॥ १२.१३.१ ॥
सूत उवाच—
यं ब्रह्म-वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्रयोदशे पुराणानां सङ्ख्याम् आह यथा-क्रमम् ।
दानं दानस्य माहात्म्यं श्रीमद्-भागवतस्य च ॥*॥
सर्व-पुराण-सङ्ख्यादीन् उपवर्णयिष्यंस् तत् प्रतिपाद्यं देवं प्रणमति—यम् इति । स्तवैर् वेदैश् च स्तुन्वन्ति स्तुवन्ति । उपनिषच्-छब्दस्याकारान्तत्वं छन्दोऽनुरोधेन । ध्यानेन अवस्थितं निश्चलं तद्-गतं च यन् मनः, तेन यस्यान्तं न विदुः सुरासुर-गणाः ॥१॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा-क्रमं सप्तमाध्यायोक्त-पुराण-गणना-क्रमम् अनतिक्रम्य । तत्र हि—ब्राह्मं पाद्मं वैष्णवं हि [वराह-पु।] इत्य्-आदिना पुराणाष्टादशकम् उक्तम् इति ॥*॥
तत्-प्रतिपाद्यम् अष्टादश-पुराण-प्रतिपाद्यम् । दिव्यैर् अलौकिकैः । अङ्गादि-पाठ-चतुष्केण अङ्ग-पाठ-पद-पाठ-क्रम-पाठ्ओपनिषत्-पाठैर् गायन्ति । अङ्गादि-पाठ-ज्ञानं च वेदाध्ययन-साध्यम् इति । यद् वा, अन्तिमेऽध्याये पुनर् अपि मङ्गलं नत्यात्मकम् आचरति । उपनिषच्-छब्दोऽद्-अन्त आर्षः, तेनैतत्-पुराण-पाठेन भगवतस् तस्य स्तुति-संकीर्तनम् एव मम यथाकथञ्चिद् अभूत्, न तु सम्यग् अवगम इति भावः ॥१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यं ब्रह्म-वरुणेन्द्रेत्य्-आदि । देवाय श्री-कृष्णाय नम इत्य् अवतारिणं श्री-कृष्णं नत्वा श्री-कृष्णस्य दुर्ज्ञेयत्वं किं वाच्यम् । तद्-अंशांशस्य कूर्मादेश् चरितम् अप्य् अतिदुर्ज्ञेयम् इति श्री-कृष्णस्यैवावतारान्तरं स्तौति—पृष्ठे भ्राम्यद् इत्य्-आदि ॥१-२॥
———————————————————————————————————————
जीव-गोस्वामी (परमात्म-सन्दर्भः १०९) : अर्थ-वादेन [अनेन लिङ्गेन श्रीमद्-भागवत-शास्त्रे श्री-भगवत एव मुख्यत्वं प्रतिपादितम्, यथा] यम् इति । स्तवैर् वेदैश् च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्-गतं यन् मनः, तेन ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
त्रयोदशे पुनर् नत्या मङ्गलाचरणं प्रभोः ।
आद्य्-अन्तयोः पुराणस्य सङ्ख्या-दानादि चोच्यते ॥
अन्तिमेऽत्राध्याये पुनर् अपि भगवन्तं प्रणमन् मङ्गलम् आचरति—यम् इति । स्तुन्वन्ति स्तुवन्ति । उपनिषच्-छब्दस्याकारान्तम् आर्षम् । तेनैतत्-पुराण-पाठेन भगवतस् तस्य स्तुति-सङ्कीर्तन-ध्यानम् एव मम यथा-कथञ्चिद् अभूत्, न तु सम्यग् अवगम इति भावः ॥१॥
॥ १२.१३.२ ॥
पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान्
निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः ।
यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां
यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्षीरोद-मथनादौ दुर्ज्ञेयत्वम् एव प्रदर्शयितुं कूर्मावतारम् अनुस्मारयन्न् आशिषः प्रार्थयते, पृष्ठे भ्राम्यन्न् अमन्दो मन्दर-गिरिर् गरिष्ठो मन्दराचलस् तस्य ग्रावाणस् तेषाम् अग्राणि तैः कण्डूयनात् तेन सुखेन निद्रालोर् निद्रा-शीलस्य । येषां श्वासानिलानां संस्कारास् तेषां कलाश् च लेशास् तद् अनुवर्तन-वशाज् जल-निधेर् अम्भसां यातायातं न विश्राम्यति । ननु समुद्र-क्षोभाद् एव तन् न संस्कार-वशात् तत्राह, वेलाक्षोभस् तस्य निभेन मिषेण ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सुरासुर-गण-दुर्ज्ञेयानन्तता भगवता कूर्मावतार एव दर्शितातस्तत्-स्मरण-पूर्वकं श्री-भागवतं समापयन् श्री-भागवतस्यापि दुर्ज्ञेयार्थतां ध्वनयति । श्वासानिलाः प्राण-वायवः वो युस्मान् अध्येत्र्-अध्यापक-वक्तृ-श्रोते᳡न् पान्तु बलौज-आदि-दानेन रक्षन्तु । श्री-भगवत एव श्वसनतः सर्वेषां बलाद्युत्तत्ति-श्रवणात् । तद् उक्तम् एकादशे—यस्येद्रियैस्तनुभृतामुभयेन्द्रियाणि ज्ञानं स्वतः श्वसनतो बलमोज ईहा इत्य्-आदीति । अत्राक्षिपति—नन्व् इति । किं च—समुद्रमथनं भगवतैव कूर्मरूपेण कृतं देवानां तु तत्र नाममात्रेणैव निमित्तता तथेदमप्यपारवेदमहासमुद्रमथनं मन्नाम्ना श्री-भगवतैव कतमित्य् अर्थव्यञ्जकं व्यासोक्तमनुवदति—पृष्ट इति । येनैव समुद्रो मथितस्तेनैव भगवता मोहिनीरूपेणासुरान्वञ्चयित्वा तदुत्थममृतं स्वभक्तेभ्यो देवेभ्यो दत्तं, तथैव वेदसमुद्रमथनोत्थम् इदं भक्त्यनृतं श्री-भागवतरूपेणाभक्तानसुरान्वञ्चयित्वा युष्मम्यं ददाव् इति भक्तान्प्रत्याशीर्वादः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यथा समुद्र-मथनं भगवतैव कूर्मादि-रूपेण कृतं दिवौकसां तु तत्र नाम-मात्रेणैव निमित्तता । तथैवेदम् अपार-वेद-महा-समुद्र-मथनं यन्-नाम्ना भगवतैव कृतम् इत्य् अर्थ-व्यञ्जकं श्री-व्यासोक्तम् अनुवदति पृष्ठ इति । पृष्ठे भ्राम्यन्न् अमन्दो महा-गुरुर् मन्दर-गिरिस् तस्य ग्रावाणस् तेषाम् अग्राणि तैः कण्डूयनात् निद्रालोः कण्डूयनोत्थ-सुखेन निद्राशीलस्य श्वासानिलाः पान्तु वः । इति येनैव समुद्रो मथितस् तेनैव भगवता मोहिनी-रूपेण असुरान् वञ्चयित्वा समुद्र-मथनोत्थम् अमृतं स्व-भक्तेभ्यो देवेभ्यो यथा दत्तं तथैव वेद-समुद्र-मथनोत्थं भक्त्य्-अमृतम् इदं श्री-भागवत-रूपेण अभक्तान् असुरान् वञ्चयित्वा युष्मभ्यं ददात्व् इति भक्तान् प्रत्याशीर्वादः । येषां श्वासानिलानां संस्कारास् तेषां कला लेशास् तद्-अनुवर्तन-वशात् जन-निधेर् अम्भसां यातायातं न विश्राम्यति । ननु, तत्-समुद्र-क्षोभाद् एव न तत्-संस्कार-वशात् तत्राह—वेला-क्षोभस्य निभेन मिषेण ॥२॥
॥ १२.१३.३ ॥
पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने ।
