॥ १२.८.१ ॥
श्री-शौनक उवाच—
सूत जीव चिरं साधो वद नो वदतां वर ।
तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टमे तु तपश्-चर्या मार्कण्डेयस्य मोहकैः ।
कामादिभिर् असम्मोहो नर-नारायण-स्तुतिः ॥
पुराण-विभाग-प्रसङ्गेन पुराण-कर्तुर् मार्कण्डेयस्य चरित-प्रश्नम् आह–सूतेति । त्वम् एव वक्तुं योग्य इत्य् आह–तमसि संसारे भ्रमतां पार-दर्शनस् तन्-निवर्तकः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जगतो मोहकैर् अपि । मार्कण्डेयं सवामनम् इति श्रुतत्वेनाद्भुतनामत्वेन स्मृतिपथमारूढस्य मार्कण्डेयस्य चरितं पृच्छति । वक्तुः कथनोत्साहवर्द्धनार्थं संबुद्धित्रयम् । सूतेति सामान्यत उक्तं प्रातिलोम्यभ्रान्तिवारणाय—साधो इति, तत्समर्थनायवदतां वरेति ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं नाना-प्रभावानां कथा-मयं पुराणम् इदं समाप्यमानं वितक्त्यं तत्र निज-कुलावतंस-तादृश-मार्कण्डेय-कथाम् अप्रस्तुतां प्रस्तावयति—सूत जीवेत्य्-आदिना ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टमेऽत्र तपो-भङ्गा शक्तिः स्वर्-योषितोच्यते ।
मार्कण्डेयस्य तेनाथ नर-नारायण-स्तुतिः ॥
मार्कण्डेयं स-वामनम् इति मार्कण्डेय-पुराण-श्रुत्यैव स्मृति-पथम् आरूढस्य मार्कण्डेयस्य चरितं प्रष्टुम् आह—सूतेति तमसि संसारे ॥१॥
॥।
॥ १२.८.२ ॥
आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः ।
यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वक्तव्यम् आह—आहुर् इति । उर्वरितोऽवशिष्टः । येन कल्पान्तेन । एतत् कथं घटते ? इत्य् एकः प्रश्नः ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आहुः पौराणिकाः। कल्पान्तत्वं दुर्घटम् एव ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : कल्पस्यान्ते उर्वरितः, अवशिष्टत्वेन दृष्टः ॥२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उर्वरितोऽवशिष्टः । येन कल्पान्तेन ॥२॥
॥।
॥ १२.८.३ ॥
स वा अस्मत्-कुलोत्पन्नः कल्पेऽस्मिन् भार्गव-र्षभः ।
नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रलयाभावाद् अप्य् एतन् न घटत इत्य् आह—स वा इति । यतो भार्गव-र्षभः । कोऽपि प्राकृतिको नैमित्तिको वा ॥३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कल्पान्तत्वं न घटत इत्य् आह—स वा इति । कथम् अस्मिन्न् एव कल्प इति ज्ञायते ? तत्राह—नैवेति । कल्पान्ते सम्प्लवस्यावश्यं भावित्वाद् भूत-परम्परायाश् चाविच्छेदेन सम्प्रति प्राप्तत्वाद् इति भावः ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स कल्पान्ते उर्वरित इति प्रसिद्धिः, किन्तु अधुनापि सम्प्लवः प्रलयो नास्तीति संशयः ॥३॥
॥।
॥ १२.८.४ ॥
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल ।
वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्यद् अप्य् अघटितम् एवेत्य् आह—एक एवेति । तोकं बालकम् ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु काश्यः कुशो गृत्समदः इति सुहोत्रनृपस्यात्मजाद्गृत्समदाच्छुनकस् तस्माच्छौनकोत्पत्तिश्रुतेः कथमुक्तं श्रीशौनकेन—स वा अस्मत्कुलोत्पन्न इति, तत्रेदं बोध्यम्—गृत्समदोऽरिनृपभीतो भार्गवाश्रममित्वा तं नत्वा च भगवन्मां पाहि रिपोर् इति प्रोवाच, स च तं मा भैरित्याश्वास्याश्रमाद्बहिरागत्य तद्वैरिणमिह सर्वे ब्राह्मणाः सन्ति न कोपि क्षत्रिय इत्युवाच । तदाकर्ण्य जितं मयेत्युक्त्वा स गतस् तदा भार्गवोऽभूद् इति महाभारते । सति प्रलयेऽस्मत्कुलं कथमवशिष्टम् इति प्रश्नान्तरम् ॥३-४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कल्पान्ते उर्वरितत्वे किं प्रमाणम् ? तद् आह—एक एवार्णव इति । किल प्रसिद्धौ ॥४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्यद् अप्य् अघटितम् एवेत्य् आह—एक एवेति ॥४॥
॥।
॥ १२.८.५ ॥
एष नः संशयो भूयान् सूत कौतूहलं यतः ।
तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कौतूहलम् औत्सुक्यम् । तं संशयम् । न केवलं त्वं महा-योगी, किन्तु पुराणेष्व् अपि ज्ञातृत्वेन सम्मतः ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुराणेषु प्राचीनवृत्तप्रतिपादिकेषु श्रीव्यासर्षिप्रणीतशास्त्रेषु ।
अनागतमतीतं च वर्तमानमतीन्द्रियम् ।
सन्निकृष्टं व्यवहितं सम्यक्पश्यन्ति योगिनः ॥
इत्य् उक्तेर् योगिनामेतत्कथनसामर्थ्यमस्ति किं पुनर्महायोगिनः तवेति । संबुद्ध्यभिप्रायः ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः संशयाद् एव कौतूहलं तं संशयं छिन्धि । न केवलं त्वं महा-योगी, किन्तु पुराणेष्व् अपि ज्ञातृत्वेन सम्मतः ॥५॥
॥।
॥ १२.८.६ ॥
सूत उवाच—
प्रश्नस् त्वया महर्षेऽयं कृतो लोक-भ्रमापहः ।
नारायण-कथा यत्र गीता कलि-मलापहा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रश्नम् अभिनन्दति—हे महर्षे । अयं प्रश्नः । तत्र हेतुः—नारायणेति । यत्र प्रश्न-विषये ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे महर्षे इति संबुद्ध्या तत्तादृशज्ञानवत्त्वं सूचयति । ऋषय एव त्रिकालज्ञा भवन्ति किं पुनर्महर्षिः भवानिति भावः । ऋषिस्त्रैकालिकज्ञानी विप्रो वेदस् तथा ऋषिः इति संहितोक्तेः । तत्र लोकभ्रमावहत्वे । लोकभ्रमः संसारे भ्रमणं तमपहन्तीति तथा ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इह खलु कल्पे मन्वन्तराण्य् एवोच्यन्ते सम्प्लवश् च तद्-अन्ते प्रक्षालनम् एव, यत् तु एक एवार्णवे भ्राम्यन् [भा।पु। १२.८.४] इत्य्-आदि भवता पृष्टं, तत् खलु मायिकम् एव सप्तानाम् अपि कल्पानां मायिकत्वे तु क्षण-मात्रत्वेन सम्भवाच् चिर-जीवित्व-विघातः स्याद् इत्य् उत्तरयितुम् आह—प्रश्न इति ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.७ ॥
प्राप्त-द्वि-जाति-संस्कारो मार्कण्डेयः पितुः क्रमात् ।
छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र मार्कण्डेयस् तपसा भगवन्तम् आराध्य माया-प्रदर्शनं वव्रे । ततश् च तेनैव भगवन्-मायया सप्त-कल्पा दृष्टा नान्यैर् इत्य् उत्तरं वक्तुम् आदित आरभ्य तस्य चरितम् आह—प्राप्त इत्य्-आदिना । मार्कण्डेयो मृत्युं जिग्ये इति पञ्चम-श्लोकेनान्वयः । मध्यम-ग्रन्थेन तस्य धर्मः कथ्यते । प्राप्तो द्वि-जाति-संस्कार उपनयनाख्यो येन सः । पितुः सकाशाद् गर्भाधानादि-क्रमात् । छन्दांसि वेदान् ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्रापस्थितप्रकृते । अथ प्रसङ्गागतम् आह—विदुषां मुदे । पितुरित्य् उक्तेर् नात्र पितैवोपनयेत्पुत्रम् इति नियमः, किन्तु पितेत्युपलक्षणं पितामहादेः तद्-उक्तं गर्गेण—
पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः ।
उपनायेऽधीकारी स्यात्पूर्वाभावे परः ॥
उक्ताधिकार्यभावे व्यासः—
वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् ।
स्वशाखीयमनालस्यं विप्रमाचार्यमाश्रयेत् ॥ इति ।
आचार्यं हि क्षत्रवैश्यौ वृणुयातां पुरोहितम् ।
तदभावेऽन्यविप्रं हि गृहस्थं वेदपारगम् ॥
त्यक्तगोत्राभिमानं तु यो विप्रम् अपि धारयेत् ।
वदकर्मप्यथाचार्यं पतितः सोऽभिधीयते ॥
तत्कारितं तत्कृतं च शुभं कर्माखिलं वृथा ।
प्रायश्चित्तं ततः कृत्वा तत्कर्म पुनराचरेत् ॥
प्रायश्चित्तं तूक्तं वारतान्तविना—
विप्रेभ्यो दश गा दद्याद्वा कृच्छ्राणि दशाचरेत् ।
कारयेत्संहितापाठं गायत्र्या वा दशायुतम् ।
ततस् तूपनयेद्विप्रो विप्रक्षत्रविशः सुधीः ॥ इति ।
क्रमादिति—गर्भाधानाद्याः षोडशसंस्काराः पूर्वमुक्ताः ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्राप्तेति पञ्चकम् ॥७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.८ ॥
बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः ।
बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बृहद्-व्रत-धरो नैष्ठिको ब्रह्मचारी सन् ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मेखला मौञ्जी त सहितम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.९ ॥
कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये ।
अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नियम-र्द्धये धर्म-वृद्धये अग्न्य्-आदिषु पञ्चसु हरिम् अर्चयन् ॥९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अक्षसूत्रमक्षमाला आदिक्षान्तगतैर्वणैर्जपमालाक्षमालिका इति तन्त्रोक्तेः । गौतमीये च—
पञ्चाशन्मणिभिर्माला विहिता सर्वकर्मसु ।
अकारादिक्षाकारान्ता ह्यक्षमाला प्रकीर्तिता ॥ इति ।
रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः ।
स्फाटिकौर्माणिरत्नैश् च सौवर्णैर्विद्रुमैस् तथा ।
राजतैः कुशमूलैश् च गृहस्थस्याक्षमालिका ।
अङ्गुलीगणनादेकं पर्वण्यष्टगुणं भवेत् ।
पुत्रजीवैर्द शगुणं शतं शङ्खैः सहस्रक्रम् ।
प्रवालैर्मणिरत्नैश् च दशसाहस्रिक फलम् ।
तद् एव स्फाटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते ।
पद्माक्षैर्दशलक्षं स्यात्सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या कोटिशतं रुद्राक्षैः स्यादनन्तकम् ॥ इति ।
कुशांश्चेत्युक्तेः कुशत्रयपवित्रादि ज्ञेयम् । विप्रोऽत्र गुरुभिन्नो ज्ञेयः । अत्र विप्रपदस्य पृथगुक्तेर् विप्रतरस्य गुरुत्वं न शङ्कनीयम्, जन्मना ब्राह्मणो गुरुः इति श्रीगर्गं प्रति नन्दोक्तेः वर्णानामाश्रमाणां च मुख्योऽभूद्ब्राह्मणो गुरुः इति मैत्रेयोक्तेश् च ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.१० ॥
सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः ।
बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भैक्ष्यं गुर्व्-अर्थम् आहृत्य तेनानुज्ञातश् चेत् तर्हि बुभुजे नो चेत् सकृत् कदाचिद् उपोषितो भवति ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नो चेत् कदाचिद्गुर्वनुज्ञाभावे उपोषितः कृतोपवास एव भवतीत्य् अर्थः ॥१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सायं प्रातरितिं समावर्तनात् पूर्वावस्थायाम् एव गेयं वर्षाणाम् अयुतायुतम् इति कल्पाभिप्रायेण कल्प-जीवित्वात्, यावज्-जीवम् एवाराधयतस् तस्य मृत्युर् न छिद्रं प्रापेत्य् अर्थः । तस्यैवं युञ्जत [भा।पु। १२.८.१४-१५] इति वक्ष्यमाण-पद्य-द्वयात् ॥१०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.११ ॥
एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् ।
आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम् ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वाध्यायो वेदाभ्यासः । अयुतायुतं कोटिः, असङ्ख्यातान्येव वर्षाणि जग्मुरित्य् अर्थः ॥११॥
॥।
॥ १२.८.१२ ॥
ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च येऽपरे ।
नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेन मृत्यु-जयेन ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेन मृत्युञ्जयरूपकर्मणा ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.१३ ॥
इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः ।
दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ध्वस्ताः क्लेशा रागादयो यस्य तेनान्तर्-आत्मना प्रत्याहृत-मनसा ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदिना द्वेषादिग्रहः । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः इति पतञ्जलिसूत्रात् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ध्वस्ताः क्लेशा रागादयो यस्य तेनान्तर्-आत्मना मनसा ॥१३॥
॥।
॥ १२.८.१४ ॥
तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः ।
व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **षडित्यस्य पर्वनिपाताभावो विशेषणविशेष्यभावव्यत्यासात् ॥१४॥
॥।
॥ १२.८.१५ ॥
एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे ।
तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य तपो-निष्ठाम् इतिहासेन वर्णयति—एतद् इत्य्-आदिना । अस्मिन् सप्तमे मन्वन्तरे । तपसा मत्-पदं ग्रहीष्यतीति विशङ्कितः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तपसा मत्-पदं ग्रहीष्यतीति विशङ्कितः ॥१५॥
॥।
॥ १२.८.१६ ॥
गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ ।
मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मुनये मुनिं भ्रंशयितुम् । रजसस् तोकम् अतिप्रियम् अपत्यं लोभो मदश् च तौ ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अस्मिन्वैवस्वताख्ये । एतन्मार्कण्डेयतपस आधिक्यम् । तद्विघातनं तपोनाशनम् । हे ब्रह्मन्न् इति वर्णिताभिप्रायम् ॥१५-१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रजसस् तोकम् अपत्यं लोभश् च मदश् च, तौ ॥१६॥
॥।
॥ १२.८.१७ ॥
ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे ।
पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ते गन्धर्वाद्याः । तदाश्रमं मार्कण्डेयाश्रमम् ॥१७॥
॥।
॥ १२.८.१८ ॥
तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-लताञ्चितम् ।
पुण्य-द्विज-कुलाकीर्णं पुण्यामल-जलाशयम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-आश्रम-पदं प्रविष्टो वायुर् ववाव् इति तृतीयेनान्वयः । पुण्यैर् द्रुमैर् लताभिश् चाञ्चितं पूजितम् । पुण्य-द्विजानाम् ऋषीणां कुलैर् आकीर्णम् । पुण्या अमला जलाशया यस्मिन् ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुण्यद्रुमा अश्वत्थादयः, पुण्यलता विष्णुक्रान्ताद्याः, पुण्यद्विजाः शुकसारसादयः । जलाशयाः सरोवराः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.१९ ॥
मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् ।
मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मत्त-भ्रमराणां सङ्गीतं यस्मिन् । मत्त-कोकिलानां कूजितं यस्मिन् । मत्ता बर्हिण एव नटास् तेषाम् आटोपो नृत्य-संभ्रामो यस्मिन् । मत्तानां पक्षिणा कुलैर् आकुलं व्याप्तम् ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आटोपो नृत्यसंभ्रमः ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.२० ॥
वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् ।
सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं-भूतं तद् आश्रम-पदं प्रविष्टः सन् वायुर् मलयानिलो ववौ प्रससार । उत्तम्भयन्न् उहीपयन् । तत्र वृक्षेषु प्रवेशान् मान्द्यं हिम-निर्झर-कणानाम् आदानाच् छैत्यं पुष्प-परिष्वङ्गात् सौगन्ध्यं चोक्तम् ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र वायौ ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.२१ ॥
उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः ।
गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, उद्यंश् चन्द्रो यस्मिंस् तन्-निशा-वक्त्रं रजनी-मुखं यस्मिन् सः । प्रवाल-स्तवकानाम् आलयः श्रेणयो येषु तैः । गुप्यन्ति विटपैः संश्लिष्यन्तीति गोपा द्रुमा लताश् च तेषां जालैः समूहैर् उपलक्षित आविर् बभूव ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदाह—किञ्चेति । कुसुमाकरो वसन्तः । गां पृथ्वीं फलपुष्पाद्यैः पान्ति तर्पयन्तीति गोपा आम्रादयः । यद् वा, गाः किरणानि पान्ति रक्षन्ति पत्रादिषु प्रकटयन्तीति गोपा अश्वत्थादयस्ते च ते द्रुमाश्चेति गोपद्रुमाः ॥२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उद्यद् इति । गां पृथ्वीं फल-पुष्पादिभिः पान्तीति गो-पाः सर्व-सन्तर्पका ये द्रुमा इत्य् अर्थः ॥२१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उद्यंश् चन्द्रो यस्मिंस् तादृशं निशा-वक्त्रं निशा-मुखं यस्मिन् सः । प्रवालानां स्तवकानाम् आलयो यत्र तैः । गाः किरणान् पान्ति रक्षन्ति ये द्रुमा लताश् च, तेषां जालैः । सह कुसुमाकरो वसन्तः ॥२१॥
॥।
॥ १२.८.२२ ॥
अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः ।
अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, तदा गीत-वादित्र-यूथकैर् गायकादि-समुदायिभिर् गन्धर्वैर् अन्वीयमानः । तथा स्वः-स्त्रियोऽप्सरसस् तासां यूथस्य पतिः । आत्तं चापम् इषुश् च येन, स स्मरश् च तत्रादृश्यत ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदाह—किञ्चेति । स्मरः कामः । तत्राश्रमे ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **गीत-वादित्र-यूथकैर् गीत-वादित्र-यूथवद्भिः । अदृश्यत मुनि-मनसि स्वयम् एव किञ्चिद् अन्वभूयतेति व्यकम्पयन्न् इति प्रबोध्याहिं [भा।पु। १२.८.२९] इति धर्षितोऽपीत्य् अग्रिम-वाक्याद् अवगम्यते । मत्व्-अर्थीयष्टन् ॥२२॥
॥।
॥ १२.८.२३ ॥
हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः ।
मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दुराधर्षम् अभिभवितुम् अशक्यम् ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अनलमग्निम् ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुपासीनं मुनिम् ॥२३॥
॥।
॥ १२.८.२४ ॥
ननृतुस् तस्य पुरतः स्त्रियोऽथो गायका जगुः ।
मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम् ॥
न कतमेनापि व्याख्यातम्।
॥।
॥ १२.८.२५ ॥
सन्दधेऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा ।
मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शोषण-दीपन-सम्मोहन-तापनोन्मादनाख्यानि पञ्च मुखानि यस्य तद्-अस्त्रं सन्दधे । तदैव मधुर् वसन्तः । रजस्-तोकश् च पुंस्त्वम् आर्षम् । अन्ये चेन्द्र-भृत्यास् तस्य मनो व्यकम्पयन् ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य मुनेः ॥२४-२५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **व्यकम्पयन् विकम्पयितुम् आरब्धा इत्य् अर्थः ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोषण-मोहन-सन्दीपन-तापन-मादनाख्यानि पञ्च-मुखानि यस्य तत् । मधुर् वसन्तः । रजस्-तोकश् च पुंस्त्वम् आर्षम् । व्यकम्पयन् मनश् चालयामासुः ॥२५॥
॥।
॥ १२.८.२६ ॥
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् ।
भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुञ्जिकस्थल्यास् तन्-नाम्न्याः ॥२६॥
॥।
॥ १२.८.२७ ॥
इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् ।
वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, वायुर् मलयानिलः पुञ्जिक-स्थल्यास् तत् सूक्ष्मं वासो जहार ॥२७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **केशेभ्यो विस्रंसिता अधः पतिता स्रक् पुष्पमाला यस्यास्तस्याः ॥२६-२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.२८ ॥
विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः ।
सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्वं तेषां कर्म । तत्र तस्मिन् । मोघं व्यर्थम् । अनीशस्य निर्दैवस्य ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र मुनौ । अनीशो भाग्यरहितः ॥२८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनीशस्य अनीश्वर-वादिनः । उद्यमः पारलौकिक-प्रयत्नः ॥२८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनीशस्य भाग्य-रहितस्य ॥२८॥
॥।
॥ १२.८.२९ ॥
त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने ।
दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मुनेर् अपकुर्वन्तः प्रतिकूलम् आचरन्तः । हे मुने ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे मुने इति—मननशीला हि कोमलस्वभावत्वात्प्रतीकारं न कुर्वन्तीति—भावः । प्रबोध्याहिम् इति न जानीमहेऽद्य किं भावीति भीताः । अत्राहिदृष्टान्तेन प्रथमं कामं प्रति किञ्चित्क्रोधोऽपि जातः पश्चाद्विवेकेन कामक्रोधयोर्द्वयोरेवोपरामः कृत इत्यवसीयते ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रबोध्याहिम् इति न जानीमहे । अद्य किं भविष्यतीति भीताः । अत्राहि-दृष्टान्तेन प्रथमं किञ्चिद् अद्भुतं कामं प्रति क्रोधोऽभूत् पश्चाद् विवेकेन काम-क्रोधयोर् उभयोर् अप्य् उपशमः कृत इत्य् अवसीयते ॥२९॥
