॥ १२.७.१ ॥
सूत उवाच—
अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् ।
संहितां सोऽपि पथ्याय वेद-दर्शाय चोक्तवान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
सप्तमेऽथर्व-विस्तारः पुराण-व्यसनं ततः ।
पुराण-लक्षणादीनि फलं भागवत-श्रुतेः ॥
क्रम-प्राप्तम् अथर्व-वेद-विभागम् आह, अथर्व-विद् इति । शिष्यं कबन्ध-नामानम् । स्वकां स्वकीयां संहिताम् । सोऽपि शिष्योऽपि तां द्विधा विभज्य । तद् उक्तं वैष्णवे—
अथर्व-वेदं स मुनिः सुमन्तुर् अमित-द्युतिः ।
शिष्यम् अध्यापयाम् आस कबन्धं सोऽपि च द्विधा ।
कृत्वा तु वेद-दर्शाय तथा पथ्याय दत्तवान् ॥ इति ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुराणानां व्यसनं विभागः । भागवतश्रुतेर् इति भगवान्व्यासस् तस्येमे शिष्या भागवताः पैलाद्यास्तेषां श्रुतिः श्रवणं तस्याः फलम् । यद् वा, वेदो नारायणः साक्षात् इत्य् उक्तेर् भगवतो वेदस्यायं विभागो भागवतस् तस्य श्रुतेः फलं, तच्चाध्यायान्तिमश्लोकेन ब्रह्मतेजोविवर्द्धनम् इति वक्ष्यत्येव । वैष्णवे विष्णुपुराणे । तदेतच्छ्लोकोक्तं वृत्तमुक्तम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **
सप्तमोऽथर्वाणो व्यासं पुराणस्य च तस्य च ।
लक्षणानि दश प्रोच्य तस्य सङ्ख्या च कथ्यते ॥
शिष्यं विष्णु-पुराणोक्तं कबन्ध-संज्ञम् ॥१॥
॥।
॥ १२.७.२ ॥**
शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः ।
वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु ।
कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र वेद-दर्शः स्व-संहितां चतुर्धा विभज्य चतुरः शिष्यान् अध्यपयाम् आस । पथ्यश् च त्रिधा विभज्य त्रीन् इत्य् आह सार्धेन, शौक्लायनिर् इति ।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.७.३ ॥**
बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च ।
अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अङ्गिरसः शुनकस्य शिष्यो बभ्रुः सैन्धवायनश् च । तद् उक्तम्—
शुनकस् तु द्विधा कृत्वा ददाव् एकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात् सैन्धवायन-संज्ञिने ॥ इति ।
सावर्ण्याद्याः सैन्धवायनादीनां शिष्याः ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र द्वयोर्मध्ये । हे ब्रह्मन्न् इति संबुद्धिरक्ताभिप्राया ॥२-३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्गिरसः शुनकस्य शिष्यो बभुर्ः । सावर्णाद्याः सैन्धवायनादीनां शिष्याः ॥३॥
॥।
॥ १२.७.४ ॥**
नक्षत्र-कल्पः शान्तिश् च कश्यपाङ्गिरसादयः ।
एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नक्षत्र-कल्पः शान्ति-कल्पश् चेति द्वौ । तद् उक्तम्—
नक्षत्र-कल्पो वेदानां संहितानां तथैव च ।
चतुर्थः स्याद् आङ्गिरसः शान्ति-कल्पश् च पञ्चमः ॥ इति ।
नक्षत्र-कल्पादीनां कर्तारस् तत् तन् नामभिर् उच्यन्ते ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् उक्तमित्य्-आदि वाक्यं विष्णुपुराणीयम् एव । कल्पशब्दस्य प्रत्येकं सम्बन्धः । वेदकल्पः, संहिताकल्पः, आङ्गिरसकल्प इति । नक्षत्रकल्पो नक्षत्रादिपूजाविधिः, वेदकल्पो वैतानिकब्रह्मत्वादिविधिः, संहिताकल्पः संहिताविधिः, आङ्गिरसकल्पोऽभिचारादिविधिः, शान्तिकल्पोऽश्वगजाद्यष्टादशमहाशान्त्यादिविधिर् इति तट्टीका च ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पञ्चम-वेदस्य विभाग-ज्ञापनार्थम् आह—शृणु पौराणिकान् इति ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.७.५ ॥**
त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रणः ।
वैशम्पायन-हारीतौ षड् वै पौराणिका इमे ॥**
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इमे इति बुद्धिसन्निहितत्वात् ॥५॥
॥।
॥ १२.७.६ ॥**
अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् ।
एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मत्-पितुर् मुखाद् इति । प्रथमं व्यासः षट्-संहिताः कृत्वा मत्-पित्रे रोमहर्षणाय प्रादात् । तस्य च मुखाद् एते त्रय्यारुण्यादय एकैकां संहिताम् अधीयन्त । एतेषां षण्णां शिष्योऽहं ताः सर्वाः समधीतवान् ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एकैकाम् इति—त्रिभिस्त्रिभिर्मिलित्वैकत्वम् । त्रिषट् इति वक्ष्यमाणात् । तच् च—ब्राह्म पाद्मं वैष्णवम् इति मिलित्वैकादिरूपाम् । अवान्तरसंहिता तु क्वचिदेका, यथा श्री-भागवतस्य परमहंससंहितात्वम्, क्वचिदेकैकस्यैव विभागशः। यथा—स्कान्दस्य सनत्कुमारप्रोक्तसंहितानामादिका, श्री-भागवतस्य श्रीशुकात्तु पश्चाद्व्यक्तिः सूर्यादेव यजुर्भागस्य वाजसनेयस्यादौ व्यक्तत्वात् ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एकैकाम् इति त्रिभिस् त्रिभिर् मिलित्वैकत्वं त्रिषड् इति वक्ष्यमाणात् । तच् च ब्राह्मं पाद्मं वैष्णवम् [भा।पु। १२.७.२३] इति मिलित्वैकेत्य्-आदि-क्रमात् । अवान्तर-संहिता तु क्वचिद् एका, यथा श्री-भागवतस्य परमहंस-संहितात्वम् । क्वचिद् एकैकस्यैव विभागशः, यथा स्कान्दस्य सनत्कुमार-प्रोक्त-संहिता-नामादिका । एकैकाम् अहम् इत्य् अत्र श्री-शुकात् तु श्री-भागवतस्य चमत्कार-वैशिष्ट्यतया1 पश्चाद्-व्यक्तिः सूर्याद् एव यजुर्-भागस्य वाजसनेयस्य ज्ञेयम् ॥६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्-पितू रोमहर्षणस्य । एतेषां षण्णाम् अप्य् अहं शिष्याः ॥६॥
॥।
॥ १२.७.७ ॥**
कश्यपोऽहं च सावर्णी राम-शिष्योऽकृतव्रणः ।
अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राम-शिष्योऽकृतव्रणः । एवं चत्वारो वयम् । मूल-संहिता इत्य् अनेन ततः संहिता-बाहुल्यं सूचितम् ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कश्यपोऽहमुग्रश्रवाः सावर्णिरकृतव्रणश्चतुर्थ एते चत्वारो वयमित्य् अर्थः । मूलत्वमेषाम् इतिहासापेक्षया ज्ञेयम् अष्टादश पुराणानि कृत्वासत्यवतीसुतः । भारतं कृतवान्पश्चात् इति मात्स्यात् ।
ब्राह्मी भागवती शैवी वैष्णवी च प्रकीर्तिताः ।
चतस्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ इति ।
क्वचित्पञ्चोक्ताः ।
ब्रह्मणः स्युः शिवस्यापि प्रह्लादस्यापि संहिताः ।
गौतमस्य कुमारस्य संहिताः पञ्च वर्णिताः ॥
क्वचित् षडुक्ताः—
आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता ।
तृतीया शाङ्करी विप्राश्चतुर्थी वैष्णवी तथा ।
तत्परा संहिता ब्राह्मी सौरान्त्या परिकीर्तिता ।
अन्या अपि संहितास् तु विज्ञेया मुनिनिर्मिताः ।
कौशिकी संहिता मुख्या वासिष्ठी मानवी तथा ।
गर्गादिमा च सा पाराशरी वैयासकी तथा ।
हनुमत्संहिता ज्ञेया तथा सौदर्शनी मता ।
इति सर्वार्थचिन्तामण्युक्तः । व्यासशिष्यान्मत्पितू रोमहर्षणात् ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मूलसंहिता इति त्व् इतिहासविशेषापेक्षया ज्ञेयं बहूनामन्येषाम् इतिहासानां मूलत्वात् मूलम् इदं च परिशेषेण लक्ष्यते “इतिहासपुराणानां पिता मे रोमहर्षणः” इत्य्-उक्तेः ते च महाभारताद्याः शृणु पौराणिकानिति तूपलक्षणतयोक्तम् ।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यास-शिष्यात् लोमहर्षणात् ॥७॥
॥।
॥ १२.७.८ ॥**
पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् ।
शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शुक-परीक्षित्-संवादे निरूपितम् अपि पुराण-लक्षणं तद्-भेद-कथनाय दर्शयति, पुराणेति ॥८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वेद एव शास्त्रं तदनुसारतो यथा वेदे पुराणलक्षणमुक्तं तदनतिलन्ध्यैवेह वर्णयामीत्य् अर्थः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मर्षिभिः श्री-शुक-वचनैर् उपक्रमे यद् उक्तं प्रायेण तद् एवोपसंहारेऽप्य् उच्यते ॥८॥
॥।
॥ १२.७.९-१० ॥**
सर्गोऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः ॥**
दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः ।
केचित् पञ्च-विधं ब्रह्म महद्-अल्प-व्यवस्थया ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्य विश्वस्य “अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ।” इत्य् अत्रोक्ते स्थान-पोषणे वृत्ति-रक्षा-शब्दाभ्याम् उच्येते । अन्तराणि मन्वन्तराणि वंशो वंश्यानुचरितम् इतीशानुकथाः । संस्था निरोधः । अनेनैवात्यन्तिक-लय-रूपा मुक्तिर् अप्य् उक्ता । हेतु-शब्देन जीवाश्रय-वासना-शब्द-वाच्या ऊतयो गृहीताः ।
