॥ १२.११.१ ॥
श्री-शौनक उवाच—
अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् ।
समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एकादशे तु पूजार्थं महा-पुरुष-वर्णनम् ।
रवेर् व्यूहस्य चाख्यानं प्रतिमासं पृथक् पृथक् ॥
येनामर्त्यत्वम् आपन्नो मर्त्योऽसौ भार्गवोत्तमः ।
तं पृच्छति क्रिया-योगं साङ्गोपाङ्गादि-कल्पितम् ॥
अथेति । हे भागवत, यतो भवान् सन् समस्त-तन्त्र-राद्धान्ते तत्त्व-विद् रहस्य-ज्ञः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महापुरुषो विराट् । व्यूहो रचनाविशेषः । येन क्रियायोगेन । असौ बुद्धिसन्निहितो मार्कण्डेयः । अमृतत्वं चिरजीवित्वम् । आभूतसंप्लवत्वं च ह्यमृतत्वं प्रभाषते इति स्मृतेः । अथ सर्वशास्त्रश्रवणोत्तरम् । इमं बुद्धिरथं क्रियायोगम् । हे भागवतेति—भागवता एवैतत्तत्त्वं जानन्तीति भावः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
महा-पुरुषजार्थम् अङ्गोपाग-विभूतयः ।
एकादशे रवि-व्यूह-कथा अपि निरूपिताः ॥
स ह्य् अस्मत्-पूर्व-पुरुषा मार्कण्डेयस् तान्त्रिके भगवत्-पूजा-विधौ विशारद आसीद् अतस् त्वां पूजा-विवेकं जिज्ञासे इत्य् आह—अथेति । येन पूरा-प्रकारेण स मुनिर् भगवन्तम् अपरोक्षी-चकार । इमम् अर्थं पृच्छामः राद्धान्ते सिद्धान्ते ॥१॥
॥ १२.११.२-३ ॥
तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः ।
अङ्गोपाङ्गायुधा-कल्पं कल्पयन्ति यथा च यैः ॥**
तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् ।
येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम्**1** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रष्टव्यम् आह—तान्त्रिका इति । परिचर्यायाम् उपासनायां विषये । केवलस्य चैतन्य-घनस्य । अङ्गानि पादादीनि, उपाङ्गानि गरुडादीनि, आयुधानि सुदर्शनादीनि, आकल्पाः कौस्तुभादयः, तेषां द्वन्द्वैक्यम् । तद् यथा कल्पयन्ति, यैश् च तत्त्वैः कल्पयन्ति, **तन् नो वर्णय **इति ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तान्त्रिकाः पञ्चरात्राद्यागमनिपुणाः । केवलस्य पञ्चायतनपूजायां मुख्यस्य ॥ तदङ्गोपाङ्गादिकल्पनम् । बुभुत्सतां बोद्धुमिच्छताम् ॥२-३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : केवलस्य स्वरूप-भूताङ्गोपाङ्गादि-लक्षणस्य श्रियः पतेः स्वरूप-भूतत्वेन वक्ष्यमाणाया लक्ष्म्याः पत्युस् तस्याङ्गादिकं यैः कल्पयन्ति, मायिक-वैभवैर् अभिन्नतयोपासते, तत् सर्वं नो वर्णय । मर्त्यः प्रपञ्चाविष्टोऽपि ॥२-३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अङ्गानि पाणि-पादादीनि, उपाङ्गानि गरुडादीनि, आयुधानि सुदर्शनादीनि, आकल्पाः कौस्तुभादयः, तेषां द्वन्द्वैक्यम् । यद् यथा कल्पयन्ति यैश् च तत्त्वैः कल्पयन्ति, तन् नो वर्णयेति । सच्चिदानन्द-वपुषो भगवतो येषां येषाम् अङ्गानां या विभूतयो मायिक-प्रपञ्चेऽत्र दृश्यन्ते, ताभिर् एव पुनस् तत्-तद्-अङ्गान्य् उपासनार्थं कल्पयन्ति इत्य् अर्थः ॥२॥
॥।
॥ १२.११.४ ॥**
सूत उवाच—
नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि ।
याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः ॥**
श्रीधरः गुरूपदेश-गम्यत्वाद् अस्यार्थस्य तन् नमस्कार-पूर्वकम् आह—नमस्कृत्येति । विभूतीर् विराड्-विग्रहाद्याः ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिना शङ्करनारदादिग्रहः ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विष्णोर् अपि विभूतीः साधारणीस् तद्-विभूतीर् वक्ष्ये । तत्र वैष्णवीस् तत्-स्वरूप-भूता अपि वक्ष्य इत्य् अर्थः ॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गुरूपदेश-गम्यत्वाद् अस्यार्थस्य तन् नमस्कार-पूर्वकम् आह—नमस्कृत्येति॥४॥
॥।
॥ १२.११.५ ॥**
मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो विराट् ।
निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अङ्गादि-कल्पनां भूर्-आदिभिर् दर्शयितुं प्रथमं तावद् यथा कल्पयन्तीति प्रश्नस्य वैराज-रूपेणेत्य् उत्तरं वक्तुं विराड्-विग्रहम् आह—मायाद्यैः प्रकृति-सूत्र-महद्-अहङ्कार-पञ्च-तन्-मात्रैर् नवभिस् तत्त्वैः । विकार एकादशेन्द्रियाणि पञ्च महा-भूतानीति षोडश । तन्-मयो विराट् स प्रसिद्धो निर्मितः । यत्र विराजि स-चित्के चेतनाधिष्ठिते भुवन-त्रयं दृश्यते । अनेनाङ्गादि-कल्पना-सौलभ्यं दर्शितम् ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनेन विराड्विग्रहत्वकथनेन ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मायाध्यैर् इति चतुष्टयम् एक-वाक्यम् । यत्र विराजि स-चित्के समष्टि-जीव-चैतन्याधिष्ठिते ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवतो विभूतिभिः कल्पितो विग्रहो विराड् एवास्तीत्य् आह—मायाद्यैः प्रकृति-सूत्र-महद्-अहङ्कार-पञ्च-तन्मात्रैर् नवभिः, विकारा एकादशेन्द्रियाणि पञ्च-महा-भूतानि चेति षोडश । तन्-मयो विराट् स प्रसिद्धो निर्मितः । यत्र विराजि स-चित्के चेतनाधिष्ठिते भुवन-त्रयं दृश्यते ॥५॥
॥।
॥ १२.११.६ ॥**
एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः ।
नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् वै पौरुषं रूपम् । पुरुषस्य वैराजस्य रूपम् एवेश्वरेणाधिष्ठितत्वात् तद्-अभेद-विवक्षया तस्य रूपम् उच्यते । अङ्ग-कल्पनाम् आह—भूः पादाव् इत्य्-आदि-त्रिभिः । भूर् आद्य्-अनुवादेन भगवत्-पादादि-भावना विधीयते ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतत्प्रत्यक्षसिद्धम् । पुरुषस्य भगवतो मायिकं रूपं न तु स्वरूपमित्य् अर्थः । किमङ्गं कया विभूत्या कल्पितम् इति चेत्तत्राह—भूर् इति । सच्चिदानन्दरूपस्य भगवतः पादयोर्या विभूतिर्भूस्तयास्य पादौ कल्पिताव् इति तदभेदनिर्देशाद्भूर् एव पादावेवं सर्वत्र ज्ञेयम् । एवं च विराट्पुरुषस्य पादादिभावनया सच्चिदानन्दपुरुषस्य पादादीनि स्मर्तव्यानि । यथा मत्प्रभुः स्वपादाभ्यां पृथिवीं बिभर्ति शिरसा दिवं तथान्यानि भगवदङ्गानि सर्ववस्तूनि, एवं सर्वभावनापि भगवद्भावनैवेति ज्ञेयम् ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भूः पादाव् इत्य् आदौ तत्-पादादि-शक्त्यैव भूर्-आदीनां शक्तिर् इत्य् अभिन्नतयोपास्यत इत्य् अर्थः ॥६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पौरुषं पुरुषस्य भगवतो मायिकं रूपं, न तु स्वरूपम् इत्य् अर्थः । कया कया विभूत्या किं किम् अङ्गं कल्पितम् ? तद् आह—भूर् इति । सच्चिदानन्द-वपुषो भगवतः पादयोर् या विभूतिर् भूस् तयास्य पादौ कल्पिताव् इति । तद्-अभेद-निर्देशाद् भूरे एव पादौ । एवं सर्वत्र ज्ञेयम् । एवं च विराट्-पुरुषस्य पादादि-भावनया सच्चिदानन्द-पुरुषस्य पादादीनि स्मर्तव्यानि । यथा मत्-प्रभुर् भगवान् स्व-पादाभ्यां तद्-विभूतिं पृथिवीं बिभर्ति, तद्-विभूतिं दिवं बिभर्तीत्य् एवं सर्वाणि एव वस्तूनि नयन-मनो-गतानि भगवद्-अङ्गान्य् एव तद् विभूतित्वाद् इत्य् अतः सर्व-भावनापि भगवद्-भावनैवेति विवेकः॥६॥
॥।
॥ १२.११.७ ॥**
प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः ।
तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रजननं मेढ्रम् । अपानः पायुः ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रजन्यतेऽनेनेति प्रजननम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥।
॥ १२.११.८ ॥**
लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो2** भ्रमः ।**
रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उत्तर उपरितनः । स्मयो हासः । भ्रमो भ्रमहेतुर्माया ॥८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उत्तर ओष्ठो लज्जा । अधर ओष्ठो लोभः । स्मयो हास्यम् । भ्रमः माया ॥८॥