॥।
॥ १२.८.३० ॥
इतीन्द्रानुचरैर् ब्रह्मन् धर्षितोऽपि महा-मुनिः ।
यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अहमोऽहङ्कारस्य । भावं विकारम् ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **धर्षितोऽपि धर्षितुम् आरब्धोऽपि ॥३०॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहमोऽहङ्कारस्य ॥३०॥
॥।
॥ १२.८.३१ ॥
दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् स्वराट् ।
श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **निस्तेजसं म्लान-वदनम् । स्व-राड् इन्द्रः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्व-राड् इन्द्रः ॥३१॥
॥।
॥ १२.८.३२ ॥
तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः ।
अनुग्रहायाविरासीन् नर-नारायणो हरिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नर-नारायण-रूपो हरिः ॥३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **धर्षितो विप्रकृतः ॥३०-३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.३३ ॥
तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ
चतुर्-भुजौ रौरव-वल्कलाम्बरौ ।
पवित्र-पाणी उपवीतकं त्रि-वृत्
कमण्डलुं दण्डम् ऋजुं च वैणवम् ॥
पद्माक्ष-मालाम् उत जन्तु-मार्जनं
वेदं च साक्षात् तप एव रूपिणौ ।
तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा
प्रांशू दधानौ विबुधर्षभार्चितौ ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ताव् अनुवर्णयति द्वाभ्याम्—ताव् इति । रौरवं कृष्णाजिनं वल्कलं चाम्बरं ययोस् तौ । पवित्रे पाण्योर् ययोस् तौ । त्रि-वृत् त्रि-गुणं नव-तन्तुकम् इति वा त्रि-वृद् बहिः पवमानम् इत्य्-आदौ नवके प्रयोगात् । उपवीतकादीन् दधानौ । वेदं दर्भ-मुष्टिम् । किं च, साक्षात् तप एव तौ । तत्र हेतुः, तपत्-ताडिद्-वर्णं देदीप्यमान-विद्युत्-सङ्काशं यत् पिशङ्गं रोचिस् तेन रूपिणौ मूर्तिम् अन्तौ । तादृक्-तेजो-युक्त-मूर्तिभ्यां तपो-मयत्वेन प्रकाशमानाव् इत्य् अर्थः । प्रांशू उन्नतौ ॥३३-३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त्रिगुणम् इति—
यज्ञोपवीते द्वे धार्ये श्रौते स्मार्ते च कर्मणि ।
तृतीयमुत्तरीयार्थं वस्त्राभावे तदिष्यते ॥
इति हेमाद्र्युक्तं स्त्र्युपवीतमित्य् अर्थः । यद् वा, त्रिवृद् इति यज्ञोपवीत स्वरूपकथननेवेत्याह—नवतन्तुकम् इति । अत्र प्रमाणम् आह—त्रिवृद्धहिर् इति । पवित्रे द्वित्रिकुशनिर्मिते पाण्योर्दक्षवामकरानामिकयोर्ययोस्तौ । यद् वा, सौवर्णे पवित्रे ग्राह्ये । तद् उक्तमथर्वषष्ठानुवाके—
नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमं ह्ये तत् ।
यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥ इति ।
कृणुते प्राप्नोति । कृवि—गतौ तङार्षः ॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पद्मानामक्षमालेति वैष्णवमालात्वबोधनायैव । जन्तुमार्जनं सूक्ष्मकीटपिपीलिकादिमार्जनम्, तच् च नानातन्तुखण्डनिर्मितश्चामरविशेष इति केचित् । अपरे तु वस्त्रखण्डम् इति । अन्ये तु जन्तूनां मार्जनं येन तथाविधं वेदं चेति वेदविशेषणतया व्याचख्युः । पिशङ्गं पीतम् । इत्य् अर्थ इति—तेजोविशेषेण मूर्तिधारि तप एवेमाव् इति प्रतीयमानाव् इति भावः ॥३३-३४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **उपवीतादिकं दधानौ ॥३३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **रौरवं कृष्णाजिनं वल्कलम् अम्बरं ययोस् तौ । त्रि-वृत् त्रि-गुणं नव-तन्तुकम् उपवीतं दधानौ कमण्डल्व्-आदिकं हस्तेषु दधानौ । वेदं वेद-शास्त्रं जन्तूनां मार्जनं शुद्धिर् यतस् तं वेदं दर्भ-मुष्टिम् इति केचित् । तप एव रूपिणौ तपो-मूर्तिर् इत्य् अर्थः । तपस् तडिद्-वर्णं दीप्यमान-विद्युत्-सङ्काशं यत् पिशङ्ग-रोचिस् तेन । प्रांशू अत्युन्नतौ ॥३३-३४॥
॥।
॥ १२.८.३५ ॥
ते वै भगवतो रूपे नर-नारायणाव् ऋषी ।
दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्डवत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उच्चैर् महतादरेण ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.३६ ॥
स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः ।
हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तयोः सन्दर्शनेन य आनन्दस् तेन निर्वृता उपशान्ता आत्मेन्द्रियाशया देहेन्द्रिय-मनांसि यस्य सः । न सेहे नाशक्नोत् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न सेहे न शशाक ॥३६॥
॥।
॥ १२.८.३७ ॥
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्याद् आश्लिषन्न् इव ।
नमो नम इतीशानौ बभाषे गद्गदाक्षरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आश्लिषन्न् आलिङ्गन्न् इव ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रह्वो नम्रः ॥३७॥
॥।
॥ १२.८.३८ ॥
तयोर् आसनम् आदाय पादयोर् अवनिज्य च ।
अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पादयोर् अवनिज्य पादौ प्रक्षाल्य । अर्हणेनार्ध्येण ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.३९ ॥
सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी ।
पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पादाभ्यां पादाव् आनम्य । गरिष्ठौ पूज्यतमौ तौ प्रति ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दण्डवत् साष्टाङ्गम् ॥३५-३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.८.४० ॥
श्री-मार्कण्डेय उवाच—
**किं वर्णये तव विभो यद्-उदीरितोऽसुः **
संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि ।
स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च
स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तर्यामिणस् तस्यैव प्राणादि-प्रवर्तकत्वाद् आत्मनः स्तुताव् अस्वातन्त्र्यं पश्यन्न् आह—किम् इति । तव त्वां किम् अहं वर्णये, कथं स्तौमि ? यद् येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः संस्पन्दते प्रवर्तते, तम् अनु च वाग्-आदयः स्पन्दन्ति । अत्र हेतुः—वै अन्वय-व्यतिरेकाभ्यां, श्रोत्रस्य श्रोत्रं [बृ।आ।उ। ४.४.१८] इत्य्-आदि-श्रुतिभिश् चैतत् प्रसिद्धम् इत्य् अर्थः । न केवलं प्राकृतानां तनु-भृतां किन्त्व् अज-शर्वयोश् च, अतः स्वस्य ममापि तथैव । एवं यद्यपि न कस्यापि स्वातन्त्र्यम्, अथापि दारु-यन्त्रवत् त्वत्-प्रवर्तितैर् अपि वाग्-आदिभिर् भजतां पुंसां भाव-बन्धुर् आत्म-बन्धुर् असि, न तु पित्रादिवद् देह-मात्र-बन्धुः । अहो कृपालुता तवेत्य् अर्थः ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे विभो इति—वर्णनं हि परिच्छिन्न-वस्तुनो भवति विभोस् तु तद्धास्यायवेति भावः । अत्र वाग्-आदि-स्पन्दकत्वे । अन्वय-व्यतिरेकौ च यत्र श्रोत्रादिमत्त्वं तत्र तत्-प्रवर्तकत्वं यथास्मद्-आदिषु, यत्र तन् न तत्र न तत्-प्रवर्तकत्वं यथा घटादाव् इति ज्ञयौ । इत्य् अर्थ इति—श्रुतिभिर् अयम् अर्थः स्फुटतया प्रतिपादित इति भावः । इत्य् अर्थ इति—अहो निर्निमित्त-कृपालुता तवैवास्ति न देह-बन्धूनाम् इति भावः ।