दानं दानस्य माहात्म्यं पाठादेश् च निबोधत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुराण-संहितानां सञ्ख्यास् तासां संभूतिं समाहारम् । अस्य तु श्री-भागवतस्य वाच्यं विषयः प्रयोजनं च दानं च तस्य पाठादेश् च माहात्म्यं निबोधत ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यथाखण्ड-मण्डलपतेस् तव मण्डलेशा एतावन्त इति गण्यते तथैव महा-पुराणचक्रवर्तिनः श्री-भागवतस्य सन्निधौ पुराणान्यवश्यं गणयामीत्यतः पुराणानां सङ्ख्यायास्सम्भूति सम्भवम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा पृथ्वी-पतेर् अग्रतस् तव मण्डलेश्वरा एतावन्त इति गण्यन्ते तथैव महा-पुराण-चक्रवर्तिनः श्री-भागवतस्य सन्निधौ पुराणान्य् अवश्य-गम्यानीत्य् अतः पुराणानां सङ्ख्यायाः सम्भूतिं सम्भवम् । तथास्य श्री-भागवतस्य वाच्यं च प्रयोजनं चेति ॥३॥
॥ १२.१३.४-९ ॥
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च ।
श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम् ॥
दशाष्टौ श्री-भागवतं नारदं पञ्च-विंशति ।
मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम् ॥
चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च ।
दशाष्टौ ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु ॥
चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥
कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश ।
एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥
एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः ।
तत्राष्टादश-साहस्रं श्री-भागवतम् इष्यते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रयो-विंशत् त्रयो-विंशतिः सहस्राणि । चतुर्-विंशति चतुर्-विंशतिः । शैवकं शिव-पुराणम् । वाह्नम् अग्नि-पुराणम् । दश-पञ्च-सहस्राणि चत्वारि शतानि च । स्कान्दं शताधिकैकाशीति-सहस्रम् । सौपर्णं गरुड-पुराणम् एकोन-विंशद् एकोन-विंशतिः । महाभारतं त्व् इतिहासः । रामायणं च ऋषि-प्रोक्तं काव्यम् । अतः पुराणानां सन्दोहः समूहश् चतुर्-लक्ष-सङ्ख्याक एव । इदानीम् अस्य वाच्य-प्रयोजनादीन् दर्शयितुम् आह, तत्रेत्य् आदिना ॥४-९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्राह्मं ब्रह्मपुराणम् । दशसहस्राणि अयुतश्लोकपरिमितमित्य् अर्थः । पाद्मं पद्मपुराणम् । पञ्चभिरूना षष्टिः श्लोकसहस्राणां यत्र तत्तथा । उत्तरपदलोपी समासः । एवमग्रेऽपि ज्ञेयम् । त्रिभिरधिका विशतिस्त्रयोविंशतिः, छान्दसत्वाविंशते विंशदादेशः ॥ दशसहस्राण्यष्टौ सहस्राणि च यत्र श्लोकास्तच्छ्रोभागवतमित्य् अर्थः । मार्कण्डं मार्कण्डेयम्, पृषोदरादिः । वह्नेरिदं वाह्नम्, चतुःशतमित्य् उक्तेर् दशपञ्चसहस्राणीति लभ्यते, चतुर्णां शतानां समाहारश्चतु शतम् । यद् वा, दशभिः सहिताः पञ्च यत्र तत्तथा । पुनश्चत्वारि
शतानि यत्र तत्तथा । एवमग्रेऽपि ॥ तत्तु पुराणं तु ॥ महाभारतादीनां पुराणत्वशङ्का निरस्यति स्वामी—महाभारतं व् इति । ऋषिप्रोक्तं वाल्मीकिप्रोक्तम् । अतो महाभारतरामायणयोः पुराणत्वाभावात् । तत्राष्टादशसु पुराणेषु । तत्रेति—अथैवावतारत्वादवतारमध्ये कृष्णं गणयित्वा पुनः एते चांशकलाः पुंसः कृष्णस् तु भगवान्स्वयम् इति कृष्णस्य पृथग्गणना, तथैव पुराणत्वात्पुराणमध्ये श्री-भागवतं गणयित्वा तत्राष्टादशसाहस्रं श्री-भागवतमिप्यते इति पुनर्गणना पुराणचक्रवतित्वव्यञ्जिका । यथा च तत्र पदं सर्वोत्कर्षव्यञ्जकं, तथा त्रापि श्रीमद् इति पदम् इति प्रक्रान्तं सम्पूर्णम् एव ॥४-९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रयोविंशत् त्रयोविंशति । शैवकं शिव-पुराणं वाह्नं वह्नि-पुराणम् । दश-पञ्च-सहस्राणि चत्वारि शतानि च स्कान्दं शताधिकिकाशीति-सहस्रं तत्राष्टादशेति यथैवावतारत्वाद् अवतार-मध्ये कृष्णं गणयित्वा पुनर् एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति कृष्णस्य पृथग् गणना । तत्रैव पुराणत्वात् पुराण-मध्ये श्री-भागवतं गणयित्वा तत्राष्टादश-साहस्रं श्री-भागवतम् इष्यते इति पुनर् गणना पुराण-चक्रवर्तित्व-व्यञ्जिका यथा च तत्र स्वयं पदं सर्वोत्कर्ष-व्यञ्जकं तथैवात्रापि श्रीमद् इति पदम् इदं प्रक्रान्तं सम्पूर्णम् एव ॥४-९॥
॥ १२.१३.१०-१२ ॥
इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे ।
स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् ॥
आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् ।
हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् ॥
सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् ।
वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरि-लीला-कथानां व्रातः समूहः स एव अमृतम्, तेन आनन्दिताः सन्तः सुराश् च येन तत् । तन्-निष्ठं तद्-विषयम् ॥११-१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव व्यनक्ति—कारुण्यात्कृपापारवश्यात् । भगवता श्री-कृष्णेन । गर्भोदशायिने नाभिपङ्कजे स्थिताय ब्रह्मणे ॥ यत् सर्वेषां वेदान्तानामुपनिषदां सारं ब्रह्मात्मनोर्ब्रह्मजीवयोरेकत्वलक्षणमभेदरूपमद्वितीयं वस्तु तद् एव निष्ठाविषयो वाच्यं यस्य तत्तन्निष्ठं ब्रहौकज्ञानमस्य विषय इत्य् अर्थः । कैवल्यं स्वरूपावाप्तिर् एवैकं मुख्यं प्रयोजनं यस्य तत्तथा प्रसङ्गादस्य सम्बन्धस् तु वाच्यवाचकभावरूपो ज्ञेयः । अधिकारी त्वेतज्जिज्ञासुरेवेत्येतदनुबन्धचतुष्टयम्—धर्मः प्रोज्जितकैतवः इत्यत्रोक्तमप्यत्र स्मृतिलाभाय ध्वनितम् इति । वाच्यं प्रयोजनञ्चाह—हरेर्लीलाकथानां ब्रातः समूह एवामृतं तेनानन्दिताः सन्तो भक्ता एव सुरा येन तद् इति लीलाकथाव्रातशब्देन भक्तिरूपं वाच्य व्यञ्जितं तद् एवामृतम् इति प्रेमरूपं प्रयोजनं च प्रेम्णैव भक्तेरमृतवदास्वाद्यत्वप्रसिद्धेः, तेन सतामानन्द इति प्रेम्णोऽनुभावः । तत्र कथायाममूतत्वारोपेण तत्सम्प्रदानानां सतां सुरत्वारोपेण च तत्सम्प्रदातुः शास्त्रस्यास्य मोहिनीत्वारोपो लभ्यते, मोहिन्यैव सुरेभ्योऽमृतदानत्वप्रसिद्धेः । ततश् च सुरान्स्वभक्तान्स्वं विदुषः प्रति भ्रूविभङ्गेनैवान्यजनाज्ञातं यथा ब्रूते स्म मदनुभावस्यास्य युष्मदानुकूल्यम् एव कर्तव्यं प्रयोजनं चासुरान्वञ्चयित्वा युष्मभ्यममृतदानम् । यथा चासुरान्स्वतत्त्वमविदुषः प्रति अपि भ्रूचालनेनैतत्स्पष्टम् एव ब्रूते स्म तदाविर्भावस्य युष्माकं विजयप्रापणम् एव कर्तव्यं, प्रयोजनं च युष्मभ्यममृतदानामतीदं गौणम् एव । मुख्यप्रयोजनं तु यद्युष्मान्नित्यमानन्दचमत्कारं प्रापयामि युष्मद्गृहस्थित्यैवातोऽतिदीनानेतान्देवान्प्रथमं किञ्चित्परिवेषयामीति तथैवेदं भागवतशास्त्रम् अपि स्वतत्त्वज्ञान्स्वभक्तान् हरिलीला इत्यर्धपद्येन स्ववाच्यम् परोक्षवादा ऋषयः परोक्षं मम च प्रियम् इति भगवद्-उक्तेर् व्यञ्जनावृत्त्यैव सर्वलोकालक्षितमुक्त्वा स्वतत्त्वमविदुषः शास्त्रज्ञमानिनः प्रकटम् एव स्ववाच्यप्रयोजने अन्ये एवाह—सर्ववेदान्तानां सारं यद्ब्रह्मणा सहात्मैक्यमद्वितीयं वस्तु तस्मिन्वाचकत्वेन निष्ठा यस्य तत् । कैवल्यम् एकं मुख्यं प्रयोजनं यस्य तत् । केचित्पुनर् एवं व्याचक्षते—शास्त्रेऽस्मिन्द्वयोर् एव भक्तिज्ञानयोरुक्तत्वाद्भक्तिप्रेमणी वाच्यप्रयोजने उक्त्वा ज्ञानकैवल्ये अपि वाच्यप्रयोजने आह—सर्वेति । अपरे त्वेवमाहुः—शास्त्रेऽस्मिन्प्रक्रमे एव धर्मः प्रोज्झितकैतवोऽत्र परमः इत्यनेन परमधर्मस्य भक्तेर् एव वाच्यत्वावगमात् ईश्वरः । सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः इत्यनेन प्रेम्ण एव प्रयोजनत्वावगमाच् च । तथा सर्वस्कन्धेषु ज्ञानात्तत्साध्यमुक्तेश् च सकाशाद्भक्तेर् एव प्राधान्यदर्शनात् प्राधान्येन व्यपदेशा भवन्ति इति न्यायाद्भक्तिप्रेम्णोर् एव वाच्यत्वप्रयोजनत्वे व्यज्येते, तस्मान्मोहिनीसाधर्म्यप्रापकप्रकटार्थमेतत्पद्यमाभ्यन्तरेणाप्यर्थान्तरेण योजनीयम् । तद्यथा—ब्रह्मात्मैक्यलक्षणं यद्वस्तु तान्निष्ठं ततोऽपि निःसृत्य तिष्ठतीति तन्निष्ठं ज्ञानकर्माद्यभिलाषरहिता केवला अनन्यभक्तास्तेषां भावः कैवल्यं तद् एव प्रयोजनं यस्य तद् इति ॥१०-१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इदम् इति त्रिकम् । गर्भोदक-शायिनो नाभि-पङ्कजे स्थिताय ब्रह्मणे भगवता श्री-कृष्णेन प्रकाशितम् ॥१०॥
सन्त आत्मारामा एव सुराः । इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य् अत्र सच्-छब्दात् ।
ननु नील-पीताद्य्-आकारं क्षणिकम् एव ज्ञानं दृष्टम्, तत् पुनर् अद्वयं नित्यं ज्ञानं कथं लक्ष्यते, यन्-निष्ठम् इदं शास्त्रम् ?—सर्वेति । ब्रह्मात्मनो यद् एकत्वम्, तद् एव लक्षणं यस्य, तद् अद्वितीयं सर्व-वेदान्त-सारं वस्तु तन्-निष्ठम् इत्य् अन्वयः ।
अयम् अर्थः—सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.२] इति यस्य स्वरूपम् उक्तम्, येनाश्रुतं श्रुतं भवति [छा।उ। ६.१.३] इत्य् अनया, यद् विज्ञानेन [छा।उ। ६.२.१] इत्य् अनया सर्व-विज्ञानं प्रतिज्ञातम्, यस्मिन्न् अनन्ता नित्य-सिद्धा एव नाना-धर्मा अभ्युपगताः, सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य्-आदिना निखिल-जगद्-एक-कारणता, स ऐक्षत बहु स्यां [छा।उ। ६.२.३] इत्य् अनेन सत्य-सङ्कल्पता च प्रतिपादिता, तेन ब्रह्मणा स्वरूप-शक्तिभ्यां सर्व-बृहत्तमेन, अथ कस्माद् उच्यते ब्रह्म बृंहति बृंहयति च [अथर्व-शिरा ३.५] इति श्रुतिभिः । बृहत्त्वात् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः [वि।पु। ३.३.२१] इति श्री-विष्णु-पुराणादिभिश् च प्रतिपादितेन सार्धम्, अनेन जीवेनात्मना [छा।उ। ६.३.२] इत्य्-आदि तदीय-वचन-रूपायां श्रुताव् इदंता-निर्देशेन ततोऽभिन्नत्वेऽप्य् आत्मता-निर्देशेण तद्-आत्मांश-विशेषत्वेन लब्धस्य—ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इत्य्-आदि-प्रतिपादितस्य—अंशो नाना-व्यपदेशात् [वे।सू। २.३.४१] इत्य्-आदि-न्याय-सिद्धस्य, बादरायण-समाधि-दृष्ट-युक्तेर् अत्यभिन्नता-रहितस्य जीवात्मनो यद् एकत्वम्, तत् त्वम् असि [छा।उ। ६.८.७] इत्य् आदौ ज्ञातृतया तद्-अंश-भूत-चिद्-रूपत्वेन समानाकारता, तद् एव लक्षणं प्रथमतो ज्ञाने साधकतमं यस्य, तथाभूतं—
वदन्ति तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा।पु। १.२.११]
इति त्रिधाविर्भूतं यत् सर्वे-वेदान्त-सारम् अद्वितीयं वस्तु, तन्-निष्ठं तद्-एक-विषयम् इदं श्रीमद्-भागवतं महा-पुराणम् इति प्राक्तन-पद्यस्थेनानुषाङ्गः । [तत्त्व-सन्दर्भ ५२]
तथा कैवल्यैक-प्रयोजनम् । केवलः शुद्धः । स च प्रोज्झित-कैतवो यो भक्तः, स एव धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् उक्तत्वात् । तस्य भावः कैवल्यम्, मोक्षादि-काम-रहिता भक्तिः । कैवल्य-सम्मत-पन्थस् त्व् अथ भक्ति-योगः [भा।पु। २.३.१२] इत्य् अत्र कैवल्यम् इत्य् एव सम्मतः पन्था यो भक्ति-योगः इति टीका-कृद्भिर् व्याख्यातत्वात् । तत्र पन्था इति भगवत्-प्राप्त्य्-उपाय इत्य् अर्थः । सा भक्तिः प्रेम-लक्षणैव, तस्यैव तत्र मुख्यत्वात् । तस्मात् कैवल्यं भगवत्-प्रेमैव पुरुषार्थत्वेन प्रतिपाद्यं यस्य तत् । सालोक्य-षर्ष्टि-सामीप्यम् इत्य्-आदि-वचन-वृन्देभ्य इति ॥११-१२॥
———————————————————————————————————————
**जीव-गोस्वामी (प्रीटि-सन्दर्भ १) : **मुक्ति-सामान्यस्य शास्त्र-प्रयोजनत्वम् आह—सर्व-वेदान्तेत्य् आदौ कैवल्यैक-प्रयोजनम् इति । केवलः शुद्धः, तस्य भावः कैवल्यम् । तद् एकम् एव प्रयोजनं परम-पुरुषार्थत्वेन प्रतिपाद्यं यस्य तद् इदं श्री-भागवतम् इति पूर्व-श्लोक-स्थेनान्वयः । दोष-मूलं हि जीवस्य परम-तत्त्व-ज्ञानाभाव एवेत्य् उक्तम्—भयं द्वितीयाभिनिवेशतः स्याद् इत्य् आदौ, ईशाद् अपेतस्य [भा।पु। १२.२.३७] इत्य् आदिभिः । अतस् तज्-ज्ञानम् एव शुद्धत्वम् इति कैवल्य-शब्दस्यात्र पूर्ववत् तद्-अनुभव एव तात्पर्यम् ।
अथवा कैवल्य-शब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे—
ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते ।
स यत्-स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति ।
क्वचित् स्वार्थिक-तद्-धितान्तेन कैवल्य-शब्देनापि परम उच्यते । यथा श्री-दत्तात्रेय-शिक्षायां—
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ [भा।पु। ११.९.१८] इति ।
तथाप्य् उभयथैव तद्-अनुभव एव तात्-पर्यम् । तत्-स्वभावम् एव वा । तम् एवानुभावयितुम् इदं शास्त्रं प्रवृत्तम् इत्य् अर्थः ॥११-१२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाच्य-प्रयोजने चाह—हरेर् लीला-कथानां व्रातः समूह एव अमृतं तेन आनन्दिताः सन्तो भक्ता एव सुरा येन तद् इति लीला-कथा-व्रात-शब्देन भक्ति-रूपं वाच्यं व्यञ्जितम् । स एव अमृतम् इति प्रेम-रूपं प्रयोजनं च । प्रेम्नैव भक्तेर् अमृतवद् आस्वाद्यत्व-सिद्धेः । तेन सताम् आनन्द इति प्रेम्नोऽनुभावः । तत्र कथाया अमृतत्वारोपेण तत्-सम्प्रदानानां सतां सुरतारोपेण च तत्-सम्प्रदातुः शास्त्रस्यास्य मोहिनीत्वारोपो लभ्यते । मोहिन्या सुरेभ्योऽमृत-दान-प्रसिद्धेः । ततश् च सुरान् स्व-भक्तान् स्वं विदुषः प्रति भ्रू-रिङ्गणेनैव अन्य-जनालक्षितं यथा ब्रूते स्म मद्-आविर्भावस्यास्य युष्मद्-आनुकूल्यम् एव कर्तव्यं प्रयोजनं चासुरान् वञ्चयित्वा युष्मभ्यम् एवामृत-दानम् । यथा चासुरान् स्व-तत्त्वम् अविदुषः प्रत्य् अपि भ्रू-चालनेनैवं स्पष्टम् एव ब्रूते स्म मद्-आविर्भावस्य युष्माकं विजय-प्रापणम् एव कर्तव्यम् ।
प्रयोजनं च युष्मभ्यम् अमृत-प्रदानम् इतीदं गौणम् एव, मुख्य-प्रयोजनं त्व् एतद् एव यद् आनन्द-चमत्कारं युष्मान् नित्यं प्रापयामि युष्मद्-गृहस्थितैवेति । तत्-प्रथमम् एतान् अतिदीनान् निकृष्टान् देवान् किंचित् परिवेषयामीति । तथैवेदं श्री-भागवत-शास्त्रम् अपि स्व-तत्त्व-ज्ञान् स्व-भक्तान् हरि-लीलेत्य् अर्ध-पद्येन स्व-वाच्यं परोक्ष-वादा ऋषयः परोक्षं च मम प्रियं [भा।पु। ११.२१.३५] इति भगवद्-उक्तेर् व्यञ्जनयैव वृत्त्या सर्व-लोकालक्षितम् उक्त्वा स्व-तत्त्वम् अविदुषः शास्त्र-ज्ञ-मानिनः प्रकटम् एव स्व-वाच्य-प्रयोजने अन्ये एवाह सर्व-वेदान्तानां सारं यत् ब्रह्मणा सह आत्मैक्यम् अद्वितीयं वस्तु तन्-निष्ठं तस्मिन् वाचकत्वेन निष्ठा यस्य तत् । कैवल्यम् एकं मुख्यं प्रयोजनं यस्य तत् ।
केचित् पुनर् एवं व्याचक्षते—शास्त्रेऽस्मिन् भक्ति-ज्ञानयोर् द्वयोर् अपि मार्गयोर् उक्तत्वात् भक्ति-प्रेमणी वाच्य-प्रयोजने उक्त्वा ज्ञान-कैवल्ये अपि वाच्य-प्रयोजने आह सर्व-वेदान्तेति । कैवल्यम् अपेक्षं प्रयोजनं यस्य तत् । अपरे त्व् एवम् आहुः । शास्त्रेऽस्मिन्न् उपक्रम एव धर्मः प्रोज्झित-कैतवोऽत्र परम [भा।पु। १.१.२] इत्य् अनेन परम-धर्मस्य भक्तेर् एव वाच्यत्वावगमात् ईश्वरः सद्यो हृद्य् अवरुद्ध्यतेऽत्र कृतिभिः इत्य् अनेन प्रेम्न एव प्रयोजनत्वावगमाच् च तथा सर्वेष्व् अपि स्कन्धेषु ज्ञानात् तत्-साध्यायान् मुक्तेर् अपि शकाशात् भक्तेर् एव प्राधान्य-दर्शनात् प्राधान्येन व्यपदेशा भवन्तीति न्यायात् भक्ति-प्रेम्नोर् एवाभिधेयत्व-प्रयोजनत्वे वाज्येते । तस्मान् मोहिनी सार्धर्म्य-प्रापक-प्रकटार्थम् एतत् पद्यम् आभ्यन्तरेणार्थान्तरेण प्रयोजनीयं तद् यथा ब्रह्मात्मैकत्व-लक्षणं यद् वस्तु तन्-निष्ठं ततोऽपि निःसृत्य तिष्ठतीति तत् तथा । ज्ञान-कर्म-स्वर्गाद्याभिलाष-रहिताः केवला अनन्य-भक्तास् तेषां भावः कैवल्यं तद् एव प्रयोजनं यस्य तद् इति ॥११-१२॥
॥ १२.१३.१३-१४ ॥
प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम् ॥
राजन्ते तावद् अन्यानि पुराणानि सतां गणे ।
यावद् भागवतं नैव श्रूयतेऽमृत-सागरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रौष्ठ-पद्यां भाद्रपद्याम् । हेम-सिंह-समन्वितं सुवर्ण-सिंहासनारूढम् ॥१३-१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नामैकदेशोच्चारणन्यायेन सिंहपदं सिंहासनं वक्तोत्याह—सुवर्णसिंहासनेति । दानपात्रं तु जन्माद्यस्य इति व्याख्याशतके प्रोक्तम् अपि प्रसङ्गात्पुनरत्रोच्यते—
सुवृत्ताय गृहस्थाय कृष्णभक्ताय सन्ततम् । सर्वशास्त्रविदेऽध्यापने निरताय च विप्राय देयमेतत्तु श्रीमद्भागवतं मुने । यस्य पाठादिनिरतो विरक्तोऽपि यदा द्विजः । तस्मा अपि देयमेतन्न बद्ध्वा स्थापिने क्वाचित् । इति संहितोक्तेः ।
प्रौष्ठपद्यां भाद्रसम्बन्धिन्याम् । तस्मिन्न् एव दिने श्रीमुनीन्द्रैणैतत्पुराणं समाप्तीकृतम् इति पाद्मोत्तरखण्डमाहात्म्ये दृष्टम् । हेमसिंहेति—
सर्वशास्त्रमहाराजस्यास्य पुराणसूर्यस्य साम्राज्यार्थं सिंहासनौचित्यात् । सर्वग्रहराजस्य सूर्यस्याऽपि सिंहराशिगस्य सिंहासनारूढता दृष्टैव । परमां परमस्य भगवतः सन्निधिरूपाम् । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ इत्य्-उक्तेः ॥
श्रूयत इत्यत्र दृश्यते इति पाठश्चक्रवर्त्यादिसम्मतोऽस्ति । अस्य सर्वशास्त्रराजत्वमेवाह—राजन्त इति । अन्यानि पुराणानि तावच्छास्त्रराजत्ववन्ति, यावन्नेति भागवतं तु सम्राडेवातः शास्त्रमहाराजत्वमत्रैवेति भावः। यद् वा, अस्य पुराणसूर्यत्वम् आह—राजन्ते दीप्यन्ते रात्रौ नक्षत्राणि वेति भावः यावद्रान्त्र्यन्ते, यावन्नेति सति सूर्ये न दृश्येते इति भावः ॥१३-१४॥
———————————————————————————————————————
