॥ १२.१२.१ ॥
सूत उवाच—
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्वादशे तु पुराणोक्त-सर्वार्थानुक्रमः कृतः ।
प्रथम-स्कन्धम् आरभ्य प्राधान्येन समासतः ॥
तद् एवम् अस्मिन् पुराणे विस्तरेणोक्तान् अर्थान् सङ्क्षेपतो वर्णयिष्यन् धर्मादीन् प्रणमति, नम इति। महते हरि-भक्ति-लक्षणाय। ब्राह्मणेभ्यो ब्राह्मणान्। सनातनान् अनादीन्। धर्मान् इत्य् उपलक्षणं पुराणोक्तार्थानाम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णाय तद्-आख्ययातिप्रसिद्धाय स्वयं भगवते । वेधसे अवतारादि-सर्व-विधात्रे । तत्र स्व-दैन्येन विनयः ब्राह्मणेभ्यो नमस्कृत्येति । सनातनान्, कालेन नष्टा प्रलये वाणीयं [भा।पु। ११.१४.३] इत्य्-आदि-प्रमाणेन प्रसिद्धान्, धर्मान् भागवतान् वक्ष्य इति तत्-तत्-प्रसङ्गानुक्रमेण तान् एव सूचयिष्यामि—पतितः स्खलितः [भा।पु। १२.१२.४७] इत्य्-आदिना च साक्षाद् वक्ष्यामीत्य् अर्थः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनुक्रमो गणना । समासतः सङ्क्षेपतः, सङ्क्षेपकथनेऽपि प्राधान्येन मुख्यार्थस्यैव कथनं नतु सर्वत इत्य् अर्थः धर्मस्यव हरिप्रियत्वेन संसारतारकत्वादादौ नमति—नम इति । हरिप्रियत्वं धर्मस्य यदायदा हि धर्मस्य इति श्रीगीतावाक्यादवसीयते । धर्मान्तरव्यावृत्तये—महत इति । महत्त्वम् अपि हरि-भक्तिलक्षणधर्मस्य दुक्त्यैवावसीयते। तथा हि—सर्वधर्मान्परित्यज्य माम् एकं शरणं व्रज इति । ब्राह्मणेभ्य इति द्वितीयार्थे चतुर्थी । सनातनाञ्छ्रीमद्व्यासकथनाद् अपि प्राक्तनान्नतु व्यासप्रणीतांस् तथा च वेदवत्सनातनत्वमस्य पुराणस्य श्रीसूतेन ध्वनितम् । वेधसेऽवतारादिसर्वविधात्रे । स्वदैन्यं ज्ञापयन्नमति—ब्राह्मणेभ्यो व्यासादिभ्यस्तत्प्रकाशकेभ्यः । सनातनम् कालेन प्रलये नष्टा वाणीयम् इत्य्-आदिप्रमाणेन प्रसिद्धान् धर्मान् भागवतान्वक्ष्ये तत्तत्प्रसङ्गानुक्रमेण तानेव सूचयिष्यामि पतितः स्खलितः इत्य्-आदिना च साक्षाद्वक्ष्यामीत्य् अर्थः । श्रवणकीर्तनादिविषयत्वे सति तच् चरितान्येव परमसनातनधर्मा भवन्तीति भावः । यद् वा, भगवतो भक्तियोगस्य तच् चरितानां च निर्गुणत्वात्सनातनत्वमेव, सगुणस्यैव वस्तुनः सनातनत्वाभावाद् इत्य् अर्थः ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
प्रथमादितः आरभ्योपाख्यान-विततेः पुनः ।
अनुक्रमः प्रसिद्धायां द्वादशे क्रियते स्फुटम् ॥
महते भक्ति-लक्षणाय कृष्णाय तत्-प्राप्याय, वेधसे सर्व-कारणाय, ब्राह्मणेभ्यो व्यासादिभ्यस् तत्-प्रकाशकेभ्यो द्वितीयार्थे चतुर्थी । धर्मान् भगवच्-चरित्राणि श्रवण-कीर्तनादिर् विषयत्वे सति भगवच्-चरितान्य् एव परम-धर्मा भवन्तीति भावः । सनातनान् नित्यान् । भगवतो भक्ति-योगस्य च तच्-चरितानां च निर्गुणत्वाद् इति भावः ॥१॥
॥।
॥ १२.१२.२ ॥
एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् ।
भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुरुषत्वे उचितं श्रवणादि-योग्यम् ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद्भवद्भिर्नराणां सम्बन्धि पुंसाम् एकान्ततः श्रेयस्तन्नश्शंसितुमर्हसि इत्यहं पृष्टस्तदेतद्वो विष्णोरद्भूतचरितं मया कथितम् इति सम्बन्धः । हे विप्रा इति—विगतः प्रापूरयिता स्वीयबोधेन येषां ते विप्राः सर्वज्ञा इति । सर्वज्ञानामग्रे मया यथाश्रुतम् एवोक्तम् इति भावः । तत्र भगवच्चरितश्रवणम् एव मुख्यमित्यभिप्रेत्योपसंहरन्ननुक्रमितुमुपक्रमते—नराणां मध्ये ये पुरुषास्तेषामेवोचितं न तु तद्विमुखानां पशूनाम् इति तेषां गालिप्रदानम् । तद् उक्तम्—
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ इति ।
यद् वा, नराणां पुरुषे भगवति यदुचितम् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रैव भगवच्-चरित-श्रवणम् एव मुख्यम् इत्य् अभिप्रायेण तेनैव महा-प्रसङ्गम् उपसंहरन् तान् अनुक्रमितुम् उपक्रमते—एतद् इति । नराणां मध्ये ये पुरुषास् तेषाम् एवोचितं, न तु ये तेषां मध्ये पशवस् तेषाम् इत्य् अर्थ इति तद्-बहिर्-मुखेभ्यो गालि-प्रदानं, यथोक्तम्, श्व-विड्-वराहोष्ट्र-खरैः [भा।पु। २.३.१९] इत्य्-आदि । यद् वा, नराणां जीवानां पुरुषे श्री-भगवति यद् उचितम् ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नराणां मध्ये ये पुरुषास् तेषाम् उचितं, न तु नराणां मध्ये ये पशवस् तेषाम् इति । यद् उक्तं, श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः [भा।पु। २.३.१९] इति ॥२॥
॥ १२.१२.३ ॥
अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः ।
नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति—अत्रेति । भगवान् ऐश्वर्यादि-षड्-गुणः । साक्षात् सङ्कीर्तित इति देवता-काण्डार्थः ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतत्पुरुषस्य श्रवणादियोग्यमेतद् इत्य् अर्थः । अत्र श्री-भागवते । साक्षाद्धरिः श्री-कृष्णः एते चांशकलाः पुंसः कृष्णस् तु भगवान्स्वयम् इत्य्-उक्तेः । सर्वपापहर इत्य्-आदिविशेषणानां तत्रैव सामञ्जस्यात् । अत्र द्वादश-स्कन्धेषु हरिर्भगवद्-आद्याख्ययानन्ताविर्भावः परमेश्वरस्तावन्मुख्यत्वेन कीर्त्यते । तत्रापि गुणरूपलीलात्वेन मुख्यत्वेन कोर्त्यते । तस्य च प्राधान्येन भेदद्वयं दर्शितमित्याह—नारायणः सर्वजीवाश्रयः । हृषीकेशस्तदीयसर्वेन्द्रियप्रवर्तकश् च परमात्मेत्यर्थ इत्येको भेदः । द्वितीयम् आह—भगवानिति । स एव कः—सात्वतामुद्धवादीनां पतिः स्वयं भगवानित्य् अर्थः ॥३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अत्र श्री-भागवते सात्वतां पतिः श्री-कृष्णः सङ्कीर्त्यते, स एव भगवान् । हर्य्-आदीन्य् अपि तन्-नामानि ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र श्री-भागवते हरिर् भगवद्-आद्य्-आख्ययानन्ताविर्भावः परमेश्वरस् तावन्-मुख्यत्वेन कीर्त्यते, तत्रापि गुण-रूप-लीलाभिः साक्षाद् एव कीर्त्यते । तस्य च प्राधान्येन भेद-द्वयं दर्शितम् इत्य् आह—नारायणः सर्व-जीवाश्रयः हृषीकेशस् तदीय सर्वेन्द्रिय-प्रवर्तकश् च परमात्मेत्य् अर्थः । इत्य् एको भेदः । द्वितीयम् आह—भगवान् इति । स च सात्वतां पतिः स्वयं भगवान् श्री-यादवेन्द्र-रूपत्वेन कीर्त्यत इत्य् अर्थः ॥३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यः सर्व-पाप-हर्तृत्वेन हरि-शब्देनोच्यते यश् च नारस्य जीव-समूहस्य आश्रमत्वेन नारायण-शब्देनोच्यते । यश् च सर्वेन्द्रियाणां प्रवर्तकत्वेन हृषीकेश-शब्देनोच्यते स एव भगवान् अत्र द्वादशस्व् अपि स्कन्धेषु कीर्त्यते । स हि क इत्य् अत आह—सात्वताम् उद्धवादीनां पतिः ॥३॥
॥।
॥ १२.१२.४ ॥
अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।
ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) :**ब्रह्म-काण्डार्थम् आह—अत्र ब्रह्मेति । गुह्यं निर्गुणम् । प्रभवाप्ययम्, प्रभवत्य् अस्माद् इति प्रभवम्, अप्येत्य् अस्मिन्न् इत्य् अप्ययम्, तच् च तच् च । अनेनाश्रय-शब्दार्थो दर्शितः । विज्ञान-संयुतम् अपरोक्ष-ज्ञान-पर्यन्तं ज्ञानम् । तद्-उपाख्यानं तज्-ज्ञानम् उपाख्यायते प्रकाश्यते येन तज्-ज्ञान-साधनम् इत्य् अर्थः ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सगुणमुक्त्वा निर्गुणम् आह—ब्रह्मेति । इत्य् अर्थ इति—श्रवणादिसाधनमन्तरेण ज्ञानानुत्पत्तेस् तदप्युक्तम् इति भावः । तदीयनिर्विशेषप्रकाशरूपं यद्ब्रह्म तदपि प्रोक्तं वागाद्यग्राह्यत्वाद्गुह्यम् । तहि कथं स्वयं प्रोक्तं तत्राह—जगत उत्पत्तिलयौ यतस् तदित्येवंरीत्योक्तं न तु साक्षाद् इत्य् अर्थः ॥४॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अत्र ब्रह्मेत्य्-आदि । अत्र श्री-भागवते ब्रह्म-परं गुह्यं विश्वस्य प्रभवाप्ययं ज्ञानं च विज्ञान-संयुतं यत् प्रोक्तं, तत्-तद्-उपाख्यानं श्री-कृष्णोपाख्यानम् । उप आख्यायते इति कर्मणि युट्, हीने उपश् च कथ्यते इति उप-शब्दोऽत्र हीनार्थः । उपार्जुनं योद्धारः इतिवत् । तत् ततः कृष्णाख्यानाद् धीनम् इत्य् अर्थः । तद् इत्य् अव्ययं तद् उप तं श्री-कृष्णम् उप, ततो हीनम् इत्य् अर्थः । आख्यानं—आख्यायते कथ्यते कथा-प्रसङ्गात् निर्दिश्यते इत्य् आख्यानं, तत् सर्वं ब्रह्मादि कथनीयम् इति कथितम् । वस्तुतः श्री-कृष्ण एव प्रतिपाद्यः, वेद्यं वास्तवम् अत्र वस्तु [भा।पु। १.१.२] इत्य् उपक्रान्तेः, तस्य सर्वेश्वरेश्वरत्वात् । यद् वा, आख्यायते यत इत्य् आख्यानः श्री-कृष्णः, तद् ब्रह्मादि सर्वम् उपाख्यानं श्री-कृष्णआद् धीनम् इति ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्र ब्रह्मेति सार्धकम् । अत्र भगवत्-तत्त्व-कीर्तन एव तदीय-निर्विशेष-प्रकाश-रूपं यद् ब्रह्म यद् एव जगज्-जन्मादिना सामान्यतो लक्षितं तद् अपि प्रोक्तम् ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदीय-निर्विशेष-प्रकाश-रूपं यद् ब्रह्म, तद् अपि प्रोक्तं, वाग्-आदीन्द्रिय-ग्राह्यत्वाभावाद् गुह्यं तर्हि कथं प्रोक्तं, तत्राह जगतः प्रभव उत्पत्तिर् अप्ययो लयश् च यतस् तद् इत्य् एतत्-प्रकारेणैव प्रोक्तं, न तु साक्षात् प्रोक्तम् इति भावः । तत्-प्राप्ति-साधनं ज्ञानं च तद् उपाख्यायते प्रकाश्यते येन तज् ज्ञान-साधनं च विज्ञानम् अपरोक्षानुभवस् तत्-सहितं च ॥४॥
