दुष्प्रजस्यात्पसारस्य खलच्छन्दानुवर्तिनः॥४॥
तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान्॥ प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम्॥५॥
कृत च धार्तराष्ट्रैर्यद्गरदानाद्यपेशलम्॥आचख्यौ सर्वमेवास्मै पृथा विदुर एव च॥६॥
सुहद्वार्ता सम्पृष्टः स्वयमपि तेषामव्यय कुशलमपृच्छदित्यन्वयः॥३॥ राज्ञो धृतराष्ट्रस्य वृत्तस्य विवित्सया ज्ञातुमिच्छया कतिचिन्मासांस्तत्रोवास। ‘तत्र किञ्चित्कालावस्थानेनैव तद्वृत्त ज्ञातुं शक्यते,न झटित्यनायासेनैव’ इत्याशयेन राजान विशिनष्टि—दुष्टाः प्रजाः पुत्रा दुर्योधनादयो यस्य तस्य। अल्पो मन्दः सारःबुद्धिर्यस्य तस्य। तथा खला दुष्टाः कर्णादयस्तेषा छन्दमिच्छामनुवर्तितु शील यस्य तस्य॥४॥ तेजः पराभिभवसामर्थ्यम्। ओजः इन्द्रियसामर्थ्यम्। बलं शारीरसामर्थ्यम्। वीर्य शौर्यम्। प्रश्रयः विनयः। पार्थानां तेजआदिगुणास्तथा तेषु प्रजानुराग च न सहद्भिरसहमानैर्धार्तराष्ट्रैर्दुर्योधनादिभिः यद्गरदानादि विषप्रदानादिक अपेशल दुष्ट कर्म कृत, यश्चाग्रे चिकीर्षित तत् सर्वमस्मै अक्रूराय पृथा विदुरश्च आचख्याविति द्वयोरन्वयः॥५॥६॥
एव प्रसङ्गात् पृथा सर्वमाचख्यौ इति उक्तम्। तत पूर्वं तत्सम्मीलनप्रकारमाह—पृथात्विति। तुशब्देनान्येभ्यस्तस्याः स्नेहाधिक्य व्याकुलताधिक्यं च सूचयति। पृथा तु भ्रातरमक्रूर प्राप्तमाश्रुत्य तमुपसृत्य तत्समीप गत्वा उवाच। व्याकुलता दर्शयन्नाह—अश्रूणा कला लेशा ययोस्ते ईक्षणे यस्याः सा। तत्र हेतुमाह—जन्मनिलय् पितृगृह स्मरन्तीति॥७॥ तदुक्तिमेवाह—अपीति षड्भिः। ‘त्वद्दर्शनादेव मम महानानन्दो जात’ इत्याशयेन सम्बोधयति—सौम्येति। अपि किं नोऽस्मान् मे पित्रादयःस्मरन्ति ? जामयः कुलस्त्रियः॥८॥ ‘अन्ये स्मरन्तु मा वा, अस्मद्दुःखनिवृत्तिस्तु रामकृष्णस्मरणेनैव’ इत्याशयेन पृच्छति—भ्रात्रेय इति। मम भ्रातृपुत्रः कृष्णो रामश्च पैतृष्वस्रेयान् पितृभगिन्या मम सुतान् युधिष्ठिरादीन् किं स्मरति ? अनेन देहसम्बन्धेनापि स्मरण सम्भवतीति सूचितम्।‘सम्बन्धविनापि स एव शरणयोग्य’ इति आह—शरण्य इति। तत्र हेतुमाह—भक्तवत्सल
पृथा तु भ्रातर प्राप्तमक्रूरमुपसृत्य तम्॥ उवाच जन्मनिलय स्मरन्त्यश्रुकलेक्षणा॥७॥
अपि स्मरन्ति न सौम्य पितरौ भ्रातरश्च मे॥भगिन्यो भ्रातृपुत्राश्च जामयःसख्य एव च॥८॥
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सल॥पैतृष्वस्रेयान् स्मरति रामश्चाम्बुरुहेक्षणः॥ ९॥
सपत्नमध्ये शोचन्तीं वृकाणां हरिणीमिव॥ सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान्॥१०॥
कृष्ण254कृष्ण महायोगिन् विश्वात्मन् विश्वभावन॥ प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम्॥११॥
इति। ‘रक्षायामसमर्थेन स्मरणेऽपि किम्’ इत्याशङ्क्याह—भगवानिति। तथापि रक्षायामायासमाशङ्क्य दृष्टिमात्रेण सन्तापनिवर्तकत्व सूचयन्त्याह—अम्बुरुहेक्षण इति॥९॥ वृकाणा घातकाना मध्ये हरिणीमिव सपत्नाना शत्रूणा दुर्योधनादीना मध्ये शोचन्तीं मा बालकान् मत्पुत्राश्च किं वाक्यैःसान्त्वयिष्यतीत्यन्वयः। सान्त्वने दीनत्व हेतु सूचयन्त्याह—पितृहीनानिति॥१०॥ एवमक्रूर प्रत्युक्त्वा प्रेमवेगेन समीपमागत मत्वा भगवन्तमेव प्रार्थयते—कृष्ण इति। कृष्ण कृष्णेति आदरे वीप्सा। अत्र प्रपन्ना शरणमागता मा पाहि। शरणागमने हेतुमाह—शिशुभिर्बालकैः सहावसीदन्तीं क्लिश्यन्तीमिति ‘अस्मद्रक्षा तव युक्तैव’ इत्याशयेन सम्बोधयति। विश्वभावनेति। सर्वपालकेत्यर्थः। तत्र सामर्थ्ये हेतु सूचयन्ती सम्बोधयति—गोविन्देति। गावः इन्द्रियाणि नियम्यतया विन्दत इति तथा। ‘उपादानत्वात् सर्वात्मकत्वेनापि रक्षाया त्वं समर्थ’ इत्याशयेन पुनः सम्बोधयति—
विश्वात्मन्निति। विश्वरूपधारणसामर्थ्येतथात्वेऽपि विकाराभावे च हेतु सूचयन्ती पुनः सम्बोधयति—महायोगिन्निति। महान् योगः उपायः मायाख्योऽस्या- स्तीति तथा॥११॥ननु ‘ब्रह्मरुद्रादीना रक्षकाणा सत्त्वात्तान् विहाय मामेव शरण कुतो गच्छसि’ इत्याशङ्क्याह—नान्यदिति। मृत्योः ससारात् उत्पत्तेश्च बिभ्यता नृणा तव पदाम्भोजादन्यत् शरण रक्षक न पश्यामि। ब्रह्मादीनामपि तुल्ययोगक्षेमत्वादित्याशयः॥तव चरणाम्भोज तु।रक्षक भवत्येव। तत्र हेतुमाह—आपवर्गिकात् मोक्षप्रदात्। मोक्षप्रदत्वे हेतु सूचयन्त्याह—ईश्वरस्येति॥१२॥एव शरणमागता प्रणमति—नम इति। कृष्णाय सदानन्दमूर्तये नमः। शुद्धाय रागद्वेषादिदोषरहिताय। ब्रह्मणे वेदान्तप्रतिपाद्याय। परमात्मने अन्तर्यामिणे। योगेश्वराय योगफलदात्रे।युज्यत इति योग फल तस्मै योगादिफलरूपाय नमः॥१३॥हे राजन् !भवता प्रपितामही कुन्ती इत्येव स्वजन वसुदेवादिबन्धुवर्गं जगदीश्वर कृष्ण चानुस्मृत्य तद्वियोगादिदुःखिता सती प्रारुददित्यन्वयः॥१४॥कुन्त्या सह समं सुख दुःख च यस्य सोऽक्रूरो महायशा प्रख्यातकीर्तिः
नान्यत्तव पदाम्भोजात् पश्यामि शरण नृणाम्॥बिभ्यतां मृत्युससारादीश्वरस्यापवर्गिकात्॥१२॥नम कृष्णाय शुद्धाय ब्रह्मणे परमात्मने॥योगेश्वराय योगाय त्वामहं शरणं गता॥१३॥श्रीशुक उवाच॥इत्यनुस्मृत्य स्वजन कृष्ण च जगदीश्वरम्॥प्रारुदद्दुःखिता राजन् भवतां प्रपितामही॥१४॥समदुःखसुखोऽक्रूरो विदुरश्च महायशाः॥सान्त्वयामासतु कुन्ती तत्पुत्रोत्पत्तिहेतुभिः॥१५॥यास्यन् राजानमभ्येत्य विषम पुत्रलालसम्॥अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम्॥१६॥अक्रूर उवाच॥भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन॥भ्रातर्युपरते पाण्डावधुनाऽऽसनमास्थितः॥१७॥
विदुरश्च तस्याः पुत्रोत्पत्तिहेतुभिः ‘धर्मानिलेन्द्रादिभ्यो जाता महाप्रभावास्तव पुत्राः, अतस्त्वया खेदो न कार्य’ इति कथनैः कुन्तीं सान्त्वयामासतु रित्यन्वयः॥१५॥यास्यन् मथुरा प्रति गमिष्यन्नक्रूर एकान्ते कथने तस्य लज्जा न स्यात् अतः सुहृदा बन्धूना मध्ये राजान धृतराष्ट्रमभ्येत्य बन्धुभिःकृष्णरामादिभिः यत्सौहृदेन प्रेम्णा उदितं कथित तदवददित्यन्वयः। तथाकथने हेतुमाह—विषममिति। भ्रातृपुत्रेषु स्वपुत्रेषु च विषमबुद्धियुक्तम्। तत्र हेतुमाह—पुत्रलालसमिति। पुत्रेष्वासक्तबुद्धिमित्यर्थः॥सौहृदोदितमित्युक्त्या पूर्वमनुक्तमपि तैरुक्तमित्युक्त ज्ञेयम्॥१६॥अक्रूरोक्तिमेवाह—भो भो वैचित्रवीर्यति। ‘राज्यासनस्थितेन त्वया कीर्तिरेव वर्धनीया, वैषम्ये तु तद्विनाशःस्यात्, तन्नोचितम् ’ इत्याशयेन सम्बोधयति—कुरूणां कीर्तिवर्धनेति। भ्रातरि पाण्डौ उपरते मृते सति त्वमधुना नृपासनमास्थितः अधिष्ठितवान्॥१७॥
अतो धर्मेण धर्मशास्त्रोक्तप्रकारेण उर्वी पृथ्वीस्थान् जनान् पालयन् शीलेन सुस्वभावेन प्रजा रञ्जयन् स्वमिस्तासा रागमुत्पादयन् स्वेषु भ्रातृपुत्रेषुस्वपुत्रेषु च समतया वर्तमानः श्रेयो धर्मार्थादिफल कीर्ति चावाप्स्यसि॥१८॥ अन्यथा यथोक्तविपरीतमाचरन् कुर्वस्तु लोके जनैर्गर्हितो निन्दितः सन् तमो नरक यास्यसे प्राप्स्यसि। यस्मादेव तस्मात् पाण्डवेषु आत्मजेषु च विषये समत्वे वर्तस्व॥१९॥ ननु ‘आत्मजानात्मजेषु कथं समत्व स्यात्’ इत्याशङ्क्याह—नेहेति। इहलोके कस्यचित् केनचित् साकमत्यन्त नित्य सवासः सम्यक्स्थितिर्नास्ति। तत्र कैमुत्यन्यायमाह—हे राजन् !स्वेन देहेन सहापि नात्यन्तसवासः, भार्यापुत्रादिभिःसहात्यन्तसवासो नास्तीति किमु वक्तव्यमित्यर्थः॥२०॥ एतदेव स्पष्टयति—एक इति। जन्तुः शरीरी एक एव प्रसूयते जायते, नतु जायादिभिः सहितः। तथा एक एव प्रलीयते म्रियते, नहि म्रियमाणेन सह तत्पुत्रादयोऽपि
धर्मेण पालयन्नुर्वी प्रजा शीलेन रञ्जयन्॥वर्तमान सम स्वेषु श्रेय कीर्तिमवाप्स्यसि॥१८॥ अन्यथा त्वाचरॅल्लोके गर्हितो यास्यसे तमः॥ तस्मात् समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च॥१९॥ नेह चात्यन्तसवासः कर्हिचित् केनचित् सह॥ राजन् स्वेनापि देहेन किमु जायात्मजादिभिः॥ २०॥ एकः प्रसूयते जन्तुरेक एव प्रलयिते॥ एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्॥२१॥ अधर्मोपचित वित्त हरन्त्यन्येऽल्पमेधस॥सम्भोजनीयापदेशैर्जलानीव जलौकस॥२२॥ पुष्णाति255 यानधर्मेण स्वबुद्ध्या तमपण्डितम्॥ तेऽकृतार्थं प्रहिण्वन्ति प्राणा राय सुतादय॥ २३॥ स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः॥ असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः॥२४॥
म्रियन्ते। तथा एक एव सुकृत स्वकृतपुण्यफल सुख भुङ्क्ते, तथा एक एव च दुष्कृत पापफल दुःख भुङ्क्ते॥२१॥ किञ्च ‘यदा च सह सवसन्ति तदापि क्लेशोपार्जितवित्तापहारितया विचारेण पुत्रादयः शत्रव एव’ इत्याह—अधर्मोपचितमिति। सम्भोजनीयाः ‘पोष्याः पुत्रादय’ इति व्यपदेशैः कथनैरल्पमेधसः मूढस्याधर्मेणार्जित वित्त ते हरन्ति। तत्र दृष्टान्तमाह—यथा जलौकसो मत्स्यस्य जीवनहेतुभूतानि जलानि तत्पुत्रादयो हरन्ति, तद्वदिति॥२२॥ किञ्च स्वबुद्ध्या स्वकीयबुद्ध्या यान् अधर्मेणापि पुष्णाति ते प्राणादयस्तमपण्डित मूर्ख अकृतार्थ अप्राप्तमनोरथमेव प्रारब्धवशान्मृतं जीवन्तमेव वा प्रहिण्वन्ति त्यजन्ति। आदिपदेन देहकलत्रादिग्रहणम्॥२३॥ स्वयं तु असिद्धार्थः अपूर्णमनोरथ एव तैः पुत्रादिभिस्त्यक्तः किल्बिषं तत्पोषणार्थ कृत पापमादाय अन्ध तमः घोरतामिस्रादिनरक प्रविशति