दशभिर् एतैर् लक्षणैर् अर्थैर् युक्तं महा-पुराणं विदुः । केचित् पञ्च-विधम्, “सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ।” इति । महत्-पुराणम् अल्पं चेति व्यवस्थया यत्र दशापि लक्षणानि पृथक् पृथङ् निरूप्यन्ते तन् महा-पुराणम् । यत्र त्व् अन्येषां पञ्चस्व् एवान्तर्भावस्य विवक्षा तद् अल्पम् इति व्यवस्थयेत्य् अर्थः ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पोषणं तदनुग्रहः इति पूर्वलक्षितं पोषणमेवात्र रक्षाशब्देनोच्यते, तां व्याचष्टे ॥ इत्य् अर्थः इति—अन्तर्भावस् तु स्वबुद्ध्यैव सर्गे रक्षायाः, प्रतिसर्गे संस्थाया इत्येवं रीत्या यथायथमनुसन्धेयम् इति वंशवंशानुचरितयोरीशकथायामन्तर्भावम् इति भावः ॥९-१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **सर्गोऽस्येत्य् आदिकं द्वितीय-स्कन्ध [भा।पु। २.१०.१-७] एव व्याख्यातम् । अस्य श्री-भागवतस्य महा-पुराणत्व-व्यञ्जक-लक्षणं प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन—सर्ग इति । अन्तराणि मन्वन्तराणि । पञ्च-विधम्—
सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ॥ इति केचिद् वदन्ति ॥2
स च मत-भेदो महद्-अल्प-व्यवस्थया महा-पुराणम् अल्प-पुराणम् इति भिन्नाधिकरणत्वेन । यद्यपि विष्णु-पुराणादाव् अपि दशापि तानि लक्ष्यन्ते, तथापि पञ्चानाम् एव प्राधान्येनोक्तत्वाद् अल्पत्वम् । अत्र दशानाम् अर्थानां स्कन्धेषु यथा-क्रमं प्रवेशो न विवक्षितः, तेषां द्वादश-सङ्ख्यत्वात् । द्वितीय-स्कन्धोक्तानां तेषां तृतीयादिषु यथा-सङ्ख्यं न समावेशः । निरोधादीनां दशमादिष्व् अष्टम-वर्जम् । अन्येषाम् अप्य् अन्येषु यथोक्त-लक्षणतया समावेशनाशक्यत्वाद् एव । तद् उक्तं श्री-स्वामिभिर् एव—
दशमे कृष्ण-सत्-कीर्ति-वितानायोपवर्ण्यते ।
धर्म-ग्लानि-निमित्तस् तु निरोधो दुष्ट-भूभुजाम् ।
प्राकृतादि-चतुर्धा यो निरोधः स तु वर्णितः ॥ इति ।
अतोऽत्र स्कन्धे श्री-कृष्ण-रूपस्याश्रयस्यैव वर्णन-प्राधान्यं तैर् विवक्षितम् । उक्तं च स्वयम् एव—दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् इति । एवम् अन्यत्राप्य् उन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वेष्व् एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्य् एव तेषाम् अभिमतम् । श्रुतेनार्थेन चाञ्जसा [भा।पु। २.१०.२] इत्य् अत्र च तथैव प्रतिपन्नं सर्वत्र तत्-तत्-सम्भवात् । ततश् च प्रथम-द्वितीययोर् अपि महा-पुराणतायां प्रवेशः स्यात् । तस्मात् क्रमो न गृहीतः ॥९-१०॥ [तत्त्व-सन्दर्भः ६१]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचित् पञ्च-विधम् इति ।
सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ॥ इति ।
महत् अल्पं चेति व्यवस्थया यत्र दशापि लक्षणानि पृथङ् निरूप्यन्ते तन् महा-पुराणं, यत्र त्व् अन्येषां पञ्चस्व् अन्तर्भावो विवक्षितस् तद् अल्पम् इति व्यवस्थयेत्य् अर्थः ॥९-१०॥
॥।
॥ १२.७.११ ॥**
अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतोऽहमः ।
भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्गादि-लक्षणानि व्याचष्टे, अव्याकृतेत्य्-आदिना । अव्याकृतस्य प्रधानस्य गुणानां क्षोभाद्यो महांस् तस्माद् यस् त्रि-वृद्-अहङ्कारस् तस्माद् भूत-मात्राणां सुक्ष्माणाम् इन्द्रियाणां च तद्-अर्थानां च स्थूलानां देवतानां च संभवः सर्गः कारण-सृष्टि-सर्ग इत्य् अर्थः । उच्यत इति यथाऽपेक्षम् उत्तरत्राप्य् अनुषङ्गः ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—विसर्गस्य पृथगुपादानात्सर्गपदेन कारणसृष्टिरेवात्र ज्ञेयेति भावः ॥११॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अथ सर्गादीनां लक्षणम् आह—अव्याकृतेति । प्रधान-गुण-क्षोभान् महान्, तस्मात् त्रिगुणोऽहङ्कारः । तस्माद् भूत-मात्राणां भूत-सूक्ष्माणाम् इन्द्रियाणां च, स्थूल-भूतानां च, तद्-उपलक्षित-तद्-देवतानां च सम्भवः सर्गः । कारण-सृष्टिः सर्ग इत्य् अर्थः ॥११॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र सर्गं व्याचष्टे । अव्याकृतस्य प्रधानस्य गुणानां क्षोभात् यो महान् तस्मात् । यस् त्रि-बृहद्-अहङ्कार्स् तस्मात् भूत-मात्रादीनां सम्भवः सर्गः । अत्रार्थ-शब्देन देवता ज्ञेयाः । कारण-सृष्टिः सर्ग इत्य् अर्थः । उच्यत इति यथापेक्षम् उत्तरत्राप्य् आनुषङ्गः ॥११॥
॥।
॥ १२.७.१२ ॥**