॥।
॥ १२.१२.५ ॥
भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् ।
पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कर्म-काण्डार्थम् आह, भक्ति-योगश् च साध्य-साधन-रूपः । तद्-आश्रयं भक्ति-योगेन निष्पादितम् । एवं सामान्यतो निरूप्येदानीं द्वादश-स्कन्ध-प्रकरणार्थान् अनुक्रामति । पारीक्षितम् उपाख्यानं परीक्षिज्-जन्मादि, तत्-प्रस्तावाय नारदाख्यानं च ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्प्रस्तावाय परीक्षिज्जन्मादिप्रसङ्गाय प्रथमस्कन्धत उपक्रमते—पारीक्षितम् इति । इहानुक्रमणिकाध्याये । यत्प्रसिद्धम् अपि किञ्चित्किचिदुल्लङ्घयते तन्नानिष्टम् इति । अनुक्रमणिका हि नोक्तसमस्तार्थव्यापिनी भवेत् यत्प्रथमत एव जन्मगुह्याध्यायकथातिप्रसिद्धाप्युल्लङ्घिता । तथा द्रौणिदण्डभीष्मनिर्याणादिकथाचित्रकेतुत्रिपुरवधाम्बरीषादिकथाघासुरब्रह्ममोहादिकथा च बहुश उल्लङ्घ्य क्वचित्क्रमेणात्युक्तेति ॥५॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अत्र भक्ति-योग एव मुख्यत्वेनाख्यायते, तद्-उपायत्वेन वैराग्यं च । तद्-आश्रयं भक्त्य्-आश्रयम् ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-अर्थम् एव ज्ञान-विज्ञान-भक्ति-योगाः यथोत्तरोत्कर्ष-सोपानवत् क्रमेण समाख्यातास् तद्-आश्रयं तद्-उपयोगि-वैराग्यं चेति पद्य-द्वयेन वेद-तात्पर्य-रूपो ब्रह्म-काण्डार्थो दर्शितः । तद् एवं सार्वत्रिकं प्रतिपाद्यम् उक्त्वा क्रमोक्तम् आह—पारीक्षितम् इति ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भक्ति-योगः साधन-रूपः साध्य-रूपश् च सम्य-गुण-क्रमोपसंहाराभ्यासैर् आख्यातः । तद्-आश्रयं तद्-उत्थम् । अथ प्रथम-स्कन्धत एव प्राकरणिकानर्थान् अनुक्राम्यति । पारीक्षितम् इति अत्रानुक्रमणिकाध्याये यत् प्रसिद्धम् अपि किञ्चित् किञ्चिद् उपाख्यानम् उल्लङ्घितम् । नात्रानिष्टम् आशङ्कनीयम् अनुक्रमणिका हि नोक्त-समस्तार्थ-व्यापिनी भवेत्, यत् प्रथमत एव जन्म-गुह्याध्याय-कथा अतिप्रसिद्धाप्य् उल्लङ्घिता । एवं द्रौणि-दण्ड-भीष्म-निर्याणादि-कथा चित्रकेतु-त्रिपुर-वधादि-कथा अम्बरीषादि-कथा अघासुर-वध-ब्रह्म-मोहनादि-कथा बहुश एवोल्लङ्घिता । क्वचिद् व्युत्क्रमेणाप्य् उक्त इति ॥५-७॥
॥।
॥ १२.१२.६ ॥
प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः ।
शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्म-र्षभस्य ब्राह्मणोत्तमस्य । इति प्रथम-स्कन्धार्थः ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विप्रशापाच्छृङ्गिशापात् । ब्रह्मसु ब्राह्मणेषु ऋषिषु उत्तमो ब्रह्मर्षिस्तस्य— वेदास्ये बृहति विप्रे ब्रह्म वेदे परात्मनि । तपोयज्ञप्रधानेषु इति कोशात् । ऋषिः श्रेष्ठे च सर्वज्ञे ब्राह्मणे च मनौ तथा इति ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.७ ॥
योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः ।
अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उत्क्रान्तिर् अर्चिर् आदि-गतिः । प्राधणिकः प्रधान-कार्य-विराड्-रूपः सर्गः । अग्रत आदितो महद्-आदि-क्रमेणेत्य् अर्थः । इति द्वितीयार्थः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.८ ॥
विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः ।
पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **महा-पुरुषस्य संस्थितिः प्रलये तूष्णीम् अवस्थानम् ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अचिरादिगतिः तेऽर्चिरभिसम्भवन्ति इति श्रुत्युक्तगतिः ॥७-८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-पुरुषे पद्मनाभे संस्थितिः प्रलये ब्रह्मणस् तद्-उदरे शयनम् ॥८॥
॥।
॥ १२.१२.९ ॥
ततः प्राकृतिकः सर्गः सप्त-वैकृतिकाश् च ये ।
ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्राकृतिकः प्रकृति-भवो गुण-क्षोभ-रूपः । वैकृतिका महद्-आदयश् च-काराद् विकाराश् च ये तेषां सर्गः ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतो यत्र ब्रह्माण्डे वैराजो विराडन्तर्यामी पुरुषोऽस्तीति ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१० ॥
कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः ।
भुव उद्धरणेऽम्भोधेर् हिरण्याक्ष-वधो यथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **गतिः स्वरूपम् । उद्धरणे उद्धारणे ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उद्धारणे निमित्ते यथा हिरण्याक्षवधः कृतस् तथोक्त इत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुव उद्धरणम् अम्भोधेः सकाशात् म-कार-लोपश् छान्दसः ॥१०॥
॥।
॥ १२.१२.११ ॥
ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च ।
अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अर्धाभ्यां नारी च नरश् च तस्य सर्गः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ऊर्ध्वसर्गो देवसर्गः, तिर्यक्सर्गः पश्वादिसर्गः, अवाक्सर्गोऽधःसर्गाऽसुरादिलक्षणः । यद् वा, ऊर्ध्वसर्ग ऊर्ध्वसञ्चारसर्गः वृक्षादिसर्गः । तिर्यक्सर्गोऽष्टाविंशतिधा । अवाक्सर्गः नृसर्गः अवाक्स्रोतास् तु नवमः क्षत्तरेकविधो नृणाम् इत्य्-उक्तेः । नारीनरयोः समाहारद्वन्द्वे तस्य तृतोयाद्विवचनान्तार्द्धशब्देन पुनस्समासः । तथा हि—अर्द्धाभ्यां नारीनरं यस्य तस्य ब्रह्मणः सकाशादथ सर्गोऽभूत् । यतो यत्र सर्गे स्वायंभुवो मनुः शतरूपा चाभूत् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१२ ॥
शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा ।
सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सन्तानो धर्म-पत्नीनाम् इति नव-ब्रह्म-समुत्पत्तिर् इत्य् अस्यानन्तरं द्रष्टव्यम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१३ ॥
अवतारो भगवतः कपिलस्य महात्मनः ।
देवहूत्याश् च संवादः कपिलेन च धी-मता ॥
श्रीधरः, जीव-गोस्वामी (कृष्ण-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्धाभ्यां नारी च नरश् च तस्य ॥१३॥
॥।
॥ १२.१२.१४ ॥
नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् ।
ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इति तृतीयार्थः । चतुर्थ-स्कन्धार्थम् आह—नव-ब्रह्मणां मरीच्य्-आदीनां समुत्पत्तिः सन्तानः ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **या स्त्रीणामाद्या प्रकृतिर्मूलकारणं, तत एव स्त्रीसर्गप्रवृत्तेः। धर्मपत्नीनां कीर्त्यादीनाम्, कर्दमस्य च यथा सन्तानस् तथा वर्णितः ॥१२-१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। **
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नव-ब्रह्मभ्यः मरीच्य्-आदिभ्यः समुत्पत्तिः सुद्युम्नस्येत्य् अत्र उपाख्यानम् इति शेषः ॥१४॥
॥।
॥ १२.१२.१५ ॥
नारदस्य च संवादस् ततः प्रैयव्रतं द्विजाः ।
नाभेस् ततोऽनुचरितम् ऋषभस्य भरतस्य च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पञ्चम-स्कन्धार्थम् आह—ततः प्रैयव्रतं प्रियव्रतस्य चरितम् ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे द्विज इति—द्विजत्वात्कथितम् अपि पुनः स्मारयामीति भावः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१६ ॥
द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् ।
ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **द्वीपाद्य्-उपवर्णनं प्रथमं सङ्क्षेपतस् ततो द्वीपादीनां ये गिरयो नद्यश् च तेषाम् उपवर्णनम् । पातालानां नरकाणां च संस्थितिः । अनेनैव नरक-निवर्तकम् अजामिलोपाख्यानं गृहीतं ततः पराचीनम् ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनेन नरकस्थितिवर्णनप्रसङ्गेन ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१७ ॥
दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः ।
यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **षष्ठार्थम् आह—दक्ष-जन्मेति ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्पुत्रीणां दक्षपुत्रीणाम् । यतो यत्र सन्तन्यां देवादयो जाताः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१८ ॥
त्वाष्ट्रस्य जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः ।
दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सप्तमार्थम् आह—पुत्रयोश् चेति ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त्वाष्ट्रस्य वृत्रस्य । दितेः पुत्रयोः । संबुद्धिस् तु पूर्ववत् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.१९ ॥
मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।
मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अष्टमार्थम् आह—मन्वन्तरानुकथनम् इति । क्वचित् कस्याचिद् अनुक्तिर् व्युत्क्रमोक्तिश् च भक्ति-रसाकुलत्वेनेति द्रष्टव्यम् ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिनाजितादिग्रहः । अत्रावतारक्रमो न विवक्षितो वर्णितचरितकथने तात्पर्यात् । अत एव स्वामिचरणैर् अप्य् उक्तम्—क्वचित्कस्यचिदनुक्तिरित्य्-आदि । भक्ति समग्नत्वाच्छ्रीसूतस्य यथाक्रमकथनविस्मृतिरभूद् इति भावः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.२० ॥
कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः ।
क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम् ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दिवौकसाममृतार्थेऽमृतनिमित्तं तद्वत्कथितमित्य् अर्थः ॥२०॥
॥।
॥ १२.१२.२१ ॥
देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् ।
इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नवमार्थम् आह—राज-वंशेति ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सुद्यम्नस्य वंशश् च कीर्तितः । अत्र तद् इति पदं भिन्नं ज्ञेयं षष्ठ्यर्थे, वंश इत्युभयत्रान्वेति । मह उत्सवस्तं करोतीति महकरस्तादृश आत्मा देहो यस्य स महात्मा, तस्मिन्पूर्वं पुत्रीरूपेण जाते मनोर्महो न जाताः, पुनर्गुरुकृपया तस्याः पुरुषत्वे सत्यतीवोत्सवोऽभूदित्यत उक्तं—महात्मन इति । अत्र मध्यमपदलोपी समासो ज्ञेयः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.२२-२४ ॥
इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च ।
सूर्य-वंशानुकथनं शशादाद्या नृगादयः ॥
सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।
खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥
रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।
निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्रैव सुद्युम्नप्रकृते । सर्वं वाक्यं सावधारणम् इति न्यायेनैवकारोऽत्र बोध्यः । आदिना यैः कव्यादिभी राज्यं न गृहीतं तेऽपि कथिता इति कविः कनीयान्विषयेषु निःस्पृहो विसृज्य राज्यम् इत्य्-उक्तेः ॥ सुकन्याया इदं सौकन्यं, चरितम् इति शेषः ॥ कोशलाऽयोध्या देशो वा कोशलः ॥२२-२४॥
॥।
॥ १२.१२.२५ ॥
रामस्य भार्गवेन्द्रस्य निःक्षत्री-करणं भुवः ।
ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सोम-वंशादि-भूतस्यैलस्य चरितम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.२६ ॥
दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च ।
ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशोऽनुकीर्तितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-सुतस्य भीष्मस्य ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भार्गवं भृगुवंशमिन्दयति समर्द्धयतीति भार्गवेन्द्रस्तस्य सकाशाद्भुयो निःक्षत्रकरणं यथासीत्तथा वर्णितम् ॥२५-२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.२७ ॥
यत्रावतीर्णो भगवान् कृष्णाख्यो जगद्-ईश्वरः ।
वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्र यदुवंशे । ततो जन्मानन्तरम् ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य वृद्धिश् च गोकुल इति चकाराज् जन्म चेत्य् अर्थः । अन्यथा वृद्धिस् त्व् इत्य् एवोक्तं स्यात् । अस्य स्थापनं—नन्दस् त्व् आत्मज उत्पन्नः [भा।पु। १०.५.१] इत्य् आदौ कृष्ण-सन्दर्भे (१४७-१५३) कृतम् एव ॥२७॥
॥।
॥ १२.१२.२८ ॥
तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः ।
पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दशमार्थम् आह—तस्य कर्माणीति । पूतनाया असु-सहितस्य स्तन्य-पयसः पानम् ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य कृष्णाख्यस्य । शिशोः शिशुरूपात् । शकटस्योच्चाटनं भेदनम् चट—भेदने ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पूतनाया असु-सहितस्य स्तन्य-पयसः पानम् । शिशोः शिशुना निष्पेषः सम्मर्दः ॥२८॥
॥।
॥ १२.१२.२९ ॥
तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः ।
अघासुर-वधो धात्रा वत्स-पालावगूहनम्] ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नष्पेषश्चूर्णनम्, हननम् इति यावत् । तथैव निष्पेषः ॥२९॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोर् इत्य् अन्तम् अघासुर-मोक्षो न लिखित इति केचित् तत्र विस्मयन्ते । तद् असत्, यमलार्जुन-भङ्गस्य पुराणान्तरेष्व् अपि लिखितस्य कथं न लिखनम् अकरोत् ?
शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत ॥ [भा।पु। १०.१३.३]
इति दशमे श्री-शुकोक्तेर् यद् यद् व्याख्यातं, तद् एव बीजम् इदम् इति ॥२९॥
———————————————————————————————————————
न कतमेनान्येन व्याख्यातम्।
॥।
॥ १२.१२.३० ॥
धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः ।
गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सह-भ्रातुः स-सखस्य ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **परिसर्पतः सर्वतः प्रवृत् तस्य ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सह-भ्रातुः ज्ञाति-सहितस्य ॥३०॥
॥ १२.१२.३१ ॥
दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् ।
व्रत-चर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्र व्रतचर्यायाम् । यज्ञगानां पत्न्यो यज्ञपत्न्यः ॥३१॥
॥।
॥ १२.१२.३२-३३ ॥
प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् ।
गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ ॥
यज्ञाभिषेकः कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ।
शङ्खचूडस्य दुर्बुद्धेर् वधोऽरिष्टस्य केशिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शेक्रण कृता पूजा, सुरभ्या कृतोऽभिषेक इति विवेकः ॥ स्त्रीहरणप्रवृत्तेर्दुर्बुद्धित्वम् । अरिष्टो वृषासुरः ॥३२-३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विप्रानुतापनं सूक्ष्मम् अपि । अत्रावधापनार्थाय स्मारितं सुरभि-कर्तृकं च यज्ञाभिषेकम् ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शक्रस्य शक्रेण सुरभेः सुरभ्या यज्ञः पूजनम् अभिषेकश् च तत् ॥३२॥
॥।
॥ १२.१२.३४-३६ ॥
अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः ।
व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः ॥
गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः ।
मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः ॥
मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् ।
कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिना कंसभ्रात्रादिग्रहः ॥ आनयनं, संयमिन्या इति शेषः ॥ हे द्विजा इति संबुद्धिबहुत्वमादरार्थम् । कुशस्थल्या द्वारकाया निवेशनं रचना ॥३४-३६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उद्धव-रामाभ्याम् इत्य् उद्धवस्यापि तादृशत्वं दर्शितम् ॥३६॥
॥।
॥ १२.१२.३७-३९ ॥
जरासन्ध-समानीत- सैन्यस्य बहुशो वधः ।
घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥
आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।
रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥
हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् ।
प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ये च शम्बरादयस् तेषां माहात्म्यं प्रभावो वधश् च ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सुरालयादिन्द्रलोकात् । सुधर्मा देवसभा स्यात्सुधर्मा देवसभा इत्य् अमरः ॥ प्राग्ज्योतिषपतिर्नरकासुरः ॥३७-३८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **चैद्यादीनां माहात्म्यं वधश् च ये च शम्बरादयस् तेषां चेत्य् अन्वयः ॥३९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.१२.४० ॥
चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः ।
शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एकादशार्थम् आह—विप्र-शापेति ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पीठो हि नरकासुरचमूपतिः । पीठं पुरस्कृत्य चमूपति मृधे भौमप्रयुक्ता निरगम् इत्य्-उक्तेः आदिना तत्पुत्रादयः ॥३९-४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.४१ ॥
माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् ।
भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान् ॥
श्रीधरः, जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अपदेशो व्याजः ॥४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **माहात्म्यं चैद्यादीनां पराक्रमः ॥४०॥
॥।
॥ १२.१२.४२ ॥
विप्र-शापापदेशेन संहारः स्व-कुलस्य च ।
उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्म-विनिर्णयो वर्णाश्रम-धर्म-विनिश्चयः । मर्त्य-परित्यागो मनुष्यत्वस्यान्तर्धानम् ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्र भगवद्-उद्धवसंवादे ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मर्त्यस्य मर्त्य-लोकस्य परित्यागः आत्मनो योग-माया-प्रभावत इति लोकैर् दुर्वितर्कता ध्वनिता ॥४२॥
॥।
॥ १२.१२.४३ ॥
यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः ।
