॥ १२.९.१ ॥
सूत उवाच—
संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता ।
नारायणो नर-सखः प्रीत आह भृगूद्वहम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **
नवमे भगवन्-मायादि- दृक्षोर् दर्शनं मुहुः ।
माया-शिशोर् लयाब्धौ च मुनेर् निर्वेश-निर्गमैः ॥
भगवतः परितोष-पूर्वकं तद् अपेक्षित-वर-दानं कथयितुम् आह, संस्तुत इत्य्-आदिना ॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मुनेर्लयाब्धौ प्रलयकालिकसमुद्रे, मायया कृपया, शिशोः शिशुरूपस्य । निर्वेशः प्रवेशः, निर्गमो बहिरागमनम् । भृगूद्वहं मार्कण्डेयम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
माया-दर्शनजं दुःखं नवमे तु मुनेः शिशौ ।
प्रवेशो निष्क्रमः पातो लयाब्धौ वर्ण्यते मुहुः ॥१॥
॥।
॥ १२.९.२ ॥
श्री-भगवान् उवाच—
भो भो ब्रह्मर्षि-वर्योऽसि सिद्ध आत्म-समाधिना ।
मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्म-समाधिना चित्तैकाग्र्येण ॥२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तपः-स्वाध्याय-संयमैर् य आत्म-समाधिश् चित्तैकाग्र्यं, तेन या अनपायिनी भक्तिः, तया सिद्धोऽसीत्य् अन्वयः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.३ ॥
वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया ।
वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वद्-ईप्सितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वयं ते परितुष्टाः स्मेति बहु-वचनं सर्व-देवाभिप्रायेण । वर-देशाद् इत्य् एक-वचनं द्वयोर् ऐक्याभिप्रायेण । प्रतीच्छ गृहाण ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भो भो इति वीप्सादरे । हे ब्रह्मर्षिवर्येति—ब्रह्मर्षयो मदर्शनार्थं यतन्त्येव न तु प्राप्नुवन्ति त्वया तत्प्राप्तमतस् तेषु त्वम् एव श्रेष्ठोऽसीति भावः ॥२-३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयम् इति बहु-वचनम् अग्रे प्रस्तोष्यमाण-शिवोमाद्य्-अभिप्रायेण ॥३॥
॥।
॥ १२.९.४ ॥
श्री-ऋषिर् उवाच—
जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत ।
वरेणैतावतालं नो यद् भवान् समदृश्यत ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वरेण च्छन्दयता त्वया जितम् उत्कर्षो दर्शितः । मम तु वराकाङ्क्षा नास्तीत्य् आह—वरेणेति ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ते जितं तवोत्कर्षोऽस्त्येव स्वोत्कर्षेणैव ममाज्ञानमपहृतम् । देवा इन्द्राद्यास्तेषां देवो ब्रह्मा तस्यापि त्वमेवेशोसीति भावः । प्रपन्नानां मादृशानामार्ति संसृतिदुःखं हरतीति तादृशोऽपि त्वम् एव । च्युतिर्नाशस्तद्रहितोऽपि त्वमेव, अहो एतादृशस्य तव दर्शने किमहं तुच्छं वरं याच इति भावः । एतावता एतत्प्रमाणकेन । एतावता कियतेति चेत्तत्राह—यद् इति ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एतावता वरेणैवालं पर्याप्तिर् जाता । किं तत् ? यद् भवान् इति ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जितं ते तव सर्वोत्कर्षोऽस्त्य् एव ॥४॥
॥।
॥ १२.९.५ ॥
गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् ।
मनसा योग-पक्वेन स भवान् मेऽक्षि-गोचरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य तव श्रीमत्-पादाब्ज-दर्शनं मनसापि गृहीत्वा प्राप्य कृतार्था अजादयो भवन्ति, स भवान् मेऽक्षि-गोचरो जातोऽस्ति । किम् अतः परं वरेणेत्य् अर्थः ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—तव दर्शनात्परो न कोपि वरोऽधिकोऽस्तीति भावः ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यतो गृहीत्वेति । अजादयोऽपि कृतार्था भवन्तीति शेषः ॥५॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गृहीत्वा कृतार्थिनो भवन्तीति शेषः ॥५॥
॥।
॥ १२.९.६ ॥
अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे ।
द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **द्रक्ष्ये द्रष्टुम् इच्छामि । लोक-पालैर् ब्रह्मादिभिः सहितोऽयं लोको जनो यया सद्-भिदां सति वस्तुनि भेदम् ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे अबुजपत्राक्षेति—तव स्वाभाविकतापहरदृष्टेर्न किञ्चिद्वक्तव्यमस्तीति भावः । पुण्यश्लोका अपि स्वयशोरक्षणाय विनैवान्यप्रेरणां परकार्यं कुर्वान्ति त्वं तु तेषां शिखामणिः परममुख्य इति भावः ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथापि प्रारब्ध-मय-कौतुक-वशतयेति भावः । ननु जगत् पश्यन् मम मायां पश्यन्न् एवासि ? तत्राह—ययेति । अन्तः सतो बहिर् भिदां विदारणं प्रलयं यया मद्-विदितया सत्या मद्-द्वारा अन्योऽपि सपालो लोको वेद जानीयात् ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रक्ष्ये दिदृक्षे । सतः कारणस्य भिदां कार्याकारेण नामाभेदम् । यद् वा, सतो द्वैत-प्रपञ्चस्य भिदां प्रलये सति विदारणम् ॥६॥
॥।
॥ १२.९.७ ॥
सूत उवाच—
इतीडितोऽर्चितः कामम् ऋषिणा भगवान् मुने ।
तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तथेति द्रक्ष्यसीति । स ईश्वरः स्मयन् प्रागात् । षाठान्तरे क्रिय-विशेषणम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मयन्न् इति । माया-दर्शनं दुःखानुभव-हेतुर् एव केवलम् । स एव वरो व्रियते चेद् दत्त एव, वर्स्यावश्य-देयत्वात् । किन्तु माया-दर्शन-कौतुकं मयानास्वादितम् इत्य् अन्यथास्य तद्-अनुबुभूषा नैव निवर्तिष्यते, तस्माद् दुःखम् अनुभूयैव ततो निवर्तताम् । यथा स्व-दुःख-हेताव् अपि कर्मणि क्वचित् प्रवर्तमाने हठिनि स्व-सुते निवर्तयितुम् असमर्थस्य पितुर् अप्य् अनुज्ञा-प्रदानम् एवेति । किन्तु भक्तस्यास्य निर्वृत्य्-अर्थं शिशु-रूपेण तन्-मध्येऽपि स्व-दर्शनानन्दोऽदास्यत एवेत्य् अभिप्राय-व्यञ्जकं स्मितम् ॥७॥
॥।
॥ १२.९.८ ॥
तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः ।
वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तम् एवार्थं माया-दर्शन-रूपम् । अग्न्यादि-मूर्तिषु ॥८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तम् एव श्री-हरिम् एव अर्थं परमार्थ-रूपं चिन्तयन्, न तु माया-दर्शनम् इत्य् अर्थः । स्व-कर्म-फल-निर्दिष्टम् इति न्यायेन ॥८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एवार्थं माया-दर्शन-रूपम् ॥८॥
॥।
॥ १२.९.९ ॥
ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् ।
क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भाव-द्रव्यैर् मनो-मयैर् द्रव्यैः । क्वचित् कदाचित् प्रेम-प्रसर-सम्प्लुतः प्रेमोद्रेकं प्राप्तः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भाव-द्रव्यैर् मनो-मयैः ॥९॥
॥।
॥ १२.९.१० ॥
तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः ।
उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **माया-दर्शनम् आह—तस्येत्य्-आदिना ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पाठान्तरे सस्मयम् इति पाठे ॥७-१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥।
॥ १२.९.११ ॥
तं चण्ड-शब्दं समुदीरयन्तं
बलाहका अन्व् अभवन् करालाः ।
अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः
स्वनन्त उच्चैर् अभि वर्ष-धाराः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं वायुम् अनु बलाहका मेघा अभवन्न् आविर् बभूवुः । ते च तडिद्भिः सहिता उच्चैः स्वनन्तो गर्जन्तः । अक्षो रथाङ्गं तद्वत् स्थविष्ठा अभितो वर्ष-धारा मुमुचुः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अक्षा स्थाङ्गं चक्रम् । स्थविष्ठाः स्थूलाः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्षो रथाङ्गं तद्वद् अतिस्थूलाः ॥११॥