॥।
॥ १२.११.९ ॥**
यावान् अयं वै पुरुषो यावत्या संस्थया मितः ।
तावान् असाव् अपि महा-पुरुषो लोक-संस्थया ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनुक्तम् अन्यद् अप्य् एवम् ऊह्यम् इत्य् आह—यावान् अयं व्यष्टिः पुरुषः स्व-मानतः सप्त-वितस्तिः । संस्थयावयव-सन्निवेशेन । मितः परिमितः ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उत्तर उपरितनः । स्मयो हासः । भ्रमो भ्रमहेतुर्माया ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **समष्टि-व्यष्ट्योः प्रायेणैक्यात् व्यष्टि-पुरुषस्य प्राकृतत्वान् मलिनस्य दर्शनम् एव निर्मलं सच्-चिद्-आनन्द-मयं पुरुषं परिचाययति—यावान् अयम् इति । मितः परिमितः ॥९॥
॥।
॥ १२.११.१०-११ ॥**
कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः ।
तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः ॥**
स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् ।
वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भूषणादीन्य् आह—कौस्तुभेत्य्-आदिना । स्वात्म-ज्योतिः शुद्धं जीव-चैतन्यम् । या तस्य कौस्तुभस्य प्रभा ताम् एव श्री-वत्सं बिभर्ति ॥१०॥ त्रि-वृत् स्वरं त्रि-मात्रं प्रणवम् ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्यपदेशो मिषः व्यपदेशोमिषेऽस्थने पक्षिवर्जिते इति निरुक्तिः । अङ्गान्युक्त्वा भूषणान्याह—कौस्तुभस्वरूपेण शुद्धजीवचैतम्यं कौस्तुभस्यैव विभूति धत्ते । तथा हि—
अकारणोच्यते विष्णुः श्रीरुकारेण कथ्यते ।
मकारस् तु तयोर्दासः पञ्चविंशः प्रकीर्तितः ॥
इति भक्तिविवेकोक्तेः । स्वदासं भगवान् हृदि धत्ते इत्यभिप्रेत्यैव साधवो हृदयं त्वहम् भगवान्भक्तभक्तिमान् इत्य्-आद्य्-उक्तम् । कौस्तुभस्यैव प्रभा व्यापिनी दक्षिणस्तनोर्द्ध्वपर्यन्तगामिनी या ताम् एव श्रीवत्सं दक्षिणावर्तमृणालतन्तुसूक्ष्मरोमावल्याकारं बिभर्ति, यस्य विभूतिर्धर्मः, तथैव वामस्तनोर्द्ध्वलक्ष्मी रेखानिकषाश्मनि कानको रेखेवानुक्तापि ज्ञेया, यस्या विभूतिश् च राजादिसम्पत् ॥ त्रिगुणात्मिका माया वनमालाया विभूतिः, छन्दांसि पीताम्बरस्योपवीतस्य प्रणवस्त्रिमात्रश् च विभूतिर् एवम् एव सर्वत्र स्वविभूत्या सामानाधिकरण्यम् ॥१०-११॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **कौस्तुभ-व्यपदेशेनेत्य्-आदि । आत्म-ज्योतिर् ब्रह्म-ज्योतिस् तत्-प्रभेव श्रीवत्सम् ॥ ब्रह्म-सूत्रं प्रणवम् ॥१०-११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कौस्तुभेति । अत्र भूर्-आदीनाम् इव जीवाख्य-स्वात्म-ज्योतिर्-आदीनाम् अपि कौस्तुभादिभ्यो बहिरङ्गत्वं दर्शितम् । स्वात्म-ज्योतिष एवेन्द्रिय-द्वारा प्रकाशः श्रीवत्सतया कल्प्यत इत्य् अर्थः ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाना-गुण-मयीम् इति त्रि-गुणात्मिका माया वन-मालाया विभाविः । वास इति पीत-वाससो विभाविश् छन्दांसि । ब्रह्म-सूत्रम् इत्य् उपवीतस्य विभूतिस् त्रिवृत् स्वरः त्रिमात्रः प्रणवः । एवम् एव सर्वत्र स्व-विभूत्या समानाधिकरण्यम् ॥१०-११॥
॥।
॥ १२.११.१२ ॥**
बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले ।
मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पारमेष्ठ्यं पदं ब्रह्म-लोकम् ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **साङ्ख्यं ज्ञानम् । योगं कर्म ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥।
॥ १२.११.१३ ॥**
अव्याकृतम् अनन्ताख्यम् आसनं यद्-अधिष्ठितः ।
धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अव्याकृतं प्रधानम् । यद् अधिष्ठितोऽधीष्ठाय स्थितः, तद् आसन-भूतं पद्मं सत्त्वं सत्त्व-गुणः ॥१३॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **अव्याकृतं प्रधानम्, ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् [भा।पु। १२.४.१८] इत्य्-आदि, तन्-मूल-भूतं पदम् आमनन्ति यत् [भा।पु। १२.४.२१] इत्य्-अन्तं यत् प्राग् उक्तं, तद् एवासनम् अधिष्ठानम् । कौस्तुभोऽत्रोपलक्षणं, सर्वम् एवाभरणम् । तथा… । एवं पीत-वासश् चोपलक्षणं, सर्वम् एव शय्यादि-वासश् च । ब्रह्म-सूत्रम् उपलक्षणम्, सर्वाण्य् एव हारादि-सूत्राणि । आसनम् उपलक्षणम् । सर्वाण्य् एव पर्यङ्कादीनि । ब्रह्म-योनिर् वेद-योनिम् । ब्रह्मणः परम-ज्योतिषो वा ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यद् अधिष्ठितोऽधीष्ठाय स्थितः, तद् आसनम् अनन्ताख्यम् अव्याकृतं प्रधानम् उच्यते इति अनन्तस्यैव विभूतिः । प्रधानं जगत्-सृष्ट्य्-आदि-कारणी-भूतम् । वन-माला-विभूतिर् माया तु ततोऽपि मूर्त-भूता ज्ञेया । तत्र च धर्मादि-युक्तम् आसन-पद्मं तु सत्त्वं सत्त्व-गुणः ॥१३॥
॥।
॥ १२.११.१४ ॥**
ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् ।
अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मुख्य-तत्त्वं प्राण-तत्त्वम् । प्राणो वै मुख्यः इति श्रुतेः । दर-वरं शङ्खम् ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अव्याकृतं प्रधानमनन्तस्यैव विभूतिस्तस्यैव विश्वहेतुत्वम् यमाहुरस्य स्थितिसर्गसंयमं त्रिभिर्विहीनं यमनन्तमद्वयम् इतिः उत्पत्तिस्थितिलयहेतवोस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयासन् इति पञ्चमोक्तेः । वनमालाविभूतिर्माया तु ततोपि मूलभूता ज्ञेया ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥।
॥ १२.११.१५ ॥**
नभो-निभं नभस्-तत्त्वम् असिं चर्म तमो-मयम् ।
काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नभोनिभं नभोवन्निर्मलम् । असिं नन्दकम् । तमोमयं तमोगुणवदाच्छादकम् । पुण्यकर्मस्वरूपे इषुधी ॥१५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असिं नभस् तत्त्वं नभो-निभम् आकाश-तुल्यं निर्मलम् । चर्म तमो-मयं तमस्-तत्त्वम् ॥१५॥
॥।
॥ १२.११.१६ ॥**
इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् ।
तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आकूतीः क्रिया-शक्ति-युक्तं मनः । अस्य रथस्याभिव्यक्तिं बहिर् अभिव्यक्तं रूपम् । मुद्रया धृतयार्थ-क्रियात्मतां वरदाभयदादि-रूपत्वं बिभर्ति । तत्-तन्-मुद्रया तथा तथा भावयेद् इत्य् अर्थः ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—वरदमुद्रया वरद त्वमभयमुद्रयाभयदत्वं च भावयेद् इति भावः । बाहुप्रसारणपूर्वकं दक्षहस्तस्य विस्तृतयोत्तानीकरणेनाश्वासनं वरमुद्रा भवति, तस्य तथैव न्युब्जीकरणेनाश्वासनमभयदमुद्रा भवतीति विवेकः । एवमन्या
अपि ज्ञेयाः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **आकूतीर् इति । लक्षणया क्रिया-शक्ति-युक्तं मनो यस्य भगवतः स्यन्दनम् आहुः तन्-मात्राण्य् अस्य भगवतोऽभिव्यक्तिम् आहुः, तथा स्वस्यार्थ-क्रियात्मतां वरदाभयदादि-रूपतां मुद्राम् आहुः, मुद्राम् एवाहुर् इत्य् अर्थः । गोत्रेण गार्ग्य इतिवत् तृतीया ॥१६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकुतिः क्रिया-शक्ति-युतं मनः । स्यन्दनं रथस्य विभूतिर् मनः । तन्-मात्राणि शब्दादयो विषया अभिव्यक्तिः अस्य अभिव्यक्तेर् आविर्भावस्य विभावयः । विषय-जिघृक्षा-रूपस्य मनोरथस्य बहिर् अभिव्यक्ति-रूपा एव शब्दादयो विषयी इन्द्रिय-ग्राह्या इत्य् अर्थः । मुद्रया वरदाभयदा-रूपया धृतया अर्थ-क्रियात्मतां बिभर्ति । अर्थ-क्रिया लोक-व्यवहारस् तत्-स्वरूपतां धत्ते वर-दत् तस्य अभयदत्वस्य विभूतयस् तास् ता अर्थ-क्रिया इत्य् अर्थः ॥१६॥
॥।
