॥ १२.१०.१ ॥
सूत उवाच—
स एवम् अनुभूयेदं नारायण-विनिर्मितम् ।
वैभवं योग-मायायास् तम् एव शरणं ययौ ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
दशमे शिव आगत्य मुनेस् तुष्टो वरान् अदात् ।
तेन साकम् अति-प्रीत्या समाभाष्य सभाजयन् ॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेन मुनिना । सभाजयन्सत्कुर्वन् । स मार्कण्डेयः । वैभवमुत्कर्ष प्रभावं वा । तम् एव नारायणम् एव । यस्यैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः इतिवत्समासान्तर्गतस्यापि त्यदादिभिरामर्श इति ध्वननान्नारायणविनिर्मितमित्यत्र समासान्तर्गतोपि नारायणशव्दस्तम् एवेति तच्छब्देन परामृश्यत इति ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
सोमेश-दर्शनं तस्य स्तुतिस् तेनाभिनन्दनम् ।
मुनेः स्वेष्ट-वर-प्राप्तिस् तस्माद् दशम उच्यते ॥१॥
॥।
॥ १२.१०.२ ॥
श्री-मार्कण्डेय उवाच—
प्रपन्नोऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे ।
यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञान-काशया ज्ञानवत् प्रकाशमानया । त्वद्-भजनं विना विद्वांसोऽपि यस्य तव मायया ज्ञानिनो वयम् इत्य् अहङ्कारेण विमुह्यन्तीत्य् अर्थाह् ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे हरे इति—मायातत्कार्यहर्ता त्वम् एव माम् एव ये प्रपद्यन्ते मायामेतां तरन्ति ते इति गीतोक्तेर् इति सम्बुद्ध्याभिप्रायः । इत्य् अर्थ इति—पुंसाहङ्कारनिवृत्त्ये सर्वत्र भगवद्-दृष्टिर् एव कार्या—
सर्व-भूतेषु मद्भावं पुंसो भावयतोऽचिरात् ।
स्पर्धासूयातिरस्काराः साहङ्कारावियन्ति हि ॥
इति श्रीमुखोक्तेरयं भावः । ज्ञानकाशया ज्ञाने वर्तमानेऽपि काशया प्रकाशितुं समर्थया, तत्राहम् एव प्रमाणमभूवम् इति भावः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-काशया ज्ञानेऽवर्तमानेऽपि काशया प्रकाशितुं समर्तयेत्य् अर्थः । तत्राहम् एव प्रमाणम् अभूवम् इति भावः ॥४॥
॥।
॥ १२.१०.३ ॥
सूत उवाच—
तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् ।
रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्री-नारायण एव स्व-माया-दर्शन-श्रान्तं शिव-रूपेण सान्त्वयाम् आस, तद् आह—तम् एवम् इत्य्-आदिना । निभृतात्मानं समादित-चित्तम् । रुद्राण्या भवान्या ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तं मुनिम् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.४ ॥
अथोमा तम् ऋषिं वीक्ष्य गिरिशं समभाषत ।
पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निभृता निश्चला आत्मेन्द्रियाशया देहेन्द्रिय-मनांसि यस्य तम् ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ रुद्रकर्तृकदर्शनानन्तरम । हे भगवन्न् इति—सर्वमनोरथसम्पादनसमर्थोसीति भावः ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-काशया ज्ञानेऽवर्तमानेऽपि काशया प्रकाशितुं समर्तयेत्य् अर्थः । तत्राहम् एव प्रमाणम् अभूवम् इति भावः ॥४॥
॥।
॥ १२.१०.५ ॥
निभृतोद-झष-व्रातो वातापाये यथार्णवः ।
कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निभृतं निश्चल-भक्तिम् इति ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद्यपि प्रथमान्तपाठः प्राचुर्येण दृश्यते बहु पुस्तकेषु तथापि स उपमानोपमेययोर्विरुद्धविभक्तिकत्वाद्विरुद्ध इव भाति पश्येमम् इत्युपमेये द्वितीयादर्शनात् । क्वचित्त निभृतोदझषव्रातम् इति द्वितीयान्त एव पाठो दृश्यते । संसिद्धिः फलम् संसिद्धिः प्रकृतौ फले इति कोशात् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निभृतानि निश्चली-भूतानि उदकानि झष-व्राताश् च यत्र सः ॥५॥
॥।
॥ १२.१०.६ ॥
श्री-भगवान् उवाच—
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आशिषो ऽभ्युदय-लक्षणाः । उत निश्चितम् । अत्र हेतुः, भक्तिम् इति ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राऽनिच्छायाम् । आशिषोऽणिमाद्याः सिद्धीः । तर्हि मोक्षं देहीति तत्राह—मोक्षमपीति । तर्हि भक्तिं देहाति तत्राह—भक्तिम् इति विश्वनाथः ॥६॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नैवेच्छत्य् आशिष इत्य्-आदि । कथं नेच्छति ? तत्राह—भक्तिं परां भगवति लब्धवान् । एवं-भूतो हि मोक्षम् अपि न वाञ्छतीति भावः । तथापि वरम् एकं वृणे, तम् आह—भक्तिं परां भगवति तत्-परेषु तथा त्वयि इति ॥६॥
———————————————————————————————————————