ततो मर्त्य-परित्याग आत्म-योगानुभावतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **द्वादशार्थम् आह—युगेति । युग-लक्षणं तद्-अनुरूपा वृत्तिश् चेत्य् अर्थः । त्रि-विध प्राकृतिकी नैमित्तिकी नित्या चेति ॥४३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—यस्मिन् यस्मिन्युगे या या वृत्तिः साप्युक्तेति भावः । उपप्लवो नाशः, धर्मादेर् इति शेषः । प्राकृतिकी प्रकृतिमधिकृत्य प्रवृत्ता महदादिप्रादुर्भावेण सृष्टिलक्षणा । नैमित्तिकी निमित्तं शुभाशुभं कर्म, तदधिकृत्य प्रवृत्तादेरमानुषादिलक्षणा । नित्या हि प्रतिक्षणं शरीरनाशोत्पत्तिस्वीकारेणातीवसूक्ष्मा बाल्यनाशयौवनोत्पत्त्यनुमेयेति ध्येयं सुधीभिः ॥४३॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ततो मर्त्य-परित्यागः मर्त्य-लोक-परित्यागः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.४४ ॥
युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः ।
चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋषेर् व्यासस्य । सूर्यस्य च विन्यास इत्य् अर्थः ॥४४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **धीमतः श्रीशुकप्रसादावाप्तज्ञानस्य । इत्य् अर्थ इति—समासान्तर्गतम् अपि विन्यासपदमत्र विप्र कीर्णजटाच्छन्नं रौरवेणाजिनेन च इतिवत्सम्बध्यते इति भावः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युग-लक्षणं तद्-अनुरूपा वृत्तिश् च । उत्प्लवः धर्म-विप्लवः । त्रिविधा प्राकृती नैमित्तिकी नित्या च ॥४४॥
॥।
॥ १२.१२.४५ ॥
देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः ।
शाखा-प्रणयनम् ऋषेर् मार्कण्डेयस्य सत्-कथा ।
महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इति चोक्तम् इति च-काराद् अन्यद् अपि वो युष्माभिर् इह यत् पृष्टोऽस्मि, तद् उक्तम् इति । किम् एवं नानार्थ-कथनेन ? तत्राह—लीलेति । सर्वशः तत्-तद्-अर्थ-कीर्तन-द्वारेणेत्य् अर्थः ॥४५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—किमेवम् इति । इत्य् अर्थ इति—तेषां तेषां लीलादीनामर्थप्रयोजनं तत्कीर्तनद्वारेणेति भावः । द्विजश्रेष्ठत्वादेतत्सर्वं भवद्भ्यो मयोदीरितम् इति संबुद्ध्यभिप्रायः ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.४६ ॥
इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टोऽहम् इहास्मि वः ।
लीलावतार-कर्माणि कीर्तितानीह सर्वशः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-कीर्तनेनापि किम् ? इत्य् अपेक्षायां तत्-फलम् आह द्वाभ्याम् ॥४६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सर्वाणि पातकानि यस्मिस्तत्सर्वपातकं कर्मजालं तस्मात् ॥४६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इति चोक्तम् इत्य्-आदि । लीलावतार-कर्माणि कीर्तितानीह सर्वश इति ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.४७ ॥
पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् ।
हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पतितः कूपादिषु । स्खलितः सोपानादिषु । आर्तो दुःखितः । क्षुत्त्वा क्षुतं कृत्वा विवशोऽपि ॥४७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्यसनं दुःखम् ॥४७॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सम्यक् कीर्तनस्य फलं यथा कथंचित् कीर्तन-फल-दर्शन-सुखेन व्यतिरेकत आह—पतित इत्य्-आदि । हरये नम इत्य् उच्चैर् मुच्यते, सर्व-पातकात् विमुक्तो भवति । कूपादौ पतितादीनां विवशत्वेनोच्चैः कीर्तनाभावेऽपि उच्चैर् मुच्यते ॥४७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पतित इति कैमुत्यार्थम् उक्तिः ॥४७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावत् कथा कीर्तनस्य फलं ब्रूहीति चेत्, तत्र कैमुत्येनाह—पतित उच्चप्रदेशाद् अधः प्राप्तः, स्खलितः समान-प्रदेशेऽप्य् अयथा पाद-विन्यासात् प्राप्त-व्यथः । क्षुत्त्वा क्षुतं कृत्वा उच्चैर् अतिघोर-पापाद् अपि ॥४७॥
॥।
॥ १२.१२.४८ ॥
सङ्कीर्त्यमानो भगवान् अनन्तः
श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्य् अशेषं
यथा तमोऽर्कोऽभ्रम् इवातिवातः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कीर्त्यमानो यद् वा श्रुतोऽनुभावो यस्य स पुंसां चित्तं प्रविश्य निःशेषं दुःखं विधुनोति । हीति सताम् अनुभवं प्रमाणयति । अर्को गिरि-गुहादि-ध्वान्तं न धुनोतीत्य् अपरितोषाद् दृष्टान्तान्तरम् आह—अतिवातोऽभ्रम् इव इति ॥४८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : व्यसनं दुःखम् ॥४८॥
———————————————————————————————————————
कैवल्य-दीपिका : सङ्कीर्त्यमान इति । अनुभावो महिमा । व्यसनं मलम् । तच् चेद् द्वेधा मायिकं कार्यं च । तत्रोभयोर् अपि निर्वर्त्य विवक्षया क्रमात् तयो भ्रमयो रूपादानम् ॥४८॥ [मु।फ। ८.३४]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यथा कथंचित् कीर्तित एव सर्व-पातकं नाशयति, किं पुनः सम्यक् कीर्तितः ? इत्य् आह—सङ्कीर्त्यमान इति । हि निश्चितं । व्यसनं पापादि-कृतं दुःखं विधुनोति विशेषेण दूरीकरोति, व्यसन-नाशानन्तरं चित्तं च निर्मलं करोतीति सूर्य-दृष्टान्तः । सम्यङ् निरसने अतिवात-दृष्टान्तः । अतिवातः व्यात्या ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चित्तं प्रविश्य व्यसनं धुनोति । अर्कस् तम इव । स च गुहागतं तमो न धुनोतीत्य् अपरितोषाद् आह अतिवातोऽभ्रम् इव ॥४८॥
॥।
॥ १२.१२.४९ ॥
मृषा गिरस् ता ह्य् असतीर् असत्-कथा
न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उ हैव मङ्गलं
तद् एव पुण्यं भगवद्-गुणोदयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हरि-सङ्कीर्तनम् एव महा-फलं तद्-व्यतिरिक्तं सर्वं मिथ्यालाप-मात्रम् इति प्रपञ्चयति—मृषा-गिर इति चतुर्भिः । मृषा-गिरो मिथ्या-वाचः । असतीर् असत्यः । असतां कथा यासु ताः । यद् यासु उत्तम-श्लोकस्य यशोऽनुगीयत इति यत् तद् एव सत्यं तद् एव हि मङ्गलम् । उ ह इति हर्षे । भगवद्-गुणानाम् अभ्युदयो यस्मात् तत् ॥४९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अस्य शास्त्रस्य कृष्ण-कीर्तन एव तात्पीत्तद् अन्य-कीर्तनम् अविगीतम् अपि न कुर्यात्, तत् कीर्तनं यत् पशुभिर् विगीतत्वेनोक्तं तद् अपि कुर्याद् इत्य् आह—मृषा इति । ताः सत्या अपि गिरो मिथ्या एव, प्रिया अपि गिरोऽसतीर् असत्याः कटूक्तय एव, तथा सतां विदुषाम् अपि कथा असत्-कथा एव । कुतः ? यद् यतो भगवान् न कथ्यत इति । अतः स सत्य-वादी अपि मिथ्या-वादी, प्रियं-वदोऽपि कटु-वादी, सत्-कथकोऽप्य् असत्-कथक उच्यत इति भावः । स्व-कल्पितत्वाद् असत्यम् अपि भगवद्-यशश् चेत् तद् एव सत्यं संसृति-ध्वंसकत्वात्, अमङ्गलम् अपि तद् एव मङ्गलं नान्यत्, भगवतः पर-दार-रमणादिकम् अधमैर् अपुण्यत्वेनोक्तम् अपि तद् एव पुण्यं, यतो भगवतो गुणस्यैव न तु दोषस्योदयो यस्मात् तत् ॥४९॥
———————————————————————————————————————
कैवल्य-दीपिका : मृषा इति । मृषा असत्याः । वाच्यस्य मिथ्या-भूतत्वात् । असतीः अमङ्गलाः । असत्-कथा अपुण्य-रूपाः यद् याभिः । उ अहो । ह प्रसिद्धम् । भगवतां श्रीमतां गुणानाम् उदयो यस्मात् तत् तथा । कास् तर्हि समीक्ष्याह—तद् एव इति ॥४९॥ [मु।फ। ८.३५]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सङ्कीर्तनं विना सर्वम् एव वचनं वेदादि-पाठो मृषेत्य् आह—मृषा गिरस् त इत्य्-आदि । ता गिरो मृषा यद् यासु याभिर् वा अधोक्षजो भगवान् श्री-कृष्णो न कथ्यते । असत्-कथाश् च असतीः असत्य एव असती स्त्री यथा नाशयति, तथापि, अतस् तद् एव सत्यम् इत्य्-आदि । तद् एव सत्यं तद् एव मङ्गलं स्व-सुख-जननं पुण्यं पुण्य-जनकम्, न दानादि ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अस्य शास्त्रस्य कृष्ण-कीर्तन एव तात्पर्यात्, तद् अन्य-कीर्तनम् अविगीतम् अपि न कुर्यात् । तत् कीर्तनं यत् पशुभिर् विगीतत्वेनोक्तं तद् अपि कुर्याद् इत्य् आह—मृषेति । ताः सत्या अपि गिरो मिथ्या एव । प्रिया अपि गिरोऽसतीर् असत्यः कटूक्तय एव । तथा सतां विदुषाम् अपि कथा असत्-कथा एव । कुतः ? यद् यतो भगवान् न कथ्यते इति । अतः स सत्यवाद्य् अपि मिथ्या-वादी प्रियंवदोऽपि कटु-भाषी सत्-कथकोऽप्य् असत्-कथक उच्यते इति भावः । स्वकल्पितत्वाद् असत्यम् अपि भगवद्-यशश् चेत् तद् एव सत्यं गृहाश्रम-विध्वंसकत्वात् अमङ्गलम् अपि तद् एव मङ्गलं नान्यत् भगवतः पर-दार-हरणादिकम् अपुण्यत्वेनाधमैर् उक्तम् अपि तद् एव पुण्यम् । यतो भगवतो गुणस्यैव न तु दोषस्योदयो यस्मात् तत् ॥४९॥
॥।
॥ १२.१२.५० ॥
तद् एव रम्यं रुचिरं नवं नवं
तद् एव शश्वन् मनसो महोत्सवम् ।
तद् एव शोकार्णव-शोषणं नृणां
यद् उत्तमःश्लोक-यशोऽनुगीयते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नवं नवं यथा भवति, तथा रुचिरं रुचि-प्रदम् । महान् उत्सवो यस्मात् ॥५०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अरम्यम् अपि प्रसेन-मार्गानुगमन-भल्लुक-बिल-प्रवेशादि, रम्यम् एव । रुचिरम् इति—भक्तानाम् अरोचकम् अपि श्री-जानकी-त्यागादि रुचिरम् एवेति । पुरातनम् अपि भगवच्-चरितं नवं नवम् एव । मारीचानुगमनोत्तरं श्री-जानकी-हरणं रावण-कृतं मनसो महोत्सव-नाशकम् अपि महोत्सव-करम् एव । पति-पुत्रादि-वैराग्योत्पादकत्वेन शोकार्णवम् अपि तच्-छोकार्णव-तारकम् एव ॥५०॥