किल्विषमादायेत्युक्तमेव नरकप्राप्तिहेतु स्पष्टयति—स्वोचितवर्णाश्रमधर्मविमुख इति। तत्र हेतुमाह—नार्थकोविद इति। स्वार्थे मूर्ख इत्यर्थः॥२४॥ उपदेशमुपसंहरति—तस्मादिति। ‘हे राजन् !हे प्रभो !इति सम्बोधनद्वयेन ‘तव विचारपूर्विकैव स्थितिर्युक्ता’ इति सूचयति—तस्मात् पुत्राद्यासक्तेरनर्थ- मूलत्वादिम लोक धनपुत्रादिसर्वं स्वप्नमनोरथश्च तत्तेन तुल्यमनित्य वीक्ष्य निश्चित्य आत्मना बुद्ध्या आत्मानमन आयम्य वशीकृत्य शान्तः रागद्वेषादिरहितःसन् सर्वत्र समो भवेत्यन्वयः॥२५॥ एव प्रतिबोधितो धृतराष्ट्रः प्राह—यथेति। ‘अत्युदारस्य तव मूढेऽपि मय्येव ज्ञानप्रदानमुचितमेव ’ इति सूचयन् सम्बोधयति—दानपते इति। यथा भवान् कल्याणीं शुभाबहा वाच वदति, तथा अनया वाचा न तृप्यामि। तत्र दृष्टान्तमाह—मर्त्य इति। मरणधर्मकः अमृत प्राप्य अशित्वा यथा न तृप्यति तद्वदित्यर्थ॥२६॥ ‘उदासीनो माभूत्’ इत्याशयेन प्रेमातिशय सूचयन्
तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम्॥ वीक्ष्यायम्याऽऽत्मनाऽऽत्मान समःशान्तो भव प्रभो॥२५॥
॥धृतराष्ट्र उवाच॥
यथा वदति कल्याणी वाच दानपते भवान्॥ तथाऽनया न तृप्यामि मर्त्यः प्राप्य यथाऽमृतम्॥२६॥
तथाऽपि सूनृता सौम्य हृदि न स्थीयते चले॥पुत्रानुरागविषमे विद्युत् सौदामनी यथा॥२७॥
^(१)ईश्वरस्य256 विधि को नु विधुनोत्यन्यथा पुमान्॥ भूमेर्भारावताराय योऽवतीर्णो यदोः कुले॥२८॥
सम्बोधयति—सौम्येति। यद्यपि भवतो वाक् सूनृता मधुरा हिता च तथापि चले व्याकुले मम हृदि न स्थीयते प्रतिष्ठिता न भवति। तत्र दृष्टान्तमाह—विद्युदिति। सुदामा पर्वतस्तत्र भवा सौदामिनी, सा यथा स्फटिकमये स्फुरिता झटित्येव लीयते तद्वदित्यर्थः। सुदामा माला तदाकारा वा॥ हृदश्चाञ्चल्ये हेतुमाह—पुत्रानुरागविषम इति॥२७॥ ननु ‘एव जानतोऽपि तवकथमय सम्मोहः, मनः समाधीयताम्’ इत्यत्राह—ईश्वरस्येति। ईश्वरस्य विधि चिकीर्षित को नु पुमान्
___________________________________________________________________
^(१“तर्हि)यत्न कथं न क्रियते चित्तवृत्तिनिरोधस्य योगस्य विद्यमानत्वादिति चेत्तत्राह—ईश्वरस्येति। ईश्वरेण कश्चन प्रकारो विहित एव प्रकारेणैवैतत्कर्तव्यमिति उक्तोऽन्यथा कर्त्तं शक्त एतद्विज्ञानमापोद्वाम्या परिश्रमेण भवति तस्मिन् कृते न काप्यनुपपत्ति। एव ज्ञात्वा को वा पुमान् विवेकी समर्थोऽपि ईश्वरविचारित प्रकार धुनोति दूरीकरोति कार्पित करोति। नन्वीश्वर उदासीन “नादत्ते कस्यचित्पाप न चैव सुकृत विभु " इति वाक्यादज्ञानेनैव तथा चित्त जायते। नन्वीश्वरस्तथा करोतीति चेत्तत्राह—भूमेभ र्रावतारायेति। भगवान् हि भूभारहरणार्थमवतीर्ण, अन्यथावतारमेव न कुर्यादतो ज्ञायते भगवता अन्य प्रकारो विचारित इति। नन्वेतदपि नागीकर्त्तव्य वाक्यविरोधादतोऽवतारस्य प्रयोजनातरमनवतरण वा कल्पनीयमितिचेन्न, तथा सति शास्त्रवैकल्यात्सर्वमुक्तिर्वा प्रसज्येति अधिकारिपर शास्त्रमित्यपि पक्षे यथा सर्वगुणसपत्तिर्माये तथा कस्यापीति सर्वेषामनाश्वास एव स्यादतो व्यभिचारादीश्वरेच्छा स्वतत्रेति वक्तव्यम्। एवमपि शास्त्रवैकल्यमिति चेत्मत्य, न सर्वत्र शास्त्र प्रमाण किंतु क्वचिदेव यत्रेश्वरेच्छा यथोक्तसाधनेऽप्यजननात् अत शास्त्रमेव प्रमाण यदि शास्त्रानुसारेणापि कदाचिन्न भवति तदेश्वरविधिरिति कल्प्यते। यथा मण्यादिप्रतिबन्धे दाहाभावाच्छक्ति परिकल्प्यते सा अग्नौ मणौ चेत्यत्र वयमुदासीना तदा तादृशस्थले ईश्वरेच्छा नियामिकेति ज्ञातव्यम्। ईश्वरत्वादेव न पर्यनुयोग लोके च महाराजाज्ञादिषु सामान्यविशेषभाव श्रूयते। सर्वतो निरुपद्रुतेऽपि देशे कस्यचिदुपद्रवो महाराजेच्छया भवतीति न चैतावता सामान्याज्ञया निष्कटक राज्य विरुध्यते अतो निमित्तभूतानस्मदादन्निमर्यादाया स्थापयतीति युक्तमेव ज्ञातेऽपि शास्त्रे वैषम्यम्। अन्यथा भगवान् यदो कुलेऽवतीर्णो भवेत् " इति सुबोधिनी।
अन्यथा विधुनोति अन्यथा कर्तुं शक्नोतीत्यर्थः। ‘कोसावीश्वरः, किं च तच्चिकीर्षितम्’ इत्यपेक्षायामाह—भूमेरिति। मत्पुत्रादिवधेन भूमिभारस्यावताराय अपनयनाय यो यदोः कुलेऽवतीर्णोऽस्ति स श्रीकृष्ण एवेश्वरः। तथाच तद्भक्तद्रोहस्य तच्चिकीर्षितदुर्योधनादिवधानुगुणत्वात्तदिच्छयैव अयं मम मोह इत्याशयः॥२८॥ ‘कथं तदिच्छ्यापि मोहः सम्भवति’ इतिइत्यपेक्षाया तस्यान्तर्यामित्व वदन् प्रणमति—य इति। दुर्विमर्शपथया अवितर्कमार्गया निजमायया स्वशक्तिरूपया प्रकृत्या इदं ब्रह्मादिशरीरजाल सृष्ट्वा तस्मिन्नन्तर्यामितया प्रविष्टः सन् गुणान् विभजते सत्त्वादिगुणकार्य—शान्तिरागद्वेषादीनुत्पादयति तस्मै परमेश्वराय नमः। ननु ’ परमेश्वरस्य विश्वसर्गादिना किं प्रयोजनम्’ इत्याशङ्क्य ‘स्वविहार एव ’ इत्याशयेनाह—दुरवबोधो यो विहारःक्रीडा स एव तन्त्र मुख्य कारण यस्य तस्य संसारचक्रस्य गतिभ्रमण यस्मात्तस्मा इति॥२९॥ स यादवोऽक्रूरो नृपतेर्धृतरा-
यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्ट॥ तस्मै नमो दुरवबोधाविहारतन्त्रसंसारचक्रगतये परमेश्वराय॥२९॥ श्रीशुक उवाच॥ इत्यभिप्रेत्य नृपतेरभिप्राय स यादवः। सुहृद्भिःसमनुज्ञातःपुनर्यदुपुरीमगात्॥३०॥ शशस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम्॥पाण्डवान् प्रति कौरव्य यदर्थं प्रेषित स्वयम्॥३१॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्त्र्यां संहितायां दशमस्कन्धे राजसनिरोधनिरूपणप्रकरणे पाण्डववृत्तनिरूपण नाम एकोनपञ्चाशत्तमोऽध्यायः॥४९॥॥ श्रीकृष्णार्पणमस्तु॥ छ॥॥ छ॥
॥ छ॥
॥पूर्वार्ध समाप्तिमगमत्॥
ष्ट्रस्याभिप्रायमित्येव परस्पर सम्भाषणेनाभिप्रेत्य ज्ञात्वा सुहृद्भिः पाण्डवादिभिः सम्यगनुज्ञातः पुनर्यदुपुरीं मथुरामगादित्यन्वयः॥ ३०॥ ‘तव कुलेऽप्येवविधा दुर्जना जाता’ इत्याशयेन सम्बोधयति—कौरव्येति। यदर्थ धृतराष्ट्रवृत्तविज्ञानार्थ भगवता स्वयं प्रेषितस्तत्पाण्डवान्प्रति धृतराष्ट्रस्य विचेष्टित विषप्रदानादि कृत सर्व रामकृष्णाभ्या शशस कथयामासेत्यन्वयः॥३१॥ इति श्रीवल्लभाचार्य—वंश्यगोपालसूनुना॥ श्रीमन्मुकुन्दरायाणा पादसेवाधिकारिणा॥ १॥ श्रीमद्गिरिधराख्येन भजनानन्दसिद्धये॥श्रीमद्भागवतस्येय टीका बालप्रबोधिनी॥ २॥ रचिता दशमे तत्र राजसरोधवर्णने॥ ऊनपञ्चाशत्तमोऽगात् पाण्डववृत्तबोधकः॥ ३॥ इति दशमपूर्वार्धटीका बालबोधिनी समाप्तिमगात्॥
[TABLE]
]
-
“‘अभ्यर्हितत्वात्सोमस्य पूर्वनिपात’ इति सुबोधिनी।” ↩︎
-
“क पुस्तके लेखक प्रमादात् मनवब्रह्मेत्यादिकमस्ति।” ↩︎
-
“चकारात्तत्र भगवतोऽपि चरित्र प्रतिपादितमित्युक्त सुबोधिन्याम्।” ↩︎
-
“स्वरूपात् फलतश्चापि महापुरुषयोगत॥ विषयोत्तमतश्चापि चरित परम मतम्॥” ↩︎
-
“‘क्रन्दन्ती’ इति पाठान्तरम्।” ↩︎
-
“‘अग्रजो भविता’ इति पाठान्तरम्।” ↩︎
-
“र लयो सावर्ण्याद्र।” ↩︎
-
“‘वत्सल’ इति क्वचित् पाठः।” ↩︎
-
" ‘प्रत्यग्रवदनाम्भोज’ इति ’ प्रहृष्टवदनाम्भोज’ इति ‘प्रसार्य वदनाम्भोजम्’ इति पाठा। तत्र प्रसार्येत्यादि पाठ सुबो०।” ↩︎
-
“‘यद्वै साहाशरीरवाक्’ इति, ‘यद्वागाहाशरीरिणी’ इति च पाठान्तरम्।” ↩︎
-
“विजयध्वजटीकाया प्रथमाध्यायसमाप्तिरत्रैवास्ति। तथा पाठभेदोऽपि भूयानस्ति एकदेशितास्वारस्याम्यामुपेक्ष्यते।” ↩︎
-
“‘सुहृद्वधात्’ इति सुबोधिनीपाठ।” ↩︎
-
“कापट्य शङ्काभावाय बहुवचनमिति सुबोधिन्याम्।” ↩︎
-
“मुक्तस्य कार्यमेतद्धि मुमुक्षोर्गर्वनाशनम्॥ अनिन्द्यविषयश्चाय विरक्तोऽस्मिन् यतो ध्रुवम्॥१॥ आत्मघाती कर्मजडो निन्दितार्थरत सदा॥ पशुस्त्रीव्यतिरिक्तश्चेद्विरक्तो न तत पृथक्॥२॥” ↩︎
-
“ते च गुणरूपा।” ↩︎
-
“व्यापकस्य सर्वरक्षकस्य स्वरक्षाया सन्देहो नास्तीति सूचितम्।” ↩︎
-
“परमावधिभूतो धर्मी।” ↩︎
-
“भयदशाया तथैव स्थितिर्युक्तेति हिशब्दार्थ सुबोधिन्याम्।” ↩︎
-
“अथ शीघ्र तदनन्तरमेवाह पुरुषोत्तम अशाना वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाना भागेन विभागेन चतुर्द्धा कार्यकरणात् देवक्या पुत्रता प्राप्स्यामि। भागेनेत्येकवचन प्रद्युम्नाशेनैव पुत्रत्वमिति ज्ञापनार्थम्। अथाहमिति सन्दर्भेण यथा त्व गमिष्यसि अन्यत्रोत्पन्नान्यत्र तथाहमपीति ज्ञापितम्। पुत्रतामिति लोकप्रतीत्या तद्धर्मवत्व ज्ञापितम् न त्वह पुत्रो भविष्यामि। इति सुबोधिनी। श्रीधरस्वामी त्वेव व्याचख्यौ।” ↩︎