**सनातन-गोस्वामी- **[ह।भ।वि। ११.५७८] आशिषो ऽभ्युदय-लक्षणाः । उत स्मितौ । तत्र हेतुः—भक्तिम् इति । अव्यये परिपूर्णे पुरुषे श्री-कृष्णे ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आशिषोऽणिमाद्याः सिद्धीः । तर्हि मोक्षं देहीति तत्राह—मोक्षम् अपीति, तर्हि भक्तिं देहीतितत्राह—भक्तिम् इति ॥६॥
॥।
॥ १२.१०.७ ॥
अथापि संवदिष्यामो भवान्य् एतेन साधुना ।
अयं हि परमो लाभो नृणां साधु-समागमः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संवदिष्यामः संवदं करिष्यामः ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद्यप्ययं न किञ्चिदिच्छति अथापि तथापि ॥७॥
———————————————————————————————————————
**सनातन-गोस्वामी- **[ह।भ।वि। १०.२८६] यद्यपि,
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भा।पु। १२.१०.६]।
तथापि अनेन श्री-मार्कण्डेयेन सह संवादिष्यामः सम्भाषां करिष्यामः, यतः साधुभिः समागमः संयोगः, अयम् एव परमो लाभः फलम् ॥२८६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.८ ॥
सूत उवाच—
इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः ।
ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सतां गतित्वे हेतुः, ईशान् इति ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सताम् अभीप्सित-भक्ति-प्रदायित्वाद् गतिः । न केवलं सताम् एव गतिर्, अपि तु सकामानाम् अपीत्य् आह—ईशान इति । नात्र चित्रम् इत्य् आह—ईश्वर इति ॥८॥
॥।
॥ १२.१०.९ ॥
तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः ।
न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रुद्धा धियोऽन्तः-करणस्य वृत्तयो येन सः ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सात्वतां वैष्णवानां गतिर्गम्यः सर्ववैष्णवमुख्यत्वात् वैष्णवानां यथा शंभुः इत्यग्रे वक्ष्यमाणत्वात् स सतां गतिः इति पाठे तु सतामभीप्सितगतिप्रदायित्वाद्भक्तिर्न केवलं सताम् एव गतिर् अपि तु सकामानपीत्य् आह—ईशान इति । नात्र चित्रमित्याह—ईश्वर इति ॥८-९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **समाधिम् आह—तयोर् इति । तयो रुद्र-तत्-पत्न्योः । भगवद्-अंश-तच्-छक्तित्वाज् जगद्-आत्मनोस् तत्-प्रवर्तकयोर् अपि । तत्र हेतुः—भक्तिं परां [भा।पु। १२.१०.६] इति पूर्वोक्तेः । तस्माद् असम्प्रज्ञात-नाम्नो ब्रह्म-समाधितो भिन्न एवासौ ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं तयोर् आगमनं वेद, अपि तु आत्मानम् अहन्तास्पदं विश्वम् इदङ्कारास्पदं च ॥९॥
॥।
॥ १२.१०.१० ॥
भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया ।
आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवांस् तद् अभिज्ञायेति स्व-निष्ठाभिव्यक्त्य्-अर्थः स्वयं श्री-विष्णाव् अन्तर्हिते सतीति, गिरिशस्य तद्-व्युदास-सामर्थ्यायोगात् । यद् वा, श्री-भगवान् शिवाभिप्रायं विज्ञाय योग-मायया गिरिशः सन् तद्-रूपम् आविष्टः सन् पुनस् तस्य मार्कण्डेयस्य गुहाकाशं हृदयम् आविशद् इत्य् अर्थः । तत्र हेतुः—ईश्वर इति । एवम् एवोक्तम् टीका-कृद्भिः—श्री-नारायण एव स्व-मायया दर्शन-श्रान्तं शिव-रूपेण सान्त्वयामास [भावार्थ-दीपिका १२.१०.३] इति ॥१०॥
॥।
॥ १२.१०.११-१३ ॥
आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् ।
त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम् ॥**
व्याघ्र-चर्माम्बर-धरं शूल-धनुर्-इष्व्-असि-चर्मभिः ।
अक्ष-माला-डमरुक- कपालं परशुं सह ॥**
बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः ।
किम् इदं कुत एवेति समाधेर् विरतो मुनिः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीधर-स्वामी (भावार्थ-दीपिका) : **न केवलं बहिर् एवात्मन्य् अपि प्राप्तं शिवं विचक्ष्य विस्मितः । कथं प्राप्तम् । सहसा कस्माद् एव हृदि भातम् । कथं भूतम् । तडिद्-वत्-पिशङ्गा जटा धारयतीति तथा तम् । त्रीण्य् अक्षीणि यस्य तम् । शूलादिभिः सहाक्ष-मालादीन् बिभ्राणम् इत्य् अन्वयः । अक्ष-मालादीनां द्वन्द्वैक्यम् । विस्मय-पूर्वकं बहिर् दर्शनम् आह, किम् इदम् इति ॥११-१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत् तद्धीवृत्तिरोधनम् । तस्य गुहाकाशं हृदयाकाशम् । भगवांस्तदिति—स्वनिष्ठाभिव्यक्त्यर्थं स्वयं श्रीविष्णावन्तर्हिते सतीति गिरिशस्य तद्व्युदासायोगात् । यद् वा, श्री-भगवाञ्शिवाभिप्रायं विज्ञाय योगमायया गिरिशः सन् मार्कण्डेयहृदाकाशमाविशत्तत्र हेतुः—ईश्वर इति । इदमेवोक्तं स्वामिचरणः—श्रीनारायण एव स्वमायादर्शनश्रान्तं शिवरूपेण सान्त्वयामासेति ॥ अत्र द्वन्द्वैक्ये पुंस्त्वमार्षम् ॥१०-१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.१४ ॥
नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् ।
रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः ॥**
न कतमेनापि व्याख्यातम्
॥।
॥ १२.१०.१५ ॥
तस्मै सपर्यां व्यदधात् स-गणाय सहोमया ।
स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सोमया उमया सहागतं रुद्रं ददृशे । ततो ननाम ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स उभयेति छेदः । सोऽचि लोपे चेत् इति सलोपः ॥१४-१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सोमया स मार्कण्डेयः उमया सह, सोऽचि-लोपे चेत् पाद-पूरणम् इति सो लोपः ॥१४॥
॥।
॥ १२.१०.१६ ॥
आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो ।
करवाम किम् ईशान येनेदं निर्वृतं जगत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पूर्ण-कामत्वं व्यनक्ति, येन त्वया जगन्-निर्वृतं भवतीति ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विभो इति—विभुत्वादेव पूर्णकामोऽसीति भावः । ईशानेति—सर्वेश्वरस्य तव वयं किम् अपि कर्तुं न शक्ता इति भावः । निर्वृतं प्राप्तानन्दम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.१७ ॥
नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च ।
रजो-जुषोऽपि घोराय नमस् तुभ्यं तमो-जुषे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निर्गुणत्वेन त्रि-गुणत्वेन च नमस्-करोति, नमः शिवाय निर्गुणाय । सत्त्वाय सत्त्वाधिष्ठात्रे । अत एव प्रमृडयति सुखयतीति तथा तस्मै ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.१८ ॥
सूत उवाच—
एवं स्तुतः स भगवान् आदि-देवः सतां गतिः ।
परितुष्टः प्रसन्नात्मा प्रहसंस् तम् अभाषत ॥**
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एव सत्त्वाधिष्ठातृत्वादेव । मृडयति सुखयति मृड—सुखने इति धातुः । अपिशव्दात्तमोजुषेऽप्यमूढायेत्यर्थः ॥१७-१८॥
॥।
॥ १२.१०.१९ ॥
श्री-भगवान् उवाच—
वरं वृणीष्व नः कामं वर-देशा वयं त्रयः ।
अमोघं दर्शनं येषां मर्त्यो यद् विन्दतेऽमृतम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नोऽस्मत्तः त्रयो ब्रह्म-विष्णु-महेश्वराः । यद् येभ्यः । ते वयम् ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वरदानामिन्द्रादिदेवानामीशाः स्वामिनः । अमोघं फलवत् ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नोऽस्मत्तः यद् येभ्यः ॥१९॥
॥।
॥ १२.१०.२० ॥
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः ।
एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वर-दानादिना भवत्-सेवैवास्माभिः क्रियते—न त्व् अनुग्रहो जगद्-वन्द्यत्वाद् भवताम् इति ब्राह्मणान् स्तौति—ब्राह्मणा इत्य्-आदि । ये साधवः सद्-आचाराः । शान्ता मत्सरादि-रहिताः । निःसङ्गा निष्कामाः ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भूतवत्सला दयालवः, अत एव निर्वैराः । अस्मासु त्रिषु । समदर्शिनः अमेदबुद्धयः। क्रमसन्दर्भस्तु—यतस् ते समदर्शिनस्तस्मान्मदादिषु या भिदा वर्तते तामण्वपि यथा स्यात्तथा नाचक्षत इति सत्यम्, तत्तेभ्योपि हर्य्येकान्तभक्तान्युष्मान्वयमीमहि प्रियत्वेन जानीम इत्य् अर्थः । तद्-उक्तं तेनैव चतुर्थे—
अथ भागवता यूयं प्रियाः स्थ भगवान्यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ इति ।
अभेदश्चेत्तर्हि मार्कण्डेयस्य समाधिविरतिर्न स्यात्तत्राभेददृष्टेरुद्दृङ्कनेऽपि स्वयं च हरीरिश्वरः इत्यनेन हरेर् एव प्राधान्यमुक्तं, तस्यैव स्वयमीश्वरत्वोक्तेः। प्रथमेऽपि—पार्थिवाद्दारुणो धूमः इत्य्-आदिना । ब्राह्मेऽपि शिवेन तथैवोक्तम्—
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं वा पितामहम् ।
द्रष्टव्यस्तेन भगवान्वासदेवः प्रतापवान ॥
परब्रह्मस्वरूपस्य तस्य ज्ञानेन सर्वज्ञानसम्भवाद् इति ॥२०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्राह्मणा इति । यतस् ते सम-दर्शनास् तस्मात् मद्-आदिषु या भिदा वर्तते ताम् अण्व् अपि यथा स्यात् तथा न चक्षत इति सत्यम् एव, किन्तु तत् तेभ्योऽपि युष्मान् हर्य्-एकान्त-भक्तान् वयम् ईमहि प्रियत्वेन जानीम इत्य् अर्थः । तद् उक्तं तेनैव चतुर्थे—
अथ भागवत यूयं प्रियाः स्थ भगवण् यथा ।