पुरुषानुगृहीतानाम् एतेषां वासना-मयः ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विसर्गं व्याचष्टे । पुरुषेणेश्वरेणानुगृहीतानाम् एतेषां महद्-आदीनाम् । पूर्व-कर्म-वासना-प्रधानोऽयं समाहारः कार्य-भूतश् चराचर-प्राणि-रूपो बीजाद् बीजम् इव प्रवाहापन्नो विसर्ग उच्यते इत्य् अर्थः ॥१२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—विशिष्टः सर्गो विसर्ग इति भावः ॥१२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुरुषेति । पुरुषः परमात्मा । एतेषां महद्-आदीनां, जीवस्य पूर्व-कर्म-वासना-प्रधानोऽयं समाहारः । कार्य-भूतश् चराचर-प्राणि-रूपो बीजाद् बीजम् इव प्रवाहापन्नो विसर्ग उच्यते । व्यष्टि-सृष्टि-विसर्ग इत्य् अर्थः । अनेनोतिर् अप्य् उक्ता ॥१२॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विसर्गं व्याचष्टे । पुरुषेणेश्वरेणानुगृहीतानाम् एतेषां यः समाहारः कार्य-भूतः समष्टि-व्यष्टि-जीवोपाधिरूपः । कीदृशः ? वासना-मयः सदसद्-वासना-प्रधानः स विसर्गः । तत्र चराचरं जङ्गम-स्थावरात्मकं जगद् इदं बीजाद् बीजम् इव प्रवाहापन्नं भवति । ऊतयः कर्म-वासना इति पूर्व-लक्षिता या ऊतिः सात्र विसर्ग एवान्तर्भाविता ॥१२॥
॥।
॥ १२.७.१३ ॥**
वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च ।
कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चराणां भूतानां सामान्यतोऽचराणि, च-काराच् चराणि च वृत्तिः । तत्र नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर् जीविका कृता, सा वृत्तिर् उच्यत इत्य् अर्थः ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र सर्वजीवेषु । स्वभावेन ब्रीह्यादीनि कामनया, फलादीनि चोदनया, विधिना पुरोडाशादीनि । इत्य् अर्थ इति—न तु सामान्यतोऽभक्ष्यभक्षणमपीति भावः । तत्र काम्या वृत्तिर्गार्ह्या, मांसाशनलशुनपलाड्वादिष्व् अपि तद्गुणश्रवणेन कामनोत्पत्तेः ॥१३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वृत्तिर् इति । चराणां भूतानां सामान्यतोऽचराणि, च-काराच् चराणि च, कामाद् वृत्तिः । तत्र तु नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर् जीविका कृता, सा वृत्तिर् उच्यत इत्य् अर्थः ॥१३॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वोक्तं स्थानं पालनम् एवात्र वृत्ति-शब्देनोच्यते । तां व्याचष्टे वृत्तिर् इति । चराणां भूतानां सामान्यतोऽचराणि च कामाद् वृत्तिः । तत्र नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर् जीविका कृता, सा वृत्तिर् उच्यत इत्य् अर्थः । तेषां चराचराणास् त्व् आश्रयः सर्वैव पृथ्वीति वृत्ति-प्रसङ्ग एव भूगोअच-चक्रं पञ्चम-स्कन्धे निरूपितम् ॥१३॥
॥।
॥ १२.७.१४ ॥**
रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे ।
तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तिर्यङ्-मर्त्यर्षि-देवेषु येऽच्युतावतारास् तेषाम् ईहा लीला सा विश्वस्य रक्षोऽच्युत इत्य् अर्थः । यैर् अवतारैर् इति समासान् निष्कृष्य कथञ्चित् सम्बन्धः । त्रयी-द्विषो दैत्याः ॥१४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—न तु गवाश्वादिरक्षणमात्रम् एव रक्षापदार्थ इति भावः । अवतारेहाऽवतारकारणं सैव रक्षा । कुत इत्यत आह—यैर् इति । समासान्निष्कृत्य कथञ्चिदगत्या । यथा—भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् इत्यत्र प्रमुखत इत्यस्य विवक्षावशान्महीक्षितामित्यनेन सम्बन्धस् तद्वदत्रापि । यद् वा, यस्यैते राजमातङ्गास् तस्यैवैते तुरङ्गमाः इति बुद्धिस्थग्राहकत्वम् अपि त्यदादीनाम् इति ज्ञेयम् । हन्यत इति—दुष्टनिग्रहात्स्वभक्तरक्षणम् एव रक्षेत्यागतम् । उपलक्षणमेतदन्यदापि महाभयात्स्वभक्तरक्षणं रक्षोच्यतेऽत एव षष्ठेऽजामिलादिभक्तानां रक्षोक्ता ॥१४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **रक्षेति । यैर् अवतारैः । अनेनेश-कथा । स्थानं पोषणं चेति त्रयम् उक्तम् ॥१४॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पोषणं तद्-अनुग्रह इति पूर्व-लक्षितं पोषणम् एवात्र रक्षा-शब्देनोच्यते । तां व्याचष्टे रक्षेति । तिर्यग्-आदिषु याच्युतस्यावतारेहा अवतार-कारणं सैव रक्षा, कुत इत्य् अत आह यैर् अवतारैस् त्रयी-द्विषो हन्यन्ते इत्य् अतो दुष्ट-निग्रहात् स्वभक्त-रक्षणम् एव रक्षेत्य् अर्थ आयातः । उपलक्षणम् एतद् अन्यदापि महा-भयात् स्वभक्त-रक्षणं रक्षोच्यते । अत एव षष्ठेऽजामिलादि-भक्तानां रक्षोक्ता ॥१४॥
॥।
॥ १२.७.१५ ॥**
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः ।
ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : षड्-विधं मन्वन्तरम् उच्यते । षड्विधत्वम् एवाह—मनुर् इति ।मन्वादयः षड् एते वर्गाः स्व-स्वाधिकारेण, यदा प्रवर्तन्ते तन् मन्वन्तरम् इत्य् अर्थः ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—एषां प्रवृत्तिकाल एव मन्वन्तरम् इति भावः ॥१५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मन्वन्तरम् इति । मन्व्-आद्य्-आचरण-कथनेन सद्-धर्म एवात्र विवक्षित इत्य् अर्थः । ततश् च प्राक्तन-ग्रन्थेनैकार्थ्यम् ॥१५॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मन्वन्तराणि सद्-धर्म इति पूर्व-लक्षितम् । मन्वन्तरं व्याचष्टे मन्वन्तरम् इति । विदधति स्व-स्व-कृत्यं कुर्वन्तीति विधा मन्वादयस् ते षट्, यत्र तत् षड्-विधम् इत्य् अर्थः । मन्वादयः षड् स्व-स्वाधिकारेण, यत्र प्रवर्तन्ते तन् मन्वन्तरम् इत्य् अर्थः ॥१५॥
॥।
॥ १२.७.१६ ॥**
राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिकोऽन्वयः ।
वंशानुचरितं तेषां वृत्तं वंश-धराश् च ये ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वंशम् आह—राज्ञाम् इति । ब्रह्मणः सकाशात् प्रसूतिर् येषां शुद्धानाम् इत्य् अर्थः । तेसाम् अन्वयो वंशः । तेषां वृत्तम् । ये च तद्-वंशधरास् तेषां च वृत्तं वंशानुचरितम् उच्यते ॥१६॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—इदं चकारेण ज्ञेयम् इति भावः । वृत्तं शीलम् । तद्वंशधराः प्रियव्रतध्रुवपृथ्वादयः ॥१६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ब्रह्म-प्रसूतानां ब्रह्मत आरब्धानाम् इत्य् अर्थः । तेषां राज्ञां ये च वंश-धरास् तेषां वृत्तं वंश्यानुचरितम् ॥१६॥ [तत्त्व-सन्दर्भः ६२]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वंशं व्याचष्टे—राज्ञाम् इति । ब्रह्मणः सकाशात् प्रसूतिर् येषां तेषाम् अन्वयो वंशः । वंशानुचरितं व्याचष्टे—तेषां मध्ये ये वंश-धराः प्रसिद्धाः प्रियव्रत-ध्रुव-पृथ्व्-आदयस् तेषां वृत्तं चरित्रं वंशानुचरितम् उच्यते । एतद्-द्वयं पूर्वम् ईशानुकथायाम् एवान्तर्भावितम् ॥१६॥
॥।
॥ १२.७.१७ ॥**
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अस्य विश्वस्य । स्वभावतो मायातो निष्पन्नस्य । यद् वा, मायातो यश् चतुर्-विधो लय इति ॥१७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वस्यैव शक्तिरूपेण भवनं स्वभावो माया न केवलं मायातो लय एव किन्तु प्रलयोऽपीत्य् आह—यद्वेति । अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तानिधनान्येव इति श्रीमुखोक्तेः ॥१७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अस्य परमेश्वरस्य । स्वभावतो मायाख्य-स्वाभाविक-शक्तितः । आत्यन्तिक इत्य् अनेन मुक्तिर् अप्य् अत्र प्रवेशिता ॥१७॥ [तत्त्व-सन्दर्भः ६३]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वोक्त-निरोध-शब्द-वाच्यां संस्थां व्याचष्टे । नैमित्तिक इति । अस्य विश्वस्य स्वभावतः स्वस्य भावेषु कारणेषु पृथिव्य्-आदि-तत्त्वेषु क्रमेण लयः संस्थोच्यते ॥१७॥
॥।
॥ १२.७.१८ ॥**
हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः ।
यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य जगतः सर्गादेर् हेतुर् निमित्तं जीवः, सोऽत्र हेतुर् उच्यत इत्य् अर्थः । तस्य निमित्तताम् आह—अविद्यया कर्म-कारकः कर्म-कर्ता । जीवादृष्ट-प्रयुक्तत्वाद् विश्व-सर्गादेः, स तु तत्र हेतुर् इत्य् अर्थः । नन्व् अनुशयी निमित्तम् इति केचित्, अव्याकृतम् इत्य् अपरे, तत्राह—यम् इति । चैतन्य-प्राधान्येनानुशयिनम्, उपाधि-प्राधान्य-विवक्षयाव्याकृतम् ॥१८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—जीव एव स्वकर्मद्वारा सृष्टिकारणम् इति भावः । तस्य जीवस्य । इत्य् अर्थ इति— जीवसमुदायसुखदुःखप्राप्तये तं हेतुं कृत्वा जगतः सृष्ट्यादिकमस्तीति भावः । अत्राशङ्कते—नन्व् इति । यं जीवम् । उपाधिः प्रकृतिः । चक्रवर्तिकारस्तु—अस्य सर्गादेजीवः कारणं स चाविद्यया कर्म कर्ता जीवार्थम् एव भगवता विश्वस्य कृतत्वाज्जीवो निमित्तम् इति भावः । अत एव यमनुशयिनं मायिकोपाधिमनुशयानं मायिकशरीरवरमेवैके प्राहुः । अपरभक्तास्तु—आविद्यककर्मकर्तारं जीवं साधुसङ्गवशाद्भक्तिमार्गस्थत्वे सति अव्याकृतं चिन्मयपार्षदशरीरवन्तमप्याहुः । अप्यर्थे उत् शब्दः । तद्-उक्तं नारदेन—शुद्धां भागवती तनुम् । आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः इति । वेदस्तवारम्भेपि—