-
“‘धूपोपहारबलिभि’ इति पाठान्तरम्।” ↩︎
-
“‘बलभद्र बलोच्छ्रयात्’ इति पाठान्तरम्।” ↩︎
-
“‘भ्राजमान’ इति पाठान्तरम्।” ↩︎
-
“‘पिबन्’ इति पाठान्तरम्।” ↩︎
-
“‘ईडतु’ इति पाठान्तर युज्यते, ब्रह्मभवयो कर्तृत्वात्। ‘ऐडयन्’ इति पाठे तु सहोक्ताना कर्तृत्वेन ग्रहणेन सम्भवेद्बहुवचनम्। *वृष धर्म नयतीति वृषण।” ↩︎
-
“विमुक्तेत्यारभ्यैतदतो ग्रथ कपुस्तकेऽधिकोऽस्ति।” ↩︎
-
“‘अनुमेयवर्त्मने’ इत्यपि क्वचित् पाठ।” ↩︎
-
“‘क्रियासु यस्त्वच्चरणारविन्दयो’ इति सुबोध पाठ।” ↩︎
-
“ननु पुत्र संस्कर्त्तव्य जातकाख्येन कर्मणा, तेन कप न कृतवानित्याशङ्क्य प्राकृत एव तस्य संस्कार इति नास्मिस्तदपेक्षेति।” ↩︎
-
“यथा आम्रफले दृष्टे नीलपीतवर्णविशिष्टाकारमात्र चक्षुषा गृह्यते, न तदन्तर्विद्यमानोऽपि रसस्तद्वदित्यर्थ।” ↩︎
-
“‘एव वा तप्यतोस्तीव्रम्’ इति पाठान्तरम्।” ↩︎
-
“‘देव’ इति पाठान्तरम्।” ↩︎
-
“‘वपुषाऽथ वाम्’ इति पाठान्तरम्।” ↩︎
-
“‘जायते’ इति क्वचित् पाठान्तरम्।” ↩︎
-
“अत्र ‘यदि कसाद्बिभेषि त्व तर्हि मा गोकुल नय। मन्मायामानयाशु त्व यशोदागर्भसभवाम्’॥१॥ अयमधिक श्लोक केषुचित् पुस्तकेषु दृश्यते” ↩︎
-
“मायाया कार्यमधुना चतुर्थे विनिरूप्यते॥ अन्यथा भगवत्कार्य न भवेदनिमित्ततः॥१॥ ज्ञापने दुःखसुखदे ततोऽपि ज्ञापने तथा॥ कसस्य सहभृत्यस्य धर्मबाधो न चान्यथा॥२॥ तामसप्रभुके राज्ये कृतोऽधर्मस्तु तद्गत॥ अत पूर्वस्य नाशो वै कर्तव्यस्तामसश्च ते॥३॥ ब्राह्मणा अपि तद्देशे स्वभावात्तामसा मता॥ कालस्तथाविधो यस्मात् पश्चाज्जातस्तु सात्त्विक॥४॥” ↩︎
- ↩︎
-
" त्वदीया कन्यका चेयमतो मह्यं प्रदीयताम्। भगिनीदानपात्र हि हेतुकार्यफलैस्त्रिभि॥” ↩︎
-
“‘कृपणा वृथा’ इति पाठान्तरम्।” ↩︎
-
“स्वापराधस्य कथन फलस्यापि च कीर्तनम्॥ श्रमाच्चैवापराधोऽय शोकदूरीकृतिस्तथा॥१॥ एव चतुर्भिर्लोकोक्त्या शोकाभावो निरूपित॥ तत्त्वावबोधनेनापि चतुर्भि XXXXXX” ↩︎
-
“‘सहासते’ इति पाठोऽपि केषुचित् पुस्तकेषु दृश्यते, एकत्रेत्यनेन गतार्थत्वादयुक्ततापदवीमारोहति। ‘तदासत’ इति त्वसाम्प्रदायिक।” ↩︎
-
“‘बध्यघातकताम्’ इति क—ख पुस्तकयो पाठातरमुपलभ्यते, पर मूलपाठेन विसवदति।” ↩︎
-
“‘क्षान्तरो षा च’ इति पाठान्तरम्। क्षातरोषा देवकी त व्यसृजदिति सम्बन्ध।” ↩︎
-
“‘महाराज’ इति क्वचित् पाठान्तरम्।” ↩︎
-
“‘सामर्थ्यं च जयश्चैव दीनत्व च दया तथा॥ शत्रूणामल्पता चैव राजनीतिस्तथैव च’ इति सबोधिनीकारिका।” ↩︎
-
“पुरुषप्रवृत्तिरहित इलावृतवन ओको आश्रय यस्य तेन।” ↩︎
-
“‘देवाश्च’ इति क—ख पुस्तकयो पाठो दृश्यते परंतु स च लेखकप्रमादात्। यत सुबोधिन्या ‘वेदाश्च’ इत्येव पाठ॥ चकारादङ्गानि तत्र गृहीतानि।” ↩︎
-
“वासुदेवोऽत्रैवाविर्भत इति सिद्धात्।” ↩︎
-
" ‘वेदज्ञान’ इति वा पाठ।” ↩︎
-
“‘गन्धो रूप तया स्पर्श कटाक्षभ्रमरोक्तय। ताभिश्चतुष्टय ज्ञेय रस ज्ञास्यति माधव’ इति सुबोधिनी।” ↩︎
-
“पूतानपि नयतीति पूतना, पुरुषानप्युत नयतीति वा।” ↩︎
- ↩︎
-
“षष्ठश्लोकेन।” ↩︎
-
“‘भूषिताननाम्’ इति मूले दृश्यते पाठ, परन्त्वाख्याने ‘मण्डिताननाम्’ इति सुबोधिन्या भावार्थदीपिकाया च दृश्यते अत स एव साधीयान्।” ↩︎
-
“अय लौकिकोऽग्निर्न ज्ञेय, किन्तु अग्निहोत्रणामलौकिको ज्ञेय। स च भस्मना तिरोहितो भवति, होमकाले प्रादुर्भवति।” ↩︎
-
“‘बहि साधुभावे’ इति ख—पुस्तकपाठ।” ↩︎
-
““साधारणस्थितिर्लोके पूर्वाध्यायेन वारिता। अविद्यापूतना नष्टा गन्धमात्रावशेषिता॥अत पर निरोधस्तु गोकुले सुगमो भवेत्। प्रपञ्चविस्मृति सा हि कृष्णासक्तिसमन्विता’॥” ↩︎
-
“बाहुमूले च हृदयं नाभिर्मूर्ध्ना स्तनौ चेति विदुर्बुधा” ↩︎
-
“उपादानलक्षणया धनुर्धर असिधर इति बोध।” ↩︎
-
“‘अजीवनादिहेतुभूतान्’ इति ख— पुस्तकपाठ।” ↩︎
-
“‘इत्यन्वय’ इति ख– पुस्तकपाठ।” ↩︎
-
“‘प्रवयसो निर्दहु काष्ठवेष्टितम्’ इति चक्रवर्तीपपाठमुद्रितपाठेऽकारलोपस्य क्लेश स्फुट।” ↩︎
-
“अत्र षट् श्लोका विगीता सर्वत्र दृश्यन्ते, तेपि अध्यायत्रयवद् व्याख्येया वक्ष्यते। तन्मातरो वसुदेवस्त्रियो इति व्याख्यातार इति सुबोधिनी” ↩︎
-
“‘प्रेत्यागतमुदारधी’ इति तु अरमणीय पाठ।” ↩︎
-
“‘रस्यानि’ इति पाठान्तरम्।” ↩︎
-
“‘अन्नाज्य’ इति पाठान्तरम्।” ↩︎
-
“‘इत्यन्वय ’ इति ख—पुस्तकपाठ।” ↩︎
-
“केषुचित् पुस्तकेषु इदं श्लोकार्धं नास्ति।” ↩︎
-
“ख—पुस्तके ‘दश प्रदिश’ इति।” ↩︎
-
“अयोग्यतादर्शने हि हरेश्चादर्शन तत। सर्वाज्ञान तत स्वस्मिन् यशोदास्नेह एव च॥ गोपिकानां तथा स्नेह पञ्चवर्षाणि लौकिकात्।” ↩︎
-
“‘प्रदिशो दिश’ इति पाठ।” ↩︎
-
“भक्तिर्ज्ञान तथा पूर्ण विस्मयश्च तत परम्। जातो लौकिकभावस्य दृढत्वादिति रूप्यते॥ अध्यायसमाप्तौ— “पूतनासु पय पानाद्बालदुःखनिवारक। प्रपंचस्मृतिहता च गोकुले राजते हरि॥ स्वासक्त्यर्थं शकटभित्तृणावर्तविनाशक। सामर्थ्यज्ञापनार्थाय विश्वाधार प्रसीदतु” ↩︎
-
“अनोभगादीति। अनस शकटस्य भग आदिर्यस्येति।” ↩︎
-
“ज्ञापित च हरेस्तत्त्व स्नेहाधिक्यान्न बुध्यते। अतो निरोध कर्तव्य शास्त्र तन्नाप्रयोजकम्॥” ↩︎
-
“गतौ गतिविशेषे च भूमौ रूप द्वय हरे। यशोदाया तथा रूपमुपविष्ट त्रिधा मतम्॥ अन्याश्रित स्वतश्चैव कथचित् सर्वथा तथा। उत्थित तु त्रिधा रूप युक्त त्रिविधलीलया॥ बालकैर्मुग्वलीलाद्या धार्ष्ट्यधैर्यसमन्विते। निर्गुणावस्थरूप च ज्ञापिते तु तत परम्॥ सात्विकादिविभेदेन तत्तद्धृदयगामिनी। तास्तास्तु क्रमशो मावान् दूरीकृत्यातिमे स्थिरा॥ यशोदार्थमिय लीला प्रसादन्यगामिनी। यदैव वा महे न्यास्तदैव दशधा हरि॥ जानुभ्या गमन विष्णोर्द्वैत्याना सर्दनाय हि। बलिदैत्यपतिर्भूत्वा न निवारयति स्वत॥” ↩︎
-
“इष्टस्य यदु सबधे शिष्ट पुष्टिं विमुंचति। नान्यंत्रेति हरि प्रीत सत्य क्रूरगतोऽभवत्॥ शृगिणो दष्ट्रिणश्चैव पक्षिणश्च विघातका। चेतनास्त्रिविधा एवं ततोऽन्ये तु चतुर्विधा॥ कृत्रिमा सहजास्तेऽपि खन्नाग्निनकटका॥” ↩︎
-
“अनुक्रोश्य तोकान् ’ इति सुबोधिनीस्थ पाठ।” ↩︎
-
" अत्र श्लोके भगवत षड्गुणा निरूपिता सति।" ↩︎
-
““दोषो निवृत्तये यत्नो वाक्य वाक्यस्य तस्य नुत्। तत्साधिका कृतिर्विष्णोर्ज्ञानपूर्व निवारकम्॥ ज्ञानस्योत्कर्षसिद्ध्यर्थं विषयाणा च वर्णनम्। ततो भय तन्निवृत्तौ पूर्वपक्षस्य युक्तयं॥ सिद्धतिम प्रतिष्ठान भीतार्या शरणागति”इति सुबोधिन्याम्।” ↩︎
-
“दधिपदमध्याहार्यम्। यदि तत्रापि ते दुराग्रहस्तर्हि जातक पचेति प्रश्लेषय । सतुष्यतु प्रश्ननिपुण। जातकमिति कर्म। पचेत्यपि कर्म। जातक निर्ममन्थ। पच विभ्रतीत्यन्वयः।” ↩︎
-
" ‘दधिमन्थभाजनम्’ इत्यपि पठन्ति सम्प्रदायविद।" ↩︎
-
“तेन तुल्य क्रिया।” ↩︎
-
“अङ्गसश्रया ’ इति पाठान्तरम्।” ↩︎
-
“’ आत्मपोतानाम् ’ इति पाठ क्वचित्।” ↩︎
-
““एव तु नवमाध्याये भक्तिरुक्ताऽतिदुर्लभा। कृष्णसेवकसख्यस्य हेतुर्दशम उच्यते॥ वैराग्य भगवद्धर्म षङ्गणोऽत्र निरूप्यते। गुणाना भगवत्स्त्वाय स एव हि यतोऽभवत्॥ वैराग्यमनिवर्त तु भगवद्वाक्यतो भवेत्। विशेषतस्तु यद्वाक्य न निवर्तेत केनचित्॥ तादृश शापरूप स्याद्भक्तानामेव तादृशम्। अतो वैराग्यकथने शापो मोक्षावधिर्मता॥ शापोद्यमस्तथा हेतु शापश्चापि प्रसादभाक्। वाक्यस्यापि फल शीघ्र स्तुतिश्चानुग्रहस्तथा ॥ पद्भिर्द्वादशभिश्चैव त्रिभिषभिस्तथैव च। दशभि पञ्चभिश्चैव पडर्थ क्रमतो मता॥ अपूर्वत्वाच्छ्रोतुमिच्छा तेन प्रश्न परीक्षित। स्वस्यापि तादृशत्वेन तद्वन्मोक्षाशया पुन” ↩︎
-
“लक्षणया सामीप्यार्थावगति।” ↩︎
-
“‘गगायामन्तर्मध्यें। कथभूते२ अमोजाना वनानि तेषा राजयस्ता विद्यन्ते यस्मिंस्तस्मिन् ’ इति श्रीधर।” ↩︎
-
“तेन निषेक्तु पितुर्मातुरित्यनेनापौनरुक्त्यम्।” ↩︎
-
“’ निर्गुण हि सम ब्रह्म ’ इति वाक्यात्। यद्वा मया लक्ष्म्या सहितःसमो भगवास्तम्। " ↩︎
-
“तृष्णाम्।” ↩︎
-
“’ पति समास एव ’ इति सूत्रस्था मनोरमा न विस्मर्तव्या।” ↩︎
-
“’ अस्मदो द्वयोश्च ’ इति शासनालाक्षणिक बहुवचनम्।” ↩︎
-
“निरोध सर्वभावेन वर्णनीयो हि गोकुले। स्त्रीणा स चोक्त पुसा च नन्दप्राधान्यभावत॥ एकादशे ततोऽध्याये पूर्वावस्थामशेषत। त्याजयित्वा तु नन्दस्य कृष्णभावो निरूप्यते॥ मोचन मुग्धलीला च स्थानान्तरपरिग्रह.। तत्र लीला वत्सबको ज्ञान चेति निरूप्यते॥ षस्त्रिमि षोडशभिश्चतुर्भि षड्भिरेव च। नवभि पचभिश्चेति सप्तार्था सगुणो हरि॥स्वार्थे तु भगवान् कार्यस्तथात्व ज्ञाप्यते पुन। सर्वस्व हरिरेवेति तदर्थं त्याग ईर्यते॥ वृदावने स्थितौ हेतुर्भगवत्तोषत परम्। नास्तीति ज्ञापनायोक्ता प्रीतिलीलोपयोगिषु॥ वत्सचारणदोषस्य निवृत्तिवत्समारणम्। गोपालदोषव्यावृत्त्यै वत्सस्यापि विनाशनम्॥ स्थानत्यागे हरीच्छेव कारण न तु दुष्टता। तज्ज्ञापयितुमन्त्रापि मकवत्सौ विनाशिती॥ अतो विमशा गोपानामानन्दध निरूपित। तदर्थमेव च हरेबालभावो न चान्यथा ॥ सपने तु ततस्तस्य परित्यागोऽपि वर्ण्यते " ↩︎