विश्वनाथस् तु—यद्यप्य् एवं बन्धुर् असि तथापि भजतां जनानां भावेन प्रेम्णा बन्धुर् बन्धुर् इव वश्योऽसि प्राणेन्द्रियादिभिस् त्वम् एव स्व-भजनं कारयसि पुनस् तादृश-भजनस्य प्रत्युपकारासमर्थ ऋणीव भूत्वा प्रेम-वश्यो भवसीत्य् अद्भुतं तव कृपा-वैभवम् इति भावः ॥४०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भक्ति-रूपायास् तच्-छक्तेर् जीवेऽभिव्यक्तौ भगवान् एव कारणम् । तत्-तद्-इन्द्रियादि-प्रवृत्तौ च स एवेति तस्मिंस् तया जीवस्योपकारकाभासत्वम् एव । तथापि भक्तानुरज्यद् आत्मत्वे भगवतः स्व-कृपा-प्राबल्यम् एव कारणम् इति वदन् पूर्वार्थम् एव साधयति—किं वर्णय इति ।
हे विभो ! तव किम् अहं वर्णये ? त्वत्-कृपालुतायाः कियन्तम् अंशं वर्णयेयम् ? इत्य् अर्थः। यतो येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः संस्पन्दते प्रवर्तते, तम् असुम् अनु च वाग्-आदयः स्पन्दन्ति । तत्र हेतुः—वै अन्वय-व्यतिरेकाभ्यां श्रोत्रस्य श्रोत्रम् [बृ।आ।उ। ४.४.१८] इत्य्-आदि-श्रुतिभ्यश् च तत् प्रसिद्धम् इत्य् अर्थः । न केवलं प्राकृतानां तनु-भृतां किन्तु अज-शर्वयोश् च । अतः स्वस्य ममापि तथैव । एवं यद्यपि न क्वचिद् अपि कस्यापि स्वातन्त्र्यम्, तथापि दारु-यन्त्रवत् प्रवर्तितैर् अपि वाग्-आदिभिर् भजतां पुंसां भावेन स्व-दत्तयैव भक्त्या बन्धुर् स्निग्धोऽसि इति ॥४०॥ [भक्ति-सन्दर्भः १४४]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः स्पन्दते प्रवर्तते, तम् अनु च वाग्-आदीनि स्पन्दन्ते । श्रोत्रस्य श्रोत्रं [बृ।आ।उ। ४.४.१८] इत्य्-आदि-श्रुतिभिर् वै निश्चितम् एवेत्य् अर्थः । न केवलं प्राकृतानां तनु-भृताम् अपि अज-शर्वयोश् च । अतः स्वस्य मम अपि । यद्यप्य् एवं, तथापि भजतां जनानां भावेन प्रेम्ना बन्धुर् बन्धुर् इव वश्योऽसि । प्राण-बुद्धीन्द्रियादिभिस् त्वम् एव स्व-भजनं कारयसि, पुनस् तादृश-भजनस्य प्रत्युपकारे ऽसमर्थो ऋणीव भूत्वा, तत्-प्रेम-वश्यो भवसीत्य् अद्भुतं तव कृपा-वैभवम् इति भावः ॥४०॥
॥।
॥ १२.८.४१ ॥
मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः
क्षेमाय ताप-विरमाय च मृत्यु-जित्यै ।
नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं
सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु कथम् आवां प्राणादि-प्रवर्तकौ धर्म-पुत्रत्वाद् आवयोः ? इति चेत्, तत्राह—मूर्ती इति । हे भगवन् ! भगवतस् तव इमे मूर्ती त्रि-लोक्याः क्षेमाय पालनाय ताप-विरमाय च दुःख-निवृत्त्यै मृत्यु-जित्यै मोक्षाय, न तु त्वं कस्यापि पुत्र इत्य् अर्थः । अत्र दृष्टान्तः, यथेदं विश्वम् अवितुम् अन्यास् तनूर् मत्स्य-कूर्मादि-लक्षणा नाना अनेक-प्रकारा बिभर्षि, तद्वत् । न केवलं पालन-मात्रं तव कर्म, किन्तु सृष्टि-लयाव् अपीत्य् आह—सृष्ट्वेति । तत्राप्य् अन्य-निरपेक्षत्वे दृष्टान्तः—ऊर्णनाभिर् इवेति ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **न केवलं स्वभजनं कारयितुं भक्तिपरिपाके च तद्वश्यो भवितुं तवावतारः किन्तु जगत्पालनार्थमपीत्य् आह—मूर्तीं इति । अत्राक्षिपति—नन्व् इति । हे भगवन्न् इति—त्वं तु साक्षाद्भगवानेव लोकहिताय प्रादुष्कृतमतिर् इति भावः । इत्य् अर्थ इति—भक्ताभीष्टसम्पादनायैव पुत्रादिभावेन प्रतीयसे न त्वं साक्षात्पुत्रादिरन्ति भावः। न न माता न पिता तस्य इत्य्-आदिश्रीदशमोक्तेः । अत्र जगद्धिताय धृतमूर्तित्वे । तत्रापि सृष्ट्यादावपि । ऊर्णनाभिर्लूतातन्तुर्यथान्यमनपेक्ष्यैव स्वेनैव तन्तुवितानं कृत्वा तत्र विहृत्य च पुनः संहरति तथा त्वमपीत्य् अर्थः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्मात् स्व-भजनं कारयितुं भजन-परिपाके च त्वद्-भक्त-प्रेम-वश्यो भवितुं च तवावतारः । न केवलम् एतद् एव निमित्तं जगत्-पालनार्थम् अपीत्य् आह—मूर्ती इमे इति । मृत्यु-जित्यै मोक्षाय च । यथा नानान्यतनूर् मत्स्य-कूर्माद्या बिभर्षि तथेमाम्न् अपि तनूं बिभर्षि । किं च, सृष्ट्वा यस्य पालनार्थं तनूर् बिभर्षि तत् सर्वं पुनर् ग्रससि च ऊर्णनाभिर् इवेत्य् अद्भुतं तव लीला-वैभवम् अपीति भावः ॥४१॥
॥।
॥ १२.८.४२ ॥
तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं
यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति ।
यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं
ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माद् एवं-भूतस् त्वं तस्मात् तवाङ्घ्रि-मूलं भजामीत्य् आह—तस्येति । तस्यावितुः पालकस्य स्थावर-जङ्गमानाम् ईश्वरस्याङ्ग्रि-मूलं भजामीति तृतीय-श्लोक-स्थस्यानुषङ्गः । कथं भूतम् अङ्घ्रि-मूलम् । यत्-स्थं यत्र स्थितम् । कर्म-गुण-कालानां रजो-मलम् । अन्ये च पूर्वोक्तास् तपादयो न स्पृशन्ति । “रुजः” इति व पाठः । यतो वेदो हृदये येषां ते वेद-तात्पर्य-विदो मुनयो यद् एव स्तुवन्ति नितरां नमन्ति तद्-आप्त्यै तत्-प्राप्तये एव स्तवनादि कुर्वन्ति ॥४२॥
———————————————————————————————————————
कैवल्य-दीपिका : तस्येति । अवितुः रक्षकस्य ईशितुः स्रष्टुः । संहर्तुश् च अङ्घ्रि-मूलम् । तद् उत्तर-श्लोक-स्थेन भजामि इत्य् अनेनान्वयः । यत्-स्थं यत्र स्थितं कर्म । पुण्य-पापे गुणा रजः-प्रभृतयः । कालो मृत्युः । त एव विकारापादकत्वात् रुजो रोगाः । एते स्पृशन्त्य् अपिनो दूरे बाधकार्ताः । स्तुतिर् वाचा गुण-कीर्तनम् । जपो मनसा । जपकृद् उच्चार इति धातु-सूत्रात् । निनमन्ति शृण्वन्ति, उपसर्ग-योगाद् अयम् अर्थः । धात्व्-अर्थं बाधते कश्चित् कश्चित् तम् अनुवर्तते इत्य् उपसर्ग-वृत्ती । वेदो हृदये येषां ते तथा । तद्-आप्त्यै विष्णु-प्राप्तये ॥४२॥ [मु।फ। १०.१२]