॥ १२.११.१७ ॥**
मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः ।
परिचर्या भगवत आत्मनो दुरित-क्षयः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मण्डलं देव-यजनम् । देव-पूजा-भूमिं सूर्य-मण्डलत्वेन भावयेद् इत्य् अर्थः । अन्तर्-वह्नि-मण्डलं वा । दीक्षा-संस्कार आत्मनो गुरु-कृतां मन्त्र-दीक्षाम् एवात्मनस् तत्-पूजा-योग्यतां भावयेद् इत्य् अर्थः । परिचर्येति । भगवतस् तां परिचर्यां स्वस्य सकल-पाप-क्षयायेत्य् एवं भावयेद् इत्य् अर्थः ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—सूर्यमण्डलं यथा—ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः इत्य्-आद्य्-उक्तेर् भगवद्ध्यानाधिष्ठानं, तथेदं क्षेत्रम् अपि मत्पूजाधिष्ठानम् इति चिन्तयेद् इति भावः । यद् वा, एकादशस्कन्धोक्तरीत्या हृत्कञ्जकर्णिका मध्ये सोमसूर्याग्नीनामुत्तरोत्तरचिन्तया वह्निमध्ये स्मरेद्रूपम् इत्य् उक्तेस् तद् एव वह्निमण्डलं देवपूजाभूमिं चिन्तयेद् इत्य् अर्थः । इत्य् अर्थ इति—अदीक्षितस्य पूजानर्हत्वाद् इति भावः। तद् उक्तम्—
दिव्यं ज्ञानं यतो दद्यात्कुर्यात्मापस्य सङ्क्षयम् ।
तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥ इति ।
किं च—सर्वाश्रमेषु दीक्षाया आवश्यकत्वमपि—
दीक्षामूली जपः सर्वो दीक्षामूलं परं तपः ।
दीक्षामाश्रित्य निवसेद्यत्र कुत्राश्रमे वसन् ।
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ।
न भवन्ति श्रियस्तेषां शिलायामुप्तबीजवत् ।
देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।
तस्मात्सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ।
गुरोरभावे मन्त्राणां पुस्तकं गुरुमाचरेत् ।
न चायोग्याद्गुरोर्दीक्षा ग्रहीतव्या कदाचन ।
दक्षिणामूर्तितो यद् वा, दीक्षा ग्राह्या तथा घटात् ॥ इति ।
अदीक्षितो हि मरणे रौरवं नरकं व्रजेत् इति च । यत्तूक्तम्—
कल्पे दृष्ट्वा तु यो मन्त्र गृह्णाति हि नराधमः ।
मन्वन्तरसहस्रेषु निष्कृतिर्नैव विद्यते ॥
इति तत्सद्गुरुसत्त्वे पुस्तकाद्दीक्षा न ग्राह्येतिपरम् इति तन्त्रसारे । सद्गुरुनिर्णयस् तु ब्रह्मवैवर्तीयकृष्णखण्डत्र्यशीतितमाध्याये—
तेजीयांसं गुरु कुर्यात्सर्वतो रक्षितुं क्षमम् ।
क्योयुक्त च विद्वांसं विप्रं भार्यासमन्वितम् ।
वैष्णवं च कुलीनं च स्वाचारं बोधने क्षमम् ॥ इति ।
विपक्षे दोषोऽपि तत्रैवोक्तः—
विद्याहीनाद्भवेन्मूढो मन्त्रग्राही ह्यपण्डितात् ।
जातिहीनाक्षयः प्रोक्तो व्याधिनो व्याधियुक्तथा ।
वंशहीनाद्वंशहीनो भार्याहीनः स्त्रिया रहात् ।
तस्मात्सर्वप्रयत्नेन विचार्य गुरुमाचरेत् ॥ इति ।
किं च—
प्रमादाद्यदि जायेत पुंसोऽयोग्यो गुरुर्मुने ।
तं त्यक्त्वापचिति कृत्वा कुर्याद्योग्यं गुरुं पुनः ॥
प्रायश्चित्तं तु—
विप्रस्य क्षत्रियगुरौ गायत्र्या लक्षमीरितम् ।
वैश्ये तु द्विगुणं शूद्रे दशलक्ष प्रकीर्तितम् ।
क्षत्रस्य तु गुरौ वेश्य लक्षम् एव प्रकीर्तितम् ।
शूद्रे तु दशलक्षं तद्वैंश्यस्य शृणु भो मुने ।
शूद्रे गुरौ रुद्रलक्षं गायत्र्याः परिकीर्तितम् ॥ इति वारतान्तविः ।
इत्य् अर्थ इति—हरिपूजयैव सकलपापक्षयो भवत्यतः सैव कार्येति भावः । पापौघानां प्रशननं पूजनं सर्वदा हरेः इत्य्-आद्य्-उक्तेः परिचर्याया दुरितक्षय एव विभूतिर् इति भावः ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **देवस्य यजनं यत्र कुत्रचिद् भगवतः पूजा-स्थानम् एव । मण्डलं भगवतो निज-स्थान-वलयम् । संस्कारो भगवतः साक्षात्-प्राप्ति-योग्यता ॥१७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सूर्यस्येव भगवद्-विग्रहस्य यन् मण्डलं, तद् देव-यजनम्, देव-पूजा-भूमिम् । दीक्षा तन्-मन्त्रोपदेश एव आत्मनो जीवस्य संस्कारः । तन्-मन्त्र-प्रयोगस्य विभूतिर् जीव-संस्कार इत्य् अर्थः । परिचर्येति तत्-परिचर्याया जीव-दूरित-क्षय एव विभूतिः॥१७॥
॥।
॥ १२.११.१८ ॥**
भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् ।
धर्मं यशश् च भगवांश् चामर-व्यजनेऽभजत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पूर्वम् आसन-पद्मम् उक्तम् इदानीं कर-स्थं पद्मम् आह—भगवान् इति । भग-शब्दार्थम् ऐश्वर्यादि-षाड्-गुण्यम् ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥
इति स्मृत्युक्तमैश्वर्यादिषाड्गुण्यमित्य् अर्थः । उद्वहन् भवतीति शेषः । एवं सति भिन्नवाक्यत्वेन भगवच्छब्दपौनरुक्त्यं न भवतीति भगशब्दस्यार्थचतुष्कम् । लीलाकमलं दधदिति—ऐश्वर्यश्रीज्ञानवैराग्याणि प्राकृतानि लीलाकमलस्य विभूतयः, धर्मं यशच प्राकतं चामरव्यजनयोर्विभूती, परन्तु प्राकृताप्राकृतयोरभेदम् एव भावयेद् इति तात्पर्यम् ॥१८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगः प्रापञ्चिकस् तद्-अतीतश् च । लीला-कमलं तु तद्-अतीत-मयम् । तथापि द्वयोर् अभेद-मयं भावयेद् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भग-शब्दस्यार्थम् अर्थ-चतुष्कं लीला-कमलं दधद् इति लीला-कमलस्य विभूतयः ऐश्वर्य-श्री-ज्ञान-वैराग्याणि प्राकृतानि । धर्मः यशश् च प्राकृतं चामर-व्यजनयोर् विभूती ॥१८॥
॥।
॥ १२.११.१९ ॥**
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् ।
त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पुरुषम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हे द्विजाः ! एक-वचनान्तो वा पाठः । अकुतो-भयं कैवल्यं धाम गृहम् अभजत्। यद् वा, वैकुण्ठस्य विशेषणम् अकुतो-भयं यद् धामेति । त्रि-वृत् ऋग्-यजुः-साम-रूपो वेदः, सुपर्णोऽसि गरुत्मांस् त्रि-वृत्ते शिरः इत्य्-आदि मन्त्र-लिङ्गात् । यज्ञं यज्ञ-रूपं पुरुषम्, यज्ञो वै विष्णुः इति श्रुतेः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे द्विजा इति—गणापेक्षं बहुत्वं पूजायां वा । एकवचनातपाठे तु गणमुख्यशौनकविषयैव संबुद्धिर् इति मदुक्तपूजायां मुख्याधिकारो द्विजस्यैवेत्यभिप्रायः । ब्रह्मलोकः सनातनः इत्य् उक्तिमाश्रित्याह—यद्वेति । यद्यपि मन्त्रे त्रिवृत्तं शिरः इत्य् उक्तेस् त्रिवृतो वेदस्य गरुत्मच्छिरस्त्वमुक्तं तथापि मुखमर्द्धं शरीरस्य सर्वं वा मुखमुच्यते इति न्यायेन शिरसोऽपि सर्वशरीरत्वमायातीति । एतेन वेदोक्तयागादिर्गरुडस्यैव विभूतिरित्य् अर्थः । अकुतोभयं वैकुण्ठं छत्रं, लोके यन्निर्भयत्वं प्रतीयते तत्खलु छत्रस्यैव विभूतिर् इति । छत्रवत्संसारतापवारकत्वाद्वैकुण्ठस्येत्यर्थः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकुण्ठं ब्रह्म-लोकोपरिष्टाद् विकुण्ठा-सुताविर्भावितं, तत्-पदम् अस्य विराड्-अधिष्ठातुः श्री-नारायणस्य आतपत्रं भावयेद् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे द्विजाः ! अकुतो-भयं धाम वैकुण्ठम् एव आतपत्रं छत्रम् अभजद् इति लोक-गतं यत् किञ्चिन् निर्भयत्वं प्रतीयते, तत् खलु छत्रस्यैव विभूतिर् इत्य् अर्थः । त्रिवृत् ऋग्-यजुः-साम-रूपो वेदः, वेदोक्तो यागादिर् इत्य् अर्थः ॥१९॥
॥।
॥ १२.११.२० ॥**
अनपायिनी भगवती श्रीः साक्षाद् आत्मनो हरेः ।
विष्वक्सेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः ।