-
“’ कृष्णबलयोर्जिघासु ’ इत्यत्र ‘न लोकान्यय ’ इति कारकषष्ट्या प्रतिषेधात् द्वितीयार्थे इत्याह। वस्तुतस्तु ’ न लोकान्यय० ’ इत्यनेन न शेषषष्ट्या प्रतिषेध, तेनेयं शेषषष्ठी” ↩︎
-
“यमुनाजलपामैन दोष सर्वो विनिर्गत। एकीभूतो बक प्रोक्तौ पीनात् स दृश्यते॥ अंत’ पान दर्शन च तेनोपद्रव एव च। तत सर्वापराधश्च तद्वधोपाय एव च॥ संद्बषेश्व । स्तुतिर्देवैर्गोपाना तोष एव च। तथैव गोकुलस्थाना नव प्राणा हि शोषिता॥ " ↩︎
-
“क- पुस्तके ’ कूजतश्च’ इति पाठान्तरम्। ’ शपत ’ इत्यस्यायमर्थ -’ र रे कस्त्व चोरोसि ! ’ इति।” ↩︎
-
“’ दिष्टमत ’ इति पाठान्तरम्।” ↩︎
-
“१ श्रीधरीया टीकामनुवदतीय टीका।” ↩︎
-
“‘क्षुधार्दिता’ इति कचित् पाठ।” ↩︎
-
" ‘दध्योदनयोग्यानि जम्बरिकादिफलानि ’ इति सुबोधिन्यास” ↩︎
-
“आस्रुपया’ इति पाठान्तरम्।” ↩︎
-
“’ दृष्ट्वा च तन्नाथ ’ इति पाठ क— पुस्तके टीकायाम्।” ↩︎
- ↩︎
-
“पशुपो नन्द, तस्याङ्ग मित्र वसुदेव अङ्ग शरीरे मित्रे च सम्बुद्धिनरभेदयो " ↩︎
-
“‘अलङ्कृतम्’ इति सुबोधिन्याम्।” ↩︎
-
“उपाख्यानानामपि सत्यार्थप्रतिपादकत्वात्।” ↩︎
-
“’ आत्मास्यधीशोऽखिललोकसाक्षी ’ इति पाठान्तरम्। " ↩︎
-
““ विष्णोस्तु त्रीणि रूपाणि पुरुषा ख्यान्यथो विंदु। प्रथम महत स्रष्टृ द्वितीय स्वढसस्थितम्॥ तृतीय सर्वभूतस्थ तानि ज्ञात्वा विमुच्यते " ↩︎
-
" ’ अहमात्मा गुडाकेश सर्वभूताशयस्थित ’ इति वाक्यात्। ‘” ↩︎
-
“नृष्वपि तिर्यक्षु केचनावतारा, यथा - श्रीनृसिंह श्रीहयग्रीवश्च।” ↩︎
-
““दिग्वातार्कप्रचेतोश्विवह्नींद्रोंपेंद्रमित्रका।भद्रश्चेति” ↩︎
-
" देहादिविस्मारकं च रोमाचस्वेदश्य दशमकार्यम्, अन्येषामुपयोग. स्पष्ट एव। पुसामपि वाल कन्योत्पादनादिद्वारा " ↩︎
-
" सर्वकरणसमर्थोऽसि इति क- पुस्तकपाठ।” ↩︎
-
““यशोदानन्दयोरेव निरोध सुनिरूपित। गोपालाना निरोधोऽत्र सस्त्रीकाणा निरूप्यते॥ मध्यमोऽय समस्ताना निरोध परिकीर्त्यते। पञ्चधैवानुभावोऽत्र दुष्टनिग्रह एव वा॥ आध्यात्मिकीमविद्या हि दूरीकर्तुं तथा कृति। तदर्थं क्रमतोऽध्याया उभयेषा तथा द्वयम्॥ स्नेहाधिक्यसुसिद्ध्यर्थं स्नेहतो मध्यम स्मृत। प्रथम द्वादशेऽध्याये देहाध्यासो हि धेनुक॥ तद्वधो ज्ञानपूर्वो हि फलावधि निरूप्यते। कालीय इन्द्रियाण्याहुर्विषयास्तद्विष मतम्॥ तत सर्वविनाश स्यादित्यन्ते मरणाभिधा। ततश्चेज्जीविता सर्वे पुनर्देहान्तरास्थिति” ↩︎
-
“’ भजन्ते ’ इति पाठान्तरम्।” ↩︎
-
““ कायवाङ्मनोभिर्यथुक्तमयुक्त पीडक च तत्। चतुर्विधा मल्ललीला स्तूयते हरिणा मुदा " ↩︎
-
“सुबोधिन्यामध्यायत्रय प्रक्षिप्त वर्जयित्यैव सर्वत्र सख्यास्ति, यत आदशमपरिसमाप्ति सन्याभेदोऽवधारयितव्यो विद्वद्भि।” ↩︎
-
“‘चित्रताण्डव विरुग्णफणासहस्त्र ’ इति पाठान्तरम्।” ↩︎
-
““दशरूपाणि तु हरेर्मूलरूप स्वशास्त्रत॥ वेदान्तवेद्यरूपश्च जगद्रूपस्तथैव च॥१॥ सङ्घातजीवरूपश्च नानारूपश्च शास्त्रत॥ एव प्रमेयखरूपाणि पञ्चधोक्तानि वै हरे॥२॥ वेदार्थरूपस्तत्रार्थो गुणार्थो ह्यवतारकृत्॥ अन्तर्यामी च भगवान् दशधोक्त स्वलीलया " ↩︎
-
““चतुर्दशे भगवतो दर्शनान्निर्वृतो व्रज॥ अग्ने संरक्षित पश्चात् प्रासङ्गिकमिहोच्यते॥ १॥ इन्द्रियप्राणयोर्दोषो निवार्यस्तु सदैव हि॥ अतः कालीयकथया दाहाभावो निरूप्यते॥२प्रासङ्गिककथा त्वत्र हरेरद्भुतकर्मता॥ वक्तमुक्ता सर्वदोषा नान्यथा याति हीति च ॥३॥” ↩︎
-
“अमावास्या वृक्षमूले नागलोकेषु यद्भवेत्॥ एकस्मिन् दिवसे तावदेकत्र स्थापयन्तु हि॥१॥ ततो हि गरूडस्तस्मिंस्तद्भुक्त्वा नैव पीडयेत्॥ इति व्यवस्था सर्पा मासि मासि बलिं ददु॥२॥ इति सुबोधिनीकारिका।” ↩︎
-
“‘तत्रत्य क्षेममाचरन् ’ इत्यपि पाठ केषुचित् पुस्तकेषु दृश्यते। तथापाठे तु तत्रत्याना प्राणिना क्षेममाचरन् इति विग्रहः कार्यः।” ↩︎
-
“’ मत्स्यांश्चखादति ’ इति पाठान्तरम्।” ↩︎
-
“उक्त पञ्चदशाध्याये प्रलम्बस्य वधो महान्। आवेशचरित वाच्य बलभद्रकृतस्ततः॥१॥ व्रजे गतस्य क्रीडा च सर्वथा वनगोष्ठयो॥ अन्तःकरणदोषश्च महानत्र निवर्तते॥२॥ इति सुबोधिनीकारिका।” ↩︎
-
“राजस सात्विकश्चैव तामसश्चापि कीर्त्यते।” ↩︎
-
“अक्लिष्टकर्मतासिद्धयै हीनत्व कुरुते क्वचित्॥ धर्मप्रधानो भगवानिति ज्ञापयितुं तथा॥ १॥” ↩︎
-
“अज्ञानात्मा स्वात्मदोषो - वाग्निस्तन्निवारणम्॥ षोडशे प्रोच्यते सम्यङ्निनरोध सेत्स्यते तत॥ १॥ ततो दासैर्मुदा लीला स्वच्छन्दा भविष्यति॥ स्त्रीणा चैव मन प्रीति- स्तदा शक्ति फलिष्यति " ↩︎
-
" ‘गोष्पदै ’ इति पाठान्तरम्।” ↩︎
-
“प्रार्थनामुपपत्तिं च क्रमेणाह निराकृतौ।” ↩︎
-
“अयं च्छान्दसः प्रयोगः। ’ अवसीदितुम् ’ इति पाठान्तर चक्रवर्तिसम्मत च। अवसादशब्दादाचारे क्विप्, ततस्तुमुन्। " ↩︎
-
“’ बन्धूनाम् इति पाठान्तरम्।” ↩︎
-
" ‘निमीलयत’ इति पाठो वा।” ↩︎
-
" लीला सप्तदशेऽध्याये निरुद्धै सहितोच्यते॥ वर्षाशरत्कालयोगात् सर्वतत्त्व च रूप्यते॥१॥ दोषापगमने एव सर्वस्वस्य बोधनम्॥ ज्ञाते च तत्त्वे सत्कीडा प्राजापत्ये निरूप्यते॥२॥ माहात्म्यज्ञानपूर्वस्तु स्नेह कृष्णे हि युज्यते॥ तादृशैश्चमुदा कीडा तच्चाप्यन्न निरूप्यते॥३॥” ↩︎
-
“‘प्रणिनम्’ इति पाठान्तरम्।” ↩︎
-
“अर्थ शब्द फल चापि त्रिविध परिकीर्तितम्॥ अन्तर्बहिस्तथा चाङ्गमातरं चेति भेदतः॥१॥” ↩︎
-
“‘धनिनाम्’ इति पाठान्तरम्।” ↩︎
-
" ‘च’ इति पाठान्तरम्।” ↩︎
-
“‘निषेषया’ इति पाठान्तरम्।” ↩︎
-
“‘अशोभत’ इत्यर्थ।” ↩︎
-
“जीवा नद्य पर्वताश्च मार्गो कामिन्य एव च॥विद्यावान् चन्द्रपातर्हीभक्ता वा तापसस्तथा॥१॥ गृहिणा वैदिका मार्गा राजानश्चेति कीर्तिता॥२॥ सर्वेऽप्येते वृष्टि काले सुख दुखं च लेभिरे॥पुष्टिमार्गस्थिता सर्वे सुख प्रापुन चापरे॥३॥” ↩︎
-
“जलाना सर्वभूतानामभ्राणा ज्ञानिना तथा॥ कुटुम्बिना दरिद्राणा विरक्ताना विमुक्तिनाम्॥१॥ योगिना गोपिकाना च शरत्संबधतो हरि॥ दशदोषान्निवार्याय चित्तस्यापि निवार्य च॥२॥ सर्वानशोभयदेव षड्गुणैश्चद्रमानवा ॥ गाव पद्मानि भूमिश्च वर्णाश्चैव विभाषिता॥ ३॥ शरद कार्यमेतावद्भगवान विशयत.॥” ↩︎
-
" विद्यया सहितो विद्वान् म्रियेतैवाविचारयन्॥ न त्वयुक्ताय तद्दद्यात् कथंचिदिति निश्चय॥ १॥” ↩︎
-
“यद्यपि क- ख–उपादेयोपमेति तथापि सदर्भविरोधात् प्रमाद इति त्यक्तम्।” ↩︎
-
“ऊर्ध्वेन्द्रियैस्तु विक्षेपो ज्ञानस्याधी विनाशनम्। निरोधे पुजभावेन स्वकार्यं साधयेद्ध्रुवम्॥ १॥” ↩︎
-
" मासाष्टक तथाकाशे। मेघैरपोह्यते सम्यगत शरदि निर्मला॥ सर्वा दिशो नभश्चैव तारकाश्चद्र एव च॥ १॥” ↩︎
-
“अष्टादशो गोपिकानामसक्तिर्वर्ण्यते स्फुटा॥ वर्ण्यवर्णकभेदेन गोपानामपि सोच्यते॥१॥ प्रवेशबोधने तासामुद्बोधाय निरूपिते॥ तद्गुणेषु प्रसक्ता हि तदासका भवति हि॥२॥ आसक्ति प्रेमपूर्वैव प्रेमापि हरिणा कृतम्॥ उद्बोधक च हरिणा कृत नान्येन केनचित्॥३॥ आसक्त्या वर्णन तस्मात् विद्यते वर्ण्यते स्फुटम्॥ कालाधिको हरिश्चात्र पुरुषोत्तम् एव च ॥४॥ त्रयोदशविधा लीला तत् उक्ता पृथक् पृथक् इति सुबोधिन्याम्॥” ↩︎
-
" ‘पुच्छानाम् ’ इति ख— पुस्तके ।” ↩︎
-
““रसद्वयार्थ द्वितय वेणुपूरणमेकत ॥स्वच्छदपापगमने हेतुश्चापि तथाऽपर॥ १॥ चतुर्भि पीठिकैव स्यात् षड्भिर्वेणोस्तु वादनम्॥ द्वाभ्यां भक्त प्रतिष्ठा च दोष स्याद्वर्णने तथा॥ वैपरीत्यात् समाधानमन्यथा स्यात्तु दूषणम् ॥२ ॥भगवता सह सलापो दर्शन मिलितस्य च॥ आश्लेष सेवन चापि स्पर्शश्चापि तथाविध॥ २॥ अधरामृतपान च भोगो रोमोद्गमस्तथा॥ तत्कूजिताना श्रवणमाघ्राण चापि सर्वतः॥ ४॥ तदतिकगतिर्नित्यमेव तद्भावन सदा॥ इदमेवेंद्वियवता फलं मोक्षोऽपि नान्यथा॥ १॥ यथाधकारे नियता स्थितिर्नाक्ष्णो फल भवेत्॥ एव मोक्षेपींद्रियादियुक्ताना सर्वथा नहि॥ ६॥ बाधकाना परित्यागे साधकाना न तद्भवेत्” ↩︎
-
“गुणा माया च वेषार्थमुपयुक्ता भवंति हि॥ अथो रसस्यापि न ये चत्वारोऽर्थानिरूपिता॥ १॥ रसरूपसुगन्धाना प्रतिष्ठा त्रिषु निश्चिता ॥धर्म्याच्छादनबोधायमाया यात्र निरूप्यते॥ २॥ वस्तुनिर्देशमात्रेण श्रोतॄणा कान्यवद्रस॥ रसवत् फलबोधाय प्रथम पल्लवो यत॥३॥ शास्त्रार्थस्य परिज्ञानाद्भावस्य कलिका भवेत्॥ ततस्तस्य च वैचित्र्य पुष्पस्थानमिहोच्यते ॥४॥अहोरात्र वासना स्यात्तत आच्छादना स्मृतम्॥ रसोत्पत्त्यर्थमेतावन्निरूपितामिति स्थिति॥ १॥ आविर्भावे रसास्वादात् नृ य शोभा ततो भवेत्॥ अतोऽतिगुप्तो भगवान् रसत्व प्रतिपद्यते॥ ६॥” ↩︎
-
" ‘पुच्छ’ इति ख— पुस्तकपाठ।" ↩︎
-