———————————————————————————————————————
कैवल्य-दीपिका : तद् एव इति । रुचिरं प्रीति-वर्धनम् । तद् एव रम्यम् आयती सुन्दरम् । अतो नवं नवं शश्वत् आपद्य् अनापदि च । शोक-शोषकं महोत्सवं च यस्मिन् ॥५०॥ [मु।फ। ८.३६]
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **तद् एव रुचिरं रुचि-प्रदं, तद् विना नान्यत्र क्वापि तादृशी रुचिर् भवतीत्य् अर्थः । तद् एव नवं नवम् अयात-यामं, तद् एव मनसो महोत्सवं, तद् एव शश्वत् शाश्वतम्, शाश्वतो महोत्सव इति वा । क्लीबत्वम् आर्षम् । अथवा, तद् एव महस्य उत्सं प्रस्रवणं वयते इति महोत्सवस् तद्-आकुलितम् एव भवति, तद् एव शोकार्णव-शोषणम् ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अरम्यम् अपि प्रसेन-मार्गानुगमन-भल्लुक-बिल-प्रवेशादिकं यत् तत् रम्यम् एव । रुचिरम् इति भक्तानाम् अरोचकम् अपि श्री-जानकी-त्यागादिकं रुचिरम् एव । पुरातनम् अपि भगवच्-चरित्रं नवं नवम् एव । मारीचानुगमनानन्तर-रावण-कृत-सीता-हरणादिकं मनसो महोत्सव-नाशकम् अपि महोत्सव-करम् एव । पति-पुत्रादि-वैराग्योत्पादकत्वेन शोकार्णवम् अपि तत् शोकार्णव-शोषणम् एव ॥५०॥
॥।
॥ १२.१२.५१ ॥
न यद् वचश् चित्र-पदं हरेर् यशो
जगत् पवित्रं प्रगृणीत कर्हिचित् ।
तद् ध्वाङ्क्ष-तीर्थं न तु हंस-सेवितं
यत्राच्युतस् तत्र हि साधवोऽमलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्राणि पदानि यस्मिन्, तद् अपि जगत् पवित्रयतीति तथा तद् धरेर् यशो न प्रगृणीत न वर्णयेत् तद् वचो ध्वाङ्क्ष-तीर्थं काक-तुल्य-नराणं रति-स्थानं न तु हंसैर् ज्ञानिभिः सेवितम् । तत्र हेतुः—यत्रेति ॥५१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र हंसासेवने । पद्यानीमानि व्याख्यातचराण्येव । न यद्वच इत्य्-आदि पद्यत्रयं भक्तेरुत्कर्षाख्यापनार्थम् एव महा-पुराणस्यास्य प्रथमेऽपि शेषेऽपि स्थापितम् । यथा महामन्त्रः कश्चिदाद्यन्तवर्तिना बीजद्वयेन त्रयेण च पुटितः स्यात् ॥५०-५१॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : व्यतिरेकम् आह—न तद् इत्य्-आदि । तत् तस्मात् चित्रपदम् अपि चित्रैर् अद्भुतैः पदैर् ग्रथितम् अपि वचो हरेर् यशो न गृणीते यदि, तदा तद्-वचो ध्वाङ्क्ष-तीर्थं काक-तीर्थम् उच्छिष्ट-पत्रादि-निक्षेप-स्थानम् । तत्र यथा काका रमन्ते, तथा तत्-तुल्याः कामिन एव तत्र रमन्ते । जगत् पवित्रं यशो-विशेषणं जगति पवित्रम् अपि शुद्धम् अपि, तद्-वचः इति वचो-विशेषणम् ॥५१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **न यद् इति । यत्राच्युतो गीयत इति शेषः ॥५१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न यद् वच इति श्लोक-त्रयं भक्तेर् एव सर्वोत्कर्ष-ख्यापकम् । महा-पुराणस्यास्य प्रथमेऽपि शेषेऽपि स्थापितम् । यथा महा-मन्त्रः कश्चिद् आद्य्-अन्तर्-वर्तिना बीज-द्वयेन त्रयेण पुटितः स्याद् इति ॥५२॥
॥।
॥ १२.१२.५२ ॥
स1** वाग्-विसर्गो जनताघ-सम्प्लवो**
यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।
नामान्य् अनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स वाग्-विसर्गः स एव वाचः प्रयोगो जनताघ-सम्प्लवो जन-समूहाघ-नाशकः। यद् यस्मात् । तान्य् एवान्यैः कीर्त्यमानानि शृण्वन्ति, श्रोतरि सति गायन्ति, नो चेत् स्वयम् एव गृणन्ति ॥५२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—श्रेयःस्रुति भक्तिमुदस्य इत्य्-आद्य्-उक्तेर् अयं भावः ॥५२॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् वाग्-विसर्ग इत्य्-आदि । तद् इत्य् अव्ययम्, स इत्य् अर्थः । स एव वाग्-विसर्गो जनताघ-विप्लवः, यस्मिन् अबद्धवत्य् अपि अपशब्दादि-युक्तोऽपि ग्राम्य-भाषा-मयेऽपीति यावत् । अनन्तस्य नामानि कीदृशानि ? यशोऽङ्कितानि गोवर्धनोद्धरण-कालीय-मर्दन-केशि-नाशादीनि । यद् यस्मात् शृण्वन्ति गायन्ति गृणन्ति प्रति श्लोकं श्लोकं प्रति प्रतिपाद्यम् इत्य् अर्थः । अथवा, प्रति-श्लोकं प्रति-यशः, नैकम् एव यशो गेयम् ॥५२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-वाग्-विसर्ग इति प्रथमे [१.५.११] व्याख्यातम् एव । उत्तम-गायके सति शृण्वन्ति, स्वस्य तु तादृशत्वे गायन्ति । तद् उभयाभावे गृणन्ति । गीर्-मात्रेणाभ्यस्यन्ति चेत्य् अर्थः ॥ [पुनरुक्तिर् आदरात् ।] ॥५२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.५३ ॥
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं ज्ञान-कर्मादराद् अपि भगवत्-कीर्तनादिष्व् एवादरः कर्तव्य इत्य् आह—नैष्कर्म्यं ब्रह्म, तत्-प्रकाशकं यज् ज्ञानं, यतो निरञ्जनम् उपाधि-निवर्तकं, तद् अपि अच्युत-भक्ति-वर्जितं चेन् न शोभते नापरोक्ष-पर्यन्तं भवतीत्य् अर्थः ॥५३॥ ** **
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु वर्णाश्रमाचारादिना निःश्रेयसं स्यादेव वर्णाश्रमाचारयुतो गृहस्थोपि विमुच्यते इति स्मृतेरतोऽच्युतभावेन किमित्यत आह—किञ्चेति । इत्य् अर्थ इति—कीर्तिसम्पत्त्योः सत्योर् अपि हरिस्मृतिं विनात्यन्तिकश्रेयो न सिद्ध्यतीति भावः । सापि कथं स्यात्तत्राह—हरेर्गुणानुवादेति । आदिना स्मरणादिग्रहः । वर्णाश्रमधर्मादिषु यः परमो महान्परिश्रमः स यशोयुक्तायां श्रियाम् एव पर्याप्तः प्रायो भवेन्न भगवद्-भक्तिसाधकः, हरेर्गुणानुवादश्रवणादिभिस् तु यः परिश्रमः स तु न विस्मृतिः श्रीधरपादपद्मयोर्यस्मात्तादृश इत्य् अर्थः ॥५३॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **किं बहुना, हरि-कीर्तनादि विना कैवल्य-प्रदम् अपि ज्ञानं न किञ्चिद् इत्य् आह—नैष्कर्म्यम् अपीत्य्-आदि । अलम् अत्यर्थं निरञ्जनम् उपाधि-निवर्तकम् अपि ज्ञानं न शोभते । ज्ञानम् अप्य् एवम्, किम् उत कर्मेत्य् आह—कुतः पुनर् इत्य्-आदि । **अनुत्तमम् अपि शश्वत् अभद्रम् ईश्वरेऽनर्पितं **सत् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _[भक्ति-सन्दर्भः ८७, प्रीति-सन्दर्भ १]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुत्तमं श्रेष्ठं निष्काम-कर्म ॥५३॥
॥।
॥ १२.१२.५४ ॥
यशः-श्रियाम् एव परिश्रमः परो
वर्णाश्रमाचार-तपः-श्रुतादिषु ।
अविस्मृतिः श्रीधर-पाद-पद्मयोर्
गुणानुवाद-श्रवणादरादिभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, वर्णश्रमाचारादिषु यः परो महान् परिश्रमः, स यशो-युक्तायां श्रियाम् एव । कीर्तिः संपत्तिश् च केवलं परः पुरुषार्थ इत्य् अर्थः । गुणानुवादादिभिस् तु श्रीधर-पाद-पद्मयोर् अविस्मृतिर् भवति ॥५४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः कृष्ण-पदारविन्दास्मृतेः । सत्त्वस्यान्तः-करणस्य सत्त्वं द्रव्ये गुणे जीवे धैर्यान्तःकरणे तथा इति निरुक्तिः । ज्ञानम् अनुभवः । ज्ञानं परोक्षम् ॥५४॥
———————————————————————————————————————
कैवल्य-दीपिका : यश इति । यशसां श्रीणाम् च सम्बन्धिषु यशो-निमित्तेषु श्री-निमित्तेषु आचारादिषु यः परः केवलः परिश्रमः क्लेश एव, न तु फलम् । यद् भगवत्-पादयोर् अविस्मृतिः । सा च गुणानुवादादिभिः ॥५४॥ [मु।फ। ९.३]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नैष्कर्म्यस्यापि विपूर्वत्वम् अनूद्य वर्णाश्रमाचारादि निष्पूर्वत्वम् आह—यशः-श्रियाम् इत्य्-आदि । वर्णाश्रम-तपः-शास्त्रादिषु केवलं परिश्रमः, परः परिशिष्टः, निष्पूर्वत्वात् । स केवलं यशः-श्रियां यशः-सम्पत्ताव् एव, श्रीधर-पादयोर् विस्मृतिर् एव तेषु । तर्हि सा कथं भवतीत्य् आह—अविस्मृतिर् इत्य्-आदि । हरेर् गुणानुवाद-चरणारविन्दादिभिः श्रीधरे श्री-युक्ते ये पाद-पद्मे तयोर् अविस्मृतिर् भवति । ध्रियते इति धराह्, श्रिया धरः श्रीधर इति पाद-पद्मस्यैव वा विशेषणम् ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _[भक्ति-सन्दर्भः ८८]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वर्णाश्रमादिषु यः परो महान् परिश्रमः, स यशो-युक्तायां श्रियाम् एव पर्याप्तः प्रायो भवेत् । यशः-संपत्ति-साधक एव, न तु भगवत्-प्राप्ति-साधक इत्य् अर्थः । हरेर् गुणानुवाद-शास्त्रादिभिस् तु यः परिश्रमः, स तु श्रीधर-पाद-पद्मयोर् अविस्मृतिर्, न भवति विस्मृतिर् यस्मात् सः ॥५४॥
॥।
॥ १२.१२.५५ ॥
अविस्मृतिः कृष्ण-पदारविन्दयोः
क्षिणोत्य् अभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्म-भक्तिं
ज्ञानं च विज्ञान-विराग-युक्तम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततः किम् अत आह—अविस्मृतिर् इति । क्षिणोति नाशयति ॥५५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हरिभजनम् एव द्विजाग्र्यापादकमित्यभिप्रेत्याह—द्विजाग्र्या इति । अत एव सर्वान्तर्यामित्वादेव । अदेवत्वे हेतुः—ईशम् इति । विध्यर्थेऽपि लोटो विधानादाह—यद्वेति । अवश्यभावाः इति पाठे तु न वश्यस्ततो निवर्तयितुमशक्यो भाव आत्मा बुद्धिर् इति यावत्, येषां त इत्य् अर्थः ॥५५॥
———————————————————————————————————————