बुद्धीन्द्रियमनःप्राणाञ्जनानामसृजत्प्रभुः ।
मात्रार्थं च भवार्थश् च आत्मने कल्पनाय च ॥ इति ।
आत्मनेऽकल्पनाय बुद्धीन्द्रियमनःप्राणान्संप्रापयितुम् इति तत्रार्थः । एतन्मत एव नवमं लक्षणं पूर्वत्रोक्तम् । मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः इति विशेषेण चिद्धनशरीरत्वेनावस्थितिर् इति तत्र व्याख्येति विश्वनाथः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : हेतुर् निमित्तम् । अस्य विश्वस्य । यतोऽयम् अविद्यया कर्म-कारकः । यम् एव हेतुं केचिच् चैतन्य-प्राधानेन्आनुशयिनं कर्म-वासना-युक्तं जीवं प्राहुः । अपरे उपाधि-प्राधान्येन्आव्याकृतं प्रधानम् ॥१८॥ [तत्त्व-सन्दर्भ ६३]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हेतुं व्याचष्टे—अस्य जगतः सर्गादेर् हेतुर् निमित्तं जीवः । स चाविद्या-कर्म-कारकः अविद्यया कर्म-कर्ता । जीवार्थम् एव भगवता विश्वस्य सर्गादेः कृतत्वाज् जीवो निमित्तम् इति भावः । अत एव यम् अनुशयिनं मायिकोपाधिम् अनुशयानं मायिक-शरीरवन्तम् एवैके प्राहुः । अपरे भक्तास् तु आविद्यक-कर्म-कर्तारं जीवं साधु-सङ्ग-वशात् भक्ति-मार्ग-स्थत्वे सति अव्याकृतम् अप्राकृतं चिन्मय-पार्षद-शरीरवन्तम् अपि प्राहुः । अप्य्-अर्थे उत-शब्दः ।
यद् उक्तं नारदेन—
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [भा।पु। १.६.२९] इति ।
अत एवोक्तं वेद-स्तवारम्भे—
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः ।
मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ [भा।पु। १०.८७.२] इति ।
आत्मने कल्पनाय बुद्धीन्द्रिय-मनः-प्राणान् सम्प्रापयितुम् इति तत्रार्थः । एतन्-मत एव नवमं लक्षणं पूर्वत्रोक्तम्—मुक्तिर् हित्वान्यथा-रूपं [भा।पु। २.१०.६] इति विशेषेण चिद्-घन-शरीरत्वेनावस्थितिर् इति तत्र व्याख्या ॥१८॥
॥।
॥ १२.७.१९ ॥**
व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु ।
माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपाश्रयम् आह—व्यतिरेकेति । जाग्रद्-आदिष्व् अवस्थासु जीवतया वर्तन्त इति जीव-वृत्तयो विश्व-तैजस-प्राज्ञास् तेषु माया-मयेषु साक्षितयान्वयः समाध्य्-आदौ च व्यतिरेको यस्य तद् ब्रह्म संसार-प्रतीति-बाधयोर् अधिष्ठानावधि-भूतम् अपाश्रय उच्यत इत्य् अर्थः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समाध्याहाविदादिना मूर्छाग्रहः । समाधौ स्वरूपावस्थानेन मूर्छायां प्रतीत्यभावेन च व्यतिरेकः ॥१९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-बादरायण-समाधि-लब्धार्थ-विरोधाद् अत्र च जीव-शुद्ध-स्वरूपम् एवाश्रयत्वेन न व्याख्यायते, किन्त्व् अयम् एवार्थः—जाग्रद्-आदिष्व् अवस्थासु, माया-मयेषु माया-शक्ति-कल्पितेषु महद्-आदि-द्रव्येषु च जीव-वृत्तिषु शुद्ध-जीव-स्वरूपासु स्व-शक्ति-वृत्तिषु च केवल-स्वरूपेण व्यतिरेकः परम-साक्षितयान्वयश् च यस्य, तद् ब्रह्म चापाश्रय उच्यते । तस्माद् अपकृष्टानाम् अन्येषां समस्तानाम् आश्रय इत्य् अर्थः । जीवानां वृत्तिषु—शुद्ध-स्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्व् अपाश्रयः सर्वम् अतिक्रम्याश्रय इत्य् अर्थः । अप इत्य् एतत् खलु वर्जने, वर्जनं चातिक्रमे पर्यवस्यतीति ।_।_१९॥ [तत्त्व-सन्दर्भ ६३]
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अपाश्रयं व्याचष्टे—व्यतिरेकेति । जाग्रत्-स्वप्न-सुषुप्तिष्व् अवस्थासु । तथा माया-मयेषु सर्वेष्व् एव पदार्थेषु यस्य हेतुतया अन्वयः । तेभ्यो व्यतिरेकश् च । तद् ब्रह्म अपाश्रय उच्यते ॥१९॥
॥।
॥ १२.७.२०-२१ ॥**
पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु ।
बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम् ॥**
विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् ।
योगेन वा तदात्मानं वेदेहाय निवर्तते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव सदृष्टान्तं प्रपञ्चयति—पदार्थेषु घटादिषु द्रव्यं मृद्-आदि यथा युतम् अन्वितम् अयुतं च बहिर् अप्य् अवस्थानात् । रूप-नामसु च सन्-मात्रं सत्ता-मात्रं यथा । एवं बीजं गर्भाधानम् आदिर् यासां पञ्चतान्तो यासां तासु देहावस्थासु नवस्व् अप्य् अधिष्ठानत्वेन साक्षित्वेन च युतम् अयुतं च यत् तद् अपाश्रय इति ॥२०॥