“हरिण्योऽप्सरसो गाव पक्षिणो नद्य एव च॥ मेघाश्चेति क्रमेणैव कृष्णैश्वर्यादि बोधकाः॥१॥ ईश्वर पूज्यते लोके मूढैरपि यदा तदा॥ निरूपाधिकमैश्वर्य वर्णयति मनीषिण॥२॥वीर्य देवेषु तत्रापि स्त्रीषु तत्रापि कामताम्॥ सान्निध्ये पुरुषाणा च मुर्च्छा तेन ततो महत्॥३॥ यशो यदि विमूढाना प्रत्यक्षासक्तिवारणात्॥ स्वधर्म योजयेत्तेषु तदा भवति नान्यथा॥४॥ तामसा राजसाश्चान्ये गुणातीताश्च रूप्यते॥ वृन्दावन गुणातीत मुनयश्चापि पक्षिण॥५॥ गोवर्धनश्च त्रितय गुणातीतमिह स्थितम्॥ तद्रताश्चापि लोकोऽस्मिन् गुणातीता भवति हि॥६॥ श्रियो हि परमा काष्ठा सेवकास्तादृशा यदि॥ ज्ञानोत्कर्षस्तदैव स्यात् स्वभावविजयो यदि॥७॥ हरेश्चरणयो प्रीति स्वसर्वस्वनिवेदनात्” ↩︎
-
“अत सप्तभिरध्यायैर्निरोधोऽत्र निरूप्यते॥ उत्तम फलपर्यन्तो विद्यानिर्णयपूर्वकम्॥ १॥ विद्यापचकमत्रापि तस्मिन् जाते सुरक्षणम्॥ इहैव गमनं चापि वैकुंठावधि वर्ण्यते ॥२॥ ज्ञानं कर्म च विद्याया पंचात्मकमिति स्थिति॥ अविद्याकार्यं सबधो नात्रेति विनिरूप्यते॥ १॥ स्त्रीपुंसो सह भाषेन तुल्यत्वाच्च निरूपणम् ॥ लोकानुसारिणी विद्या कर्मज्ञानात्मिका पुरा॥४॥ निरूप्यते गोपिकाना गोपाना च विभेदत॥ एकोनविंशे भोग्याना कुमारीणा व्रत यथा॥ अतस्थाना कुमाराणा तथा ज्ञानमिहोच्यते॥१॥” ↩︎
-
“‘महाभागे ’ इति पाठान्तरम्।” ↩︎
-
“‘आहता ईषदक्षतयोनीर्वीक्ष्य’ इति श्रीधरस्वामी, ‘कुलवधुना लज्जात्यागस्य मरणतुल्यत्वान्मृततुल्या’ इति चक्रवर्ती ।” ↩︎
-
" ‘अभिहिता ’ इति पाठान्तरम्" ↩︎
-
“च हापिता इति पाठान्तरम्।” ↩︎
-
" भर्जिता कथिता धाना प्रायो बीजाय नेशते इति पाठान्तरम्। ‘अर्थसु टीकायामुक्त, अय तु पाठ समतश्चक्रवर्तिन।" ↩︎
-
“कर्मज्ञाने वैदिके तु विशत्यध्याय उक्तवान्॥ उभयोर्निर्णयो यादृक् सोऽप्यत्र विनिरूप्यते॥१॥ साक्षाद्भगवतोक्त हि यथापूर्वं न भासते। परपरोक्तमप्येव स्त्रिया भावस्तथापर॥२॥ रमते योगिनोऽवर्ते सत्यानन्दे चिदात्मनि॥ इति रामपदेनासौ पर ब्रह्माभिधीयते॥३॥ इति सुबोधिनीकारिका।” ↩︎
-
“पूर्वानुवादस्तत्रैव उपपत्तिश्च तद्विधा॥मर्यादाया प्रवेशश्च ततो गतव्यबोधनम्॥१॥” ↩︎
-
“‘मुनिपत्न्य’ इत्यपि पाठान्तरम्।” ↩︎
-
““पश्चात्तापो विगर्हा च हेतुस्तस्य निरूप्यते॥ तथात्वे चापि हेतुर्हि स्वहीनत्व च कर्मभि॥ १॥ संस्काराणा च हेतुत्व भक्तेरन्यच्च साधनम्॥ स्वभक्तेर्बोधन हेतुरन्यथा नोपपद्यते॥ २॥ तथात्वसाधन तस्य कर्मवैयर्थ्यबोधनम्॥ द्वाभ्यांरूपद्वयोक्त्यैव स्त्रीसम्बन्धात् कृतार्थता॥३॥ क्षमापन नमस्कारे प्रार्थनाभिर्निरूप्यते॥ अनागमनमिच्छातो भक्त्यैवेयं मतिर्भवेत्॥४॥ ब्राह्मणानामय धर्म स्नेहाच्चापि न बाध्यते॥ भिक्षारूपेण सा याच्या बाध्यते न तु लौकिकी” ↩︎
-
“‘त्यशृण्म’ इति पाठान्तरम्।” ↩︎
-
“एकविंशो हेतुकस्य कर्मणो विनिवारणन्॥ कृत्वा तद्वैदिक चक्रे युक्त्यैवेति निरूप्यते॥१॥ तथा प्रबोधिता विप्रा एव दत्त्वा अपि स्वयम्॥ महता महती शिक्षा उत्तरोत्तरमुत्तमा ॥२॥ स्त्रीणा वस्त्राणि जगृहे तु स्त्रिय सती॥ देवानां तु हवींष्येव येषु ते सुप्रतिष्ठिता॥३॥ तामसान् राजसाश्चैव समृद्धत्य मनीषया॥ सात्त्विकोद्धरणे यन्तु यागभङ्ग चकार ह॥४॥ इति सुबोधिनीकारिका॥” ↩︎
-
“अस्त्यस्वपर’ इति पाठातरम्।” ↩︎
-
“हैतुक शास्त्रमाश्रित्य भैतिकेन्द्रियलोकत॥ भ्रमात् परपराप्राप्त कुर्वंतीति निरूप्यते॥१॥” ↩︎
-
“हेतुशास्त्रमिदं यस्मात् दृष्टार्थमुपयुज्यते॥अदृष्टार्थतथा चान्यत् तज्ज्ञापयति निश्चितम्॥१॥ हेतुके फलभोक्ताऽयं इन्द्रो विघ्न चकार ह॥ वृष्टिरूप तत कृष्ण शैलधारी बमत ॥२॥ उभयोर्हेतुकत्त्वार्थमेव भगवता कृतम्॥निषिद्धभोगिना बुद्धिर्नष्टा भवति सर्वथा॥३॥ इतीद्रस्य महामोहवाक्यान्याह विशेषत॥ द्वाविंश ईर्यते कृष्ण इन्द्रेण विनिपीडितम्र॥४॥ व्रजं गोवर्धन धृत्वा सम्यक्पालितवानिति॥ क्रोधोद्यमौ च वाक्यानि चतुर्भि सर्वनाशनात्॥ पीडाहेतुफलान्युक्त्वा सधिमाहेतरेण हि॥५॥” ↩︎
-
“‘मद्भाव ’ इति पाठान्तरम्” ↩︎
-
“शरणागतसंरक्षा सर्वभावेन सर्वथा ॥ कौतेय प्रतिजानीहि न मे भक्त प्रणश्यति ॥ १ ॥ संग्रामे च प्रपन्नाना तवास्मीति च यो वदेत् । अभयसर्वभूतेभ्यो ददाम्येतद्व्रत् मम॥ २॥ प्रथमं क्लेशसंबध पूर्वपाखडधमत ॥शरणागमने बुद्धिर्यागानुष्ठानतोऽभवत् ॥ ३ ॥ मर्यादारक्षणार्थाय शरणागतिवर्णनम्॥ अन्यथाऽन्य गृहीतार्थगृह्णीयाद्भगवान् कथम् ॥ ४ ॥ अतो यागोपदेशश्च दूरोपायतया मत॥ भक्तिमार्गस्य तत्क्लिष्टकर्मत्व च ततो भवेत् ॥५॥ इति सुबोधिनीकारिका।” ↩︎
-
“अज्ञानमन्यथा ज्ञान कृष्णग विनिवार्यते॥ त्रयोविंशो समत्वाय निरूद्धानामशेषत॥१॥ पूर्वपक्षश्च सिद्धान्त फलं चेति निरूप्यते॥ अप्राकृतत्व संबधो द्वय स्थाप्यमिहोक्थिभिः॥२॥ विरोधात् प्राकृतत्वेन संबधस्त्यज्यते पुरा॥ जातस्तादृश एवात्र न सदेहस्तथापर॥३॥ माहात्म्यदर्शने हेतु पूर्वपक्षे तथाऽपरे॥ गर्गवाक्यानि तज्ज्ञान पलमित्येष निश्चय॥४॥ इति सुबोधिनीकारिका।” ↩︎
-
““चतुर्विंशे भगवत अभिषेको निरूप्यते॥ स्तुति शिक्षा तथेंद्रस्य कामधेन्वादिभि कृता॥१॥ यथा रक्षा सुसंसिद्धा मदाभावस्तथा यदि॥ तदैव भगवत्कार्य सर्वसफलता व्रजेत्॥२॥ गोरक्षा चेद्धरिकृता नाधिदैविकगामिनी॥ तया वा दासभावश्चेन्न वाप्यगीकृत क्वचित्॥१॥ स्वयं वा स्वामिभावेन न स्वीकुर्यान्मुरद्विषम्॥तदेय भगवल्लीलाप्रमाणं नैव जायते॥४॥ अतो हेतूक्तिरप्येषा सत्फला वर्ण्यते स्फुटा॥ इद्रयागश्च भविता यस्मादिंद्रो हरि स्वयम्॥५॥ इति सुबोधिनीकारिका।” ↩︎
-
" क्रियाशक्तिप्रधानोय बाह्यश्चायं तथाविधः। पुरुषार्थप्रसिद्ध्यर्थं षड्गुण स्तौति माधवम्॥१॥" ↩︎
-
“सच्चिदानदरूपाय भक्तेच्छापूरकाय हि॥ शुद्धज्ञानस्वरूपाय फलसाधनरूपिणे॥१॥” ↩︎
-
" उपक्रम कृत चैव हेतुश्च वितथाक्रतौ॥ प्रसादश्चेति भृत्याय भगवान् स्वयमुक्तवान्॥१॥" ↩︎
-
“अतो गोविप्रदेवानां हविर्मेत्रहविर्भुजाम्।” ↩︎
-
“पंचविंशो तु वरूणान्नद मोचयिता हरि। तत सर्वान् स्ववैकुंठे नेष्यतीत्युच्यते फलम्॥१॥ अभिषेकश्च तैर्दृष्टो देवै स्तोत्रदिकं श्रुतम्॥ ज्ञाते देवोत्तमत्वे तु द्रष्टव्यं पौरूषं परम्॥२॥ अन्यथा नदविज्ञान भवेव् पर्यवसायि तत्॥ अतस्तन्निग्रहो वाच्यो वरूणस्तेन सेवक॥३॥ कालाद्युपासकश्चेत्स्याद्भगवत्सेवक क्वचित्॥ तत् क्लेशमवाप्नोति कृष्णादेव च मुच्यते ॥४॥ ततो माहात्म्यविज्ञान पूर्णं तस्य भविष्यति॥ ततश्चिंतनमात्रेण भगवान्स्वपद नयेत्॥५॥ मुहूर्तार्धावशिष्टाया द्वादश्या पारण प्रति। निशीथात्सम्यगुत्थाय क्रिया कुर्याद्यथोचितम्॥६॥ अग्निहोत्रादिकर्माणि तथा नैमित्तिकानि च॥ आमध्याह्नात् क्रिया सर्वा कर्तव्या शंभुशासनात्॥७॥ इति सुबोधिनबकारिका।” ↩︎
-
“ब्रह्मानदान्महानन्दो भजने वर्तते स्फुटम्॥ तारतम्य ज्ञापयितुं प्रदर्श्योद्धृतवास्तव॥१॥” ↩︎
-
“नूतने तस्मिन् मनसि देवता नास्तीति अनधिष्ठित य कार्यं न साधयिष्यतीति तदधिष्ठातृ दैव चन्द्र च ससृज इत्याह—तदोडुराज इति। यदैव मन कृतवान् तदैव तस्याधिदैवतमुडुराज उद्गात् उदीतो जात। यद्यप्येकदा रात्रयो दृष्टा तथापि क्रमेणैव तासां स्थिति भगवन्मनश्चन्द्रस्याधिदैविकत्वात् पूर्ण एव स निष्कलकश्च मनस्येवाविर्भूते तस्याविर्भाव। क्रीडा यामुपरतायामुपरति मध्याकाशपर्यंतमेव गमन नास्तमय। कदाचिदपि सोपि चन्द्र स्त्रीणा मनांसि उडुस्थानानीति तेषामपि रक्षक। इदं प्रथमतया जात इतिपूर्वस्यामेव दिशि तस्योदय उच्यते। सा दिग्देवानामिति तस्या दिश इन्द्रो देवता अधिपतिश्च इदानीं भगवानेवेन्द्र इति तस्य रेतोरूपःतस्यामुद्गत अत प्राच्या ककुभ मुख मध्यभागस्वकरै स्वकिरणै विलिंपन् उद्गात्। तस्या मुखे न राग स्थित प्रतिस्पर्धिन्या सूर्यसंबधेन रागसंभवात्। अत अस्यापि मुख कुकुमसदृशैः करैरारक्त क्रियते। यदि चन्द्र स्वदिशो मुख॥१४०॥” ↩︎
-
“गोभि रजितमित्यत्र ’ दूलोप ’ इति पूर्वसवर्णदीर्घ प्राप्त।” ↩︎
-
“तत सर्वा स्त्रिय समागता इत्याह—निशम्येति। यद्यपि भगवता कुमारिक” ↩︎
-
“इदं तु समाधानमक्लिष्टम्।” ↩︎
-
“एव तिस्रो राजस्य। सास्विकीराह—परिवेषयत्य इति। भर्तुरपत्यस्यापि सेवा स्त्रीधर्म। तत्र भर्तुर्भोजने शयने च सेवा स्वधर्म, अतिबालकानां पुत्राणां स्तनदान च। परिवेषण च सृष्टिरेव रेतस उत्पादकत्वात्। स्तनदान पालनम्, शिष्टमन्यत् सर्वत्र तत्तद्धित्वेति ज्ञेयम्। अन्या इत्यपि तामसीराह—अश्नत्योपास्य भोजनमित्यादि॥६॥” ↩︎
-
" १ लिम्पन्त्य शरीरानुलेपन कुर्वत्य। प्रमृजन्त्य उद्वर्तनादिक कुर्वत्य। गृह वा लिम्पन्त्य, प्रमृजन्त्य आभरणानि भाण्डानि वा प्रमृजन्त्य॥ अत्रापि पूर्ववदेव क्रम। शरीरसेवात गोसेवा मुख्या, तत पतिसेवेति। अञ्जत्य काश्च लोचने इति गुणातीता। अत काश्चनेति दुर्लभाधिकारः सूचितः। ज्ञानमार्गशोधिका इति निर्गुणत्वम्। तासामागमने दैहिकविचारोऽपि न जात, किं पुनस्तद्धर्माणामिति वक्तुं वस्त्राभरणयोर्व्यत्यासमाह—व्यत्यस्तेति। व्यत्यस्तानि विपरीतानि वस्त्राण्याभरणानि च यासाम्। एवमुद्यम सर्वासामेव साधारणो निरूपित। व्यत्यासो मार्गगताविति केचित्। तन्मध्येपि काश्चित् कृष्णान्तिक ययु, काश्चित् न। या पुन शब्दपरा जाता ता उद्युक्ता अपि नागता। या पुन शब्दापेक्षा त्यक्तवत्यस्ता सर्वतो निरपेक्षा विपरीतावश्यकदेहधर्माभगवदन्तिकमागता॥७॥" ↩︎