॥।
॥ १२.९.१२ ॥
ततो व्यदृश्यन्त चतुः समुद्राः
समन्ततः क्ष्मा-तलम् आग्रसन्तः ।
समीर-वेगोर्मिभिर् उग्र-नक्र-
महा-भयावर्त-गभीर-घोषाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चतुर् दिक्षु वर्तमानाः समुद्राः समीर-वेगेनोर्मयस् तैर् भूतलं ग्रसन्तः । उग्रा नक्रा येषु, महा-भया आवर्ता येषु, गभीरो घोषो येषु, ते च ते च ते च ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो महावृष्ट्यनन्तरम् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.१३ ॥
अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः
शतह्रदाभिर् उपतापितं जगत् ।
चतुर्-विधं वीक्ष्य सहात्मना मुनिर्
जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मना सह जरा-युजादि-चतुर्-विधं जगद् अन्तर् बहिश् चोपतापितं वीक्ष्य । क्ष्मां जलाप्लुतां वीक्ष्य । मुनिः समत्रसद् भयं प्राप । केनोपतापितम् ? अद्भिः । कथं-भूताभिः ? अतिद्युभिर् अतिक्रान्ता द्यौर् याभिः । स्वरैश् च सूर्य-रश्मिभिर् वायुभिर् वेति शेषः । शत-ह्रदाभिश् च विद्युद्भिः । दीर्घत्वम् आर्षं छन्दोऽनुसारेण ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनी विद्युत् इत्य् अमरः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिक्रान्ता द्यौर् याभिस् ताभिर् अद्भिः । खरैः सूर्य-रश्मिभिः शत-ह्रदाभिर् विद्युद्भिः । दीर्घत्वम् आर्षम् ॥१३॥
॥।
॥ १२.९.१४ ॥
तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः
प्रभञ्जनाघूर्णित-वार् महार्णवः ।
आपूर्यमाणो वरषद्भिर् अम्बुदैः
क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रभञ्जनेनाघूर्णितं प्रकम्पितं वाः उदकं यस्मिन् सः । अप्य् अधाच्छादयाम् आस । समं सह ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रभञ्जनो वायुः । वरषद्भिर् इति वर्णविभागश्छान्दसः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.१५ ॥
स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं
त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् ।
स एक एवोर्वरितो महा-मुनिर्
बभ्राम विक्षिप्य जटा जडान्ध-वत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स-क्ष्मान्तरिक्षं भूम्य्-अन्तरिक्ष-स्थ-प्राणि-सहितम् । स-दिवं स्वर्ग-स्थ-देव-सहितम् । भागणा ज्योतिर् गणास् तैः सहितम् । जटा विक्षिप्य विकीर्य ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उर्वरितः अवशिष्टः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सभागणं ज्योतिर्-गण-सहितम् ॥१५॥
॥।
॥ १२.९.१६ ॥
क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर्
उपद्रुतो वीचि-नभस्वताहतः ।
तमस्य् अपारे पतितो भ्रमन् दिशो
न वेद खं गां च परिश्रमेषितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **परिश्रमेण इषितो गतः प्राप्त इत्य् अर्थः । इषु सर्पणे इत्य् अस्मात् ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **क्षुत्तृश्ड्भ्यां परीतो व्याप्तः । मकरतिमिङ्गिलौ पादो भेदौ तिमिश्शतयोजनो मत्स्यः इति कोशात् । इत्य् अर्थ इति—धातोः सर्पणार्थत्वात्सर्पणं प्रसरणम् इति व्याख्येयम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीचि-युक्तेन नभस्वता आहतः प्राप्ताघातः । परिश्रमेण इषितः प्राप्तः इष-गताव् इत्य् अस्मात् ॥१६॥
॥।
॥ १२.९.१७ ॥
क्वचिन् मग्नो महावर्ते तरलैस् ताडितः क्वचित् ।
यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्योन्य-घातिभिस् तद्-भक्षणाय परस्परं युध्यद्भिः ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यादांसि जलजन्तवः इत्य् अमरः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.१८ ॥