न मद्भागवतानां च प्रेयानन्योस्ति कर्हिचित् ॥ [भा।पु। ४.२४.२६] इति ।
अभेदश् चेत् तर्हि मार्कण्डेयस्य तद्-अनुभवे समाधि-विरतिर् न स्यात् । अत्राभेद-दृष्टेर् उट्टङ्कनेऽपि स्वयं च हरिर् ईश्वरः [भा।पु। १२.१०.२१] इत्य् अनेन हरेर् एव प्राधान्यम् उक्तम् । तस्यैव स्वयम् ईश्वरत्वं चोक्तं प्रथम-स्कन्धे पार्थिवाद् दारुणः [भा।पु। १.२.२४] इत्य् आदिना । ब्रह्म-पुराणे श्री-शिव-वाक्यम् अपि तथैव—
यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम् ।
द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् ॥ [ब्र।पु। २२६.४६]
इति पर-ब्रह्म-रूपस्य तस्य विज्ञानेन सर्व-विज्ञानाद् इति भावः ॥२०॥ [भक्ति-सन्दर्भ १०६]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे ब्राह्मणा अस्मास्व् एकान्त-भक्तास् तान् लोक-पाला वन्दन्ते ॥२०॥
॥।
॥ १२.१०.२१ ॥
स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **न केवलं त एव, किन्त्व् अहं चेत्य्-आदि ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त एव लोकलोकपाला एव । वन्दन्तीत्यार्षं परस्मैपदम् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न केवलं लोक-पाला एव वन्दन्ते किन्त्व् अहं चेत्य् आदि ॥२१॥
॥।
॥ १२.१०.२२ ॥
न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते ।
नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पूज्यतमत्वे हेत्व्-अन्तरम् आह—नेति । अण्व् अप्य् अणु-मात्रम् अपि । न चक्षते न पश्यन्ति । तत् तस्माद् एवं-भूतान् युष्मान् ईमहि भजेम ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवन्भूतान् अभेददर्शिनः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अण्व् अप्य् अणु-मात्रम् अपि न चक्षते न पश्यन्ति, यथैवास्मासु भेदं न पश्यन्ति, तथैवात्मनः स्वस्य जनस्यान्यस्यापि सुख-दुःखादिषु भेदं न पश्यन्ति, तस्माद् एवं-भूतान् युष्मान् ईमहि भजेम ॥२२॥
॥।
॥ १२.१०.२३ ॥
न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः ।
ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः ॥**1
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अम्मयानि जलस्वरूपाणि तीर्थानि पुष्करादीनि कि न पुनन्ति किन्तु पुनन्त्येव, चेतनोज्झिता मृत्पाषाणमया देवा न पुनन्ति किन्तु पुनन्त्येव, तदाह—ते तीर्थदेवा उरुकालेन बहुसेवनेन । यूयं ब्राह्मणाः । क्वचित् दर्शनादेव साधवः इति पाठोऽपि स्थानान्तरे पठ्यते, तत्र साधुशब्देन भगवन्निष्ठावन्तो वेदानुयायिन एव ज्ञेया न तु त्रिवर्णेतरा अपीति ॥२३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **न हीति । देवा इन्दादि-प्रतिमा, न तु भगवत्-प्रतिमा युष्माभिर् अप्य् आराध्यत्वाद् इति भावः ॥२३॥
॥।
॥ १२.१०.२४ ॥
ब्राह्मणेभ्यो नमस्यामो येऽस्मद्-रूपं त्रयी-मयम् ।
बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्राह्मणेभ्यो ब्राह्मणान् । आत्म-समाधानं चित्तैकाग्र्यम् । तप आलोचनम् । स्वाध्यायोऽध्ययनम् । संयमो वाग्-आदि-नियमस् तैः ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्राह्मणशब्देन पारिभाषिकब्राह्मणशब्दो—ब्रह्माधीते वेद वा ब्राह्मण इत्येवंरूपो न ग्राह्य इत्याह— येऽस्मद्रूपं मुख्यमस्माकं रूपं वेदत्रयीरूपमात्मसमाधानादिभिर्बिभ्रति । संयम इन्द्रियजयः। स्वाध्यायपदेनाध्यापनम् अपि गृह्यते । तथा च क्षत्रियवैश्यौ न ग्राह्यौ किन्तु केवलं विप्र एव ब्राह्मण इति । ब्राह्मणताविवरणन्तु जन्माद्यस्य इति व्याख्याशत्यां विशेषतः कृतमस्तीत्युपरम्यते ॥२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **नमस्कारे हेतुः—यस्माद् इति । त्रयी-मयं वेद-लक्षणम् उपकारकत्वाद् इति भावः ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-समाधानं विष्णु-ध्यानम् ॥२४॥
॥।
॥ १२.१०.२५ ॥
श्रवणाद् दर्शनाद् वापि महा-पातकिनोऽपि वः ।
शुध्येरन्न् अन्त्यजाश् चापि किम् उ सम्भाषणादिभिः ॥**2
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, श्रवणाद् इत्य्-आदि ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदाधिक्यम् आह—किञ्चेति । महापातकिनो ब्रह्मघ्नादयः पञ्च, किं पुनरन्य इत्यपिशब्दार्थः । अन्त्यजाः कैवर्तादयः, किं पुनः क्षत्रियादयः । सम्भाषणादेः का वातत्याह—किम्व् इति । आदिना स्पर्शनस्तवनादिग्रहः । वा युष्माकं ब्राह्मणानामित्य् अर्थः । यत्र