-
" एवं दशविधानां भगवत्समीपगतिमुक्त्वा यासां काल प्रतिबन्धक पूर्वमेव भक्तियुक्त ता भजनानदमननुभूयैव प्रतिबद्धा एव भगवत्सायुज्य प्राप्तवत्य इत्याह—अन्तर्गृहगता इति त्रिभिः। दैवगत्या काश्चिद्गृहमध्ये स्थिता गोपभार्या चातुर्यानभिज्ञा अप्रौढा पतिसहिता पतिभिरेव संरक्षिता अलब्धविनिर्गमा जाता। तत प्रतिबंधनिवृत्त्यर्थं कृष्णमेव ध्यातवत्य। परं तद्भावनायुक्ता भगवान् जार स्वयमभिसारिका इति। अन्यथा प्रतिबन्धो न स्यात्तादृश्योऽपि मीलितलोचना सत्यो भगवत दध्यु ध्यातवत्य। ततो मुक्ता जाता॥९॥" ↩︎
-
" ‘भगवच्छक्तिलक्षण’ इति पाठः।" ↩︎
-
“तमेव परमात्मानमिति सुखभोगार्थमेव भगवान् पूर्वमाश्लिष्ट। भोगे जातेपि वियोजकपापाभावात् न वियुक्ता। अत संगता एव स्थिता। शरीर तु प्रारब्धकर्मनिर्वाणमपतत्। यद्याश्लिष्टो भगवान्न भवेत्तदा तत्र प्रविष्टास्तद्गत धर्माधर्मफल बुभुजु। भगवति प्रविष्टत्वान्मुक्ता एव जाता॥ तदाह—तमेव परमात्मानमिति। पूर्वे संबंधसमये यद्यपि जारबुद्ध्यापि संगता एव, तत कर्मबन्धस्य प्रक्षीणत्वात् गुणमयदेहं जहु। तदा अज्ञानमन्यथा ज्ञान वा त्रिक्षणावस्थायीति न तयो प्रतिबन्धकत्वम्, वियोजकाभावात् शरीरान्तरोत्पादकाभावाच्च। अविद्या पर तिष्ठति स भगवच्छक्ति भगवत्संगत न व्यामोहयतीति सापि निवृत्ता। तत मुक्ता जाता इत्यर्थः॥११॥” ↩︎
-
“तत्रोत्तरमाह—उक्तमिति चतुर्भि। एतत् सप्तमस्कन्ध एवोक्त शिशुपालमुक्तौ। यथा शास्त्रद्वय भक्तिज्ञानप्रतिपादक साधन तथा भगवत्स्वरूपमपि। भगवान् हि मुक्तिदानार्थमेवावतीर्ण सच्चिदानन्दरूपेण प्रकट। अतो य कश्चन येन केनाप्युपायेन भगवति सबधं प्राप्नोति स एव मुच्यते। ज्ञानभक्त्योस्त्वाविर्भावार्थमुपयोग। आविर्भावश्चेदन्यथा सिद्ध तदा न ज्ञानभक्त्योरुपयोग। अत्र तु भगवान् स्वत एवाविर्भूत मुक्तिदानार्थम, सर्वसाधारण्येन ईश्वरेच्छाया अनियमत्वात्। अत आविर्भावस्वेच्छया भक्त्या ज्ञानेन वा भगवदवतारातिरिक्तकाले द्वयमेव हेतुः। अवतारदशाया तु न तयो प्रयोजकत्वम्। वर्षाकाले जल सर्वत्रसुलभमिति न कूपनदीनामनुपयोग शकनीय। तदाह—पुरस्तात्सप्तमस्कन्धयथा चैद्य शिशुपाल सिद्धि भगवत्सायुज्य गत द्विषन्नपि द्वेषं कुर्वन्नपि यद्यपि द्वेषकृतो दोष प्रतिबन्धको भवति तथापि स्मरणेन तदघ हत्वा तत्र सायुज्य प्राप्त। किंच नापि तस्य दोषोस्ति कश्चन। द्वेषादयोपि भगवतैवोत्पादिता। तदाह—हृषीकेशमिति। इंद्रियप्रेरकोऽय यथासुखं भावानुत्पादयति। यत्र द्वेषस्यापि मोक्षसाधकत्व तत्र अधोक्षजप्रिया किमु वक्तव्या मुक्ति गच्छतीति॥१३॥” ↩︎
-
“एव राजसीर्निरूप्य सात्विकीर्निरूपयति। सत्त्वयुक्ता निरूप्यते। ततो रजोयुक्तस्त्रीणां मुख्यो धर्म भर्तृशुश्रूषणमित्याह—भर्तुरिति। स्वभावतो जीवानां भगवानव भर्ता, तत्रापि स्त्रीणां स्त्रीशरीर प्राप्ताशा व्यभिचाराभावाय भगवानेव सेव्य। लौकिके तु परिग्रहात् भर्तृत्वेनाभिमतः सेव्य। स एव परो धर्म। तत्राप्यमायया। कापट्ये तु न सेवाया फलम्। अन्ये सर्वे धर्मा अवरा। तद्बधूना श्वशुरादीना कल्याण्य इति सम्बोधनात् भवतीना सर्वेपि सतीति ज्ञापितम। प्रजानां च पुत्रादीनामनुपोषणमन्नादिदानेन स्तनादिदानेन च पित्रादिभिः पोप्यमाणाना सतोऽपि पोषण वा॥२४॥” ↩︎
-
“तथापि स पति समीचीनो न भवतीति चेत्तत्राह—दुश्शील इति। दुष्ट शील यस्य द्यूतादिव्यसनवान्। दुर्भगो दरिद्रः। वृद्ध इद्रियविकल। जडो मूर्ख। रोगी महारोगग्रस्त। अधनो वा। अधनोपि भाग्यवाश्चेत्तदा सभावनया स्त्रीभिर्न त्यज्यते। एव षड्दोषयुक्तोऽपि स्त्रीभिरनन्यगतिकाभि पतिर्न हातव्य स्पष्ट एव विरोधः।षड्गुणो भगवान्। षड्दोष स इति। पातकी तु हातव्य एव, ‘भजेदपतितम्’ इति वाक्यात्। किंच तत्रापि लोकेप्सुभिर्यासामिह लोके परलोके च कीर्त्याद्यपेक्षा ताभिर्न हातत्य एव। अद्य यथा अपकीर्तिर्भवेत्॥२५॥” ↩︎
-
“ननु ‘कामरसे निविष्टमनसा न धर्मो बाधकः, परस्मिन्नेव रसोत्पत्तेः’ इति तत्राह—अम्वर्ग्यमिति। कुलस्त्रिया औपपत्य जारसबध तद्रसालमपि बहुद्रोपग्रस्तम्। तत्रत्यान् षड्दोषो नाह। अस्वर्ग्य परलोकनाशकम्। पूर्वं धर्मेण सिद्धोपि स्वर्गस्तस्मिन् अपगच्छति। किंच इहलोकेपि यशो दूरीकरोति। चकारान्नरकोऽपि। नापि तत्र रसभोगो महानित्याह—फल्ग्विति। अल्पमेव” ↩︎
-
“प्राप्ता इति पाठातरम्।” ↩︎
-
“यदुक्तं वनदर्शनार्थं किमागता इति ततश्च वनवर्णनां कृता तत्राहु—चित्त सुखेनेति। वनदर्शनेच्छा तदा भवति यदा चित्त स्वम्मिन् तिष्ठेत्, तत्तु त्वयैवापहृतम्। तत्रापहारे न तव प्रयास” ↩︎
-
“यद्भगवता शीघ्र गच्छतेत्युक्त तत्राहु—सिचागेति। वय शीघ्रमेव गमिष्याम यदि त्व प्रतिबधन करिष्यसि। अनेन तूष्णींभावेपि मरण परावृत्तौ तु न किंचिद्वक्तव्यम्। हे अग! त्वदधरामृतपूरकेण त्वदधरामृतप्रवाहजलेन नो हृच्छयाग्निसिंच। स चाग्नि त्वयैवोत्पादित इति। तत्कारणमाहु—हासावलोककलगीतजेति। तव योऽय हासपूर्वक अवलोक कलगीत च ताभ्या जातो यो हृच्छय काम स एवाग्नि। हास कामजनक। अवलोक सघुक्षणकर्ता गीत वायुरिव तत्रापि कलगीत सर्वतो वायु सोपि जातो हृदये हृदयागामित्वदरामृतमेव। पुसे हि वस्तु प्रवाहयति। तस्यात्र सेचनकरणत्वेनोक्त्याग्ने रतिमहत्त्व ध्वन्यते। अतो युक्ता सेचनोक्ति। अलौकिकश्चाग्नि अलौकिकेनैव शाम्यति। कन्दर्पोऽहि शृतो ज्वलति, स हि जीवन्नम्न्यवस्था त्यजति नान्यथा अमृतेनैव च जीवति तत्रापि न देवभोग्येन। अन्यथा तैरेव जीवित स्यात्सृष्टिकारणत्वान्नास्य मोक्ष। अतोतिगुप्तेनैवाधरामृतेन तस्य जीवनम्। अत सेचनमेवोक्तम्। अन्यथा निर्वापणमेव प्रार्थयेयु। कामे जीवति जीविष्याम अन्यथा स स्वय ज्वलन्नन्यानपि ज्वालयिष्यति। तदाहु—नो चेदिति। सेचनेन यदि मत्रवादीव न जीवयिष्यसि तदा विरहेण जनितो योग्नि तेनोपभुक्तदेहा ध्यानेन ते पदयो पदवीं याम। स्वयं स्वतत्र मार्गज्ञानात् त्व च सखा येन मार्गेण गमिष्यसि तेनैव वयमपि यास्याम। यथा त्वमधुनाऽस्मम्यमार्तिप्रदस्तथा वयमपि तथाभूतास्तुभ्य पश्चात्तापादिहेतवो भविष्याम इति गूढाभिसधिस्ते पदयो पदवीं यामेतिवक्रीणामीति ज्ञेयम्।” ↩︎
-
" १ किचे यदयुक्त अथवा मदभिस्नेहादागता इति यदस्माक स्नेह स्तुत तत्र याथार्थ्य शृण्वित्याहु—यर्हीति। हे अबुजाक्ष दृष्ट्यैव तापनाशक! यर्हि यस्मिन् क्षणे तव पादतल अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमजसामर्थ्येनापि स्थातु पारयाम साक्षाच्चरणस्पर्शो दुर्लभ। यत्र पुन पाद प्रतिफलित तत्पादतलमुच्यते, रमापि तेनैव जीवति। तदुक्त नागपत्नीभि—तवाघ्रिरेणुस्यर्शाधिकार यद्वाछयेति। अत तत्फलस्थानीय रमाया क्षण सुख तेनैव दत्त कचिद्धृदये समागत सुख तत्रैव भवतीति तस्य स्पर्श एवास्माक भूमिष्ठम्य नतु लक्ष्मीवत् हृदये तत्र तमायाति। अस्माभिर्विचारित लक्ष्म्या चेदेतत्प्राप्त तपसा चाचल्यपरिहारेण तदास्माभिरपि चाचल्यपरिहारेण तन्निष्ठतया स्थातव्यम्। किं च। अरण्यजना प्रिया यस्य तेनापि सर्वसगपरित्यागेन स्थातव्यम्। सगाभाव एव भगवत्तोषहेतुरिति। अरण्य हि सात्त्विक वैष्णव च। एतेन पुलिंदीस्मारण वा। पादतलसबधि कुकुमसबधेनैव ता अपि प्रिया आसन्निति तेन पादतलस्य फलपर्यवसायित्व प्रभुप्रीतिसाधकत्व व सहजमिति वयमप्यात्मनि तथैव जानीम इति भाव। स्फुटमिद न वक्तु शक्यमित्येवमुक्तम् अत त्वत्प्राप्त्यर्थं नान्यसमक्ष स्थातु शक्नुम। सर्वथा त्वायो न प्रपन्नशक्त्यभाव तद्धर्मप्रवेशाद्यो हि यस्य घातक तद्भावापत्तौ तस्याग्रे स्थातु न शक्तो भवति। यथा व्याघ्राग्रे देहाभिमानी। तथा भगवदीय। भगवद्व्यतिरिक्तो हि तद्भाव नाशयिष्यतीति। यत्रैव सूक्ष्मेक्षिका तत्रान्यस्य स्थाने गमन तस्य च देवतात्वेन भावन दुरापास्तम्। अत प्रीतिमात्रस्तुतिर्यासामल्पीयसी अनन्यभावा एव वयं लक्ष्मीवत्। किंच यथा सर्वपरित्यागेन लक्ष्मी चेत्त्वा शरण गता तदा त्वया अभिरमिता जाता तथा वयमपि जाता। सर्वदैव स्वप्नेत्वत्सबध प्राप्नुमः। अन्यथा जीवनमेव न स्यात्। एव भुक्तपूर्वा वयं नान्यत्र प्रेषयितुमुचिता इति॥३६॥" ↩︎
-
“ननु “तस्या दैवगत्या सबध आसीत्। स च प्राथमिक। भवतीना तु प्रथमतोऽन्यत्रैव सबध। अतो वैषम्यम्” इति चेत्तत्राहु—श्रीरिति। लक्ष्मीरपि न दैवगत्या मवत प्राप्तवती, किन्तु त्वश्चरणा-” ↩︎
-