सनातन-गोस्वामी : [ह।भ।वि। १०.४०४] अमृतं भगवद्-भक्ति-रसः । तस्य सागरः ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-दानस्यापि तादृग् एव फलम् आह—प्रौष्ठपद्याम् इति । परमां परमस्य भगवतः सन्निधि-रूपां, ज्ञानेन वैयासकि-शब्दितेन [भा।पु। १.१८.१६] इत्य्-आदेः ॥१३॥ राजन्त इति । स्वर्ण-सिंहासनारूढत्वे हेतुतया राजत्वम् एव दर्शितम् ॥१४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रौष्ठपद्यां भाद्र-सम्बन्धिन्याम् इति तद्-दिन एव श्रीमन्-मीन्द्रेण शास्त्रम् एतत् समाप्त-कृतम् इति पाद्मोत्तर-खण्ड-गत-भागवत-माहात्म्ये दृष्टम् । हेम-सिंह-समन्वितम् इति सर्व-शास्त्र-महाराजस्य पुराण-सूर्यस्यास्य साम्राज्यार्थं सिंहासनौचित्यात् सर्व-ग्रह-राजस्येतद् उपमानस्य सूर्यस्यापि तदानीं सिंह-राशि-गतत्वेन सिंहासनाधिरूढता दृष्टैव । अस्य सर्व-शास्त्र-महाराजत्वम् एवाह—राज्न्त इति । अन्यानि पुराणान्य् अपि प्रायस् तावत् शास्त्र-राजानि यावन् नेति श्री-भागवतं तु सम्राड् एवातः शास्त्र-महाराजम् इति भावः । यद् वा, अस्य पुराण-सूर्यतम् आह—राजन्ते दीप्यन्ते रात्रौ नक्षत्राणीवेति भावः । यावद् रात्र्यन्ते यावन् नेति सति सूर्यो न दृश्यते ॥१३-१४॥
॥ १२.१३.१५-१७ ॥
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥
निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा ।
वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा ॥
क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा ।
तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-रस एवं-ऋतं तेन तृप्तस्य निर्वृतस्य ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद्रसः श्री-भागवतरसः पिबत भागवतं रसमालयम् इत्य्-उक्तेः । स च श्री-कृष्णलीलामाधुर्यादिलक्षण एव अमृतं पीयूषम् ॥ निम्नं गच्छन्तीति निम्नगाः नद्यस्तासां गङ्गा भागीरथी, अग्रिमश्लोके यथा—काशी ह्यनुत्तमा इत्य् उक्तेर् अच्युतादिपदैर् अपि तल्लिङ्गव्यत्यासेनोत्तमपदं योज्यम् । न उत्तम उत्कृष्टो यस्माद्यस्या वेति यथोचितं समसनीयम् । किं च, —सर्ववैष्णवशिरोमणेः श्रीशिवस्य त्रिपुण्ड्रभस्मरुद्राक्षधृतिदर्शनादेतत्कालिकैस्तत्कथं न धार्यत इति न शङ्कनीयम् न देवचरितं चरेत् इति स्मृतेः । यच्चैतद्धारणे वैष्णवः, तुलस्यादिधारणे शैवैश् च निन्दोच्यते, तत्परमार्थाऽज्ञानविजम्भितैव । यानि तु तत्तन्निन्दावाक्यान्युदाह्नियन्ते, तानि निर्मूलान्येवेति । न हि रुद्राक्षादिधृत्या वैष्णवत्वं नश्यति किन्तु वर्द्धत एव, तथैव तुलस्यादिधृत्या शैवत्वं न नश्यति किन्तु वर्द्धत एव, तथापि महाजनो येन गतः स पन्था इति इति न्यायमाश्रित्य वर्तितव्यम् इति तत्त्वम् । इदं श्री-भागवतम् ॥ काश्या महत्त्वं हि शतपथब्राह्मणे वर्णितम् । तथा हि—
अविमुक्तं ह वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोः प्राणेषु क्रममाणेषु रुद्रस्तारकं चष्टे येनासावभृती भूत्वा मोक्षी भवति ॥ इति श्रुतेः ।
यद् वा, कं सर्वपुरोविलक्षणं मोक्षसुखं यत्र सा काशी मथुरा । यदुक्तं वाराहे—
काश्यादयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मथुरैव धन्या ।
या जन्ममौञ्जीव्रतमृत्युदौहर्नृणां चतुर्द्धा विदधाति मुक्तिम् ॥ इति ।
यद् वा, कं ब्रह्माश्नुते सर्वदा तिष्ठत्येति काशी पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः इति नारदोक्तेः, मथुरा भगवान्यत्र नित्यं सन्निहितो हरिः इति श्रीदशमोक्तेश् च ।
मथुरेति त्रिवर्णीयं त्रयीतोऽपि गरीयसी ।
त्रयी तु धावति ब्रह्म तदेनामनुधावति ॥
इत्यभियुक्तोक्तेश् च । कं ब्रह्मणि सुखेऽम्बुनि इति विश्वः । क्षेत्राणां पुण्यक्षेत्राणाम् । क्षीयन्ते यत्र पापानि त्रायते यन्महाभयात् । तत्क्षेत्रमुच्यते प्राज्ञः इति स्कान्दोक्तेः ॥१५-१७॥
———————————————————————————————————————
**सनातन-गोस्वामी- **[ह।भ।वि। १०.४०५] तद्-रसः, तस्यास्वादनं तत्-प्रीतिर् वा, स एवामृतं तेन तृप्तस्य, अन्यत्र वेदान्तादौ ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-महन्-मुखरितस्य महत्-कीर्त्यमानस्य श्री-भगवद्-गुण-श्रवणस्य महा-माहात्म्यं महा-सुख-प्रदत्वं चोक्तम् । तत्रापि श्रवणे श्री-भागवत-श्रवणं तु परम-श्रेष्ठं—(क) तस्य तादृश-प्रभावमय-शब्दात्मकत्वात्, (ख) परम-रसमयत्वाच् च । तत्र (क) पूर्वस्माद् यथाह—श्रीमद्-भागवते महा-मुनि-कृते [भा।पु। १.१.२] इति, (ख) उत्तरस्माद् व्यनक्ति—सर्वेति । तद्-रसः श्री-भगवद्-भक्ति-रसामृतं, तेन तृप्तस्य, पिबत भागवतं रसम् आलयं [भा।पु। १.१.३] इत्य्-आद्य्-उक्तेः । नात्यन्तिकं विगणयन्त्य् अपि [भा।पु। ३.१५.४८] इत्य्-आदेश् च ॥१५॥
अत एवाह—निम्नगानाम् इति ॥१७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-वेदान्तेभ्योऽपि सारं श्रेष्ठम् । गङ्गेति सर्व-पाप-नाशनत्वेन । अच्युत इति सर्वोत्कर्षेण शम्भुर् इति सर्व-भगवद्-धर्मोपदेष्टृत्वेनोपमा ॥१५-१७॥
॥ १२.१३.१८ ॥
श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं
यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते ।
तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविष्कृतं
तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पारम-हंस्यं परम-हंसैः प्राप्यम् । नैष्कर्म्यं सर्व-कर्मोपरमः । भक्त्या तच्-छ्रवणादि-परो विमुच्यते ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अमलं सर्वशुद्धिकरम् । अमलं शुद्धाद्वैतविषयम् । विपठन् विशेषेण पठन् । विचारणपरः सातत्येनैतच्चिन्तनपरः सर्वोत्कर्षमेवाह—भागवत पुराणम् एव श्रीमत् शोभायुक्तम् । न भवन्ति मलास्त्रिगुणोत्था यस्मात्तत् । यद्यतो वैष्णवानां प्रियं भक्त्युत्कर्षप्रतिपादकत्वाद् इति भक्त्युत्थज्ञानप्राप्तिलोभिभिर्ज्ञानिसिद्धैर् अप्य् एतदाश्रयणीयमेवेत्याह—यस्मिन्न् इति । परमहंसेभ्यो हितं पारमहंस्यम् । परं भक्त्युत्थत्वाच्छ्रैष्ठम् । ज्ञानसाधकैर् अप्य् एतत्सेव्यमित्याह—यत्रेति । नैष्कर्म्यं सर्वकर्मोपरमम् ॥१८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : श्रीमद्-भागवतम् इत्य्-आदि । वैष्णवानां प्रियम् इति स्वरूप-निर्देशः । तत्र हेतुः—यस्मिन् पारमहंस्यम् इत्य्-आदि । परमहंसा भागवत-परमहंसास् तेषाम् इदं पारमहंस्यं केवलं प्रेम-भक्त्य्-आनन्दो यस्मिन् । नैष्कर्म्यं च आविष्कृतं नैष्कर्म्यं भगवद्-भक्ति-योग-विरुद्धं कर्म, तद्-अभावः । अतस् तत् तत् शृण्वन् पठन् विचारण-परस् तु भक्त्यैव विमुच्यते, न त्व् अन्येनेत्य् अर्थः । अतो भक्तिर् एवात्र पुरुषार्थ इत्य् उपसंहारः ॥१८॥