**कैवल्य-दीपिका : **ननु किम् अविस्मृत्या इति तत्राह—अविस्मृतिर् इति । क्षिणोति हिनस्ति । अभद्राणि दुर्वासनाः । शं सुखम् । सत्त्व-शुद्धिं नीरुजकता । ततो भगवति प्रेम । ततोऽन्यत्र विरागः । ततः परोक्ष-बोधः । ततः साक्षात्कार इत्य् अर्थः ॥५५॥ [मु।फ। ९.४]
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अविस्मृतिश् चेद् भवति, तदा किं स्याद् इत्य् आह—अविस्मृतिः कृष्ण-पादारविन्दयोर् इत्य्-आदि । अभद्राणि क्षिणोति । एतावन्-मात्रम् एव नेत्य् आह—शमं च तनोति । तेन किम् ? इत्य् आह—सत्त्वस्य शुद्धिं सत्त्व-गुणस्य शुद्धिम् । ततः किम् ? विज्ञान-विराग-युक्तं ज्ञानं च । ततः किम् ? तत्राह—परमां प्रेम-लक्षणां भक्तिम् इत्य् उपसंहारः ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : _न व्याख्यातम्। _[भक्ति-सन्दर्भः ८९]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किम् ? अत आह—अविस्मृतिर् इति । शमं बुद्धेर् भगवन्-निष्ठां शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इति भगवद्-उक्तेः ॥५५॥
॥।
॥ १२.१२.५६ ॥
यूयं द्विजाग्र्या बत भूरि-भागा
यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् ।
नारायणं देवम् अदेवम् ईशम्
अजस्र-भावा भजताविवेश्य ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथेदानीं श्रोतॄनात्मानं चाभिनन्दन्न् आह—यूयम् इति द्वाभ्याम् । हे द्विजाग्र्याः, यद् यस्माद् आत्मन्य् अन्तः-करणे श्री-नारायणम् आविवेश्य शश्वद् भजत । संभावनायां लोट् । अतो भूरि-भागा बहु-पुण्याः । कथं-भूतम् ? अखिलात्म-भूतं सर्वान्तर्यामिणम्, अत एव देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुतः ? ईशम् । यद् वा, यस्माद् यूयं भूरि-भागास् तप-आदि-संपन्नास् ततो नारायणं भजतेति विधिः ॥५६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आत्मनस्तत्त्वं स्वरूपम् ॥५६॥
———————————————————————————————————————
कैवल्य-दीपिका : विद्या वैराजोपासना2 । प्राण-निरोधः प्राणायामः । जप्यं प्रणवादि नान्यत् ॥५६॥
———————————————————————————————————————
**जीव-गोस्वामी (भक्ति-सन्दर्भः ९०) **: अत्र तप-आदि-सम्पत्तेः सार्थकत्वं नारायण-भजनेनैव भवतीति स्वाम्य्-अभिप्रायः ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदेवं न विद्यते देवो यस्य यस्माद् इति वा । भजतेति संभावनायां लोट् ॥५६॥
॥।
॥ १२.१२.५७ ॥
अहं च संस्मारित आत्म-तत्त्वं
श्रुतं पुरा मे परमर्षि-वक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः
सदस्य् ऋषीणां महतां च शृण्वताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मे मया श्रुतम् ॥५७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे विप्रा इति—यूयं तु विप्रा मत्तोऽप्यधिकतरं जानीथेति भावः। सर्वेषामशुभानां दुष्कर्मफलानां विनाशनं येन तत्तथा न वासुदेवभक्तानामशुभं विद्यते क्वचित् इत्य्-उक्तेः ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
जीव-गोस्वामी (भक्ति-सन्दर्भः ९१) : एतत्-प्रसङ्गेनाहं चात्म-तत्त्वम् अखिलात्म-भूतं नारायणं स्मारितः । तं प्रति3 परमोत्कण्ठितीकृतोऽस्मीत्य् अर्थः । यद् आत्म-तत्त्वं मे मया महर्षि-वक्त्राच् छ्रुतम् ॥५७॥
॥ १२.१२.५८ ॥
एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः ।
माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवम् इत्य् आत्मानम् एव पुनातीति किं वक्तव्यम् ? काक्वा सर्वम् एव पुनातीत्य् अर्थः । एतत्-पुराण-कीर्तनादि-फलं प्रपञ्चयितुम् आह—एतद् इत्य् अष्टभिः ॥५८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतच्छ्रीमद्भागवतरूपं वासुदेवमाहात्म्यम् । यामश् च क्षणश्चानयोः समाहारो यामक्षणम् । कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । बह्ववकाशे याममात्रं शृणुयादल्पावकाशे तु क्षणमात्रं च शृणुयात् । एतेनास्यावश्यश्रोतव्यता ध्वनियाऽन्यथा कालद्वयविधानानुपपत्तेः। अत एवाम्बरीष प्रति श्रीगौतमेनोक्तम्—अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु । पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम् । इति । अनन्यधीः स्थिरचित्तः । आत्मपावनं जीवभावपरित्यागपूर्वकं ब्रह्मभावेन स्थितिः, अज्ञानमलनिवृत्त्यै तत्संगच्छत एवेति ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.५९ ॥
य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः ।
श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा ।
श्रद्धावान् योऽनुशृणुयात् पुनात्य् आत्मानम् एव सः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **याम-क्षणं यामं क्षणं चेत्य् अर्थः । आत्मानम् एव साक्षात् पुनाति, न तु स्नानादि-वद् देह-मात्रम् ॥५९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सर्वदा श्रवणानवकाशे तु द्वादश्यामवश्यं शृणुयात्, व्रतवैगुण्यापनुत्तये त्वेकादश्यामप्यवश्यं शृणुयादेवेति वा शब्द एवार्थे । आयुर्वर्द्धतेऽनेनेत्यायुष्यो धर्मः धर्मेण वर्द्धते चायुः इत्य् उक्तेस् तद्वान्भवति सर्वधर्मफलभाग्भवतीति भावः । अकालमृत्युहीनो वा भवेद् इत्य् अर्थः । ग्रहाद्यरिष्टजन्यायुर्नाशो न भवतीति भावः। प्रयतः पूतः उपवासं कुर्वन्यः पठति स ततः सोपवासपाठात् अपातकी महापातकोपपातकादिभ्यो हीनो भवतीत्य् अर्थः । महापातकान्याह मनुः—
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्याहुः संयोगं चैव तैः सह ॥
उपपातकानि तु याज्ञवल्क्यः—
गोवधो व्रात्यता स्तेयम् ऋणानां चानपक्रिया ।
अनाहिताग्नि-तापण्य-विक्रयः परिवेदनम् ॥१॥
भृताद् अध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवण-क्रिया ॥२॥
स्त्री-शूद्र-विट्-क्षत्र-वधो निदितार्थोपजीवनम् ।
नास्तिक्यं व्रत-लोपश् च सुतानां चैव विक्रयः ॥३॥
धान्य-कुप्य-पशु-स्तेयम् अयाज्यानां च याजनम् ।
पितृ-मातृ-सुत-त्यागस् तडाग-राम-विक्रयः ॥४॥
कन्या-सन्दूषणं चैव परिविन्दक-याजनम् ।
कन्या-प्रदानं तस्यैव कौटिल्यं व्रत-लोपनम् ॥५॥
आत्मनोऽर्थे क्रियारम्भो मद्यप-स्त्री-निषेवणम् ।
स्वाध्यायाग्नि-सुत-त्यागो बान्धव-त्याग एव च ॥६॥
इन्धनार्थण दुमच्छेदः स्त्री-हिंसौषधि-जीवनम् ।
हिंस्र-यन्त्र-विधानं च व्यसनान्य् आत्म-विक्रयः ॥७॥
शूद्र-प्रेष्यं हीन-सख्यं हीन-योनि-निषेवणम् ।
तथैवानाश्रमे वासः परान्न-परिपुष्टता ॥८॥
असच्-छास्त्राधिगमनम् आकरेष्व् अधिकारिता ।
भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥९॥ इति ।
अथैषाम् अर्थः—गो-वधो गो-पिण्ड-व्यापादनम्, कालेऽनुपनीतत्वं व्रात्यता, ब्राह्मण-सुवर्ण-तत्-सम-व्यतिरिक्त-पर-द्रव्यापहरणं स्तेयम्, गृहीतस्य सुवर्णादेर् अप्रदानम् ऋणानाम् अपाकरणं, तथा देवर्षि-पितृ-सम्बध्यणस्यापाकरणं च, सत्य् अधिकारेऽनाहिताग्नित्वम्, तथापण्यस्य लवणादेर् विक्रयः, सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर् दाराग्नि-संयोगः परिवेदनम् ॥१॥
पण-पूर्वम् अध्यापकाध्ययन-ग्रहणम्, पण-पूर्वाध्यापनम्, पर-दार-सेवनम्, पारित्रात्त्यं कनीयसि कृत-विवाहे ज्येष्ठस्य विवाह-राहित्यम्, वार्धुष्यं प्रतिषिद्ध-वृद्ध्य्-उपजीवनम्, लवणस्योत्पादनम् ऊपरादितः ॥२॥
स्त्रीत्य्-आदि स्पष्टम्, निन्दितापि जीवनम् अराज-स्थापितार्थोर् अजीवनम्, नास्ति पर-लोक इत्य्-आद्य्-अभिनिवेशो नास्तिक्यम्, व्रत-लोपो ब्रह्मचारिणः स्त्री-प्रसङ्गः, सुतानाम् अपत्यानां विक्रयः ॥३॥
धान्यं ब्रीह्य्-आदि, कुप्यम् असारं त्रपुसीसादि, पशवो गवादयस्तेषामपहरणम्, गो-वधो व्रात्यता स्तेयम् इत्य् अनेनैव सिद्धे पुनर् धान्यादि-ग्रहणं प्रायश्चित्त-विशेषार्थम् एवम् एव बान्धव-त्याग-ग्रहणेनैव सिद्धे पुनः पित्रादि-त्यागो विज्ञेयः, अयाज्यानां जाति-कर्म-दुष्टानां शूद्र-व्रात्यादीनां याजनम्, पितृ-मातृ-सुतानाम् अपतितानां परित्यागो गृहान् निष्कासनम्, तडागादि-विक्रयः ॥४॥
कन्या-दूषणम् अङ्गुल्यादिना योनि-विदारणं न तु भोगः, तस्य सखि-भार्या-कुमारीषु इति गुरु-तल्प-समत्वोक्तेः । पारिविन्दकस्य परिवेत्तुर् याजनम्, तस्यैव कन्या-प्रदानं च, कौटिल्यं गुरोर् अन्यत्र, गुरु-विषयस्य तु कौटिल्यस्य सुरापान-समत्वोक्तेः । पुनर् व्रत-लोप-ग्रहणं शिष्टाप्रसिद्धेष्व् अपि श्री-हरि-चरणेक्षणं विना ताम्बूलं न भक्षयामीत्य् एवं-रूपेषु व्रतेषु प्राप्त्य्-अर्थम् ॥५॥
क्रियारम्भः पाकारम्भः अधं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् इति तस्यैव प्रतिषिद्धत्वाक्रियामान-विषये त्व् अतिप्रसङ्गः स्यात् । मद्यपाया जायाया भोगः, स्वाध्याय-त्यागो वेदाभ्यासादि-राहित्यम्, अग्नीनां श्रौत-स्मार्तानां त्यागः, सुत-त्यागस् तत्-संस्काराकरणम्, बान्धवानां पितृव्य-मातुलादीनां त्यागः सति विभवेऽपरिरक्षणम् ॥६॥
पाकादि-दृष्ट-प्रयोजन-सिद्ध्य्-अर्थम् आर्द्र-द्रुम-च्छेदो न त्व् आहवनीयादि-रक्षणार्थम् अपि, स्त्रिया, हिंसया, औषधेन च जीवनम् । तत्र स्त्रीजीवनम्—भार्यां पण्यभावेन पुरुषान्तरभोगार्थं प्रयोज्य तल्लब्धोपजीवनं, स्त्रीधनेनोपजीवनं वा, हिंसया प्राणिवधेन जीवनन्, औषधजीवनं वशीकरणादिना, हिंस्रयन्त्रस्य तिलेक्ष्वादिपीडनादिरूपस्य प्रवर्तनम्, व्यसनानि मृगयादीनि, आत्मविक्रयो द्रव्यग्रहणेन परदास्यकरणम् ॥७॥