“१ ननु भवतीना सर्वासामेव दास्यवरणे को हेतु सालोक्यादेरपि फलस्य विद्यमानत्वात्, तत्राहु—वीक्ष्यालकावृतमिति। अनेन लोकेप्साया पतिर्न त्यक्तव्य इति अत्रोत्तरमुक्तम्। लोके हि पुरुषार्थत्रयम्। चतुर्विधो मोक्ष। इन्द्राद्यैश्वर्यभावेन स्वर्गप्राप्ति। इहलोके परमा लक्ष्मी। तदत्र त्रयमपि दास्ये सर्वोत्कृष्टमस्तीति तदुपपादयति। प्रथम सारूप्य सालोक्य सामीप्य सायुज्यमिति मोक्षभेदा। ते दास्याग्रे अप्रयोजका। यतो मुखारविन्ददर्शनेन ते कामा निवर्तन्त इति। भक्तिरूपमुखारविन्दस्य तदपेक्षयोत्कृष्टधर्मवत्त्व निरूप्यते। अल्का सारूप्यमिव प्राप्ता भ्रमरास्ते बहव एवात्र आवृत्य मुख तिष्ठति। अत सारूप्यगतानामपि यदि भक्तिशेषत्व तदा किं सारूप्येण। किंच मुख कुडलश्रिकुडलाभ्या श्रीर्यस्य कुडलयोर्वा श्रीर्यस्मात्सा मीप्ये हि नैकट्य भवति। अत्यत सामीप्य जायमानमपि कुडलादप्यधिक न भविष्यति ते चेत्साख्ययोगरूपे भगवत्प्रमाणावलबिनी भगवदधीनगतिमती पुनर्भगवन्मुखनिरीक्षके तदा किं सामीप्येन। किंच गडस्थलाधरसुधमिति। गडौ स्थलरूपौ विशालौ। स्थले हि रस पातु शक्यत इति। अघरे च सुधा यस्मिन्। गडस्थले स्थित्वा अधरसुधा पातुमत्र शक्येति। सालोक्ये हि आनन्दमात्रमक्षरामृतपान चाक्षरापेक्षयापि गडस्थले स्थिति। चुबनाद्यर्थमुत्तमोऽधररसश्च अक्षररसादुत्तम इत्युक्तम्। कुडलश्रीयुक्त गडस्थलमित्यस्मिन्पक्षेपि सामीप्याद्भक्तौ शास्त्रीयो रस अधिको निरूपित। परस्पर तद्गुणवादरूपमक्षरादाधिक्य तु अधररसे स्पष्टमेव। किंच हसितावलोकमिति हसितपूर्वकमवलोको यस्मिन्। ब्रह्मानदे प्रविष्टाना न भक्तिविलास। हासो हि सर्वरसोद्बोधरूप। ज्ञान चाविर्भूत ब्रह्मानदे तु द्वयमप्यव्यक्तम् जले निमग्नस्य जलपानवत्। अनुभवरसो हि भिन्नतया स्थितौ भवति। अतो भक्तिरूपसुखस्य दृष्टत्वाद्दास्यमेव फल न मोक्ष । भुजदडयुग च विलोक्य इन्द्रादिभावेनापि स्वर्गो न प्रयोजक इति निरूपयति। दत्ताभयमिति। स्वर्गे इन्द्र परमकाष्ठा प्राप्त। तेपि दैत्येभ्यो निरतर भीता इन्द्रादय तेषामप्यभयदातृ भगवतो भुजदडयुगल। तच्चेदत्रैवास्ति तत्परित्यज्य किर्मिद्रत्वेन। चकारात् न केवल भयमात्र प्रयच्छति, किन्तु क्रियाशक्त्या यज्ञादिना हविरपि प्रयच्छति। यथाऽग्नेइन्द्र स्वाधिकारसमाप्तौ मुक्तो भवति। दडपदेन अनुल्लध्यशासनत्वमुक्तम्। उभयत्र च दडो युगपदेन निरूपित। ततो हि सर्वथा दैत्यनाशो भवति। किंच वक्षोपि विलोक्य लोकाना श्रिया रमण भवति। श्रीरपि तत्र रमते। चकाराद्धर्मस्यापि। अतो दास्य एव भवाम। अत्र वीक्षणस्य दासीभवनहेतुत्वोक्त्या यत्राय भावो नास्ति तेषा नैतद्वीक्षणमस्ति। विधिप्रयुक्तत्वाभावेन तदविध्यनगीकारश्च युक्त इति ज्ञाप्यते। तदप्युक्त भगवता अस्वर्ग्यमित्यादि। स्वभजने दोपषटु तदपि परिर्गुणैर्निवारितम्। नहि परम पुरुषार्थसाधक पाप भवति। फलत एव पापस्य निद्यमानत्वात्॥१९॥” ↩︎
-
" १ एव भगवदुक्ताना वाक्याना निवारणार्थं पुष्टिम्पर्गसिद्धात निरूप्य एतद्भगवत्कृपैकसाध्यमिति भगवत्कृपा प्रार्थयन्ति—व्यक्तमिति। नापि त्वदुक्तमस्मदुक्त वा किंचित्साधक बाधक वा, तथापि स्वावतारप्रयोजन विचार्य अस्मासु कृपा कर्तव्या। तत्प्रयोजनमाहु—भवान् व्रजभयार्तिहरण एवं व्यक्तमभिजात। व्रजस्य आर्ति पीडा भय च त्वया दूरीकर्तव्यम्, अन्यथा साक्षाद्भगवत अवतारे प्रयोजन न पश्याम। भूभारहरण तु सकर्षणाशेन वसुदेवादिप्रिय प्रद्युम्नेन। सर्वधर्मरक्षा त्वनिरुद्धेन। यदि व्रजभयार्तिनिराकरण न क्रियेत तदा किमवतारातरकार्यस्यात्। अतो व्यक्त भगवान् ब्रजभयार्तिहर। इदानीं यथार्तिरस्माक तथा न कदापि अस्मादप्यगमेत्। सर्वस्यापि व्रजस्य महती आर्ति। अत आर्तिनिवृत्ति कर्तव्या। ननु मर्यादयैव निवृत्तिकरणमुचितम्, न तु अमर्यादया। तथा सति भवतीना कामशान्ति ज्ञान वा भवत्विति चेत्तत्राहु—देवो यथादिपुरुष इति। भगवान् ब्रह्मरूप सर्वसम, तथापि इन्द्रादिपु कृपा कुर्वन् दैत्यान् मारयति विषमतामर्गीकरोति। न तु देवेभ्यो ज्ञान प्रयच्छति। यत्र स्वरूपमेव अन्यथा करोति तत्र वाचमन्यथा करोतीति किं वक्तव्यम्। अतो यथादिपुरुषोपि देवो भूत्वा सुरलोकगोप्ता जात, तथा भवानपि धर्ममर्यादारक्षक। अस्मत्सबध करोतीति भाव। तदेव रसपोषणार्थं व्याजेनाहु—तन्नो निधेहीति। आदावस्माक शिरसि हस्त स्थापय यथा अस्माकमभय भवति। ततोऽस्माक हृदयतापनिवृत्त्यर्थ स्तनेषु च करपकजममृतस्रावि तापनाशक विधेहि। अनौचिती तु नास्ति यतो वय किंकर्य। परीक्षार्थ वा एतत् द्रष्टव्यमिति रसोक्ति ४१" ↩︎
-
“२ एव प्रार्थनाया भगवान्यत्कृतवास्तदाह—इतीति। षड्गुणैश्वर्यभावेन पोढा रेमे हरि स्वयम्। स्वरूपेणापि शृगारो द्विविधोऽपि निरूपित॥ सामान्यरमण पूर्वं विशेषे मेलन पुरा। बाह्येन रमण पश्चादातर च तत परम्॥ ततो नानाविलासेन जलकेलिविभेदत। विप्रलभस्य सिद्ध्यर्थ तासा मानमुदीर्यते॥ तिरोभावस्ततश्चापि नाय लौकिककामुक॥ प्रथम तासा तापापनोदनार्थ सामान्यलीलामाह। इति तासा विक्लवित परमवैक्लव्यभाषित श्रुत्वा प्रहस्य अरीरमत्। ननु ‘निरिन्द्रिय कथ रेमे? ‘तत्राह—योगेश्वराणामपीश्वर इति। योगा दिपु सर्वे पदार्था स्फुरति। अणिमादयोपि तथा। तदैव स्वरूपमेवेन्द्रियादिभावेन प्रक्टीकृतवान् नतु स्वस्य कामेन। तथा सति बीजनिवृत्तौ कामो निवर्तेतेति तासा यथा न कदाचिदपि स” ↩︎
-
" १ एव सामान्यलीलामुक्त्या विशेषलीलामाह—ताभिरिति त्रिभि। अजातस्मरकेलिभि प्रथमत ताभि समेतो जात मिलित पूर्वभयात्पृथक्स्थिता तत उदाराणि चेष्टितानि। यस्य अत्रौदार्य रसविषयकम्। यथा तासा महानेत्र रस आविर्भवति तथा कामशास्त्रसिद्धा लीला सर्वा एव कृतवान्। ततस्ता अत पूर्णरसा प्रियस्य भगवत ईक्षणार्थमुत्फुल्लानि मुखानि यासा तादृश्यो जाता। प्रियेक्षणेन वा सूर्यकिरणैरिव उत्फुल्लानि मुखानि वस्तुतो रोमस्थितरसार्थमेव तथाकरणमेतावति कृते रसो निवर्तेत। तदभावायाह—अच्युत इति। तासामपि रससमाप्त्यभावाय उदारो यो हास पूर्णकामप्रद कामार्थमेव यो मोह तेनैव स्नेह सवर्धित। तदाह—हाससहितास्ते द्विजा त एव कुदपुष्पाणि आरक्तान्यपि हासेन शुभ्राणि तेषु दीधितिर्यस्य। कुदत्व स्नेहस्यैतन्मात्रपर्यवसानार्थ पूर्व निरुपाधिरेव स्नेहस्थितो भगवता पररसशास्त्रोक्तरीत्या स्वरूपानन्द दातु तत्सजातीय कामोपाधिक स्नेहोऽधुना जनित इति ज्ञापनाय यत्स्नेहरूपरदाना द्विजपदेन कथनम्। तथा सति फलभोगात्कान्त्यभावमाशक्य तत्र दीधितिरुक्ता। यद्यपि भगवास्तन्निर्बन्धेन रेमे जगद्देोषनिराकरणार्थच न तु स्वय तथापि न पूर्णमनोरथ इव। किन्तु यथा लौकिक। तदाह दृष्टान्तेन—एणाक उडुभिर्क्षनत्रै सह यथा व्यरोचत तथेति। बधातिरिक्ता सर्वा बाह्या एव लीला उक्ता। एषा विशेषत प्रथमलीला बाधककामनिवारिका॥४३॥ द्वियीयलीलाया उद्बोधार्थ पूर्वसामग्रीमाह—उपगीयमान इति। ताभिरुपगीयमान निकटे गीयमान स्वयमप्युद्गायन् जात। तत वनिताशतानामनेकविधस्त्रीणामनेकविधानेव यूथान् पातीति तथा जात। यावतीभिर्मिलित रसहेतुर्भवति तावतीनामेक यूथम्। एव अनेकरूपाणि कृतानि तेषामत्र रक्षण दूरादेव आश्वासनेन च। तदा गायतो गच्छत। रूपमाह—मालामिति।" ↩︎
-
“१ एवमुद्बुद्धे कामे ताभि सह बधादिभी रेमे इत्याह—नद्या इति। नद्या पुलिनमच्छ कोमलमाविश्य आसमतात् प्रविश्य रमणे बधादिभिरतिकोमल कृत्वा गोपीभिरनेकविधाभी रेमे। हिमा शीतला वालुका यत्रेति अतरूष्मा निवारित। बहि शैत्य चाह—तत्तरलानदीति। तस्या नद्या तरला तरगा ताभिकृत्वा आनदयुक्तपुलिनमेव आनदयुक्तो वायुर्वा कुमुदाना चानदयुक्त सुगध तस्यानदजनकत्वेनैव माद्य निरूपित शैत्य च कुमुदाना जलसबधात्। तादृशवायुना सहित पुलिन महाबन्धेषु वायोरत्यपेक्षा॥४५॥” ↩︎
-
“‘तत्तरलानदिकुमुदा’ इति पाठातरम्।” ↩︎
-
“३ एव सर्वभावेन तासा जातस्मरकेलित्व सपादितम्, अत परमष्टविधालिंगनादिपूर्वक वेष्टितकादियुक्त रसविलासचरित्रमाह—बाहुप्रसारेति। दूरेस्थितामवयव वा स्पृष्ट बाहुप्रसारण ततो बलादपि परिरभ। तत करालकोरुनीवीस्तनानामालभनानि करालभन हस्ते ग्रहण पुरुषायितलीलासम्बन्धे वा। एव कुचोन्नमनार्थमलकाना स्पर्शः। ऊरुस्पर्शो बाहुबधार्थ। नीवीस्पर्श पुष्टे रसे मोचनार्थ। स्तनयोस्तु रसोद्गमनार्थ। एव पच स्पर्शा विहिता। नर्म परिहासवचनानि कामस्तमनार्थं, ततो नखाग्रपाता नखक्षतदतक्षतताडनादय कामयुद्धनिरूपका। तत्स्थाने स्थित काम तैरुद्बोध्य ते। यथा सेनाबधेन राजा समायाति॥ क्ष्वेलि क्ष्वेलिका प्रस्तोभनादि तत्पूर्वकाण्येवावलोकनानि हसितानि रसस्थापकानि। एव द्वादशविधोपि कामो द्वादशागेपु स्थित प्रवृद्धो भवति। तदाह—व्रज सुंदरी णामुत्तभयन्निति। सयुक्त कामो रतिपति, वियुक्तस्त्वग्निरूप। एवमाधिदैविक काममुद्बोधयन् रमयाचकार। गोपीना सुखमेव प्रकटितवान् नतु कामातेन विरतिमुत्पादितवान्॥४६॥” ↩︎
-