———————————————————————————————————————
**सनातन-गोस्वामी- **[ह।भ।वि। १०.४०७] वैष्णवत्वे प्रियत्वे हेतुम् आह—यस्मिन्न् इत्य् आदिना । पारमहंस्यं परमहंसानाम् अपि हितं परं ज्ञानं भगवद्-भक्ति-माहात्म्यादि-विषयम् । अतोऽमलं सर्व-मल-निवर्तकम् । अत एव श्री-भागवते व्याख्यातं—आदौ ज्ञानम्, ततस् तत्त्व-वेदनम्, ततो विरागः विषयादि-वैराग्यम्, ततो भक्तिश् च श्रवणादि-लक्षणा, तत्-सहितं नैष्कर्म्यं निष्कर्माणो भगवद्-भक्तास् तैः प्राप्यं भगवत्-प्रेम आविष्कृतं साक्षाद् इव दर्शितम् । एअत् श्रवणादि-प्रवृत्त्या एवस्वतस् तत्-तत्-सिद्धेः । तत् श्रीमद्-भागवतं भक्त्या शृण्वन् विपठन् सङ्कीर्तयन् विचारण-परश् च, तद्-अर्थं विचारयंश् च सन् नरः सर्वो जनः विशेषेण मुच्यते, श्री-वैकुण्ठ-लोकं प्राप्नोतीत्य् अर्थः ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **किं च, श्रीमद्-भागवतम् इति, वैष्णवानां प्रियम् इत्य् अनेनैव तथा विवक्षितम् । अत्रानुषङ्गिकं गुणम् आह—यस्मिन्न् इति । विमुच्येत्—सर्व-भक्त्य्-अन्तरायेभ्योऽपि निस्तरेत् ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वोत्कर्षम् एवोपपादयति भागवतं पुराणम् एव श्रीमत् सर्व-शोभा-युक्तं न भवन्ति मलास् त्रिगुणोत्था यस्मात् तत् । यत् यतो वैष्णवानां प्रियं भक्त्य्-उत्कर्ष-प्रतिपादकत्वाद् इति भावः भक्त्य्-उत्थ-ज्ञान-प्राप्ति-लोभिभिर् ज्ञान-सिद्धैर् आत्मारामैर् अप्य् एतद्-आश्रयणीयम् एवेत्य् आह यस्मिन्न् इति परमहंसेभ्यो हितं पारमहंस्यं हितार्थे षण् पारमहंस्यं परं भक्त्य्-उत्थत्वात् श्रेष्ठम् । ज्ञान-साधकैर् अप्य् एतद् अवश्य-सेव्यम् इत्य् आह । यत्रेति नैष्कर्म्यं सर्व-कर्मोपरमः ॥१८॥
॥ १२.१३.१९ ॥
कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा
तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-भागवत-सम्प्रदाय-प्रवर्तक-रूपेण भगवद्-ध्यान-लक्षणं मङ्गलम् आचरति—कस्मै ब्रह्मणे अतुलोऽसमः । अयं श्री-भागवत-रूपः । पुरा कल्पादौ । तद्-रूपेण ब्रह्म-रूपेन नारदाय तद्-रूपिणा नारद-रूपिणा कृष्णाय व्यासाय । तद्-रूपिणा योगीन्द्राय शुकाय तद्-आत्मना शुक-रूपेण । तत् परं सत्यं श्री-नारायणाख्यं तत्त्वं धीमहि । इति गायत्र्यैव यथोपक्रमम् उपसंहरन् गायत्र्य्-आख्य-ब्रह्म-विद् येयम् इति दर्शयति ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते मङ्गलमाचरणीयम् इति शिष्टाचारात् मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते इत्य्-आदि भाष्याच् च शास्त्रसमाप्तौ तदाचरतीत्य् आह—श्री-भागवतसम्प्रदायेत्यादि । कस्मै—असर्वनाम्नोपि सर्वनामकार्यमार्षत्वात् । येन परब्रह्मणा । ज्ञानं परोक्षापरोक्षरूपं प्रकर्षेण दीपयतीति तथा । अयं श्रीमद्भागवतलक्षणा। कृष्णाय व्यासाय । अथेति—तदात्मनेत्यस्य द्वियोजनायोक्तम् । शुद्धं सर्वोपाधिविनिर्मुक्तम् । विमलमज्ञानतत्कार्यनिवर्तकम् । तरति शोकमात्मवित् इति श्रुतेः । शोकोपलक्षितस्संसारः, विगतः शोको येन तद्विशाकं संसारतरणसाधनम् । अमृतं मृतिनिवर्तकम् । विमलविशोकामृतपदानां तात्पर्यंत एकार्थत्वेऽपि पुनरुक्तिः सर्वथा संसारभयनाशकमित्य् अर्थेति
ज्ञेयम् । सत्यं त्रैकालिकाबाध्यम् । ज्ञानान्तरेण विषयासत्यप्रतीतिर्बाधस्तदयोग्यमत एव परं सर्वतः परं सर्वावधीभूतम् । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति श्रुतेः । धीमहीति साक्षाद्गायत्रीपदयोगेन गायत्र्येवेति पूर्वम् वस्त्वद्वितीयं तन्निष्ठम् इति सामान्यतस् तात्पर्यं दर्शयित्वा जन्माद्यस्य इत्य्-आद्य्-उपक्रमपोषकं श्री-भगवत्येव तस्य पर्यवसानं दर्शयन्नुपसंहरति—कस्माद् इति । महावैकुण्ठं दर्शयता येन भगवता ब्रह्मणे विभासितं प्रकाशितम्, न तु विरचितम् इदं भागवतम् । पुरा पूर्वपरार्द्धादौ । तदात्मनेत्यस्योत्तरोत्तरेणाप्यन्वयः । तत्र तदात्मना श्रीशुकरूपेणेति न केवलं चतुःश्लोक्येव तेन प्रकाशिता, अपि तु तत्रतत्राविष्टेनाखण्डमेवेदं पुराणम् इति द्योतितम् । श्रीसङ्कर्षणसम्प्रदायप्रवृत्तिस् तु श्रीद्वैपायनकर्तृकप्रकाशान्तर्गतत्वात् पृथग्नोक्ता । तत्परं सत्यं भगवद्-आख्यं तत्त्वं धीमहि यत्तत्पदमनुत्तमम् इति सहस्रनामसु तच्छब्दस्य तन्नामत्वेन गणितत्वात् । परशब्देन श्री-भगवानेवोच्यते आद्योऽवतारः पुरुषः परस्य इति द्वितीयोक्तेः । ब्रह्मादीनां बुद्धिवृत्तिप्रवर्तकत्वेनाभिधानात् । गायत्र्यर्थोपलक्षितेन धीमहीति गायत्रीपदेनोपसंहाराद्गायत्र्याख्यब्रह्मविद्यैवेयं श्री-भागवतपुराणम् ॥१९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कस्मै येनेत्य्-आदि । येन श्री-कृष्णेन कस्मै ब्रह्मणेऽयं श्री-भागवत्ख्यो ज्ञान-प्रदीपः विभासितः । पुरा प्रथमं तद्-रूपेण नारदाय च, तद्-रूपिणा नारद-रूपिणा कृष्णाय वेद-व्यासाय । तद्-रूपिणा व्यास-रूपिणा योगीन्द्राय शुकाय । तद्-आत्मना शुक-रूपेण भगवद्-राताय परीक्षिते तत् श्री-कृष्णाख्यम् अमृतं, सत्यं परं धीमहि । तद् इत्य् अव्ययम् उत्तमम् इत्य् अर्थः । उपक्रमे चोपसंहारे गायत्र्यैव निबद्धम् इति भागवत्स्यासाधारणो धर्मः ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पूर्वं, वस्त्व् अद्वितीयं तन्-निष्ठं [भा।