नन्दादयोऽष्टौ द्वाः-स्थाश् च तेऽणिमाद्या हरेर् गुणाः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनपायिनी हरेः शक्तिः । तत्र हेतुः, साक्षाद् आत्मनः स्वरूपस्य चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः । तन्त्र-मूर्तिः पञ्चरात्राद्य्-आगम-रूपः । येऽणिमादयोऽष्टौ गुणास् ते हरेर् द्वार-पाला नन्दादयः ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विष्वक्सेन इति पचरात्राद्यागमो विष्वक्सेनस्य विभूतिः । अनपायिनी नित्ययोगिनी साक्षत्स्वरूपभूता शक्तिः आह्लादिनी शक्तर्विभूतिर्लौकिकः स्वर्गाद्यानन्द ऊह्यः। तत्रानपायिनीत्वे । इत्य् अर्थ इति—शक्तिशक्तिमतोरभेदोपचाराद् इति भावः ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनेत्य् अर्धकम् । एवम्भूतानन्त-वृत्तिका या स्वरूप-शक्तिः, सा त्व् इह भगवद्-वामांश-वर्तिनी मूर्तिमती लक्ष्मीर् एवेत्य् आह—अनपायिनीति । साक्षाद् आत्मनः परम-स्वरूप-भूतस्य या हरेर् भगवती श्रीः, सैव जगतः श्रीर् इति भावनयेत्य्3 अर्थः ।4 अत्र साक्षाच्-छब्देन विलज्जमानया यस्य [भा।पु। २.५.१३] इत्य्-आद्य् उक्ता माया नेति ध्वनितम् ।
तत्रानपायित्वं, यथा श्री-हायशीर्ष-पञ्चरात्रे—
परमात्मा हरिर् देवस् तच्-छक्तिः श्रीर् इहोदिता ।
श्रीर् देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ।
न विष्णुना विना देवी न हरिः पद्मजां विना ॥ इति ।
श्री-विष्णु-पुराणे च—
नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी ।
यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ [वि।पु। १.८.१७] इति ।
तत्रैवान्यत्र—
एवं यथा जगत्-स्वामी देव-देवो जनार्दनः ।
अवतारं करोत्य् एषा तथा श्रीस् तत्-सहायिनी ॥ [वि।पु। १.९.१४०] इति ।
चिद्-रूपत्वम् अपि स्कान्दे—
अपरं त्व् अक्षरं या सा प्रकृतिर् जड-रूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णु-संश्रया ॥
ताम् अक्षरं परं प्राहुः परतः परम् अक्षरम् ।
हरिर् एवाखिल-गुण अक्षर-त्रयम् ईरितम् ॥ इति ॥२०॥ [भगवत्-सन्दर्भ ८९]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनपायिनी एक-रूपा साक्षात् स्वरूप-भूता शक्तिः । अस्याह्लादिनी-शक्तेर् विभूतिर् लौकिकः स्वर्गाद्य्-आनन्द ऊह्यः । तन्त्र-मूर्तिः पञ्चरात्राद्य्-आगम-रूपः पञ्चरात्राद्य्-आगमा विष्वक्सेनस्य विभूतय इत्य् अर्थः । हरेर् द्वाःस्था ये नन्दादयः, तेऽपि अणिमाद्या गुणा अन्य-गता विभूतयः ॥२०॥
॥।
॥ १२.११.२१ ॥**
वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् ।
अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहोऽभिधीयते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्यैव चतुर्-व्यूहोपासनाम् आह—वासुदेवादि-शब्दैः पुरुषः श्री-नारायण एव स्वयं मूर्ति-भेदैर् उपास्य इत्य् अभिधीयते ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यस्याङ्गोपागान्युक्तानि तस्यैवेत्यर्थः । वासुदेव इत्य्-आदिचतुष्टयगतश्चतुर्व्यूहः । स्वयं पुरुषो भगवानेवेत्यर्थः ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वासुदेवादयः साक्षाच् चतुर्-व्यूह-रूपा विश्वादित्वेन कल्पित-रूपा5 इति वासुदेव इत्य्-आदि-पद्य-द्वयार्थः ॥२२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वाःस्थान् उक्त्वा दिक्-चतुष्टय-गतांश् चतुरो व्यूहान् आह—वासुदेव इत्य्-आदि । मूर्ति-समूहः । स्वयं पुरुषो भगवान् एवेत्य् अन्वयः ॥२१॥
॥।
॥ १२.११.२२ ॥**
स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः ।
अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्यैवाध्यात्मनि चतुर्धोपासनाम् आह—स एव भगवान् विश्वादि-शब्दैर् वृत्तिभिर् जाग्रद्-आद्य्-अवस्थाभिः परिभाव्यते । तद्-वृत्त्य्-उपाधीन् आह—अर्था बाह्याः । इन्द्रियं मनः । आशयस् तद् उभय-संस्कार-युक्तम् अज्ञानम् । ज्ञानं त्रितय-साक्षि तैः ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अध्यात्मनि चक्षुरादिकरणाभिमानिनि जीवे । परिभाव्यते परिचिन्त्यते । तद्वृत्त्युपाधीन् जाग्रदादिवृत्युपाधीन् । तथा चेन्द्रियैरर्थावभासकजाग्रदवस्थायां विश्व इति, मनोमात्रावभास्यस्वप्नावस्थायां तैजस इति अज्ञानोपलक्षितसुषुप्त्यवस्थायां प्राज्ञ इति त्रयस्य जाग्रदादित्रयस्य साक्षि यज्ज्ञानं तच् च चैतन्यं, स एव तुरीय इति एतैरित्य् अर्थः । चतुर्णां व्यूहानां विभूतीराह—उभयसंस्कारयुक्तम् । सुखमहमस्वाप्सम् इति सुखम् न किञ्चिदवेदिषम् इत्याकारकं ज्ञानञ्चेत्युभयं तैर्विश्व इत्य्-आद्या वृत्तयस्ताभिर्भगवानेव परिचिन्त्यन्ते चतुर्णां व्यूहानाम् एव विश्वाद्याश्चतस्रो वृत्तयो नियम्या विभूतय इति भावः । तत्र वासुदेवस्य विश्वः, सङ्कर्षणस्य तैजसः, प्रद्युम्नस्य प्राज्ञः, अनिरुद्धस्य तुरीयो ज्ञानम् इति भेदः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्णां व्यूहानां विभूतीर् आह—स इति । अर्थाद्या इन्द्रियं मनः, आशयस् तद्-उभय-संस्कार-युक्तम् । सुखम् अहम् अस्वाप्सम् इति सुखं न किञ्चिद् अवेदिषम् इत्य् आकारकम् अज्ञानं च, तथा ज्ञानं चेति तैर् या विश्व इत्य् आद्या वृत्तयस् ताभिः स भगवान् एव परिभाव्यते परिचिन्त्यते, चतुर्णां व्यूहानाम् एव विश्वाद्याश् चतस्रो वृत्तयो नियम्या विभूतय इति भावः । अत्र वासुदेवस्य विश्वः । सङ्कर्षणस्य तैजसः । प्रद्युम्नस्य प्राज्ञः । अनिरुद्धस्य तुरीयो ज्ञानम् इति विभूतयो विवेचनीयाः ॥२२॥
॥।
॥ १२.११.२३ ॥**
अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् ।
बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उक्त-चतुर्-व्यूह-द्वयोपासनेऽपि पूर्वोक्त-भङ्गाद्य्-उपासनम् आह—अङ्गेति । अङ्गादिभिर् उपालक्षितो भगवान् हरिर् वासुदेवादि-चतुर्-मूर्तिः सन् विश्वादि-चतुष्टयं बिभर्ति स्म । विश्वादि-भावेऽपि तन् नियन्तुस् तस्य न जीवत्वम् इत्य् आह—विश्वादि-चतुष्टयं बिभ्रद् अपि भगवान् ईश्वर एवेति ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तन्नियतुर्विश्वादिनियन्तुः । अङ्गोपाङ्गादिमाहितस्य वासुदेवस्य विश्व इत्येव विभूतिः । सङ्कर्षणादीनां तैजसाद्या विभूतयः । हरि-भक्ताघहन्ता । इश्वरो विश्वादिनियता ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तेषाम् अर्थादीनां चतुष्टयम् अङ्गादि-रूपेण बिभर्त्तीति अङ्गाद्य्-अभेदेनार्थादयोऽप्य् उपास्या इत्य् अर्थः ॥२३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यञ्जितम् एवार्थं स्पष्टयति अङ्गादिभिः सहित एव चतुर्-मूर्तिर् भगवान् चतुष्टयं विश्वादि-चतुष्कं नियामकतया बिभर्ति । अङ्गोपाङ्गायुधाकल्प-सहितस्यैव वासुदेवस्य विभूतिर् विश्वम् इत्य् एवम् एव सङ्कर्षणादीनां तैजसाद्या विभूतयः । हरिर् इत्य् उपासकानां दुरित-हर्ता ईश्वरो विश्वादीनां नियन्ता ॥२३॥
॥।
॥ १२.११.२४ ॥**
द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक्
स्व-महिम-परिपूर्णो मायया च स्वयैतत् ।
सृजति हरति पातीत्य् आख्ययानावृताक्षो
विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्यैव ब्रह्मादि-त्रि-मूर्तिताम् आह—द्विज-ऋषभेति । स एष एक एव भगवान् ब्रह्म-योनिर् वेदस्य कारणम् इत्य्-आदि-हेतु-त्रयम् । वस्तुतो भेदाभावेऽप्य् एतज् जगत् स्व-गत-मायया सृजति हरति पातीति कृत्वाख्यया ब्रह्मादि-रूपयानावृताक्षोऽनाच्छन्न-ज्ञानोऽपि विवृत इव भिन्न इव निरुक्तः शास्त्रेषु न तु भिन्नः । अत्र विद्वद् अनुभवं प्रमाणयति, यतस् तत् परैर् आत्मत्वेनेव लभ्यत इति ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे द्विजऋषभेति—ऋत्यकः इति ह्रस्वे प्रकृतिभावः । भगवद्-उपासकत्वेन त्वं ब्राह्मणश्रेष्ठोऽसि ब्राह्मणो जन्मना श्रेयान्किमु मत्कलया पुनः इतिः श्री-मुखोक्तेर् इति संबुद्धेर्भावः। स्वशक्तिरूपेण स्वस्मिन्प्राप्तया मायया । त्वत्प्रसादब्लधज्ञानेन त्वत्परायणैः भक्त्याहम् एकया लभ्यः इत्यायुक्तेर् आत्म रूपेणैव त्वं प्राप्यस इत्याशयः । चतुर्व्यूहमुक्त्वा त्रिमूर्तिताम् आह—योनिः प्रकाशकः। न चास्य कोऽपि प्रकाशक इत्याह—स्वयंदृक् स्वयंप्रकाशकः । न चास्य राज्ञश्चैश्वर्यार्थं प्रकृत्यपेक्षेत्याह—स्वमहिमपरिपूर्णः, किन्तु क्रीडार्थम् एव स्वया शक्त्या मायया ब्रह्मादिनाम्ना सृजतीत्यादि, इत्येवमनावृताक्षोऽपि अपरिच्छिन्न ज्ञानोपि विवृत इव कृतविवरण इव निरुक्त इव । वस्तुतस्तु—निर्वक्तुं विवरितुं ब्रह्मादिभिरशक्य एव इति भावः। तर्हि किमर्थमेतावानायासः कृतस्तत्राह—तत्परैस्तद्भक्तैरेवात्मना मनसा लभ्य एतादृशध्यानेनेति भावः । तत्र तत्पादानां विभूतिभिः पृथिव्याद्यैर्दृष्टस्मृतादिभिर् एव तत्पादादिस्मरणं सुखेन भवेत् । तथा हि—सदाध्येयस्य मत्प्रभोश्चरणस्यैव विभूतिरियं पृथ्वी सदा श्रयतेऽतः पृथ्व्याश्रिताः स्थिरजङ्गमा मत्प्रभोश्चरणा श्रिता एव, ते मया संमान्या एव न तु द्वेष्यास् तथा तद्वक्षस्थकौस्तुभस्य सर्वेऽपि जीवा विभूतयोऽतस्तेषाम् एकोऽपि मया द्वेष्टुं न युज्यत इत्येवंभावनैवात्र फलं दृश्यम् इति विश्वनाथः ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्मै ते उपासन-भेदास् तन्-माहात्म्यं दर्शयति—द्विजेति । ब्रह्म-योनित्वादि-त्रयेण स्वरूप-शक्तिर् दर्शिता । तत्र माया-दोषेण लिप्तत्वम् आशङ्क्याह—मायया चानावृताक्ष इति । तत्र हेतुः—स्वया स्वाधीनयेति । मायां विशिनष्टि—एतद् विश्वं सृजतीत्य् आद्या ख्यातिः विख्यातिर् यया एवम्-भूताचिन्त्य-माहात्म्योऽपि तत्-परैर् भक्तैर् विवृत इव कर-कलित इव निरुक्तः प्रतिपादितः । यतस् तैर् आत्मनि चित्ते लभ्यः अनुभवितुं शक्य इति ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य चतुर्-मूर्तिताम् उक्त्वा त्रि-मूर्तिताम् आह—हे द्विजर्षभ ! एष भगवान् ब्रह्मणो वेदस्य योनिः प्रकाशकः, न चास्य कोऽपि प्रकाशक इत्य् आह—स्वयं-दृक् स्व-प्रकाशः । न चास्य राज्ञः इवैश्वर्यार्थं प्रकृत्य्-अपेक्षेत्य् आह—स्व-महिम-पूर्णः । किन्तु क्रीडार्थम् एव स्वया स्व-शक्त्या मायया मायाख्यया ब्रह्मादि-नाम्ना सृजति पातीत्य् एवम्, अनावृताक्षोऽपि अपरिछिन्न-ज्ञानोऽपि मायया विवृत इव कृत-विवरण इव, निरुक्त इव । वस्तुतस् तु निर्वक्तुं विवरितुं ब्रह्मादिभिर् अप्य् अयम् अशक्य एवेति भावः ।
तर्हि किम्-अर्थम् एतावान् आयासः कृतः ? तत्राह—तत्-परैस् तद्-भक्त-जनैर् आत्मना मनसा एतादृश-ध्यानेन लभ्य इति । अत्र तत्-पादादीनां विभूतिभिः पृथिव्य्-आदिभिर् दृष्ट-स्मृतादिभिर् एव तत्-पादादि-स्मरणं सुखेन भवेत् । तथा हि सर्वदा ध्येयस्य मत्-प्रभोश् चरणस्यैव विभूतिर् इयं पृथ्वी सर्वदा दृश्यते, अतः पृथ्वीम् आश्रिताः स्थावर-जङ्गमा मत्-प्रभोश् चरणाश्रिता एव ते मया सम्माननीया एव, न तु द्वेष्टव्याः । तथा मत्-प्रभोर् वक्षसि वृतस्य कौस्तुभस्य विभूतयः सर्वेऽपि जीवाः, अतस् तेषाम् एकोऽपि मया द्वेष्टुं निन्दितुं वा न युज्यत इत्य् एवं भावनैवात्र फलं द्रष्टव्यम् ॥२४॥
॥।
॥ १२.११.२५ ॥**
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गोप-वनिता-व्रज-भृत्य-गीत-
तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्येदम् उपासनम् उक्तं तं श्री-कृष्णं प्रार्थयते—कृष्ण-सख ! अर्जुनस्य सखे ! वृष्णि-श्रेष्ठ ! अवनि-द्रुहो ये राजन्याः, तेषां वंशस्य दहन । अनपवर्गम् अक्षीणं वीर्यं यस्य । गोप-वनितानां व्रजाः समूहा भृत्या नारदादयस् तैर् गीतं तीर्थ-भूतं श्रवः कीर्तिर् यस्य । श्रवणम् एव मङ्गलं यस्य ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **गोपवनितागीतं तु—जयति तेऽधिकं जन्मना व्रजः इत्य्-आदिना, वामबाहुकृतवामकपोलः इत्य्-आदिना, बर्हापीडं नटवरवपुः इत्य्-आदिना । नारदगीतं सप्तमस्कन्धादिषु प्रसिद्धम् । आदिना सनकादिग्रहः । संबुद्ध्यभिप्रायाः कुन्तीस्तुतौ प्रथमस्कन्धे वर्णिता अपि पुनर् अपि किञ्चिद्वर्ण्यन्ते—कृष्यते निजसमीपं प्राप्यते भक्तजनोऽनेनेति कृष्णः, श्रीः राधा तया सहितः श्री-कृष्णः । अहो स्वासिन् श्रीराधया सह त्वया विहारः केवलं मु (भु) क्तगोपीजनानां निजसमीपाकर्षणार्थम् एव यथा कृतस् तथाधुना ममाप्याकर्षणं कुर्व् इति भावः । अन्त्र हेतुत्वेन सम्बुद्ध्यन्तरम् आह—यतस् त्वं कृष्णसखोसीति—कष्यते विषयैर् इति कृष्णो जीवस्तस्य सखा हितैषी अतो मां जीवमप्युद्धरेति भावः । तत्रैव हेत्वन्तरम्—वृष्ण्यृषभेति। वर्षान्ति निजाभिलषितम् इति वृष्णयो वदान्या देवास्तेषु श्रेष्ठोसीति विश्वाभिलषितपूरकस्य तव ममाभिलषितपूरणं न दुर्घटम् इति भावः । अत्र हेतुत्वेन सम्बुद्ध्यन्तरम् आह—अवनिध्रुग्राजन्यवंशः । कंसनरकासुरादिसमूहस्तस्य दहनेऽक्षीणप्रभावोऽसीति सर्वलोकहितार्तं यथा त्वया दुंष्टा नाशितास् तथा मदज्ञानम् अपि नाशयेति भावः । शास्त्रप्रतिपाद्यं कमप्यन्यमाश्रयाहं तु वसुदेवनन्दनोऽस्मीति चेत्तत्राह—गोविन्देति । गोभिर्गीभिर्वेदलक्षणाभिर्विद्यते विचार्यत इति गोविन्दः । सर्वे वेदा यत्पदमामनन्ति इति श्रुतेस् त्वम् एव सर्वशास्त्रप्रतिपाद्योऽसीति भावः। यद्यप्यन्ये देवा अपि होतारमिन्द्रमवितारमिन्द्रम् इति, अग्निमीतिपुरोहितम् इत्य्-आदिना वेदेन प्रतिपाद्यन्ते तथापि ते न किन्तु स्मरणादि मङ्गलाः श्रवणमङ्गला सन्ति त्वन्तु श्रवणेनैव मङ्गलं करोषीति भावः । भृत्यान् भरितुं योग्यान् । विश्वम्भरस्य ते सर्वे एव भृत्यास्तदन्तर्गतोऽहमप्यतो माम् अपि पाहीति भावः । यदंशस्य विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति गीतोक्तेरुपासनमुक्तम् । तं श्री-कृष्णं स्वेष्टदेवं परिचाययन्प्रार्थयते— श्री-कृष्णेति । कृष्णस्यार्जुनस्य सखेति पाण्वेषु स्नेहः स्ववशीकारकः, वृष्ण्यृषभेति यादवेषु च, तत्र किं द्योतकं तत्राह—अवनिद्रुहो ये राजन्यास्तेषां वंशस्य दहनम् । यद् वा, त एव वंशास्तत्परस्परसंमर्दोत्थवह्ने, तेन पाण्डवानां यादवानां च वैरिणः संहृत्य तेषां पालक इति । अनपवर्गमक्षीणं वीर्यं पराक्रमो यस्माद् इति पाण्डवान्यादवांश् च यो भवान्सर्वजयिनश्चकारेति भावः । गोविन्देति व्रजस्थलोकेषु ततोऽप्यतिस्नेहस्तत्र किं द्योतकं तत्राह—गोपवनितानां व्रजस्य समूहस्य यो भृत्यः आसामहो चरणरेणुजुषामहं स्याम् इत्य् उक्त्यैवाभिप्सितभृत्यभाव उद्धवस्तेन गीतम् । ता नमस्यन्निदं जगौ इति श्रीशुकोक्तेर्यगीतं तीर्थं जगत्पावनं श्रवो यशस्तद् एव श्रवणमङ्गलं कर्णसुखदं यस्य हे तथाभूत ॥२५॥
———————————————————————————————————————
**श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : **यस्येदम् उपासनम् उक्तं, स तु श्री-कृष्ण एवेति स्तौति—श्री-कृष्णेत्य्-आदि । गोप-वनिताश् च नारदाद्याश् च तैर् गीतं तीर्थ-भूतम् एव यशो यस्य ॥२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् एव नामादि-ग्रहणेन स्पष्टयन् प्रार्थयते । यद् वा, मम त्व् ईदृश एव पुरुषार्थ इति व्यञ्जयंस् तादृशम् एव तं प्रार्थयते—श्री-कृष्णेति । तत्र श्री-कृष्ण-सखेत्य्-आदिना पुर-लीला, गोविन्देत्य्-आदिना व्रज-लीला । तत्र व्रज-लीलाया व्यत्ययेनान्ते निर्देशात् तत्रैव निज-स्थितिर् दर्शिता तीर्थेत्य्-आदिना तद् वयम् इमे गोपाश् च वनितास् तद्-अङ्गनाश् च व्रजस् तत्र-स्था अन्ये च भृत्यास् तद्-उपासकाश् च तैर् गीतेति विग्रहः, वर्तमाने क्तः । भृत्यान् तन्-मार्गे बद्ध-श्रद्धान् अस्मान् स्वयम् एव तत् सिद्धिं संपादयेति । एवं श्री-भागवत-श्रवणेन कृतं साधन-साध्य-नैयत्यं6 दर्शितम् ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्-ंशस्येदम् उपासनम् उक्तं तं श्री-कृष्णं स्वेष्ट-देवं परिचाययन् प्रार्थयते—श्री-कृष्णेति । कृष्णस्यार्जुनस्य सखे इति पाण्डवेषु स्नेहः स्व-वशीकारकः, वृष्ण्य्-ऋषभेति यादवेषु । तत्र किं द्योतकम् ? इत्य् अत आह—अवनि-द्रुहो ये राजन्यास् तेषां वंशस्य दहन । यद् वा, त एव वंशास् तत्-परस्पर-सम्मर्दोत्थ-वह्ने । तेन पाण्डवानां यादवानां च वैरिणः संहृत्य तेषां पालक इति । अनपवर्गम् अक्षीणं वीर्यं पराक्रमो यस्माद् इति पाण्डवान् यादवांश् च यो भवान् सर्व-जयिनश् चकारेति भावः । गोविन्देति व्रज-स्थ-लोकेषु ततोऽप्य् अतिस्नेहः । तत्र किं द्योतकम् इत्य् अत आह—गोप-वनितानां व्रजस्य समूहस्य यो भृत्यः—आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां [भा।पु। १०.४७.६१] इत्य् उक्त्वैवाभीप्सित-भृत्य-भाव उद्धवस् तेन गीतं, ता मनस्यन्न् इदं जगौ [भा।पु। १०.४७.५३] इति श्री-शुकोक्तेर् यद् गीतं तीर्थं जगत्-पावनं श्रवो यशस् तद् एव श्रवण-मङ्गलं कर्ण-सुख-प्रदं यस्य हे तथा-भूत ! ॥२५॥
॥।