एवं दशापि लक्षणानि व्याख्याय—दशमस्य विषुद्ध्य्-अर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मनः [भा।पु। २.१०.२] इति यद् उक्तं, तद् आह—विरमेतेति । यदा सर्गादीनां मायामयत्वानुसन्धानेन वामदेवादेर् इव स्वयम् एव चित्तं विरमेत । इहैवानुष्ठितेन योगेन वा देवहूत्य्-आदिवत् । तदा विक्षेपाभावाद् आत्मानं वेद । तदा चाविद्या-निवृत्तेर् ईहायाः संसार-रूपाया निवर्तत इत्य् अर्थः ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतद् एवान्वयव्यतिरेकत्वम् एव । रूपनामस्व् इति—समीपस्थे मेरुरयमित्य् उक्ते मेरुरूपे सत्तान्वयः, दूरस्थेन मेरुरित्य् उक्ते तु मेरुदर्शनाभावान्मेरुनाम्न्येव सत्तान्वयः । यद् वा, रूपनामयुक्तेषु पदार्थेष्व् इति योज्यम् । नवावस्थास्तु—
निषेकगर्भजन्मानि बाल्यकैशोरयौवनम् ।
वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥
इत्येकादशस्कन्धे स्वयं भगवतैवोक्ताः ।
अधिष्ठानत्वेन युतं साक्षित्वेनायुतम् ॥ वृत्तित्रयं जाग्रदादित्रयम् । वामदेव ऋषिविशेषः । आदिना दत्तात्रेयादिग्रहः । द्वितीयादिनासुर्यादिग्रहः । इत्य् अर्थ इति—ईहानिवृत्तेर् एव मोक्षत्वात्—
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतोऽभवत्यत्र ब्रह्म समश्नुते ॥
इति श्रुतेरयं भावः ॥२०-२१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवम् अपाश्रयाभिव्यक्ति-द्वार-भूतं हेतु-शब्द-व्यपदिष्टस्य जीवस्य शुद्ध-स्वरूप-ज्ञानम् आह द्वाभ्याम्—पदार्थेषु इति । रूप-नामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्यादि युतम् अयुतं च भवति । कार्य-दृष्टिं विनाप्य् उपलम्भात्। तथा तन्-मात्रं शुद्धं जीव-चैतन्य-मात्रं वस्तु गर्भाधानादि-पञ्चतान्तासु नवस्व् अप्य् अवस्थास्व् अविद्यया युतं स्वतस् त्व् अयुतम् इति शुद्धम् आत्मानम् इत्थं ज्ञात्वा निर्विण्णः सन्न् अपाश्रयानुसन्धान-योग्यो भवतीत्य् आह विरमेतेति । वृत्ति-त्रयं जाग्रत्-स्वप्न-सुषुप्ति-रूपम् । आत्मानं परमात्मानम् । स्वयं वासुदेवादेर् इव मायामयत्वानुसन्धानेन देव त्यादेर् इवानिष्ठितेन योगेन वा । ततश् चेहायास् तद्-अनुशीलन-व्यतिरिक्त-चेष्टायाः ॥ [तत्त्व-सन्दर्भ ६३]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव स-दृष्टान्तं प्रपञ्चयति । पदार्थेषु घटादिषु द्रव्यं मृदादि यथा युतम् अन्वितं, अयुक्तं च बहिर्-अवस्थानात् । रूप-नामसु वाच्य-वाचक-वस्तुषु यथा तन्-मात्रं गन्धादिकं च । तथैव बीजादि-पञ्चतास् तासु बीजं गर्भाधानम् आदिर् यासां पञ्चता अन्तो यासां तासु देहावस्थासु अधिष्ठितत्वेन साक्षित्वेन च युतम् अयुतं च यत् तद् अपाश्रयः ॥२०॥
एवं दश-लक्षणानि व्याख्यायेदानीं—दशमस्य विषुद्ध्य्-अर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मनः [भा।पु। २.१०.२] इति यद् उक्तं तद् आह—विरमेतेति । जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३] इति न्यायेन केवलया श्रवण-कीर्तनादि-भक्त्यैव स्वयम् एव वृत्ति-त्रयं हित्वाचित्तं स्वयम् एव विरमेत गुणेभ्यो विरतं स्यात् । भगवच्-चरणारविन्दे विशेषेण रमेत वा । योगेनाष्टाङ्ग-योगेन वा विरमेत चित्तं निर्वाणं स्यात्, तदा आत्मानं वेद । परमात्मानम् अनुभवन्ति, तदैव ईहाया वैषयिकात् कामात् निवर्तते ॥२१॥
॥।
॥ १२.७.२२ ॥**
एवं-लक्षण-लक्ष्याणि पुराणानि पुरा-विदः ।
मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुराण-विभाग-प्रस्तावेन तल्-लक्षणादि-प्रासङ्गिकम् उक्त्वा प्रस्तुतम् आह, एवं-विधैर् लक्षणैर् लक्ष्याणि ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.७.२३-२४ ॥**
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडम् ।
नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम् ॥**
भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-षट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुराविदः अतीतानागतविदो व्यासादयो मुनयः । क्षुल्लकानि श्लोकसङ्ख्या परिमितानि न त्वर्थतः, कानिचिदर्थतः शब्दतः फलतश् च महान्ति ॥ त्रिरावृत्ताः षट् त्रिषट् । शैवे तु—
ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् ।
श्लोकानां दशसाहस्रं नाना पुण्यकथायुतम् ।
पाद्मं द्वितीयं कथितं तृतीयं वैष्णवं स्मृतम् ।
चतुर्थं वायुना प्रोक्तं वायवीयम् इति स्मृतम् ।
ततो भागवतं प्रोक्तं भागद्वयविभूषितम ।