क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् ।
क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिनाधिग्रहः । अर्दित उपद्रुतः ॥१८॥
॥।
॥ १२.९.१९ ॥
अयुतायुत-वर्षाणां सहस्राणि शतानि च ।
व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विष्णु-मायावृतात्मन इति स तथा दृष्टवान् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—क्षणिकेऽपि कालेऽघटनघटनापटीयस्या विष्णुमायया तस्यानन्ताव्दप्रतीतिरभूद् इति भावः । एतच् च ज्योतिःशास्त्रे प्रतिदिनं चन्द्रादिगतौ मेषादिलग्नभोगे चावगम्यते । तथा हि—खखाभ्राष्टवेदा ४८००० भभोगेन भक्ताः इहोक्तघट्यात्मिका षष्टिगुणिता २८८०००० चन्द्रगतिर्हि प्रत्येकं विभिन्नभभोगभक्ता ७९६.३५ पञ्चत्रिंशत्पलाधिकषण्णवत्युत्तरसप्तशतघट्यात्मिकायाति । सा च षष्टिघट्यात्मकेऽहोरात्रे कथं मायां विना सङ्गच्छेत । एवं प्रत्येकं मेषादिलग्नं किञ्चित्पलाधिकत्र्यादिघट्यात्मकं भवति तत्र प्रत्येकं षटिघट्यात्मकत्रिंशाङ्खाः कथं सङ्गच्छेरन्, त्रिंशांशानां ह्यष्टादशशत १८०० घट्यः सन्ति विनाघटनघटनापटीयसीं मायामेतत्कदाचिदपि न सङ्गतं स्यादित्यलमप्रकृतचिन्तया ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अयुतायुत-वर्षाणाम् इति तस्य भानं जातम् इत्य् अर्थः ॥१९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.२० ॥
स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः ।
न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ककुद्य् उन्नत-प्रदेशे न्यग्रोध-पोतं कोमल-वटम् ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ककुदस्त्री ककुदोऽपि वृषाङ्गे राजलक्ष्मणि । उच्चे वरे प्रधाने च इति कोशात् । पोतः शिशौ वाहित्रे च गृहे वाससि कोमले इत्यभिधानात् ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ककुदि उन्नत-प्रदेशे ॥२०॥
॥।
॥ १२.९.२१ ॥
प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् ।
शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्येशान-दिक्शाखायां शिशुम् अपि ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रागुत्तरयार्मध्ये या दिक् सा प्रागुत्तरा तस्याम् । तस्य न्यग्रोधपोतस्य । पुटः सम्पुटिते पत्रपात्रे च करनिर्मिते इति निरुक्तिः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.२२ ॥
महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् ।
कम्बु-ग्रीवं महोरस्कं सुनासं सुन्दर-भ्रुवम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रीमद्-रम्यं वदन-पङ्कजं यस्य तम् । कम्बुवत् त्रि-रेखावृता ग्रीवा यस्य तम् । महोरस्कं विशाल-वक्षसम् । सुनासं शोभना नासा यस्य तम् । सुन्दरे भ्रुवौ यस्य तम् ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भ्रुवौ नेत्रोर्ध्वभागौ ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.९.२३ ॥
श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-दाडिमम् ।
विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्वासैर् एजन्तः कम्पमाना अलकास् तैर् आभातं शोभितम् । कम्बु-वद्-अन्तर्-वलयेन श्रीर् ययोस् तौ कम्बु-श्रियौ तयोः कर्णयोर् दाडिम-पुष्पे यस्य तम् । विद्रुम-तुल्याधर-भासा ईषच्-छोणायितं सुधा-तुल्यं स्मितं यस्य तम् ।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्वासैर् एजन्तः कम्पमाना अलकास् तैर् आभतम् । कम्बुवद् अन्तर्-वलयेन श्रीर् ययोस् तौ कम्बु-श्रियौ तयोः कर्णयोर् दाडिम्ब-पुष्पे यस्य तम् ॥२३॥
॥।
॥ १२.९.२४ ॥
पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् ।