॥ १२.११.२६ ॥**
य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् ।
तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतज् जप-मात्रस्यापि ब्रह्म-ज्ञानं फलम् इत्य् आह—य इति । कल्ये उषः-काले यस् तच् चित्तः प्रयतः शुचिश् च स जप्त्वा गुहाशयं हृदि-स्थं ब्रह्म पश्यति ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रत्यूषोऽहर्मुखं कल्यम् इत्य् अमरः । अन्तस्थवदिदं पदं न पवर्गवद् इति । महापुरुषो विराट् तत्र लक्ष्यतेन्तर्यामितयेति तथा । गुहायां हृदये शेते तिष्ठतीति गुहाशयम् यो वेद निहितं गुहायाम् इति श्रुतेः । प्रयतः पवित्रः सन् पवित्रः प्रयतः पूतः इत्य् अमरः ॥२६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्म श्री-भगवत्-तत्त्वं । गुहाशयं दुरूहम् अपि ॥२६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : य इदं महा-पुरुष-लक्षणं ब्रह्म-तत्त्व-स्वरूपं जप्त्वा वेद स गुहाशयं परमात्मनम् एव वेदेत्य् अन्वयः ॥२६॥
॥।
॥ १२.११.२७-२८ ॥**
श्री-शौनक उवाच—
शुको यद् आह भगवान् विष्णु-राताय शृण्वते ।
सौरो गणो मासि मासि नाना वसति सप्तकः ॥**
तेषां नामानि कर्माणि संयुक्तानाम् अधीश्वरैः ।
ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मण्डलं देव-यजनम् इत्य् उक्त्या बुद्धिम् आगतो मूर्ति-व्यूह-प्रसङ्गेन रवि-व्यूहोऽत्र पृच्छ्यते, शुक इति । पञ्चमे यद् आह—
तथान्ये च ऋषयो गन्धर्वा अप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणः सप्त [भा।पु। ५.२१.१८] इत्य्-आदिना ।
सौरः सूर्य-संबन्धी । सप्तकः सप्तानां गणः । तेषां सप्तानाम् अधीश्वरैस् तत् तत् पतिभिस् तत् तन् मासाधिकृत-सूर्यैर् वा व्यूहं विभागम् ॥२७-२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सप्तानां सम्बन्धी सप्तकः । अत्र सम्बन्धे कः । हन्तानेन शुकपरीक्षित्संवादमयं श्री-भागवतशास्त्रमस्मत्पूर्वपुरुषमार्कण्डेयं तदनुष्ठितभगवत्पूजनतत्त्वं च मत्प्रश्नानुरोधादुक्तमिदानीमस्य श्री-भागवतस्य तद्विषयस्य भगवतश् च दृष्टान्तः सूर्यः कृतः—
कृष्णे स्वधामोपगते धर्मज्ञाना दिभिः सह ।
कलौ नष्टदृशामेषः पुराणार्कोऽधुनोदितः ॥
इति तद्-उक्त्या कृष्णद्युमणिनिम्लोचे इत्युद्धवोक्त्या चावगतस् तं द्वादशात्मकं ग्रहराजमधुना द्वादश-स्कन्धात्मकं पुराणराजसमाप्त्यवसरे प्रस्तावयितुमर्हामीति परामृश्याह शुक इति सर्वमन्यत्समम् ॥ अधीश्वरैः संयुक्तानामित्यनेन तेषां प्रत्येकं स्वस्वपतिसाहित्येन द्वन्द्वं ज्ञेयम्, । अत एव द्वादशः सप्त पृथक् चतुर्दश इति पञ्चमस्कन्धोक्तिः संगच्छते । सूर्यस्यापि स्वनियन्त्रन्तर्यामिसाहित्येन द्वन्द्वं ज्ञेयम् इति बालबोधिन्याम् । यश्वासौ पुरुषे यश्चादित्ये इत्य्-आदिश्रुतेः । अधीश्वराप्रसिद्धिमालक्ष्याह—तत्तन्मासाधिकृतसूर्येवेति । व्यहस्स्याद्वलविन्यासे निर्माणे तर्कवृन्दयोः । विभागे निर्वितर्के च इति कोशात् ॥२७-२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **शुक इति युग्मकम् । ननु, श्रुत-भागवत-तत्त्वस्य तव सूर्य-गण-श्रवणे कोऽयम् आग्रहः ? तत्राह—सूर्यस्यात्मा अन्तर्यामी हरिः, तस्यैव व्यूहम् । तत्रैव पर्यवसानाद् इति भावः । इति गायत्र्य्-उपासना-तात्पर्यं7 व्यञ्जितम् ॥२७-२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्तानेन शुक-परीक्षित्-संवादम् अयं श्री-भागवत-शास्त्रम् अस्मभ्यं कथितं तद्-अनन्तरम् अस्मत्-पूर्व-पुरुषस्य मार्कण्डेयस्य चरितं तद्-अनुष्ठित-भगवत्-पूजन-तत्त्वं चास्मत्-प्रश्नानुरोधाद् उक्तम् । इदानीं यस्य श्री-भागवतस्य तद्-विषयस्य स्वयं भगवतश् च दृष्टान्तः श्री-सूर्यः—
कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥ [भा।पु। १.३.४४]
इत्य् एतद् उक्त्वा, कृष्ण-द्युमणि निम्लोचे [भा।पु। ३.२.७] इत्य् उद्धवोक्त्या चावगतस् तं द्वादशात्मकं सकल-ग्रह-राजम् अधुना द्वादश-स्कन्धात्मक-पुराण-राज-समाप्ति-समये प्रस्तावयितुम् अहम् अर्हामीति मनसि परामृश्याह—शुक इति । पञ्चमे यदाह—
तथान्ये च ऋषयो गन्धर्वा अप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणः सप्त [भा।पु। ५.२१.१८] इत्य्-आदिना ।
सौरः सूर्य-संबन्धी । अधीश्वरैर् अधीश्वरेण परमेश्वरेण इत्य् अर्थः । नन्व् अलं सूर्य-विषयकेण प्रश्नेन, तत्राह—सूर्यात्मनः सूर्य-स्वरूपस्य हरेर् एव व्यूहं ब्रूहि ॥२७-२८॥
॥।
॥ १२.११.२९ ॥**
सूत उवाच—
अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् ।
निर्मितो लोक-तन्त्रोऽयं लोकेषु परिवर्तते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र तावत् व्यूहं निरूपयितुं प्रथमं सूर्य-स्वरूपम् आह—अनाद्य्-अविद्यया मायया । अयं सूर्यः । लोक-यात्रा-प्रवर्तकः ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनाद्यविद्यया मायाकार्यत्वादविद्याया अपि मायात्वम् । विद्याविद्ये मम तनू इत्यारम्य मायया मे विनिर्मिते इत्य्-उक्तेः । लोकं तन्त्रयति धारयतीति तथा । निर्मितः पृथक्त्वेन प्रकाशितः ॥२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनादिर् अविद्या या, तया मायया विष्णोर् एव सकाशान् निर्गतोऽयं सूर्यः ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सच्-चिद्-आनन्द-स्वरूपस्य स्वयं भगवतः कृष्णस्य श्री-भागवतस्य च दृष्टान्ती-भूतोऽयं सूर्यः प्राकृतो भवितुं नार्हतीति मा मंस्था इत्य् आह—अनाद्य्-अविद्ययेति सर्व-देहिनाम् आत्मनो विष्णोर् एवायं निर्मितः विष्णुर् नैवायं स्व-तेजो-मूर्तिः सूर्योऽनाद्य्-अविद्यया मायया निर्मितः लोक-तन्त्रः लोक-यात्रा-प्रवर्तकः ॥२९॥
॥।
॥ १२.११.३० ॥**
एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः ।
सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतस् तस्य क्रिया-भेदोपाधिकम् एव नानात्वं, न स्वत इत्य् आह—एक एवेति । सूर्य आत्मा जगतस् तस्थुषश् च [ऋ।वे। १.११५.७] इति श्रुतेः । जगद्-आत्मा आदि-कृत् सृष्टि-कर्ता हरिर् एव सूर्यः, स च सर्वासां वेदोक्त-क्रियाणां मूलं संस् तेनोपाधिना बहुधोक्तः ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतः सूर्यो वस्तुत एको हरिरूपत्वादतो हेतोस्तस्य सूर्यस्य क्रियाभेदो नानावैदिकक्रियाभेदस्तदुपाधिकम् एव नानात्वम् । जगतो जङ्गमस्य तस्थुषः स्थावरस्यात्मेति श्रुतिपदार्थः । अजहल्लिङ्गत्वान्मूलशब्दस्य तत्पुरुषस्य परवल्लिङ्गत्वात्क्लीबत्वम् ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अतस् तद्-अनन्यत्व-न्यायेन हरिर् एव सूर्यः । हरेर् विशेषणं लोकानाम् एक एवात्मा इत्य्-आदि । अत एव सूर्योऽपि तेषाम् आत्मादिर् इत्य् अर्थः ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एक एव लोकानाम् आत्मा हरिः सूर्यो बहुधा द्वादशधा उक्तः ॥३०॥
॥।
॥ १२.११.३१ ॥**
कालो देशः क्रिया कर्ता करणं कार्यम् आगमः ।