“४ एव संयोगशृगारमुपपाद्य विप्रयोगमुपपादयितु तासा मानमाह—एवमिति। पूर्वोक्तप्रकारेण भगवत सर्वरसदानसमर्थात् कृष्णात् सदानदात् फलरूपाल्लब्धकामा प्राप्तमनोरथा सत्य आत्मानमेव पूर्ण मेनिरे, नतु भगवतं पूर्ण तेन वा स्वपूर्णताम्। ननु भगवानेव कथं कृतवान् ‘न्युना एव कथ न सरक्षिता ‘तत्राह महात्मन इति। भगवान् महानेवात्मा नद्यगाधे जले प्रविष्टमग्नो भवति घटो वा” ↩︎
-
" १ भगवास्तु ऐक्येनैव रस प्रयच्छन् बहिस्तिरोहितो जात इति आह—तासामिति। मान पूर्णतया च न दोषाय स्त्रीषु भूमौ च यदाधिक्यज्ञान दोषो भवति तदनूद्य तत्परिहारार्थतिरोहित इत्याह। तासा तत्प्रसिद्धि पूर्वोक्त सर्वोत्तमत्वलक्षण सौभाग्यमदवीक्ष्य तस्य मदस्य प्रशमाय अतरधीयत। ननु भगवद्रमणेन हि तासामेव भाव। अत स्वकृत एवेति कथं तिरोधान कृतवानित्याशक्याह—वीक्ष्य मान च प्रसादाय तत्रैवान्तरधीयतेति। मानापनोदन कर्तव्य मानस्त्वान्तर अशक्तो हि बहिरपनोदनार्थ यत्न करोति। चकारात्स्वधर्मं च। अत प्रसादाय प्रथमत तासा पश्चात्स्वस्य च तत्रैव गोपिकास्तु यूथमध्ये वा अतर्धान प्राप्तवान्। ननु ‘एतद्द्वयमपि न कर्तव्यमुपेक्षिता। कुतो नेति चेत् ‘तत्राह—केशव इति। यथा रजोगुण ब्रह्मणो निवार्य तस्मै मुक्तिं दत्तवान्। यथा वा शिवस्य तमोगुण निवार्य॥ एवमेतासामपि मद मान च निवार्य मुक्तिं दातु तथा कृतवानित्यर्थ। कायिकतिरोभावोऽय प्रथमाधिकारित्वाद्गोपीनाम्॥४८॥ श्रीमद्वल्लभाचार्यकृता सुबोधिनी।" ↩︎
-
““शब्दो हि धूमवल्लोके बाक्षातरसमागत॥ विराजते विनिर्गच्छस्तारतम्य च गच्छति॥१॥ अतोऽत्र धर्मिधर्माणामाधिक्याज्ज्ञानमुत्तमम्॥ यथा भगवतो ज्ञानात् स्वयमागत्य संगता॥२॥ एव स्वयं भगवता आगत्यार्थं जगु स्फुटम्॥क्रमिकत्वात्तु भावस्य मिलिताश्च स्वतोऽभ्यत॥३॥ ततो विशेषविज्ञानात्तिरोभावोऽस्फुरत्स्फुट॥” ↩︎
-
“अज्ञत्वम्’ इति ख–पुस्तकपाठ। " ↩︎
-
" ‘येऽन्येपरार्थभवका’ इति पाठातरमपि साप्रदायिकम्।” ↩︎
-
“‘मधुराम्लप्रकृतिको चूताम्रो’ सुबोधिनी।” ↩︎
-
“दयार्थमेतदुक्त भवति।” ↩︎
-
“श्रीशुक उवाचेति क—ख पुस्तकयोरस्ति अथवेति पूर्वोक्तमुन्मत्तवच एतावदिति सु०। " ↩︎
-
" ‘हति’ इति पाठातरम्।” ↩︎
-
" ‘अनुकुर्वतीम्’ इति पाठ।" ↩︎
-
“‘सुदरतराम्’ इति पाठान्तरम्।” ↩︎
-
“केचन राधितइति पदमिच्छन्ति व्याचक्षते च तारकादित्वादित च राधा सजातेति राधित अनया विभावमानयाऽस्मत्सख्या हरी राधित सजातराधो राधाविशिष्टो जात इति।” ↩︎
-
“अर्थानुवादोऽयम्। " ↩︎
-
“‘इत्येव दर्शयन्त्य’ इति पाठान्तरम्। दोषोभिमानवचन वचनोत्तरमेव च॥ पूर्ववच्च तिरोभावो विज्ञेय दोषदर्शने॥२॥” ↩︎
-
“माया जवनिका दूरीकृत्य भगवान् प्रकटो जात।” ↩︎
-
““एकोनत्रिशकाध्याये प्रसाद भगवत्कृतम्॥रोदनात् प्राप्य तुष्टात्मा निर्णयज्ञा इतीर्यते॥१॥ नहि साधनसपत्त्या हरिस्तुष्यति कस्यचित्॥ भक्ताना दैन्यमेवैक हरितोषणसाधनम्॥२॥ सतुष्ट सर्वदु खानि नाशयत्येव सर्वत॥ अतो निर्णयवाक्यानि भजनार्थ न्यरूपयत्” ↩︎
-
“पूर्वमनेकविधा अपि भगवत्याविर्भूते सति सप्तविधा जाता।” ↩︎
-
“रूषितम् ’ इति पाठातरम्।” ↩︎
-
“अत्र त्रय पक्षा सति।” ↩︎
-
“प्रथमप्रश्नस्योत्तरमिदम्।” ↩︎
-
“द्वितीयस्योत्तरम्। " ↩︎
-
“तृतीयस्योत्तरम्।” ↩︎
-
“सुनन्दो नन्दानुज,स्वार्थे क। सन्नन्दकादय’ इति क्वचित् पाठस्तत्राप्ययमेवार्थ।” ↩︎
-
“‘वै’ इति छेद।” ↩︎
-
“१’ स्वजातिभि ’ इति पाठान्तरम्।” ↩︎
-
“‘महात्मानावनुक्रोश’ इति पाठातरम्।” ↩︎
-
“‘प्रणतम’ इति ख– पुस्तकपाठ।” ↩︎
-
“भारतशातिपर्वणि मोक्षधर्मे इय कथा सविस्तरास्ति।” ↩︎
-
“इदमर्ध निगद्व्याख्यातम्।” ↩︎
-
“‘इत्यन्वय’ इति खपुस्तके” ↩︎
-
“१ ‘वरप्रदम्’ इतिपाठन्तरम्।” ↩︎
-
“‘पाणी’ इति क्वचित् पाठ।” ↩︎
- ↩︎
-
“‘वास्राभि । वास्रासद्य प्रसूताधेनव ’ इति सुबोधिनी ।” ↩︎
-
“‘महाभाग’ इति पाठान्तरम्।” ↩︎
- ↩︎
-
“‘अत्युत्कण्ठ’ इति क्वचित् पाठ ।” ↩︎
-
" " ↩︎
-
“पुभि स्त्रीष्विति । पुरुषा स्वतन्त्रा सर्वसमर्था तद्विपरीताश्च स्त्रियस्तासु स्नेह न कुर्युरेव यदि कामो न भवेत् । कामाच्च स्नेहमेव कुर्वति । अन्यथा सिद्धे गते वा कामे निवर्तते ।शास्त्रमपि विरागे त्याग विधत्ते यदहरेव विरजेदिति । ननु धर्मोऽप्यस्ति पुत्रादिद्वारा च स्नेहो भवति ततश्चागन्तुकमपि सहजमेवेति भवतीष्वपि तथा भगवत इत्याशङ्क्य तत्परिहारार्थंदृष्टान्तान्तरमाहु—सुमन स्विव षट्पदैरिति । गमनक्रियाबाहुल्यार्थं षट्पदशब्दप्रयोग तेषां । मकरन्दग्रहणानन्तर पुष्पनाशे न कापि क्षति । अयमस्माकं युक्तो दृष्टान्न । नतु सर्वत्रैव दृष्टान्त सुलभ न तु तावतां कार्यं सिद्ध्यति” ↩︎
-
“नु इति वितर्के। सा हि भगवत विना क्षणमपि स्थातुमशक्तेति पद्मेति प्रमाण चोक्तम्। परिचरतीति वर्त्तमानप्रयोगादिदानीमपि सेवा लक्ष्यते। भगवास्तु निर्विवादमेवेति तु निर्वि वादम्” ↩︎
-
“‘धीरा’ इति पाठान्तरम्।” ↩︎
-
“‘ननु किमिति नाशो भाव्यते हरिण्यस्तु तेन विद्धा नतु भवत्य इति चेत्तत्र तुल्यार्थतामाहु—ददृशुरिति। एतद्ददृश स्वावस्थानमभिनयेन प्रदर्श यन्त्य हरिणीना तामवस्थामाहु—हरिण्योऽप्युभयतो भ्रष्टा जाता स्वयमेव हरिणीना बोधने दृष्टान्तभूता इति पूर्व हरिष्युपक्रमेण निरूप्यमानमप्यर्थपश्चात्स्वप्राधान्येन निरूपयन्ति-तन्नखस्प शैति” ↩︎
-
“अप्येष्यतीह। उपदेशेन वयं तथा भविष्यामस्तथापि पूर्ववत्पुन किं कृपा करिष्यति इत्यभिप्रायेणाहु—अप्येष्यतीति। अन्यथा नो चेद्वयमिति वाक्य श्रुत्वा किमिति तवान्? भोगमगीकृ तवान् तस्मादुत्कट काम दूरीकृत्य कोमलजाते पश्चादुपदेशफल भविष्यतीति पुन पूर्ववदाकाक्षा तत्रगमने तु सुख न भविष्यतीति ज्ञात स्वच्छदाभावात् " ↩︎
-
“क्वेमा स्त्रियो वनचरीति। अत पर पुरुषेभ्याप्युत्कर्षमाह कृष्ण इति। सन्ति नारदब्रह्मादयो भक्ता भगवति भाववन्त, तथाप्येष भाव क्व तेषु वर्तत इत्यर्थ। चारदोषरहितायालक्ष्म्यामपि नाय भाव। एषहि स्वानुभव उक्त। तेनान्यत्रैतत्सजातीयभावश्रवणस्याप्यभावात्कथमन्यत्रैपाऽप्यस्नाति मन्तव्यमिति भाव।अथवा बर्हापीडेति श्लोके गोपिकानामेवरूपस्तदर्थमेव कोटिकन्दर्पलावण्य प्रकटीकृत्य तद्भोग्यत्वेन तदर्थं प्रकट इति भाव " ↩︎
- ↩︎
-
“व्रसबल्लतीनामितिक्वचित्पाठ।” ↩︎
-
“सप्रार्थित’ इति क्वचित् पाठो दृश्यते ।” ↩︎
-
“सैवम् । एवमनुलेपार्पणफलमुक्त्वा फलानुभावार्थं या सेवा कृता रतिरुत्पादिता तस्या फल वक्तव्यमिति तन्निरूपयति—सैवमिति त्रिभि । इदं हि पूर्वत्वादुत्कृष्टमिति परत्वेन पर्यवसितम् । तथा सति न फले काचिन्मर्यादा इयदेवेति तथापि भाग्यमेवाल्पमिति बुद्धिस्तादृश्येवेति अल्पमेव याचितवतीति शुकस्ता निन्दति—दुर्भगेदमयाचतेति । दातरि समर्थे प्रसन्नेऽपि अल्पयाचन भाग्याभावादेव भवति " ↩︎
-
“सृजस्यथो। ज्ञानात्मन इति ज्ञानेनापि बन्धाभाव इति सर्वशास्त्राणि भवास्तु ज्ञानस्याप्यात्मा त्वत्सामर्थ्यादेव ज्ञान तथा करोतीत्यथात्मपदेन सूचितम्। अतएव बन्धहेतुना निराकृतत्वात्ते सर्वसमर्थस्य को वा बन्धहेतुर्भवतीत्याह—क्व चेति। चकाराद्देशे काले अवस्थाया च " ↩︎
-
“न ह्यमयानि । किंच निवृत्तिमार्गेऽपि तीर्थानि सेव्यानि तदपेक्षयाप्येत एव सेव्या इत्याह । न ह्यम्मयानि तीर्थानीति । शिलामया न भवति स्थानस्य देवतात्वपक्षे मृण्मयता प्रतिमाया देवता त्वपक्षे तु शिलामयत्वम् । उभयमपि लोकप्रसिद्ध निवार्यते शास्त्रार्थप्रामाण्यात् । अन्यथा शास्त्रमनुवादक सत्प्रमाणमेव भवेत् । किंच अत एव पावित्र्यमपि तत्कृतमुत्तम न भवति यतस्ते उरुकालेन पुनन्ति महता कालेन विध्युक्तानुसारेण तीर्थसेवाया चित्तशुद्धेरैक्यत्वात् । साधवस्तु ज्ञानोपदेष्टार भक्तिपूर्वका वा दर्शनमात्रेणैव ज्ञानभक्त्यो साधितत्वात् फलित उत्कर्ष " ↩︎
-
“कृष्णकृष्ण । एव मनोरथमुक्त्वा तदानीमेव समागत भगवन्त मन्यमाना समुखतया प्रार्थयते—कृष्ण कृष्णति । आदरे वीप्सा । अकस्मादागते वा न त्वहमन्यत्र तव दृष्टिभ्रमो भविष्यतीत्याशक्य महायोगिन्निति " ↩︎
-
“पुष्णाति यान् । ननु लौकिक वैदिक नित्य कर्म कर्तव्यमिति तदर्थ ते भोजिता इति चेत्तत्राह—अकृतार्थमिति । ‘सभोजनीयमपिशाचभिक्षा’ इति वाक्यान्न तेषां दान परलोकाय इहलोके भवत्युपकार । यदि ते उपकार मन्येरन् तदपि नास्तीत्यकृतार्थत्वेनैव । किञ्च अवसरे प्राप्ते प्रकर्षेण हिन्वन्ति संकटस्थाने त्यजन्तीत्यर्थ " ↩︎
-
“तर्हि यत्न कथं न क्रियते चित्तवृत्तिनिरोधस्य योगस्य विद्यमानत्वादिति चेत्तत्राह—ईश्वरस्येति। ईश्वरेण कश्चन प्रकारो विहित एव प्रकारेणैवैतत्कर्तव्यमिति उक्तोऽन्यथा कर्त्तं शक्त एतद्विज्ञानमापोद्वाम्या परिश्रमेण भवति तस्मिन् कृते न काप्यनुपपत्ति। एव ज्ञात्वा को वा पुमान् विवेकी समर्थोऽपि ईश्वरविचारित प्रकार धुनोति दूरीकरोति कार्पित करोति। नन्वीश्वर उदासीन " ↩︎