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्ये चेति बहुवचनोपपत्तये पूरितम् इति । रुजः इति पाठस् तु सुगमः । एवं कर्मादयो रुजः क्लेशाः यत्स्थं यदङ्घ्रितलस्थं भक्तजनं रजः दुराचारादिभवं मालिन्यं च न स्पृशन्तीत्यद्भुतं तव भक्तिवैभवम् इति । कर्मेति—दुष्कृतं सुकृतं प्राचीनमप्राचीनं वा कृतं न स्पृशति पुष्करपलाशं जलमिवेति भावः । बहुत्वमार्षम् इति विश्वनाथः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य तवाङ्घ्रि-मूलं भजामीति तृतीय-स्थस्यानुषङ्गः । यत्-स्थं यद्-अङ्घ्रि-तल-स्थं भक्त-जनं कर्म-गुण-काल-रजो दुराचारत्वादि-भावं मालिन्यञ्चन स्पृशन्तीति अद्भुतं तव भक्ति-वैभवम् इति कर्मेति दुष्कृतं सुकृतं प्राचीनम् अर्वाचीनं वा कृतम् अपि न स्पृशतीति पुष्कर-पलाशे जलम् इवेति भावः । बहुत्वम् आर्षम् । यद् भक्ता अभीक्ष्णं मुनयो मौन-शीला वेद-हृदये वेदार्थ-तात्पर्य-ज्ञा तत्-प्राप्त्य्-अर्थं ध्यायन्ति ॥४२॥
॥।
॥ १२.८.४३ ॥
नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः
क्षेमं जनस्य परितो-भिय ईश विद्मः ।
ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः
कालस्य ते किम् उत तत्-कृत-भौतिकानाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतोऽन्यः पुरुषार्थो नास्तीत्य् आह—नान्यम् इति । अङ्घ्र्य्-उपनयाच् छ्रीमच्-चरण-प्राप्तेर् अन्यं क्षेमं न विद्मः । परितः सर्वेष्व् अपि लोकेषु भीर् यस्य तस्य जनस्य । तद् एवाह—द्वि-परार्धं धिष्ण्यं स्थानं यस्य, स ब्रह्मापि ते कालस्य त्वद्-भ्रू-विजृम्भ-रूपात् कालाद् अलं बिभेति । अतः किम् उत वक्तव्यम् ? तेन ब्रह्मणा कृतानां भौतिकानां प्राणिनां भयम् इति ॥४३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतोङ्घ्रिभजनात् । तद् एव सर्वलोकभयत्वम् एव । यतो ब्रह्मापि बिभेत्यतो हेतोः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अङ्घ्र्य्-उपनयाच् चरण-प्राप्तेर् अन्यं क्षेमं कुशलं परितो-भियः संसाराद् बिभ्यतो जनस्य न विद्मः यतो ब्रह्मेत्य्-आदि, ते कालस्य काल-स्वरूपात्, इतः अस्मात् । किम् उत वक्तव्यम् ? तत्-कृतानां ब्रह्म-कृतानां भौतिकानां प्राणिनां भयम् इति ॥४३॥
॥।
॥ १२.८.४४ ॥
तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं
हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य ।
देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं
विन्देत ते तर्हि सर्व-मनीषितार्थम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माद् एवं तत् तस्मात् तव पाद-मूलं भजामि । कथं-भूतस्य ? ऋत-धियः सत्य-ज्ञान-स्वरूपस्य । यद् वा, सत्या धीर् यस्य यस्मिन् वा तस्यात्म-गुरोर् जीव-नियन्तुर् अतः कारणात् परस्य । किं कृत्वा ? आत्म-च्छदि स्वात्मावरकम् अपार्थं च निष्फलम् असच् च तुच्छम् अन्त्यं च नश् चरम् इदं देहादि हित्वा देहादि-भजनं त्यक्त्वा । असच् चेत् कथं प्रतीयेत ? तत्राह—अभिज्ञ-मात्रम् । न ह्य् अत्यन्तम् असत्, किन्त्व् आत्म-मात्रम् । न ततः पृथग् अस्तीत्य् अर्थः।
नन्व् अपवर्गाय भवतु मद्-भजनम्, फलान्तरार्थं त्व् अन्य-भजनं कार्यम् एव तत्राह—तर्हीति । यदि त्वां भजति पुरुषस् तर्हि ते त्वत्त एव सर्वं मनीषितम् अर्थं विन्देतेति ॥४४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ज्ञानरूपस्य पादकल्पनमयुक्तं मत्वाह—यद्वेति । इत्य् अर्थ इति—न हि चेतनाधिष्ठानं विनाचितः प्रतीतिरुपपद्यत इति भावः। अत्राक्षिपति—नन्व् इति । अकामः सर्वकामो वा मोक्षकाम उदारधीः इत्य् उक्तेस् त्वत्त एव सर्वाभीष्टाप्तिर्भवतीति भावः ॥४४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् वा इति । तैर् अभिज्ञ-मात्रम् इत्य् अस्य टीकायाम् आत्म-मात्रम् इति आत्मन्य् अधिष्ठाने भ्रमाद् एव प्रतीतिर् यस्य तद् इत्य् अर्थः ॥४४॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ऋत-धियः सत्य-ज्ञानस्य । आत्म-च्छदि हित्वा आत्म-च्छादकं देहादि देह-गेहादि-ममत्वं त्यक्त्वा अपार्थं निष्फलम् असत् तुच्छम् अन्त्यं नश्वरम् । एवम् अन्योऽपि यो भजति स ते त्वाम् अभिज्ञ-मात्रं भक्त-सेवाभिज्ञम् एव प्राप्नोति । ननु तर्हि निष्काम एव मां भजतु, सकामस् त्व् अन्यं, तत्राह—तर्हीति । यदि त्वां विन्देत, तर्हि सर्व-मनीषितार्थं विन्देतैव ॥४४॥
॥।
॥ १२.८.४५ ॥
सत्त्वं रजस् तम इतीश तवात्म-बन्धो
माया-मयाः स्थिति-लयोदय-हेतवोऽस्य ।
लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै
नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु ब्रह्म-रुद्राव् अपि ममैव मूर्ती, अतो माम् एव किम् अत्यन्तम् आद्रियसे ? तत्राह—सत्त्वम् इति । यद् अपि यद्य् अपि तवैव मायया कृट एता लीलास् त्वयैव धृताः, तथापि या सत्त्व-मयी, सैव प्रशान्त्यै मोक्षाय, न केवलम् अस्य प्रशान्त्य्-अभाव-मात्रम् अन्य-भजने किन्त्व् अनिष्टं च भवेद् इत्य् आह—व्यसनेति ॥४५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुनराक्षिपति—नन्व् इति । हे ईशेति—हे आत्मबन्धो इति सम्बुद्धिद्व्येन हरेर् एव भजनीयत्वम् आह । यद्यप्युभयविधत्वं ब्रह्मरुद्रयोर् अप्य् अस्ति तथापि शुद्धसत्त्वप्रधानस्य तवैव कल्याणहेतुत्वं सङ्गच्छते श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः इत्य्-आद्य्-उक्तेर् इति संबुद्ध्यभिप्रायः। एता ब्रह्मरुद्रादिलक्षणाः । अन्ये रजस्तमोमय्यौ लीले प्रशान्त्य नेत्यर्थः । अस्य रजस्तमोमय्यौ लोले भजतः पुंसः किन्त्वन्यस्य शुद्धसत्त्वेतरस्य भजनेऽनिष्टं च स्यात्, किं तदनिष्टं भवेत्तत्राह—व्यसनेति । व्यसनं विपत्, मोहोऽज्ञानम्, भीः संसारभयं च याभ्यां रजस्तमोमयीलीलाभ्यां स्युरित्य् अर्थः । यद् वा, अन्ये सत्त्वादन्ये रजस्तमसी प्रशान्त्यै न स्यातां, याभ्यां रजस्तमोभ्यां व्यसनादयः स्युः । च एवार्थो । विश्वनाथस्तु—सकामत्वे सति देवान्तरम् अपि भजन्तु तद्भजनम् एव यतो देवा मन्मूर्तय एवेत्यत आह—सत्त्वम् इति । हे आत्मबन्धो प्राणनाथ अस्येन्द्रचन्द्रदेव-मनुष्यादिमयस्य जगतः स्थित्य्-आदिहेतवः सत्त्वादयो ये गुणास्तेऽपि मायामया एव किं पुनस्तत्कार्या इन्द्राद्या नश्वराः। तेषां भजने मायातीतं त्वां कथं विदेतेति भावः । यद्यप्यासु लीलासु मध्ये सत्त्वमयी लीला प्रशान्त्यै धृता न त्वन्ये रजस्तमोमय्यौ याभ्यां व्यसनादयः सन्ति तदप्येतास्तिस्रोऽपि लीला मायामय्य एवेति ॥४५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्य श्री-भगवतः सत्त्वस्य प्राकृतआद् अन्यत्मत्वम् आह—सत्त्वं रज इति द्वयम् । अनयोर् अर्थः—हे ईश ! यद्य् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः, कथम्-भूताः? अस्य विश्वस्य स्थित्य्-आदि-हेतवः, तथापि या सत्त्व-मयी सैव प्रशान्त्यै प्रकृष्ट-सुखाय भवति, नान्ये रजस्-तमो-मय्यौ । न केवलं प्रशान्त्य्-अभाव-मात्रम् अनयोः, किन्त्व् अनिष्टं चेत्य् आह—व्यसनेति ॥४५॥ [भगवत्-सन्दर्भः ७]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु स-कामत्वे सति देवान्तरम् अपि भजतु, तत्-तद्-भजनम् अपि मद्-भजनम् एव, यतो देवा मन्-मूर्तय एव ते, इति तत्राह—सत्त्वम् इति । आत्म-बन्धो ! हे प्राण-नाथ ! अस्य इन्द्र-चन्द्रादि-देव-मनुष्यादि-मयस्य जगतः स्थित्य्-आदि-हेतवः सत्त्वादयो गुणाः । तेऽपि माया-मया एव, किं पुनस् तत्-कार्या इन्द्राद्या नश्वराः । तेषां भजने मायातीतं त्वां कथं विन्दे ? इति भावः । यद्यप्य् आसु लीलासु मध्ये सत्त्व-मयी लीला प्रशान्त्यै धृता, न त्व् अन्ये रजस्-तमो-मय्यौ याभ्यां व्यसन-मोह-भिया भवन्ति । तद् अप्य् एतास् तिस्रोऽपि लीला माया-मय्य एवेत्य् अन्वयः ॥४५॥