द्रव्यं फलम् इति ब्रह्मन् नवधोक्तोऽजया हरिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काल-रूप-धारिणो हरेर् द्वादशादित्य-रूपं भेदं क्रियोपाधिकं दर्शयितुं प्रथमं सर्व-कर्म-प्रवृत्तये माया-कृतं नवधा भेदम् आह—काल इति । कालः प्रातरादिः । देशः समादिः । क्रिया अनुष्ठानम् । कर्ता ब्राह्मणादिः । करणं स्रुग्-आदिः । कार्यं यागादि । आगमो मन्त्रादिः । द्रव्यं व्रीह्य्-आदि । फलं स्वर्गादि ॥३१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिपदग्राह्यान् क्रमत आह—मध्याह्नादि १, शुच्यादि २, क्रिया अनुष्ठानम् ३, क्षत्रियादि ४, स्त्रुवप्रणोतादि ५, इष्टिसत्रादि ६, ब्राह्मणादि-क्रमादि ७, गोधूमादि ८, चित्तशुद्व्यादीति ९ ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न केवलं सूर्य-रूपेण बहुधा कर्म-प्रवर्तनार्थं कालादि-रूपेणापि बहुधेत्य् आह—काल इति । कालः प्रातर्-आदिः । देशः वेदिकादिः । क्रिया अनुष्ठानम् । कर्ता ब्राह्मणादिः । करणं स्रुग्-आदिः । कार्यं यागादि । आगमो मन्त्रादिः । द्रव्यं व्रीह्य्-आदि । फलं स्वर्गादि ॥३१॥
॥।
॥ १२.११.३२ ॥**
मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् ।
लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र च काल-स्वरूप-धारी भगवान् पृथक् चरति । मध्व्-आदिषु चैत्रादिषु । लोक-तन्त्राय लोक-यात्रा-निर्वाहाय ॥३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र नवसु । भगवान्सूर्यः ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-रूप-धारी भगवान् एव सूर्य-रूपः सन् । लोक-तन्त्राय लोक-यात्रा-निर्वाहणाय ॥३२॥
॥।
॥ १२.११.३३ ॥**
धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने ।
पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तान् एव गणान् आह—धातेति द्वादशभिः । धाता सूर्यः । कृत-स्थली अप्सराः । हेती राक्षसः । वासुकिर् नागः । रथकृद् यक्षः । पुलस्त्य ऋषिः । तुम्बुरुर् गन्धर्वः । मधु-मासं चैत्रम् । नयन्त्य् अनुवर्तयन्ति ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्याच् चैत्रे चैत्रिको मधुः इत्य् अमरः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौरो गणो मासिमासीति यत् पृष्टं, तत्र प्रथमं चैत्र-मासस्य सप्तकम् आह—धाता सूर्यः । कृत-स्थली अप्सराः, हेतिः राक्षसः, वासुकिर् नागः, रथकृत् यक्षः, पुलस्त्यः ऋषिः, तुम्बुरुर् गन्धर्वः ॥३३॥
॥।
॥ १२.११.३४ ॥**
अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली ।
नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथौजा यक्षः । प्रहेती राक्षसः । नारदो गन्धर्वः । कच्छनीरो नागः । माधवं वैशाखम् ॥३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वैशाखे माधवो राधः इत्य् अमरः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्यमा **सूर्यः । पुलह ऋषिः । अथौजा यक्षः । प्रहेती राक्षसः । पुञ्जिक-स्थली अप्सराः । नारदो गन्धर्वः । कच्छनीरो नागः । माधवं वैशाखम् ॥३४॥
॥।
॥ १२.११.३५ ॥**
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः ।
रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मित्रः सूर्यः । पौरुषेयो राक्षसः । रथस्वनो यक्षः । शुक्र-मासं ज्येष्ठम् ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ज्येष्ठे शुक्रः इत्य् अमरः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मित्रः सूर्यः । अत्रिर् मुनिः । पौरुषेयो राक्षसः । तक्षको नागः । मेनका अप्सराः । हाहा गन्धर्वः । रथस्वनो यक्षः । शुक्र-मासं ज्येष्ठम् ॥३५॥
॥।
॥ १२.११.३६ ॥**
वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः ।
शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वरुणः सूर्यः । सहजन्यो यक्षः । शुक्रो नागः । चित्रस्वनो राक्षसः । शुचि-मासम् आषाढम् ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शुचिस्त्वयम् । आषाढे इत्य् अमरः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वशिष्ठो मुनिः । वरुणः सूर्यः । सहजन्यो राक्षसः । हुहूर् गन्धर्वः । शुक्रो नागः । चित्रस्वनो यक्षः । शुचि-मासम् आषाढम् ॥३६॥
॥।
॥ १२.११.३७ ॥**
इन्द्रो विश्वावसुः श्रोता एला-पत्रस् तथाङ्गिराः ।
प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इन्द्रः सूर्यः । विश्वावसुर् गन्धर्वः । श्रोता यक्षः । एलापत्रो नागः । वर्यो राक्षस इति स्वयम् एव व्याख्यातम् । नभो-मासं श्रावणम् ॥३७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **श्रवणे तु स्यान्नभाः इत्य् अमरः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इन्द्रः सूर्यः । विश्वावसुर् गन्धर्वः । श्रोता यक्षः । एलापत्रो नागः । अङ्गिरा मुनिः । प्रम्लोचा अप्सराः । वर्यो राक्षसः । इति स्वयम् एव व्याख्यातम् । नभो-मासं श्रावणम् ॥३७॥
॥।
॥ १२.११.३८ ॥**
विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः ।
अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विवस्वान् सूर्यः । उग्रसेनो गन्धर्वः । व्याघ्रो राक्षसः । आसारणो यक्षः । शङ्खपालो नागः । नभस्याख्यं भाद्र-पदम् ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्युर्नभस्ये प्रौष्ठपदभाद्रभाद्रपदाः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विवस्वान् सूर्यः । उग्रसेनो गन्धर्वः । व्याघ्रो राक्षसः । आसारणो यक्षः । भृगुर् मुनिः । अनुम्लोचा अप्सराः । शङ्खपालो नागः । नभस्याख्यं भाद्र-पदम् ॥३८॥
॥।
॥ १२.११.३९ ॥**
पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा ।
घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धनञ्जयो नागः । वातो राक्षसः । सुषेणो गन्धर्वः । सुरुचिर् यक्षः । तपो-मासं माघम् । मास-क्रमाति-लङ्घ्रनं कौर्मोक्तादित्यानुक्रमानुसारेण । वैष्णवे तु मास-क्रमेणोक्तिः । क्वचिन् नामव्यत्ययस् तु कल्प-भेदेनेति ज्ञेयम् ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदा माघे इत्य् अमरः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पूषा सूर्यः । धनञ्जयो नागः । वातो राक्षसः । सुषेणो गन्धर्वः । सुरुचिर् यक्षः । घृताची अप्सरा । गौतमो मुनिः । तपो-मासं माघः ॥३९॥
॥।
॥ १२.११.४० ॥**
ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋतुर् यक्षः । वर्चा राक्षसः । पर्जन्यः सूर्यः । सेनजिद् अप्सराः । विश्वो गन्धर्वः । ऐरावतो नागः । तपस्याख्यं फाल्गुनम् ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्यात्तपस्यः फाल्गुनिकः इत्य् अमरः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋतुर् यक्षः । वर्चा राक्षसः । भरद्वाजो मुनिः । पर्जन्यः सूर्यः । श्येनजिद् अप्सराः । विश्वो गन्धर्वः । ऐरावतो नागः । तपस्याख्यं फाल्गुनम् ॥४०॥
॥।
॥ १२.११.४१ ॥**
अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी ।
विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अंशुः सूर्यः । अंश इति वा पाठः । तार्क्ष्यो यक्षः । ऋतसेनो गन्धर्वः । विद्युच्छत्रू राक्षसः । महाशङ्खो नागः । सहो-मासं मार्ग-शीर्षम् ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मार्गशीर्ष सहा मार्गः इत्य् अमरः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अंशुः सूर्यः । अंश इति च पाठः । कश्यपो मुनिः । तार्क्ष्यो यक्षः । ऋतसेनो गन्धर्वः । उर्वशी अपराः । विद्युच्छत्रू राक्षसः । महाशङ्खो नागः । सहो-मासं मार्ग-शीर्षम् ॥४१॥
॥।
॥ १२.११.४२ ॥**
भगः स्फूर्जोऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः ।
कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भगः सूर्यः । स्फूर्जो राक्षसः । अरिष्टनेमिर् गन्धर्वः । ऊर्णो यक्षः आयुर् ऋषिः । कर्कोटको नागः ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुष्यमासं पुष्यनक्षत्रोपलक्षितपूर्णिमायुतमासं, पौषमित्य् अर्थः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगः सूर्यः । स्फूर्जो राक्षसः । अरिष्टनेमिर् गन्धर्वः । ऊर्णो यक्षः । कर्कोटको नागः । पूर्वचित्तिर् अप्सराः । पुष्यं पौषम् ॥४२॥
॥।
॥ १२.११.४३ ॥**
त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्-भराः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वष्टा सूर्यः । ऋचीक-तनयो जमदग्निः । कम्बलो नागः । ब्रह्मापेतो राक्षसः । शतजिद् यक्षः । धृतराष्ट्रो गन्धर्वः । इषम्-भरा आश्विन-पालकाः ॥४३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्यादाश्विन इषोऽप्याश्वयुजोऽपि इत्य् अमरः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **त्वष्टा सूर्यः । ऋचीक-तनयो जमदग्निर् मुनिः । कम्बलाश्वो नागः । तिलोत्तमा अप्सराः । ब्रह्मापेतो राक्षसः । शतजिद् यक्षः । धृतराष्ट्रो गन्धर्वः । इषम्-भरा एते आश्विन-पालकाः ॥४३॥
॥।
॥ १२.११.४४ ॥**
विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विष्णुर् आदित्यः । अश्वतरो नागः । सूर्यवर्चा गन्धर्वः । सत्यजिद् यक्षः । मखापेतो राक्षसः । ऊर्ज-मासं कार्तिक-मासम् । एते चादित्य्-आदयः कौर्मे विभज्योक्ताः,
धातार्यमा च मित्रश् च वरूणश् चेन्द्र एव च ।
विवस्वान् अथ पूषा च पर्जन्यश् चांशुर् एव च ।
भगस् त्वष्टा च विष्णुश् च आदित्या द्वादश स्मृताः ।
पुलस्त्यः पुलहश् चात्रिर् वसिष्ठोऽथाङ्गिरा भृगुः ।
गौतमोऽथ भरद्वाजः कश्यपः क्रतुर् एव च ।
जमदग्निः कौशिकश् च मुनयो ब्रह्म-वादिनः ।
रथकूर्चोऽरिष्टनेमिर् ग्रामणीश् च रथस्वनः ।
रथ-चित्रस्वनः श्रोता अरुणः सेनजित् तथा ।
तार्क्ष्यश् चारिष्टनेमिश् च ऋतजित् सत्यजित् तथा ॥ एते यक्षाः ।
अथ हेतिः प्रहेतिश् च पौरुषेयो वधस् तथा ।
वर्यो व्याघ्रस् तथायश् च वायुर् विद्युद् दिवाकरः ।
ब्रह्मापेतश् च विप्रेन्द्रा यज्ञापेतश् च राक्षसः ।
वासुकिः कच्छनीरश् च तक्षकः सर्प-पुङ्गवः ।
एलापत्रः शङ्खपालस् तथैरावत-संज्ञितः ।
धनञ्जयो महापद्मस् तथा कर्कोटको द्विजाः ।
कम्बलोऽश्वतरश् चैव वहन्त्य् एनं यथा-क्रमम् ।
तुम्बुरुर् नारदो हाहा हूहूर् विश्वावसुस् तथा ।
उग्रसेनो वसुरुचिर् विश्वावसुर् अथापरः ।
चित्रसेनस् तथोर्णायुर् धृतराष्ट्रो द्विजोत्तमाः ।
सूर्यवर्चा द्वादशेति गन्धर्वा गायतां वराः ।
कृतस्थल्य् अप्सरो-वर्या तथान्या पुञ्जिकस्थली ।
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ।
अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा ।
अन्या च पूर्वचित्तिः स्याद् अन्या चैव तिलोत्तमा ।
सम्भा चेति द्विज-श्रेष्ठास् तथैवाप्सरसः स्मृताः ॥ इति ॥४४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **बाहुलोर्जौ कार्त्तिकिकः इत्य् अमरः । इह मासव्युत्क्रमो हि कौर्मोक्तसूयर्षियज्ञादिक्रमापेक्षयैव ज्ञेयः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विष्णुः सूर्यः । अश्वतरो नागः । रम्भा अप्सराः । सूर्यवर्चा गन्धर्वः । सत्यजिद् यक्षः । मखापेतो राक्षसः । ऊर्ज-मासं कार्तिकम् ॥४४॥
॥।
॥ १२.११.४५ ॥**
एता भगवतो विष्णोर् आदित्यस्य विभूतयः ।
स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने ॥**
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदित्यस्यादित्यरूपस्य विष्णोः । अहं पापम् ॥४५॥
॥।
॥ १२.११.४६ ॥**
द्वादशस्व् अपि मासेषु देवोऽसौ षड्भिर् अस्य वै ।
चरन् समन्तात् तनुते परत्रेह च सन्-मतिम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतेषां पृथक् कर्माणि निरूपयति—द्वादशस्व् अपीति त्रिभिः । असौ देवः सूर्यः षड्भिर् गन्धर्वादिभिर् अस्य जनस्य समन्ताच् चरन् शुभां मतिं तनुते । गायत्र्य्-अर्थोऽनेन सूचितः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **असौ देवः सूर्यः । षड्भिर् गन्धर्वादिभिः स्व-विभूतिभिः ॥४६॥
॥।
॥ १२.११.४७ ॥**
सामर्ग्-यजुर्भिस् तल्-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् ।
गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसोऽग्रतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तल्-लिङ्गैः सूर्य-प्रकाशकैः ॥४७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समन्तात्सप्तसु द्वीपेषु । इह सन्मतितननं तु सूर्योदये चौरजारादयोऽपि स्वकर्म त्यजति साधव इव तिष्ठन्तीति प्रसिद्धम् एव । परत्र परलोकनिमित्तं सन्मतितननम् अपि सूर्यादेव, सूर्योदय एव श्रौतस्मार्तपारलौकिककर्मप्रवृत्तेः प्रायो दर्शनात् । इह परत्रेति सप्तम्यौ निमित्तेर्थे एवात्र ज्ञेये । तद् उक्तम्—यस्योदयेनेहजगत्प्रबुध्यते प्रवर्तते चाखिलकर्मसिद्धये इति भविष्योत्तरे परत्रेह च सन्मतितननोक्त्या धियः प्रेरकतारूपो गायत्र्यर्थोऽत्र ध्वनितस् तथा च गायत्र्या समाप्तिरसूचीति ज्ञेयम् ॥४६-४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतेषां पृथक् कर्माणि निरूपयति सामेति । तल्-लिङ्गैः सूर्य-प्रकाशकैः ॥४७॥
॥।
॥ १२.११.४८ ॥**
उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः ।
चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उन्नह्यन्ति दृढं बध्नन्ति । ग्रामण्यो यक्षाः । नैरृता राक्षसाः ॥४८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ग्रामणीः प्रधानेऽधिपतौ यक्षनापितयोर् अपि इति कोशात् । नैरृतो यातुरक्षसी इत्य् अमरः ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उन्नह्यन्ति दृढं बध्नन्ति । ग्रामण्यो यक्षाः रथं योजयन्ति । चोदयन्ति बलेन नोदनैश् चालयन्ति नैरृता राक्षसाः ॥४८॥
॥।
॥ १२.११।४९ ॥
वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयोऽमलाः ।
पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, वालखिल्या इति । एवं प्रतिमासं त एव स्तुवन्ति विभुं सूर्यम् ॥४९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्तावकर्षिषु पुनराधिक्यम् आह—किञ्चेति । स्तुतिभिः स्तुतिप्रकाशकैः उदुत्यं जातवेदसम् इत्य्-आदिमन्त्रैः । विशेषेण भाति भापयति वेति विभुस्तम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.११.५० ॥**
एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः ।
कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **व्यूह्य विभज्य ॥५०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कल्पेकल्पे प्रतिकल्पं हरिर् एव स्वमात्मानमादित्यरूपेण द्वादशधा विभज्य लोकानवति दुःखजालाद्रक्षतीत्य् अर्थः ॥५०॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे एकादशोऽध्यायः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशो द्वादशेऽत्र सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
आदित्य-व्यूह-विवरणं नाम
एकादशोऽध्यायः ।
॥ १२.११ ॥
…
(१२.१२)
-
अमर्त्यतां जरा-मरण-राहित्यं, मुक्तिम् इत्य् अर्थः । ↩︎
-
स्मयो हासः । भ्रमो भ्रम-हेतुर् माया । ↩︎
-
भावनीया (ख,ग) ↩︎
-
रसवर्षि-धृत-पाठे अस्य श्लोकस्य टिकायाम् इदम् एकं वाक्यम् वर्तते। ↩︎
-
विश्वादित्वेन कल्पित-रूपा इति पुरीदास-पाठः। रसवर्षि-धृत-पाथे नास्ति। ↩︎
-
साधन-साध्यत्वम् इति पुरी-दास-सम्मत-पाठः। नैयत्यं इति केवलं रसवर्षि-धृत-पाठे प्राप्यते। ↩︎
-
तत्-पर्यन्तं ↩︎