कुत्रचिन्महत्त्वं तत्र सर्वत्र ब्राह्मणप्रसादावाप्तम् एवेति विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादात्कमलाकरोहम् इत्य्-आदिभगवदुक्तेः ॥२५॥
———————————————————————————————————————
सनातनः (ह।भ।वि। १०.२१७): अस्तु तावद् महतां सङ्ग-सेवादिकम्, नाम-श्रवणादिनापि महा-दुष्टा अपि मुक्ता भवन्तीति श्री-मार्कण्डेय-विषयक-श्री-शिव-वचनं लिखति—श्रवणाद् इति । वः भगवद्-भक्तानां युष्माकम्, महा-पातकिनः महा-पाप-कर्म-रताः, अन्त्यजाश् च महा-पाप-जातयः, शुध्येरन् तत्-तत्-पापतः संसार-महा-मलाद्वा विमुक्ता भवन्ति । आदि-शब्देन प्रणामादिः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.२६ ॥
सूत उवाच—
इति चन्द्र-ललामस्य धर्म-गुह्योपबृंहितम् ।
वचोऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चन्द्रो ललामो भूषणं यस्य तस्य धर्म-रहस्य-युक्तम् अमृतास्पदं वचः कर्णाभ्यां पिबन्न् आतृप्यद् अलम् इति नामन्यत । कर्णयोर् अमृतायनम् इति वान्वयः ॥२६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **धर्म-गुह्यं भगवद्-भक्ति-लक्षणं तेनोपबृंहितम् । अत एवामृतायनं परमानन्दस्याप्य् आश्रय-रूपम् । अत एव नातृप्यत्, न तु स्व-स्तुत्येत्य् अर्थः ॥२६॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **धर्म एकान्त-भक्ता [भा।पु। १२.१०.२०] इति, नात्मनश् च जनस्य [भा।पु। १२.१०.२२] इत्य् आदि, गुह्यं तद् युष्मान् वयम् ईमहि [भा।पु। १२.१०.२२] इत्य्-आदि । ताभ्याम् उपबृंहितं नातृप्यद् इति । नायं स्वस् तवोत्थ आनन्दः, किन्तु स्तुति-मिषेणास्मान् धर्मम् एवाशिक्षयत् तस्माद् एतादृश-धर्मवता मया भवितव्यम् इत्य् उपदेश-प्राप्त्य्-उत्थ एव ज्ञेयः ॥२६॥
॥।
॥ १२.१०.२७ ॥
स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् ।
शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शिवस्य वाग् एवामृतं तेन ध्वस्तः क्लेश-पुञ्जो यस्य सः ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **विष्णु-माययेति स्वेच्छयैवाङ्गीक्रियेतेत्य्3 अर्थः । शिवस्याप्य् अत्र विष्ण्व्-आविष्टत्वं4 व्याख्यातम् इति न भेदो मन्तव्यः ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.२८ ॥
श्री-मार्कण्डेय उवाच—
अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् ।
यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इयं लीला दुर्विभाव्यावितर्क्या । यद् यया ईशितव्यानि स्व-नियम्यानि यानि भूतानि तानि जगद्-ईश्वराः । स्वयं नमन्ति स्तुवन्ति चेति ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **दुर्विभाव्य अतर्क्या । ईशितव्यानि स्व-नियम्यान्य् अपि भूतानि ॥२८॥
॥।
॥ १२.१०.२९ ॥
धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् ।
आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अथवा लोक-सङ्ग्रह-मात्रम् एतद् इत्य् आह—धर्मम् इति । प्रवक्तारोऽपि यत् स्वयं देहिनां धर्मं ग्राहयितुम् आचरन्ति ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इतीत्थम् । पिबन्नादरेण शृण्वन् । तं शिवम् । धर्मस्य प्रवक्तारोऽपि अनुमोदन्तेऽन्यांस्तत्र प्रवर्तयन्ति—क्रियमाणं स्तुवन्ति—धन्योऽयं धर्मो यश्चैतादृशैर्महद्भिर् अपि क्रियत इति धर्मस्तुतिर्धर्मकर्तृष्वेव पर्यवस्यति । धर्मः—एकान्तभक्तः इत्यारभ्य नात्मनश् च जनस्य इत्य्-आदि, गुह्यम्—तद्युष्मान्वयमीमहि इत्य्-आदि, ताभ्यामुपबृंहितम् । नातृप्यदिति—नायं स्वस्तुत्योत्थ आनन्दः किन्तु स्तुतिमिषेणास्मान्धर्ममेवाशिक्षयत्तस्मादेतादृशधर्मवता मया भवितव्यमित्युपदेशप्राप्त्युत्थ एव ज्ञेयः ॥२६-२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **धर्मम् इत्य् अत्र प्राय इति कदाचित् तत्र निज-रुच्या च देहिनाम् इति देहस्य यत् कर्म, तद् एवात्मन इति मन्यमानानाम् इत्य् अर्थः । अत एव प्रवक्तारस् तद्-व्यतिरिक्ताः ॥२९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथवा लोक-सङ्ग्रह-मात्रम् एतद् इत्य् आह—धर्मम् इति । क्रियमाणं स्तुवन्तीति धन्योऽयं धर्मः, यः खलु एतादृशैर् महद्भिर् क्रियते । इति धर्म-स्तुतिः धर्म-कर्तृष्व् एव पर्याप्नोति ॥२९॥
॥।
॥ १२.१०.३० ॥
नैतावता भगवतः स्व-माया-मय-वृत्तिभिः ।