पु। १२.१३.१२] इति सामान्यतस् तात्पर्यं दर्शयित्वा, जन्माद्य् अस्य [भा।पु। १.१.१] इत्य्-आद्य्-उपक्रम-पोषकं श्री-भगवत्य् एव तस्य पर्यवसानं दर्शयन्न् उपसंहरति—कस्मा इति । कस्मै ब्रह्मणे महा-वैकुण्ठं दर्शयता श्री-भगवता येन विभासितः प्रकाशितः, न तु तदा विरच्तोऽयं श्रीमद्-भागवत-रूपः । पुरा पूर्व-परार्धादौ । तद्-आत्म४त्य् अस्योत्तरेणान्वयः । तत्र तद्-आत्मना श्री-शुक-रूपेणेति गम्यम् । तद्-रूपेण च इत्य्-आदिभिस् त्रिभिः पदैर् न केवलं चतुः-श्लोक्य् एव तेन प्रकाशिता, अपि तु तत्र तत्राविष्टेनाखण्डम् एवेदं पुराणम् इति द्योतितम् । श्री-सङ्कर्षण-सम्प्रदाय-प्रवृत्तिस् तु श्री-कृष्ण-द्वैपायन-कर्तृक-प्रकाशनान्तर्गतम् एवेति पृथङ् नोक्ता । तत्-परं सत्यं भगवद्-आख्यं तत्त्वं धीमहि, यत् तत् पदम् अनुत्तमम् इति सहस्र-नाम-स्तोत्रे तच्-छब्दस्य तन्-नामत्वेन गणितत्वात् । पर-शब्देन च श्री-भगवान् एवोच्यते—आद्योऽवतारः पुरुषः परस्य [भा।पु। २.६.४२] इति द्वितीयात् । ब्रह्मादीनां बुद्धि-वृत्ति-प्रेरकत्वेनाभिधानाद् गायत्र्य्-अर्थोपलक्षितेन धीमहीति गायत्री पदेनोपसंहारः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-भागवत-सम्प्रदाय-प्रवर्तक-रूपस्य भगवतो ध्यान-लक्षणं मङ्गलम् आचरति—कस्मै ब्रह्मणे । सर्व-नामत्वम् आर्षम् । अयं द्वादश-स्कन्धात्मक एव ग्रन्थः पुरा कल्पादौ तद्-रूपेण ब्रह्म-रूपेण नारदाय तद्-रूपिणा नारद-रूपिणा । कृष्णाय व्यासाय । व्यास-रूपेण योगीन्द्राय शुकाय । तद्-आत्मना शुक-रूपेण भगवद्-राताय विष्णु-राताय । तत् परं सत्यं श्री-नारायण-स्वरूपं धीमहीति गायत्र्यैव यथोपक्रान्तवांस् तथैवोपसंहरन्, गायत्र्य्-आख्या ब्रह्म-विद्येयम् इति दर्शयति ॥१९॥
॥ १२.१३.२० ॥
नमस् तस्मै भगवते वासुदेवाय साक्षिणे ।
य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तम् एव देवता-रूपेण गुरु-रूपेण च प्रणमति, नम इति द्वाभ्याम् । व्याचचक्षे व्याख्यातवान् ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कस्मै ब्रह्मणे । इदं भागवतम् । मुमुक्षवे सृष्टिप्रतिबन्धकाज्ञानं त्यक्तकामाय । शास्त्रसमाप्तौ स्वाभीष्टदेवं प्रणमति—वासुदेवनन्दनाय । साक्षिण इति—अहं तस्य भक्तोऽभक्तो वा, शिष्टो दुष्टो वा, तदभिप्रेतं व्याख्यातुं देद्मि न वेद्मि वेति स एव साक्षात्पश्यति तत्कृपैव मे शरणम् इति भावः । अहं तावत्को वराको ब्रह्मापि तत्कृपां विना श्री-भागवतार्थं न वेत्तीत्य् आह—य इदम् इति । मुमुक्षवे कृपया व्याचचक्षे उपदिदेशेत्येतदुपदेशात्पूर्वम् एव तस्य मुमुक्षासीत्तदुपदेशानन्तरं तु प्रेम्णैवाकाङ्क्षा, मोक्षे तूपेक्षैवाजानिष्ठेति भावः ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं श्री-भागवत-तात्पर्यत्वेनोपसंहृत्य तत्-सर्व-गुरुं श्री-भगवन्तम् एव प्रणमति—नम इति । मुमुक्षवे तद्-भक्तिं विना सर्वम् अन्यत् त्यक्तुम् इच्छवे ॥२०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्र-समाप्तौ स्वाभीष्ट-देवं प्रणमति नम इति । वासुदेवाय वसुदेव-नन्दनाय । साक्षिणे इति अहं तस्य भक्तो भक्ति-रहितो वा शिष्टो दुष्टो वा तद्-अभिप्रेतम् अर्थं व्याख्यातुं वेद्मि न वेद्मि वा स एव साक्षात् पश्यति तत् कृपैव मे शरणम् इति भावह् । अहं तावत् को वराको ब्रह्मापि तत्-कृपां विना श्री-भागवतार्थं न वेत्तीत्य् आह । य इदम् इति । मुमुक्षवे कृपया व्याचचक्षे उपदिदेशेत्य् एतद् उपदेशात् पूर्वम् एव तस्य मुमुक्षा आसीत् । एतद्-उपदेशानन्तरं तु प्रेमण्य् एवाकाङ्क्षा मोक्षे तूपेक्षैवाजनिष्टेति भावः ॥२०॥
॥ १२.१३.२१ ॥
योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे ।
संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्रापि स्वोपदेष्टृ-रूपं प्रणमति—योगीन्द्रायेति । भक्ति-योग-प्रवर्तक-मुख्याय मुनये तादृश-श्री-कृष्णैक-परायणत्वेन मनन-शीलाय ब्रह्म-रूपिणे तादृश-श्री-भगवद्-रूपाविर्भाव-मयाय—योगीन्द्राय तद्-आत्मना [भा।पु। १२.१३.१९] इत्य् उक्तेः । तद् एवं तस्य महिमानं स्मृत्वा कारुण्यं स्मरति—संसारेति । संसरत्य् अस्मिन्न् इति संसारः प्रपञ्चः । स एव श्री-कृष्णान्तर्धाने सोढुम् अशक्यत्वात् । सर्पः सर्व-व्यापी विषधरस् तेन दष्टं दंशनेनेवात्यर्थं तद्-विरह-दुःखेन पीडितं विष्णुरातं श्री-परीक्षितं योऽमूमुचत् तां पीडां त्यक्तुम् उत्कण्टां प्रेरयामास । अतस् तक्षक-मात्राद् यद् दुःखं, यच् च तस्मान् मोचनम्, तत् तद् उभाभ्याम् अपि नादृतम् इति भावः । तादृश-प्रेम्णि च हेतुः—विष्णुरातम् इत्य् एव । तेन विष्णुना यो रातः स्व-भक्तेभ्यः प्रसादीकृतः, स परम-तदीय एवेति ॥२१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-शुकदेवं प्रणमति । योगीन्द्राय भक्ति-योग-ज्ञान-योग-कर्म-योगाष्टाङ्ग-योग-विदां महा-मुख्याय । ब्रह्म-रूपिणे पर-ब्रह्म-स्वरूपाय । संसार-सर्प-दष्टं विष्णु-रातम् इति । यथार्जुनस्य मोहं गीता-शास्त्रेण यथोद्धवस्य मोहम् एकादशेन भगवान् निवर्तयामास तथैव परीक्षितः संसारं श्री-शुक इति प्राकृत-लोक-प्रतीत्यैवोक्तिर् वस्तुतस् तु त्रयाणाम् एव भगव्न्-नित्य-पार्षदत्वान् न संसार-शङ्का-गन्धोऽपि, किन्तु जीव-हित-ग्राहण-चातुर्य-धुरन्धराणां महा-कृपालूनां महताम् अप्य् एकं महा-प्रसिद्धं जनम् अवलम्ब्यैव हितोपदेश-सन्ततिर् इति नीतिर् दृष्ट्वा । अत एवात्र विष्णुरातम् इति प्रयुक्तम् । विष्णुना कृपया युधिष्ठिराय रातो दत्तः स्वयं गृहीतो वा, यस् तस्य संसारः कः खलु मन्द-बुद्धिर् आशङ्केतेति भावः । किं च, सर्प-विष-हरा मन्त्रा यथा लोके अर्थ-ज्ञानम् अपि नापेक्षन्ते तथैवार्थं जानातु न जानातु वा श्री-भागवतीयाः शब्दा एव संसार-विषं निर्मूलयन्तीत्य् आचार्याभिप्रायो द्रष्टव्यः ॥२१॥