॥।
॥ १२.८.४६ ॥
**तस्मात् तवेह भगवन्न् अथ तावकानां **
शुक्लां तनुं स्व-दयितां कुशला भजन्ति ।
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एव सद्-आचारेण द्रढयति—तस्माद् इति । हे भगवन् ! तव शुक्लां तनुं श्री-नारायणाख्याम् । अथ तावकानां च शुक्लां तनुं नराख्याम् । यद् यस्मात् सात्वताः सत्त्वम् एव पुरुषस्येश्वरस्य रूपम् उशन्ति मन्यन्ते, न त्व् अन्यद् रजस् तमश् चेति । अत्र हेतुः, यतः सत्त्वाल् लोको वैकुण्ट्ःआख्यो लोकत्वे सत्य् अप्य् अभयं च भोगे सत्य् अप्य् आत्म-सुखं च ॥४६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव सत्त्वमयभजनम् एव । यत सत्त्वम् एव प्रशान्तिहेतुस्तस्माद्धेतोः हे भगवन्न् इति । भजनार्हताम् आह । अत्र सत्त्वस्य पुरुषरूपत्वे । अतस् तव मायामयीमिन्द्रादिमूर्तिमशुद्धां विहाय शुद्धसत्त्वरूपा एव तव त्वद्भक्तानां च मूर्तिरभीज्ञा उपासत इत्याह—तस्माद् इति । यद्यतः सात्वता नारदाद्याः पुरुषरूपं सत्वमुशन्ति । ननु कीदृशं सत्त्वं तत्राह—यतो लोकः स्वर्गादिकः न यत्राभयं पातहतुकभयाभावः, आत्मसुखमात्मभूतं सुखं च न तु कर्मफलं स लोको वैकुण्ठः । यतस् तत् शुद्धसत्त्वं न चान्यत्प्राकृतं सत्त्वम् ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : हे भगवन् ! तस्मात् तव शुक्लां सत्त्व-मय-लीलाधिष्ठात्रीं तनुं श्री-विष्णु-रूपां कुशला निपुणा भजन्ति सेवन्ते, न त्व् अन्यां ब्रह्म-रुद्र-रूपां ते भजन्ति अनुसरन्ति । न तु दक्ष-भैरवादि-रूपाम् । कथम्-भूताम् ? स्वस्य तवापि दयितां लोक-शान्ति-करत्वात् ।
ननु मम रूपम् अपि सत्त्वात्मकम् इति प्रसिद्धम् । तर्हि कथं तस्यापि मायामयत्वम् एव ? नहि नहीत्य् आह—सात्वताः श्री-भागवता यत् सत्त्वं पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते, यतश् च सत्त्वात् लोको वैकुण्ठाख्यः प्रकाशते, तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-स्वरूपम् एवलक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते ।
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भा।पु। ४.३.२३]
इत्य्-आद्य्-उदाहरिष्यमाणानुसारात् ।
अगोचरस्य गोचरे हेतुः—प्ताप्रत्यक्ष-वस्तुउनः प्रत्यक्षत्वे कारणं प्त-गः सत्त्वम् इत्य् अशुद्ध-सत्त्व-ल-प्रसिद्ध्य्-अनुसारेण, तथाप्ताप्रत्यक्ष-वस्तुनः प्रत्यक्षत्वे कफ़् स्व-ब्त-चिच्-छक्ति-वृत्ति-विशेषोऽप्त-गो विशुद्ध-सत्त्वम् इति सङ्गति-लाभाच् च। ततश् च तस्य स्वरूप-शक्ति-वृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम्, तद् अभयम् आत्म-सुखम् इति ।
कित्वाप्राधान्य-विवक्षयोक्तं—लोको यत इति । अर्थान्तरे भगवद्-विग्रहं प्रति रूपं यद् एतद् [भा।पु। २.८.२] इत्य् आदौ शुद्ध-सत्त्व-स्वरूप-मात्रत्व-प्रतिज्ञा-भङ्गः । अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च भवति । अन्यत् पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-गौरवं चोत्पद्यते । पूर्वम् अपि नान्ये इति द्वि-वचनेनैव परामृष्टे ॥४६॥ [भगवत्-सन्दर्भः७1]
यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [भा।पु। ११.४.४] इत्य् आदौ, ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-भृतां ज्ञानम् इत्य् अनेन । तथा परो-रजः सवितुर् जात-वेदा देवस्य भर्ग [भा।पु। ५.७.१४] इत्य् आदौ श्री-भरत-जाप्ये तन्-मतं परो-रजः रजसः प्रकृतेः परं शुद्ध-सत्त्वात्मकम् इत्य् आदिना । अत एव प्राकृताः सत्त्वादयो गुणा जीवस्यैव, न त्व् ईशस्येति श्रूयते । अथैकादशे सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे [भा।पु। ११.२५.१२] इति ।
श्री-भगवद्-उपनिषत्सु च—
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१२-४] इति ।
यथा दशमे—
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा।पु। १०.८८.५] इति ।
श्री-विष्णु-पुराणे च—
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। १.९.४४] इति ।
अत्र प्राकृता इति विशिष्य अप्राकृतास् त्व् अन्ये गुणास् तस्मिन् सन्त्य् एवेति व्यञ्जितं तत्रैव ।
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] इति ।
तथा च दशमे देवेन्द्रेणोक्तम्—
विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् ।
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्ध ॥ [भा।पु। १०.२७.४] इति ।
अयम् अर्थः—धाम स्वरूप-भूत-प्रकाश-शक्तिः । विशुद्धत्वम् आह विशेषण-द्वयेन । ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च । तपोऽत्र ज्ञानं स तपोऽतप्यतेति श्रुतेः । तपोमयं प्रचुर-ज्ञान-स्वरूपम् । जाड्यांशेनापि रहितम् इत्य् अर्थः । आत्मा ज्ञान-मयः शुद्ध इतिवत् । अतः प्राकृत-सत्त्वम् अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न विद्यते । यतोऽसाव् अज्ञानेनैवानुबन्ध इति ।
अत एव श्री-भगवन्तं प्रति ब्रह्मादीनां स-युक्तिकम्—सत्त्वं विशुद्धं श्रयते भवान् स्थितौ [भा।पु। १०.२.३४-३५]इत्य्-आदि-द्वाभ्याम् उक्तम् ॥४६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तव माया-मयीम् इन्द्रादि-मूर्तिम् अशुद्धां विहाय शुद्ध-सत्त्व-स्वरूपा एव तव त्वद्-भक्तानां च मूर्तीर् अभिज्ञा उपासते इत्य् आह—तस्माद् इति । यतः सात्वता नारदाद्याः पुरुष-रूपं विष्णु-स्वरूपं सत्त्वम् उशन्ति । ननु कीदृशं सत्त्वम् ? तत्राह—यतो लोकः, किं स्वर्गादिकः, न यत्र अभयं पात-हेतुक-भयाभावः, आत्म-सुखम् आत्म-भूतं सुखं च, न तु कर्म-फलं, स-लोको वैकुण्ठो यतस् तत् शुद्ध-सत्त्वं, न चान्यत् प्राकृतं सत्त्वम् ॥४६॥
॥।
॥ १२.८.४७ ॥
**तस्मै नमो भगवते पुरुषाय भूम्ने **
विश्वाय विश्व-गुरवे पर-देवताय ।