न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एतत् स्व-प्रभाव-तिरस्कारकं कथं मया क्रियते ? तत्राह—नैतावतेति । एतवता लोक-सङ्ग्रह-मात्रेण । तैर् नमनादिभिः कथं-भूतैः ? स्व-माया-मयी वृत्तिर् येषु, तैर् भगवतो मायिनस् तवानुभावो न दुष्येत, यतः प्रसिद्धस्य मायिनः कुहकं कपटं यथा, तथा एतानि नमनादीनि । अतस् तस्य यथा कुहकैर् आत्मानुभावो न दुष्यति तद्वत् । प्रदुष्येतानुभाव इति पाठे न-कारस्य दृष्टान्तेऽप्य् अनुषङ्गः ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । यत इति अत इत्यनेनान्वेति । मायिन ऐन्द्रजालिकादेः । अनुभावो निश्चयः । अन्येभ्यो धनादिग्रहलक्षणः । अत्र सन्दर्भः—तेषु मुख्यं भगवन्तमवलम्ब्य तत्र दोषान्तरं निरस्यति—नतेति त्रिभिः । दोषाऽभावे हेतुः—स्वेषु भक्तेषु या माया कृपा तन्मयवृत्तिर् इति मम भक्तपरम्परास्वेषा रीतिः प्रवर्तितेति कृपया प्रीतिवशतयेत्यर्थः अत्र व्यतिरेकेण दृष्टान्तः—मायिनः कुहकिनः कपटं यथा प्रदुष्यते तथा न दुष्यत इति । विश्वनाथस्तु—केनचिदैन्द्रजालिकेन स्वमुखात्कश्चिद्वानर उद्भाव्य स स्तूयते नमस्क्रियते च तेन तस्यानभावो यथा न दुष्यते तथेति न दुष्यते इति पाठे दृष्टान्ते नकारस्यानुषङ्गः । यद्यपि श्रीरुद्रेण तदीयस्तुत्यादयो न मायया कृतास्तदपि स्वस्तुत्या लज्जितेन मुनिना प्रयुक्तोऽयं दृष्टान्तो नानुपपन्नः ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तेषु मुख्यं भगवन्तम् अवलंब्य तत्र दोषान्तरं निरस्यति—नैतावतेति त्रिभिः । अदोषे5 हेतुः—स्वेषु भक्तेषु या माया कृपा, तन्-मय-वृत्तिभिर् इति मम भक्त-परम्परास्व् एषा रीतिः प्रवर्तितेति6 कृपया स्व-प्रीति-वशतयेत्य् अर्थः । तत्र व्यतिरेकेण दृष्टान्तः—मायिनः कुहकं यथा प्रदुष्येत, तथेति । न दुष्येतेति पाठेऽपि मायिनः कुहकं यथा दुष्येत, तथा न, किन्तु न दुष्येतैवेत्य् अर्थः ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावता लोक-सङ्ग्रह-मात्रेण तैर् नमनादिभिस् तवानुभावो न प्रदुष्यति । कीदृशैः ? माया-मय्य् एव वृत्तिश् चेष्टा येषु तैः । मायिनः कुहकम् इति धन-प्राप्ति-हेतुना ऐन्द्रजालिकेन केनचित् स्व-मुखाद् उद्भावितः कश्चिद् वा नरः स्तूयते नमस्क्रियते तेन तस्यानुभवो न दुष्यतीति । न दुष्येतेति पाठे न-कारस्य दृष्टेनानुषङ्गः । यद्यपि श्री-कृष्णेण तदीय-स्तुत्य्-आदयो न मायया कृतास् तद् अपि स्व-स्तुत्या लज्जितेन मुनिआ प्रयुक्तोऽयं दृष्टान्तो नानुपपन्नः ॥३०॥
॥।
॥ १२.१०.३१-३२ ॥
सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः ।
गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा ॥**
तस्मै नमो भगवते त्रि-गुणाय गुणात्मने ।
केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **माया-चेष्टितं प्रपञ्चयति, सृष्ट्वेति । स्वप्न-दृग् यथेत्य् अविद्या चेष्टिते दृष्टान्तः । त्रि-गुणत्वेऽपि न जीव-वत् तद्-अभिभूताय किन्तु गुणानाम् आत्मने नियन्त्रे ॥३१-३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अविद्यया स्वप्नं सृजतो जीवस्यापि वस्तुतस्तत्सम्बन्धो नास्ति किमुतेश्वरस्येति तात्पर्यवानाह—स्वप्नदृग्यथेति । दोषास्पर्शमेवाह युग्मेन । इदं विश्वं मनसा सङ्कल्पेनैव निमित्तेन गुणैरुपादानैः सृष्ट्वापि ततश्चात्मना स्वयं तदनुप्रविश्य प्रवेशेन स्थापयित्वापि तत्तदुपलक्षणत्वेन संहृत्यापि कर्तृवदेवाभाति न तु कर्तैवेति । तत्र हेतुत्वेन गुणान् विशिष्टि—कुर्वद्भिर् इति । तत्सान्निध्यप्रभावेण चेतना इव गुणा एव सर्वं कुर्वन्ति न तु स्वयम् इति सङ्कल्पस्याभासामात्रेण तदसम्भवात् । तत्राविद्यया स्वप्नं सृजतस् तदीयतटस्थांशस्य जीवस्यापि वस्तुतस्तत्सम्बन्धो नास्ति किमुत तस्येति दर्शयन्दृष्टान्तयति—स्वप्नदृग्यथेति ॥ गुरवे, किम्भूताय—ब्रह्ममूर्तये ब्राह्मणरूपाय । त्वं देवेषु ब्राह्मणोऽहं मनुष्येष इति जाबालश्रुतेः । एतेन ब्राह्मणस्यैव गुरुत्वं सूचितम् । केवलाय मुख्याय । अद्वितीयाय एकरूपाय । त्रयोऽमृताभयक्षमरूपा गुणा यस्य तस्मै । गुणा ऐश्वर्यादयोऽप्यात्मानः स्वरूपभूता यस्य तस्मै । केवलाय प्रकृतिसङ्गशून्याय । अद्वितीयायतुल्यायातो गुरवे सर्वोपदेष्ट्रेऽन्तो वेदरूपायेति सन्दर्भः ॥३१-३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दोषास्पर्शम् एव दर्शयति—सृष्ट्वेदम् इति युग्मकेन । इदं विश्वं मनसा सङ्कल्पेनैव निमित्तेन गुणैर् उपादानैः सृष्ट्वापि, ततश् चात्मना स्वयं तद् अनुप्रविश्य, प्रवेशेन स्थापयित्वापि, तत्-तद्-उपलक्षणत्वेन संहृत्यापि कर्तृवद् एवाभाति, न तु कर्तैवेति । तत्र हेतुत्वाय गुणान् विशिनष्टि—कुर्वद्भिर् इति । तत्-सान्निध्य-प्रभावेण चेतना इव गुणा एव सर्वं कुर्वन्ति, न तु स्वयम् इति । सङ्कल्पस्याभास-मात्रत्वेन तद्-असम्बन्धाद् इत्य् अर्थः । तत्राविद्यया स्वप्नं सृजतस् तदीय-तटस्थांशस्य जीवस्यापि वस्तुतस् तत्-सम्बन्धो नास्ति, किम् उत तस्येति दर्शयन् दृष्टान्तयति—स्वप्न-दृग् यथेति ।