॥ १२.१३.२२-२३ ॥
भवे भवे यथा भक्तिः पादयोस् तव जायते ।
तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो ॥
नाम-सङ्कीर्तनं यस्य सर्व-पाप-प्रणाशनम् ।
प्रणामो दुःख-शमनस् तं नमामि हरिं परम् ॥
**इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये **
पारमहंस्यां संहितायां वैयासिक्यां
द्वादश-स्कन्धे स्कन्धार्थ-निरूपणं नाम
**त्रयोदशोऽध्यायः **
॥१३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
भावार्थ-दीपिकाम् एतां भगवद्-भक्त-वत्सलाम् ।
परमानन्द-पादाब्ज- भृङ्ग-श्रीः श्रीधरो ऽकरोत् ॥
स्व-बाल-चपलालापैः स्व-लिला-परिनर्तितैः ।
प्रीयतां परमानन्द- नृहरिः सद्-गुरुः स्वयम् ॥
श्री-परानन्द-संप्रीत्यै गुह्यं भागवतं मया ।
तन् मतेनेदम् आख्यातं न तु मन् मति-वैभवात् ॥
क्वेदं नाना-निगूढार्थं श्रीमद्-भागवतं क्व नु ।
मन्द-बुद्धिर् अहं कृष्ण- प्रेम किं किं न कारयेत् ॥
शृई-कृष्णाय नमो ऽस्तु ॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्रह्म श्री-भागवतम् पुराणं ब्रह्मसंमितम इत्य् उक्तेः, रूपयति परीक्षिते वर्णयतीति ब्रह्मरूपी तस्मै । अमूमुचत् मोचयामास २१ इतोऽग्रे भवे भवे इत्य्-आदिपद्यद्वयं प्रक्षिप्तम् । भगवद्-भक्तानां वत्सला प्रिया ताम् १। स्वबालस्य मम चपलालापैर् बाल्यमतिप्रयुक्तैः शब्दैः स्वेनैव लीलया परिनर्तितैर् मन्मुखात्पठितैः २ तद् एवाह—तन्मतेन श्रीपरानन्दनृसिंहमतेन । तत्प्रसादावाप्तज्ञानेनेत्यर्थः । श्रीशुकदेवं प्रणमति—योगीन्द्राय भक्तिज्ञानकर्माष्टाङ्गात्मकयोगचतुष्कविदां महामुख्याय । ब्रह्मरूपिणे परब्रह्मस्वरूपाय । संसारसपर्दष्टं विष्णुरातम् इति—यथार्जुनोद्भवमोहं गीतैकादशोपदेशेन भगवान्निवर्तयामास, तथैव परीक्षित्संसारं शुक इति प्राकृतलोकप्रतीत्यैवोक्तिः । वस्तुतस् तु त्रयाणाम् एव भगवन्नित्यपार्षदत्वान्न संसारशङ्कागन्धोऽपि किन्तु जीवहितग्राहणचातुर्यधुरन्धराणां महतां कमप्येकं महाप्रसिद्धं जनमवलम्ब्यैव हितोपदेशसन्ततिर् इति नीतिर्दृष्टात एवेह—विष्णुरातम् इति प्रयुक्तम् । युधिष्ठिराय कृपया रातं दत्तं स्वयं गृहीतो वा यस्तस्य संसारः कः खलु मन्दबुद्धिराशङ्केतेति भावः । किं च, —सर्पविषहरा मन्त्रा यथा लोकेऽर्थज्ञानम् अपि नापेक्षन्ते, तथैवार्थं जानातु न जानातु वा श्री-भागवतीयाः शब्दा एव संसारविषं निर्मूलयन्तीत्याचार्याभिप्रायो द्रष्टव्योऽत्रेति ॥२१-२३॥
इति श्रीखडपत्तनवास्तव्यपण्डितवंशीधरशर्मविरचिते श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादस्कन्धे त्रयोदशोऽध्यायः ॥१३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
भगवद्-ब्रह्मणोर् वादो ब्रह्म-नारदयोर् अथ ।
नारद-व्यासयोः पश्चाद् व्यास-तत्-पुत्रयोर् अथ ॥
शुकोत्तरेययोः पश्चात् सूत-शौनकयोर् इति ।
षट्-संवादा भागवते सर्वे व्यासेन गुम्फिताः ॥
कृष्णोत्कर्षात् कृष्ण-भक्तैर् विज्ञैः कौशल-कौतुकात् ।
चैतन्य-मत-रत्नस्य मञ्जुषेयं विचार्यताम् ॥
चैतन्य-मत-मञ्जुषा पीयूषाद् अपि मञ्जुला ।
तद्-वासनैः सहृदयैर् उद्घाट्येयं विचार्यताम् ॥
स्व-सिद्धान्त-प्रकटने पर-सिद्धान्त-बाधनम् ।
अत्र यद्य् अपराधः स्यात् श्री-कृष्णस् तु हरिष्यति ॥
भ्रमाज् ज्ञानस्य दौर्बल्याद् यद् अत्र क्वापि दूषणम् ।
तच् छोधयन्तु सुधियः श्री-कृष्ण-रस-लम्पटाः ॥
श्रीनाथ-पण्डित-कृता कृष्णोत्कर्ष-गरीयसी ।
चैतन्य-मत-मञ्जुषा जीयाद् भागवताश्रया ॥
इति श्री-भागवत-तत्त्व-लेखनी श्री-चैतन्य-मत-मञ्जुषा समाप्ता ।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तोऽभिन्नत्वान् नाम-नामिनोः ॥
अत एव,
सुवर्ण-वर्णो हेमाङ्गो वराङ्गश् चन्दनाङ्गदी ।
सन्न्यास-कृत् समः शान्तो निष्ठा-शान्ति-परायणः ॥
एवं सहस्र-नामोक्तं कृष्ण-चैतन्य-संज्ञितः ।
मां पायाद् अपराधेभ्यः स्व-प्रेमांशेन पुष्यतु ॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशो द्वादशस्य सङ्गतः सङ्गतः सङ्गतः सताम् ॥
इति श्रील-विश्वनाथ-चक्रवर्ति-ठक्कुर-कृता श्रीमद्-भागवते द्वादश-स्कन्धे त्रयोदशाध्यायस्य सारार्थ-दर्शिनी टीका ॥
नमोऽस्तु गुरवे तस्मै श्री-कृष्णाय नमो नमः ।
कृपार्णवाय श्री-लोकनाथाय प्रभवे नमः ॥
कृष्ण-चैतन्य गौराङ्ग साङ्गोपाङ्ग स-पार्षद ।
निरुपाधे कृपा-सिन्धो प्रेम्णा मां परिपूरय ॥
जय वृन्दावन-क्रीडा-रसिक-द्वय मां नय ।
स्व-प्रियालिङ्गनं गीतम् अवैतत् करुणो भव ॥
अत्यज्ञोऽपि त्वयैवाहं स्व-व्याख्यायां प्रवर्तितः ।
हे कृष्ण श्री-भागवत प्रसीद त्वं तद् एतया ॥
मद्-गवीर् अपि गोपाल स्वीकृत्य परिपालय ।
पिबन्न् आसां पयः प्रीत्या स्व-भक्तान् अपि पायय ॥
ऋत्व्-अक्षि-षड्-भूमि-मिते शाके राधा-सरस्-तटे ।
शुक्ल-षष्ठ्यां सिते माघे टीकेयं पूर्णताम् अगात् ॥
टीकेयं वैश्वनाथी भवतु भगवतो भक्त-लोकस्य रस्या
षट्-शास्त्रागम्यधाम्नो मधुरिम-लहरी-खेलनैकान्त-वृत्तेः ।
यत् तस्यारोचकत्वे कृतिर् अतिकृतिनः सर्व-साद्गुण्य-गण्या
दीव्यत् पाण्डित्य-नृत्यप्य् अनुपद-विधुरा स्याज् जनी दुर्भगेव ॥
आरम्भे परिणामे च विवर्तेऽपि न हि क्षतिः ।
श्रीमद्-भागवते भक्तेः पुरुषार्थ-शिरोमणेः ॥
व्याख्यास्य भक्त्या गम्या सा श्री-गुरोः कृपयेक्ष्यते ।
तस्मान् नमो नमस् तस्मै गुरवे गुरवे नमः ॥
हे भक्त्या द्वारि वश् चञ्चद् बालधी रौत्य् अयं जनः ।
नाथा विशिष्टः सेवातः प्रसादं लभतां मनाक् ॥
श्री-गोवर्धनाय हरिदास-वर्याय नमः ।
श्री-राधा-कुण्डाय श्री-कृष्ण-कुण्डाय नमो नमः ॥
समाप्ता चेयं सारार्थ-दर्शीनी टीका ॥
समाप्तम् इदं द्वादशात्मकं श्रीमद्-भागवतम् ।