शूद्रस्य प्रेष्यं सेवनम्, हीनजातिषु मैत्रीकरणम्, अनूढसवर्णदारस्य केवलं हीनवर्णदारोपसेवनम्, साधारणस्त्रीसभोगश्च, अगृहीताश्रमत्वं सत्यधिकारे, परपाकरतित्वम् ॥८॥
चार्वाकादिग्रन्थावामः, आकरेषु सुवर्णाद्युत्यत्तिस्थानेषु राजाज्ञयाधिकारित्वम्, भार्याया विक्रयः चान्मन्वाद्युक्ताभिचारमतिपूर्वलशुनादिभक्षणान्दग्रहणम् ॥९॥
मातृगमनदुहितृगमनस्नुषागमनान्यतिपातकानि, स्वसृसखीसगोत्रोत्तमवर्णारजस्वलाशरणागताप्रव्रजितानिक्षिप्तनां गमनमनुपातकानि, अनुपातकानाम् एव विष्णुना पातकसंज्ञोक्ता—
महा-पापं चातिपापं तथा पातकम् एव च ।
प्रासङ्गिकं चोपपायम् इत्य् एषां पञ्चको गणः ॥
इति कृतं प्रसक्तानुप्रसक्त्या ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.६० ॥
द्वादश्याम् एकादश्यां वा शृण्वन्न् आयुष्यवान् भवेत् ॥
पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात् ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वादश्याम् एकादश्यां वा इति यदा यस्यां व्रतं प्राप्यते, तदा तस्याम् एवेत्य् अर्थः ॥५९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतः संयतश् चासाव् आत्मा बुद्धिर्यतात्मा सोऽस्यास्तीति यतात्मवान् । ओष्य स्थित्वा उपवासार्थकत्वं तु निरन्नस्य यत्तात्मत्वासम्भवात्याठस्यापि दुष्करतैवेति प्रतीयते । भयात्संसारात् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.६१-६२ ॥
पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।
उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात् ॥
देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।
यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात् ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र ये देवादयः कीर्तितास्तेऽपि कीर्तनात् यत्र यद् भागवतं गृणतः शृण्वतश् च नृन्कामान् यच्छन्ति ददति यत्रेति द्वितीयार्थे त्रल् ॥ गृह्य-सूत्रोक्तं फलम् आह—ऋच इति । तथा हि—यहचोऽधीते पयसः कुल्या अस्य पितृन् स्वधा उपक्षरान्ति यद्यपि घृतस्य कुल्या य त्सामानि मध्वः कुल्या योऽथर्वाङ्गिरसः सोमस्य कुल्या यद् ब्राह्मणानि कल्पान् गाथा नाराशंसीर् इतिहास-पुराणानीत्य् अमृतस्य कुल्याः इति ॥६१-६२॥
॥।
॥ १२.१२.६३ ॥
ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।
मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋग्-आद्य् अधीत्य द्विजो मधु-कुल्यादि यद् अनुविन्दते, तत् फलम् एतां पठित्वानुविन्दत इति ॥६३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जीवन्-मुक्ति-फलकत्वम् अस्याह—किं चेति ।
मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः ।
अहम् एव न मत्ताऽन्यद् इति बुद्ध्य्-अध्वम् अञ्जसा ॥
इति रीत्या यत् सर्वात्मकत्व-रूपं भगवतः पदं स्वरूपं भगवतैवर्षिभ्यः प्रोक्तम् अर्थाद् अद्वैतानष्ठा-रूपं तद् व्रजेल् लभेद् इत्य् अर्थः ॥६३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.६४ ॥
पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः ।
प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, प्रोक्तम् इति ॥६४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रज्ञा प्रकृष्ट-ज्ञानं सर्व-पुराणेतिहासाध्ययनाध्यापन-सामर्थ्य-लक्षणं प्राप्नुयात् । उदधिर् मेखलेव परितो व्याप्तो यस्याः सोदधि-मेखला भूमेर् नामेदम् । समुद्र-मेखले देवि पर्वत-स्तन-मण्डले इति मन्त्रात् । तथा च भूमिं प्राप्नुयान् न तु समुद्रान्तर्-गतां सर्वाम् इति नरेन्द्रादि-पदवद् यत् किञ्चिन् नराणां पत्याव् अपि यथा नरेन्द्र-पदं प्रयुज्यते, तथा यत् किञ्चिद् भूपतिर् अप्य् उदधि-मेखला-पतिर् उच्यत इति । अत्र सन्धिर् आर्षः । यद् वा, उदधिः, आप अधिकोत्धाधिका यस्मिन्न् इत्य् उदधिः । अत्रार्षत्वाद् वर्ण-विकारो मयूरादिवत् । अवस्थान्तर-प्राप्तिर् विकारस् तस्मात् यस्य सः । एवं निधिपतिर् अपि ज्ञेयः । निधिः पद्मादि-नवके वस्व्-अब्धि-स्थापनेषु च इति धरणिः । धनपतिः स्याद् इत्य् अर्थः । शूद्रः शृण्वन्न् एव तस्य पाठानधिकारात् । तद्-उक्तं पुराणाधिकार-प्रस्तावे भविष्ये—
अध्येतव्यं ब्राह्मणेन वैश्येन क्षत्रियेण च ।
श्रोतव्यम् एव शूद्राणां नाध्येतव्यं कदाचन ॥
श्रीतं स्मार्तं च वैधर्मं प्रोक्तम् अस्मिन् नृपोत्तम ।
तस्माच् छूद्रैर् विना विप्रं न श्रोतव्यं कदाचन ॥ इति ॥६४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१२.६५ ॥
विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् ।
वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राजन्य उदधि-मेखलां पृथ्वीम् । सन्धिर् आर्षः । विप्रोऽधीत्येत्य् आदिकं तत्-तत्-कामाग्रह-पराणां प्रवर्तनार्थम् आपात-फलम् ॥६५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवं प्रभावातिरेके पूर्वोक्तरीत्या प्रभावाधिक्ये । इह श्री-भागवते । अशेषमूर्तिरनन्तमूर्तिः । अनुपदं प्रतिश्लोकम् । पदानि सन्त्यत्रन्ति पदः। अजत्र मत्वर्थीयः। पद्यम् । पदं पदमनुपदं वीप्सार्थकानुपदयोगे द्वितीया । तत्तत्कथाप्रसङ्गैर्भगवानेवात्र कीर्तित इति । अत्र कर्म ब्रह्मादिप्रतिपादकशास्त्रेऽखिलेशो विराडन्तर्यामी तत्पालको विष्णुर्वापि न गीयते, कचिद्गीयते वा तत्र त्वभीक्ष्ण नेव गीयते । तुरवधारणे । इह भागवते भगवानेवाभीक्ष्णं गीयते नारायणादयो येऽत्र वर्णितास्तेप्यशेषा एव मूर्तयोऽवतारा यस्य स तथाभत एव गीयते न त्विरत्रेव तद्विवेकेनेत्यर्थः । अत एव तत्तत्कथाप्रसङ्गैर् अपि भगवानेव पठितो व्यक्तम् एवोक्त इत्य् अर्थः ॥६५॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **विप्रोऽधीत्येत्य्-आदि । शूद्रोऽधीत्य पातकात् शुध्येत । इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् [भा।पु। १.३.४०] इति भागवतस्य ब्रह्म-सम्मितत्वात् कथं तच्-छूद्रोऽध्येत ? सत्यम् । भक्तिश् चेच् छूद्र-योषिताम् इत्य् उक्तत्वाद् भक्त-शूद्रस्यआध्यय्नाधिकारो बोद्धव्यः । शूद्रोऽधीत्येति पृथग्-ध्येतेति-पद-प्रयोगात् श्रुत्वेति नार्थान्तरं कार्यम् । एतेनैवास्मिन् श्री-भागवते शूद्र-कर्तृकाध्ययन-सम्भावना ॥६५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विप्रोऽधीत्येत्य्-आदिकं तत्-तत्-कामाग्रह-पराणां प्रवर्तनार्थम् आपात-फलं राजन्य उदधि-मेखलां सन्धिर् आर्षः ॥६५॥
॥।
॥ १२.१२.६६ ॥
कलि-मल-संहति-कालनोऽखिलेशो
हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः
परिपठितोऽनु-पदं कथा-प्रसङ्गैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्य पुराणस्यैवं प्रभावातिर् एके कारणम् आह—कलि-मलानां संहतिं समूहं कालयति विनाशयतीति तथा । इतरत्र शास्त्रान्तरे ॥६६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिनानन्तादिग्रहः । सर्वज्ञर् अपि देवैरज्ञातगुणगणत्वाद् दुर्ज्ञेयं तं नतोऽस्मीति । तमजं नतोऽस्मि, किं ब्रह्माणं नमसि? न, अनन्तम् । किं प्रधानं? आत्मतत्त्वं चेतनस्वरूपम् । किं शुद्धजीवं? न, जगदुदयादय आत्मशक्तितो यस्य तम् । किं दुर्गापतिं शभुम्? विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् इति मार्कण्डेयोक्तेः शिवाद्धाङ्गहरा दुर्गा इति पुराणान्तराच् च, न, द्यपतिभिरजाद्यैर् अप्य् अज्ञातस्तुतिकमच्युत श्री-कृष्णम्, को वेत्ति भूमन्भगवन्परात्मन्योगेश्वरोक्तीर्भवतस् त्रिलोक्याम् इति ब्रह्मोक्तेः । नाह वेदापरेऽपि च इत्य् उक्तेः, यतो यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रुतेश् च ॥६६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्येभ्यः पुराणेभ्योऽस्य श्रैष्ठ्यम् उपक्रमेऽपि धर्मः प्रोज्झित-कैतवोऽत्र [भा।पु। १.१.२] इति यथोक्तं, तथैवोपसंहारेऽपि दर्शयन्न् आह—कलि-मल-संहतीत्य्-आदि । इतरत्र पुराणादौ अभीक्ष्णं न गीयते, इह तु अनुपदं पदं पदम् अनु परि परितो भगवान् श्री-कृष्णः । कीदृशः ? अशेष-मूर्तिः, शेषः परिणामस् तद्-रहिता मूर्तिः श्री-विग्रहो यस्य । कथा-प्रसङ्गैः कथाभिः साक्षात् कथ्यमानाभिः प्रसङ्गैश् च ॥६६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कालनो नाशनः । इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो विराड्-अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते क्वचिद् गीयते वा, तत्र त्व् अभीक्ष्णं नैव गीयते। तु-शब्दोऽवधारणे । साक्षात् श्री-भगवान् पुनर् इह श्री-भागवत एवाभीक्ष्णं गीयते। नारायणादयो वा येऽत्र वर्णिताः, तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य सः । तथा-भूत एव गीयते, न त्व् इतरत्रेव तद्-अविवेकेनेत्य् अर्थः । अत एव तत्-तत्-कथा-प्रसङ्गैर् अनुपदं पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन पठितो व्यक्तम् एवोक्त इति4 ॥६६॥ [परमात्म-सन्दर्भ १०७]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कलि-मल इति । कालनो नाशनः । अनुपदं प्रति-प्रकरणम् एव, इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो विराड् अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते । क्वचिद् गीयते वा, तत्र त्व् अभीक्ष्णं नैव गीयते । तु-शब्दोऽवधारणे । साक्षात् श्री-भगवान् पुनर् इह श्री-भागवत एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र वर्णिताः, तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य सः । तथाभूत एव गीयते, न त्व् इतरत्रैव तद्-अविवेकेनेत्य् अर्थः । अत एव तत्-तत्-कथा-प्रसङ्गैर् अनुपदं पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन **पठितो **व्यक्तम् एवोक्त इति ॥६६॥