त्रयः अमृताभय-क्षेम-रूपा गुणा यस्य तस्मै ।7 गुणा ऐश्वर्यादयोऽपि आत्मानः स्वरूप-भूता यस्य तस्मै । केवलाय प्रकृति-सङ्ग-शून्याय, अद्वितीयाय स्व-तुल्य-रहिताय, अत एव गुरवे सर्वोपदेष्ट्रे । ब्रह्मेति स्वोपदेश्यं यद् ब्रह्म वेदः, तद् अपि मूर्तिः स्वरूपं यस्य तस्मै ॥३१-३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनसा सङ्कल्प-मात्रेण कुर्वद्भिर् गुणैः स्वीयैः स्वयम् अकर्तापि कर्तेत्य् आभातीति न गुणैर् लेप इति भावः । अविद्यया स्वप्नं सृजतो जीवस्यापि वस्तुतस् तत्-सम्बन्धो नास्ति, किम् उत तस्येति दर्शयन् दृष्टान्तयति—स्वप्न-दृग् यथेति । गुणात्मने गुण-नियन्त्रे ॥३१-३२॥
॥।
॥ १२.१०.३३ ॥
कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् ।
यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वरं वृणीष्व इति । यद् उक्तं, तत्राह—कम् इति । वरं दर्शनं यस्य तस्मात् त्वत्तः परं कं नु वरं वृणे । यस्य तव दर्शनाद् अवलोकनात् पूर्ण-कामः सर्वानन्द-सन्दोह-रूपः सत्य-कामो यथेच्छं प्राप्त-सर्वानन्दः ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे भूमन्न् इति—अनन्तफलदातुः सर्वेश्वरात्—कं वरं वृणोमि न कमपीति भावः । यद् वा, वरः सर्वोत्कृष्टवरो दर्शनं यस्य तस्मात्त्वत्तः किं परमपरं वरं वृणे । तत्र हेतुः—यद्दर्शनाद् इति ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.१०.३४ ॥
वरम् एकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा त्वयीति । त्वयि च तत्-पर इत्य् अर्थः,
किं वर्णये तव विभो यद् उदीरितोऽसुः
संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि ।
स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च
स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ [भा।पु। १२.८.४०]
इत्य् अनेनैव श्री-नारायण-र्षिं प्रत्य् उक्तत्वात् ॥३४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.३५ ॥
सूत उवाच—
इत्य् अर्चितोऽभिष्टुतश् च मुनिना सूक्तया गिरा ।
तम् आह भगवाञ् छर्वः शर्वया चाभिनन्दितः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वर-दानाय स्वयम् एव प्रवृत्तः शर्वयोमया चाभिनन्दितोऽनुमोदितः सन्न् आह ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यदि वरदानेऽतीव हठस्तर्ह्येकं वरम् अपि वृणोमीति योज्यम् । भगवति श्रीहरौ त्वयि, तद्रूपे हरे च । यद् वा, मद्भक्तशिरोमणौ त्वयि परमतत्परे उपदेशगुरौ भक्तिं च वृणे, तत्परत्वं च स्वेनैव तेन षष्ठे चित्रकेतूपाख्यान उक्तम्—
अयं तस्य महाभागश्चित्रकेतुः प्रियोऽनुगः ।
सर्वत्र समदृक् शान्तो ह्यहञ्चैवाच्युतप्रियः ॥ इति ।
स्वयं मार्कण्डेयेनाप्युक्तम्—किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्मन̮इन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजपूर्वयोश्च—इत्यनेन नारायणर्षि प्रति । किं च—मुख्योऽभूद्ब्राह्मणो गुरुः इति तृतीयस्कन्धे मैत्रयेण विदुरं प्रत्युक्तम् । जन्मना ब्राह्मणो गुरुः इति श्रीदशमे नन्दराजेनापि श्रीगर्गं प्रत्युक्तम् इति ॥३४-३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वरं वृणुष्वेति यद् उक्तं तत्राह किम् इति—वरो दर्शनं यस्य तस्मात् । सत्यकामः सत्य-सङ्कल्प एव, तत्-परेषु तद्-भक्तेषु तथा तद्-भक्त-श्रेष्ठे त्वयि भक्त्य्-उपदेष्टरि गुरौ तेन त्वयि मे भक्तिस् तद्-भक्तत्वेनैवास्तु न त्व् ईश्वरत्वेन इति भावः ॥३५॥
॥।
॥ १२.१०.३६ ॥
कामो महर्षे सर्वोऽयं भक्तिमांस् त्वम् अधोक्षजे ।
आ-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कामोऽयं सर्वोऽप्य् अन्यच् च यत् पुण्यं यश इत्य्-आदि-ब्रह्म-वर्चस्विनस् ते भूयाद् इत्य् उत्तरेणान्वयः । यतस् त्वम् अधोक्षजे भक्तिमान् ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अयं हरिहराभेदभक्तितद्भक्तभक्तिरूपो मनोरथः । हे महर्षे इति—महर्षित्वात्तुभ्यं वरदानं सिद्धसाधनमेवेति भावः । यद् वा, अहमधोक्षजे भक्तिमान्स्यामित्ययं ते कामोस्त्व् इति योज्यम् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं सर्वोऽपि कामस् तेऽस्तु यतस् त्वम् अधोक्षजे भक्तिमान् ॥३६॥
॥।
॥ १२.१०.३७ ॥
ज्ञानं त्रैकालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् ।
ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥**
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्रह्मन्न् इति—वेदविद्ब्रह्मणत्वाद्बहुवरदानयोग्य एव त्वम् इति भावः ॥३७॥
॥।
॥ १२.१०.३८ ॥
सूत उवाच—
एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः ।
देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य कर्म तप-आदि । अमुना पुरानुभूतं यद् भगवन्-माया-वैभवं तच् च कथयन् ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त्र्यक्षस्त्र्यम्बकः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.३९ ॥
सोऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः ।
विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अवाप्तो महा-योग-महिमा येन सः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.४० ॥
अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः ।
अनुभूतं भगवतो माया-वैभवम् अद्भुतम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतन् मार्कण्डेयस्य चरितं तेनानुभूतं च भगवन्-माया-वैभवं तेऽनुवर्णितम् ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महायोगस्य भक्तियोगस्य महिमाणिमादिसिद्धिपूर्वकं भगवत्साक्षात्कारलक्षणः । एकान्ततां नित्यभक्तिताम् ॥३९-४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१०.४१ ॥
एतत् केचिद् अविद्वांसो माया-संसृतिम् आत्मनः ।
अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् एवम् अप्य् अस्मत् कुलोत्पन्नस्यास्य सप्त-कल्पायुष्ट्वं वृद्धैर् उच्यमानं विरुद्धम् एव तत्राह—एतन् मार्कण्डेयेनानुभूतं भगवन्-माया-वैभवं नाना-कल्प-रूपं कादाचित्कम् ईश्वरेच्छया तस्यैवाकस्मिकम्, न तु सर्व-साधारणम् । एतत् केचिद् अनादि-बहु-कालम् आवर्तितं दैव-युग-सहस्र-द्वयमानेन पुनः पुनः परिवर्तितं प्रचक्षते । के ते ? नॄणां संसृतिं सर्ग-प्रलयादि-लक्षणाम् आत्मनो भगवतो मायेत्य् एवम् अविद्वांसः । विद्वांसस् तु माया-शिशोः श्वासोच्छ्वासाभ्यां सप्त-कृत्वस् तद् उदर-प्रवेश-निर्गमतः सप्त-कल्पत्वं तत्-क्षण-मात्रेणेति वदन्ति, अतो न विरोध इत्य् अर्थः ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति ॥४१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एतत् मार्कण्डेय-दृष्टम् आत्मनो भगवतो माया-संसृतिस् तत्-प्रार्थनया माया-प्रसार एव । तद् एतद् अपि केचिद् अविद्वांसोऽनादित एवावर्तितं भगवता पुनः प्रापितं कादाचित्कं प्रलयं प्रचक्षते । अन्ये तद्-दृष्टाः कल्पास् तु मन्वन्तराण्य् एवेति भावः ॥४१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतन् मार्कण्डेयेनानुभूतम् आत्मनः परमेश्वरस्य माया-संसृति-वैभवम् इत्य् अर्थः । भगवतः शिशु-स्वरूपस्य परमातर्क्य-शक्त्या श्वासोच्छ्वासाभ्यां सप्त-कृत्वस् तद्-उदर-प्रवेश-निर्गम-कालात्मकं कादाचित्कम् एव केचिद् अविद्वांसो नॄणाम् अज्ञानादिकं बहु-कालत आवर्तितं दैव-युग-सहस्र-मानेन पुनः पुनः परावर्तितं सप्त-कल्पम् एव प्रचक्षते ॥४१॥
॥।
॥ १२.१०.४२ ॥
य एवम् एतद् भृगु-वर्य वर्णितं
रथाङ्ग-पाणेर् अनुभाव-भावितम् ।
संश्रावयेत् संशृणुयाद् उ ताव् उभौ
तयोर् न कर्माशय-संसृतिर् भवेत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संशृणुयात् । उ इति हर्षे । संश्रावयेद् वा । यौ ताव् उभौ । तयोः कर्म-वासनाकृता संसृतिर् न भवेद् इति ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तावुभौ श्रोतृवक्तारौ तुल्यफलभागिनाव् इति शेषः । तद् एवाह—तयोर् इति । हे भृगुवर्येति—अहो स एवैकोऽस्माकं कुलश्रेष्ठ आसीदहं तु न ताद्दगंशभागपीति विमृशंतं शौनकं सूतस्तम् अपि प्रोत्साहयति—त्वं तु बहुजन्मसुकृतलभ्यसर्व-पुराणेतिहासश्रोतृत्वाद्भृगुवंशे वर्य एवेति भावः ॥४२॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे दशमोऽध्यायः ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उ इति पक्षान्तरे, संश्रावयेद् वा । ताव् उभौ तुल्याव् इत्य् अर्थः । फलम् आह—तयोर् इति ॥४२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे भृगु-वर्य अनुभावेन प्रभावेन भावितं वासितं यः श्रावयेत्, यश् च शृणुयात् ताव् उभौ तुल्याव् एवेति शेषः । अतस् तयोः कर्म-वासना-मयी संसृतिर् न भवेत् ॥४२॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
मार्कण्डेयस्य वर-लाभो नाम
दशमोऽध्यायः ।
॥ १२.१० ॥
…
(१२.११)