श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पद्म-गर्भवत् आ ईषद् अरुणाव् अपाङ्गौ नेत्र-प्रान्तौ यस्य तत् । हृद्यो हासो यस्मिंस् तद्-अवलोकनं यस्य तम् । श्वासैर् एजन्त्यश् चलन्त्यो वलयस् तिर्यङ्-नम्न-रेखास् ताभिः संविग्ना चञ्चला निम्ना गम्भीरा नाभिर् यस्मिंस् तद्-दल-वद्-अश्वत्थ-पत्र-सङ्काशम् उदरं यस्य तम् ॥२४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कर्णयोर्दाडिमपुष्पे तदाकारे भूषणे इति व्याख्येयम्, अन्यथा कर्णे पुष्पं कटौ सूत्रं वेणीं शिरसि धारयन् । तावद्भवति चाण्डालो यावद्गङ्गां न मज्जति । इति स्मृतिविरोधः स्यात् ॥२३-२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्वासैर् एजन्त्यश् चलन्त्यो वलयस् तिर्यङ्-निम्न-रेखास् ताभिः सह सम्विग्नं चञ्चलं निम्न-नाभिः गभीर-नाभिः । दलोदरं दलम् अश्वत्थ-पत्रं, तद्वद् उदरं यस्य तम् ॥२४॥
॥।
॥ १२.९.२५ ॥
चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चारवोऽङ्गुलयो ययोस् ताभ्याम् उन्नीयाकृष्य धयन्तं पिबन्तम् ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **चार्व् इति—
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं प्रणतोऽस्मि नित्यम् ॥
इति ग्रन्थान्तरोक्तध्यानमत्रासूचि । मच्चरणारविन्दं कीदृशं—मधु यतो बहवो मद्भक्ता एतदास्वादाय यतन्तेऽतोऽहमप्येतदास्वादयिष्यामीतीव पिबन्तम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मच्-चरणाम्बुजे कीदृशं मधु वर्तते यत एतद् आस्वादनार्थं बहवो मद्-भक्ता यतन्ते तस्माद् इदम् अहम् अप्य् आस्वाद्य परिचेष्ये, इतीव धयन्तं पिबन्तम् ॥२५॥
॥।
॥ १२.९.२६ ॥
तद्-दर्शनाद् वीत-परिश्रमो मुदा
प्रोत्फुल्ल-हृत्-पद्म-विलोचनाम्बुजः ।
प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः
प्रष्टुं पुरस् तं प्रससार बालकम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हृत्-पद्मं च विलोचनाम्बुजे च प्रोत्फुल्लानि तानि यस्य सः । अद्भुत-भावोऽत्य्-आश्चर्य-रूपं तेन शङ्कितः सन्न् अपि तं प्रष्टुं पुरः प्रससार समीपं गतः ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भाव्यते चिन्त्यतेऽनेनेति भावो रूपम् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्भुत-भावेन अत्याश्चर्य-स्वरूपेण शङ्कितः नायं प्राकृतो बालक इति प्राप्ताशङ्कोऽपि प्रष्टुम् ॥२६॥
॥।
॥ १२.९.२७ ॥
तावच् छिशोर् वै श्वसितेन भार्गवः
सोऽन्तः शरीरं मशको यथाविशत् ।
तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो
यथा पुरामुह्यद् अतीव-विस्मितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अद इदं जगद् यथा पुरा प्रलयात् पूर्वं न्यस्तं विन्यस्तं दृष्ट्वा चातीव विस्मितः सन्न् अमुह्यत ॥२७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यावत्तत्समीपं गतस् तावदेव । श्वसितेनोच्छ्वासेन । भार्गवो मार्कण्डेयः । मशकोऽतिसूक्ष्मो रक्तपजीवविशेषः । तत्राप्यन्तश्शरीरेऽपि ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अदः जगत् । यथा पुरा प्रलयात् पूर्वम् ॥२७॥
॥।
॥ १२.९.२८ ॥
खं रोदसी भा-गणान् अद्रि-सागरान्
द्वीपान् स-वर्षान् ककुभः सुरासुरान् ।
वनानि देशान् सरितः पुराकरान्
खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृत्स्नशो दर्शनं प्रपञ्चयति, खम् इत्य्-आदिना । ककुभो दिशः । पुराण्याकरांश् च । खेटान् कर्षक-ग्रामान् । व्रजान् गोकुलानि । आश्रमांश् च वर्णांश् च तेषां वृत्तीश् चेत्य् अर्थः ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सवर्षान् सखण्डान् । इत्य् अर्थ इति—वर्णाश्रमवृत्तीर्भिक्षाकृष्यादिरूपा इति भावः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.२९ ॥
महान्ति भूतान्य् अथ भौतिकान्य् असौ
कालं च नाना-युग-कल्प-कल्पनम् ।
यत् किञ्चिद् अन्यद् व्यवहार-कारणं