**नारायणाय ऋषये च नरोत्तमाय **
हंसाय संयत-गिरे निगमेश्वराय ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अततं प्रणमति, तस्मै नम इति । हंसाय शुद्धाय । संयत-गिरे नियत-वाचे । अथ च निगमेश्वराय वेद-मार्ग-प्रवर्तकाय ॥४७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतः सात्वतोपास्यत्वात् । विश्वाय विश्वनाम्ने विश्वं विष्णुर्वषट्कारः इति सहस्रनामसूक्तेः । सर्वनामसंज्ञा त्वत्राभिधात्वादेव । न नियता वेदलक्षणा वाग्यस्य तस्मै, तद् एवाह—अथ चेति । अत एव विश्वगुरवे सर्वहितोपदेष्ट्रे । परा सर्वोत्कृष्टा चासौ देवता च परमात्मैव तद्रूपाय । नारायणाय सर्वप्रेरकाय । ऋषये सर्वज्ञाय। नराज्जीवाजीवादर्थात्क्षराक्षरादत्तमाय पुरुषोत्तमायेत्यर्थः ।
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ इति गीतासूक्तेः ।
नरो जीवे शरीरे च घोटके च कपिध्वजे । धर्मात्मजे इत्यभिधानात् पुरुषाय पुरुषाकारत्वेऽपि भूम्ने सर्व-व्यापकाय, तदपि विश्वाय देव-मनुष्य-तिर्यग्-आदि-सर्व-रूपाय । आविभोव-प्रयोजनम् आह—विश्वगुरवे भक्तिज्ञानवैराग्याणामुपदेष्ट्रे । न केवलमुपदेष्टैवापि तु भजनीयश्चेत्याह—परदेवतायै इष्टदेवाय । द्वाभ्याम् एकाकारत्वम् आह—ऋषये ऋषिरूपनारायणाय ऋषिरूपनरोत्तमाय च । त्यक्तपरिग्रहत्वम् आह—हंसाय । मौनशालित्वम् आह संयतगिरे, तदपि निगमाय वेदप्रवर्तकाय ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुषाय पुरुषाकारत्वेऽपि भूम्ने सर्व-व्यापकाय, तद् अपि विश्वाय दैव-मनुष्य-तिर्यग्-आदि-सर्व-रूपाय । आविर्भाव-प्रयोजनम् आह—विश्व-गुरवे भक्ति-ज्ञान-।विशेषाणाम् उपदेष्ट्रे । न केवलम् उपदेष्टैव त्वम् अपि तु भजनीयश् चेत्य् आह—पर-देवतायै अभीष्ट-देवाय द्वाभ्याम् एकावतारत्वम् आह—ऋषये ऋषि-रूप-नारायणाय ऋषि-रूप-नरोत्तमाय च । त्यक्त-परिग्रहत्वम् आह—हंसाय । मौन-शालित्वम् आह—संयत-गिरे । तद् अपि निगमेश्वराय वेद-प्रवर्तकाय ॥४७॥
॥।
॥ १२.८.४८ ॥
यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः
सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु ।
तन्-माययावृत-मतिः स उ एव साक्षाद्
आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वेदार्थ-संप्रदाय-प्रवर्तने हेतुत्वं वदन् स्तौति—यम् इति । वितथाक्ष-पथैः कपटेन्द्रिय-मार्गैर् भ्रमद्-धीर् विक्षिप्त-बुद्धिः पुमान् स्वेन्द्रियादिषु नियन्तृत्वेन सन्तम् अपि यं त्वां न वेद । दृक्-पथेषु विषयेषु । बुद्धि-विक्षेपे हेतुः, तन्-मायया तस्य तवैव मायया आवृता आत्म-निष्ठा मतिर् यस्य स उ सोऽपि आद्य एव पूर्वम् अविद्वान् एवाखिल-गुरोस् तव त्वत्-प्रवर्तितं वेदम् उपसाद्य प्राप्य तं त्वां साक्षाद् वेद ॥४८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जगदपेक्षयादिभवत्वादाद्यो ब्रह्मा त्वत्तः सर्वगुरोर्वेदं प्राप्यापि न वेद, अन्येषां का वर्तेति भावः । स उ सोऽपि, उर् अप्य् अर्थे । पूर्वं वेदप्राप्तेः पूर्वावस्थायामविद्वान् तव सकाशाद्वेदमवसाद्यैव यमिन्द्रियविक्षिप्तधीर्न वेद तं वेदेत्यन्वयः । स्वामिचरणैराद्य एव, अविद्वानेवेति योर्थो गृहीतस्तत्र ब्रह्माक्षेपलब्ध इति ध्येयम् ॥४८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स्वेन्द्रियेषु सन्तम् अपि एषाम् एव विवरणम् असुषु कर्मेन्द्रियेषु दृक्-पथेषु ज्ञानेन्द्रियेषु हृद्य् उभयात्मके, नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-गीतोपनिषद्भ्यः ॥४८॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सर्व-दुर्ज्ञेयत्वम् आह—यं वईति वितथाङ्ग-पथैः कपटेन्द्रिय-मार्गैर् भ्रमद्-धीर् विक्षिप्त-बुद्धिः पुमान् स्वेन्द्रियेषु असुषु प्राणेषु हृद्य् अपि नियन्तृत्वेन सन्तम् अपि यं त्वां न वेद । सम्प्रत्य् अवतार-समये दृक्-पथेषु सन्तम् अपि त्वां तन्-मायया तया प्रसिद्धया मायया आवृत-मतिर् न वेद । अन्येषां का वार्ता स उ प्रसिद्धः आद्यो ब्रह्मापि तेऽखिल-गुरोः साक्षाद् वेदम् उपसाद्य प्राप्यापि यं त्वां नैव वेद ॥४८॥
॥।
॥ १२.८.४९ ॥
यद्-दर्शनं निगम आत्म-रहः-प्रकाशं
मुह्यन्ति यत्र कवयोऽज-परा यतन्तः ।
तं सर्व-वाद-विषय-प्रतिरूप-शीलं
वन्दे महा-पुरुषम् आत्म-निगूढ-बोधम् ॥2
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वेदेनैव त्वज्-ज्ञानम् इत्य् उपपादयन् प्रणमति—यस्य तव दर्शनं निगमे भवति। कथं-भूतम् ? आत्मनस् तव रहो रहस्यं तस्य प्रकाशकम् । अन्यथा दुर्ज्ञेयताम् अध, अज-परा ब्रह्म-मुख्याः कवयोऽपि साञ्ख्य-योगादिभिर् यतमाना यत्र त्वयि मुह्यन्ति । कुतः ? इत्य् अत आह—सर्वेषां साङ्ख्यादि-वादिनां ये वादास् तेषां विषया भेदादयस् तेषां प्रतिरूपं तत्-तद्-अनुसारि शीलं स्वभावो यस्य तम् । कुतः ? आत्मना देहादि-सङ्घातेन निगूढो बोधो यस्य तम् । एवं-भूतं महा-पुरुषं त्वां वन्दे ॥४९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **निगमो वेदः । निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे इति मेदिनी । अजो ब्रह्मा पर उत्कृष्टो येषु ते तथा । कुतो मुह्यन्ति—वादाः सिद्धाताः सिद्धान्ते च विवादे च वादस्तोमे च वादिनाम् इति निरुक्तिः । सर्ववादानुसारिशीलत्वे हेतुं पृच्छति—कुत इति । देहाद्यात्मवादनिरासेन यज्ज्ञानं जायते तं वन्दे । बोधोऽत्र प्रत्यक्स्वरूपम् एव देहाद्यात्मवादनिरासश्चाद्यपद्यव्याख्याशतके निरूपित एव । वेदशास्त्रज्ञेयत्वेऽपि दुर्ज्ञेयत्वम् आह—यस्य तव दर्शनं ज्ञानं निगमं वेदशास्त्र एव । कीदृशम्—आत्मनस्तव रहस्यस्य प्रकाशकम् । तर्हि वेदज्ञा एव मां जानन्तु तत्र नेत्याह—मुह्यन्तीति । यत्र वेदे ब्रह्ममुख्या अपि मुनयो यतन्तोऽपि भवत्तत्त्वाज्ञानान्मुह्यन्ति वेदस्य परोक्षवादित्वाद्भवन्मात्रज्ञेयत्वम् इति भावः । अत एव हेतुगर्भं विशिनष्टि—सर्वे वादाविवर्तादयो निगमोक्तास्तेषां विषयाश् च ये तेषां प्रतिरूपम् एव न त्वनुरूपं शीलं चरित्रं यस्य तमत एव गूढो गुप्तीकृतो बोधस्तस्वतत्त्वं येन तम् ॥४९॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धेऽष्टमोऽध्यायः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वेद-शास्त्र-ज्ञेयत्वेऽपि दुर्ज्ञेयत्वम् आह—यस्य तव दर्शनं ज्ञानं निगमे वेद-शास्त्र एव । कीदृशम् ? आत्मनस् तव रहस्यस्य प्रकाशकम् । ननु तर्हि वेद-दर्शिन एव मां जानन्तु, तत्र नेत्य् आह—मुह्यन्तीति यत्र वेदे अज-पराः अजो ब्रह्मा परः श्रेष्ठो येषाम् । ते मुनयोऽपि यजन्तोऽपि भवत्-तत्त्वाज्ञानान् मुह्यन्ति । निगमस्य परोक्ष-वादित्वाद् भवन्-मात्र-ज्ञेयत्वम् इति भावः । अत एव हेतु-गर्भं विशिनष्टि—सर्वे वादा विवर्तादयो निगमोक्तास् तेषां विषयाश् च ये तेषां प्रतिरूपम् एव, न त्व् अनुरूपं शीलं चरित्रं यस्य तम् । अत एवात्मन्य् एव गूढो गुप्तीकृतो बोधः स्व-तत्त्वं येन तम् ॥४९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशेऽत्राष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
नारायण-स्तवो नाम
अष्टमोऽध्यायः ।
॥ १२.८ ॥
…
(१२.९)