॥ १२.१२.६७ ॥
**तम् अहम् अजम् अनन्तम् आत्म-तत्त्वम् **
जगद्-उदय-स्थिति-संयमात्म-शक्तिम् ।
द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर्
दुरवसित-स्तवम् अच्युतं नतोऽस्मि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शास्त्र-प्रतिपादितं भगवन्तं नमस्करोति—तम् इति द्वाभ्यम् । जगद्-उदय-स्थिति-संयमात्मानो रज-आदयः शक्तयो यस्य तम् । द्यु-पतिभिर् देवैर् अपि दुरवसितोऽज्ञातः स्तवः स्तोत्रं यस्य तम् ॥६७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिनानन्तादि-ग्रहः । सर्वज्ञर् अपि देवैरज्ञातगुणगणत्वाद् दुर्ज्ञेयं तं नतोऽस्मीति । तम् अजं नतोऽस्मि, किं ब्रह्माणं नमसि? न, अनन्तम् । किं प्रधानं? आत्मतत्त्वं चेतनस्वरूपम् । किं शुद्धजीवं? न, जगदुदयादय आत्मशक्तितो यस्य तम् । किं दुर्गापतिं शभुम्? विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् इति मार्कण्डेयोक्तेः शिवाद् धाङ्गहरा दुर्गा इति पुराणान्तराच् च, न, द्यपतिभिर् अजाद्यैर् अप्य् अज्ञात-स्तुतिकम् अच्युत श्री-कृष्णम्, को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोक्तीर् भवतस् त्रिलोक्याम् [भा।पु। १०.१४.२१] इति ब्रह्मोक्तेः । नाहं वेदापरेऽपि च इत्य् उक्तेः, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१] इति श्रुतेश् च ॥६६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत् तस्मात् तं नतोऽस्मीत्य् आह—तम् अहम् इत्य्-आदि । तं श्री-कृष्णम् अजम् अनन्तम् अपरिणामम् आत्म-तत्त्वम् । आत्मा स्वयम् एव तत्त्वं भगवत्-तत्त्वं यस्य, अच्युतं शाश्वतम्, अत एव अजादिभिर् दुरवसितो याथार्थ्येन ज्ञातः स्तवो यस्य ॥६७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्र-प्रतिपादितं देवं प्रणमति—तम् अजं नतोऽस्मि । किं ब्रह्माणं नमसि? न । अनन्तं किं प्रधानम् ? न । आत्म-तत्त्वं चेतन-स्वरूपम् । किं शुद्ध-जीवम् ? न । जगद्-उदयादय आत्म-शक्तितो यस्य तम् । किं दुर्गा-पतिं शम्भुम् ? न । द्युपतिभिर् देवैर् अजाद्यैर् अपि दुरवसित-स्तवम् अज्ञात-स्तुतिकम् । अच्युतं श्री-कृष्णम् ॥६७॥
॥।
॥ १२.१२.६८ ॥
उपचित-नव-शक्तिभिः स्व आत्मन्य्
उपरचित-स्थिर-जङ्गमालयाय ।
भगवत उपलब्धि-मात्र-धाम्ने
सुर-ऋषभाय नमः सनातनाय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपचिताभिर् उद्रिक्ताभिर् नव-शक्तिभिः प्रकृति-पुरुष-महद्-अहङ्कार-तन्-मात्र-रूपाभिः स्व आत्मन्य् एव उपरचितं स्थिरं जङ्गमं च आलयो यस्य, तस्मै भगवते ॥६८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वे स्वीये । आत्मनि स्वरूपे । उपरचितम् आविर्भावितं यत् स्थिरं स्थावरं जङ्गमं च तद् एवालयो निवास-स्थानं यस्य, तस्मै स्व-प्रकाशित-जगति जीव-रूपेणान्तर्यामि-रूपेण च स्थिताय । उपलब्धि-मात्र-धाम्ने सर्व-ज्ञान-स्वरूपाय ज्ञान-मात्राधिष्ठानाय वा । सुरऋषभाय सर्व-देवोत्तमाय श्री-कृष्णाय । सनातनाय सर्वावस्थासु विद्यमानाय । एतच् च श्री-कृष्ण एवं सम्पद्यते । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०.८] इति, मया ततम् इदं सर्वं जगत् स्थावर-जङ्गमम् [गीता ९.४] इति च तद्-उक्तेः ।
यद् वा, **उपलब्धि-मात्रं **परं ब्रह्म, तस्य धाम्ने स्थानाय, ज्ञान-मात्रं परं ब्रह्म [भा।पु। ३.३२.२१] इत्य् उक्तेः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्री-मुखोक्तेः, सनातनस् त्वं पुरुषो मतो मे इत्य् अर्जुनोक्तेश् च सनातनत्वम् अपि तत्रैव संगच्छते देवानाम् अच्युतो यथा इत्य् अग्रे वक्ष्यमाणत्वात् तत् सर्व-देव-श्रेष्ठोऽपि स एवेति ॥६८॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पुनर् नमस्करोति—उपचितेत्य् आदि । सनातनाय भगवत् श्री-कृष्णाय नमः । उपलब्धि-मात्रं निरुपहित-चैतन्यं धाम स्थानं यस्य—क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु। ११.२०.३७] इति भगवद्-उक्तेः । सुराणां ब्रह्मादीनाम् ऋषभाय श्रेष्ठाय । उपलब्धि-धामत्वम् आह—उपचितेत्य्-आदि । उपचितानुद्रिक्तान् वा, अप्राकृता नूयते स्तूयते इति नव, कर्म्ण्य् अन् । तथा-भूता या शक्तयः लीलाद्यास् ताभिः स्वे आत्मनि चित्-स्वरूपेऽधिष्ठाने उपरचिताः स्थिरास् तर्व्-आदय आलया गृहा येन । एतेनोपक्रम-लब्धस्य, यत्र त्रि-इसर्गो मृषा [भा।पु। १.१.१] इति व्याख्यातस्य वस्तुन उपसंहारेऽपि प्रकटनम् ॥६८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एव स्वान्तर्यामित्वेन प्रणम् इति । नव-शक्तिः । प्रकृति-पुरुष-महद्-अहङ्कार-तन्मात्र-रूपाभिः ॥६८॥
॥।
॥ १२.१२.६९ ॥
**स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य् **
अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् ।
व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं
तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-गुरुं नमस्करोति । स्व-सुखेनैव निभृतं पूर्णं चेतो यस्य । तेनैव व्युदस्तोऽन्यस्मिन् भावो यस्य तथाभूतोऽप्य् अजितस्य रुचिराभिर् लीलाभिर् आकृष्टः सारः स्व-सुख-गतं स्थैर्यं यस्य सः । तत्त्व-दीपं परमार्थ-प्रकाशकं श्री-भागवतं यो व्यतनुत तं नतोऽस्मीति ॥६९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्व-सुखेन परमानन्दावाप्त्या । तेनैव स्वसुखपूर्णचेतस्त्वेनैव । अन्यस्मिन्परमानन्दस्वरूपादितरत्र, भावः स्नेहो यस्य । तथाभूतोपि परमानन्दतृप्तोपि । अजितस्य श्री-कृष्णस्य । रुचिराभिर्मनोहराभिर्बाल्यादिचरितैराकृष्ट आकर्षणविषयीकृतः । तद् इति ब्रह्मणो नाम इति श्रुतेस् तद् ब्रह्म तस्य भावस् तत्त्वं श्री-कृष्णः—
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भा।पु। १०.१४.३२]
इति ब्रह्मोक्तेस् तस्य प्रकाशकम् । अखिलानि वृजिनानि पापानि हन्ति दर्शन-स्मरणादिनेत्य् अखिल-वृजिनघ्नः, कलुषं वृजिनैनोघम् [भा।पु। १२.१३.२१] इत्य् अमरः । ब्रह्म-रूपत्वात् तस्य सर्वाघ-निवर्तकत्वम् । शुकाय ब्रह्म-रूपिणे इत्य् अग्रिमाध्यायोक्तेः स्वेष्ट-देवं शास्त्र-प्रतिपाद्यं नत्वा स्व-गुरुं प्रणमति—स्व-सुखेन ब्रह्मानन्देन निभृतं परिपूर्णं चेतो यस्य तम् । तेन तथात्वेन व्युदस्तो दूरीभूतोऽन्यस्मिन् भावो मनो-व्यापारो यस्य तम् । तथा-भूतोऽप्य् अजितस्य श्री-कृष्णस्य रुचिर-लीलया कर्त्र्यातिबलवत्याकृष्टस् तस्माद् ब्रह्मानन्द-सकाशात् स्वस्मिन्न् आनतिः सारो रसानुभव-सामर्थ्यं यस्य सः, ब्रह्म-रसास्वादाद् अपि लीला-रसास्वादे माधुर्याधिक्यम् अनुभूय तत्रैव यः प्राप्त-निष्ठोऽभूद् इति भावः । तेन लीला-रसोऽयं तस्य न समाधि-भञ्जकः प्रत्यूहस् तथात्वे तेन तत्रैव पुनः समाध्यर्थम् एवायतिष्यत न तु तथा-कृतं प्रत्युत कृपयान्येभ्योऽपि लीला-रसास्वाद-दित्सया तत्त्व-दीपं लीला-रस-तत्त्व-प्रकाशकं व्यतनुत । अत एवोक्तम्—हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः [भा।पु। १.७.११] इति, परिनिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य्-आदि पुराणं श्री-भागवतं व्यतनुत विस्तर-पूर्वं व्याख्यातवान् ॥६८॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे द्वादशोऽध्यायः ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नमस्कुर्वन्न् एव वक्तृ-हृदय-निष्ठा-पर्यालोचनया समस्त-ग्रन्थ-तात्पर्यं निर्धारयति—स्व-सुखेति । अत्र अखिल-वृजिनं तादृश-भावस्य प्रतिकूलम् उदासीनं च सर्वं ज्ञेयम् । अजित-शब्देनात्र पूर्णत्वेन मुख्यतया श्री-कृष्ण-संज्ञ एवेति प्रथमे श्री-बादरायण-समाधौ व्यक्तीकृतोऽस्ति ॥६९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वेष्ट-देवं प्रणम्य श्री-गुरुं प्रणमति । स्व-सुखेन ब्रह्मानन्देन निभृतं परिपूर्णं चेतो यस्य सः । तेन तथात्वेनैव व्युदस्तो दूरीभूतोऽन्यत्र भावो मनो-व्यापारो यस्य तथाभूतोऽप्य् अजितस्य कृष्णस्य रुचिर-लीलया कर्त्र्या अतिबलवत्या आकृष्टस् तस्माद् ब्रह्मानन्दात् सकाशाद् अपि स्वस्मिन्न् आनीतः सारो रसानुभव-सामर्थ्यं यस्य सः । ब्रह्म-रसास्वादाद् अपि लीला-रसास्वादे माधुर्याधिक्यम् अनुभूय, तत्रैव यः प्राप्त-निष्ठोऽभूद् इति भावः । तेन लीला-रसोऽयं तस्य न समाधि-भञ्जकः प्रत्यूह इति व्याख्येयम्। तथात्वे सति तेन पुनर् अपि तादृश-समाध्य्-अर्थम् एवायतिष्यत । न तु तथाकृतं प्रत्युत कृपयान्येभ्योऽपि तादृश-लीला-रसास्वाद-दित्सया **तत्त्व-दीपं **लीला-रस-तत्त्व-प्रकाशकं व्यतनुत । अत एवोक्तं हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिर् [भा।पु। १.७.११] इति, परिणिष्ठितोऽपि नैर्गुण्ये [भा।पु। २.१.९] इत्य्-आदि च ॥६९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
स्कन्धार्थ-निरूपणं नाम
द्वादशोऽध्यायः
॥ १२.१२ ॥
(१२.१३)