ददर्श विश्वं सद् इवावभासितम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नाना-युगानि कल्पांश् च कल्पयति तैर् वा कल्प्यत इति तथा तं कालं च । सद् इव परमार्थ इवावभासितं तेनैव ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेनैव भगवतैवावभासितं विश्वं स मार्कण्डेयो दिवा दिवस इवावभासितं प्रकाशयुक्तं ददर्शोति वार्थः । दिवा तेजसा वा यद्भासा सर्वम् इदं विभाति इति श्रुतेः ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **न मार्कण्डेयः दिवा दिवत एव अवभासितं प्रकाश-युक्तं ददर्श ॥२८॥
॥।
॥ १२.९.३० ॥
हिमालयं पुष्पवहां च तां नदीं
निजाश्रमं यत्र ऋषी अपश्यत ।
विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै
बहिर् निरस्तो न्यपतल् लयाब्धौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र निजाश्रमे । शिशोर्मायाशिशोः । श्वसिताच्छवसितेन बहिर्निरस्तो नुन्नः लयाब्धौ दर्शितप्रलयाब्धौ न्यपतत् ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुष्पवहां पुष्पभद्राम् ॥३०॥
॥।
॥ १२.९.३१ ॥
तस्मिन् पृथिव्याः ककुदि प्ररूढं
वटं च तत्-पर्ण-पुटे शयानम् ।
तोकं च तत्-प्रेम-सुधा-स्मितेन
निरीक्षितोऽपाङ्ग-निरीक्षणेन ॥
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि ।
अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वटं च तोकं च वीक्ष्य तस्य प्रेम्णा सुधा-तुल्य-स्मित-युक्तेन अपाङ्ग-निरीक्षणेन निरीक्षितः सन् । अथ तं बालकम् अधोक्षजं परिष्वक्तुम् अभ्ययाद् इति द्वयोर् अन्वयः । कथं भूतम् ? नेत्राभ्यां हृदि धिष्ठितम् अधिष्ठितम् ॥३१-३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् पूर्वदर्शित एव ॥ **अथातोऽनन्तरम् । धिष्ठितं स्थापितम् । अध्यकारलोपस्त्वार्षः । नेत्राभ्यां नेत्रद्वारा ॥३१-३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.९.३३ ॥
तावत् स भगवान् साक्षाद् योगाधीशो गुहाशयः ।
अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तावत् परिष्वङ्ग-लाभात् पूर्वम् एव ऋषेस् तस्यान्तर्हितो बभूव । तद्-उद्यम-वैफल्ये दृष्टान्तः, अनीशो निर्दैवस् तेन निर्मिता ईहा क्रीडा यथेति ॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सद्यस् तद्-अन्तर्धाने दृष्टान्तः—यथेहेति अनीश ईहायाम् असम् अर्थः, तेन निर्मिता ईहा वाञ्छा यथा सद्योऽन्तर्धत्ते, तथा तस्माद् ऋषेस् तादृश-वाञ्छा-विषयोऽपि भगवान् अन्तर्दध इत्य् अर्थः ॥३२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लयाब्धौ निपत्य पुनर् अप्य् अयुतायुत-वर्ष-पर्यन्तं कष्ठम् अनुभूय, पृथिव्याः ककुदि बट-पत्र-शायिनं बालं ददर्श, तस्य प्रेम्णा सुधा-तुल्य-स्मित-युक्तेनापाङ्ग-निरीक्षणेन निरीक्षितः सन् पुनर् अपि तदीय-श्वासेन पूर्ववत् तत्-प्रवेश-निर्गमौ । एवम् एव सप्त-कृत्वः प्रवेश-निर्गम-वाक्य-दृष्ट्या ज्ञेयौ । अनीशो दरिद्रस् तस्य ईहा धनादि-वाञ्छा यथा सद्य एवोत्पद्य सद्य एव लीयते तद्वद् इत्य् अर्थः ॥३३॥
॥।
॥ १२.९.३४ ॥
तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः ।
तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्तर्हितं भगवन्तम् अनु वटः सलिलं लोक-संप्लवश् च तिरो-धाय्य् अन्तर्हितः । स च स्वाश्रम एव यथा-पूर्वं स्थित इति ॥३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनीशो भाग्यरहिते सर्वेशे दुर्बलेऽपि च इति निरुक्तिः ॥३३-३४॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे नवमोऽध्यायः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्षणाद् अस्येति । क्षण-मात्र-काल-मध्ये एव स्पत-कल्प-सङ्ख्यः कालः प्रविष्टोऽभूद् अतर्क्य-भगवच्-छक्त्यैवेति भावः । तिरोधायीति कर्म-कर्तरि चिण् ॥३४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
मार्कण्डेयस्य माया-दर्शनं नाम
नवमोऽध्यायः ।
॥ १२.९ ॥
(१२.१०)