चतुर्भिः पर्वभिः प्रोक्तं भविष्यं तदनन्तरम । मार्कण्डेयमथाग्नेयं नारदीय ततः परम् ।
दशमं ब्रह्मवैवर्तं लिङ्गम् एकादशं स्मृतम ।
भागद्वयेन लिङ्गं च ततो वाराहमत्तमम ।
संयुक्तमष्टभिः खण्डः स्कान्दं चैवातिविस्तरम् ।
ततस् तु वामनं कौर्मं भागद्वयविराजितम् ।
मात्स्यं च गारुडं प्रोक्तं ब्रह्माण्डं च ततः परम् ।
भागद्वयेन कथितं ब्रह्माण्डम् अपि शब्दितम् ।
इदं ब्रह्मपुराणस्य खिलं सौरमनुत्तमम् ।
संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ।
आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता । इति ।
कौर्मे तु—अन्यान्युपपुराणानि मुनिभिः कथितान्यपि मात्स्ये तु—
अष्टादशभ्यस् तु पृथक् पुराणं यत् प्रदृश्यते ।
विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ।
पञ्चाङ्गवत्पुराणं स्यादाख्यानमितरत्स्मृतम् ।
पाद्मे पुराणे या प्रोक्ता नारसिंहोपवर्णना ।
तदष्टादशसाहस्रं नारसिंहमिहोच्यते ।
यच्च साम्बं पुरस्कृत्य भविष्येऽपि कथानकम् ।
प्रोच्यते तत्पुनर्लोके साम्बम् एव मुनीश्वरः ।
एवमादित्यसंज्ञं च तत्रैव परिभाषितम् । इति सन्दर्भः ॥२२-२४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तथा च वाराहे—
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥
आग्नेयम् अष्टमं प्रोक्तं भविष्यं नवमं तथा ।
दशमं ब्रह्म-वैवर्तं लिङ्गम् एकादशं तथा ॥
वाराहं द्वादशं प्रोक्तं स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डाष्टादशं तथा ॥
शैव-पुराणे—
ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् ।
श्लोकानां दश-साहस्रं नन-पुण्य-कथा-युतम् ॥
पाद्मं द्वितीयं कथितं तृतीयं वैष्णवं स्मृतम् ।
चतुर्थं वायुना प्रोक्तं वायवीयम् इति स्मृतम् ॥
ततो भागवतं प्रोक्तं भाग-द्वय-विभूषितम् ।
चतुर्भिः पञ्चभिः प्रोक्तं भविष्यं तद्-अनन्तरम् ॥
मार्कण्डेयम् अथो ज्ञेयं नारदीयम् अतः परम् ।
दशमं ब्रह्म-वैवर्तं लिङ्गम् एकादशं स्मृतम् ॥
भाग-द्वयेन लिङ्गं च ततो वाराहम् उत्तमम् ।
संयुक्तम् अष्टभिः खण्डैः स्कान्दं चैवात्र विस्तरम् ॥
ततस् तु वामनं कौर्मं भाग-द्वय-विराजितम् ।
मात्स्यं च गारुडं प्रोक्तं ब्रह्माण्डं च ततः परम् ॥
भाग-द्वयेन कथितं ब्रह्माण्डम् अपि संज्ञितम् ।
इदं ब्रह्म-पुराणस्य खिलं सौरम् अनुत्तमम् ॥
संहिता-द्वय-संयुक्तं पुण्यं शिव-कथाश्रयम् ।
आद्या सनत्-कुमारोक्ता द्वितीया सूर्य-भाषिता ॥
कूर्म-पुराणे—
अन्यान्य् उपपुराणानि मुनिभिः कथितान्य् अपि ॥
मात्स्ये—
अष्टादशभ्यस् तु पृथक् षुराणं यत् प्रदृश्यते ।
विजानीध्वं द्विज-श्रेष्ठास् तद् एतेभ्यो विनिर्गतः ॥
पञ्चाङ्गवत् पुराणं स्याद् आख्यानम् इतरं स्मृतम् ।
पाद्मं पुराणे या प्रोक्ता नरसिंहोपवर्णना ॥
तद् अष्टादश-साहस्रं नारसिंहम् इहोच्यते ।
यच् च साम्बं पुरस्कृत्य भविष्येऽपि कथा-नवम् ॥
प्रोच्यते तत् पुनर् लोके साम्बम् एव मुनि-व्रतैः ।
एवम् आदित्य-संज्ञं च तत्रैव परिपठ्यते ॥२४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिषट् अष्टादश ॥२३-२४॥
॥।
॥ १२.७.२५ ॥**
ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः ।
शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम् ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपसंहरति—ब्रह्मन्न् इति । मुनेर् व्यासस्य । शिष्यादीनां च । ब्रह्म-तेजो ब्रह्म-वर्चसं तद्-विवर्धनम् । श्रोतॄणाम् इति शेषः ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्रह्मन्न् इति । व्याख्यात-चरी संबुद्धिः । ब्रह्म-वर्चसं यद्यपि ब्राह्मण एवास्ति, तथापीतरेषाम् अपि वेदोक्त-कर्म-कारित्वेन यथा कथञ्चित् तद् अस्त्य् एव, तत्-तत्-कर्म-फलाधिक्यं भवतीति भावः ॥२५॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे सप्तमोऽध्यायः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : शाखा-प्रणयनम् इति पुराणेतिहासानां शाखा-स्थानीयत्वाद् इत्य् अभिप्रायः शिष्याः साक्षाद्-उपदेश्याः शिष्य-प्रशिष्याः शिष्याणां शिष्य-परम्पराः ॥२५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनेर् व्यासस्य, शिष्याणां शिष्याः, तेषाम् अपि प्रशिष्याः, तेषां शाखा-प्रणयनं, ब्रह्म-तेजो-विवर्धनम् इति श्रोतॄणाम् इति शेषः ॥२५॥
॥।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
पुराण-लक्षण-वर्णनं नाम
सप्तमोऽध्यायः ।
॥ १२.७ ॥
…
(१२.८)